Books / Skanda Purāṇa — Sanskrit Text

3. Skanda Purāṇa (part 3 of 9)

खण्डः ३ (ब्रह्मखण्डः) · धर्मारण्य खण्डः — Adhyāya 26

।। व्यास उवाच ।। ।।

मार्कंडेयोद्धाटितं वै स्वर्गद्वारमपावृतम् ।।

तत्र ये देहसंत्यागं कुर्वंति फलकांक्षया ।। १ ।।

लभंते तत्फलं ह्यंते विष्णोः सायुज्यमाप्नुयुः ।।

अतः किं बहुनोक्तेन द्वारवत्यां सदा नरैः ।। २ ।।

देहत्यागः प्रकर्तव्यो विष्णोर्लोकजिगीषया ।।

अनाशके जले वाग्नौ ये च संति नरोत्तमाः ।।

सर्वपापविनिर्मुक्ता यांति विष्णोः पुरीं सदा ।। ३ ।।

अन्योपि व्याधिरहितो गच्छेदनशनं तु यः ।।

सर्वपाप विनिर्मुक्तो याति विष्णोः पुरीं नरः ।। ४ ।।

शतवर्षसहस्राणां वसेदंते दिवि द्विजः ।।

ब्राह्मणेभ्यः परं नास्ति पवित्रं पावनं भुवि ।। ५ ।।

उपवासै स्तथा तुल्यं तपः कर्म्म न विद्यते ।।

नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरु ।। ६ ।।

न धर्मात्परमस्तीह तपो नानशनात्परम् ।।

स्नात्वा यः कुरुते ऽत्रापि श्राद्धं पिंडोदकक्रियाम् ।। ७ ।।

तृप्यंति पितरस्तस्य यावद्ब्रह्मदिवानिशम् ।।

तत्र तीर्थे नरः स्नात्वा केशवं यस्तु पूजयेत् ।।८ ।।

स मुक्तपातकैः सर्वेर्विष्णुलोकमवाप्नुयात् ।।

तीर्थानामुत्तमं तीर्थं यत्र संनिहितो हरिः ।। ९ ।।

हरते सकलं पापं तस्मिंस्तीर्थे स्थितस्य सः ।।

मुक्तिदं मोक्षकामानां धनदं च धनार्थिनाम् ।।

आयुर्दं सुखद चैव सर्वकामफलप्रदम् ।।3.2.26.१०।।

किमन्येनात्र तीर्थेन यत्र देवो जनार्द्दनः ।।

स्वयं वसति नित्यं हि सर्वेषामनुकम्पया ।। ११ ।।

तत्र यद्दीयते किचिद्दानं श्रद्धासमन्वितम् ।।

अक्षयं तद्भवेत्सर्वमिह लोके परत्र च ।। १२ ।।

यज्ञैर्दानैस्तपो भिश्च यत्फलं प्राप्यते बुधैः ।।

तदत्र स्नानमात्रेण शूद्रैरपि सुसेवकैः ।। १३ ।।

तत्र श्राद्धं च यः कुर्यादेकादश्यामुपोषितः ।।

स पितॄनुद्धरे त्सर्वान्नरकेभ्यो न संशयः ।। १४ ।।

अक्षय्यां तृप्तिमाप्नोति परमात्मा जनार्द्दनः ।।

दीयतेऽत्र यदुद्दिश्य तदक्षय्यमुदाहृतम् ।। १५ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये द्वारिकामाहात्म्यवर्णनंनाम षड्विंशोऽध्यायः ।। २६ ।।।छ।।। ।।

खण्डः ३ (ब्रह्मखण्डः) · धर्मारण्य खण्डः — Adhyāya 27

।। ।। सूत उवाच ।। ।।

तत्र तस्य समीपस्थं मार्कंडेनोपलक्षितम् ।।

तीर्थं गोवत्ससंज्ञं तु सर्वत्र भुवि संश्रुतम् ।। १ ।।

तत्रावतीर्य गोवत्सस्वरूपेणांबिकापतिः ।।

स्वयंभूलिंगरूपेण संस्थितो जगतां पतिः ।। २ ।।

आसीद्बलाहकोनाम रुद्रभक्तो महाबलः ।।

आखेटकसमायुक्तो नृपः परपुरंजयः ।। ३ ।।

मृगयूथे स्थितं दृष्ट्वा गोवत्सं तत्पदातिना ।।

उक्तो राजा मया दृष्टं कौतुकं नृपसत्तम ।। ४ ।।

गोवत्सो मृगयूथस्य दृष्टो मध्यस्थितो मया ।।

तेषामेवानुरक्तोऽसौ जनन्या रहितस्तथा ।। ५ ।।

द्रष्टुं तु कौतुकं राजा तं पदातिं पुरः स्थितम् ।।

उवाच दर्शयस्वेति गोवत्सं च समाविशत् ।। ६ ।।

गत्वाटवीं तदा राज्ञो दर्शितः स पदातिना ।।

पदातिभिर्मृगानीकं दुद्राव त्रासितं यदा ।। ७ ।।

पीलुगुल्मं प्रति गतं गोवत्सः प्रस्थितस्तदा ।।

राजा तद्धरणाकांक्षो प्राविशद्गुल्ममादरात् ।। ८ ।।

तत्र स्थितं स गोवत्समपश्यन्नृपतिः स्वयम् ।।

यावद्गृह्णाति तं तावल्लिंगं जातं समुज्वलम् ।। ९ ।।

तं दृष्ट्वा विस्मितो राजा किमेतदित्यचिंतयत् ।।

यावच्चिंतयते ह्येवं देहं त्यक्त्वा दिवं गतः ।। 3.2.27.१० ।।

अत्रांतरे गगनतले समंततः श्रूयते सुरजयकारगर्जितम् ।।

पपात पुष्पवृष्टिरंबराद्राजा गतः शिवभुवनं च तत्क्षणात् ।। ११ ।।

तावत्पश्यति तन्नाभ्यं गोवत्सं बालकं स्थितम् ।।

नूनमेष महादेवो वत्सरूपी महेश्वरः ।। १२ ।।

तमानेतुं समुद्युक्तो राजा तमुज्जहार च ।।

तदा तद्देव लिंगं तु नोत्तिष्ठति कथंचन ।।

तदा देवाः सहानेन प्रार्थयामासुरीश्वरम् ।। १३ ।।

।। देवा ऊचुः ।। ।।

भगवन्सर्वदेवेश स्थातव्यं भवता विभो।।

शुक्लेन लिंगरूपेण सर्वलोकहितैषिणा ।। १४ ।।

।। श्रीमहादेव उवाच ।।

स्थास्याम्यहं सदैवात्र लिंगरूपेण देवताः ।।

यस्माद्भाद्रपदे मासि कृष्णपक्षे कुहू दिने ।। १५ ।।

तथा तद्दिवसे तत्र स्नानं कृत्वा विधानतः ।।

लिंगं ये पूजयिष्यंति न तेषां विद्यते भयम् ।। १६ ।।

ऋते च पिंडदानेन पूर्वजाः शाश्वतीः समाः ।।

रौरवे नरके घोरे कुंभीपाके च ये गताः ।। १७ ।।

अनेकनरकस्थाश्च तिर्यग्योनिगताश्च ये ।।

सकृत्पिंडप्रदानेन स्यात्ते षामक्षया गतिः ।। १८ ।।

ततो बलाहको राजा सर्वदेवसमन्वितः ।।

स्थापयामास तल्लिंगं सर्वदेवसमीपतः ।। १९ ।।

चकार बहुदानानि लोकानां हितकाम्यया ।।

यावदर्चयते ह्येवं रुद्रोऽपि स्वयमागतः ।। 3.2.27.२० ।।

।। रुद्र उवाच ।। ।।

अस्यां रात्रौ तु मनुजाः श्रद्धाभक्तिसमन्विताः ।।

येर्चयिष्यंति देवेशं तेषां पुण्यमनंतकम् ।। २१ ।।

जागरं ये करिष्यंति गीतशास्त्रपुरःसरम् ।।

उद्धरिष्यंति ते मर्त्याः कुलमेकोत्तरं शतम् ।। २२।।

तावद्गर्ज्जंति तीर्थानि नैमिषं पुष्करं गया ।।

प्रयागं च प्रभासं च द्वारका मथुराऽर्बुदः ।। २३ ।।

यावन्न दृश्यते लिंगं गोवत्सं परमाद्भुतम्।।

यदा हि कुरुते भावं गोवत्सगमनं प्रति ।। २४ ।।

स्ववंशजास्तदा सर्वे नृत्यंति हर्षिता ध्रुवम् ।। २५ ।।

।। सूत उवाच ।। ।।

यच्चान्यदद्भुतं तत्र वृत्तांतं शृणु त द्विजा ।।

येन वै श्रुतमात्रेण सर्वपापक्षयो भवेत् ।। २६ ।।

यदा वै स्थापितं लिंगं सर्वदेवैः पुरातनम् ।।

विष्णोः प्रतिष्ठानगुणात्सर्वेषां च दिवौक साम् ।। २७ ।।

अणुमात्रप्रमाणेन प्रत्यहं समवर्द्धत ।।

ततस्ते मनुजा देवा भीतास्तं शरणं ययुः ।। २८ ।।

।। देवा ऊचुः ।। ।।

वृद्धिं संहर देवेश लोका नां स्वस्ति तद्भवेत्।।

एवमुक्ते ततो लिंगाद्वागुवाचाशरीरिणी।।२९।।

।। शिववाण्युवाच ।। ।।

हे लोका मा भयं वोऽस्तु उपायः श्रूयतामयम् ।।

कश्चिच्चंडालमानीय मत्पुरः स्थाप्यतां धुवम् ।।3.2.27.३०।।

चंडालांश्च समानीय दधुर्देवस्य ते पुरः।।

तथापि तस्य वृद्धिस्तु नैव निर्वर्तते पुनः ।।३१।।

वागुवाच ।।

कर्म्मणा यस्तु चंडालः सोऽग्रे मे स्थाप्यतां जनाः ।।

तच्छ्रुत्वा महदाश्चर्यं मतिं चकुर्विलोचने ।। ३२ ।।

मार्गमाणास्तदा ते तु ग्रामाणि च पुराणि च ।।

कञ्चित्कर्मरतं पापं ददृशुर्ब्राह्मणब्रुवम् ।।३३।।

वृषभान्भारसंयुक्तान्मध्याह्नेवाहयत्तु सः ।।

क्षुत्तृट्श्रमपरीतांश्च दुर्बलान्क्रूरमानसः ।।३४।।

अस्नात्वापि पर्युषितं भक्षयंतीह वै द्विजाः ।।

तं समादाय देवेशं जग्मुर्यत्र जगद्गुरुः ।। ३५ ।।

देवालयाग्रभूमौ तं स्थापयासुरादृताः ।।

भस्मी बभूव सहसा गोवत्साग्रे निरूपितः ।। ३६ ।।

चंडालस्थल इत्येष प्रसिद्धोसौऽभवत्क्षितौ ।।

तत्र स्थितैर्न चाद्यापि प्रासादो दश्यते हि सः ।। ।। ३७ ।।

तदाप्रभृति तल्लिंगं साम्यभावमुपागतम् ।।

धौतपाप्मा गतस्तीर्थं द्विजो लिंगनिरीक्षिणात् ।। ३८ ।।

प्रत्यहं पूजयामास गोवत्सं गत किल्बिषः ।।

विशेषात्कृष्णपक्षस्य चतुर्द्दश्यां समागतः ।। ३९ ।।

एतत्तदद्भुतं तस्य देवस्य च त्रिशूलिनः ।।

शृणुयाद्यो नरो भक्त्या सर्वपापैः प्रमुच्यते ।। 3.2.27.४० ।।

।। भूत उवाच ।। ।।

गोवत्समिति विख्यातं नराणां पुण्यदं परम् ।।

अनेकजन्मपापघ्नं मार्कंडेयेन भाषितम् ।। ४१ ।।

तत्र तीर्थे सकृत्स्नानं रुद्रलोकप्रदं नृणाम् ।।

पापदेहविशुद्धयर्थं पापेनोपहतात्मनाम् ।। ४२ ।।

कूपे तर्पणतश्चैव श्राद्धतश्चैव तृप्तता ।।

भाद्रपदे विशे षेण पक्षस्यांते भवेत्कलौ ।। ४३ ।।

एकविंशतिवारांस्तु गयायां तर्पणे कृते ।।

पितॄणां परमा तृप्तिः सकृद्वै गंगकूपके ।। ४४ ।।

तस्मिन्गोवत्ससामीप्ये तिष्ठते गंगकूपकः ।।

तस्मिंस्तिलोदकेनापि सद्गतिं यांति तर्पिताः ।। ४५ ।।

पितरो नरकाद्वापि सुपुण्येन सुमेधसा ।।

गोप्रदानं प्रशंसंति तस्मिंस्तीर्थे मुनीश्वराः ।। ४६ ।।

विप्राय स्वर्णदानं तु रुद्रलोके नयेन्नरम् ।।

सरस्वतीशिवक्षेत्रे गंगा च गंगकूपके ।। ४७ ।।

एकस्थमेतत्त्रितयं स्वर्गापवर्गकारणम् ।।

सेवितं चर्षिभिः सिद्धैस्तीर्थं सर्वत्र विश्रुतम् ।। ४८ ।।

पीलुयुग्मं स्थितं तत्र तत्तीर्थं मुनिसेवितम् ।।

स्नानात्स्वर्गप्रदं चैव पानात्पापविशुद्धिदम् ।। ४९ ।।

कीर्त्तनात्पुण्यजननं सेवनान्मुक्तिदं परम् ।।

तद्वै पश्यंति ये भक्त्या ब्रह्महा यदि मातृहा ।। ।। 3.2.27.५० ।।

बालघाती च गोघ्नश्च ये च स्त्रीशूद्रघातकाः ।।

गरदाश्चाग्निदाश्चैव गुरुद्रोहरताश्च ये ।। ५१ ।।

तपस्विनिन्दकाश्चैव कूटसाक्ष्यं करोति यः ।।

वक्ता च परदोषस्य परस्य गुणलोपकः ।। ५२ ।।

सर्वपापमयोऽप्यत्र मुच्यते लिंगदर्शनात् ।। ५३ ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पातालखण्डे धर्मारण्यमाहात्म्ये बलाहकोपाख्यानवर्णनंनाम सप्तविंशोऽध्यायः ।। २७ ।।

खण्डः ३ (ब्रह्मखण्डः) · धर्मारण्य खण्डः — Adhyāya 28

।। व्यास उवाच ।।

गोवत्सान्नैर्ऋते भागे दृश्यते लोहयष्टिका ।।

स्वयंभुलिंगरूपेण रुद्रस्तत्र स्थितः स्वयम् ।।

।। श्रीमार्कण्डेय उवाच ।। ।।

मोक्षतीर्थे सरस्वत्या नभस्ये चंद्रसंक्षये ।।

विप्रान्संपूज्य विधिवत्तेभ्यो दत्त्वा च दक्षिणाम् ।। १ ।।

एकविंशतिवारांस्तु भक्त्या पिंडस्य यत्फलम् ।।

गयायां प्राप्यते पुंसां ध्रुवं तदिह तर्प्पणात् ।। २ ।।

लोहयष्ट्यां कृते श्राद्धे नभस्ये चंद्रसंक्षये ।।

प्रेतयोनिविनिर्मुक्ताः क्रीडंति पितरो दिवि ।। ३ ।।

अपि नः संकुले भूयाद्यो वै दद्यात्तिलोदकम् ।।

पिंडं वाप्युदकं वापि प्रेतपक्षे विधूदये ।। ३ ।।

लोहयष्ट्याममावस्यां कार्यं भाद्रपदे जनैः ।।

श्राद्धं वै मुनयः प्राहुः पितरो यदि वल्लभाः ।। ५ ।।

क्षीरेण तु तिलैः श्वेतैः स्नात्वा सारस्वते जले ।।

पितॄंस्तर्पयते यस्तु तृप्तास्तत्पितरो ध्रुवम् ।। ६ ।।

तत्र श्राद्धानि कुर्वीत सक्तुभिः पयसा सह ।।

अमावास्यादिनं प्राप्य पितॄणां मोक्षमिच्छकैः ।। ७ ।।

रुद्रतीर्थे ततो धेनुं दद्याद्वस्त्रादिभूषिताम् ।।

विष्णुतीर्थे हिरण्यं च प्रदद्यान्मोक्षमिच्छुकः ।। ८ ।।

गयायां पितृरूपेण स्वयमेव जनार्दनः ।।

तं ध्यात्वा पुंडरीकाक्षं मुच्यते च ऋणत्रयात् ।। ९ ।।

प्रार्थयेत्तत्र गत्वा तं देवदेवं जनार्दनम् ।।

आगतोऽस्मि गयां देव पितृभ्यः पिंडदित्सया ।।

एष पिंडो मया दत्तस्तव हस्ते जनार्दन ।। 3.2.28.१० ।।

परलोकगतेभ्यश्च त्वं हि दाता भविष्यसि ।।

अनेनैव च मंत्रेण तत्र दद्याद्धरेः करे ।। ११ ।।

चंद्रे क्षीणे चतुर्दश्यां नभस्ये पिंडमाहरेत् ।।

पितॄणामक्षया तृप्तिर्भविष्यति न संशयः ।। १२ ।।

एकविंशतिवारांश्च गयायां पिंडपातनैः ।।

भक्त्या तृप्तिमवाप्नोति लोहयष्ट्यां पितृतर्प्पणे ।। १३ ।।

वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमत्र हि ।।

फलप्रदः सुतान्भक्तानारोग्यमभयप्रदः।।१४।।

वित्तं न्यायार्जितं दत्तं स्वल्पं तत्र महाफलम् ।।

स्नानेनापि हि तत्तीर्थे रुद्रस्यानुचरो भवेत् ।।१५।।

इति श्रीस्कांदे महापुराणे एकाकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये संक्षेपतस्तीर्थमाहात्म्य वर्णनं नामाष्टविंशोऽध्यायः ।। २८ ।। ।।

खण्डः ३ (ब्रह्मखण्डः) · धर्मारण्य खण्डः — Adhyāya 29

सूत उवाच ।। ।।

अतः परं शृणुध्वं हि लोहासुरविचेष्टितम् ।।

बलेः पुत्रशतस्यापि कथयिष्यामि विश्रुतम् ।। १ ।।

यथा तौ भ्रातरौ वृद्धौ प्रापतुः स्थानमुत्तमम्।।

तदा प्रभृति वैराग्यं दैत्यो लोहासुरे दधौ ।। २ ।।

किं करोमि क्व गच्छामि तपसे स्थानमुत्तमम् ।।

यस्य पारं न जानंति देवता मुनयो नराः ।। ३ ।।

को मयाऽऽराध्यतां देवो हृदि चिंतयते भृशम् ।।

इति चिंतयतस्तस्य मतिर्जाता महात्मनः ।। ४ ।।

दधौ गंगां स्वशीर्षेण पुष्पवंतौ च नेत्रयोः ।।

हृदा नारायणं देवं ब्रह्माणं कटिमंडले ।। ५ ।।

इंद्राद्या देवताः सर्वे यद्देहे प्रतिबिंबिताः ।।

प्रपश्यंति तदात्मानं भास्करः सलिले यथा ।। ६ ।।

तमेवाराधयिष्यामि निरंजनमकल्मषः ।।

एवं कृत्वा मतिं दैत्य स्तपस्तेपे सुदुष्करम् ।।

भीतो जन्मभयाद्घोराद्दुष्करं यन्महात्मभिः ।। ७ ।।

अंबुभक्षो वायुभक्षः शीर्णपर्णाशनस्तथा ।।

दिव्यं वर्षशतं साग्रं यदा तेपे महत्तपः ।।

ततस्तुतोष भगवांस्त्रिशूलवरधारकः ।। ८ ।।

।। ईश्वर उवाच ।। ।।

वरं वृणीष्व भद्रं ते मनसा यदभीप्सितम् ।।

लोहासुर मया देयं तव नास्ति तपोबलात् ।। ९ ।।

इत्युक्तो दानवस्तत्र शंकराग्रे वचोऽब्रवीत् ।। 3.2.29.१० ।।

।। लोहासुर उवाच ।। ।।

यदि तुष्टोसि देवेश वरमेकं वृणोम्यहम् ।।

शरीरस्याजरत्वं च मा मृत्योरपि मे भयम् ।। ११ ।।

जन्मन्यस्मिन्प्रभो भूयात्स्थातव्यं हृदये मम ।।

एवमस्तु शिवः प्राह तत्र तं दानवेश्वरम् ।। १२ ।।

शर्वलब्धवरो दैवात्पुनस्तेपे महत्तपः ।।

रम्ये सरस्वतीतीरे तरणाय भवार्णवात् ।। १३ ।।

वत्सराणां सहस्राणि प्रयुतान्यर्बुदानि च ।।

शंकते भगवानिंद्रो भीतस्तस्य तपोबलात् ।। १४ ।।

मा मे पदच्युतिर्भूयाद्दैत्यल्लोहासुरात्क्वचित् ।।

मघवान्गुप्तरूपेण समेत्याश्रमकाननम् ।। १५ ।।

तपोभंगं प्रकुरुते कंपयित्वा महासुरम् ।।

ताडयंति शरीरे तं मुष्टिभिस्तीक्ष्णकर्कशैः ।। १६ ।।

अथ तेन च दैत्येन ध्यानमुत्सृज्य वीक्षितम् ।।

इंद्रेण तत्कृतं सर्वं तपोबलविनाशनम् ।। १७ ।।

तस्य तैरभवद्युद्धमिंद्राद्यैरथ कर्क्कशैः ।।

एकस्य बहुभिः सार्द्धं देवास्ते तेन संयुगे ।। १८ ।।

रुधिराक्लिन्नदेहा वै प्रहारैर्जर्जरीकृताः ।।

केशवं शरणं प्राप्ता त्राहि त्राहीति भाषिणः ।। १९ ।। ।।

।। सूत उवाच ।। ।।

देवानां वाक्यमाकर्ण्य वासुदेवो जनार्दनः ।।

युयुधे केशवस्तेन युद्धे वर्षशतं किल ।। 3.2.29.२० ।।

ततो नारायणं तत्र जिगाय स वरोर्जितः ।।

अथ नारायणो देवो जितो लोहासुरेण तु ।। २१ ।।

मंत्रयामास रुद्रेण ब्रह्मणा च पुनःपुनः ।।

मीमांसित्वा त्रयो देवाः पुनर्युद्धसमुद्यमम् ।। २२ ।।

लोहासुरस्य दैत्यस्य वपुर्दृष्ट्वा पुनर्नवम् ।।

महदासीत्पुनर्युद्धं दैत्यकेशवयोस्ततः ।। २३ ।।

न ममार यदा दैत्यो विष्णुना प्रभविष्णुना ।।

तरसा तं केशवोऽपि पातयामास भूतले ।। २४ ।।

उत्तानं पतितं दृष्ट्वा पिनाकी परमेश्वरः ।।

दधार हृदये तस्य स्वरूपं रूपवर्जितः ।। २५ ।।

कण्ठे तस्थौ ततो ब्रह्मा तस्य लोहासुरस्य च ।।

चरणौ पीडयामास स्वस्थित्या पुरुषोत्तमः ।। २६ ।।

अथ दैत्यः समुत्तस्थौ भृशं बद्धोपि भूतले ।।

दृष्ट्वोत्थितं ततो दैत्यं पातयंतं सुरोत्तमान् ।। २७ ।।

उवाच दिव्यया वाचा विरंचिः कमलासनः ।। २८ ।। ।।

।। ब्रह्मोवाच ।। ।।

लोहासुर सदा रक्ष वाचोधर्ममभीक्ष्णशः ।।

त्वया यत्प्रार्थितं रुद्रात्तदेव समुपस्थितम् ।। २९ ।।

अहं विष्णुश्च रुद्रश्च त्रयोऽमी सुरसत्तमाः ।।

त्वद्देहमुपवेक्ष्यामो यावदाभूतसंप्लवम् ।। 3.2.29.३० ।।

दानवेश शिवप्राप्तिर्भावभक्त्यैव जायते ।।

शिवं चालयितुं बुद्धिः कथं तव भविष्यति ।। ३१ ।।

अचलांश्चालयेद्यस्तु प्रासादान्ब्राह्मणान्पुरान् ।।

अचिरेणैव कालेन पातकेनैव लिप्यते ।। ३२ ।।

श्मशानवत्परित्याज्यः सत्यधर्मबहिष्कृतः ।।

सत्यवागसि भद्रं ते मा विचालय देवताः ।। ३३ ।।

येन यातास्तु पितरो येन याताः पितामहाः ।।

तेन मार्गेण गंतव्यं न चोल्लंघ्या सतां गतिः ।। ३४ ।।

दानवेश पिता ते हि ददौ लोकत्रयं हरेः ।।

वाक्पाशबद्धः पाताले राज्यं चक्रे महीपतिः ।। ३५ ।।

तथा त्वमसि वाक्पाशाच्छिवभक्तिसमन्वितः ।।

भूतले तिष्ठ दैत्येंद्र मा वाग्वैकल्प्यमाप्नुहि ।। ३६ ।।

वरांस्ते च प्रदास्यामो मा विचाल्या हि देवताः ।। ३७ ।। ।।

।। व्यास उवाच ।। ।।

तच्छ्रुत्वा ब्रह्मणो वाक्यं संतुष्टो दानवेश्वरः ।।

प्राह प्रसन्नया वाचा ब्रह्माणं केशवं हरम् ।। ३८ ।।

।। लोहासुर उवाच ।। ।।

वाक्पाशबद्धस्तिष्ठामि न पुनर्भवतां बले ।।

ब्रह्मा विष्णुश्च रुद्रश्च त्रयोऽमी सुरसत्तमाः ।। ३९ ।।

स्थास्यंति चेच्छरीरे मे किं न लब्धं मया ततः ।।

इदं कलेवरं मे हि समारूढं त्रिभिः सुरैः ।। 3.2.29.४० ।।

भूम्यां भवतु विख्यातं मत्प्रभावात्सुरोत्तमाः ।। ४१ ।।

लोहासुरस्य वाक्येन हर्षिता स्त्रिदशास्त्रयः ।।

ददुः प्रत्युत्तरं तस्मै ब्रह्मविष्णुमहेश्वराः ।। ४२ ।।

सत्यवाक्पाशतो दैत्यो न सत्याच्चलितो यतः ।।

तेन सत्येन संतुष्टा दास्या मस्ते मनीप्सितम् ।। ४३ ।।

।। ब्रह्मोवाच ।। ।।

यथा स्नानं ब्रह्मज्ञानं देहत्यागो गयातले ।।

धर्मारण्ये तथा दैत्य धर्म्मेश्वरपुरः स्थिते ।। ४४ ।।

कूपे तर्प्पणकं श्राद्धं शंसंति पितरो दिवि ।।

संतुष्टा पिंडदानेन गयायां पितरो यथा ।। ४५ ।।

वांछंति तर्प्पणं कूपे धर्मारण्ये विशुद्धये ।।

दानवेन्द्र शरीरं तु तीर्थं तव भविष्यति ।। ४६ ।।

एकविंशतिवारांस्तु गयायां तर्प्पणे कृते ।।

पितॄणां या परा तृप्तिर्जायते दानवाधिप ।। ४७ ।।

धर्मेश्वर पुरस्तात्सा त्वेकदा पितृतर्पणात् ।।

स्याद्वै दशगुणा तृप्तिः सत्यमेव न संशयः ।। ४८ ।।

पितॄणां पिंडदानेन अक्षय्या तृप्तिरस्त्विह ।।

शिवरूपांतराले वै धर्मारण्ये धरातले ।।४९।।

श्रद्धयैव हि कर्त्तव्याः श्राद्धपिंडोदकक्रियाः ।।

तथांतराले चास्माकं श्राद्धपिंडौ विशेषतः ।। 3.2.29.५० ।।

तथा शरीरे क्वापिस्तांचिंता सत्योऽसि सुव्रत।।

त्रिषु लोकेषु दुष्प्रापं सत्यं ते दिवि संस्थितम् ।।५१।।

अस्मद्वाक्येन सत्येन तत्तथाऽसुरसत्तम ।।

गयासमधिकं तीर्थं तव जातं धरातले।।५२।।

अस्माकं स्थितिरव्यग्रा तव देहे न संशयः ।।

सत्यपाशेन बद्धाः स्म दृढमेव त्वयाऽनघ।।५३।।

।। विष्णुरुवाच ।। ।।

गयाप्रयाग कस्याऽपि फलं समधिकं स्मृतम् ।।

चतुर्द्दश्याममावास्यां लोहयष्ट्यां पिंडदानतः ।। ५४ ।।

बलिपुत्रस्य सत्येन महती तृप्तिरत्र हि ।।

मा कुरुष्वात्र संदेहं तव देहे स्थिता स्वयम् ।। ५५ ।।

सरस्वती पुण्यतोया ब्रह्मलोकात्प्रयात्युत ।।

प्लावयिष्यंति देहांगं मया सह सुसंगता ।।५६।।

यथो वै द्वारका वासो देवस्तत्र महेश्वरः ।।

विरंचिर्यत्र तीर्थानि त्रीण्येतानि धरातले ।। ५७ ।।

भविष्यति च पाताले स्वर्गलोके यमक्षये ।।

विख्यातान्यसुरश्रेष्ठ पि तॄणां तृप्तिहेतवे ।।५८।।

अथान्यत्संप्रवक्ष्यामि गाथां पितृकृतां पराम् ।।

आज्ञारूपां हि पुत्राणां तां शृणुष्व ममानघ ।।५९।।

पितर ऊचुः।।

शंकरस्याग्रतः स्थानं रुद्रलोकप्रदं नृणाम् ।।

पापदेहविशुद्ध्यर्थं पापेनोपहतात्मनाम् ।।3.2.29.६०।।

तस्मिंस्तिलोदकेनापि सद्गतिं यांति तर्पिताः ।।

पितरो नरकाद्वा पि सुपुत्रेण सुमेधसा ।। ६१ ।।

गोप्रदानं प्रशंसंति तत्तत्र पितृमुक्तये ।।

पित्रादिकान्समुद्दिश्य दृष्ट्वा रुद्रं च केशवम् ।।६२।।

तिलपिण्याकपिंडेन तृप्तिं यास्यामहे पराम् ।।

चतुर्द्दश्याममावास्यां तथा च पितृतर्पणम् ।। ६३ ।।

अज्ञातगोत्रजन्मानस्तेभ्यः पिंडांस्तु निर्वपेत् ।।

तेऽपि यांति दिवं सर्वे ये दत्त इति श्रुतिः ।। ६४ ।।

सर्वकार्याणि संत्यज्य मानवैः पुण्यमीप्सुभिः ।।

प्राप्ते भाद्रपदे मासे गंतव्या लोहयिष्टका ।।

अज्ञातगोत्रनाम्ना तु पिंड मंत्रमिमं शृणु ।। ६५ ।।

पितृवंशे मृता ये च मातृवंशे तथैव च ।।

अतीतगोत्रजास्तेभ्यः पिंडोऽयमुपतिष्ठतु ।। ६६ ।।

।। विष्णुरुवाच ।। ।।

अनेनैव तु मंत्रेण ममाग्रे सुरसत्तम ।।

क्षीणे चंद्रे चतुर्द्दश्यां नभस्ये पिंडमाहरेत् ।। ६७ ।।

पितॄणामक्षया तृप्तिर्भविष्यति न संशयः ।।

तिलपिण्याकपिंडेन पितरो मोक्षमाप्नुयुः ।। ६८ ।।

क्षणत्रयविनिर्मुक्ता मानवा जगतीतले ।।

भविष्यंति न संदेहो लोहयष्ट्या तिलतर्पणे ।। ६९ ।।

स्नात्वा यः कुरुते चात्र पितृपिंडोदकक्रियाः ।।

पितरस्तस्य तृप्यंति यावद्ब्रह्मदिवानिशम् ।। 3.2.29.७० ।।

अमावास्यादिनं प्राप्य मासि भाद्रपदे सरः ।।

ब्रह्मणो यष्टिकायां तु यः कुर्यात्पितृतर्पणम् ।। ७१ ।।

पितरस्तस्य तृप्ताः स्युर्यावदाभूतसंप्लवम् ।।

तेषां प्रसन्नो भगवानादिदेवो महेश्वरः ।। ७२ ।।

अस्य तीर्थस्य यात्रायां मतिर्येषां भविष्यति ।।

गोक्षीरेण तिलैः श्वेतैः स्नात्वा सारस्वते जले ।। ७३ ।।

तर्पयेदक्षया तृप्तिः पितॄणां तस्य जायते ।।

श्राद्धं चैव प्रकु र्वीत सक्तुभिः पयसा सह ।। ७४ ।।

अमावास्यादिनं प्राप्य पितॄणां मोदमिच्छुकः ।।

रुद्रतीर्थे ततो धेनुं दयाद्वस्त्राणि यमतीर्थके ।। ७५ ।।

विष्णुतीर्थे हिरण्यं च पितॄणां मोक्षमिच्छुकः ।।

विनाक्षतैर्विना दर्भैर्विना चासनमेव च ।।

वारिमात्राल्लोहयष्ट्यां गयाश्राद्धफलं लभेत् ।। ७६ ।।

।। सूत उवाच ।। ।।

एतद्वः कथितं विप्रा लोहासुरविचेष्टितम् ।।

यच्छ्रुत्वा ब्रह्महा गोघ्नो मुच्यते सर्वपातकैः ।। ७७ ।।

एकविंशतिवारन्तु गयायां पिंड पातने ।।

तत्फलं समवाप्नोति सकृदस्मिञ्छ्रुते सति ।। ७८ ।।

चतुःष्कोटि द्विलक्षं च सहस्रं शतमेव च ।।

धेनवस्तेन दत्ताः स्युर्माहात्म्यं शृणु यात्तु यः ।। ७९ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये लोहासुरमाहात्म्यसंपूर्तिर्नामैकोनत्रिंशोऽध्यायः ।। २९ ।। ।। छ ।।

खण्डः ३ (ब्रह्मखण्डः) · धर्मारण्य खण्डः — Adhyāya 30

।। व्यास उवाच ।। ।।

पुरा त्रेतायुगे प्राप्ते वैष्णवांशो रघूद्वहः ।।

सूर्यवंशे समुत्पन्नो रामो राजीवलोचनः ।। १ ।।

स रामो लक्ष्मणश्चैव काकपक्षधरावुभौ ।।

तातस्य वचनात्तौ तु विश्वामित्रमनुव्रतौ ।। २ ।।

यज्ञसंरक्षणार्थाय राज्ञा दत्तौ कुमारकौ ।।

धनुःशरधरौ वीरौ पितुर्वचनपालकौ ।। ३ ।।

पथि प्रव्रजतो यावत्ताडकानाम राक्षसी ।।

तावदागम्य पुरतस्तस्थौ वै विघ्नकारणात् ।। ।। ४ ।।

ऋषेरनुज्ञया रामस्ताडकां समघातयत्।।

प्रादिशच्च धनुर्वेदविद्यां रामाय गाधिजः ।।५।।

तस्य पादतलस्पर्शाच्छिला वासवयोगतः ।।

अहल्या गौतमवधूः पुनर्जाता स्वरूपिणी ।। ६ ।।

विश्वामित्रस्य यज्ञे तु संप्रवृत्ते रघूत्तमः ।।

मारीचं च सुबाहुं च जघान परमेषुभिः ।।७।।

ईश्वरस्य धनुर्भग्नं जनकस्य गृहे स्थितम् ।।

रामः पंचदशे वर्षे षड्वर्षां चैव मैथिलीम् ।। ८ ।।

उपयेमे तदा राजन्रम्यां सीतामयोनिजाम् ।।

कृतकृत्यस्तदा जातः सीतां संप्राप्य राघवः ।। ९ ।।

अयोध्यामगमन्मार्गे जामदग्न्यमवेक्ष्य च ।।

संग्रामोऽभूत्तदा राजन्देवानामपि दुःसहः ।। 3.2.30.१० ।।

ततो रामं पराजित्य सीतया गृहमागतः ।।

ततो द्वादशवर्षाणि रेमे रामस्तया सह ।। ११ ।।

एकविंशतिमे वर्षे यौवराज्यप्रदायकम् ।।

राजानमथ कैकेयी वरद्वयमयाच त ।। १२ ।।

तयोरेकेन रामस्तु ससीतः सहलक्ष्मणः ।।

जटाधरः प्रव्रजतां वर्षाणीह चतुर्दश ।। १३ ।।

भरतस्तु द्वितीयेन यौवराज्याधिपोस्तु मे ।।

मंथरावचनान्मूढा वरमेतमयाचत ।। १४ ।।

जानकीलक्ष्मणसखं रामं प्राव्राजयन्नृपः ।।

त्रिरात्रमुदकाहारश्चतुर्थेह्नि फलाशनः ।। १५ ।।

पञ्चमे चित्रकूटे तु रामो वासमकल्पयत् ।।

तदा दशरथः स्वर्गं गतो राम इति ब्रुवन् ।। १६ ।।

ब्रह्मशापं तु सफलं कृत्वा स्वर्गं जगाम किम् ।।

ततो भरत शत्रुघ्नौ चित्रकूटे समागतौ ।। १७ ।।

स्वर्गतं पितरं राजन्रामाय विनिवेद्य च ।।

सांत्वनं भरतस्यास्य कृत्वा निवर्तनं प्रति ।। १८ ।।

ततो भरत शत्रुघ्नौ नंदिग्रामं समागतौ ।।

पादुकापूजनरतौ तत्र राज्यधरावुभौ ।। १९ ।।

अत्रिं दृष्ट्वा महात्मानं दण्डकारण्यमागमत ।।

रक्षोगणवधारम्भे विराधे विनिपातिते ।। 3.2.30.२० ।।

अर्द्धत्रयोदशे वर्षे पंचवट्यामुवास ह ।।

ततो विरूपयामास शूर्पणखां निशाचरीम् ।।

वने विचरतरतस्य जानकीसहितस्य च ।। २१ ।।

आगतो राक्षसो घोरः सीतापहरणाय सः ।।

ततो माघासिताष्टम्यां मुहूर्ते वृन्दसंज्ञके ।। २२ ।।

राघवाभ्यां विना सीतां जहार दश कन्धरः ।।

मारीचस्याश्रमं गत्वा मृगरूपेण तेन च ।। २३ ।।

नीत्वा दूरं राघवं च लक्ष्मणेन समन्वितम् ।।

ततो रामो जघानाशु मारीचं मृगरू पिणम् ।। २४ ।।

पुनः प्राप्याश्रमं रामो विना सीतां ददर्श ह ।।

तत्रैव ह्रियमाणा सा चक्रंद कुररी यथा ।। २५ ।।

रामरामेति मां रक्ष रक्ष मां रक्षसा हृताम्।।

यथा श्येनः क्षुधायु्क्तः क्रन्दंतीं वर्तिकां नयेत् ।। २६ ।।

तथा कामवशं प्राप्तो राक्षसो जनकात्मजाम् ।।

नयत्येष जनकजां तच्छ्रुत्वा पक्षिराट् तदा ।। २७ ।।

युयुधे राक्षसेंद्रेण रावणेन हतोऽपतत् ।।

माघासितनवम्यां तु वसंतीं रावणालये ।। २८ ।।

मार्गमाणौ तदा तौ तु भ्रातरौ रामलक्ष्मणौ ।। २९ ।।

जटायुषं तु दृष्ट्वैव ज्ञात्वा राक्षससंहृताम् ।।

सीतां ज्ञात्वा ततः पक्षी संस्कृतस्तेन भक्तितः ।। 3.2.30.३० ।।

अग्रतः प्रययौ रामो लक्ष्मणस्तत्पदानुगः ।।

पंपाभ्याशमनुप्राप्य शबरीमनुगृह्य च ।।३१।।

तज्जलं समुपस्पृश्य हनुमद्दर्शनं कृतम् ।।

ततो रामो हनुमता सह सख्यं चकार ह ।। ३२ ।।

ततः सुग्रीवमभ्येत्य अहनद्वालिवानरम् ।।

प्रेषिता रामदेवेन हनुमत्प्रमुखाः प्रियाम् ।। ३३ ।।

अंगुलीयकमादाय वायुसूनुस्तदागतः ।।

संपातिर्दशमे मासि आचख्यौ वानराय ताम् ।।३४।।

ततस्तद्वचनादब्धिं पुप्लुवे शतयोजनम् ।।

हनुमान्निशि तस्यां तु लंकायां परितोऽचिनोत्।।३५।।

तद्रात्रिशेषे सीताया दर्शनं तु हनूमतः ।।

द्वादश्यां शिंशपावृक्षे हनुमान्पर्यवस्थितः ।। ३६ ।।

तस्यां निशायां जानक्या विश्वासायाह संकथाम् ।।

अक्षादिभिस्त्रयोदश्यां ततो युद्धमवर्त्तत ।। ३७ ।।

ब्रह्मास्त्रेण त्रयोदश्यां बद्धः शक्रजिता कपिः ।।

दारुणानि च रूक्षाणि वाक्यानि राक्षसाधिपम् ।। ।। ३८ ।।

अब्रवीद्वायुसूनुस्तं बद्धो ब्रह्मास्त्रसंयुतः ।।

वह्निना पुच्छयुक्तेन लंकाया दहनं कृतम् ।। ३९ ।।

पूर्णिमायां महेंद्राद्रौ पुनरागमनं कपेः ।।

मार्गशीर्षप्रतिपदः पंचभिः पथि वासरैः ।। 3.2.30.४० ।।

पुनरागत्य वर्षेह्नि ध्वस्तं मधुवनं किल ।।

सप्तम्यां प्रत्यभिज्ञानदानं सर्वनिवेदनम् ।। ४१ ।।

मणिप्रदानं सीतायाः सर्वं रामाय शंसयत् ।।

अष्टम्युत्तरफाल्गुन्यां मुहूर्ते विजयाभिधे ।। ४२ ।।

मध्यं प्राप्ते सहस्रांशौ प्रस्थानं राघवस्य च ।।

रामः कृत्वा प्रतिज्ञां हि प्रयातुं दक्षिणां दिशम्।। ४३ ।।

तीर्त्वाहं सागरमपि हनिष्ये राक्षसेश्वरम् ।।

दक्षिणाशां प्रयातस्य सुग्रीवोऽथाभव त्सखा ।। ४४ ।।

वासरैः सप्तभिः सिंधोस्तीरे सैन्यनिवेशनम् ।।

पौषशुक्लप्रतिपदस्तृतीयां यावदंबुधौ ।।

उपस्थानं ससैन्यस्य राघवस्य बभूव ह।।४५।।

विभीषणश्चतुर्थ्यां तु रामेण सह संगतः ।।

समुद्रतरणार्थाय पंचम्यां मंत्र उद्यतेः ।। ४६ ।।

प्रायोपवेशनं चक्रे रामो दिनचतुष्टयम् ।।

समुद्राद्वरलाभश्च सहोपायप्रदर्शनः ।। ४७ ।।

सेतोर्दशम्यामारंभस्त्रयोदश्यां समापनम् ।।

चतुर्दश्यां सुवेलाद्रौ रामः सेनां न्यवे शयत् ।। ४८ ।।

पूर्णिमास्या द्वितीयायां त्रिदिनैः सैन्यतारणम् ।।

तीर्त्वा तोयनिधिं रामः शूरवानरसैन्यवान् ।। ४९ ।।

रुरोध च पुरीं लंकां सीतार्थं शुभलक्षणः ।।

तृतीयादिदशम्यंतं निवेशश्च दिनाष्टकः ।। 3.2.30.५० ।।

शुकसारणयोस्तत्र प्राप्तिरेकादशीदिने ।।

पौषासिते च द्वादश्यां सैन्यसंख्यानमेव च ।। ५१ ।।

शार्दूलेन कपींद्राणां सारासारोपवर्णनम् ।।

त्रयोदश्याद्यमांते च लंकायां दिवसैस्त्रिभिः ।। ५२ ।।

रावणः सैन्यसं ख्यानं रणोत्साहं तदाऽकरोत् ।।

प्रययावंगदो दौत्ये माघशुक्लाद्यवासरे ।। ५३ ।।

सीतायाश्च तदा भर्तुर्मायामूर्धादिदर्शनम् ।।

माघशुक्लद्वितीया यां दिनैः सप्तभिरष्टमीम् ।। ५४ ।।

रक्षसां वानराणां च युद्धमासीच्च संकुलम् ।।

माघशुक्लनवम्यां तु रात्राविंद्रजिता रणे ।। ५५ ।।

रामलक्ष्मणयोर्ना गपाशबंधः कृतः किल ।।

आकुलेषु कपीशेषु हताशेषु च सर्वशः ।। ५६ ।।

वायूपदेशाद्गरुडं सस्मार राघवस्तदा ।।

नागपाशविमोक्षार्थं दशम्यां गरु डोऽभ्यगात् ।। ५७ ।।

अवहारो माघशुक्लैस्यैकादश्यां दिनद्वयम् ।।

द्वादश्यामांजनेयेन धूम्राक्षस्य वधः कृतः ।। ५८ ।।

त्रयोदश्यां तु तेनैव निहतोऽकंपनो रणे ।।

मायासीतां दर्शयित्वा रामाय दशकंधरः ।। ५९ ।।

त्रासयामास च तदा सर्वान्सैन्यगतानपि ।।

माघशुक्लचतुर्द्दश्यां यावत्कृष्णादिवासरम् ।। 3.2.30.६० ।।

त्रिदिनेन प्रहस्तस्य नीलेन विहितो वधः ।।

माघकृष्णद्वितीयायाश्चतुर्थ्यंतं त्रिभिर्दिनैः ।। ६१ ।।

रामेण तुमुले युद्धे रावणो द्रावितो रणात् ।।

पञ्चम्या अष्टमी यावद्रावणेन प्रबोधितः ।। ६२ ।।

कुंभकर्णस्तदा चक्रेऽभ्यवहारं चतुर्दिनम् ।।

कुम्भकर्णोकरोद्युद्धं नवम्यादिचतुर्दिनैः ।। ६३ ।।

रामेण निहतो युद्धे बहुवानरभक्षकः ।।

अमावास्यादिने शोकाऽभ्यवहारो बभूव ह ।। ६४ ।।

फाल्गुनप्रतिपदादौ चतुर्थ्यंतैश्चतुर्दिनैः ।।

नरांतकप्रभृतयो निहताः पञ्च राक्षसाः ।। ६५ ।।

पंचम्याः सप्तमीं यावदतिकायवधस्त्र्यहात् ।।

अष्टम्या द्वादशीं यावन्निहतो दिनपंचकात् ।। ६६ ।।

निकुम्भकुम्भौ द्वावेतौ मकराक्षश्चतुर्दिनैः ।।

फाल्गुनासितद्वितीयाया दिने वै शक्रजिज्जितः ।। ६७ ।।

तृतीयादौ सप्तम्यंतदिनपञ्चकमेव च ।।

ओषध्यानयवैयग्र्यादवहारो बभूव ह ।। ६८ ।।

अष्टम्यां रावणो मायामैथिलीं हतवान्कुधीः।।

शोकावेगात्तदा रामश्चक्रे सैन्यावधारणम् ।। ६९ ।।

ततस्त्रयोदशीं यावद्दिनैः पंचभिरिंद्रजित् ।।

लक्ष्मणेन हतो युद्धे विख्यातबलपौरुषः ।। 3.2.30.७० ।।

चतुर्द्दश्यां दशग्रीवो दीक्षामापावहारतः ।।

अमावास्यादिने प्रागाद्युद्धाय दशकंधरः ।। ७१ ।।

चैत्रशुक्लप्रतिपदः पंचमीदिनपंचके ।।

रावणो युध्यमानो ऽभूत्प्रचुरो रक्षसां वधः ।। ७२ ।।

चैत्रशुक्लाष्टमीं यावत्स्यंदनाश्वादिसूदनम् ।।

चैत्रशुक्लनवम्यां तु सौमित्रेः शक्तिभेदने ।। ७३ ।।

कोपाविष्टेन रामेण द्रावितो दशकंधरः ।।

विभीषणोपदेशेन हनुमद्युद्धमेव च ।। ७४ ।।

द्रोणाद्रेरोषधीं नेतुं लक्ष्मणार्थमुपागतः ।।

विशल्यां तु समादाय लक्ष्मणं तामपाययत् ।। ७५ ।।

दशम्यामवहारोऽभूद्रात्रौ युद्धं तु रक्षसाम् ।।

एकादश्यां तु रामाय रथो मातलिसारथिः ।। ७६ ।।

प्राप्तो युद्धाय द्वादश्यां यावत्कृष्णां चतुर्दशीम् ।।

अष्टादशदिने रामो रावणं द्वैरथेऽवधीत् ।। ७७ ।।

संस्कारा रावणादीनाममावा स्यादिनेऽभवन् ।।

संग्रामे तुमुले जाते रामो जयमवाप्तवान् ।। ७८ ।।

माघशुक्लद्वितीयादिचैत्रकृष्णचतुर्द्दशीम् ।।

सप्ताशीतिदिनान्येवं मध्ये पंवदशा हकम् ।। ७९ ।।

युद्धावहारः संग्रामो द्वासप्ततिदिनान्यभूत् ।।

वैशाखादि तिथौ राम उवास रणभूमिषु ।।

अभिषिक्तो द्वितीयायां लंकाराज्ये विभी षणः ।। 3.2.30.८० ।।

सीताशुद्धिस्तृतीयायां देवेभ्यो वरलंभनम् ।।

दशरथस्यागमनं तत्र चैवानुमोदनम् ।। ८१ ।।

हत्वा त्वरेण लंकेशं लक्ष्मणस्याग्रजो विभुः।।।

गृहीत्वा जानकीं पुण्यां दुःखितां राक्षसेन तु ।। ८२ ।।

आदाय परया प्रीत्या जानकीं स न्यवर्तत ।।

वैशाखस्य चतुर्थ्यां तु रामः पुष्पकमा श्रितः ।। ८३ ।।

विहायसा निवृत्तस्तु भूयोऽयोध्यां पुरीं प्रति ।।

पूर्णे चतुर्दशे वर्षे पंचम्यां माधवस्य च ।। ८४ ।।

भारद्वाजाश्रमे रामः सगणः समु पाविशत् ।।

नंदिग्रामे तु षष्ठ्यां स पुष्पकेण समागतः ।। ८५ ।।

सप्तम्यामभिषिक्तोऽसौ भूयोऽयोध्यायां रघूद्वहः ।।

दशाहाधिकमासांश्च चतुर्दश हि मैथिली ।। ८५ ।।

उवास रामरहिता रावणस्य निवेशने ।।

द्वाचत्वारिंशके वर्षे रामो राज्यमकारयत् ।। ८७ ।।

सीतायास्तु त्रयस्त्रिंशद्वर्षाणि तु तदा भवन् ।।

स चतुर्दशवर्षांते प्रविष्टः स्वां पुरीं प्रभुः ।। ८८ ।।

अयोध्यां नाम मुदितो रामो रावणदर्पहा ।।

भ्रातृभिः सहितस्तत्र रामो राज्यमकार यत् ।। ८९ ।।

दशवर्षसहस्राणि दशवर्षशतानि च ।।

रामो राज्यं पालयित्वा जगाम त्रिदिवालयम् ।। 3.2.30.९० ।।

रामराज्ये तदा लोका हर्षनिर्भरमा नसाः ।।

बभूवुर्धनधान्याढ्याः पुत्रपौत्रयुता नराः ।। ९१ ।।

कामवर्षी च पर्जन्यः सस्यानि गुणवंति च ।।

गावस्तु घटदोहिन्यः पादपाश्च सदा फलाः ।। ९२ ।।

नाधयो व्याधयश्चैव रामराज्ये नराधिप ।।

नार्यः पतिव्रताश्चासन्पितृभक्तिपरा नराः ।। ९३ ।।

द्विजा वेदपरा नित्यं क्षत्रिया द्विज सेविनः ।।

कुर्वते वैश्यवर्णाश्च भक्तिं द्विजगवां सदा ।। ९४ ।।

न योनिसंकरश्चासीत्तत्र नाचारसंकरः ।।

न वंध्या दुर्भगा नारी काकवंध्या मृत प्रजा ।। ९५ ।।

विधवा नैव काप्यासीत्सभर्तृका न लप्यते ।।

नावज्ञां कुर्वते केपि मातापित्रोर्गुरोस्तथा ।। ९६ ।।

न च वाक्यं हि वृद्धानामुल्लं घयति पुण्यकृत् ।।

न भूमिहरणं तत्र परनारीपराङ्मुखाः ।। ९७ ।।

नापवादपरो लोको न दरिद्रो न रोगभाक् ।।

न स्तेयो द्यूतकारी च मैरेयी पापिनो नहि ।। ९८ ।।

न हेमहारी ब्रह्मघ्नो न चैव गुरुतल्पगः ।।

न स्त्रीघ्नो न च बालघ्नो न चैवानृतभाषणः ।। ९९ ।।

न वृत्तिलोपकश्चासीत्कूट साक्षी न चैव हि ।।

न शठो न कृतघ्नश्च मलिनो नैव दृश्यते ।। 3.2.30.१०० ।।

सदा सर्वत्र पूज्यंते ब्राह्मणा वेदपारगाः ।।

नावैष्णवोऽव्रती राजन्राम राज्येऽतिविश्रुते ।। १०१ ।।

राज्यं प्रकुर्वतस्तस्य पुरोधा वदतां वरः ।।

वसिष्ठो मुनिभिः सार्द्धं कृत्वा तीर्थान्यनेकशः ।। २ ।।

आजगाम ब्रह्मपुत्रो महाभागस्तपोनिधिः ।।

रामस्तं पूजयामास मुनिभिः सहितं गुरुम् ।। ३ ।।

अभ्युत्थानार्घपाद्यैश्च मधुपर्कादिपूजया ।।

प्रपच्छ कुशलं रामं वसिष्ठो मुनिपुंगवः ।। ४ ।।

राज्ये चाश्वे गजे कोशे देशे सद्भ्रातृभृत्ययोः ।।

कुशलं वर्त्तते राम इति पृष्टे मुनेस्तदा ।। ५ ।।

।। राम उवाच ।। ।।

सर्वत्र कुशलं मेऽद्य प्रसादाद्भवतः सदा ।।

पप्रच्छ कुशलं रामो वसिष्ठं मुनिपुंगवम् ।। ६ ।।

सर्वतः कुशली त्वं हि भार्यापुत्रसमन्वितः ।।

स सर्वं कथयामास यथा तीर्थान्यशेषतः ।। ७ ।।

सेवितानि धरापृष्ठे क्षेत्राण्यायतनानि च ।।

रामाय कथयामास सर्वत्र कुशलं तदा ।। ८ ।।

ततः स विस्मयाविष्टो रामो राजीवलोचनः ।।

पप्रच्छ तीर्थमाहात्म्यं यत्तीर्थेषूत्तमोत्तमम् ।। १०९ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये रामचरित्रवर्णनंनाम त्रिंशोऽध्यायः ।। ३० ।। ।। छ ।। ।।

खण्डः ३ (ब्रह्मखण्डः) · धर्मारण्य खण्डः — Adhyāya 31

श्रीराम उवाच ।। ।।

भगवन्यानि तीर्थानि सेवितानि त्वया विभो ।।

एतेषां परमं तीर्थं तन्ममाचक्ष्व मानद ।। १ ।।

मया तु सीताहरणे निहता ब्रह्मराक्षसाः ।।

तत्पापस्य विशुदयर्थं वद तीर्थोत्तमोत्तमम् ।। २ ।।

वसिष्ठ उवाच ।। ।।

गंगा च नर्मदा तापी यमुना च सरस्वती ।।

गंडकी गोमती पूर्णा एता नद्यः सुपावनाः ।। ३ ।।

एतासां नर्मदा श्रेष्ठा गंगा त्रिपथगामिनी ।।

दहते किल्बिषं सर्वं दर्शनादेव राघव ।। ४ ।।

दृष्ट्वा जन्मशतं पापं गत्वा जन्मशतत्रयम् ।।

स्नात्वा जन्मसहस्रं च हंति रेवा कलौ युगे ।। ५ ।।

नर्मदातीरमाश्रित्य शाकमूलफलैरपि ।।

एकस्मिन्भोजिते विप्रे कोटि भोजफलं लभेत ।। ६ ।।

गंगा गंगेति यो ब्रूयाद्योजनानां शतैरपि ।।

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।। ७ ।।

फाल्गुनांते कुहूं प्राप्य तथा प्रौष्ठपदेऽसिते ।।

पक्षे गंगामधि प्राप्य स्नानं च पितृतर्पणम् ।। ८ ।।

कुरुते पिंडदानानि सोऽक्षयं फलमश्नुते ।।

शुचौ मासे च संप्राप्ते स्नानं वाप्यां करोति यः ।। ९ ।।

चतुरशीतिनरकान्न पश्यति नरो नृप ।।

तपत्याः स्मरणे राम महापातकिनामपि ।। 3.2.31.१० ।।

उद्धरेत्सप्तगोत्राणि कुलमेकोत्तरं शतम् ।।

यमुनायां नरः स्नात्वा सर्वपापैः प्रमुच्यते ।। ११ ।।

महापातकयुक्तोऽपि स गच्छेत्परमां गतिम् ।।

कार्त्तिक्यां कृत्तिकायोगे सरस्वत्यां निमज्जयेत् ।। १२ ।।

गच्छेत्स गरुडारूढः स्तूयमानः सुरोत्तमैः ।।

स्नात्वा यः कार्तिके मासि यत्र प्राची सरस्वती ।। १३ ।।

प्राचीं माधवमास्तूय स गच्छेत्परमां गतिम् ।।

गंडकीपुण्यतीर्थे हि स्नानं यः कुरुते नरः ।। १४ ।।

शालग्रामशिलामर्च्य न भूयः स्तनपो भवेत् ।।

गोमतीजलकल्लोलैर्मज्जयेत्कृष्णसन्निधौ ।। १५ ।।

चतुर्भुजो नरो भूत्वा वैकुण्ठे मोदते चिरम् ।।

चर्मण्वतीं नमस्कृत्य अपः स्पृशति यो नरः ।। १६ ।।

स तारयति पूर्वजान्दश पूर्वान्दशापरान् ।।

द्वयोश्च संगमं दृष्ट्वा श्रुत्वा वा सागरध्वनिम् ।। १७ ।।

ब्रह्महत्यायुतो वापि पूतो गच्छेत्परां गतिम् ।।

माघमासे प्रयागे तु मज्जनं कुरुते नरः ।। १८ ।।

इह लोके सुखं भुक्त्वा अन्ते विष्णुपदं व्रजेत् ।।

प्रभासे ये नरा राम त्रिरात्रं ब्रह्मचारिणः ।। १९ ।।

यमलोकं न पश्येयुः कुंभीपाकादिकं तथा ।।

नैमिषारण्यवासी यो नरो देवत्वमाप्नुयात् ।। 3.2.31.२० ।।

देवानामालयं यस्मात्तदेव भुवि दुर्लभम् ।।

कुरुक्षेत्रे नरो राम ग्रहणे चन्द्रसूर्ययोः ।। २१ ।।

हेमदानाच्च राजेंद्र न भूयः स्तनपो भवेत् ।।

श्रीस्थले दर्शनं कृत्वा नरः पापात्प्रमुच्यते ।। २२ ।।

सर्वदुःखविनाशे च विष्णुलोके महीयते ।।

काश्यपीं स्पर्शयेद्यो गां मानवो भुवि राघव ।। ।। २३ ।।

सर्वकामदुघावासमृषिलोकं स गच्छति ।।

उज्जयिन्यां तु वैशाखे शिप्रायां स्नानमाचरेत् ।। २४ ।।

मोचयेद्रौरवाद्घोरात्पूर्वजांश्च सहस्रशः ।।

सिंधुस्नानं नरो राम प्रकरोति दिनत्रयम् ।। २५ ।।

सर्वपापविशुद्धात्मा कैलासे मोदते नरः ।।

कोटितीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरं शिवम् ।। २६ ।।

ब्रह्महत्यादिभिः पापैर्लिप्यते न च स क्वचित् ।।

अज्ञानामपि जंतूनां महाऽमेध्ये तु गच्छताम् ।। ।। २७ ।।

पादोद्भूतं पयः पीत्वा सर्वपापं प्रणश्यति ।।

वेदवत्यां नरो यस्तु स्नाति सूर्योदये शुभे ।। २८ ।।

सर्वरोगात्प्रमुच्येत परं सुखमवाप्नुयात् ।।

तीर्थानि राम सर्वत्र स्नानपानावगाहनैः ।। २९ ।।

नाशयंति मनुष्याणां सर्वपापानि लीलया ।।

तीर्थानां परमं तीर्थं धर्मारण्यं प्रचक्षते ।। 3.2.31.३० ।।

ब्रह्मविष्णुशिवाद्यैर्यदादौ संस्थापितं पुरा ।।

अरण्यानां च सर्वेषां तीर्थानां च विशेषतः ।। ३१ ।।

धर्मारण्यात्परं नास्ति भुक्तिमुक्तिप्रदायकम् ।।

स्वर्गे देवाः प्रशंसंति धर्मारण्यनिवासिनः ।। ३२ ।।

ते पुण्यास्ते पुण्यकृतो ये वसंति कलौ नराः ।।

धर्मारण्ये रामदेव सर्वकिल्बिषनाशने ।। ३३ ।।

ब्रह्महत्यादिपापानि सर्वस्तेयकृतानि च ।।

परदारप्रसंगादि अभक्ष्यभक्षणादि वै ।। ३४ ।।

अगम्यागमना यानि अस्पर्शस्पर्शनादि च ।।

भस्मीभवंति लोकानां धर्मारण्यावगाहनात् ।। ३५ ।।

ब्रह्मघ्नश्च कृतघ्नश्च बालघ्नोऽनृतभाषणः ।।

स्त्रीगोघ्नश्चैव ग्रामघ्रो धर्मारण्ये विमुच्यते ।। ३६ ।।

नातः परं पावनं हि पापिनां प्राणिनां भुवि ।।

स्वर्ग्यं यशस्यमायुष्यं वांछितार्थप्रदं शुभम् ।। ३७ ।।

कामिनां कामदं क्षेत्रं यतीनां मुक्तिदायकम् ।।

सिद्धानां सिद्धिदं प्रोक्तं धर्मारण्यं युगेयुगे ।। ३८ ।।

।। ब्रह्मोवाच ।। ।।

वसिष्ठवचनं श्रुत्वा रामो धर्मभृतां वरः ।।

परं हर्षमनुप्राप्य हृदयानंदकारकम् ।। ३९ ।।

प्रोत्फुल्लहृदयो रामो रोमाचिंततनूरुहः ।।

गमनाय मतिं चक्रे धर्मारण्ये शुभव्रतः ।। ।। 3.2.31.४० ।।

यस्मिन्कीटपतंगादिमानुषाः पशवस्तथा ।।

त्रिरात्रसेवनेनैव मुच्यन्ते सर्वपातकैः ।। ४१ ।।

कुशस्थली यथा काशी शूलपाणिश्च भैरवः ।।

यथा वै मुक्तिदो राम धर्मारण्यं तथोत्तमम् ।। ४२ ।।

ततो रामो महेष्वासो मुदा परमया युतः ।।

प्रस्थितस्तीर्थयात्रायां सीतया भ्रातृभिः सह ।। ४३ ।।

अनुजग्मुस्तदा रामं हनुमांश्च कपीश्वरः ।।

कौशल्या च सुमित्रा च कैकेयी च मुदान्विता ।। ४४ ।।

लक्ष्मणो लक्षणोपेतो भरतश्च महामतिः ।।

शत्रुघ्नः सैन्यसहितोप्ययोध्यावासिनस्तथा ।। ४५ ।।

प्रकृतयो नरव्याघ्र धर्मारण्ये विनिर्ययुः ।।

अनुजग्मुस्तदा रामं मुदा परमया युताः ।। ४६ ।।

तीर्थयात्राविधिं कर्तुं गृहात्प्रचलितो नृपः ।।

वसिष्ठं स्वकुलाचार्यमिदमाह महीपते ।। ४७ ।।

।। श्रीराम उवाच ।। ।।

एतदाश्चर्यमतुलं किमादि द्वारकाभवत् ।।

कियत्कालसमुत्पन्ना वसिष्ठेदं वदस्व मे ।। ४८ ।।

।। वसिष्ठ उवाच ।। ।।

न जानामि महाराज कियत्कालादभूदिदम् ।।

लोमशो जांबवांश्चैव जानातीति च कारणम् ।। ४९ ।।

शरीरे यत्कृतं पापं नानाजन्मांतरेष्वपि ।।

प्रायश्चितं हि सर्वेषामेतत्क्षेत्र परं स्मृतम् ।। 3.2.31.५० ।।

श्रुत्वेति वचनं तस्य रामं ज्ञानवतां वरः ।।

गन्तुं कृतमतिस्तीर्थं यात्राविधिमथाचरत् ।। ५१ ।।

वसिष्ठं चाग्रतः कृत्वा महामांडलिकैर्नृपैः ।।

पुनश्चरविधिं कृत्वा प्रस्थितश्चोत्तरां दिशम् ।। ५२ ।।

वसिष्ठं चाग्रतः कृत्वा प्रतस्थे पश्चिमां दिशम् ।।

ग्रामाद्ग्राममतिक्रम्य देशाद्देशं वनाद्वनम् ।।५३।।

विमुच्य निर्ययौ रामः ससैन्यः सपरिच्छदः ।।

गजवाजिसहस्रौघै रथैर्यानैश्च कोटिभिः।। ।। ५४ ।।

शिबिकाभिश्चासंख्याभिः प्रययौ राघवस्तदा ।।

गजारूढः प्रपश्यंश्च देशान्विविधसौहृदान् ।। ५५ ।।

श्वेतातपत्रं विधृत्य चामरेण शुभेन च ।।

वीजितश्च जनौघेन रामस्तत्र समभ्यगात् ।। ५६ ।।

वादित्राणां स्वनैघोरैर्नृत्यगीतपुरःसरैः ।।

स्तूयमानोपि सूतैश्च ययौ रामो मुदान्वितः ।। ५७ ।।

दशमेऽहनि संप्राप्तं धर्मारण्यमनुत्तमम् ।।

अदूरे हि ततो रामो दृष्ट्वा मांडलिकं पुरम् ।। ५८ ।।

तत्र स्थित्वा ससैन्यस्तु उवास निशि तां पुरीम् ।।

श्रुत्वा तु निर्जनं क्षेत्रमुद्वसं च भयानकम् ।। ५९ ।।

व्याघ्रसिंहाकुलं तत्र यक्षराक्षससेवितम् ।।

श्रुत्वा जनमुखाद्रामो धर्मारण्यमरण्यकम् ।।

तच्छ्रुत्वा रामदेवस्तु न चिंता क्रियतामिति ।। 3.2.31.६० ।।

तत्रस्थान्वणिजः शूरान्दक्षान्स्वव्यवसायके ।। ६१ ।।

समर्थान्हि महाकायान्महाबलपराक्रमान् ।।

समाहूय तदा काले वाक्यमेतदथाब्रवीत् ।। ६२ ।।

शिबिकां सुसुवणां मे शीघ्रं वाहयताचिरम् ।।

यथा क्षणेन चैकेन धर्मरण्यं व्रजाम्यहम् ।। ६३ ।।

तत्र स्नात्वा च पीत्वा च सर्वपापात्प्रमुच्यते ।।

एवं ते वणिजः सर्वै रामेण प्रेरितास्तदा ।। ६४ ।।

तथेत्युक्त्वा च ते सर्वे ऊहुस्तच्छिबिकां तदा ।।

क्षेत्रमध्ये यदा रामः प्रविष्टः सहसैनिकः ।। ।। ६५ ।।

तद्यानस्य गतिर्मंदा संजाता किल भारत ।।

मंदशब्दानि वाद्यानि मातंगा मंदगामिनः ।। ६६ ।।

हयाश्च तादृशा जाता रामो विस्मय मागतः ।।

गुरुं पप्रच्छ विनयाद्वशिष्ठं मुनिपुंगवम् ।। ६७ ।।

किमेतन्मंदगतयश्चित्रं हृदि मुनीश्वर ।।

त्रिकालज्ञो मुनिः प्राह धर्मक्षेत्रमुपागतम् ।। ।। ६८ ।।

तीर्थे पुरातने राम पादचारेण गम्यते ।।

एवं कृते ततः पश्चात्सैन्यसौख्यं भविष्यति ।। ६९ ।।

पादचारी ततौ रामः सैन्येन सह संयुतः ।।

मधुवासनके ग्रामे प्राप्तः परमभावनः ।। 3.2.31.७० ।।

गुरुणा चोक्तमार्गेण मातॄणां पूजनं कृतम् ।।

नानोपहारैर्विविधैः प्रतिष्ठाविधिपूर्वकम् ।। ७३ ।।

ततो रामो हरिक्षेत्रं सुवर्णादक्षिणे तटे ।।

निरीक्ष्य यज्ञयोग्याश्च भूमीर्वै बहुशस्तथा ।। ७२ ।।

कृतकृत्यं तदात्मानं मेने रामो रघूद्वहः ।।

धर्मस्थानं निरीक्ष्याथ सुवर्णाक्षोत्तरे तटे ।। ७३ ।।

सैन्यसंघं समुत्तीर्य्य बभ्राम क्षेत्रमध्यतः ।।

तत्र तीर्थेषु सर्वेषु देवतायतनेषु च ।।७४।।

यथोक्तानि च कर्माणि रामश्चक्रे विधानतः ।।

श्राद्धानि विधिवच्चक्रे श्रद्धया परया युतः ।। ७५ ।।

स्थापयामास रामेशं तथा कामेश्वरं पुनः ।।

स्थानाद्वायुप्रदेशे तु सुवर्णो भयतस्तटे ।। ७६ ।।

कृत्वैवं कृतकृत्योऽभूद्रामो दशरथात्मजः ।।

कृत्वा सर्वविधिं चैव सभायां समुपाविशत् ।। ७७ ।।

तां निशां स नदीतीरे सुष्वाप रघुनंदनः ।।

ततोऽर्द्धरात्रे संजाते रामो राजीवलोचनः ।। ७८ ।।

जागृतस्तु तदा काल एकाकी धर्मवत्सलः ।।

अश्रौषीच्च क्षणे तस्मिन्रामो नारीविरोदनम् ।। ७९ ।।

निशायां करुणैर्वाक्यै रुदंतीं कुररीमिव ।।

चारैर्विलोकयामास रामस्तामतिसंभ्रमात् ।। 3.2.31.८० ।।

दृष्ट्वातिविह्वलां नारीं क्रंदन्तीं करुणैः स्वरैः ।।

पृष्टा सा दुःखिता नारी रामदूतैस्तदानघ ।। ८१ ।।

।। दूता ऊचुः ।। ।।

कासि त्वं सुभगे नारि देवी वा दानवी नु किम् ।।

केन वा त्रासितासि त्वं मुष्टं केन धनं तव ।।८२।।

विकला दारुणाञ्छब्दानुद्गिरंती मुहुर्मुहुः ।।

कथयस्व यथातथ्यं रामो राजाभिपृच्छति।। ।। ८३ ।।

तयोक्तं स्वामिनं दूताः प्रेषयध्वं ममांतिकम् ।।

यथाहं मानसं दुःखं शांत्यै तस्मै निवेदये ।। ८४ ।।

तथेत्युक्त्वा ततो दूता राममागत्य चाब्रुवन् ।। ८५ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये दूतागमनंनामैकत्रिंशो ऽध्यायः ।। ३१ ।। छ ।।

खण्डः ३ (ब्रह्मखण्डः) · धर्मारण्य खण्डः — Adhyāya 32

।। व्यास उवाच ।। ।।

ततश्च रामदूतास्ते नत्वा राममथाब्रुवन् ।।

रामराम महाबाहो वरनारी शुभानना ।। १ ।।

सुवस्त्रभूषाभरणां मृदुवाक्यपरायणाम् ।।

एकाकिनीं क्रदमानाम दृष्ट्वा तां विस्मिता वयम् ।। २ ।।

समीपवर्तिनो भूत्वा पृष्टा सा सुरसुन्दरी ।।

का त्वं देवि वरारोहे देवी वा दानवी नु किम् ।। ३ ।।

रामः पृच्छति देवि त्वां ब्रूहि सर्वं यथातथम् ।।

तच्छ्रुत्वा वचनं रामा सोवाच मधुरं वचः ।। ४ ।।

रामं प्रेषयत भद्रं वो मम दुःखापहं परम् ।। ५ ।।

तदाकर्ण्य ततो रामः संभ्रमात्त्वरितो ययौ ।।

दृष्ट्वा तां दुःखसंतप्तां स्वयं दुःखमवाप सः ।।

उवाच वचनं रामः कृतांजलिपुटस्तदा ।। ६ ।।

।। श्रीराम उवाच ।। ।।

का त्वं शुभे कस्य परिग्रहो वा केनावधूता विजने निरस्ता ।।

मुष्टं धनं केन च तावकीनमाचक्ष्व मातः सकलं ममाग्रे ।। ७ ।।

इत्युक्त्वा चातिदुःखार्तो रामो मतिमतां वरः ।।

प्रणामं दंडवच्चक्रे चक्रपाणिरिवापरः ।।८।।

तयाभिवंदितो रामः प्रगम्य च पुनःपुनः ।।

तुष्टया परया प्रीत्या स्तुतो मधुरया गिरा ।। ९ ।।

परमात्मन्परेशान दुःखहारिन्सनातन ।।

यदर्थमवतारस्ते तच्च कार्यं त्वया कृतम् ।। 3.2.32.१० ।।

रावणः कुम्भकर्णश्च शक्रजित्प्रमुखास्तथा ।।

खरदूषणत्रिशिरोमारीचाक्षकुमारकाः ।। ११ ।।

असंख्या निर्जिता रौद्रा राक्षसाः समरांगणे ।। १२ ।।

किं वच्मि लोकेश सुकीर्त्तिमद्य ते वेधास्त्वदीयांगजपद्मसंभवः ।।

विश्वं निविष्टं च ततो ददर्श वटस्य पत्रे हि यथो वटो मतः ।। १३ ।।

धन्यो दशरथो लोके कौशल्या जननी तव ।।

ययोर्जातोसि गोविंद जगदीश परः पुमान् ।। १४ ।।

धन्यं च तत्कुलं राम यत्र त्वमागतः स्वयम् ।।

धन्याऽयोध्यापुरी राम धन्यो लोकस्त्वदाश्रयः ।। १५ ।।

धन्यः सोऽपि हि वाल्मीकिर्येन रामायणं कृतम् ।।

कविना विप्रमुख्येभ्य आत्मबुद्ध्या ह्यनागतम् ।। १६ ।।

त्वत्तोऽभवत्कुलं चेदं त्वया देव सुपावितम् ।।१७।।

नरपतिरिति लोकैः स्मर्यते वैष्णवांशः स्वयमसि रमणीयैस्त्वं गुणैर्विष्णुरेव ।।

किमपि भुवनकार्यं यद्विचिंत्यावतीर्य तदिह घटयतस्ते वत्स निर्विघ्नमस्तु ।।१८।।

स्तुत्वा वाचाथ रामं हि त्वयि नाथे नु सांप्रतम् ।।

शून्या वर्ते चिरं कालं यथा दोषस्तथैव हि ।। १९ ।।

धर्मारण्यस्य क्षेत्रस्य विद्धि मामधिदेवताम् ।।

वर्षाणि द्वादशेहैव जातानि दुःखि तास्म्यहम् ।। 3.2.32.२० ।।

निर्जनत्वं ममाद्य त्वमुद्धरस्व महामते ।।

लोहासुरभयाद्राम विप्राः सर्वे दिशो दश ।। २१ ।।

गताश्च वणिजः सर्वे यथास्थानं सुदुःखिताः ।।

स दैत्यो घातितो राम देवैः सुरभयंकरः ।। २२ ।।

आक्रम्यात्र महामायो दुराधर्षो दुरत्ययः ।।

न ते जनाः समायांति तद्भयादति शंकिताः ।। २३ ।।

अद्य वै द्वादश समाः शून्यागारमनाथवत् ।।

यस्माच्च दीर्घिकायां मे स्नानदानोद्यतो जनः ।। २४ ।।

राम तस्यां दीर्घिकायां निपतंति च शूकराः ।।

यत्रांगना भर्तृयुता जलक्रीडापरायणाः ।। २५ ।।

चिक्रीडुस्तत्र महिषा निपतंति जलाशये ।।

यत्र स्थाने सुपुष्पाणां प्रकरः प्रचुरोऽभवत् ।। २६ ।।

तद्रुद्धं कंटकैर्वृक्षैः सिंहव्याघ्रसमाकुलैः ।।

संचिक्रीडुः कुमाराश्च यस्यां भूमौ निरंतरम् ।।२७।।

कुमार्यश्चित्रकाणां च तत्र क्रीडं ति हर्षिताः ।।

अकुर्वन्वाडवा यत्र वेदगानं तिरंतरम् ।।२८।।

शिवानां तत्र फेत्काराः श्रूयंतेऽतिभयंकराः ।।

यत्र धूमोऽग्निहोत्राणां दृश्यते वै गृहेगृहे ।। २९ ।।

तत्र दावाः सधूमाश्च दृश्यंतेऽत्युल्बणा भृशम् ।।

नृत्यंते नर्त्तका यत्र हर्षिता हि द्विजाग्रतः ।। 3.2.32.३० ।।

तत्रैव भूतवेताला प्रेताः नृत्यंति मोहिताः ।।

नृपा यत्र सभायां तु न्यषीदन्मंत्रतत्पराः ।। ३१ ।।

तस्मिन्स्थाने निषीदंति गवया ऋक्षशल्लकाः ।।

आवासा यत्र दृश्यन्ते द्विजानां वणिजां तथा ।।३२।।

कुट्टिमप्रतिमा राम दृश्यंतेत्र बिलानि वै ।।

कोटराणीह वृक्षाणां गवाक्षाणीह सर्वतः ।। ३३ ।।

चतुष्का यज्ञवेदिर्हि सोच्छ्राया ह्यभवत्पुरा ।।

तेऽत्र वल्मीकनिचयैर्दृश्यंते परिवेष्टिताः ।। ३४ ।।

एवंविधं निवासं मे विद्धि राम नृपोत्तम ।।

शून्यं तु सर्वतो यस्मान्निवासाय द्विजा गताः ।। ३५ ।।

तेन मे सुमहद्दुःखं तस्मात्त्राहि नरेश्वर ।।

एतच्छ्रुत्वा वचो राम उवाच वदतां वरः ।। ३६ ।।

।। श्रीराम उवाच ।। ।।

न जाने तावकान्विप्रांश्चतुर्दिक्षु समाश्रितान् ।।

न तेषां वेद्म्यहं संख्यां नामगोत्रे द्विजन्मनाम् ।। ३७ ।।

यथा ज्ञातिर्यथा गोत्रं याथातथ्यं निवेदय ।।

तत आनीय तान्सर्वान्स्वस्थाने वासयाम्यहम् ।। ३८ ।।

।। श्रीमातोवाच ।। ।।

ब्रह्मविष्णुमहेशैश्च स्थापिता ये नरेश्वर ।।

अष्टादश सहस्राणि ब्राह्मणा वेदपारगाः ।। ३९ ।।

त्रयीविद्यासु विख्याता लोकेऽस्मिन्नमितद्युते ।।

चतुष्षष्टिकगोत्राणां वाडवा ये प्रतिष्ठिताः ।। ।। 3.2.32.४० ।।

श्रीमातादात्त्रयीविद्यां लोके सर्वे द्विजोत्तमाः ।।

षट्त्रिंशच्च सहस्राणि वैश्या धर्मपरायणाः ।। ४१ ।।

आर्यवृत्तास्तु विज्ञेया द्विजशुश्रूषणे रताः ।।

बहुलार्को नृपो यत्र संज्ञया सह राजते ।। ४२ ।।

कुमारावश्विनौ देवौ धनदो व्ययपूरकः ।।

अधिष्ठात्री त्वहं राम नाम्ना भट्टारिका स्मृता ।। ४३ ।।

।। श्रीसूत उवाच ।। ।।

स्थानाचाराश्च ये केचित्कुलाचारास्तथैव च ।।

श्रीमात्रा कथितं सर्वं रामस्याग्रे पुरातनम् ।। ४४ ।।

तस्यास्तु वचनं श्रुत्वा रामो मुदमवाप ह ।।

सत्यंसत्यं पुनः सत्यं सत्यं हि भाषितं त्वया ।। ४५ ।।

यस्मात्सत्यं त्वया प्रोक्तं तन्नाम्ना नगरं शुभम् ।।

वासयामि जगन्मातः सत्यमंदिरमेव च ।। ४६ ।।

त्रैलोक्ये ख्यातिमाप्नोतु सत्यमंदिरमु त्तमम् ।। ४७ ।।

एतदुक्त्वा ततो रामः सहस्रशतसंख्यया ।।

स्वभृत्यान्प्रेषयामास विप्रानयनहेतवे ।। ४८ ।।

यस्मिन्देशे प्रदेशे वा वने वा सरि तस्तटे ।।

पर्यंते वा यथास्थाने ग्रामे वा तत्रतत्र च ।। ४९ ।।

धर्मारण्यनिवासाश्च याता यत्र द्विजोत्तमाः ।।

अर्घपाद्यैः पूजयित्वा शीघ्रमानयतात्र तान् ।। 3.2.32.५० ।।

अहमत्र तदा भोक्ष्ये यदा द्रक्ष्ये द्विजोत्तमान् ।। ५१ ।।

विमान्य च द्विजानेतानागमिष्यति यो नरः ।।

स मे वध्यश्च दंड्यश्च निर्वास्यो विषयाद्बहिः ।। ५२ ।।

तच्छ्रुत्वा दारुणं वाक्यं दुःसहं दुःप्रधर्षणम् ।।

रामाज्ञाकारिणो दूता गताः सर्वे दिशो दश ।। ५३ ।।

शोधिता वाडवाः सर्वे लब्धाः सर्वे सुहर्षिताः ।।

यथोक्तेन विधानेन अर्घपाद्यैरपूजयन् ।। ५४ ।।

स्तुतिं चक्रुश्च विधिवद्विनयाचारपूर्वकम् ।।

आमंत्र्य च द्विजान्सर्वान्रामवाक्यं प्रकाशयन् ।। ५५ ।।

ततस्ते वाडवाः सर्वे द्विजाः सेवकसंयुताः ।।

गमनायोद्यताः सर्वे वेदशास्त्रपरायणाः ।। ५६ ।।

आगता रामपार्श्वं च बहुमानपुरःसराः ।।

समागतान्द्विजान्दृष्ट्वा रोमांचिततनूरुहः ।। ५७ ।।

कृतकृत्यमिवात्मानं मेने दाशरथिर्नृपः ।।

स संभ्रमात्समुत्थाय पदातिः प्रययौ पुरः ।। ५८ ।।

करसंपुटकं कृत्वा हर्षाश्रु प्रतिमुञ्चयन् ।।

जानुभ्यामवनिं गत्वा इदं वचनमब्रवीत् ।। ५९ ।।

विप्रप्रसादात्कमलावरोऽहं विप्रप्रसादाद्धरणीधरोऽहम् ।।

विप्रप्रसादाज्जगतीपतिश्च विप्रप्रसादान्मम रामनाम ।। 3.2.32.६० ।।

इत्येवमुक्ता रामेण वाड वास्ते प्रहर्षिताः ।।

जयाशीर्भिः प्रपूज्याथ दीर्घायुरिति चाब्रुवन् ।। ६१ ।।

आवर्जितास्ते रामेण पाद्यार्घ्यविष्टरादिभिः ।।

स्तुतिं चकार विप्राणां दण्डवत्प्रणिपत्य च ।। ६२ ।।

कृतांजलिपुटः स्थित्वा चक्रे पादाभिवंदनम् ।।

आसनानि विचित्राणि हैमान्याभरणानि च ।। ६३ ।।

समर्पयामास ततो रामो दशरथात्मजः ।।

अंगुलीयकवासांसि उपवीतानि कर्णकान् ।। ६४ ।।

प्रददौ विप्रमुख्येभ्यो नानावर्णाश्च धेनवः ।।

एकैकशत संख्याका घटोध्नीश्च सवत्सकाः ।। ६५ ।।

सवस्त्रा बद्धघंटाश्च हेमशृंगविभूषिताः ।।

रूप्यखुरास्ताम्रपृष्ठीः कांस्यपात्रसमन्विताः ।। ६६ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां। संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्रह्मनारदसंवादे सत्यमंदिरस्थापन वर्णनोनाम द्वात्रिंशोऽध्यायः ।। ३२ ।। ।। छ ।।

खण्डः ३ (ब्रह्मखण्डः) · धर्मारण्य खण्डः — Adhyāya 33

।। राम उवाच ।। ।।

जीर्णोद्धारं करिष्यामि श्रीमातुर्वचनादहम् ।।

आज्ञा प्रदीयतां मह्यं यथादानं ददामि वः ।। १ ।।

पात्रे दानं प्रदातव्यं कृत्वा यज्ञवरं द्विजाः ।।

नापात्रे दीयते किंचिद्दत्तं न तु सुखावहम् ।। २ ।।

सुपात्रं नौरिव सदा तारयेदुभयोरपि ।।

लोहपिंडोपमं ज्ञेयं कुपात्रं भञ्जनात्मकम् ।। ३ ।।

जातिमात्रेण विप्रत्वं जायते न हि भो द्विजाः ।।

क्रिया बलवती लोके क्रियाहीने कुतः फलम् ।। ४ ।।

पूज्यास्तस्मात्पूज्यतमा ब्राह्मणाः सत्यवादिनः ।।

यज्ञकार्ये समुत्पन्ने कृपां कुर्वंतु सर्वदा ।। ५ ।।

।। ब्रह्मोवाच ।। ।।

ततस्तु मिलिताः सर्वे विमृश्य च परस्परम् ।।

केचिदूचुस्तदा रामं वयं शिलोंछजीविकाः ।। ६ ।।

संतोषं परमास्थाय स्थिता धर्मपरायणाः ।।

प्रतिग्रहप्रयोगेण न चास्माकं प्रयोजनम् ।। ७ ।।

दशसूनासमश्चक्री दशचक्रिसमो ध्वजः ।।

दशध्वजसमा वेश्या दशवेश्यासमो नृपः ।। ८ ।।

राजप्रतिग्रहो घोरो राम सत्यं न संशयः ।।

तस्माद्वयं न चेच्छामः प्रतिग्रहं भया वहम् ।। ९ ।।

एकाहिका द्विजाः केचित्केचित्स्वामृतवृत्तयः ।।

कुम्भीधान्या द्विजाः केचित्केचित्षट्कर्मतत्पराः ।। 3.2.33.१० ।।

त्रिमूर्तिस्थापिताः सर्वे पृथग्भावाः पृथग्गुणाः ।।

केचिदेवं वदंति स्म त्रिमूर्त्याज्ञां विना वयम् ।। ११ ।।

प्रतिग्रहस्य स्वीकारं कथं कुर्याम ह द्विजाः ।।

न तांबूलं स्त्रीकृतं नो ह्यद्मो दानेन भषितम् ।। १२ ।।

विमृश्य स तदा रामो वसिष्ठेन महात्मना ।।

ब्रह्मविष्णुशिवादीनां सस्मार गुरुणा सह ।।

स्मृतमात्रास्ततो देवास्तं देशं समुपागमन्।।

सूर्यकोटिप्रतीकाशीवमानावलिसंवृताः ।। १४ ।।

रामेण ते यथान्यायं पूजिताः परया मुदा ।। १३ ।।

निवेदितं तु तत्सर्वं रामेणातिसुबुद्धिना ।। १५ ।।

अधिदेव्या वचनतो जीर्णोद्धारं करोम्यहम् ।।

धर्मारण्ये हरिक्षेत्रे धर्मकूपसमीपतः ।। १६ ।।

ततस्ते वाडवाः सर्वे त्रिमूर्त्तीः प्रणिपत्य च ।।

महता हर्षवृंदेन पूर्णाः प्राप्तमनोरथाः ।। १७ ।।

अर्घ्यपाद्यादिविधिना श्रद्धया तानपूजयन् ।।

क्षणं विश्रम्य ते देवा ब्रह्मविष्णुशिवादयः ।। १८ ।।

ऊचू रामं महाशक्तिं विनयात्कृतसंपुटम् ।। १९ ।।

।। देवा ऊचुः ।। ।।

देवद्रुहस्त्वया राम ये हता रावणादयः ।।

तेन तुष्टा वयं सर्वे भानुवंशविभूषण ।। 3.2.33.२० ।।

उद्धरस्व महास्थानं महतीं कीर्तिमाप्नुहि ।। २१ ।।

लब्ध्वा स तेषामाज्ञां तु प्रीतो दशरथात्मजः ।।

जीर्णोद्धारेऽनंतगुणं फलमिच्छन्निलापतिः ।। २२ ।।

देवानां संनिधौ तेषां कार्यारंभमथाकरोत् ।।

स्थंडिलं पूर्वतः कृत्वा महागिरि समं शुभम्।।२३।।

तस्योपरि बहिःशाला गृहशाला ह्यनेकशः ।।

ब्रह्मशालाश्च बहुशो निर्ममे शोभनाकृतीः ।।२४।।

निधानैश्च समायुक्ता गृहोपकरणै र्वृताः ।।

सुवर्णकोटिसंपूर्णा रसवस्त्रादिपूरिताः ।। २५ ।।

धनधान्यसमृद्धाश्च सर्वधातुयुतास्तथा ।।

एतत्सर्वं कारयित्वा ब्राह्मणेभ्यस्तदा ददौ ।।२६।।

एकैकशो दशदश ददौ धेनूः पयस्विनीः ।।

चत्वारिंशच्छतं प्रादाद्ग्रामाणां चतुराधिकम् ।। २७ ।।

त्रैविद्यद्विजविप्रेभ्यो रामो दशरथात्मजः ।।

काजेशेन त्रयेणैव स्थापिता द्विजसत्तमाः ।। २८ ।।

तस्मात्त्रयीविद्य इति ख्यातिर्लोके बभूव ह ।।

एवंविधं द्विजेभ्यः स दत्त्वा दानं महाद्भुतम् ।। ।। २९ ।।

आत्मानं चापि मेने स कृतकृत्यं नरेश्वरः ।।

ब्रह्मणा स्थापिताः पूर्वं विष्णुना शंकरेण ये ।। 3.2.33.३० ।।

ते पूजिता राघवेण जीर्णोद्धारे कृते सति ।।

षट्त्रिंशच्च सहस्राणि गोभुजा ये वणिग्वराः ।। ३१ ।।

शुश्रूषार्थं प्रदत्ता वै देवैर्हरिहरादिभिः।।

संतुष्टेन तु शर्वेण तेभ्यो दत्तं तु चेत नम्।। ३२ ।।

श्वेताश्वचामरौ दत्तौ खङ्गं दत्तं सुनिर्मलम् ।।

तदा प्रबोधितास्ते च द्विजशुश्रूषणाय वै ।। ३३ ।।

विवाहादौ सदा भाव्यं चामरै मंगलं वरम् ।।

खङ्गं शुभं तदा धार्य्यं मम चिह्नं करे स्थितम् ।। ३४ ।।

गुरुपूजा सदा कार्या कुलदेव्याः पुनःपुनः ।।

वृद्ध्यागमेषु प्राप्तेषु वृद्धि दायकदक्षिणा ।। ३५ ।।

एकादश्यां शनेर्वारे दानं देयं द्विजन्मने ।।

प्रदेयं बालवृद्धेभ्यो मम रामस्य शासनात् ।। ३६ ।।

मंडलेषु च ये शुद्धा वणिग्वृत्तिरताः पराः ।।

सपादलक्षास्ते दत्ता रामशासनपालकाः ।। ३७ ।।

मांडलीकास्तु ते ज्ञेया राजानो मंडलेश्वराः ।।

द्विज शुश्रूषणे दत्ता रामेण वणिजां वराः ।। ३८ ।।

चामरद्वितयं रामो दत्तवान्खड्गमेव च ।।

कुलस्य स्वामिनं सूर्यं प्रतिष्ठाविधिपूर्वकम् ।। ।। ३९ ।।

ब्रह्माणं स्थापयामास चतुर्वेदसमन्वितम् ।।

श्रीमातरं महाशक्तिं शून्यस्वामिहरिं तथा ।। 3.2.33.४० ।।

विघ्नापध्वंसनार्थाय दक्षिणद्वारसंस्थितम् ।।

गणं संस्थापयामास तथान्याश्चैव देवताः ।। ४१ ।।

कारितास्तेन वीरेण प्रासादाः सप्तभूमिकाः ।।

यत्किं चित्कुरुते कार्यं शुभं मांगल्यरूपकम् ।। ४२ ।।

पुत्रे जाते जातके वान्नाशने मुंडनेऽपि वा ।।

लक्षहोमे कोटिहोमे तथा यज्ञक्रियासु च ।। ४३ ।।

वास्तुपूजाग्रहशांत्योः प्राप्ते चैव महोत्सवे ।।

यत्किंचित्कुरुते दानं द्रव्यं वा धान्यमुत्तमम् ।। ४४ ।।

वस्त्रं वा धेनवो नाथ हेम रूप्यं तथैव च ।।

विप्राणामथ शूद्राणां दीनानाथांधकेषु च ।। ४५ ।।

प्रथमं बकुलार्कस्य श्रीमातुश्चैव मानवः ।।

भागं दद्याच्च निर्विघ्नकार्यसिद्ध्यै निरन्तरम् ।। ४६ ।।

वचनं मे समुल्लंघ्य कुरुते योऽन्यथा नरः ।।

तस्य तत्कर्मणो विघ्नं भविष्यति न संशयः ।। ४७ ।।

एवमुक्त्वा ततो रामः प्रहृष्टेनांतरात्मना ।।

देवानामथ वापीश्च प्राकारांस्तु सुशोभनान् ।। ४८ ।।

दुर्गोपकरणैर्युक्तान्प्रतोलीश्च सुविस्तृताः ।।

निर्ममे चैव कुंडानि सरांसि सरसीस्तथा ।। ४९ ।।

धर्मवापीश्च कूपांश्च तथान्यान्देवनिर्मितान् ।।

एतत्सर्वं च विस्तार्य धर्मारण्ये मनोरमे ।। 3.2.33.५० ।।

ददौ त्रैविद्यमुख्येभ्यः श्रद्धया परया पुनः ।।

ताम्रपट्टस्थितं रामशासनं लोपयेत्तु यः ।।५१।।

पूर्वजास्तस्य नरके पतंत्यग्रे न संततिः ।।

वायुपुत्रं समाहूय ततो रामोऽब्रवीद्वचः ।। ।। ५२ ।।

वायुपुत्र महावीर तव पूजा भविष्यति ।।

अस्य क्षेत्रस्य रक्षायै त्वमत्र स्थितिमाचर ।। ५३ ।।

आंजनेयस्तु तद्वाक्यं प्रणम्य शिरसादधौ ।।

जीर्णोद्धारं तदा कृत्वा कृतकृत्यो बभूव ह ।। ५४ ।।

श्रीमातरं तदाभ्यर्च्य प्रसन्नेनांतरात्मना ।।

श्रीमातरं नमस्कृत्य तीर्थान्यन्यानि राघवः ।।५५।।

तेऽपि देवाः स्वकं स्थानं ययुर्बह्मपुरोगमाः ।।५६।।

दत्त्वाशिषं तु रामाय वांछितं ते भविष्यति ।।

रम्यं कृतं त्वया राम विप्राणां स्थापनादिकम् ।। ।। ५७ ।।

अस्माकमपि वात्सल्यं कृतं पुण्यवता त्वया ।।

इति स्तुवंतस्ते देवाः स्वानि स्थानानि भेजिरे ।। ५८ ।।

इति श्रीस्कान्दे महापुराण एका शीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वार्धे धर्मारण्यमाहात्म्ये श्रीरामचन्द्रस्य पुरप्रत्यागमनवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।। छ ।।

खण्डः ३ (ब्रह्मखण्डः) · धर्मारण्य खण्डः — Adhyāya 34

।। ।। व्यास उवाच ।। ।।

एवं रामेण धर्मज्ञ जीर्णोद्धारः पुरा कृतः ।।

द्विजानां च हितार्थाय श्रीमातुर्वचनेन च ।। १ ।।

।। युधिष्ठिर उवाच ।। ।।

कीदृशं शासनं ब्रह्मन्रामेण लिखितं पुरा ।।

कथयस्व प्रसादेन त्रेतायां सत्यमंदिरे ।। २ ।।

।। व्यास उवाच ।। ।।

धर्मारण्ये वरे दिव्ये बकुलार्के स्वधिष्ठिते ।।

शून्यस्वामिनि विप्रेंद्र स्थिते नारायणे प्रभौ ।। ३ ।।

रक्षणाधिपतौ देवे सर्वज्ञे गुणनायके ।।

भवसागर मग्नानां तारिणी यत्र योगिनी ।। ४ ।।

शासनं तत्र रामस्य राघवस्य च नामतः ।।

शृणु ताम्राश्रयं तत्र लिखितं धर्मशास्त्रतः ।। ५ ।।

महाश्चर्यकरं तच्च ह्यनेकयुगसंस्थितम्।।

सर्वो धातुः क्षयं याति सुवर्णं क्षयमेति च ।। ६ ।।

प्रत्यक्षं दृश्यते पुत्र द्विजशासनमक्षयम् ।।

अविनाशो हि ताम्रस्य कारणं तत्र विद्यते ।। ७ ।।

वेदोक्तं सकलं यस्माद्विष्णुरेव हि कथ्यते ।।

पुराणेषु च वेदेषु धर्मशास्त्रेषु भारत ।। ८ ।।

सर्वत्र गीयते विष्णुर्नाना भावसमाश्रयः ।।

नानादेशेषु धर्मेषु नानाधर्मनिषेविभिः ।। ९ ।।

नानाभेदैस्तु सर्वत्र विष्णुरेवेति चिंत्यते ।।

अवतीर्णः स वै साक्षात्पुराणपुरुषो त्तमः ।। 3.2.34.१० ।।

देववैरिविनाशाय धर्मसंरक्षणाय च ।।

तेनेदं शासनं दत्तमविनाशात्मकं सुत ।। ११ ।।

यस्य प्रतापादृषद(य)स्तारिता जलमध्यतः ।।

वानरैर्वेष्टिता लंका हेलया राक्षसा हताः ।। १२ ।।

मुनिपुत्रं मृतं रामो यमलोकादुपानयत् ।।

दुंदुभिर्निहतो येन कबंधोऽभिहतस्तथा ।। १३ ।।

निहता ताडका चैव सप्तताला विभेदिताः ।।

खरश्च दूषणश्चैव त्रिशिराश्च महासुरः ।। १४ ।।

चतुर्दशसहस्राणि जवेन निहता रणे ।।

तेनेदं शासनं दत्तमक्षयं न कथं भवेत् ।। १५ ।।

स्ववंशवर्णनं तत्र लिखित्वा स्वयमेव तु ।।

देशकालादिकं सर्वं लिलेख विधिपूर्वकम् ।। १६ ।।

स्वमुद्राचिह्नितं तत्र त्रैविद्येभ्यस्तथा ददौ।।

चतुश्चत्वारिंशवर्षो रामो दशरथात्मजः ।। १७ ।।

तस्मिन्काले महाश्चर्यं संदत्तं किल भारत।।

तत्र स्वर्णोपमं चापि रौप्योपमम थापि च ।। १८ ।।

उवाह सलिलं तीर्थे देवर्षिपितृतृप्तिदम् ।।

स्ववंशनायकस्याग्रे सूर्येण कृतमेव तत् ।। १९ ।।

तद्दृष्ट्वा महदाश्चर्यं रामो विष्णुं प्रपूज्य च ।।

रामलेखविचित्रैस्तु लिखितं धर्मशासनम् ।। 3.2.34.२० ।।

यद्दृष्ट्वाथ द्विजाः सर्वे संसारभयबंधनम् ।।

कुर्वते नैव यस्माच्च तस्मान्निखिलरक्षकम् ।। ।। २१ ।।

ये पापिष्ठा दुराचारा मित्रद्रोहरताश्च ये ।।

तेषां प्रबोधनार्थाय प्रसिद्धिमकरोत्पुरा ।। २२ ।।

रामलेखविचित्रैस्तु विचित्रे ताम्रपट्टके ।।

वाक्यानीमानि श्रूयंते शासने किल नारद ।। २३ ।।

आस्फोटयंति पितरः कथयंति पितामहाः ।।

भूमिदोऽस्मत्कुले जातः सोऽस्मान्संतारयिष्यति ।। २४ ।।

बहुभिर्बहुधा भुक्ता राजभिः पृथिवी त्वियम् ।।

यस्ययस्य यदा भूमिस्तस्यतस्य तदा फलम् ।। २५ ।।

षष्टिवर्षसहस्राणि स्वर्गे वसति भूमिदः ।।

आच्छेत्ता चानुमंता च तान्येव नरकं व्रजेत् ।। २६ ।।

संदंशैस्तुद्यमानस्तु मुद्गरैर्विनिहत्य च ।।

पाशैः सुबध्यमानस्तु रोरवीति महास्वरम् ।। २७ ।।

ताड्यमानः शिरे दंडैः समालिंग्य विभावसुम् ।।

क्षुरिकया छिद्यमानो रोरवीति महास्वनम् ।। २८ ।।

यमदूतैर्महाघोरैर्ब्रह्मवृत्तिविलोपकः ।।

एवंविधैर्महादुष्टैः पीड्यंते ते महागणैः ।। २९ ।।

ततस्तिर्यक्त्वमाप्नोति योनिं वा राक्षसीं शुनीम् ।।

व्यालीं शृगालीं पैशाचीं महाभूतभयंकरीम् ।। 3.2.34.३० ।।

भूमेरंगुलहर्ता हि स कथं पापमाचरेत् ।।

भूमेरंगुलदाता च स कथं पुण्यमाचरेत् ।। ३१ ।।

अश्वमेधसहस्राणां राजसूयशतस्य च ।।

कन्याशतप्रदानस्य फलं प्राप्नोति भूमिदः ।। ३२ ।।

आयुर्यशः सुखं प्रज्ञा धर्मो धान्यं धनं जयः ।।

संतानं वर्द्धते नित्यं भूमिदः सुखमश्मुते ।। ३३ ।।

भूमेरंगुलमेकं तु ये हरंति खला नराः ।।

वंध्याटवीष्वतोयासु शुष्ककोटरवासिनः ।।

कृष्णसर्पाः प्रजायंते दत्तदायापहारकाः ।। ३४ ।।

तडागानां सहस्रेण अश्वमेधशतेन वा ।।

गवां कोटिप्रदानेन भूमिहर्त्ता विशुध्यति ।। ३५ ।।

यानीह दत्तानि पुनर्धनानि दानानि धर्मार्थयशस्कराणि ।।

औदार्यतो विप्रनिवेदितानि को नाम साधुः पुनराददीत ।। ३६ ।।

चलदलदललीलाचंचले जीवलोके तृणलवलघुसारे सर्वसंसारसौख्ये ।।

अपहरति दुराशः शासनं ब्राह्मणानां नरकगहनगर्त्तावर्तपातोत्सुको यः ।।३७ ।।

ये पास्यंति महीभुजः क्षितिमिमां यास्यंति भुक्त्वाखिलां नो याता न तु याति यास्यति न वा केनापि सार्द्धं धरा।।

यत्किंचिद्भुवि तद्विनाशि सकलं कीर्तिः परं स्थायिनी त्वेवं वै वसुधापि यैरुपकृता लोप्या न सत्कीर्तयः ।। ३८ ।।

एकैव भगिनी लोके सर्वेषामेव भूभुजाम् ।।

न भोज्या न करग्राह्या विप्रदत्ता वसुंधरा ।। ३९ ।।

दत्त्वा भूमिं भाविनः पार्थिवेशान्भूयोभूयो याचते रामचन्द्रः ।।

सामान्योऽयं धर्मसेतुर्नृपाणां स्वे स्वे काले पालनीयो भवद्भिः ।।3.2.34.४०।।

अस्मिन्वंशे क्षितौ कोपि राजा यदि भविष्यति ।।

तस्याहं करलग्नोस्मि मद्दत्तं यदि पाल्यते।।४१।।

लिखित्वा शासनं रामश्चातुर्वेद्यद्विजोत्तमान्।।

संपूज्य प्रददौ धीमान्वसिष्ठस्य च सन्निधौ।।४२।।

ते वाडवा गृहीत्वा तं पट्टं रामाज्ञया शुभम्।।

ताम्रं हैमाक्षरयुतं धर्म्यं धर्मविभूषणम्।।४३।।

पूजार्थं भक्तिकामार्थास्तद्रक्षणमकुर्वत।।

चंदनेन च दिव्येन पुष्पेण च सुगन्धिना।।४४।।

तथा सुवर्णपुष्पेण रूप्यपुष्पेण वा पुनः।।

अहन्यहनि पूजां ते कुर्वते वाडवाः शुभाम्।।४५।।

तदग्रे दीपकं चैव घृतेन विमलेन हि।।

सप्तवर्तियुतं राजन्नर्घ्यं प्रकुर्वते द्विजाः।।४६।।

नैवेद्यं कुर्वते नित्यं भक्तिपूर्वं द्विजोत्तमाः।।

रामरामेति रामेति मन्त्रमप्युच्चरंति हि।।४७।।

अशने शयने पाने गमने चोपवेशने ।।

सुखे वाप्यथवा दुःखे राममन्त्रं समुच्चरेत् ।। ४८ ।।

न तस्य दुःखदौर्भाग्यं नाधिव्याधिभयं भवेत् ।।

आयुः श्रियं बलं तस्य वर्द्धयंति दिने दिने ।। ४९ ।।

रामेति नाम्ना मुच्येत पापाद्वै दारुणादपि ।।

नरकं नहि गच्छेत गतिं प्राप्नोति शाश्वतीम् ।। 3.2.34.५० ।। ।।

।। व्यास उवाच ।। ।।

इति कृत्वा ततो रामः कृतकृत्यममन्यत ।।

प्रदक्षिणीकृत्य तदा प्रणम्य च द्विजान्बहून् ।। ५१ ।।

दत्त्वा दानं भूरितरं गवाश्वमहिषीरथम् ।।

ततः सर्वान्निजांस्तांश्च वाक्यमेतदुवाच ह ।। ५२ ।।

अत्रैव स्थीयतां सर्वैर्यावच्चंद्रदिवाकरौ ।।

यावन्मेरुर्महीपृष्ठे सागराः सप्त एव च ।। ५३ ।।

तावदत्रैव स्थातव्यं भवद्भिर्हि न संशयः ।।

यदा हि शासनं विप्रा न मन्यंते नृपा भुवि ।। ५४ ।।

अथवा वणिजः शूरा मदमायाविमोहिताः ।।

मदाज्ञां न प्रकुर्वंति मन्यंते वा न ते जनाः ।। ५५ ।।

तदा वै वायुपुत्रस्य स्मरणं क्रियतां द्विजाः ।।

स्मृतमात्रो हनूमान्वै समागत्य करिष्यति ।। ५६ ।।

सहसा भस्म तान्सत्यं वचनान्मे न संशयः ।।

य इदं शासनं रम्यं पालयिष्यति भूपतिः ।। ।। ५७ ।।

वायुपुत्रः सदा तस्य सौख्यमृद्धिं प्रदास्यति ।।

ददाति पुत्रान्पौत्रांश्च साध्वीं पत्नीं यशो जयम् ।। ५८ ।।

इत्येवं कथयित्वा च हनुमंतं प्रबोध्य च ।।

निवर्तितो रामदेवः ससैन्यः सपरिच्छदः ।। ५९ ।।

वादित्राणां स्वनैर्विष्वक्सूच्यमानशुभागमः ।।

श्वेतातपत्रयुक्तोऽसौ चामरैर्वी जितो नरैः ।।

अयोध्यां नगरीं प्राप्य चिरं राज्यं चकार ह ।। 3.2.34.६० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्रह्मनारदसंवादे श्रीरामेण ब्राह्मणेभ्यः शासनपट्टप्रदानवर्णनंनाम चतुस्त्रिंशोऽध्यायः ।। ३४ ।। ।। छ । ।। ।।

खण्डः ३ (ब्रह्मखण्डः) · धर्मारण्य खण्डः — Adhyāya 35

।। नारद उवाच ।। ।।

भगवन्देवदेवेश सृष्टिसंहारकारक ।।

गुणातीतो गुणैर्युक्तो मुक्तीनां साधनं परम् ।। १ ।।

संस्थाप्य वेदभवनं विधिवद्द्विज सत्तमान् ।।

किं चक्रे रघुनाथस्तु भूयोऽयोध्यां गतस्तदा ।। २ ।।

स्वस्थाने ब्राह्मणास्तत्र कानि कर्माणि चक्रिरे ।।

।। ब्रह्मोवाच ।। ।।

इष्टापूर्तरताः शांताः प्रतिग्रहपराङ्मुखाः ।। ३ ।।

राज्यं चक्रुर्वनस्यास्य पुरोधा द्विजसत्तमः ।।

उवाच रामपुरतस्तीर्थमाहात्म्यमुत्तमम् ।। ४ ।।

प्रयागस्य च माहात्म्यं त्रिवेणीफलमुत्तमम् ।।

प्रयागतीर्थमहिमा शुक्लतीर्थस्य चैव हि ।। ५ ।।

सिद्धक्षेत्रस्य काश्याश्च गंगाया महिमा तथा ।।

वसिष्ठः कथया मास तीर्थान्यन्यानि नारद ।। ६ ।।

धर्मारण्यसुवर्णाया हरिक्षेत्रस्य तस्य च ।।

स्नानदानादिकं सर्वं वाराणस्या यवाधिकम् ।। ७ ।।

एतच्छ्रुत्वा रामदेवः स चमत्कृतमानसः ।।

धर्मारण्ये पुनर्यात्रां कर्त्तुकामः समभ्यगात् ।। ८ ।।

सीतया सह धर्मज्ञो गुरुसैन्यपुरःसरः ।।

लक्ष्मणेन सह भ्रात्रा भरतेन सहायवान् ।। ९ ।।

शत्रुघ्नेन परिवृतो गतो मोहेरके पुरे ।।

तत्र गत्वा वसिष्ठं तु पृच्छतेऽसौ महामनाः ।। 3.2.35.१० ।।

।। राम उवाच ।। ।।

धर्मारण्ये महाक्षेत्रे किं कर्त्तव्यं द्विजोत्तम ।।

दानं वा नियमो वाथ स्नानं वा तप उत्तमम् ।। ११ ।।

ध्यानं वाथ क्रतुं वाथ होमं वा जपमुत्तमम् ।।

दानं वा नियमं वाथ स्नानं वा तप उत्तमम्।। १२ ।।

येन वै क्रियमाणेन तीर्थेऽस्मिन्द्विजसत्तम ।।

ब्रह्महत्यादिपापेभ्यो मुच्यते तद्ब्रवीहि मे ।। १३ ।।

।। वसिष्ठ उवाच ।। ।।

यज्ञं कुरु महाभाग धर्मारण्ये त्वमुत्तमम् ।।

दिनेदिने कोटिगुणं यावद्वर्षशतं भवेत् ।। १४ ।।

तच्छ्रुत्वा चैव गुरुतो यज्ञारंभं चकार सः ।।

तस्मिन्नवसरे सीता रामं व्यज्ञापयन्मुदा ।। १५ ।।

स्वामिन्पूर्वं त्वया विप्रा वृता ये वेदपारगाः ।।

ब्रह्मविष्णुमहेशेन निर्मिता ये पुरा द्विजाः ।। १६ ।।

कृते त्रेतायुगे चैव धर्मारण्यनिवासिनः ।।

विप्रांस्तान्वै वृणुष्व त्वं तैरेव साधकोऽध्वरः ।। १७ ।।

तच्छ्रुत्वा रामदेवेन आहूता ब्राह्मणास्तदा ।।

स्थापिताश्च यथापूर्वमस्मिन्मोहे रके पुरे ।। १८ ।।

तैस्त्वष्टादशसंख्याकैस्त्रैविद्यैर्मेहिवाडवैः ।।

यज्ञं चकार विधिवत्तैरेवायतबुद्धिभिः ।। १९ ।।

कुशिकः कौशिको वत्स उपमन्युश्च काश्यपः।।

कृष्णात्रेयो भरद्वाजो धारिणः शौनको वरः।।3.2.35.२०।।

मांडव्यो भार्गवः पैंग्यो वात्स्यो लौगाक्ष एव च।।

गांगायनोथ गांगेयः शुनकः शौनकस्तथा।। २१।।

।।ब्रह्मोवाच।।

एभिर्विप्रैः क्रतुं रामः समाप्य विधिवन्नृपः।।

चकारावभृथं रामो विप्रान्संपूज्य भक्तितः।।२२।।

यज्ञांते सीतया रामो विज्ञप्तः सुविनीतया।।

अस्याध्वरस्य संपत्ती दक्षिणां देहि सुव्रत।।२३।।

मन्नाम्ना च पुरं तत्र स्थाप्यतां शीघ्रमेव च ।।

सीताया वचनं श्रुत्वा तथा चक्रे नृपोत्तमः ।। २४ ।।

तेषां च ब्राह्मणानां च स्थानमेकं सुनिर्भयम् ।।

दत्तं रामेण सीतायाः संतोषाय महीभृता ।। २५ ।।

सीतापुरमिति ख्यातं नाम चक्रे तदा किल ।।

तस्याधिदेव्यौ वर्त्तेते शांता चैव सुमंगला ।। २६ ।।

मोहेरकस्य पुरतो ग्रामद्वादशकं पुरः ।।

ददौ विप्राय विदुषे समुत्थाय प्रहर्षितः ।। २७ ।।

तीर्थांतरं जगामाशु काश्यपीसरितस्तटे ।।

वाडवाः केऽपि नीतास्ते रामेण सह धर्मवित् ।। २८ ।।

धर्मालये गतः सद्यो यत्र माला कमंडलुः ।।

पुरा धर्मेण सुमहत्कृतं यत्र तपो मुने ।। २९ ।।

तदारभ्य सुविख्यातं धर्मालयमिति

श्रुतम् ।। ददौ दाशरथिस्तत्र महादानानि षोडश । 3.2.35.३० ।।

पंचाशत्तदा ग्रामाः सीतापुरसमन्विताः ।।

सत्यमंदिरपर्यंता रघुना थेन वै तदा ।। ३१ ।।

सीताया वचनात्तत्र गुरुवाक्येन चैव हि ।।

आत्मनो वंशवृद्ध्यर्थं द्विजेभ्योऽदाद्रघूत्तमः ।। ३२ ।।

अष्टादशसहस्राणां द्विजानामभवत्कुलम् ।।

वात्स्यायन उपमन्युर्जातूकर्ण्योऽथ पिंगलः ।। ३३ ।।

भारद्वाजस्तथा वत्सः कौशिकः कुश एव च ।।

शांडिल्यः कश्यपश्चैव गौतमश्छांधनस्तथा ।। ३४ ।।

कृष्णात्रेयस्तथा वत्सो वसिष्ठो धारणस्तथा ।।

भांडिलश्चैव विज्ञेयो यौवनाश्वस्ततः परम् ।। ३५ ।।

कृष्णायनोपमन्यू च गार्ग्यमुद्गलमौखकाः ।।

पुशिः पराशरश्चैव कौंडिन्यश्च ततः परम् ।। ३६ ।।

पंचपंचाशद्ग्रामाणां नामान्येवं यथाक्रमम् ।।

सीतापुरं श्रीक्षेत्रं च मुशली मुद्गली तथा ।। ३७ ।।

ज्येष्ठला श्रेयस्थानं च दंताली वटपत्रका ।।

राज्ञः पुरं कृष्णवाटं देहं लोहं चनस्थनम् ।। ३८ ।।

कोहेचं चंदनक्षेत्रं थलं च हस्तिनापुरम् ।।

कर्पटं कंनजह्नवी वनोडफनफावली ।। ३९ ।।

मोहोधं शमोहोरली गोविंदणं थलत्यजम् ।।

चारणसिद्धं सोद्गीत्राभाज्यजं वटमालिका ।।3.2.35.४०।।

गोधरं मारणजं चैव मात्रमध्यं च मातरम् ।।

बलवती गंधवती ईआम्ली च राज्यजम् ।।४१।।

रूपावली बहुधनं छत्रीटं वंशंजं तथा ।।

जायासंरणं गोतिकी च चित्रलेखं तथैव च ।। ४२ ।।

दुग्धावली हंसावली च वैहोलं चैल्लजं तथा ।।

नालावली आसावली सुहाली कामतः परम् ।।४३।।

रामेण पंचपंचाशद्ग्रामाणि वसनाय च ।।

स्वयं निर्माय दत्तानि द्विजेभ्यस्तेभ्य एव च ।। ४४ ।।

तेषां शुश्रूषणार्थाय वैश्यान्रामो न्यवे दयत् ।।

षट्त्रिंशच्च सहस्राणि शूद्रास्तेभ्यश्चतुर्गुणान् ।।४५।।

तेभ्यो दत्तानि दानानि गवाश्ववसनानि च ।।

हिरण्यं रजतं ताम्रं श्रद्धया परया मुदा ।। ४६ ।।

नारद उवाच ।।

अष्टादशसहस्रास्ते ब्राह्मणा वेदपारगाः ।।

कथं ते व्यभजन्ग्रामान्द्रामो()त्पन्नं तथा वसु ।।

वस्त्राद्यं भूषणाद्यं च तन्मे कथय सुव्र तम् ।।४७। ।।

ब्रह्मोवाच ।। ।।

यज्ञांते दक्षिणा यावत्सर्त्विग्भिः स्वीकृता सुत ।।

महादानादिकं सर्वं तेभ्य एव समर्पितम् ।।४८।।

ग्रामाः साधारणा दत्ता महास्थानानि वै तदा ।।

ये वसंति च यत्रैव तानि तेषां भवंत्विति ।। ४९ ।।

वशिष्ठवचनात्तत्र ग्रामास्ते विप्रसात्कृताः ।।

रघूद्वहेन धीरेण नोद्व संति यथा द्विजाः ।।3.2.35.५०।।

धान्यं तेषां प्रदत्तं हि विप्राणां चामितं वसु ।।

कृतांजलिस्ततो रामो ब्राह्मणानिदमब्रवीत् ।।५१।।

यथा कृतयुगे विप्रास्त्रेतायां च यथा पुरा ।।

तथा चाद्यैव वर्त्तव्यं मम राज्ये न संशयः ।। ५२ ।।

यत्किंचिद्धनधान्यं वा यानं वा वसनानि वा ।।

मणयः कांचनादींश्च हेमादींश्च तथा वसु ।। ५३ ।।

ताम्राद्यं रजतादींश्च प्रार्थयध्वं ममाधुना ।।

अधुना वा भविष्ये वाभ्यर्थनीयं यथोचितम् ।। ५४ ।।

प्रेषणीयं वाचिकं मे सर्वदा द्विजसत्तमाः ।।

यंयं कामं प्रार्थयध्वं तं तं दास्याम्यहं विभो ।। ५५।।

ततो रामः सेवकादीनादरात्प्रत्यभाषत ।।

विप्राज्ञा नोल्लंघनीया सेव नीया प्रयत्नतः ।। ५६ ।।

यंयं कामं प्रार्थयंते कारयध्वं ततस्ततः ।।

एवं नत्वा च विप्राणां सेवनं कुरुते तु यः ।। ५७ ।।

स शूद्रः स्वर्गमाप्नोति धनवान्पुत्रवान्भवेत् ।।

अन्यथा निर्धनत्वं हि लभते नात्र संशयः ।। ५८ ।।

यवनो म्लेच्छजातीयो दैत्यो वा राक्षसोपि वा।।

योत्र विघ्नं करोत्येव भस्मीभवति तत्क्षणात् ।। ५९ ।।

।। ब्रह्मोवाच ।। ।।

ततः प्रदक्षिणीकृत्य द्विजान्रामोऽतिहर्षितः ।।

प्रस्थानाभिमुखो विप्रैराशीर्भिरभिनंदितः ।। 3.2.35.६० ।।

आसीमांतमनुव्रज्य स्नेहव्याकुललोचनाः ।।

द्विजाः सर्वे विनिर्वृत्ता धर्मारण्ये विमोहिताः ।। ६१ ।।

एवं कृत्वा ततो रामः प्रतस्थे स्वां पुरीं प्रति ।।

काश्यपाश्चैव गर्गाश्च कृतकृत्या दृढव्रताः ।। ६२ ।।

गुर्वासनसमाविष्टाः सभार्या ससुहृत्सुताः ।।

राजधानीं तदा प्राप रामोऽयोध्यां गुणान्विताम् ।। ६३ ।।

दृष्ट्वा प्रमुदिताः सर्वे लोकाः श्रीरघुनन्दनम् ।।

ततो रामः स धर्मात्मा प्रजापालनतत्परः ।। ६४ ।।

सीतया सह धर्मात्मा राज्यं कुर्वंस्तदा सुधीः ।।

जानक्या गर्भमाधत्त रविवंशोद्भवाय च ।। ६५ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये श्रीरामरुद्रकृतधर्मारण्यतीर्थक्षेत्रजीर्णोद्धारवर्णनं नाम पञ्चत्रिंशोऽध्यायः ।। ३५ ।।

खण्डः ३ (ब्रह्मखण्डः) · धर्मारण्य खण्डः — Adhyāya 36

।। नारद उवाच ।। ।।

अतः परं किमभवत्तन्मे कथय सुव्रत ।।

पूर्वं च तदशेषेण शंस मे वदताम्बर ।। १ ।।

स्थिरीभूतं च तत्स्थानं कियत्कालं वदस्व मे ।।

केन वै रक्ष्यमाणं च कस्याज्ञा वर्तते प्रभो ।। २ ।।

।। ब्रह्मोवाच ।। ।।

त्रेतातो द्वापरांतं च यावत्कलिसमागमः ।।

तावत्संरक्षणे चैको हनूमान्पवनात्मजः ।। ३ ।।

समर्थो नान्यथा कोपि विना हनुमता सुत ।।

लंका विध्वंसिता येन राक्षसाः प्रबला हताः ।।४।।

स एव रक्षते तत्र रामादेशेन पुत्रक ।।

द्विजस्याज्ञा प्रवर्तेत श्रीमातायास्तथैव च ।। ५ ।।

दिनेदिने प्रहर्षोभूज्जनानां तत्र वासिनाः ।।

पठंति स्म द्विजास्तत्र ऋग्युजुःसामलक्षणान् ।। ६ ।।

अथर्वणमपि तत्र पठंति स्म दिवानिशम् ।।

वेदनिर्घोषजः शब्दस्त्रैलोक्ये सचराचरे ।। ७ ।।

उत्सवास्तत्र जायंते ग्रामेग्रामे पुरेपुरे ।।

नाना यज्ञाः प्रवर्तंते नानाधर्मसमाश्रिताः ।। ८ ।।

।। युधिष्ठिर उवाच ।। ।।

कदापि तस्य स्थानस्य भंगो जातोथ वा न वा ।।

दैत्यैर्जितं कदा स्थानमथवा दुष्टराक्षसैः ।। ९ ।।

।। व्यास उवाच ।। ।।

साधु पृष्टं त्वया राजन्धर्मज्ञस्त्वं सदा शुचिः ।।

आदौ कलियुगे प्राप्ते यद्दत्तं तच्छृणुष्व भोः ।। 3.2.36.१० ।।

लोकानां च हितार्थाय कामाय च सुखाय च ।।

यज्ञं च कथयिष्यामि तत्सर्वं शृणु भूपते ।।११।।

इदानीं च कलौ प्राप्त आमो नामा वभूव ह ।।

कान्यकुब्जाधिपः श्रीमान्धर्मज्ञो नीतितत्परः ।। १२ ।।

शांतो दांतः सुशीलश्च सत्यधर्मपरायणः ।।

द्वापरांते नृपश्रेष्ठ अनागमे() कलौ युगे ।। १३ ।।

भयात्कलिविशेषेण अधर्मस्य भयादिभिः ।।

सर्वे देवाः क्षितिं त्यक्त्वा नैमिषारण्यमाश्रिताः ।। १४ ।।

रामोपि सेतुबंधं हि ससहायो गतो नृप ।। १५ ।।

।। युधिष्ठिर उवाच ।। ।।

कीदृशं हि कलौ प्राप्ते भयं लोके सुदुस्तरम् ।।

यस्मिन्सुरैः परित्यक्ता रत्नगर्भा वसुन्धरा ।। १६ ।।

।। व्यास उवाच ।। ।।

शृणुष्व कलिधर्मास्त्वं भविष्यंति यथा नृप ।।

असत्यवादिनो लोकाः साधुनिन्दापरायणाः ।। १७ ।।

दस्युकर्मरताः सर्वे पितृभक्तिविवर्जिताः ।।

स्वगोत्रदाराभिरता लौल्यध्यानपरायणाः ।। १८ ।।

ब्रह्मविद्वेषिणः सर्वे परस्परविरोधिनः ।।

शरणागतहंतारो भविष्यंति कलौ युगे ।। १९ ।।

वैश्याचाररता विप्रा वेदभ्रष्टाश्च मानिनः ।।

भविष्यंति कलौ प्राप्ते संध्यालोपकरा द्विजाः ।। 3.2.36.२० ।।

शांतौ शूरा भये दीनाः श्राद्धतर्पणवर्जिताः ।।

असुराचारनिरता विष्णुभक्तिविवर्जिताः ।। २१ ।।

परवित्ताभिलाषाश्च उत्कोच ग्रहणे रताः ।।

अस्नातभोजिनो विप्राः क्षत्रिया रणवर्जिताः ।। २२ ।।

भविष्यंति कलौ प्राप्ते मलिना दुष्टवृत्तयः ।।

मद्यपानरताः सर्वेप्यया ज्यानां हि याजकाः ।। २३ ।।

भर्तृद्वेषकरा रामाः पितृद्वेषकराः सुताः ।।

भ्रातृद्वेषकराः क्षुद्रा भविष्यंति कलौ युगे ।। २४ ।।

गव्यविक्रयिणस्ते वै ब्राह्मणा वित्ततत्पराः ।।

गावो दुग्धं न दुह्यंते संप्राप्ते हि कलौ युगे ।। २५ ।।

फलंते नैव वृक्षाश्च कदाचिदपि भारत ।।

कन्याविक्रय कर्त्तारो गोजाविक्रयकारकाः ।। २६ ।।

विषविक्रयकर्त्तारो रसविक्रयकारकाः ।।

वेदविक्रयकर्त्तारो भविष्यंति कलौ युगे ।। २७ ।।

नारी गर्भं समाधत्ते हायनैकादशेन हि ।।

एकादश्युपवासस्य विरताः सर्वतो जनाः ।। २८ ।।

न तीर्थसेवनरता भविष्यंति च वाडवाः ।।

बह्वाहारा भविष्यंति बहुनिद्रासमाकुलाः ।। २९ ।।

जिह्मवृत्तिपराः सर्वे वेदनिंदापरायणाः ।।

यतिनिंदापराश्चैव च्छद्मकाराः परस्परम् ।। 3.2.36.३० ।।

स्पर्शदोषभयं नैव भविष्यति कलौ युगे ।।

क्षत्रिया राज्यहीनाश्च म्लेच्छो राजा भविष्यति ।। ३१ ।।

विश्वासघातिनः सर्वे गुरुद्रोहरतास्तथा ।।

मित्रद्रोहरता राजञ्छिश्नोदरपरायणाः ।। ३२ ।।

एकवर्णा भविष्यंति वर्णाश्चत्वार एव च ।।

कलौ प्राप्ते महाराज नान्यथा वचनं मम ।। ३३ ।।

एतच्छ्रुत्वा गुरोरेव कान्यकुब्जाधिपो बली ।।

राज्यं प्रकुरुते तत्र आमो नाम्ना हि भूतले ।। ३४ ।।

सार्वभौमत्वमापन्नः प्रजापालनतत्परः ।।

प्रजानां कलिना तत्र पापे बुद्धिरजायत ।। ३५ ।।

वैष्णवं धर्ममुत्सज्य वौद्धधर्ममुपागताः ।।

प्रजास्तमनुवर्तिन्यः क्षपणैः प्रतिबोधिताः।।३६।।

तस्य राज्ञो महादेवी मामानाम्न्यतिविश्रुता ।।

गर्भं दधार सा राज्ञो सर्वलक्षणसंयुता ।। ३७ ।।

संपूर्णे दशमे मासि जाता तस्याः सुरूपिणी ।।

दुहिता समये राज्ञ्याः पूर्णचन्द्रनिभानना ।। ३८ ।।

रत्नगंगेति नाम्ना सा मणिमाणिक्यभूषिता ।।

एकदा दैवयोगेन देशांतरादुपागतः ।। ३९ ।।

नाम्ना चैवेंद्रसूरिर्वै देशेस्मिन्कान्यकुब्जके ।।

षोडशाब्दा च सा कन्या नोपनीता नृपात्मजा ।।3.2.36.४०।।

दास्यांतरेण मिलिता इन्द्रसूरिश्च जीविकः ।।

शाबरीं मंत्रविद्यां च कथयामास भारत ।।४१।।

एकचित्ताभवत्सा तु शूलिकर्मविमोहिता ।।

ततः सा मोहमापन्ना तत्तद्वाक्यपरायणा।।४२।।

क्षपणैर्बोधिता वत्स जैनधर्मपरायणा ।।

ब्रह्मावर्ताधिपतये कुंभीपालाय धीमते ।।४३।।

रत्नगंगां महादेवीं ददौ तामिति विक्रमी।।

मोहेरेकं ददौ तस्मै विवाहे दैवमोहितः ।। ४४ ।।

धर्मारण्यं समागत्य राजधानी कृता तदा ।।

देवांश्च स्थापयामास जैनधर्मप्रणीतकान् ।। ४५ ।।

सर्वे वर्णास्तथाभूता जैन धर्मसमाश्रिताः ।।

ब्राह्मणा नैव पूज्यंते न च शांतिकपौष्टिकम् ।। ४६ ।।

न ददाति कदा दानमेवं कालः प्रवर्तते ।।

लब्धशासनका विप्रा लुप्तस्वाम्या अहर्निशम् ।। ४७ ।।

समाकुलितचित्तास्ते नृपमामं समाययुः ।।

कान्यकुब्जस्थितं शूरं पाखण्डैः परिवेष्टितम् ।। ४८ ।।

कान्यकुब्जपुरं प्राप्य कतिभिर्वासरैर्नृप ।।

गंगोपकण्ठे न्यवसञ्छ्रांतास्ते मोढवाडवाः ।। ४९ ।।

चारैश्च कथितास्ते च नृपस्याग्रे समागताः ।।

प्रातराकारिता विप्रा आगता नृपसंसदि ।। 3.2.36.५० ।।

प्रत्युत्थानाभिवादादीन्न चक्रे सादरं नृपः ।।

तिष्ठतो ब्राह्मणान्सर्वान्पर्यपृच्छदसौ ततः ।। ५१ ।।

किमर्थमागता विप्राः किंस्वित्कार्यं ब्रुवंतु तत् ।। ५२ ।।

।। विप्रा ऊचुः ।। ।।

धर्मारण्यादिहायातास्त्वत्समीपं नराधिप ।।

राजंस्तव सुतायास्तु भर्ता कुमारपालकः ।। ५३ ।।

तेन प्रलुप्तं विप्राणां शासनं महदद्भुतम् ।।

वर्तता जैनधर्मेण प्रेरितेनेंद्रसूरिणा ।। ५४ ।।

।। राजोवाच ।। ।।

केन वै स्थापिता यूयमस्मिन्मोहेरके पुरे ।।

एतद्धि वाडवाः सर्वं ब्रूत वृत्तं यथातथम् ।। ५५ ।।

।। विप्रा ऊचुः ।। ।।

काजेशैः स्थापिताः पूर्वं धर्मराजेन धीमता ।।

कृता चात्र शुभे स्थाने रामेण च ततः पुरी ।। ५६ ।।

शासनं रामचंद्रस्य दृष्ट्वाऽन्यैश्चैव राजभिः ।।

पालितं धर्मतो ह्यत्र शासनं नृपसत्तम ।। ५७ ।।

इदानीं तव जामाता विप्रान्पालयते न हि ।।

तच्छ्रुत्वा विप्रवाक्यं तु राजा विप्रानथाब्रवीत् ।। ५८ ।।

यांतु शीघ्रं हि भो विप्राः कथयंतु ममाज्ञया ।।

राज्ञे कुमारपालाय देहि त्वं ब्राह्मणालयम् ।। ५९ ।।

श्रुत्वा वाक्यं ततो विप्राः परं हर्षमुपागताः ।।

जग्मुस्ततोऽतिमुदिता वाक्यं तत्र निवेदितम् ।। 3.2.36.६० ।।

श्वशुरस्य वचः श्रुत्वा राजा वचनमब्रवीत् ।।

।। कुमारपाल उवाच ।। ।।

रामस्य शासनं विप्राः पालयिष्याम्यहं नहि ।। ६१ ।।

त्यजामि ब्राह्मणान्यज्ञे पशुहिंसापरायणान् ।।

तस्माद्धि हिंसकानां तु न मे भक्तिर्भवेद्द्विजाः ।। ६२ ।। ।।

।। ब्राह्मणा ऊचुः ।। ।।

कथं पाखंडधर्मेण लुप्तशासनको भवान् ।।

पालयस्व नृपश्रेष्ठ मा स्म पापे मनः कृथाः ।। ६३ ।।

।। राजोवाच ।। ।।

अहिंसा परमो धर्मो अहिंसा च परं तपः ।।

अहिंसा परमं ज्ञानमहिंसा परमं फलम् ।। ६४ ।।

तृणेषु चैव वृक्षेषु पतंगेषु नरेषु च ।।

कीटेषु मत्कुणाद्येषु अजाश्वेषु गजेषु च ।। ६५।।

लूतासु चैव सर्पेषु महिष्यादिषु वै तथा ।।

जंतवः सदृशा विप्राः सूक्ष्मेषु च महत्सु च ।। ६६ ।।

कथं यूयं प्रवर्तध्वे विप्रा हिंसापरायणाः ।।

तच्छ्रुत्वा वज्रतुल्यं हि वचनं च द्विजोत्तमाः ।। ६७ ।।

प्रत्यूचुर्वाडवाः सर्वे क्रोधरक्तेक्षणा दृशा ।। ६८ ।। ।।

।। ब्राह्मणा ऊचुः ।। ।।

अहिंसा परमो धर्मः सत्यमेतत्त्वयोदितम् ।।

परं तथापि धर्मोऽस्ति शृणुष्वैकाग्रमानसः ।। ६९ ।।

या वेदविहिता हिंसा सा न हिंसेति निर्णयः ।।

शस्त्रेणाहन्यते यच्च पीडा जंतुषु जायते ।। 3.2.36.७० ।।

स एवाधर्म एवास्ति लोके धर्मविदां वर ।।

वेदमंत्रैविहन्यंते विना शस्त्रेण जंतवः ।। ७१ ।।

जंतुपीडाकरा नैव सा हिंसा सुखदायिनी ।।

परोपकारः पुण्याय पापाय परपीडनम् ।। ७२ ।।

वेदोदितां विधायापि हिंसां पापैर्न लिप्यते ।।

विप्राणां वचनं श्रुत्वा पुनर्वचनमब्रवीत् ।। ७३ ।।

।। राजोवाच ।। ।।

ब्रह्मादीनां परं क्षेत्रं धर्मारण्यमनुत्तमम् ।।

ब्रह्मविष्णु महेशाद्या नेदानीमत्र संति ते ।। ७४ ।।

न धर्मो विद्यते वात्र उक्तो रामः स मानुषः ।।

क्व वापि लंबपुछोऽसौ यो मुक्तो रक्षणाय वः ।। ७५ ।।

शासनं चेन्न दृष्टं वो नैव तत्पालयाम्यहम् ।।

द्विजाः कोपसमाविष्टा ददुः प्रत्युत्तरं तदा ।। ७६ ।।

।। द्विजा ऊचुः ।। ।।

रे मूढ त्वं कथं वेत्थ भाषसे मदलोलुपः ।।

स दैत्यानां विनाशाय धर्मसंरक्षणाय च ।। ७७ ।।

रामश्चतुर्भुजः साक्षान्मानुषत्वं गतो भुवि ।।

अगतीनां च गतिदः स वै धर्मपरायणः ।।

दयालुश्च कृपालुश्च जंतूनां परिपालकः ।। ७८ ।।

।। राजोवाच ।। ।।

कुतोऽद्य वर्त्तते रामः कुतो वै वायुनंदनः ।।

भ्रष्टाभ्रमिव ते सर्वे क्व रामो हनुमानिति ।। ७९ ।।

परंतु रामो हनुमान्यदि वर्त्तेत सर्वतः ।।

इदानीं विप्रसाहाय्य आगमिष्यति मे मतिः ।। 3.2.36.८० ।।

दर्शयध्वं हनूमंतं रामं वा लक्ष्मणं तथा ।।

यद्यस्ति प्रत्ययः कश्चित्स नो विप्राः प्रदर्श्यताम् ।।८१।।

उक्तं तै रामदेवेन दूतं कृत्वांजनीसुतम् ।।

चतुश्चत्वारिंशदधिकं दत्तं ग्रामशतं नृप ।। ६२ ।।

पुनरागत्य स्थानेऽस्मिन्दत्ता ग्रामास्त्रयोदश ।।

काश्यप्यां चैव गंगायां महादानानि षोडश ।। ८३ ।।

दत्तानि विप्रमुख्येभ्यो दत्ता ग्रामाः सुशोभनाः ।।

पुनः संकल्पिता वीर षट्पंचाशकसंख्यया ।। ८४ ।।

षट्त्रिंशच्च सहस्राणि गोभुजा जज्ञिरे वराः ।।

सपादलक्षा वणिजो दत्ता मांडलिकाभिधाः ।। ८५ ।।

तेनोक्तं वाडवाः सर्वे दर्शयध्वं हि मारुतिम् ।।

यस्याभिज्ञानमात्रेण स्थितिं पूर्वां ददाम्यहम् ।। ८६ ।।

विप्रवाक्यं करिष्यामि प्रत्ययो दर्श्यते यदि ।।

ततः सर्वे भविष्यंति वेदधर्मपरायणाः ।। ८७ ।।

अन्यथा जैनधर्मेण वर्त्तयध्वं हि सर्वशः ।।

नृपवाक्यं तु ते श्रुत्वा स्वेस्वे स्थाने समागताः ।। ८८ ।।

वाडवः खिन्नमनसः क्रोधेनांधीकृता भुवि ।।

निश्वासान्मुंचमानास्ते हाहेति प्रवदंति च ।।८९।।

दंतान्प्राघर्षयन्सर्वान्न्यपीडंश्च करैः करान् ।।

परस्परं भाषमाणाः कथं कुर्मो वयं त्वितः ।।3.2.36.९०।।

मिलित्वा वाडवाः सर्वे चक्रुस्ते मंत्रमुत्तमम् ।।

रामवाक्यं हृदि ध्यात्वा ध्यात्वा चैवांजनीसुतम्।।९१।।

द्विजमेलापकं चक्रुर्बाला वृद्धतमा अपि ।।

तेषां वृद्धतमो विप्रो वाक्यमूचे शुभं तदा ।। ९२ ।।

चतुःषष्टिश्च गोत्राणामस्माकं ये द्विसप्ततिः ।।

स्वस्वगोत्रस्यावटंका एकग्रामाभिभाषिणः ।। ९३ ।।

प्रयातु स्वस्ववर्गस्य एको ह्येको द्विजः सुधीः ।।

रामेश्वरं सेतु बंधं हनूमांस्तत्र विद्यते ।। ९४ ।।

सर्वे प्रयांतु तत्रैव रामपार्श्वे निरामयाः ।।

निराहारा जितक्रोधा मायया वर्जिताः पुनः ।। ९५ ।।

एकाग्रमानसाः सर्वे स्तुत्वा ध्यात्वा जपंतु तम् ।।

ततो दाशरथी रामो दयां कृत्वा द्विजन्मसु ।।९६।।

शासनं च प्रदास्यति अचलं च युगेयुगे ।।

महता तपसा तुष्टः प्रदास्यति समीहितम् ।। ९७ ।।

यस्य वर्गस्य यो विप्रो न प्रयास्यति तत्र वै ।।

स च वर्गात्परित्याज्यः स्थानधर्मान्न संशयः ।।९८।।

वणिग्वृत्ते न संबंधे न विवाहे कदाचन ।।

ग्रामवृत्ते न संबंधः सर्वस्थाने बहिष्कृताः ।। ९९ ।।

सभावाक्यं च तच्छ्रुत्वा तन्मध्ये वाडवः शुचिः ।।

वाग्मी दक्षः सुशब्दश्च त्रिरवैः श्रावयन्द्विजान् ।। 3.2.36.१०० ।।

प्रतिवाक्यं दत्ततालं तिष्ठन्नेतद्वचोऽब्रवीत् ।।

असत्यवादिनां यच्च पातकं परिनिंदके ।।

परदाराभिगमने परद्रोहरते नरे ।। १ ।।

मद्यपेषु च यत्पापं यत्पापं हेमहारिषु ।।

तत्पापं च भवेत्तस्य गमने यः पराङ्मुखः ।।

अथ किं बहुनोक्तेन यांतु सत्यं द्विजोत्तमाः ।। २ ।।

तच्छ्रुत्वा दारुणं वाक्यं गमनाय मनो दधे ।।

गच्छतस्तान्द्विजाञ्छ्रुत्वा राजा कुमारपालकः ।। ३ ।।

समाहूय कृषेः कर्म भिक्षाटनमथापि वा ।।

नानागोत्रेभ्यो ब्राह्मणेभ्यः प्रापयिष्ये न संशयः ।। ४ ।।

तच्छ्रुत्वा व्यथिताः सर्वे किं भविष्यत्यतः परम् ।।

तथा त्रीणि सहस्राणि प्रबंधं चक्रिरे तदा ।। ५ ।।

गमिष्यामो वयं सर्वे रामं प्रति न संशयः ।।

हस्ताक्षरप्रदानं वै अन्योन्यं तु कृतं द्विजैः ।। ६ ।।

कृतांजलिपुटा विप्रा वाक्यमेतदथाब्रुवन् ।।

नश्यतेऽत्र त्रयी विद्या त्रयीमूर्तिः प्रकुप्यति ।। ७ ।।

तस्मात्तत्रैव गंतव्यमष्टादशसहस्रकैः ।।

ततः स वणिजः सर्वान्समाहूय च गोभुजान् ।। ८ ।।

वाक्यमूचे नृपश्रेष्ठो वारयध्वं द्विजानिति ।। ९ ।।

।। व्यास उवाच ।।

न जैनधर्मे ये लिप्ता गोभुजा वणिगुत्तमाः ।।

वृत्तिभंगभयात्तत्र मौनमेव समाचरन् ।। 3.2.36.११० ।।

वारयाम कथं विप्रान्वह्निरूपान्दहंति ते ।।

शापाग्निना नरपते द्विजा मृत्युपरायणाः ।। ११ ।।

अडालयेषु ये जाताः शूद्रा आहूय तान्नृपः ।।

निवार्यंतामिति प्राह वाडवा गमनोद्यताः ।। ।। १२ ।।

तेषां मध्ये कतिपया जैनधर्मसमाश्रिताः ।।

गता वाडवपुंजेषु राजादेशान्निवारणे ।। १३ ।।

।। केचिच्छ्रूद्रा ऊचुः ।। ।।

क्व रामो लक्ष्मणोपेतः क्व च वायुसुतो बली ।।

वर्तमानेन कालेन वक्तव्यं द्विजसत्तमाः ।। १४ ।।

व्याघ्रसिंहाकुले दुर्गे वने वनगजाश्रिते ।।

परित्यज्य प्रियान्प्राणान्पुत्रान्दारान्निकेतनान्।। १५ ।।

किमर्थं गम्यते विप्रा राज्ये वै दुष्टशासने ।।

तच्छ्रुत्वा वाडवाः केचिद्वाक्येन मनसाऽस्मरन् ।। १६ ।।

पंचदशसहस्रास्ते वाडवा नृपसत्तमात् ।।

भयाल्लोभाच्च दानाच्च तत्सर्वं भवतामिति ।। १७ ।।

वृत्तोपकल्पनेनैव करिष्यामः कदाचन ।।

कृषि कर्म करिष्यामो भिक्षाटनमथापि वा ।। १८ ।।

ततश्च ते पंचदशसहस्रा द्विजसत्तमाः ।।

दारुणं वाक्यमूचुस्तान्यांतु चान्ये यथोचितम् ।। १९ ।।

शासनं भवतामस्तु रामदत्तं न संशयः ।।

त्रयीविद्यास्तु विख्याताः सर्वे वाडवपुंगवाः ।। 3.2.36.१२० ।।

सहस्राणि च त्रीण्येव त्रैविद्या अभवन्ध्रुवम्।।।। २१ ।।

।। राजोवाच ।। ।।

चतुर्धांशेन राज्यं च किंचिद्दत्ता वसुन्धरा ।।

तस्माच्चतुर्विधेत्येवं ज्ञातिबन्धमतः परम् ।। २२ ।।

च्यवनो दास्यते कन्यां यूयं कन्यामवाप्नुत ।।

न वृत्तिर्न च संबंधो भवतां स्यात्कदापि वा ।। २३ ।।

इति तस्य वचः श्रुत्वा त्रयीविद्याश्च वाडवाः ।।

स्वेस्वे स्थाने गताः सर्वे संकेतादनिवृत्त्य च ।। २४ ।।

पंचदश सहस्राणि ततस्तु द्विजपुंगवाः ।।

यथागतं गताः सर्वे चातुर्विद्या द्विजोत्तमाः ।। २५ ।।

तद्दिने अतिवाह्याथ चिंताविष्टेन चेतसा ।।

वार्यमाणाः स्वपुत्रैस्ते दारैश्च विनयान्वितैः ।। २६ ।।

एकाग्रमानसा सर्वे न निद्रामुपलेभिरे ।।

ब्राह्मे मुहूर्ते चोत्थाय मायां त्यक्ता हि लौकिकीम् ।। २७ ।।

परित्यज्य प्रियान्पुत्रान्दारान्सनिलयानपि ।।

ग्रामोपांतेषु मिलिताः सर्वे वाडवपुंगवाः ।। २८ ।।

सहस्राणि तदा त्रीणि कृतनित्याह्निकक्रियाः ।।

विप्रेभ्यो दक्षिणां दत्त्वा संपूज्य कुलमातरम् ।। २९ ।।

विप्रसंघविनाशाय दक्षिणद्वारसंस्थितः ।।

सिंदूरपुष्पमालाभिः पूजितो गणनायकः।।3.2.36.१३०।।

पूजितो बकुलस्वामी सूर्य- सर्वार्थसाधकः।।

आदराच्च महाशक्तिः श्रीमाता पूजिता तथा।।३१।।

शांतां चैव नमस्कृत्य ज्ञानजां गोत्रमातरम्।।

गमनेनोद्यमानास्ते परं हर्षमुपाययुः।।३२।।

चातुर्विद्या द्विजाश्चैव पुनरामंत्र्य तान्प्रति।।

पप्रच्छुश्च मुहुः सर्वं समागमनकारणम् ।। ३३ ।।

।। विप्रा ऊचुः ।। ।।

न गंतव्यं भवद्भिर्वै गत्वा वाऽऽयांतु सत्वराः ।। ३४ ।।

यथा रामप्रदत्तं हि उपकल्पयसेऽचिरात् ।।

श्रुत्वा पुनरथोचुस्ते चातुर्विद्या द्विजोत्तमाः ।। ३५ ।।

न स्थानेन द्विजैर्वापि न च वृत्त्यां कथंचन ।।

वयं नैवागमिष्यामः कथनीयं न वै पुनः ।। ३६ ।।

रघूद्वहेन दत्ता वै वृत्तिर्वो द्विजसत्तमाः ।।

तां वृत्तिं प्रति यास्यामो जपहोमार्चनादिभिः ।। ३७ ।।

ते पंचदशसाहस्राः पुनस्तानूचुरादरात् ।।

अस्माभिरत्र स्थातव्यमग्निसेवार्थतत्परैः ।। ३८ ।।

युष्माभिस्तत्र गंतव्यं सर्वेषां कार्यसिद्धये ।।

अन्योन्यं सर्वसाहाया वृत्तिं याम न संशयः ।। ३९ ।।

त्यक्तस्वकीयवचना वृत्तिहीना भविष्यथ ।।

ततस्तन्मध्यतः कश्चिच्चातुर्विद्य उवाच ह।।3.2.36.१४०।।

चातुर्विद्य उवाच।।

पूर्वं हि वृत्तिमस्माकं रामो वै दत्तवान्द्विजाः।।

चातुर्विद्या महासत्त्वाः स्वधर्मप्रतिपालकाः ।। ४१ ।।

याजनाध्ययनायुक्ताः काजेशेन विनिर्मिताः ।।

दानं दत्त्वा तु रामेण उक्तं हि भवतां पुनः ।। ४२ ।।

स्थानं त्यक्त्वा न गंतव्यमित्थं हि नियमः कृतः ।।

आपत्काले तु स्मर्तव्यो वायुपुत्रो महाबलः ।। ४३ ।।

इति रामेण पूर्वं हि स्वे स्थाने स्थापितास्तदा ।।

राम वाक्यमन्यथा तत्कृत्वा गच्छेत्कथं पुनः ।। ४४ ।।

तस्माद्युष्मान्वयं ब्रूमो गच्छत कार्यसिद्धये ।।

भवतां कार्यसिद्ध्यर्थं वयं होमार्चनादिभिः ।। ४५ ।।

झटिति कार्यसिद्धिः स्यात्सत्यं सत्यं न संशयः ।।

इति वाक्यं ततः श्रुत्वा ते द्विजा गमनं प्रति ।। ४६ ।।

प्रस्थानं च विधायादौ गमनाय मनो दधुः ।।

त्रिसाहस्रास्तदा तस्मात्प्रस्थिता द्विजसत्तमाः ।। ४७ ।।

देशाद्देशांतरं गत्वा वनाच्चैव वनांतरम् ।।

तीर्थेतीर्थे कृतश्राद्धाः सुसंत सत्यव्रतपरायणाः ।।

ते गता दूरमध्वानं हनुमद्दर्शनार्थिनः।।3.2.36.१५०।।

संध्यामुपासते नित्यं त्रिकालं चैकमानसाः।।

एवं तु गच्छतां तेषां शकुना अभवच्छुभाः ।। ५१ ।।

एवं तु गच्छतां तेषां पाथेयं त्रुटितं तदा ।।

श्रांता ग्लानिं गताः सर्वे पदं परममास्थिताः ।। ५२ ।।

क्रमित्वा कियती भूमिं पदं गंतुं न तु क्षमाः ।।

मनसा निश्चयं कृत्वा दृढीकृत्य स्वमानसम् ।। ५३ ।।

हनtमंतमदृष्ट्वैव न यास्यामो वयं गृहान् ।। त्रै

विद्यास्तु गतास्तत्र यत्र रामेश्वरो हरिः ।। ५४ ।।

दृढव्रताः सत्यपराः कन्दमूलफलाशनाः ।।

ध्यायंतो रामरामेति हनूमंतेति वै पुनः ।। ५५ ।।

गृहीत्वा नियमं तेऽपि त्यक्त्वा चान्नं तथोदकम् ।।

तृषार्ताश्च क्षुधार्ताश्च ययुर्व्रतपरायणाः ।। ५६ ।।

एवं तु क्लिश्यमानानां द्विजानां भक्तिभाजनः ।।

उद्विग्नमानसो रामो हनूमंतमथाब्रवीत् ।। ५७ ।।

शीघ्रं गच्छ द्विजार्थे त्वं पवनात्मज धर्मवित् ।।

क्लिश्यंते वाडवाः सर्वे धर्मारण्यनिवासिनः ।। ५८ ।।

दह्यते मानसं मेऽद्य नान्यथा शान्तिरस्ति मे ।।

विप्राणां दुःखकर्त्ता च शास्तव्यो नात्र संशयः ।। ५९ ।।

येन वै दुःखिता विप्रास्तेनाहं दुःखितः कपे ।।3.2.36.१६०।।

रामस्य वचनं श्रुत्वा नमस्कृत्य च राघवम्।।

कृपया परयाविष्टः प्रादुरासीद्धरीश्वरः।। ।।६१।।

वृद्धब्राह्मणरूपेण परीक्षार्थं द्विजन्मनाम्।।

उवाच परया भक्त्या ब्राह्मणाञ्छ्रमदुर्बलान्।।६२।।

कृतांजलिपुटो भूत्वा करान्मुक्त्वा कमंडलुम् ।।

सर्वान्प्रत्यभिवाद्याथ वचनं चेदमब्रवीत् ।। ६३ ।।

कुतः स्थानादिह प्राप्ता गंतुकामाश्च वै कुतः ।।

किमर्थं वै भवद्भिश्च गम्यते दारुणं वनम् ।। ६४।।

।। विप्रा ऊचुः ।। ।।

धर्मारण्यात्समायाता निजदुःखं निवेदितुम् ।।

रामस्य दर्शनार्थं हि गंतुकामा वयं द्विजाः ।। ६५ ।।

सेतुबंधं महातीर्थं सर्वकामप्रदायकम्।।

नियमस्थाः क्षीणदेहा रामं द्रष्टुं समुत्सुकाः ।। ६६ ।।

यत्र रामेश्वरो देवः साक्षाद्वायुसुतः कपिः ।।

तच्छ्रुत्वा स द्विजः प्राह क्व रामः क्व च वायुजः ।। ६७ ।।

क्व सेतुबंधरामेशो दूराद्दूरतरो द्विजाः ।।

व्याघ्रसिंहाकुलं चोग्रं वनं घोरतरं महत्।।

गत्वा यस्मान्न वर्तंते तदुग्रमनुजीविनः ।।

निवर्तध्वं महाभागा यदि कार्यं हि मद्वचः ।। ६९ ।।

अथवा गम्यतां विप्राश्चिरं जीव सुखी भव ।।

वृद्धस्य वाक्यं तच्छ्रुत्वा वाडवाश्चैकमानसाः ।।3.2.36.१७०।।

विप्र गच्छामहे सर्वे रामपार्श्वमसंशयः ।।

म्रियेत यदि मार्गेऽस्मिन्रामलोक मवाप्नुय्रात् ।। ७१ ।।

जीवन्वृत्तिमवाप्नोति रामदेव न संशयः ।।

अन्यथा शरणं नास्ति अस्माकं राघवं विना ।। ७२ ।।

इत्युक्त्वा निर्गताः सर्वे रामदर्शनतत्पराः ।।

दिनांतमतिवाह्याथ प्रभाते विमले पुनः ।। ७३ ।।

हनुमान्ब्रह्मरूपी स वृद्धः पूर्वगुणान्वितः ।।

कमंडलुधरो धीमानभिवादनत त्परः ।। ७४ ।।

कुत्रस्थानादिह प्राप्ताः सर्वे यूयं हि वाडवाः ।।

कुत्रास्ति वा महालाभो विवाहोत्सव एव वा ।। ७५ ।।

इति तस्य वचः श्रुत्वा वाडवा विस्मयं गताः ।।

प्रणामपूर्वां विज्ञप्तिं कथयामासुरादृताः ।। ७६ ।।

अस्माकं तु पुरा वृत्तं महदाश्चर्यकारकम् ।।

भूमिदेव शृणुष्व त्वं दयालुर्दृश्यसे यतः ।। ७७ ।।

आदौ सृष्टिसमारंभे स्थापिता केशवेन च ।।

शिवेन ब्रह्मणा चैव त्रिमूर्तिस्थापिता वयम् ।। ७८ ।।

श्री रामेण ततः पश्चाज्जीर्णोद्धारेण स्थापिताः ।।

ग्रामाणां वेतनं दत्तं हरिराजेन चादरात्।।७९।।

चतुश्चत्वारिंशदधिकचतुःशतमितात्मनाम् ।।

ग्रामास्त्रयोदशार्चार्थं सीतापुरसमन्विताः।।। ।।3.2.36.१८०।।

षट्त्रिंशच्च सहस्राणि वणिजो द्विजपालने ।।

गोभूजसंज्ञास्ते शूद्रास्तेभ्यः सपादलक्षकाः ।। ८१ ।।

ते च जातास्त्रिधा तात गोभूजाडालजा स्तथा ।।

मांडलीयास्तथा चैते त्रिविधाश्च मनोरमाः ।।८२।।

वृत्त्यर्थं तेन दत्ता वै ह्यनर्घ्या रत्नकोटयः ।।

तदा ते मोढ १८००० गोभूजा१८० ०० ।

मांडलीया १२५००० अडालजाः १८००० ।।८३।।

अधुना वाडवश्रेष्ठ आमोनाम महीपतिः ।।

शासनं रामचंद्रस्य न मानयति दुर्मतिः ।।८४।।।

जामाता तस्य दुष्टो वै नाम्ना कुमारपालकः ।।

पाषंडैर्वेंष्टितो नित्यं कलिधर्मेण संमतः ।। ८५ ।।

इन्द्रसूत्रेण जैनेन प्रेरितो बौद्धधर्मिणा ।।

शासनं तेन लुप्तं हि रामदत्तं न संशयः ।। ८६ ।।

वाणिजस्तादृशाः केऽपि तन्मनस्का बभूविरे ।।

निषेधयंति रामं ते हनुमंतं महामतिम् ।।८७।।

प्रत्ययं तु विना विप्रा न दास्यामीति निश्चितम् ।।

तं ज्ञात्वा तु इमे विप्रा रामं शरणमाययुः ।।८८।।

हनुमंतं महावीरं रामशासनपालकम् ।।

तस्माद्गच्छामहे सर्वे रामं प्रति महामते ।। ८९ ।।

आंजनेयो यदास्माकं न दास्यति समीहितम् ।।

अनाहारव्रतेनैव प्राणांस्त्यक्ष्यामहे वयम् ।। 3.2.36.१९० ।।

अस्माभिस्ते विशेषेण कथितं परिपृच्छते ।।

स्नेहभावं विचिंत्याशु निजवृत्तिं प्रकाशय ।।९१।।

हनुमानुवाच ।।

प्राप्ते कलियुगे विप्राः क्व देवदर्शनं भवेत् ।।

निवर्त्तध्वं हि विप्रेन्द्रा यदीच्छथ सुखं महत् ।। ९२ ।।

व्याघ्रसिंहाकुले शून्ये वने वनगजाश्रिते ।।

बहुदावसमाविष्टे प्रवेष्टुं नैव शक्यते ।। ९३ ।।

।। विप्रा ऊचुः ।। ।

अतीते दिवसे विप्र एकं कथितवानिदम् ।।

अद्यैव त्वं समागम्य एवमेव प्रभाषसे ।। ९४ ।।

कस्त्वं वाडवरूपेण रामो वाप्यथ वायुजः ।।

सत्यं कथय नः स्वास्मिन्दयां कृत्वा महाद्विज ।। ९५ ।।

हनुमान्कथयामास गोपितं यद्द्विजाग्रतः ।।

हनुमानित्यहं विप्रा बुध्यध्वं निश्चिता हि माम् ।। ९६ ।।

स्वरूपं प्रकटीकृत्य लांगूलं दर्शयन्महत् ।। ९७ ।। ।।

हनुमानुवाच ।। ।।

अयमंभोनिधिः साक्षात्सेतुबंधो मनोरमः ।।

अयं रामेश्वरो देवो गर्भवासविनाशकृत् ।। ९८ ।।

इयं तु नगरी श्रेष्ठा लंकानामेति विश्रुता ।।

यत्र सीता मया प्राप्ता रामशोकापहारिणी ।। ९९ ।।

तर्जन्यग्रे द्विजश्रेष्ठा अगम्या मां विना परैः ।।

सा सुवर्णमयी भाति यस्यां राज्ये विभीषणः ।। 3.2.36.२०० ।।

स्थापितो रामदेवेन सेयं लंका महापुरी ।।

नियमस्थैः साधुवृंदैस्तीर्थयात्राप्रसंगतः ।। २०१ ।।

आनीय गंगासलिलं रामेशमभिषिच्य च ।।

क्षिप्ता एते महाभारा दृश्यंते सागरांतरे ।।२०२।।।

निष्पापास्तेन संजाताः साधवस्ते दृढव्रताः ।।

नूनं पुण्योदये वृद्धिः पापे हानिश्च जायते ।। २०३ ।।

स्थानभ्रष्टाः कृताः पूर्वं चातुर्विद्या द्विजातयः ।।

जीर्णोद्धारेण रामेण स्थापिताः पुनरेव हि ।।

पूर्वजन्मनि भो विप्रा हरिपूजा कृता मया ।। २०४ ।।

सांप्रतं निश्चला भक्तिर्भवत्सेवा हि दृश्यते ।।

तेन पुण्यप्रभावेण तुष्टो दास्यामि वो वरम् ।। २०५ ।।

धन्योहं कृतकृत्योहं सुभाग्योहं धरातले ।।

अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।। २०६ ।।

यदहं ब्राह्मणानां च प्राप्तवांश्चरणांतिकम् ।। २०७ ।।

।। व्यास उवाच ।। ।।

दृष्ट्वैव हनुमन्तं ते पुलकांकितविग्रहाः ।।

सगद्गदं यथोचुस्ते वाक्यं वाक्यविशारदाः ।। २०८ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे धर्मारण्य माहात्म्ये हनुमत्समागमो नाम षट्त्रिंशोऽध्यायः।।३६।।

खण्डः ३ (ब्रह्मखण्डः) · धर्मारण्य खण्डः — Adhyāya 37

।।व्यास उवाच।।

ततस्ते ब्राह्मणाः सर्वे प्रत्यूचुः पवनात्मजम्।।

अधुना सफलं जन्म जीवितं च सुजीवितम् ।। १ ।।

अद्य नो मोढलोकानां धन्यो धर्मश्च वै गृहाः।।

धन्या च सकला पृथ्वी यज्ञधर्मा ह्यनेकशः ।। २ ।।

नमः श्रीराम भक्ताय अक्षविध्वंसनाय च ।।

नमो रक्षःपुरीदाहकारिणे वज्रधारिणे ।। ३ ।।

जानकीहृदयत्राणकारिणे करुणात्मने ।।

सीताविरह तप्तस्य श्रीरामस्य प्रियाय च ।। ४ ।।

नमोऽस्तु ते महावीर रक्षास्मान्मज्जतः क्षितौ ।।

नमो ब्राह्मणदेवाय वायुपुत्राय ते नमः ।। ५ ।।

नमोऽस्तु राम भक्ताय गोब्राह्मणहिताय च ।।

नमोस्तु रुद्ररूपाय कृष्णवक्त्राय ते तमः ।। ६ ।।

अंजनीसूनवे नित्यं सर्वव्याधिहराय च ।।

नागयज्ञोपवीताय प्रबलाय नमोऽस्तु ते ।। ७ ।।

स्वयं समुद्रतीर्णाय सेतुबंधनकारिणे ।। ८ ।।

।। व्यास उवाच ।। ।।

स्तोत्रेणैवामुना तुष्टो वायुपुत्रोऽब्रवीद्वचः ।।

शृणुध्वं हि वरं विप्रा यद्वो मनसि रोचते ।। ९ ।।

।। विप्रा ऊचुः ।। ।।

यदि तुष्टोऽसि देवेश रामाज्ञापालक प्रभो ।।

स्वरूपं दर्शयस्वाद्य लंकायां यत्कृतं हरे ।। 3.2.37.१० ।।

तथा विध्वंसवाद्य त्वं राजानं पापकारिणम् ।।

दुष्टं कुमारपालं हि आमं चैव न संशयः ।। ११ ।।

वृत्तिलोपफलं सद्यः प्राप्नुयात्त्वं तथा कुरु ।।

प्रतीत्यर्थं महाबाहो किं विलंबं वदस्व नः ।।१२।।

त्वयि चित्तेन दत्तेन स राजा पुण्यभाग्भवेत् ।।

प्रत्यये दर्शिते वीर शासनं पालयिष्यति ।। १३ ।।

त्रयीधर्म्मः पृथिव्यां तु विस्तारं प्रापयिष्यति ।।

धर्मधीर महावीर स्वरूपं दर्शयस्व नः ।। १४ ।।

।। हनुमानुवाच ।। ।।

मत्स्वरूपं महाकायं न चक्षुर्विषयं कलौ ।।

तेजोराशिमयं दिव्यमिति जानंतु वाडवाः ।। १५ ।।

तथापि परया भक्त्या प्रसन्नोऽहं स्तवादिभिः ।।

वसनांतरितं रूपं दर्शयिष्यामि पश्यत ।। १६ ।।

एवमुक्तास्तदा विप्राः सर्वकार्यसमुत्सुकाः ।।

महारूपं महाकायं महापुच्छसमाकुलम् ।। १७ ।।

दृष्ट्वा दिव्यस्वरूपं तं हनुमंतं जहर्षिरे ।।

कथंचिद्धैर्यमालंब्य विप्राः प्रोचुः शनैः शनैः ।। १८ ।।

यथोक्तं तु पुराणेषु तत्तथैव हि दृश्यते ।।

उवाच स हि तान्सर्वांश्चक्षुः प्रच्छाद्य संस्थितान् ।। १९ ।।

फलानीमानि गृह्णीध्वं भक्षणार्थमृषीश्वराः ।।

एभिस्तु भक्षितैर्विप्रा ह्यतितृप्तिर्भविष्यति ।। 3.2.37.२० ।।

धर्मारण्यं विना वाद्य क्षुधा वः शाम्यति धुवम् ।। २१ ।।

।। व्यास उवाच ।। ।।

क्षुधाक्रांतैस्तदा विप्रैः कृतं वै फलभक्षणम् ।।

अमृतप्राशनमिव तृप्तिस्तेषामजायत ।। २२ ।।

न तृषा नैव क्षुच्चैव विप्राः संक्लिष्टमानसाः ।।

अभवन्सहसा राजन्विस्मयाविष्टचेतसः ।।२३।।

ततः प्राहांजनीपुत्रः संप्राप्ते हि कलौ द्विजाः ।।

नागमिष्याम्यहं तत्र मुक्त्वा रामेश्वरं शिवम् ।। २४ ।।

अभिज्ञानं मया दत्तं गृहीत्वा तत्र गच्छत ।।

तथ्यमेतत्प्रतीयेत तस्य राज्ञो न संशयः ।। २५ ।।

इत्युक्त्वा बाहुमुद्धृत्य भुजयोरुभयोरपि ।।

पृथग्रोमाणि संगृह्य चकार पुटिकाद्वयम् ।। २६ ।।

भूर्जपत्रेण संवेष्ट्य ते अदाद्विप्रकक्षयोः ।।

वामे तु वामकक्षोत्थां दक्षिणोत्थां तु दक्षिणे ।। २७ ।।

कामदां रामभक्तस्य अन्येषां क्षयकारिणीम् ।।

उवाच च यदा राजा ब्रूते चिह्नं प्रदीयताम् ।। २८ ।।

तदा प्रदीयतां शीघ्रं वामकक्षोद्भवा पुटी ।।

अथवा तस्य राज्ञस्तु द्वारे तु पुटिकां क्षिप ।। २९ ।।

ज्वालयति च तत्सैन्यं गृहं कोशं तथैव च ।।

महिष्यः पुत्रकाः सर्वं ज्वलमानं भविष्यति ।। 3.2.37.३० ।।

यदा तु वृत्तिं ग्रामांश्च वणिजानां बलिं तथा ।।

पूर्वं स्थितं तु यत्किंचित्तत्तद्दास्यति वाडवाः ।। ३१ ।।

लिखित्वा निश्चयं कृत्वाप्यथ दद्यात्स पूर्ववत् ।।

करसंपुटकं कृत्वा प्रणमेच्च यदा नृपः ।। ३२ ।।

संप्राप्य च पुरा वृत्तिं रामदत्तां द्विजोत्तमाः ।।

ततो दक्षिणकक्षास्थकेशानां पुटिका त्वियम् ।। ३३ ।।

प्रक्षिप्यतां तदा सैन्यं पुरावच्च भविष्यति ।।।

गृहाणि च तथा कोशः पुत्रपौत्रादयस्तथा ।। ३४ ।।

वह्निना मुच्यमानास्ते दृश्यंते तत्क्षणादिति ।।

श्रुत्वाऽमृतमयं वाक्यं हनुमंतोदितं परम् ।।३५।।

अलभन्त मुदं विप्रा ननृतुः प्रजगुर्भृशम् ।।

जयं चोदैरयन्केऽपि प्रहसन्ति परस्परम् ।। ३६ ।।

पुलकांकितसर्वाङ्गाः स्तुवन्ति च मुहुर्मुहुः ।।

पुच्छं तस्य च संगृह्य चुचुंबुः केचिदुत्सुकाः ।। ३७ ।।

ब्रूतेऽन्यो मम यत्नेन कार्यं नियतमेव हि ।।

अन्यो ब्रूते महाभाग मयेदं कृतमित्युत ।।।६८।।।

ततः प्रोवाच हनुमांस्त्रिरात्रं स्थीयतामिह ।।

रामतीर्थस्य च फलं यथा प्राप्स्यथ वाडवाः ।। ३९ ।।

तथेत्युक्त्वाथ ते विप्रा ब्रह्मयज्ञं प्रचक्रिरे ।।

ब्रह्मघोषेण महता तद्वनं बधिरं कृतम् ।। 3.2.37.४० ।।

स्थित्वा त्रिरात्रं ते विप्रा गमने कृतबुद्धयः ।।

रात्रौ हनुमतोऽग्रे त इदमूचुः सुभक्तितः ।। ४१।। ।।

।। ब्राह्मणा ऊचुः ।। ।।

वयं प्रातर्गमिष्यामो धर्मारण्यं सुनिर्मलम् ।।

न विस्मार्या वयं तात क्षम्यतां क्षम्यतामिति ।। ४२ ।।

ततो वायुसुतो राजन्पर्वतान्महतीं शिलाम् ।।

बृहतीं च चतुःशालां दशयोजनमायतीम् ।। ४३ ।।

आस्तीर्य प्राह तान्विप्राञ्छिलायां द्विजसत्तमाः ।।

रक्ष्यमाणा मया विप्राः शयीध्वं विगतज्वराः ।। ४४ ।।

इति श्रुत्वा ततः सर्वे निद्रामापुः सुखप्रदाम् ।।

एवं ते कृतकृत्यास्तु भूत्वा सुप्ता निशामुखे ।। ।। ४५ ।।

कृपालुः स च रुद्रात्मा रामशासनपालकः ।।

रक्षणार्थं हि विप्राणामतिष्ठच्च धरातले ।। ४६ ।।

।। व्यास उवाच ।। ।।

अर्द्धरात्रे तु संप्राप्ते सर्वे निद्रामुपागताः ।।

तातं संप्रार्थयामास कृतानुग्रहको भवान् ।। ४७ ।।

समीरण द्विजानेतान्स्थानं स्वं प्रापयस्व भोः ।।

ततो निद्राभिभूतांस्तान्वायुपुत्रप्रणोदितः ।। ४८ ।।

समुद्धृत्य शिलां तां तु पिता पुत्रेण भारत ।।

विशिष्टो यापयामास स्वस्थानं द्विजसत्तमान् ।। ४९ ।।

षड्भिर्मासैश्च यः पन्था अतिक्रांतो द्विजातिभिः ।।

त्रिभिरेव मुहूर्त्तैस्तु धर्मारण्यमवाप्तवान् ।। 3.2.37.५० ।।

भ्रममाणां शिलां ज्ञात्वा विप्र एको द्विजाग्रतः ।।

वात्स्यगोत्रसमुत्पन्नो लोकान्संगीतवान्कलम् ।। ५१ ।।

गीतानि गायनोक्तानि श्रुत्वा विस्मयमाययुः ।।

प्रभाते सुप्रसन्ने तु उदतिष्ठन्परस्परम् ।। ५२ ।।

ऊचुस्ते विस्मिताः सर्वे स्वप्नोऽयं वाथ विभ्रमः ।।

ससंभ्रमाः समुत्थाय ददृशुः सत्यमंदिरम् ।। ५३ ।।

अंतर्बुद्ध्या समालोक्य प्रभावो वायुजस्य च ।।

श्रुत्वा वेदध्वनिं विप्राः परं हर्षमुपागताः ।। ५४ ।।

ग्रामीणाश्च ततो लोका दृष्ट्वा तु महतीं शिलाम् ।।

अद्भुतं मेनिरे सर्वे किमिदं किमिदं त्विति ।। ५५ ।।

गृहेगृहे हि ते लोकाः प्रवदंति तथाद्भुतम् ।।

ब्राह्मणैः पूर्यमाणा सा शिला च महती शुभा ।। ५६ ।।

अशुभा वा शुभा वापि न जानीमो वयं किल ।।

संवदंते ततो लोकाः परस्परमिदं वचः ।। ५७ ।।

।। व्यास उवाच ।। ।।

ततो द्विजानां ते पुत्राः पौत्राश्चैव समागताः ।।

ऊचुस्ते दिष्ट्या भो विप्रा आगताः पथिका द्विजाः ।। ५८ ।।

ते तु संतुष्टमनसा सन्मुखाः प्रययुर्मुदा ।।

प्रत्युत्थानाभिवादाभ्यां परिरंभणकं तथा ।। ५९ ।।

आघ्राणकादींश्च कृत्वा यथायोग्यं प्रपूज्य च ।।

सर्वं विस्तार्य कथितं शीघ्रमागममात्मनः ।। 3.2.37.६० ।।

ततः संपूज्य तत्सर्वान्गंधतांबूलकुंकुमैः ।।

शांतिपाठं पठंतस्ते हृष्टा निजगृहान्ययुः ।। ६१ ।।

आनंदाया महापीठे प्रातः पांथाः समुत्थिताः ।।

ददृशुस्ते महास्थानं सोत्कंठा हर्षपूरिताः ।। ६० ।।

आश्चर्यं परमं प्रापुः किमेतत्स्थानमुत्तमम् ।।

अयं तु दक्षिण द्वारे शांतिपाठोऽत्र पठ्यते ।। ६३ ।।

गृहा रम्याः प्रदृश्यंते शचीपतिगृहोपमाः ।।

प्रासादाः कुलमातॄणां दृश्यंते चाग्निशोभनाः ।। ६४ ।।

एवं ब्रुवत्सु विप्रेषु महाशक्तिप्रपूजने ।।

आगतो ब्राह्मणोऽपश्यत्तत्र विप्रकदंबकम् ।। ६५ ।।

हर्षितो भावितस्तत्र यत्र विप्राः सभासदः ।।

उवाव दिष्ट्या भो विप्रा ह्यागताः पथिका द्विजाः ।। ६६ ।।

प्रत्युत्तस्थुस्ततो विप्राः पूजां गृहीत्वा समागताः ।।

प्रत्युत्थानाभिवादौ चाकुर्वंस्ते च परस्परम् ।। ६७ ।।

तेते संपूज्य वेगात्तु यथायोग्यं यथाविधि ।।

हरीश्वरस्य यद्वृत्तं विप्राग्रे संप्रकाशितम् ।। ६८ ।।

पथिकानां वचः श्रुत्वा हर्षपूर्णा द्विजोत्तमाः ।।

शांतिपाठं पठन्तस्ते हृष्टा निजगृहान्ययुः ।। ६९ ।।

विमृश्य मिलिताः प्रातर्ज्योतिर्विद्भिः प्रतिष्ठिताः ।।

ब्राह्मे मूहूर्ते चोत्थाय कान्यकुब्जं गता द्विजाः ।।3.2.37.७०।।

दोलाभिर्वाहिताः केचित्केचिदश्वै रथैस्तथा ।।

केचित्तु शिबिकारूढा नानावाहनगाश्च ते ।।७१।।

तत्पुरं तु समासाद्य गंगायाः शोभने तटे ।।

अकुर्वन्वसतिं वीराः स्नानदानादिकर्म्म च ।। ७२ ।।

चरेण केनचिद्दृष्टाः कथिता नृपसन्निधौ ।।

अश्वाश्च बहुशो दोला रथाश्च बहुशो वृषाः ।। ७३ ।।

विप्राणामिह दृश्यंते धर्मारण्यनिवासिनाम् ।।

नूनं ते च समायाता नृपेणोक्तं ममाग्रतः ।। ७४ ।।

अभिज्ञापय मे पूर्वं प्रेषिताः कपिसंनिधौ ।। ७५ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्राह्मणानां प्रत्यागमन वर्णनं नाम सप्तत्रिंशोऽध्यायः ।। ३७ ।। ।। छ ।।

खण्डः ३ (ब्रह्मखण्डः) · धर्मारण्य खण्डः — Adhyāya 38

।। व्यास उवाच ।। ।।

ततः प्रभाते विमले कृतपूर्वाह्निकक्रियाः ।।

शुभवस्त्रपरीधानाः फल हस्ताः पृथक्पृथक् ।। १ ।।

रत्नांगदाढ्यदोर्दंडा अंगुलीयकभूषिताः ।।

कर्णाभरणसंयुक्ताः समाजग्मुः प्रहर्षिताः ।। २ ।।

राजद्वारं तु संप्राप्य संत स्थुर्ब्रह्मवादिनः ।।

तान्दृष्ट्वा राजपुत्रस्तु ईषत्प्रहसितो बली ।। ३ ।।

रामं च हनुमंतं च गत्वा विप्राः समागताः ।।

श्रूयतां मंत्रिणः सर्वे दृश्यंतो द्विज सत्तमान् ।। ४ ।

एतदुक्त्वा तु वचनं तूष्णीं भूत्वा स्थितो नृपः ।।

ततो द्वित्रा द्विजाः सर्वे उपविष्टाः क्रमात्ततः ।। ५ ।।

क्षेमं पप्रच्छुर्नृपतिं हस्तिरथपदातिषु ।।

ततः प्रोवाच नृपतिर्विप्रान्प्रति महामनाः ।। ६ ।।

अरिहंतप्रसादेन सर्वत्र कुशलं मम ।।

सा जिह्वा या जिनं स्तौ ति तौ करौ यौ जिनार्चनौ ।। ७ ।।

सा दृष्टिर्या जिने लीना तन्मनो यज्जिने रतम् ।।

दया सर्वत्र कर्तव्या जीवात्मा पूज्यते सदा ।। ८ ।।

योगशाला हि गंतव्या कर्त्तव्यं गुरुवंदनम् ।।

न चकारं महामंत्रं जपितव्यमहर्निशम् ।। ९ ।।

पंचूषणं हि कर्त्तव्यं दातव्यं श्रमणे सदा ।।

श्रुत्वा वाक्यं ततो विप्रास्तस्य दंतानपीडयन् ।। 3.2.38.१० ।।

विमुच्य दीर्घनिश्वासमूचुस्ते नृपतिं प्रति ।।

रामेण कथितं राजन्धीमता च हनूमता ।। ११।।

दीयतां विप्रवृत्तिं च धर्मिष्ठोऽसि धरातले ।।

ज्ञायते तव द्दत्ता स्यान्मदत्ता नैव नैव च ।।१२।।

रक्षस्व रामवाक्यं त्वं यत्कृत्वा त्वं सुखी भव ।।१३।। ।।

।। राजोवाच ।। ।।

यत्र रामहनूमंतौ यांतु सर्वेऽपि तत्र वै ।।

रामो दास्यति सर्वस्वं किं प्राप्ता इह वै द्विजाः ।। १४ ।।

न दास्यामि न दास्यामि एकां चैव वराटिकाम् ।।

न ग्रामं नैव वृत्तिं च गच्छध्वं यत्र रोचते ।। १५ ।।

तच्छ्रुत्वा दारुणं वाक्यं द्विजाः कोपाकुलास्तदा ।।

सहस्व रामकोपं हि साम्प्रतञ्च हनूमतः ।। १६ ।।

इत्युक्त्वा हनुमद्दत्ता वामकक्षोद्भवा पुटी ।।

प्रक्षिप्ता चास्य निलये व्यावृत्ता द्विजसत्तमाः ।। १७ ।।

गते तदा विप्रसंघे ज्वालामालाकुलं त्वभूत् ।।

अग्निज्वालाकुलं सर्वं संजातं चैव तत्र हि ।। १८ ।।

दह्यंते राजवस्तूनिच्छत्राणि चामराणि च ।।

कोशागाराणि सर्वाणि आयुधागारमेव च ।।१९।।

महिष्यो राजपुत्राश्च गजा अश्वा ह्यनेकशः ।।

विमानानि च दह्यंते दह्यंते वाहनानि च ।।3.2.38.२०।।

शिबिकाश्च विचित्रा वै रथाश्चैव सहस्रशः ।।

सर्वत्र दह्यमानं च दृष्ट्वा राजापि विव्यथे ।। २१ ।।

न कोपि त्राता तस्यास्ति मानवा भयविक्लवाः ।।

न मंत्रयंत्रैर्वह्निः स साध्यते न च मूलिकैः ।। २२ ।।

कौटिल्यकोटिनाशी च यत्र रामः प्रकुप्यते ।।

तत्र सर्वे प्रणश्यंति किं तत्कुमारपालकः ।। २३ ।।

सर्वं तज्जवलितं दृष्ट्वा नग्नक्षपणकास्तदा ।।

धृत्वा करेण पात्राणि नीत्वा दंडाञ्छुभानपि ।। २४ ।।

रक्तकंबलिका गृह्य वेपमाना मुहुर्मुहुः ।।

अनुपानहिकाश्चैव नष्टाः सर्वे दिशो दश ।। २६ ।।

कोलाहलं प्रकुर्वाणाः पलायध्वमिति ब्रुवन् ।।

दाहिता विप्रमुख्यैश्च वयं सर्वे न संशयः ।। २६ ।।

केचिच्च भग्नपात्रास्ते भग्नदं ण्डास्तथापरे ।।

प्रनष्टाश्च विवस्त्रास्ते वीतरागमिति ब्रुवन् ।। २७ ।।

अर्हतमेव केचिच्च पलायनपरायणाः ।।

ततो वायुः समभवद्वह्निमांदोलयन्निव ।। ।। २८ ।।

प्रेषितो वै हनुमता विप्राणां प्रियकाम्यया ।।

धावन्स नृपतिः पश्चादितश्चेतश्च वै तदा ।। २९ ।।

पदातिरेकः प्ररुदन्क्व विप्रा इति जल्पकः ।।

लोकाच्छ्रुत्वा ततो राजा गतस्तत्र यतो द्विजाः ।। 3.2.38.३० ।।

गत्वा तु सहसा राजन्गृहीत्वा चरणौ तदा ।।

विप्राणां नृपतिर्भूमौ मूर्च्छितो न्यपत त्तदा ।। ३१ ।।

उवाच वचनं राजा विप्रान्विनयतत्परः ।।

जपन्दाशरथिं रामं रामरामेति वै पुनः ।। ३२ ।।

तस्य दासस्य दासोहं रामस्य च द्विज स्य च ।।

अज्ञानतिमिरांधेन जातोस्म्यंधो हि संप्रति ।। ३३ ।।

अंजनं च मया लब्धं रामनाममहौषधम् ।।

रामं मुक्त्वा हि ये मर्त्या ह्यन्यं देव मुपासते ।।

दह्यंते तेऽग्निना स्वामिन्यथाहं मूढचेतनः ।। ३४ ।।

हरिर्भागीरथी विप्रा विप्रा भागीरथी हरिः ।।

भागीरथी हरिर्विप्राः सारमेकं जगत्त्रये।। ।। ३५ ।।

स्वर्गस्य चैत्र सोपानं विप्रा भागीरथी हरिः ।।

रामनाममहारज्ज्वा वैकुंठे येन नीयते ।। ३६ ।।

इत्येवं प्रणमन्राजा प्रांजलिर्वाक्यमब्रवीत्।।

वह्निः प्रशाम्यतां विप्राः शासनं वो ददाम्यहम् ।। ३७ ।।

दासोऽस्मि सांप्रतं विप्रा न मे वागन्यथा भवेत् ।।

यत्पापं ब्रह्महत्यायाः पर दाराभिगामिनाम्।। ३८।।

यत्पापं मद्यपानां च सुवर्णस्तेयिनां तथा ।।

यत्पापं गुरुघातानां तत्पापं वा भवेन्मम ।। ३९ ।।

यंयं चिंतयते कामं तं तं दास्याम्यहं पुनः ।।

विप्रभक्तिः सदा कार्या रामभक्तिस्तथैव च ।। 3.2.38.४० ।।

अन्यथा करणीयं मे न कदाचि द्द्विजोत्तमाः ।। ४१ ।।

।। व्यास उवाच ।। ।।

तस्मिन्नवसरे विप्रा जाता भूप दयालवः ।।

अन्या या पुटिका चासीत्सा दत्ता शापशांतये ।। ४२ ।।

जीवितं चैव तत्सैन्यं जातं क्षिप्तेषु रोमसु ।।

दिशः प्रसन्नाः संजाताः शांता दिग्जनितस्वनाः ।। ४३ ।।

प्रजा स्वस्था ऽभवत्तत्र हर्षनिर्भरमानसा ।।

अवतस्थे यथापूर्वं पुत्रपौत्रादिकं तथा ।। ४४ ।।

विप्राज्ञाकारिणो लोकाः संजाताश्च यथा पुरा ।।

विष्णुधर्मं परित्यज्य नान्यं जानंति ते वृषम् ।। ४५ ।।

नवीनं शासनं कृत्वा पूर्ववद्विधिपूर्वकम् ।।

निष्कासितास्तु पाषंडाः कृतशास्त्रप्रयोजकाः ।। ४६ ।।

वेदबाह्याः प्रनष्टास्ते उत्तमाधममध्यमाः ।।

षट्त्रिंशच्च सहस्राणि येऽभूवन्गोभुजाः पुरा ।। ४७ ।।

तेषां मध्यात्तु संजाता अढवीजा वणिग्जनाः ।।

शुश्रूषार्थं ब्राह्मणानां राज्ञा सर्वे निरूपिताः ।। ४८ ।।

सदाचाराः सुनिपुणा देवब्राह्मणपूजकाः ।।

त्यक्त्वा पाखण्डमार्गं तु विष्णुभक्तिपरास्तु ते ।। ४९ ।।

जाह्नवीतीरमासाद्य त्रैविद्येभ्यो ददौ नृपः ।।

शासनं तु यदा दत्तं तेषां वै भक्तिपूर्वकम् ।। 3.2.38.५० ।।

स्थानधर्मात्प्रचलिता वाडवास्ते समागताः ।।

नृपो विज्ञापितो विप्रैस्तैरेवं क्लेशकारिभिः ।। ५१ ।।

ये त्यक्तवाचो विप्रेंद्रास्तान्निःसारय भूपते ।।

परस्परं विवादास्तु संजाता दत्तवृत्तये ।। ५२ ।।

न्याय प्रदशनार्थं च कारितास्तु सभासदः ।।

हस्ताक्षरेषु दृष्टेषु पृथक्पृथक्प्रपादितम् ।। ५३ ।।

एतच्छ्रुत्वा ततो राजा तुलादानं चकार ह ।।

दीयमाने तदा दाने चातुर्विद्या बभाषिरे ।। ५४ ।।

अस्माभिर्हारिता जातिः कथं कुर्मः प्रतिग्रहम् ।।

निवारितास्तु ते सर्वे स्थानान्मोहेरका द्विजाः ।।५५।।

दशपंच सहस्राणि वेदवेदांगपारगाः ।।

ततस्तेन तदा राजन्राज्ञा रामानुवर्तिना ।। ५६ ।।

आहूता वाडवांस्तास्तु ज्ञातिभेदं चकार सः ।।

त्रयीविद्या वाडवा ये सेतुबंधं प्रति प्रभुम् ।। ५७ ।।

गतास्ते वृत्तिभाजः स्युर्नान्ये वृत्त्यभिभागिनः ।।

तत्र नैव गता ये वै चातुर्विद्यत्वमागताः ।। ५८ ।।

वणिग्भिर्न च संबंधो न विवाहश्च तैः सह ।।

ग्रामवृत्तौ न संबंधो ज्ञातिभेदे कृते सति ।।५९।।

द्विजभक्तिपराः शूद्राः ये पाखंडैर्न लोपिताः।।

जैन धर्मात्परावृत्तास्ते गोभूजास्तथोत्तमाः ।। 3.2.38.६० ।।

ये च पाखंडनिरता रामशासनलोपकाः ।।

सर्वे विप्रास्तथा शूद्रा प्रतिबंधेन योजिताः ।। ६१ ।।

सत्यप्रतिज्ञां कुर्वाणास्तत्रस्थाः सुखिनोऽभवन् ।।

चातुर्विद्या बहिर्ग्रामे राज्ञा तेन निवासिताः ।।६२।।

यथा रामो न कुप्येत तथा कार्यं मया ध्रुवम।।

पराङ्मुखा ये रामस्य सन्मुखानुगताः किल ।। ६३ ।।

चातुर्विद्यास्ते विज्ञेया वृत्तिबाह्याः कृतास्तदा ।।

कृतकृत्यस्तदा जातो राजा कुमारपालकः ।। ६४ ।।

विप्राणां पुरतः प्राह प्रश्रयेण वचस्तदा ।।

ग्रामवृत्तिर्न मे लुप्ता एतद्वै देवनिर्मितम् ।। ६५ ।।

स्वयं कृतापराधानां दोषो कस्य न दीयते ।।

यथा वने काष्ठवर्षाद्वह्निः स्याद्दैवयोगतः ।। ६६ ।।

भवद्भिस्तु पणः प्रोक्तो ह्यभिज्ञानस्य हेतवे ।।

रामस्य शासनं कृत्वा वायुपुत्रस्य हेतवे ।। ६७ ।।

व्यावृत्ता वाडवा यूयं स दोषः कस्य दीयते ।।

अवसाने हरिं स्मृत्वा महापापयुतोऽपि वा ।। ६८ ।।

विष्णुलोकं व्रजत्याशु संशयस्तु कथं भवेत् ।।

महत्पुण्योदये नॄणां बुद्धिः श्रेयसि जायते ।। ६९ ।।

पापस्योदयकाले च विपरीता हि सा भवेत् ।।

सकृत्पालयते यस्तु धर्मेणैतज्जगत्त्रयम् ।। ।। 3.2.38.७० ।।

योंतरात्मा च भूतानां संशयस्तत्र नो हितः ।।

इंद्रादयोऽमराः सर्वे सनकाद्यास्तपोधनाः ।। ७१ ।।

मुक्त्यर्थमर्चयंतीह संशयस्तत्र नो हितः ।।

सहस्रनाम तत्तुल्यं रामनामेति गीयते ।। ७२ ।।

तस्मिन्ननिश्चयं कृत्वा कथं सिद्धिर्भवेदिह ।।

मम जन्मकृतात्पुण्यादभिज्ञानं ददौ हरिः ।। ७३ ।।

पाखंडाद्यत्कृतं पापं मृष्टं तद्वः प्रणामतः ।।

प्रसीदंतु भवंतश्च त्यक्त्वा क्रोधं ममाधुना ।। ७४ ।।

।। ब्राह्मणा ऊचुः ।। ।।

राजन्धर्मो विलुप्तस्ते प्रापितानां तथा पुनः ।।

अवश्यं भाविनो भावा भवंति महतामपि ।। ७५ ।।

नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ।।

एतद्दैवकृतं सर्वं प्रभुर्यः सुखदुःखयोः ।। ७६ ।।

सत्यप्रतिज्ञास्त्रैविद्या भजंतु रामशासनम् ।।

अस्माकं तु परं देहि स्थानं यत्र वसामहे ।। ७७ ।।

तेषां तु वचनं श्रुत्वा सुखमिच्छुर्द्विजन्मनाम् ।।

तेषां स्थानं तु दत्तं वै सुखवासं तु नामतः ।। ७८ ।।

हिरण्यं पुष्पवासांसि गावः कामदुघा नृप ।।

स्वर्णालंकरणं सर्वं नानावस्तुचयं तथा ।। ७९ ।।

श्रद्धया परया दत्त्वा मुदं लेभे नराधिपः ।।

त्रयीविद्यास्तु ते ज्ञेयाः स्थापिता ये त्रिमूर्तिभिः ।। ।। 3.2.38.८० ।।

चतुर्थेनैव भूपेन स्थापिताः सुखवासने ।।

ते बभूबुर्द्विजश्रेष्ठाश्चातुर्विद्याः कलौ युगे ।। ८१ ।।

चातुर्विद्याश्च ते सर्वे धर्मारण्ये प्रतिष्ठिताः ।।

वेदोक्ता आशिषो दत्त्वा तस्मै राज्ञे महात्मने ।। ८२ ।।

रथैरश्वैरुह्यमानाः कृतकृत्या द्विजातयः ।।

महत्प्रमोदयुक्तास्ते प्रापुर्मोहेरकं महत् ।। ८३ ।।

पौषशुक्लत्रयोदश्यां लब्धं शासनकं द्विजैः ।।

बलिप्रदानं तु कृतमुद्दिश्य कुलदेवताम् ।। ८४ ।।

वर्षेवर्षे प्रकर्त्तव्यं बलिदानं यथाविधि ।।

कार्यं च मंगलस्नानं पुरुषेण महात्मना ।। ८५ ।।

गीतं नृत्यं तथा वाद्यं कुर्वीत तद्दिने धुवम् ।।

तन्मासे तद्दिने नैव वृत्तिनाशो भवेद्यथा ।। ८६।।

दैवादतीतकाले चेत्वृद्धिरापद्यते यदा ।।

तदा प्रथमतः कृत्वा पश्चाद्वृद्धिर्विधीयते ।। ८७ ।।

ये च भिन्नप्रपाप्रायास्त्रैविद्या मोढवंशजाः ।।

तथा चातुर्वेदिनश्च कुर्वंति गोत्रपूजनम् ।। ८८ ।।

वर्षमध्ये प्रकुर्वीत तथा सुप्ते जनार्द्दने ।।

पौषे च लुप्तं कृत्वा च श्रौतं स्मार्त्तं करोति यः ।। ८९ ।।

तत्र क्रोधसमाविष्टा निघ्नंति कुलदेवताः ।।

विवाहोत्सवकाले च मौंजीबंधादिकर्मणि ।। 3.2.38.९० ।।

मुहूर्तं गणनाथस्य ततः प्रभृति शोभनम् ।। ९१ ।।

निर्वासितास्तु ये विप्रा आमराज्ञा स्वशासनात् ।।

पंचदशसहस्राणि ययुस्ते सुखवासकन् ।। ९२ ।।

पंचपञ्चाशतो ग्रामान्ददौ रामः पुरा स्वयम् ।।

तत्रस्था वणिजश्चैव तेषां वृत्तिमकल्पयन् ।। ९३ ।।

अडालजा माण्डलीया गोभूजाश्च पवित्रकाः ।।

ब्राह्मणानां वृत्तिदास्ते ब्रह्मसेवासु तत्पराः ।। ९४ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्राह्मणानां शासनवृत्तिप्राप्तिवर्णनं नामाष्टत्रिंशोऽध्यायः ।। ३८ ।। ।। छ ।।

खण्डः ३ (ब्रह्मखण्डः) · धर्मारण्य खण्डः — Adhyāya 39

।। ब्रह्मोवाच ।। ।।

शृणु पुत्र प्रवक्ष्यामि रहस्यं परमं मतम् ।।

एते ब्रह्मविदः प्रोक्ताश्चातुर्विद्या महा द्विजाः ।। १ ।।

स्वाध्यायाश्च वषट्काराः स्वधाकाराश्च नित्यशः ।।

रामाज्ञापालकाश्चैव हनुमद्भक्तितत्पराः ।। २ ।।

एकदा तु ततो देवा ब्रह्माणं समुपागताः ।।

ब्राह्मणान्द्रष्टुकामास्ते ब्रह्मविष्णुपुरोगमाः ।। ३ ।।

तान्देवानागतान्दृष्ट्वा स्वस्थानाच्चलितास्तु ते ।।

अर्घपाद्यं पुरस्कृत्य मधुपर्कं तथैव च ।। ४ ।।

पूजयित्वा ततो विप्रा देवान्ब्रह्मपुरोगमान्।।

ब्रह्मात्र उपविष्टास्ते वेदानुच्चारयन्ति हि ।। ५ ।।

संहितां च पदं चैव क्रमं घनं तथैव च ।।

उच्चैः स्वरेण कुर्वीत ऋचामृग्वेदसंहिताम् ।। ६ ।।

सामगाश्च प्रकुर्वंति स्तोत्राणि विविधानि च ।।

शास्त्राणि च तथा याज्यापुरोनुवाक्या स्तथा ।। ७ ।।

चतुरक्षरं परं चैव चतुरक्षरमेव च ।।

द्व्यक्षरं च तथा पंचाक्षरं द्वयक्षरमेव च ।।

एतद्यज्ञस्वरूपं च यो जपेज्ज्ञानपूर्वकम् ।।८।।

अंते ब्रह्म पदप्राप्तिः सत्यंसत्यं वदाम्यहम् ।।

एकाग्रमानसाः सर्वे वेदपाठरता द्विजाः ।। ९ ।।

तेषामंगणदेशेषु कण्डूयन्ते कचान्मृगाः ।।

ब्राह्मणा वेदमातां च जपंति विधिपूर्वकम्।।3.2.39.१०।।

हस्ते धृतांश्च तैर्दर्भान्भक्षंते मृगपोतकाः।।

निर्वैरं तं तदा दृष्ट्वा आश्रमं गृहमेधिनाम् ।।११।।

तुतुषुः परमं देवा ऊचुस्ते च परस्परम्।।

त्रेतायुगमिदानीं च सर्वे धर्मपरायणाः।।१२।।

कलिर्दुष्टस्तथा प्रोक्तः किं करिष्यति पापकः।।

चातुर्विद्यान्समाहूय ऊचुस्ते त्रय एव च।।१३।।

वृत्त्यर्थं भवतां चैव त्रैविद्यानां तथैव च ।।

विभागं वः प्रदास्यामो यथावत्प्रतिपाल्यताम्।।१४।।

ये वणिजः पुरा प्रोक्ताः षट्त्रिंशच्च सहस्रकाः ।।

त्रिसहस्रास्तु त्रैविद्या दशपंचसहस्रकाः ।। १५ ।।

चातुर्विद्यास्तथा प्रोक्ता अन्योन्यं वृत्तिमाश्रिताः ।।

सत्रिभागास्तु त्रैविद्याश्चतुर्भागास्तु चात्रिणः ।।१६।।

वणिजां गृहमागत्य पौरोहित्यस्य नित्यशः ।।

भागं विभज्य संप्रापुः काजेशेन विनिर्मिताः ।। १७ ।।

परस्परं न विवाहश्चातुर्विद्यत्रिविद्ययोः ।।

चातुर्विद्या मया प्रोक्तास्त्रिविद्यास्तु तथैव च ।। १८ ।।

त्रैविभागेन त्रैविद्याश्चतुर्भागेन चात्रिणः ।।

एवं ज्ञातिविभागस्तु काजेशेन विनिर्मितः ।। ।। १९ ।।

कृतकृत्यास्तु ते विप्राः प्रणेमुस्तान्सुरोत्तमान् ।।

वृत्तिं दत्त्वा ततो देवाः स्वस्थानं च प्रतस्थिरे ।। 3.2.39.२० ।।

पंचपंचाशद्ग्रामाणां ते द्विजाश्च निवासिनः ।।

चतुर्विद्यास्तु ते प्रोक्तास्तदादि तु त्रिविद्यकाः ।। २१ ।।

चातुर्विद्यस्य गोत्राणि दशपंच तथैव च ।।

भारद्वाजस्तथा वत्सः कौशिकः ८ कुश एव च ।। २२ ।।

शांडिल्यः ५ कश्यपश्चैव गौतमश्छादनस्तथा ८ ।।

जातूकर्ण्यस्तथा कुंतो वशिष्ठो ११ धारणस्तथा ।। २३ ।।

आत्रेयो मांडिलश्चैव १४ लौगाक्षश्च १५ ततः परम् ।।

स्वस्थानानां च नामानि प्रवक्ष्याम्यनुपूर्वशः ।। २४ ।।

सीतापूरं च श्रीक्षेत्रं २ मगोडी च ३ तथा स्मृता ।।

ज्येठलोजस्तथा चैव शेरथा च ततः परम् ।। २५ ।।

छेदे ताली वनोडी च गोव्यंदली तथैव च ।।

कंटाचोषली चैव कोहेचं चंदनस्तथा ।।२६।।

थलग्रामश्च सोहं च हाथंजं कपडवाणकम् ।।

व्रजन्होरी च वनोडी च फीणां वगोलं दृणस्तथा (?)।। ।।२७।।

थलजा चारणं सिद्धा भालजाश्च ततः परम् ।।

महोवी आईया मलीआ गोधरी आमतः परम् ।। २८ ।।

वाठसुहाली तथा चैव माणजा सानदीयास्तथा ।।

आनन्दीया पाटडीअ टीकोलीया ततः परम् ।। २९ ।।

गंभी धणीआ मात्रा च नातमोरास्तथैव च ।।

वलोला रांत्यजाश्चैव रूपोला बोधणीच वै ।। 3.2.39.३० ।।

छत्रोटा अलु एवा च वासतडीआमतः परम् ।।

जाषासणा गोतीया च चरणीया दुधीयास्तथा ।। ३१ ।।

हालोला वैहोला च असाला नालाडास्तथा ।।

देहोलो सौहासीया च संहालीयास्तथैव च ।। ३२ ।।

स्वस्थानं पंचपत्ताशद्ग्रामा एते ह्यनुक्रमात् ।।

दत्ता रामेण विधिवत्कृत्वा विप्रेभ्य एव च ।। ३३ ।।

अतः परं प्रवक्ष्यामि स्वस्थानस्य च गोत्रजान्।।

तथा हि प्रवरांश्चैव यथावद्विधिपूर्वकम् ।। ३४ ।।

ज्ञात्वा तु गोत्रदेवीं च तथा प्रवरमेव च ।।

स्वस्थानं जायते चैव द्विजाः स्वस्थानवासिनः ।। ३५ ।।

।। नारद उवाच ।। ।।

कथं च जायते गोत्रं कथं तु ज्ञायते कुलम् ।।

कथं वा ज्ञायते देवी तद्वदस्व यथार्थतः ।। ३६ ।।

।। ब्रह्मोवाच ।। ।।

सीतापुरं तु प्रथमं प्रवरद्वयमेव च ।।

कुशवत्सौ तथा चात्र मया ते परिकीर्त्तितौ ।। ३७ ।।

१ श्रीक्षेत्रे द्वितीयं चैव गोत्राणां त्रयमेव च ।।

छांदनसस्तथा वत्सस्तृतीयं कुशमेव च ।। ३८ ।।

तृतीये मुद्गलं चैव कुशभारद्वाजमेव च ३।।

शोहोली च चतुर्थं वै कुशप्रवरमेव च।। ३९।।

ज्येष्ठला पंचमश्चैव वत्सकुशौ प्रकीर्त्तितौ ५।।

श्रेयस्थानं हि षष्ठं वै भारद्वाजः कुशस्तथा।।3.2.39.४०।।

दंताली सप्तमं चैव भारद्वाजः कुशस्तथा १।।

वटस्थानमष्टमं च निबोध सुतसत्तम।।४१।।

तत्र गोत्रं कुशं कुत्सं भारद्वाजं तथैव च ।।

राज्ञः पुरं नवमं च भारद्वाजप्रवरमेव च ९ ।। ४२ ।।

कृष्णवाटं दशमं चैव कुशप्रवरमेव च ।।

दहलोडमेकादशं वत्सप्रवरमेव हि ।। ४३ ।।

चेखलीद्वादशं पौककुशप्रवरमेव च ।। ४४ ।।

चांचोदखे १२ देहोलोडी आत्रयश्च वत्सकुत्सकश्चैव ।।

भारद्वाजीकोणाया च भारद्वाजगोलंदृणाशकुस्तथा ।। ४५ ।।

थलत्यजाद्वये चैव कुशधारणमेव च ।।

नारणसिद्धा च स्वस्थानं कुत्सं गोत्रं प्रकीर्तितम् ।। ४६ ।।

भालजां कुत्सवत्सौ च मोहोवी आकुशस्तथा ।।

ईयाश्लीआ शांडिलश्च गोधरीपात्रमेव च ।। ४७ ।।

आनंदीया द्वे चैव भारद्वाजशांडिलश्चैव पाटडीआ कुशमेव च ।। ४८ ।।

वांसडीआश्चैव जास्वा कौत्समणा वत्सआत्रेयौ गीता आकुशगौतमौ ।। ।। ४९ ।।

चरणीआ भारद्वाजः दुधीआधारणसा हि अहो सोन्नामांडिल्यस्तथा ।। 3.2.39.५० ।।

वेलोला हुराश्चैवा असाला कुशश्चैव धारणा च द्वितीय कम् ।। ५१ ।।

नालोला वत्सधारणीया च देलोला कुत्समेव च ।।

सोहासीया भारद्वाजकुशवत्समेव च ।। ५२ ।।

सुहालीआ वत्सं वै प्रोक्तं गोत्राणि यथाक्रमम् ।।

मया प्रोक्तानि चैवात्र स्वस्थानानि यथाक्रमम्।। ५३ ।।

शीतवाडिया ये प्रोक्ताः कुशो वत्सस्तथैव च ।।

विश्वामित्रो देवरातस्तृतीयो दलमेव च ।। ५४ ।।

भार्गवच्यावनाप्नवानौर्वजमदग्निरेव हि ।।

वचार्द्दशेषाबुटला गोत्रदेव्यः प्रकीर्तिताः ।। ५५ ।।

इति प्रथमं गोत्रम् ।। १ ।।

श्रीक्षेत्रं द्वितीयं प्रोक्तं गोत्रद्वितयमेव च ।।

छांदनसस्तथा वत्सं देवी द्वितयमेव च ।। ५६ ।।

आंगिरसांबरीषश्च यौवनाश्वस्तथैव च ।।

भृगुच्यवनआप्नवानौ र्वजमदग्निमेव च ।। ५७ ।।

देवी भट्टारिका प्रोक्ता द्वितीया शेपला तथा ।।

एतद्वंशोद्भवा ये च शृणु तान्मुनिसत्तम ।। ५८ ।।

सक्रोधनाः सदाचाराः श्रौतस्मार्तक्रियापराः ।।

पंचयज्ञरता नित्यं संबंधसंमाश्रिताः ।।

क्षतज्ञाः क्रतुजाश्चैव ते सर्वे नृपसत्तमाः ।। ५९ ।।

इति द्वितीयगोत्रम् ।। २ ।।

तृतीयं मगोडोआ वै गोत्रद्वितयमेव च ।।

भारद्वाजस्तथा कुत्सं देवी द्वितयमेव च ।। 3.2.39.६० ।।

आंगिरसबार्हस्पत्यभारद्वाजस्तथैव च ।।

विश्वामित्रदेव रातौप्रवरत्रयमेव च ।।६१।।

शेषला बुधला प्रोक्ताधारशांतिस्तथैव च ।।

अस्मिन्ग्रामे च ये जाता ब्राह्मणाः सत्यवादिनः ।। ६२ ।।

द्विजपूजाक्रिया युक्ता नानायज्ञक्रियापराः ।।

अस्मिन्गोत्रे समुत्पन्ना द्विजाः सर्वे मुनीश्वराः ।। ६३ ।।

इति तृतीयगोत्रम् ।। ३ ।।

चतुर्थं शीहोलियाग्रामं गोत्रद्वित यमेव च।।

विश्वामित्रदेवराततृतीयौदलमेव च ।।६४।।

देवी चचाई वै तेषां गोत्रदेवी प्रकीर्तिता।।

अस्मिन्गोत्रे तुये जाता दुर्बला दीनमा नसाः।।६५।।

असत्यभाषिणो विप्रा लोभिनो नृपसत्तम।।

सर्व्वविद्याप्रवीणाश्च ब्राह्मणा ब्रह्मसत्तम।।६६।।

इति चतुर्थं स्थानम्।।४।।

ज्येष्ठलोजा पंचमं च स्वस्थानं प्रतिकीर्तितम्।।

वत्सशीया कुत्सशीया प्रवरद्वितयं स्मृतम्।।६७।।

आवरिवृवाप्रः यौवनाश्वभृगुच्यवनआप्नोर्वजमदग्निस्तथैव हि ।।६८।।

चचाई वत्सगोत्रस्य शांता च कुत्सगोत्रजा ।।

एतैस्त्रिभिः पंचभिश्च द्विजा ब्रह्मस्वरूपिणः ।।६९।।

शांता दांताः सुशीलाश्च धन पुत्रैश्च संयुताः ।।

वेदाध्ययनहीनाश्च कुशलाः सर्वकर्मसु।।3.2.39.७०।।

सुरूपाश्च सदाचाराः सर्वधर्मेषु निष्ठिताः ।।

दानधर्म्मरताः सर्वे अत्रजा जलदा द्विजाः ।।७१।।

इति पंचमं स्थानम्।।५।।

शेरथाग्रामेषु वै जाताः प्रवरद्वयसंयुताः ।।

कुशभारद्वाजाश्चैव देवीद्वयं तथैव च ।।७२।।

विश्वामित्रो देवरातस्तृतीयौ दल एव च ।।

आंगिरसबार्हस्पत्यभारद्वाजास्तथैव च।।७३।।

कमला च महालक्ष्मीर्द्वितीया यक्षिणी तथा।।

अस्मिन्गोत्रे च ये जाताः श्रौतस्मार्त्तरता बुधाः।।७४।।

वेदाध्ययनशीलाश्च तापसाश्चारिमर्द्दनाः।।

रोषिणो लोभिनो दुष्टा यजने याजने रताः।।

ब्रह्मक्रियापराः सर्वे ब्राह्मणास्ते मयोदिताः।।

इति षष्ठं स्थानम्।।६।।

दंतालीया भारद्वाजकुत्सशायास्तथैव च।।

आंगिरसबार्हस्पत्यभारद्वाजास्तथैव च।।७६।।

देवी च यक्षिणी प्रोक्ता द्वितीया कर्मला तथा ।।

अस्मिन्गोत्रे च ये जाता वाडवा धनिनः शुभाः ।।७७।।

वस्त्रालंकरणोपेता द्विजभक्तिपरायणाः ।।

ब्रह्मभोज्यपराः सर्वे सर्वे धर्मपरायणाः ।। ।। ७८ ।।

इति सप्तमं स्थानम्।।७।।

वडोद्रीयान्वये जाताश्चत्वारः प्रवराः स्मृताः ।।

कुशः कुत्सश्च वत्सश्च भारद्वाजस्तथैव च ।।७९।।

तत्प्रवराण्यहं वक्ष्ये तथा गोत्राण्यनुक्रमात्।।

विश्वामित्रो देवरातस्तृतीयौदल एव च ।। 3.2.39.८० ।।

आंगिरसांबरीषश्च यौवनाश्वस्तृतीयकः ।।

भार्गवश्च्यावनाप्नवानौर्वजमदग्निस्तथैव च।।८१।।

आंगिरसबार्हस्पत्यभारद्वाजास्तथैव च।।

कर्मला क्षेमला चैव धारभट्टारिका तथा।।८२।।

चतुर्थी क्षेमला प्रोक्ता गोत्रमाता अनुक्रमात्।।

अस्मिन्गोत्रे तु ये जाताः पंचयज्ञरताः सदा ।। ८३ ।।

लोभिनः क्रोधिनश्चैव प्रजायंते बहुप्रजाः ।।

स्नानदानादि निरताः सदा विनिर्जितेंद्रियाः ।। ८४ ।।

वापीकूपतडागानां कर्तारश्च सहस्रशः ।।

व्रतशीला गुणज्ञाश्च मूर्खा वेदविवर्जिताः ।। ८५ ।।

इत्यष्टमं स्थानम् ।। ८ ।।

गोदणीयाभिधे ग्रामे गोत्रौ द्वौ तत्र संस्थितौ ।।

वत्सगोत्रं प्रथमकं भारद्वाजं द्वितीयकम् ।। ८६ ।।

भृगुच्यवनाप्नवानौर्वपुरोध समेव च ।।

शीहरी प्रथमा ज्ञेया द्वितीया यक्षिणी तथा ।। ८७ ।।

अस्मिन्गोत्रोद्भवा विप्रा धनधान्यसमन्विताः ।।

सामर्षा लौल्यहीनाश्च द्वेषिणः कुटिलास्तथा ।। ८८ ।।

हिंसिनो धनलुब्धाश्च मया प्रोक्तास्तु भूपते ।। ८९ ।।

इति नवमं स्थानम् ।। ९ ।।

कण्टवाडीआ ग्रामे विप्राः कुशगोत्र

शुक्लशुश्च समुद्भ`वाः ।।

प्रवरं तस्य वक्ष्यामि शृणु त्वं च नृपोत्तम ।। 3.2.39.९० ।।

विश्वमित्रो देवरात उदलश्च त्रयः स्मृताः ।।

चचाई देवी सा प्रोक्ता शृणु त्वं नृप सत्तम ।। ९१ ।।

यजंते क्रतुभिस्तत्र हृष्टचित्तैकमानसाः ।।

सर्वविद्यासु कुशला ब्राह्मणाः सत्यवादिनः ।। ९२ ।।

इति दशमं स्थानम् ।। १० ।।

वेखलोया मया प्रोक्ता कुत्सवंशे समुद्भवाः ।।

प्रवरत्रयसंयुक्ताः शृणुत्वं च नृपोत्तम ।। ९३ ।।

विश्वामित्रो देवराजौदलश्चेति त्रयः स्मृताः ।।

चचाई देवी तेषां वै कुलरक्षाकरी स्मृता ।। ९४ ।।

ब्राह्मणाश्च महात्मानः सत्त्ववंतो गुणान्विताः ।।

तपस्वियोगिनश्चैव वेदवेदांगपारगाः ।। ९५ ।।

साधवश्च सदाचारा विष्णुभक्तिपरायणाः ।।

स्नानसंध्यापरा नित्यं ब्रह्मभोज्यपरायणाः ।। ९६ ।।

अस्मिन्वंशे मया प्रोक्ताः शृणुत्वं च अतः परम् ।। ९७ ।।

इत्येकादशस्थानम्।। ११ ।।

देहलोडीआ ये प्रोक्ताः कुत्सप्रवरसंयुताः ।।

आंगिरस आंबरीषो युवनाश्वस्तृतीयकः ।। ९८ ।।

गोत्रदेवी मया प्रोक्ता श्रीशेषदुर्बलेति च ।।

कुत्सवंशे च ये जाताः सद्वृत्ताः सत्यभाषिणः ।। ९९ ।।

वेदाध्ययनशीलाश्च परच्छिद्रैकदर्शिनः ।।

सामर्षा लौल्यतो हीना द्वेषिणः कुटिलास्तथा ।। 3.2.39.१०० ।।

हिंसिनो धनलुब्धाश्च ये च कुत्ससमुद्भवाः ।। १ ।।

इति द्वादशं स्थानम् ।। १२ ।।

कोहे च ब्राह्मणाः प्रोक्ता गोत्रत्रितयसंयुताः ।।

भारद्वाजस्तथा वत्सस्तृतीयः कुश एव च ।। २ ।।

प्रवराण्यहं तथा वक्ष्ये यथा गोत्रक्रमेण हि ।।

भार्गवच्यवनाप्नवानौर्वजमदग्निस्तथैव च ।। ३ ।।

कुशप्रवरं तृतीयं तु प्रवरत्रयमेव च ।।

विश्वामित्रो देवरातस्तृतीयौदलमेव च ।। ४ ।।

यक्षिणी प्रथमा प्रोक्ता द्वितीया शीहुरी तथा ।।

तृतीया चचाई प्रोक्ता यथानुक्रमगोत्रजा ।। ५ ।।

अस्मिन्गोत्रे भवा विप्राः श्रौतस्मार्त्तरता बुधाः ।।

वेदाध्ययनशीलाश्च तापसाश्चारिमर्द्दनाः ।। ६ ।।

रोषिणो लोभिनो दुष्टा यजने याजने रताः ।।

ब्रह्मकर्मपराः सर्वे मया प्रोक्ता द्विजोत्तमाः ।। ।। ७ ।।

इति त्रयोदशं स्थानम्।।१३।।

चांदणखेडे ये जाता भारद्वाजसमुद्भवाः।।

आंगिरसो बार्हस्पत्यस्तृतीयो भारद्वाजस्तथा ।।८।।

यक्षिणी चास्य वै देवी प्रोक्ता व्यासेन धीमता ।।

भारद्वाजास्तु ये जाता द्विजा ब्रह्मस्वरूपिणः ।। ९ ।।

शांता दांता सुशीलाश्च धनपुत्रसमन्विताः ।।

धर्मारण्ये द्विजाः श्रेष्ठाः क्रतुकर्मणि कोविदाः ।।3.2.39.११०।।

गुरुभक्तिरताः सर्वे भासयंति स्वकं कुलम् ।।११।।

इति चतुर्द्दशस्थानम् ।।१४।।

थलग्रामे च ये जाता भारद्वाजसमुद्भवाः ।।

आंगिरसो बार्हस्पत्यो भारद्वाजस्तृतीयकः ।। १२ ।।

अस्मिन्गोत्रे च ये जाता वाडवा धनिनः शुभाः ।।

वस्त्रालंकरणोपेता द्विजभक्तिपरायणाः ।। १३ ।।

ब्रह्मभोज्यपराः सर्वे सर्वे धर्मपरायणाः ।।

गोत्रदेवी मया ख्याता यक्षिणी नाम रक्षिणी ।। १४ ।।

इति पंचदश स्थानम्।।१५।।

मोऊत्रीयाश्च ये जाता द्वौ गोत्रौ तत्र कीर्तितौ ।।

भारद्वाजः कश्यपश्च देवीद्वितयमेव च ।। १५ ।।

चामुण्डा यक्षिणी चैव देवी चात्र प्रकीर्त्तिता ।।

कश्यपाऽवत्सारश्चैव नैधुवश्च तृतीयकः ।। १६ ।।

आंगिरसो बार्हस्पत्यो भारद्वाजस्तृतीयकः ।।

प्रियवाक्या महादक्षा गुरु भक्ति रताः सदा ।। १७ ।।

सदा प्रतिष्ठावंतश्च सर्वभूतहिते रताः ।।

यजंति ते महायज्ञान्काश्यपा ये द्विजातयः ।। १८ ।।

सर्वेषां याजनकरा याज्ञिकाः परमाः स्मृताः ।। १९ ।।

इति षोडशं स्थानम् ।। १६ ।।

हाथीजणे च ये जाता वत्सा भारद्वाजास्तथा ।।

ज्ञानजा यक्षिणी चैव गोत्रदेव्यौ प्रकी र्तिते ।। 3.2.39.१२० ।।

अस्मिन्गोत्रे च ये जाताः पंचयज्ञरताः सदा ।।

लोभिनः क्रोधिनश्चैव प्रजावंतो बहुश्रुताः ।। २१ ।।

स्नानदानादिनिरता विष्णुभक्तिपरायणाः ।।

व्रतशीला गुणज्ञानमूर्खा वेदविवर्जिताः ।। २२ ।।

इति सप्तदशं स्थानम् ।। १७ ।।

कपड्वाणजा ब्राह्मणास्तु भारद्वाजा कुशास्तथा ।।

देवी च यक्षिणी प्रोक्ता द्वितीया चचाई तथा ।। २३ ।।

आंगिरसबार्हस्पत्यौ भारद्वाजस्तृतीयकः ।।

विश्वामित्रो देवरातस्तृतीयौदल मेव च ।। २४ ।।

अस्मिन्गोत्रे च ये जाताः सत्यवादिजितव्रताः ।।

जितेंद्रियाः सुरूपाश्च अल्पाहाराः शुभाननाः ।। २५ ।।

सदोद्यताः पुराणज्ञा महादानपरायणाः ।।

निर्द्वेषिणो लोभयुता वेदाध्ययनतत्पराः ।। २६ ।।

दीर्घदर्शिनो महातेजा महामायाविमोहिताः ।। २७ ।।

इत्यष्टादशं स्थानम् ।। १८ ।।

जन्होरी वाडवाः प्रोक्ताः कुशप्रवरसंयुताः ।।

विश्वामित्रो देवरातस्तृतीयौदल एव च ।। २८ ।।

तारणी च महामाया गोत्रदेवी प्रकीर्त्तिता ।।

अस्मिन्वंशे ससुत्पन्ना वाडवा दुःसहा नृप ।। २९ ।।

महोत्कटा महाकायाः प्रलंबाश्च महोद्धताः ।।

क्लेशरूपाः कृष्णवर्णाः सर्वशास्त्र विशारदाः ।। 3.2.39.१३० ।।

बहुभुग्धनिनो दक्षा द्वेषपापविवर्जिताः ।।

सुवस्त्रभूषा वैरूपा ब्राह्मणा ब्रह्मवादिनः ।। ३१ ।।

इत्येकोनविशतितमं स्थानम् ।। ।। १९ ।।

वनोडीयाश्च ये जाता गोत्राणां त्रयमेव च ।।

कुशकुत्सौ च प्रवरौ तृतीयो भारद्वाजस्तथा ।। ३२ ।।

विश्वामित्रो देवरातस्तृतीयौदल मेव च ।।

आंगिरस आंबरीषो युवनाश्वस्तृतीयकः ।। ३३ ।।

आंगिरसबार्हस्पत्यभारद्वाजास्तथैव च ।।

शेषला प्रथमा प्रोक्ता तथा शांता द्वितीयका ।। ३४ ।।

तृतीया धारशांतिश्च गोत्रदेव्यो ह्यनुक्रमात् ।।

अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः ।। ३५ ।।

असत्यभाषिणो विप्रा लोभिनो नृपसत्तम ।।

सर्वविद्याकुशलिनो ब्राह्मणा ब्रह्मवित्तमाः ।। ३६ ।।

इति विंशतितमं स्थानम् ।। २० ।।

कीणावाचनकं स्थानं यदेकाधि कविंशति ।।

भारद्वाजाश्च विप्रेंद्राः कथिता ब्राह्मणाः शुभाः ।। ३७ ।।

आंगिरसवार्हस्पत्यभारद्वाजास्तथैव च ।।

यक्षिणी च तथा देवी गोत्रदेवी प्रकी र्तिता ।। ३८ ।।

अस्मिन्गोत्रे च ये जाता वाडवा धनिनः शुभाः ।।

वस्त्रालंकरणोपेता द्विजभक्तिपरायणाः ।। ३९ ।।

ब्रह्मभोज्यपराः सर्वे सर्वे धर्म्म परायणाः ।। 3.2.39.१४० ।।

इत्येकविंशतितमं स्थानम् ।। २१ ।।

गोविंदणाः च स्वस्थाने ये जाता ब्रह्मसत्तमाः ।।

कुशगोत्रं च वै प्रोक्तं प्रवरत्रयमेव च ।। ।।४१।।

विश्वामित्रो देवरातौदलप्रवरमेव च।।

चचई च महादेवी गोत्रदेवी प्रकीर्तिता ।। ४२ ।।

अस्मिन्गोत्रे च ये जाता ब्राह्मणा ब्रह्मवेदिनः ।।

यजंते क्रतुभिस्तत्र हृष्टचित्तैकमानसाः ।। ४३ ।।

सर्वविद्यासु कुशला ब्रह्मण्या ब्रह्मवित्तमाः ।। ४४ ।।

इति द्वाविंशतितमं स्थानम् ।। २२ ।।

थलत्यजा हि विप्रेंद्रा द्वौ गोत्रौ चाप्यधिष्ठितौ ।।

धारणं संकुशं चैव गोत्रद्वितयमेव च ।। ४५ ।।

अगस्त्यो दार्ढ्यच्युतश्च रथ्यवाहनमेव च ।।

विश्वामित्रो देवरात स्तृतीयौदल एव च ।। ४६ ।।

देवी च छत्रजा प्रोक्ता द्वितीया थलजा तथा ।।

धारणसगोत्रे ये जाता ब्रह्मण्या ब्रह्मवित्तमाः ।। ४७ ।।

त्रिप्रवराश्चैव विख्याता सत्त्ववंतो गुणान्विताः ।

तदन्वये च ये जाता धर्मकर्म्मसमाश्रिताः ।। ४८ ।।

धनिनो ज्ञाननिष्ठाश्च तपोयज्ञक्रियादिषु ।।

त्रयोविंशं प्रोक्तमेत्तत्स्थानं मोढकजातिनाम् ।। ४९ ।।

इति त्रयोविंशतितमं स्थानम् ।। २३ ।।

वारणसिद्धाश्च ये प्रोक्ता ब्राह्मणा ज्ञानवित्तमाः ।।

अस्मिन्गोत्रे च ये विप्राः सत्यवादिजितव्रताः ।। 3.2.39.१५० ।।

जितेंद्रियाः सुरूपाश्च अल्पाहाराः शुभाननाः ।।

सदोद्यताः पुराणज्ञा महादानपरायणाः ।। ।। ५१ ।।

निर्द्वेषिणोऽलोभयुता वेदाध्ययनतत्पराः ।।

दीर्घदर्शिनो महातेजा महामायाविमोहिताः ।। ५२ ।।

चतुर्विंशतितमं प्रोक्तं स्वस्थानं परमं मतम् ।। ५३ ।।

इति चतुर्विंशतितमं स्थानम् ।। २४ ।।

भालजाश्चात्र वै प्रोक्ता ब्राह्मणाः सत्यवादिनः ।। ५४ ।।

वत्सगोत्रं कुशं चैव गोत्रद्वितयमेव च ।।

तेषां प्रवराण्यहं वक्ष्ये पंचत्रितयमेव च ।।

भृगुश्चयवनाप्नवानौर्वजमदग्निस्तथैव च ।। ५५ ।।

आंगिरसौंबरीषश्च यौवनाश्वस्तृतीयकः ।।

शांता च शेषला चात्र देवीद्बितयमेव च ।। ५६ ।।

अस्मिन्वंशे समुत्पन्ना सद्वृत्ताः सत्यभाषिणः ।।

शांताश्च भिन्नवर्णाश्च निर्धनाश्च कुचैलिनः ।। ।। ५७ ।।

सगर्वा लौल्ययुक्ताश्च वेदशास्त्रेषु निश्चलाः ।।

पंचविंशतिमं प्रोक्तं स्वस्थानं मोढज्ञातिनाम् ।। ५८ ।।

इति पंचविंशतितमं स्थानम् ।। ।। २५ ।।

महोवीआश्च ये संति ब्राह्मणा ब्रह्मवित्तमाः ।।

एकमेव च वै गोत्रं कुशसंज्ञं पवित्रकम् ।। ५९ ।।

विश्वामित्रो देवरातस्तृतीयौदल एव च ।।

देवी चवाई चैवात्र रक्षारूपा व्यवस्थिता ।। 3.2.39.१६० ।।

अस्मिन्गोत्रे च ये जाताः सत्यवादि जितेद्रियाः ।।

सत्यव्रताः सुरूपाश्च अल्पाहाराः शुभा ननाः ।। ६१ ।।

दयालवः कृपालवः सर्वभूतहिते रताः ।।

षड्विंशतितमं प्रोक्तं स्वस्थानं त्रह्मवादिनाम् ।। ६२ ।।

रामेण संस्तुताश्चैव सानुजेन तथैव च ।। ६३ ।।

इति षड्विंशतितमं स्थानम् ।। २६ ।।

तियाश्रीयामथोवक्ष्ये स्वस्थानं सप्तविंशकम् ।।

अस्मिन्स्थाने च ये जाता ब्राह्मणा वेदपारगाः ।। ६४ ।।

शांडिल्यगोत्रं चैवात्र कथितं वेदसत्तमैः ।।

पंचप्रवरमथो प्रोक्तं ज्ञानजा चात्र देवता ।। ६५ ।।

काश्यपावत्सारश्चैव शांडि लोसित एव च ।।

पंचमो देवलश्चैव प्रवराणि तथा क्रमात् ।।

ज्ञानजा च तथा देवी कथिता स्थानदेवता ।। ६६ ।।

अस्मिन्वंशे च ये जातास्ते द्विजाः सूर्यवर्चसः ।।

चंद्रवच्छीतलाः सर्वे धर्मारण्ये व्यवस्थिताः ।। ६७ ।।

सदाचारा महाराज वेदशास्त्रपरायणाः ।।

याज्ञिकाश्च शुभाचाराः सत्यशौचपरायणाः ।। ६८ ।।

धर्मज्ञा दानशीलाश्च निर्मला हि मदोत्सुकाः ।।

तपःस्वाध्यायनिरता न्यायधर्मपरायणाः ।।

सप्तविंशतिमं स्थानं कथितं ब्रह्मवित्तमैः ।। ६९ ।।

इति सप्तविंशं स्थानम् ।। २७ ।।

गोधरीयाश्च ये जाता ब्राह्मणा ज्ञानसत्तमाः ।।

गोत्रत्रयमथो वक्ष्ये यथा चैवाप्यनुक्रमात्।। 3.2.39.१७० ।।

प्रथमं धारणसं चैव जातूकर्णं द्वितीयकम् ।।

तृतीयं कौशिकं चैव यथा चैवाप्यनुक्रमात् ।।७१।।

धारणसगोत्रे ये जाताः प्रवरैस्त्रिभिः संयुताः ।।

अगस्तिश्च दार्ढच्युत इध्मवाहनसंज्ञकः ।। ७२ ।।

वसिष्ठश्च तथात्रेयो जातूकर्णस्तृतीयकः ।।

विश्वामित्रो माधुच्छंदस अघमषणस्तृतीयकः ।। ७३ ।।

महाबला च मालेया द्वितीया चैव यक्षिणी ।।

तृतीया च महायोगी गोत्रदेव्यः प्रकीर्तिताः ।। ७४ ।।

अस्मिन्वंशे च ये जाता ब्राह्मणाः सत्यवादिनः ।।

अलौल्याश्च महायज्ञा वेदाज्ञाप्रतिपालकाः ।। ७५ ।।

इत्यष्टाविंशं स्थानम् ।। २८ ।।

वाटस्त्रहाले ये जाता गोत्रत्रितयमेव च ।।

धारणं प्रथमं ज्ञेयं वत्ससंज्ञं द्वितीयकम् ।। ७६ ।।

तृतीयं कुत्ससंज्ञं च गोत्रदेव्यस्तथैव च ।।

प्रथमं धारणसगोत्रं प्रवरत्रयमेव च ।। ७७ ।।

अगस्तिदार्ढच्युतश्चैव इध्मवाहन एव च ।।

द्वितीयं वत्ससंज्ञं हि प्रवराणि च पंच वै ।। ७८ ।।

भृगु च्यवनाप्नवानौर्वजमदग्निस्तथैव च ।।

तृतीयं कुत्ससंज्ञं हि प्रवरत्रयमेव च ।। ७९ ।।

आंगिरसांबरीषौ च यौवनाश्वस्तृतीयकः ।।

देवी चच्छत्रजा चैव द्वितीया शेषला तथा ।। 3.2.39.१८० ।।

ज्ञानजा चैव देवी च गोत्रदेव्यो ह्यनुक्रमात् ।।

अस्मिन्गोत्रे च ये विप्राः सत्यवादिजितेंद्रियाः ।। ८१ ।।

सुरूपाश्चाल्पाहाराश्च महादानपरायणाः ।।

निर्द्वेषिणो लोभयुता वेदाध्ययनतत्पराः ।। ८२ ।।

दीर्घदर्शिनो महातेजा महोत्काः सत्यवादिनः ।। ।। ८३।।

इत्येकोनत्रिंशं स्थानम् ।। २९ ।।

माणजा च महास्थानं गोत्रद्वितयमेव च ।।

शांडिल्यश्च कुशश्चैव गोत्रद्वयमितीरितम् ।। ८४ ।।

काश्यपोऽवत्सारश्च शांडिल्योऽसित एव च ।।

पंचमो देवलश्चैव एकगोत्रं प्रकीर्तितम् ।।८५।।

ज्ञानजा च तथा देवी कथिता चात्र सैव च ।।

द्वितीयं च कुशं गोत्रं प्रवरत्रयमेव च ।। ८६ ।।

विश्वामित्रो देवराजस्तृतीयोदलमेव च ॥

ज्ञानदा चात्र वै देवी द्वितीया संप्रकीर्तिता ॥ ८७॥

अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः ॥

असत्यभाषिणो विप्रा लोभिनो नृपसत्तम ॥ ८८ ॥

सर्वविद्याकुशलिनो ब्राह्मणा ब्रह्मसत्तमाः ॥ ८९ ॥

इति त्रिंशं स्थानम् ॥३०॥

साणदां च परं स्थानं पवित्रं परमं मतम् ॥

कुशप्रवरजा विप्रास्तत्रस्थाः पावनाः स्मृताः ॥ 3.2.39.१९० ॥

विश्वामित्रो देवरातस्तृतीयोदल एव च ॥

ज्ञानदा च महादेवी गोत्रदेवी प्रकीर्तिता ॥ ९१ ॥

अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः ॥

असत्यभाषिणो विप्रा लोभिनो नृपसत्तम॥९२॥

सर्वविद्याकुशिलिनो ब्राह्मणा ब्रह्मवित्तमाः ॥९३॥

इत्येकत्रिंशं स्थानम् ॥ ३१ ॥

आनन्दीया च संस्थानं गोत्रद्वितयमेव च ।।

भारद्वाजं नाम चैकं शांडिल्यं च द्वितीयकम् ।।९४ ।।

आंगिरसो बार्हस्पत्यो भारद्वाजस्तृतीयकः ।।

चचाई चात्र या देवी गोत्रदेवी प्रकीर्तिता ।। ९५ ।।

काश्यपावत्सारश्च शांडिल्योऽसित एव च ।।

पंचमो देवलश्चैव प्रवराणि यथाक्रमम् ।। ९६ ।।

ज्ञानजा च तथा देवी कथिता गोत्रदेवता ।।

अस्मिन्गोत्रे च ये जाता निर्लोभाः शुद्धमानसाः ।।९७।।

यदृच्छालाभसंतुष्टा ब्राह्मणा ब्रह्मवित्तमाः ।।९८।।

इति द्वात्रिंशं स्थानम् ।।३२।।

पाटडीया परं स्थानं पवित्रं परिकीर्तितम्।

कुशगोत्रं भवेदत्र प्रवरत्रयसंयुतम् ।।९९।।

विश्वामित्रो देवरातस्तृतीयौदलमेव हि ।।

अस्मिन्गोत्रे च ये जाता वेदशास्त्र परायणाः ।।3.2.39.२० ०।।

मदोद्धुराश्च ते विप्रा न्यायमार्गप्रवर्तकाः ।।१।।

इति त्रयस्त्रिंशं स्थानम् ।। ३३ ।।

टीकोलिया परं स्थानं कुशगोत्रं तथैव च ।।

विश्वामित्रो देवरातस्तृतीयौदलमेव च ।।२।।

चचाई चात्र वै देवी गोत्रदेवी प्रकीर्तिता ।।

अस्मिन्गोत्रे भवा विप्राः श्रुतिस्मृतिपरायणाः ।।३।।

रोगिणो लोभिनो दुष्टा यजने याजने रताः ।।

ब्रह्मक्रियापराः सर्वे मोढाः प्रोक्ता मयात्र वै ।।४।।

इति चतुस्त्रिंशं स्थानम् ।।३४।।

गमीधाणीयं परमं स्थानं प्रोक्तं वै पचत्रिंशकम्।।

योत्र धारणसं चैव देवी चात्र महाबला।।५।।

अगस्तिदार्ढच्युतइध्मवाहनसंज्ञकाः।।

अस्मिन्वंशे च ये जाता ब्राह्मणा ब्रह्मतत्पराः ।। ६ ।।

अलौल्याश्च महाप्राज्ञा वेदाज्ञाप्रतिपालकाः ।। ७ ।।

इति पंचत्रिंशं स्थानम् ।।३५।।

मात्रा च परमं स्थानं पवित्रं सर्वदेहिनाम् ।।

कुशगोत्रं पवित्रं तु परमं चात्र धिष्ठितम् ।। ८ ।।

विश्वामित्रो देवरातो दलश्चैव तृतीयकः ।।

ज्ञानदा च महादेवी सर्वलोकैकरक्षिणी ।। ९ ।।

अस्मिन्वंशे समुद्भूता ब्राह्मणा देवतत्पराः ।।

सस्वाधायवषट्कारा वेदशास्त्रप्रवर्तकाः ।। 3.2.39.२१० ।।

इति षट्त्रिशं स्थानम् ।। ३६ ।।

नातमोरा परं स्थानं पवित्रं परमं शुभम् ।।

कुशगोत्रं च तत्रास्ति प्रवरत्रयसंयुतम् ।। ११ ।।

विश्वामित्रो देवरातस्तृतीयौदलमेव च ।।

ज्ञानजा चात्र वै देवी गोत्रदेवी प्रकीर्तिता ।। १२ ।।

अस्मिन्वंशे भवा ये च ब्राह्मणा ब्रह्मवित्तमाः ।।

धर्मज्ञाः सत्यवक्तारो व्रतदानपरायणाः ।। १३ ।।

इति सप्तत्रिंशं स्थानम् ।। ३७ ।।

बलोला च महास्थानं पवित्रं परमाद्भुतम् ।।

कुशगोत्रं समाख्यातं प्रवरत्रयमेव च ।। १४ ।।

पूर्वोक्तं प्रवरं चैव देवी चैवात्र मानदा ।।

वंशेस्मिन्परमाः प्रोक्ताः काजेशेन विनिर्मिताः।।। १५ ।।

असत्यभाषिणो विप्रा लोभिनो नृपसत्तम ।।

सर्वविद्याकुशलिनो ब्राह्मणा ब्रह्मसत्तमाः ।। १६ ।।

इत्यष्टत्रिंशं स्थानम् ।। ३८ ।।

राज्यजा च महास्थानं लौगाक्षाप्रवरं तथा ।।

काश्यपावत्सारवाशिष्ठं प्रवरत्रयमेव च ।। १७ ।।

भद्रा च योगिनी चैव गोत्रदेवी प्रकीर्तिता ।।

अस्मिन्वंशे समुद्भूता ब्राह्मणा वेदतत्पराः ।। १८ ।।

नित्यस्नाननित्यहोमनित्यदानपरायणाः ।।

नित्यधर्मरताश्चैव नित्यनैमित्ततत्पराः ।। १९ ।।

इत्येकोनचत्वारिंशं स्थानम ।। ३९ ।।

रूपोला परमं स्थानं पवित्रमतिपुण्यदम् ।।

अस्मिन्गोत्रत्रये चैव देवीत्रितयमेव च ।।3.2.39.२२०।।

प्रथमं कुत्सवत्साख्यौ भारद्वाजस्तृतीयकः ।।

आंगिरसोंबरीषश्च यौवनाश्वस्तृतीयकः ।। २१ ।।

भृगुच्यवनाप्नवानौर्वजगदग्निस्तथैव च ।।

आंगिरसवार्हस्पत्यभारद्वाजस्तथैव च ।।२२।।

क्षेमला चैव वै देवी धारभट्टारिका तथा ।।

तृतीया क्षेमला प्रोक्ता गोत्रमाता ह्यनुक्रमात् ।।२३।।

अस्मिन्गोत्रे च ये जाता पंचयज्ञरताः सदा ।।

लोभिनः क्रोधिनश्चैव प्रजायन्ते बहुप्रजाः ।। २४ ।।

स्नानदानादिनिरताः सदा च विजितेंद्रियाः ।।

वापीकूपतडागानां कर्त्तारश्च सहस्रशः ।। २५ ।।

इति चत्वारिंशं स्थानम् ।। ४० ।।

बोधणी परमं स्थानं पवित्रं पापनाशनम् ।।

कुशं च कौशिकं चैव गोत्रद्वितयमेव च ।। २६ ।।

विश्वामित्रश्च प्रथमो देवरातोदलेति च ।।

विश्वामित्राघमर्षणकौशिकेति तथैव च ।। २७ ।।

यक्षिणी प्रथमा चैव द्वितीया तारणी तथा ।।

अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः ।। २८ ।।

असत्यभाषिणो विप्रा लोभिनो नृपसत्तम ।।

सर्वविद्याकुशलिनो ब्राह्मणा ब्रह्मसत्तमाः । २९ ।।

इत्येकचत्वारिशं स्थानम् ।। ४१ ।।

छत्रोटा च परं स्थानं सर्वलोकैकपूजितम् ।।

कुशगोत्रं समाख्यातं प्रवरत्रयमेव हि ।। 3.2.39.२३० ।।

विश्वामित्रो देवरातस्तृतीयो दलमेव वै ।।

चचाई चात्र वै देवी गोत्रदेवी प्रकीर्तिता ।। ३१ ।।

अस्मिन्वंशे भवाश्चैव वेदशास्त्रपरायणाः ।।

महोदयाश्च ते विप्रा न्यायमार्गप्रवर्तकाः । ३२ ।।

इति द्विचत्वारिंशं स्थानम् ।। ४२ ।।

खल एवात्र संस्थानं त्रयश्चत्वारिंशमेव हि ।।

वत्सगोत्रोद्भवा विप्राः कृषिकर्मप्रवर्तकाः ।। ३३ ।।

गोत्रजा ज्ञानजा देवी प्रवराः पंच एव हि ।।

भार्गावच्या वनाप्नवानौर्वजामदग्न्येति चैव हि ।। ३४ ।।

अस्मिन्गोत्रे भवा विप्राः श्रौताग्नि सुनिषेवकाः ।।

वेदाध्ययनशीलाश्च तापसाश्चारिमर्दनाः ।। ३५ ।।

रोषिणो लोभिनो हृष्टा यजने याजने रताः ।।

सर्वभूतदयाविष्टास्तथा परोपकारिणः ।।३६ ।।

इति त्रयश्चत्वारिंश स्थानम् ।। ४३ ।।

वासंतड्यां च विप्राणां कुशगोत्रमुदाहृतम् ।।

विश्वामित्रो देवारातस्तृतीयौदलमेव हि ।।३७।।

चचाई चात्र वै देवी गोत्रदेवी प्रकीर्तिता ।।

अस्मिन्वंशे च ये जाताः पूर्वोक्ता ब्रह्मतत्पराः ।। ३८ ।।

परोपकारिणश्चैव परचित्तानुवर्तिनः ।।

परस्वविमुखाश्चैव परमार्गप्रवर्त्तकाः ।। ३९ ।।

इति चतुश्चत्वारिंशं स्थानम् ।। ।। ४४ ।।

अतः परं च संस्थानं जाखासणमुदाहृतम् ।।

गोत्रं वै वात्स्यसंज्ञं तु गोत्रजा शीहुरी तथा ।।

प्रवराणि च पंचैव मया तव प्रकाशितम् ।। 3.2.39.२४० ।।

भार्गवच्यावनाप्नवानौर्वपुरोधसः स्मृतः ।।

अस्मिन्वंशे च ये जाता वाडवाः सुखवासिनः ।।

विप्राः स्थूलाश्च ज्ञातारः सर्वकर्म रताश्च वै ।। ४१ ।।

सर्वे धर्मैकविश्वासाः सर्वलोकैकपूजिताः ।।

वेदशास्त्रार्थनिपुणा यजने याजने रताः ।। ४२ ।।

सदाचाराः सुरूपाश्च तुंदिला दीर्घ दर्शिनः ।।

शीहुरी चात्र वै देवी कुलदेवी प्रकीर्तिता ।। ४३ ।।

इति पंचचत्वारिंशं स्थानम् ।। ४५ ।।

षट्चत्वारिंशकं स्थानं मोटानां तु प्रकाशितम्।।

गोतीआनामसंज्ञा तु कुशगोत्रमिहास्ति च ।।४४।।

विश्वामित्रं प्रथमं चैव द्वितीयं देवरातकम्।।

तृतीयमौदलं चैव प्रवरत्रितयं त्विदम्।।४५।।

यक्षिणी चात्र वै देवी राक्षसानां प्रभंजनी।।

अस्मिन्वंशे च ये जाता ब्राह्मणा ब्रह्मतत्पराः।।४६।।

धर्मे मतिप्रवृत्ताश्च धर्मशास्त्रेषु निष्ठिताः ।। ४७ ।।

इति षटचत्वारिंशस्थानम् ।। ४६ ।।

सप्तचत्वारिंशकं च संस्थानं परिकीर्तितम् ।।

वरलीयाख्यसंस्थानं पवित्रं परमं मतम् ।। ४८ ।।

भारद्वाजं तथा गोत्रं प्रवराणि तथैव च ।।

यक्षिणी चात्र वै देवी कुलदेवी प्रकीर्तिता ।। ४९ ।।

आंगिरसं बार्हस्पत्यं भारद्वाजं तृतीयकम् ।।

अस्मिन्वंशे च ये जाताः ब्राह्मणा पूतमूर्तयः।। 3.2.39.२५० ।।

येषां वाक्योदकेनैव शुध्यंति पापिनो नराः ।। ५१ ।।

इति सप्तचत्वारिंशकं स्थानम् ।। ४७ ।।

दुधीयाख्यं परं स्थानं गोत्रद्वितयमेव च ।।

धारणसं तथा गोत्रमांगिरकसमेव च ।। ५२ ।।

अगस्तिदार्ढच्युतइध्मवाहनसंज्ञकम् ।।

छत्राइ च महादेवी द्वितीयं प्रवरं शृणु ।। ५३ ।।

आंगिरसांबरीषौ च यौवनाश्वस्तृतीयकः ।।

ज्ञानदा शेषला चैव ज्ञानदा सर्वदेहिनाम् ।। ५४ ।।

अस्मिन्वंशे समुत्पन्ना वाडवा दुःसहा नृप ।।

मदोत्कटा महाकायाः प्रलंभाश्च मदोद्धताः ।। ५५ ।।

क्लेशरूपाः कृष्णवर्णाः सर्वशस्त्रविशारदाः ।।

बहुभुग्धनिनो दक्षा द्वेषपापविवर्जिताः ।। ५६ ।।

इत्यष्टाचत्वारिशकं स्थानम् ।। ४८ ।।

हासोलासं प्रवक्ष्यामि स्वस्थानं चात्र संश्रुतम् ।।

शांडिल्यगोत्रं चैवात्र प्रवरैः पंचभिर्युतम् ।। ५७ ।।

भार्गवच्यावनाप्नवानौर्वं वै जामदग्न्यकम् ।।

यक्षिणी चात्र वै देवी पवित्रा पापनाशिनी ।। ५८ ।।

अस्मिन्वंशे च ये जाता ब्राह्मणाः स्थूलदेहिनः ।।

लंबोदरा लंबकर्णा लंबहस्ता महाद्विजाः ।। ५९ ।।

अरोगिणः सदा देवाः सत्यव्रतपरायणाः ।। ।। 3.2.39.२६० ।।

इत्येकोनपञ्चाशत्तमं स्थानम् ।। ४९ ।।

वैहालाख्यं च संस्थानं पचाशत्तममेव हि ।।

कुशगोत्रं तथा चैव देवी चात्र महाबला ।। ६१ ।।

अस्मिन्गोत्रे भवा विप्रा दुष्टाः कुटिलगामिनः ।।

धनिनो धर्मनिष्ठाश्च वेदवेदांगपारगाः ।। ६२ ।।

दानभोगरताः सर्वे श्रौते च कृत बुद्धयः ।। ६३ ।।

इति पञ्चाशत्तमं स्थानम् ।। ५० ।।

असाला परमं स्थानं प्रवरद्वयमेव हि ।।

कुशं च धारणं चैव प्रवराणि क्रमेण तु ।।६४।।

विश्वामित्रो देवरातो देवलस्तु तृतीयकः ।।

ज्ञानजा च तथा देवी गोत्रदेवी प्रकीर्तिता ।। ६५ ।।

इत्येकपंचाशत्तमं स्थानम् ।। ५१ ।।

नालोला परमं स्थानं द्विपंचाशत्तमं किल ।।

वत्सगोत्रं तथा ख्यातं द्वितीयं धारणसं तथा ।। ६६ ।।

प्रवराश्चैव पूर्वोक्ता देव्युक्ता पूर्वमेव हि ।।

अस्मिन्वंशे च ये जाताः पवित्राः परमा मताः ।। ६७

बहुनोक्तेन किं विप्राः सर्व एवात्र सत्तमाः ।।

सर्वे शुद्धा महात्मानः सर्वे कुलपरंपराः।।६८।।

इति द्वापञ्चाश त्तमं स्थानम्।।५२।।

देहोलं परमं स्थानं ब्राह्मणानां परंतप ।।

कुशवंशोद्भवा विप्रास्तत्र जाता नृसत्तम ।।

पूर्वोक्तप्रवराण्येव देवी पूर्वोदिता मया।।६९।।

तस्मिन्गोत्रे द्विजा जाताः पूर्वोक्तगुणशालिनः ।।3.2.39.२७०।।

इति त्रिपंचाशत्तमं स्थानम् ।। ५३ ।।

सोहासीयापुरं स्थानं गोत्रत्रितयमेव हि ।।

भारद्वाजस्तथा ख्यातं गोत्रं वत्सं तथैव च ।।७१।।

यक्षिणी ज्ञानजा चैव सिहोली च यथाक्रमम्।।

एतद्वंशपरीक्षा च पूर्वोक्ता नृपसत्तम ।।७२।।

इति चतुःपंचाशत्तमं स्थानम् ।।५४।।

पंचपंचाशकं स्थानं प्रवक्ष्यामि तवाधुना ।।

नाम्ना संहालियास्थानं दत्तं रामेण वै पुरा ।।७३।।

तत्र वै कुत्सगोत्रस्था ब्राह्मणां ब्रह्मवर्चसः।।

स्वधर्मनिरता नित्याः स्वकर्म्मनिरताश्च ते ।।७४ ।।

आंगिरसांबरीषेच यौवनाश्वमतः परम् ।।

शांता चैवात्र वै देवी शांतिकर्म्मणि शा तिदा ।। ७५ ।।

इति पंचपंचाशत्तमं स्थानम् ।। ५५ ।।

एवं मया ते गोत्राणि स्थानान्यपि तथैव च ।।

प्रवराणि तथैवात्र ब्राह्मणानां परंतप ।।७६।।

अतः परं प्रवक्ष्यामि त्रैविद्यानां परंतप ।।

स्वस्थानं च मया प्रोक्तं यथानुक्रमेण तु ।। ७७ ।।

शीलायाः प्रथमं स्थानं मंडोरा च द्वितीयकम् ।।

एवडी च तृतीय हि गुंदराणा चतुर्थकम् ।।७८।।

पंचमं कल्याणीया देगामा षष्ठकं तथा ।।

नायकपुरा सप्तमं च डलीआ चाष्टमं तथा ।। ७९ ।।

कडोव्या नवमं चैव कोहाटोया दशमं तथा।।

हरडीयैकादशं चैव भदुकीया द्वादशं तथा ।।3.2.39.२८०।।

संप्राणावा तथा चात्र कंदरावा प्रकीर्तितम् ।।

वासरोवा त्रयोदशं शरंडावा चतुर्दशम् ।। ८१ ।।

लोलासणा पंचदशं वारोला षोडशं तथा ।।

नागलपुरा मया चात्र उक्तं सप्तदशं तथा ।। ८२ ।।

।। ब्रह्मोवाच ।। ।।

चातुर्विद्यास्तु ये विप्रा नागताः पुनरागताः ।।

वसतिं तत्र रम्ये च चक्रिरे ते द्विजोत्तमाः ।। ८३ ।।

चतुर्विंशतिसंख्याका रामशासनलिप्सया ।।

हनुमंतं प्रति गता व्यावृत्ताः पुनरागताः ।।८४।।

तेषां दोषात्समस्तास्ते स्थानभ्रंशत्वमागताः।।

कियत्काले गते तेषां विरोधः समपद्यत ।। ८५ ।।

भिन्नाचारा भिन्नभाषा वेशसंशयमागताः ।।

पंचदशसहस्राणि मध्ये ये के च वाडवाः।।८६।।

कृषिकर्मरता आसन्केचिद्यज्ञपरायणाः।।

केचिन्मल्लाश्च संजा ताः केचिद्वै वेदपाठकाः ।।८७।।

आयुर्वेदरताः केचित्केचिद्रजकयाजकाः ।।

संध्यास्नानपराः केचिन्नीलीकर्तृप्रयाजकाः ।। ८८ ।।

तंतुकृद्याचनरतास्तंतुवायादियाचकाः ।।

कलौ प्राप्ते द्विजाः भ्रष्टा भविष्यंति न संशयः ।। ८९ ।।

शूद्रेषु जातिभेदः स्यात्कलौ प्राप्ते नराधिप ।।

भ्रष्टाचाराः परं ज्ञात्वा ज्ञातिबंधेन पीडिताः ।। 3.2.39.२९० ।।

भोजनाच्छादने राजन्परित्यक्ता निजैर्जनैः ।।

न कोऽपि कन्यां विवहेत्संसर्गेण कदाचन ।।

ततस्ते वणिजो राजं स्तैलकाराः कलौ किल ।। ९१ ।।

केचिच्च कलकाराश्च केचित्तंदुलकारिणः ।।

राजपुत्राश्रिताः केचिन्नानावर्णसमाश्रिताः ।।

कलौ प्राप्ते तु वणिजो भ्रष्टाः केपि महीतले ।। ९२ ।।

तेषां तु पृथगाचाराः सम्बन्धाश्च पृथक्कृता ।।

सीतापुरे च वसतिः केषांचित्समजायत ।। ९३ ।।

साभ्रमत्यास्तटे केचिद्यत्र कुत्र व्यवस्थिताः ।।

सीतापुरात्तु ये पूर्वं भयभीता समागताः ।। ९४ ।।

साभ्रमत्युत्तरे कूले श्रीक्षेत्रे ये व्यवस्थिताः ।।

यदा तेषां पदं स्थानं दत्तं वै सुखवासकम् ।।९५।।

पुनस्तेऽपि गताः सद्यस्तस्मिन्सीतापुरे स्वयम्।।

पंचपञ्चाशद्ग्रामाश्च दत्तास्तु प्रुनरागमे ।। ९६ ।।

रामेण मोढविप्राणां निवासांस्तेषु चक्रिरे ।।

वृत्तिबाह्यास्तु ये विप्रा धर्मारण्यांतरस्थिताः ।। ९७ ।।

नास्माकं वणिजां वृत्तौ ग्रामवृत्तौ न किंचन ।।

प्रयोजनं हि विप्रेंद्रा वासोऽस्माकं तु रोचते ।। ९८ ।।

इत्युक्ते समनुज्ञातास्त्रैविद्यैस्तैर्द्विजोत्तमैः ।।

तेषु ग्रामेषु ते विप्राश्चातुर्विद्या द्विजोत्तमाः ।। ९९ ।।

स्वकर्मनिरताः शांताः कृषिकर्मपरायणाः ।।

धर्मारण्यान्नातिदूरे धेनूः संचारयंति ते ।।3.2.39.३००।।

बहवस्तत्र गोपाला वभूवुर्द्विजबालकाः ।।

चातुर्विद्यास्तु शिशवस्तेषां धेनूरचारयन् ।।

तेषां भोजनकामाय अन्नपानादिसत्कृतम् ।। १ ।।

अनयन्वै युवतयो विधवा अपि बालकाः ।। २ ।।

कालेन कियता राजंस्तेषां प्रीतिरभून्मिथः ।।

गोपाला बुभुजुः प्रेम्णा कुमार्यो द्विजबालिकाः ।। ३ ।।

जाताः सगर्भास्ताः सर्वा दृष्टास्तैर्द्विजसत्तमैः ।।

परित्यक्ताश्च सदनाद्धिक्कृताः पापकर्मणा ।। ४ ।।

तेभ्यो जाता कुमारा ये कातीभा गोलकास्तथा ।।

धेनुजास्ते धरालोके ख्यातिं जग्मुर्द्विजोत्तमाः ।। ५ ।।

वृत्ति बाह्यास्तु ते विप्रा भिक्षां कुर्वंति नित्यशः ।।

अन्यच्च श्रूयतां राजंस्त्रैविद्यानां द्विजन्मनाम् ।। ६ ।।

कुष्ठी कोऽपि तथा पंगुर्मूर्खो वा बधिरोऽपि वा ।।

काणो वाप्यथ कुब्जो वा बद्धवागथवा पुनः ।। ७ ।।

अप्राप्तकन्यका ह्येते चातुर्विद्यान्समाश्रिताः ।।

वित्तेन महता राजन्सुतांस्तेषां कुमारिकाः ।। ८ ।।

उद्वाहितास्तदा राजंस्तस्माज्जातार्भकास्तु ये ।।

त्रिदलजास्ते विख्याताः क्षितिलोकेऽभवंस्ततः ।। ९ ।।

वृत्तिं चक्रुर्ब्राह्मणास्तेऽ न्योन्यं मिश्रसमुद्भवाः ।।

अन्यच्च श्रूयतां राजंस्त्रैविद्यानां द्विजन्मनाम् ।। 3.2.39.३१० ।।

रामदत्तेन ग्रामेण करग्रहणहेतवे ।।

एकीभूय द्विजैः सर्वैर्ग्रामं प्रदाय तं बलिम् ।। ११ ।।

अर्द्धं निवेदयामासुरर्द्धं चैवोपरक्षितम् ।।

एतल्लब्धं हि मन्वानास्ते द्विजा लौल्यभागिनः ।। १२ ।।

महास्थानगता ये च ते हि विस्मयमाययुः ।।

तन्मध्ये कोऽपि विप्रस्तानुवाच कुपितो वचः ।। १३ ।।

।। विप्र उवाच ।। ।।

अनृतं चैव भाषंते लौल्येन महता वृताः ।।

पुत्रपौत्रविनाशाय ब्रह्मस्वेष्वतिलोलुपाः ।। १४ ।।

न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।।

विषमेकाकिनं हंति ब्रह्मस्वं पुत्रपौत्रकम् ।। १५ ।।

ब्रह्मस्वेन च दग्धेषु पुत्रदारगृहादिषु ।।

न च तेऽपि तिष्ठंति ब्रह्मस्वेन विनाशिताः ।। १६ ।।

न नाकं लभते सोऽथ सदा ब्रह्मस्वहारकः ।।

यदा वराटिकां चैव ब्राह्मणस्य हरंति ये ।। १७ ।।

ततो जन्मत्रयाण्येव हर्त्ता निरयमाव्रजेत् ।।

पूर्वजा नोपभुंजंति तत्प्रदत्तं जलं क्वचित् ।। १८ ।।

क्षयाहे नोपभुंजंति तस्य पिंडोदकक्रियाः ।।

संततिं नैव लभते लभ्यमाना न जीवति ।। १९ ।।

यदि जीवति दैवाच्चेद्भ्रष्टाचारा भवेदिति ।। 3.2.39.३२० ।।

एकादशविप्रा ऊचुः ।।

नासत्यं भाषितं विप्राः कथं दूषयसे हि नः ।।

अपराधं विना कस्य कटूक्तिर्युज्यते किल ।। २१ ।।

तच्छ्रुत्वा तैर्द्विजैः पार्थ ग्रामग्राहयिता वणिक् ।।

परिपृष्टः स तत्सर्वं कथयामास कारणम् ।। २२ ।।

वणिजैरेव मे दत्तो बलिश्च द्विजसत्तमाः ।।

तत्सर्वं शुद्धभावेन कथितं तु द्विजन्मसु ।। २३ ।।

ततोऽर्द्धदलं ज्ञात्वा ते कुपिता द्विजपुत्रकाः ।।

वृत्तेर्बहिष्कृतास्ते वै एकादश द्विजास्ततः ।। २४ ।।

एकादशसमा ज्ञातिर्विख्याता भुवनत्रये ।।

न तेषां सहसंबन्धो न विवाहश्च जायते ।। २५ ।।

एकादशसमा ये च बहिर्ग्रामे वसंति ते ।।

एवं भेदाः समभवन्नाना मोढद्विजन्मनाम् ।।

युगानुसारात्कालेन ज्ञातीनां च वृषस्य वा ।। ३२६ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ज्ञातिभेदवर्णनंनामैकोनचत्वारिंशोऽध्यायः ।। ।। ३९ ।। ।। छ ।।

खण्डः ३ (ब्रह्मखण्डः) · धर्मारण्य खण्डः — Adhyāya 40

।। नारद उवाच ।। ।।

ज्ञातिभेदे तु संजाते तस्मिन्मोहेरके पुरे ।।

त्रैविद्यैः किं कृतं ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः ।। १ ।।। ।।

।। ब्रह्मोवाच ।। ।।

स्वस्थाने वाडवाः सर्वे हर्षनिर्भरमानसाः ।।

अग्निहोत्रपरा केऽपि केऽपि यज्ञपरायणाः ।। २ ।।

केऽपि चाग्निसमाधानाः केऽपि स्मार्ता निरंतरम् ।।

पुराणन्यायवेत्तारो वेदवेदांगवादिनः ।। ३ ।।

सुखेन स्वान्सदाचारान्कुर्वन्तो ब्रह्मवादिनः ।।

एवं धर्मसमाचारान्कुर्वतां कुशलात्मनाम् ।। ४ ।।

स्थानाचारान्कुलाचारानधिदेव्याश्च भाषितान् ।।

धर्मशास्त्रस्थितं सर्वं काजेशैरुदितं च यत् ।। ५ ।।

परंपरागतं धर्म मूचुस्ते वाडवोत्तमाः ।। ६ ।।

।। ब्राह्मणा ऊचुः ।। ।।

उपास्ते यश्च लिखितं रक्तपादैस्तु वाडवाः ।।

ज्ञातिश्रेष्ठः स विज्ञेयो वलिर्देयस्ततः परम् ।। ७ ।।

रक्तचंदनं प्रसाध्याथ प्रसिद्धं स्वकुलं तथा ।।

कुंकुमारक्तपादैस्तैर्गंधपुष्पादिचर्चितैः ।। ८ ।।

संभूय लिखितं तच्च रक्तपादं तदुच्यते ।।

रामस्य लेख्यं ते सर्वे पूजयंतु समाहिताः ।। ९ ।।

रामस्य करमुद्रां च पूजयंतु द्विजाः सदा ।।

येषां दोषाः सदाचारे व्यभिचारादयो यदि ।। ।। 3.2.40.१० ।।

तेषां दण्डो विधेयस्तु य उक्तो विधिवद्विजैः ।।

चिह्नं न राममुद्राया यावद्दंडं ददाति न ।। ११ ।।

विना दण्डप्रदानेन मुद्राचिह्नं न धार्यते ।।

मुद्राहस्ताश्च विज्ञेया वाडवा नृपसत्तम ।। १२ ।।

पुत्रे जाते पिता दद्द्याच्छ्रीमात्रे तु बलिं सदा ।।

पलानि विंशतिः सर्प्पिर्गुडः पंचप लानि च ।। १३ ।।

कुंकुमादिभिरभ्यर्च्य जातमात्रः सुतस्तदा ।।

षष्ठे च दिवसे राजन्षष्ठीं पूजयते सदा ।। १४ ।।

दद्यात्तत्र बलिं साज्यं कुर्याद्धि बलिपंचकम् ।।

पंचप्रस्थान्बलीन्दद्यात्सवस्त्राञ्छ्रीफलैर्युतान् ।। १५ ।।

कुंकुमादिभिरभ्यर्च्य श्रीमात्रे भक्तिपूर्वकम् ।।

वितशाठ्यं न कुर्वीत कुले संततिवृद्धये ।। १६ ।।

तद्धि चार्पयता द्रव्यं वृद्धौ यद्ध्रीणितं पुनः ।।

जन्मनो नंतरं कार्यं जातकर्म यथाविधि ।। १७ ।।

विप्रानुकीर्तिता याश्च वृत्तिः सापि विभज्यते ।।

प्रथमा लभ्यमाना च वृत्तिर्वै यावती पुनः ।। १८।।

तस्या वृत्तेरर्द्धभागो गोत्रदेव्यै तु कल्प्यताम् ।।

द्विगुणं वणिजा चैव पुत्रं जाते भवेदिति ।। १९ ।।

मांडलीयाश्च ये शूद्रास्तेषामर्ककरं त्विदम् ।।

अडालजानां त्रिगुणं गोभुजानां चतुर्गुणम् ।। 3.2.40.२० ।।

इत्येतत्कथितं सर्वमन्यच्च शूद्रजातिषु ।।

यस्य दोषस्तु हत्यायाः समुद्भूतो विधेर्वशात् ।। २१ ।।

दण्डस्तु विधिवत्तस्य कर्त्तव्यो वेदशास्त्रिभिः ।।

अन्यायो न्यायवादी स्यान्निर्द्दोषे दोषदायकः ।। २२ ।।

पंक्तिभेदस्य कर्ता च गोसहस्रवधः स्मृतः ।।

वृत्तिभागविभजनं तथा न्यायविचारणम् ।।

श्रीरामदूतकस्याग्रे कर्त्तव्यमिति निश्चयः ।। २३ ।।

तस्य पूजां प्रकुर्वीत तदा कालेऽथवा सदा।।

तैलेन लेपयेत्तस्य देहे वै विघ्नशांतये ।। २४ ।।

धूपं दीपं फलं दद्यात्पुष्पैर्नानाविधैः किल ।।

पूजितो हनुमानेव ददाति तस्य वांछितम् ।। २५ ।।

प्रतिपुत्रं तु तस्याग्रे कुर्यान्नान्यत्र कुत्रचित् ।।

श्रीमाताबकुलस्वामिभागधेयं तु पूर्वतः ।। २६ ।।

पश्चात्प्रतिग्रहं विप्रैः कर्त्तव्यमिति निश्चितम् ।।

समागमेषु विप्राणां न्यायान्यायविनिर्णये ।। ।। २७ ।।

निर्णयं हृदये धृत्वा तत्रस्थं श्रावयेद्द्विजान् ।।

केवलं धर्मबुद्ध्या च पक्षपातं विवर्जयेत् ।। २८ ।।

सर्वेषां संमतं कार्यं तद्ध्यविकृतमेव च ।।

आकारितस्ततो विप्रः सभायां भयमेति चेत् ।। २९ ।।

न तस्य वाक्यं श्रोतव्यं निर्णीतार्थनिवारणे ।।

यस्य वर्जस्तु क्रियते मिलित्वा सर्व वाडवैः ।। 3.2.40.३० ।।

खानपानादिकं सर्वं कार्यं तेन विवर्जयेत् ।।

तस्य कन्या न दातव्या तत्संसर्गी च तादृशः ।। ३१ ।।

ततो दंडं प्रकुर्वीत सर्वैरेव द्विजोत्तमैः ।।

भोजनं कन्यकादानमिति दाशरथेर्मतम् ।। ३२ ।।

यत्किंचित्कुरुते पापं लब्धुं स्थलमथापि वा ।।

शुष्कार्द्रं वसते चान्ने तस्मादन्नं परि त्यजेत् ।। ३३ ।।

कुर्वंस्तत्पापभागी स्यात्तस्य दंडो यथाविधि ।।

न्यायं न पश्यते यस्तु शक्तौ सत्यां सदा यतः ।।३४।।

पापभागी स विज्ञेय इति सत्यं न संशयः ।।

उत्कोचं यस्तु गृह्णाति पापिनां दुष्टकर्मिणाम् ।।

सकलं च भवेत्तस्य पापं नैवात्र सशयः ।।३५।।

तस्यान्नं गृह्यते नैव कन्यापि न कदाचन ।।

हितमाचरते यस्तु पुत्राणामपि वै नरः ।। ३६ ।।

स एतान्नियमान्सर्वान्पालयेन्नात्र संशयः ।।

एवं पत्रं लिखित्वा तु वाडवास्ते प्रह र्षिताः ।। ३७ ।।

प्राप्ते कलियुगे घोरे यथा पापं न कुर्वते ।।

इति ज्ञात्वा तु सर्वे ते न्यायधर्मं प्रचक्रिरे ।। ३८ ।।

।। व्यास उवाच ।। ।।

कलौ प्राप्ते द्विजाः सर्वे स्थानभ्रष्टा यतस्ततः।।

पक्षमुत्कलं ग्रहीष्यंति तथा स्युः पक्षपातिनः ।। ३९ ।।

भोक्ष्यंते म्लेच्छकग्रामान्कोलाविध्वंसिभिः किल ।।

वेदभ्रष्टाश्च ते विप्रा भविष्यंति कलौ युगे॥ 3.2.40.४० ॥

॥ युधिष्ठिर उवाच॥ ॥

देशेदेशे गमिष्यंति ते विप्रा वणिजस्तथा॥

कथं वै ज्ञायते सर्वै केन चिह्नेन मारिष।॥११॥

यस्मिन्गोत्रे समुत्पन्ना वाडवा ये महाबलाः ॥४२॥

व्यास उवाच।॥

ज्ञायते गोत्रसंज्ञाऽथ केचिच्चैव पराक्रमैः ॥

यस्ययस्य च यत्कर्म तस्य तस्यावटंककः॥४३॥

अवटंकैर्हि ज्ञायंते नान्यथा ज्ञायते क्वचित्॥

गोत्रैश्च प्रवरैश्चैव अवटंकैर्नृपात्मज॥४४॥

ज्ञायंते हि द्विजा राजन्मोढ ब्राह्मणसत्तमाः॥१९॥

॥ युधिष्ठिर उवाच ॥ ॥

गोत्रैश्च प्रवरैश्चैव श्रुता एते तवाननात् ॥

कां वा शाखामधीयानास्तन्मे ब्रूहि पितामह ॥ १६॥ ॥

॥ व्यास उवाच ॥ ॥

ज्ञायंते यत्रयत्रस्था माध्यंदिनीया महाबलाः ॥

कौथमीं च समाश्रित्य केचिद्विप्रा गुणान्विताः ॥४७॥

ऋगथर्वणजा शाखा नष्टा सा च महामते॥

एवं वै वर्तमानास्ते वाडवा धर्मसंभवाः॥४८॥

धर्मारण्ये महाभागाः पुत्रपौत्रान्विताऽभवन् ॥

शूद्राः सर्वे महाभागाः पुत्रपौत्र समावृताः ॥ ४९॥

धर्मारण्ये महातीर्थे सर्वे ते द्विजसेवकाः ॥

अभवन्रामभक्ताश्च रामाज्ञां पालयंति च ॥ 3.2.40.५० ॥

आज्ञामत्याऽऽदरेणेह हनूमंतश्च वीर्यवान् ॥

पालयेत्सोऽपि चेदानीं सुप्राप्ते वै कलौ युगे ॥ ५१ ।

अदृष्टरूपी हनुमांस्तत्र भ्रमति नित्यशः॥

त्रैविद्या वाडवा यत्र चातुर्विद्यास्तथैव च ॥ ५२ ॥

सभायामुपविष्टा येऽन्यायात्पापं प्रकुर्वते ॥

जयो हि न्यायकर्तॄणामजयोऽन्यायकारिणाम् ॥ ५३ ॥

सापराधे यस्तु पुत्रे ताते भ्रातरि चापि वा ।।

पक्षपातं प्रकुर्वीत तस्य कुप्यति वायुजः॥ ५४॥

कुपितो हनुमानेष धननाशं करोति वै॥

पुत्रनाशं करोत्येव धामनाशं तथैव च ॥ ५५ ॥

सेवार्थं निर्मितः शूद्रो न विप्रान्परिषेवते ॥

वृत्तिं वा न ददात्येव हनुमांस्तस्य कुप्यति ॥ ५६ ॥

अर्थनाशं पुत्रनाशं स्थाननाशं महा भयम् ॥

कुरुते वायुपुत्रो हि रामवाक्यमनुस्मरन् ॥ ५७॥

यत्र कुत्र स्थिता विप्राः शूद्रा वा नृपसत्तम ॥

न निर्द्धना भवेयुस्ते प्रसादाद्राघवस्य च ॥५८॥

यो मूढश्चाप्यधर्मात्मा पापपाषंडमाश्रितः ।

निजान्विप्रान्परित्यज्य परज्ञातींश्च मन्यते ॥ ५९॥

तस्य पूर्वकृतं पुण्यं भस्मीभवति नान्यथा ॥

अन्येषां दीयते दानं स्वल्पं वा यदि वा बहु ॥ 3.2.40.६० ॥

यथा भवति वै पूर्वं ब्रह्मविष्णुशिवैः कृतम् ॥

तस्य देवा न गृह्णंति हृव्यं कव्यं च पूर्वजाः ॥ ६१॥

वंचयित्वा निजान्विप्रानन्येभ्यः प्रददेत्तु यः ॥

तस्य जन्मार्जितं पुण्यं भस्मीभवति तत्क्षणात् ॥६२॥

ब्रह्मविष्णुशिवैश्चैव पूजिता ये द्विजोत्तमाः।। ते

षां ये विमुखाः शूद्रा रौरवे निवसंति ते।। ६३।।

यो लौल्याच्च कुलाचारं गोत्राचारं प्रलोपयेत्।।

स्वाचारं यो न कुर्वीत कदाचिद्वै विमोहितः।।६४।।

सर्वनाशो भवेत्तस्य भस्मीभवति तत्क्षणात् ॥

तस्मात्सर्वः कुलाचारः स्थानाचारस्तथैव च ॥ ६५॥

गोत्राचारः पालनीयो यथावित्तानुसारतः ॥

एवं ते कथितं राजन्धर्मारण्यं पुरातनम्॥ ६६॥

स्थापितं देवदेवैश्च ब्रह्मविष्णुशिवादिभिः ॥

धर्मारण्यं कृतयुगे त्रेतायां सत्यमंदिरम्॥

द्वापरे वेदभवनं कालौ मोहेरकं स्मृतम् ॥ ६७ । । !

ब्रह्मोवाच ॥ ॥

य इदं शृणुयात्पुत्र श्रद्धया परया युतः॥

धर्मारण्यस्य माहात्म्यं सर्वकिल्बिषनाशनम् ॥ ६८॥

मनोवाक्कायजनितं पातकं त्रिविधं च यत्॥

तत्सर्वं नाशमायाति श्रवणात्कीर्तनात्सुकृत् ॥ ६९॥

धन्यं यशस्यमायुष्यं सुखसंतानदायकम्॥

माहात्म्यं शृणुयाद्वत्स सर्वसौख्याप्तये नरः ॥ 3.2.40.७० ॥

सर्वतीर्थेषु यत्पुण्यं सर्वक्षेत्रेषु यत्फलम्॥

तत्फलं समवाप्नोति धर्मारण्यस्य सेवनात् ॥ ७१ ॥

॥ नारद उवाच ॥ ॥

धर्मारण्यस्य माहात्म्यं यच्छ्रुतं त्वन्मुखांबुजात् ॥

धर्मवाप्यां यत्र धर्म्मस्तपस्तेपे सुदुष्कुरम् ॥ ७२॥

तस्य क्षेत्रस्य महिमा मया त्वत्तोऽवधारितः ॥

स्वस्ति तेऽस्तु गमिष्यामि धर्मारण्यदिदृक्षया ॥७३।।

तत्र वाक्यजलौघेन पावितोऽहं चतुर्मुख ॥ ७४ । ।

व्यास उवाच ॥ ॥

इदमाख्यानकं सर्वं कथितं पांडुनंदन ॥

यच्छ्रुत्वा गोसहस्रस्य फलं प्राप्नोति मानवः ॥ ॥७५॥

अपुत्रो लभते पुत्रान्निर्द्धनो धनवान्भवेत् ॥

रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बंधनात् ॥ ७६ ॥

विद्यार्थी लभते विद्यामुत्तमां कर्मसाधनाम् ॥

तीर्थयात्राफलं तस्य कोटिकन्याफलं लभेत् ॥ ७७ ॥

यः श्रृणोति नरो भक्त्या नारी वाथ नरोत्तम ॥

निरयं नैव पश्यंति एकोत्तरशतैः सह ॥ ७८॥

शुभे देशे निवेश्याथ क्षौमवस्त्रादिभिस्तथा ॥

पुराणपुस्तकं राजन्प्रयतः शिष्टसंमतः ॥ ७९॥

अर्चयेच्च यथा न्यायं गंधमाल्यैः पृथक्पृथक् ॥

समाप्तौ नृप ग्रंथस्य वाचकस्यानुपूजनम् ॥ 3.2.40.८० ॥

दानादिभिर्यथान्यायं संपूर्णफलहेतवे ॥

मुद्रिकां कुंडले चैव ब्रह्मसूत्रं हिरण्मयम् ॥ ८१ ॥

वस्त्राणि च विचित्राणि गंधमाल्यानुलेपनैः ॥

देववत्पूजनं कृत्वा गां च दद्यात्पयस्विनीम् ॥ ८२ ॥

एवं विधानतः श्रुत्वा धर्मारण्यकथानकम्॥

धर्मारण्यनिवासस्य फलमाप्नोत्यसंशयम् ॥ ८३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये धर्मारण्यनिवासिव्यवस्थावर्णनपूर्वक धर्मारण्यपुराणश्रवणमाहात्म्यवर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४० ॥

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 1

॥श्रीगणेशाय नमः॥।॥

श्रीगुरुभ्यो नमः ॥ ॥

अथ ब्रह्मोत्तरखंडमारंभः ॥

॥ ॐ नमः शिवाय ॥ ॥

ज्योतिर्मात्रस्वरूपाय निर्मलज्ञानचक्षुषे ॥

नमः शिवाय शांताय ब्रह्मणे लिंगमूर्त्तये ॥ १ ॥

॥ ऋषय ऊचुः ॥ ॥

आख्यातं भवता सूत विष्णोर्माहात्म्यमुत्तमम्॥

समस्ताघहरं पुण्यं समसेन श्रुतं च नः॥ २॥

इदानीं श्रोतुमिच्छामो माहात्म्यं त्रिपुरद्विषः ॥

तद्भक्तानां च माहात्म्यमशेषाघहरं परम्॥ ३॥

तन्मंत्राणां च माहात्म्यं तथैव द्विजसत्तम ॥

तत्कथायाश्च तद्भक्तेः प्रभावमनुवर्णय॥ ४॥

॥ सूत उवाच ॥ ॥

एतावदेव मर्त्यानां परं श्रेयः सनातनम्॥

यदीश्वरकथायां वै जाता भक्तिरहैतुकी ॥ ५॥

अतस्तद्भक्तिलेशस्य माहात्म्यं वर्ण्यते मया ॥

अपि कल्पायुषा नालं वक्तुं विस्तरतः क्वचित्॥ ६॥

सर्वेषामपि पुण्यानां सर्वेषां श्रेयसामपि ॥

सर्वेषामपि यज्ञानां जपयज्ञः परः स्मृतः॥ ७॥

तत्रादौ जपयज्ञस्य फलं स्वस्त्ययनं महत् ॥

शैवं षडक्षरं दिव्यं मंत्रमाहुर्महर्षयः॥ ८॥

देवानां परमो देवो यथा वै त्रिपुरांतकः ॥

मंत्राणां परमो मंत्रस्तथा शैवः षडक्षरः ॥ ९॥

एष पंचाक्षरो मंत्रो जप्तॄणां मुक्तिदायकः॥

संसेव्यते मुनिश्रेष्ठैरशेषैः सिद्धिकांक्षिभिः॥३.३.१.१०

१० ॥ अस्यैवाक्षरमाहात्म्यं नालं वक्तुं चतुर्मुखः॥

श्रुतयो यत्र सिद्धांतं गताः परमनिर्वृताः॥ ११ ॥

सर्वज्ञः परिपूर्णश्च सच्चिदानंदलक्षणः ॥

स शिवो यत्र रमते शैवे पंचाक्षरे शुभे ॥ १२ ॥

एतेन मंत्रराजेन सर्वोपनिषदात्मना ॥

लेभिरे मुनयः सर्वे परं ब्रह्म निरामयम्॥१३॥

नमस्कारेण जीवत्वं शिवेऽत्र परमात्मनि ॥

ऐक्यं गतमतो मंत्रः परब्रह्ममयो ह्यसौ ॥ १४ ॥

भवपाशनिबद्धानां देहिनां हितकाम्यया ॥

आहोंनमः शिवायेति मंत्रमाद्यं शिवः स्वयम् ॥ १५॥

किं तस्य बहुभिर्मंत्रैः किं तीर्थैः किं तपोऽध्वरैः ॥

यस्योंनमः शिवायेति मंत्रो हृदयगोचरः॥ १६ ॥

तावद्भ्रमंति संसारे दारुणे दुःखसंकुले ॥

यावन्नोच्चारयंतीमं मंत्रं देहभृतः सकृत् ॥ १७ ॥

मंत्राधिराजराजोऽयं सर्ववेदांतशेखरः ॥

सर्वज्ञाननिधानं च सोऽयं चैव षडक्षरः ॥ १८ ॥

कैवल्यमार्गदीपोऽयमविद्यासिंधुवाडवः ॥

महापातकदावाग्निः सोऽयं मंत्रः षडक्षरः ! ॥ १९ ॥

तस्मात्सर्वप्रदो मंत्रः सोऽयं पञ्चाक्षरः स्मृतः ॥

स्त्रीभिः शूद्रैश्च संकीर्णैर्धार्यते मुक्तिकांक्षिभिः।।३.३.१२० ॥

नास्य दीक्षा न होमश्च न संस्कारो न तर्पणम् ॥

न कालो नोपदेशश्च सदा शुचिरयं मनुः ॥ २१ ॥

महापातकविच्छित्त्यै शिव इत्यक्षरद्वयम् ॥

अलं नमस्कियायुक्तो मुक्तये परिकल्पते ॥ २२॥

उपदिष्टः सद्गुरुणा जप्तः क्षेत्रे च पावने ॥

सद्यो यथेप्सितां सिद्धिं ददातीति किमद्भुतम् ॥ २३ ॥

अतः सद्गुरुमाश्रित्य ग्राह्योऽयं मंत्रनायकः॥

पुण्यक्षेत्रेषु जप्तव्यः सद्यः सिद्धिं प्रयच्छति ॥ २४॥

गुरवो निर्मलाः शांताः साधवो मितभाषिणः ॥

कामक्रोधविनिर्मुक्ताः सदाचारा जितेंद्रियाः ॥ २५ ॥

एतैः कारुण्यतो दत्तो मंत्रः क्षिप्रं प्रसिद्ध्यति ॥

क्षेत्राणि जपयोग्यानि समासात्कथयाम्यहम् ॥ २६ ॥

प्रयागं पुष्करं रम्यं केदारं सेतुबंधनम् ॥

गोकर्णं नैमिषारण्यं सद्यः सिद्धिकरं नृणाम् ॥२७॥

अत्रानुवर्ण्यते सद्भिरितिहासः पुरातनः॥

असकृद्वा सकृद्वापि शृण्वतां मंगलप्रदः॥ २८॥

मथुरायां यदुश्रेष्ठो दाशार्ह इति विश्रुतः ॥

बभूव राजा मतिमान्महोत्साहो महाबलः ॥ २९ ॥

शास्त्रज्ञो नयवाक्छूरो धैर्यवानमितद्युतिः ॥

अप्रधृष्यः सुगंभीरः संग्रामेष्वनिवर्त्तितः ॥ ३.३.१.३०॥

महारथो महेष्वासो नानाशास्त्रार्थकोविदः॥

वदान्यो रूपसंपन्नो युवा लक्ष णसंयुतः ॥ ३१ ॥

स काशिराजतनयामुपयेमे वराननाम् ॥

कांतां कलावतीं नाम रूपशीलगुणान्विताम् ॥ ३२ ॥

कृतोद्वाहः स राजेंद्रः संप्राप्य निजमंदिरम्॥

रात्रौ तां शयनारूढां संगमाय समाह्वयत् ॥ ३३ ॥

सा स्वभर्त्रा समाहूता बहुशः प्रार्थिता सती ॥

न बबंध मनस्तस्मिन्न चागच्छ तदंतिकम्॥ ३४॥

संगमाय यदाहूता नागता निजवल्लभा ॥

बलादाहर्तुकामस्तामुदतिष्ठन्महीपतिः ॥ ३५ ॥.

।। राज्ञ्युवाच ॥ ॥

मा मां स्पृश महाराज कारणज्ञां व्रते स्थिताम् ॥

धर्माधर्मौ विजानासि मा कार्षीः साहसं मयि ॥ ३६ ॥

क्वचित्प्रियेण भुक्तं यद्रोचते तु मनीषिणाम् ॥

दंपत्योः प्रीतियोगेन संगमः प्रीतिवर्द्धनः ॥ ३७ ॥

प्रियं यदा मे जायेत तदा संगस्तु ते मयि ॥

का प्रीतिः किं सुखं पुंसां बलाद्भोगेन योषिताम् ॥ ३८ ॥

अप्रीतां रोगिणीं नारीमंतर्वत्नीं धृतव्रताम् ॥

रजस्वलामकामां च न कामेत बलात्पुमान् ॥ ३९ ॥

प्रीणनं लालनं पोषं रंजनं मार्दवं दयाम्॥

कृत्वा वधूमुपगमेद्युवतीं प्रेमवान्पतिः ॥

युवतौ कुसुमे चैव विधेयं सुखमिच्छता ॥ ३.३.१.४० ।

इत्युक्तोऽपि तया साध्व्या स राजा स्मरविह्वलः ॥

बलादाकृष्य तां हस्ते परिरेभे रिरंसया ॥ ४१ ॥

तां स्पृष्टमात्रां सहसा तप्तायःपिंडसन्निभाम् ॥

निर्दहंतीमिवात्मानं तत्याज भयविह्वलः ॥ ४२ ॥

॥ राजोवाच ॥ ॥

अहो सुमहदाश्चर्यमिदं दृष्टं तव प्रिये ॥

कथमग्निसमं जातं वपुः पल्लवकोमलम्॥ ॥ ४३ ॥

इत्थं सुविस्मितो राजा भीतः सा राजवल्लभा ॥

प्रत्युवाच विहस्यैनं विनयेन शुचिस्मिता ॥ ४४ ॥

॥ राज्ञ्युवाच ॥ ॥

राजन्मम पुरा बाल्ये दुर्वासा मुनिपुंगवः॥

शैवीं पंचाक्षरीं विद्यां कारुण्येनोपदिष्टवान् ॥४५॥

तेन मंत्रानुभावेन ममांगं कलुषोज्झितम् ॥

स्प्रष्टुं न शक्यते पुंभिः सपापैर्देवैवर्जितैः॥ ४६॥

त्वया राजन्प्रकृतिना कुलटागणिकादयः ॥

मदिरास्वादनिरता निषेव्यंते सदा स्त्रियः ॥४७॥

न स्नानं क्रियते नित्यं न मंत्रो जप्यते शुचिः ॥

नाराध्यते त्वयेशानः कथं मां स्प्रष्टुमर्हसि ॥ ४८॥

॥ राजोवाच।॥ ॥

तां समाख्याहि सुश्रोणि शैवीं पंचाक्षरीं शुभाम् ॥

विद्याविध्वस्तपापोऽहं त्वयीच्छामि रतिं प्रिये ॥ ४९ ॥

॥ राज्ञ्युवाच ॥ ॥

नाहं तवोपदेशं वै कुर्यां मम गुरुर्भवान् ॥

उपातिष्ठ गुरुं राजन्गर्गं मंत्र विदांवरम् ॥ ३.३.१.५० ॥

॥ सूत उवाच ॥ ॥

इति संभाषमाणौ तौ दंपती गर्गसन्निधिम् ॥

प्राप्य तच्चरणौ मूर्ध्ना ववंदाते कृताञ्जली ॥ ५१ ॥

अथ राजा गुरुं प्रीतमभिपूज्य पुनःपुनः ॥

समाचष्ट विनीतात्मा रहस्यात्ममनोरथम् ॥ ५२॥

॥ राजोवाच ॥ ॥

कृतार्थं मां कुरु गुरो संप्राप्तं करुणार्द्रधीः ॥

शैवीं पंचाक्षरीं विद्यामुपदेष्टुं त्वमर्हसि ॥ ५३॥

अनाज्ञातं यदाज्ञातं यत्कृतं राजकर्मणा ॥

तत्पापं येन शुद्ध्येत तन्मंत्रं देहि मे गुरो ॥ ५४॥

एवमभ्यर्थितो राज्ञा गर्गो ब्राह्मणपुंगवः ॥

तौ निनाय महापुण्यं कालिंद्यास्तटमुत्तमम् ॥ ५५ ॥

तत्र पुण्यतरोर्मूले निषण्णोऽथ गुरुः स्वयम् ॥

पुण्यतीर्थजले स्नातं राजानं समुपोषितम्॥ ५६ ॥

प्राङ्मुखं चोपवेश्याथ नत्वा शिवपदाम्बुजम् ॥

तन्मस्तके करं न्यस्य ददौ मंत्रं शिवात्मकम् ॥ ॥ ५७॥

तन्मंत्रधारणादेव तद्गुरोर्हस्तसंगमात्॥

निर्ययुस्तस्य वपुषो वायसाः शतकोटयः ॥ ५८॥

ते दग्धपक्षाः क्रोशंतो निपतंतो महीतले ॥

भस्मीभूतास्ततः सर्वे दृश्यंते स्म सहस्रशः ॥ ५९॥

दृष्ट्वा तद्वायसकुलं दह्यमानं सुविस्मितौ ॥

राजा च राजमहिषी तं गुरुं पर्यपृच्छताम् ॥ ३.३.१.६० ॥

भगवन्निदमाश्चर्यं कथं जातं शरीरतः ॥

वायसानां कुलं दृष्टं किमेतत्साधु भण्यताम् ॥ ६१ ॥

॥ श्रीगुरुरुवाच ॥ राजन्भवसहस्रेषु भवता परिधावता ॥

संचितानि दुरन्तानि संति पापान्यनेकशः ॥ ६२॥

तेषु जन्मसहस्रेषु यानि पुण्यानि संति ते ॥

तेषामाधिक्यतः क्वापि जायते पुण्ययोनिषु ॥ ६३॥

तथा पापीयसीं योनिं क्वचित्पापेन गच्छति ॥

साम्ये पुण्यान्ययोश्चैव मानुषीं योनिमाप्तवान् ॥ ६४ ॥

शैवी पंचाक्षरी विद्या यदा ते हृदयं गता।

अघानां कोटयस्त्वत्तः काकरूपेण निर्गताः ॥ ६९॥

कोटयो ब्रह्महत्यानामगम्यागम्यकोटयः॥

स्वर्णस्तेयसुरापानभ्रूणहत्या दिकोटयः ॥

भवकोटिसहस्रेषु येऽन्ये पातकराशयः ॥ ६६॥

क्षणाद्भस्मीभवंत्येव शैवे पंचाक्षरे धृते ॥

आसंस्तवाद्य राजेंद्र दग्धाः पातककोटयः ॥ ॥ ६७ ॥

अनया सह पूतात्मा विहरस्व यथासुखम् ॥

इत्याभाष्य मुनिश्रेष्ठस्तं मंत्रमुपदिश्य च ॥६८॥

ताभ्यां विस्मितचित्ताभ्यां सहितः स्वगृहे ययौ ॥

गुरुवर्यमनुज्ञाप्य मुदितौ तौ च दंपती ॥ ६९॥

ततः स्वभवनं प्राप्य रेजतुःस्म महाद्युती।॥

राजा दृढं समाश्लिष्य पत्नीं चन्दनशीतलाम्॥

संतोषं परमं लेभे निःस्वः प्राप्य यथा धनम् ॥ ३.३.१.७० ॥

अशेषवेदोपनिषत्पुराणशास्त्रावतंसोऽयमघांतकारी ॥

पंचाक्षरस्यैव महाप्रभावो मया समासात्कथितो वरिष्ठः ॥७१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे पंचाक्षरमन्त्रमाहात्म्यवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 2

॥ सूत उवाच ॥ ॥

अथान्यदपि वक्ष्यामि माहात्म्यं त्रिपुरद्विषः ॥

श्रुतमात्रेण येनाशु च्छिद्यंते सर्वसंशयाः ॥ १ ॥

अतः परतरं नास्ति किंचित्पापविशोधनम् ॥

सर्वानंदकरं श्रीमत्सर्वकामार्थसाधम् ॥ २ ॥

दीर्घायुर्विजयारोग्यभुक्तिमुक्तिफलप्रदम् ॥

यदनन्येन भावेन महे शाराधनं परम् ॥ ३॥

आर्द्राणामपि शुष्काणामल्पानां महतामपि ॥

एतदेव विनिर्दिष्टं प्रायश्चितमथोत्तमम् ॥ ४ ॥

सर्वकालेऽप्यभेद्यानामघानां क्षयकारणम् ॥

महामुनिविनिर्दिष्टैः प्रायश्चित्तैरथोत्तमैः ॥ ५॥

इयमेव परं श्रेयः सर्वशास्त्रविनिश्चितम्॥

यद्भक्त्या परमेशस्य पूजनं परमो दयम्॥ ६॥

जानताऽजानता वापि येन केनापि हेतुना ॥

यत्किंचिपि देवाय कृतं कर्म विमुक्तिदम् ॥ ७ ॥

माघे कृष्णचतुर्द्दश्यामुपवासोऽति दुर्लभः॥

तत्रापि दुर्लभं मन्ये रात्रौ जागरणं नृणाम् ॥ ८॥

अतीव दुर्लभं मन्ये शिवलिंगस्य दर्शनम् ॥

सुदुर्लभतरं मन्ये पूजनं परमेशितुः ॥ ॥ ९॥

भवकोटिशतोत्पन्नषुण्यराशिविपाकतः॥

लभ्यते वा पुनस्तत्र बिल्वपत्रार्चनं विभोः ॥ ३.३.२.१० ॥

वर्षाणामयुतं येन स्नातं गंगासरिज्जले ।

सकृद्बिल्वार्चनेनैव तत्फलं लभते नरः॥११॥

यानियानि तु पुण्यानि लीनानीह युगेयुगे ॥

माघेऽसितचतुर्दश्यां तानि तिष्ठंति कृत्स्नशः ॥ १२ ॥

एतामेव प्रशंसंति लोके ब्रह्मादयः सुराः ॥

मुनयश्च वशिष्ठाद्या माघेऽसितचतुर्दशीम् ॥ १३ ॥

अत्रोपवासः केनापि कृतः क्रतुशताधिकैः ॥

रात्रौ जागरणं पुण्यं कल्पकोटितपोऽधिकम् ॥ १४॥

एकेन बिल्वपत्रेण शिवलिंगार्चनं कृतम् ॥

त्रैलोक्ये तस्य पुण्यस्य को वा सादृश्यमिच्छति ॥ १५ ॥

अत्रानुवर्ण्यते गाथा पुण्या परमशोभना ॥

गोपनीयापि कारुण्याद्गौतमेन प्रकाशिता ॥ १६ ॥

इक्ष्वाकुवंशजः श्रीमान्राजा परम धार्मिकः॥

आसीन्मित्रसहोनाम श्रेष्ठः सर्वधनुर्भृताम्॥ १७॥

स राजा सकलास्त्रज्ञः शास्त्रज्ञः श्रुतिपारगः ॥

वीरोऽत्यंतबलोत्साहो नित्योद्योगी दयानिधिः॥ १८॥

पुण्यानामिव संघातस्तेजसामिव पंजरः ॥

आश्चर्याणामिव क्षेत्रं यस्य मूर्तिर्विराजते ॥ १९ ॥

हृदयं दययाक्रांतं श्रियाक्रांतं च तद्वपुः ।।

चरणौ यस्य सामंतचूडामणिमरीचिभिः ।। ३.३.२.२० ।।

एकदा मृगयाकेलिलोलुपः स महीपतिः ।।

विवेश गह्वरं घोरं बलेन महतावृतः ।। ।। २१ ।।

तत्र विव्याध विशिखैः शार्दूलान्गवयान्मृगान् ।।

रुरून्वराहान्महिषान्मृगेंद्रानपि भूरिशः ।। २२ ।।

स रथी मृगयासक्तो गहनं दंशित श्चरन् ।।

कमपि ज्वलनाकारं निजघान निशाचरम् ।। २३ ।।

तस्यानुजः शुचाविष्टो दृष्ट्वा दूरे तिरोहितः ।।

भ्रातरं निहतं दृष्ट्वा चिंतयामास चेतसा ।। २४ ।।

नन्वेष राजा दुर्द्धर्षो देवानां रक्षसामपि ।।

छद्मनैव प्रजेतव्यो मम शत्रुर्न चान्यथा ।। २५ ।।

इति व्यवसितः पापो राक्षसो मनुजाकृतिः ।।

आससाद नृपश्रेष्ठमुत्पात इव मूर्तिमान् ।। २६ ।।

तं विनम्राकृतिं दृष्ट्वा भृत्यतां कर्तुमागतम् ।।

चक्रे महानसाध्यक्षमज्ञानात्स महीपतिः ।। २७ ।।

अथ तस्मिन्वने राजा किंचित्कालं विहृत्य सः ।।

निवृत्तो मृगयां हित्वा स्वपुरीं पुनराययौ ।। २८ ।।

तस्य राजेंद्रमुख्यस्य मदयंतीतिनामतः ।।

दमयन्ती नलस्येव विदिता वल्लभा सती ।। २९ ।।

एतस्मिन्समये राजा निमंत्र्य मुनिपुंगवम् ।।

वशिष्ठं गृहमानिन्ये संप्राप्ते पितृवासरे ।। ३.३.२.३० ।।

रक्षसा सूदरूपेण संमिश्रितनरामिषम् ।।

शाकामिषं पुरः क्षिप्तं दृष्ट्वा गुरुरथाब्रवीत् ।। ३१ ।।

धिग्धिङ्नरामिषं राजं स्त्वयैतच्छद्मकारिणा ।।

खलेनोपहृतं मेऽद्य अतो रक्षो भविष्यसि ।। ३२ ।।

रक्षःकृतमविज्ञाय शप्त्वैवं स गुरुस्ततः ।।

पुनर्विमृश्य तं शापं चकार द्वादशाब्दिकम् ।। ३३ ।।

राजापि कोपितः प्राह यदिदं मे न चेष्टितम् ।।

न ज्ञातं च वृथा शप्तो गुरुं चैव शपाम्यहम् ।। ३४ ।।

इत्यपोंजलिनादाय गुरुं शप्तुं समुद्यतः ।।

पतित्वा पादयोस्तस्य मदयन्ती न्यवारयत् ।।३५।।

ततो निवृत्तः शापाच्च तस्या वचनगौरवात् ।।

तत्याज पादयोरंभः पादौ कल्मषतां गतौ ।।३६।।

कल्मषांघ्रिरिति ख्यातस्ततः प्रभृति पार्थिवः ।।

बभूव गुरुशापेन राक्षसो वनगोचरः ।।३७।।

स बिभ्रद्राक्षसं रूपं घोरं कालां तकोपमम् ।।

चखाद विविधाञ्जंतून्मानुषादीन्वनेचरः ।।३८।।

स कदाचिद्वने क्वापि रममाणौ किशोरकौ ।।

अपश्यदंतकाकारो नवोढौ मुनिदंपती ।। ।।३९।।

राक्षसो मानुषाहारः किशोरमुनिनंदनम् ।।

जग्धुं जग्राह शापार्तो व्याघ्रो मृगशिशुं यथा ।।३.३.२.४०।।

रक्षोगृहीतं भर्तारं दृष्ट्वा भीताथ तत्प्रिया ।।

उवाच करुणं बाला क्रंदंती भृशवेपिता ।। ४१ ।।

भोभो मामा कृथाः पापं सूर्यवंशयशोधर ।।

मदयंतीपतिस्त्वं हि राजेंद्रो न तु राक्षसः ।।४२।।

न खाद मम भर्त्तारं प्राणात्प्रियतमं प्रभो ।।

आर्त्तानां शरणार्त्तानां त्वमेव हि यतो गतिः ।। ४३ ।।

पापानामिव संघातैः किं मे दुष्टैर्जडासुभिः ।।

देहेन चातिभारेण विना भर्त्रा महात्मना ।। ४४ ।।

मलीमसेन पापेन पांचभौतेन किं सुखम् ।।

बालोयं वेदविच्छांतस्तपस्वी बहुशास्त्रवित् ।। ४५ ।।

अतोऽस्य प्राणदानेन जगद्रक्षा त्वया कृता।

कृपां कुरु महाराज बालायां ब्राह्मणस्त्रियाम् ॥ ४६ ॥

अनाथकृपणार्तेषु सघृणाः खलु साधवः ॥ ||

इत्थमभ्यर्थितः सोऽपि पुरुषादः स निर्घृणः ॥ ४७॥

चखाद शिर उत्कृत्य विप्रपुत्रं दुराशयः॥

अथ साध्वी कृशा दीना विलप्य भृशदुःखिता। ॥ ४८ ॥

आहृत्य भर्तुरस्थीनि चितां चक्रे तथोल्बणाम् ॥

भर्तारमनुगच्छंती संविशंती हुताशनम् ॥ ४९ ॥

राजानं राक्षसाकारं शापास्त्रेण जघान तम् ॥

रेरे पार्थिव पापात्मंस्त्वया मे भक्षितः पतिः ॥ ३.३.२.५० ॥

अतः पतिव्रतायास्त्वं शापं भुंक्ष्व यथोल्बणम्॥

अद्यप्रभृति नारीषु यदा त्वमपि संगतः ।

तदा मृतिस्तवेत्युक्त्वा विवेश ज्वलनं सती ॥ ५१ ॥

सोऽपि राजा गुरोः शापमुपभुज्य कृतावधिम् ॥

पुनः स्वरूपमादाय स्वगृहं मुदितो ययौ ॥ ५२ ॥

ज्ञात्वा विप्रसतीशापं तत्पत्नी रतिलालसम् ॥

पतिं निवारयामास वैधव्यातिबिभ्यती ॥ ५३॥

अनपत्यः स निर्विण्णो राज्यभोगेषु पार्थिवः ॥

विसृज्य सकलं लक्ष्मीं ययौ भूयोऽपि काननम् ॥ ५४ ॥

सूर्यवंशप्रतिष्ठित्यै वशिष्ठो मुनिसत्तमः ॥

तस्यामुत्पादयामास मदयंत्यां सुतोत्तमम् ॥ ५५ ॥

विसृष्टराज्यो राजापि विचरन्सकलां महीम् ॥

आयांतीं पृष्ठतोऽपश्यत्पिशाचीं घोररूपिणीम् ॥ ५६ ॥

सा हि मूर्तिमती घोरा ब्रह्महत्या दुरत्यया ॥

यदासौ शापविभ्रष्टो मुनिपुत्रमभक्षयत् ॥ ५७ ॥

तेनात्मकर्मणा. यांतीं ब्रह्महत्यां स पृष्ठतः ॥

बुबुधे मुनिवर्याणामुपदेशेन भूपतिः॥ ५८ ॥

तस्या निर्वेशमन्विच्छन्राजा निर्विण्णमानसः ॥

नानाक्षेत्राणि तीर्थानि चचार बहुवत्सरम् ॥ ॥ ५९ ॥

यदा सर्वेषु तीर्थेषु स्नात्वापि च मुहुर्मुहुः ॥

न निवृत्ता ब्रह्महत्या मिथिलामाययौ तदा ॥

बाह्योद्यानगतस्तस्याश्चिंतया परयार्दितः। ॥ ३.३.२.६० ॥

ददर्श मुनिमायांतं गौतमं विमलाशयम्॥

हुताशनमिवाशेषतपस्विजनसेवितम् ॥ ६१ ॥

विवस्वंतमिवात्यंतं घनदोषतमोनुदम् ॥

शशांकमिव निःशंकमवदातगुणोदयम् ॥ ६२ ॥

महेश्वरमिव श्रीमद्द्विजराजकलाधरम् ॥

शांतं शिष्यगणोपेतं तपसामेकभाजनम् ॥ ६३ ॥

उपसृत्य स राजेंद्रः प्रणनाम मुहुर्मुहुः ॥

गौतमोऽपि मुनिश्रेष्ठो राजानं रविवंशजम् ॥ ६१ ॥

अभिनंद्य मुनिः प्रीत्या संस्मितं समभाषत ॥ ॥ ६९॥ .

॥ गौतम उवाच ।।

कच्चित्ते कुशलं राजन्कच्चित्ते पदमव्ययम् ॥ ६६॥

कुशलिन्यः प्रजाः कच्चिदवरोधजनोपि वा ॥

किमर्थमिह संप्राप्तो विसृज्य सकलां श्रियम् ॥ ६७ ॥

किं च ध्यायसि भो राजन्दीर्घमुष्णं च निःश्वसन् ॥ ६८॥

ll राजोवाच ॥ ॥

सर्वे कुशलिनो ब्रह्मन्वयं त्वदनुकंपया।॥

राज्ञामुत्तमवंश्यानां ब्रह्मायत्ता हि संपदः ॥

किं नु मां बाधते त्वेषा पिशाची घोररूपिणी ॥ ६९॥

अलक्षिता मदपरैर्भर्त्सयंती पदेपदे ।।

यन्मया शापदग्धेन कृतमहो दुरत्ययम् ।।

न शांतिर्जायते तस्य प्रायश्चित्तसहस्रकैः ।। ३.३.२.७० ।।

इष्टाश्च विविधा यज्ञाः कोशसर्वस्वदक्षिणाः ।।

सरित्सरांसि स्नातानि यानि पूज्यानि भूतले ।।

निषेवितानि सर्वाणि क्षेत्राणि भ्रमता मया ।। ७१ ।।

जप्तान्यखिलमंत्राणि ध्याताः सकलदेवताः ।।

महाव्रतानि चीर्णानि पर्णमूलफलाशिना ।। ७२ ।।

तानि सर्वाणि कुर्वंति स्वस्थं मां न कदाचन ।।

अद्य मे जन्मसाफल्यं संप्राप्तमिव लक्ष्यते ।। ७३ ।।

यतस्त्वद्दर्शनादेव ममात्मानंदभागभूत् ।।

अन्विच्छँल्लभते क्वापि वर्षपूगैर्मनोरथम् ।। ७४ ।।

इत्येवं जनवादोऽपि संप्राप्तो मयि सत्यताम् ।।

आजन्मसंचितानां तु पुण्यानामुदयोदये ।। ७५ ।।

यद्भवान्भवभीतानां त्राता नयनगोचरः ।।

कस्माद्देशादिहायातो भवान्भवभयापहः ।। ७६ ।।

दूरभ्रमणविश्रांतं शंके त्वामिह चागतम् ।।

दृष्ट्वाश्चर्यमिवात्यर्थं मुदितोसि मुखश्रिया ।। ७७ ।।

आनंदयसि मे चेतः प्रेम्णा संभाषणादिव ।।

अद्य मे तव पादाब्जशरणस्य कृतैनसः ।।

शांतिं कुरु महाभाग येनाहं सुखमाप्नुयाम् ।।७८।।

इति तेन समादिष्टो गौतमः करुणानिधिः ।।

समादिदेश घोराणामघानां साधु निष्कृतिम् ।। ७९ ।।

।। गौतम उवाच ।। ।।

साधु राजेंद्र धन्योऽसि महा घेभ्यो भयं त्यज ।।३.३.२.८०।।

शिवे त्रातरि भक्तानां क्व भयं शरणैषिणाम् ।।

शृणु राजन्महाभाग क्षेत्रमन्यत्प्रतिष्ठितम् ।।८१।।

महापातकसंहारि गोकर्णाख्यं मनोरमम्।।

यत्र स्थितिर्न पापानां महद्भ्यो महतामपि ।। ८२ ।।

स्मृतो ह्यशेषपापघ्नो यत्र संनिहितः शिवः ।।

यथा कैलासशिखरे यथा मंदारमूर्द्धनि ।। ८३ ।।

निवासो निश्चितः शंभोस्तथा गोकर्णमण्डले ।।

नाग्निना न शशांकेन न ताराग्रहनायकैः ।। ८४ ।।

तमो निस्तीर्यते सम्य ग्यथा सवितृदर्शनात् ।।

तथैव नेतरैस्तीर्थैर्न च क्षेत्रैर्मनोरमैः ।। ८५ ।।

सद्यः पापविशुद्धिः स्याद्यथा गोकर्णदर्शनात् ।।

अपि पापशतं कृत्वा ब्रह्म हत्यादि मानवः ।। ८६ ।।

सकृत्प्रविश्य गोकर्णं न बिभेति ह्यघात्क्वचित् ।।

तत्र सर्वे महात्मानस्तपसा शांतिमागताः ।।८७।।

इन्द्रोपेंद्रविरिंच्याद्यैः सेव्यते सिद्धिकांक्षिभिः ।।

तत्रैकेन दिनेनापि यत्कृतं व्रतमुत्तमम् ।। ८८ ।।

तदन्यत्राब्दलक्षेण कृतं भवति तत्समम् ।।

यत्रेंद्रब्रह्मविष्ण्वादिदेवानां हितकाम्यया ।। ८९ ।।

महाबलाभिधानेन देवः संनिहितः स्वयम् ।।

घोरेण तपसा लब्धं रावणाख्येन रक्षसा ।। ३.३.२.९० ।।

तल्लिंगं स्थापयामास गोकर्णे गणनायकः ।।

इन्द्रो ब्रह्मा मुकुन्दश्च विश्वेदेवा मरुद्गणाः ।। ९१ ।।

आदित्या वसवो दस्रौ शशांकश्च दिवाकरः ।।

एते विमानगतयो देवास्ते सह पार्षदैः ।। ९२ ।।

पूर्वद्वारं निषेवन्ते देवदेवस्य शूलिनः ।।

योन्यो मृत्युः स्वयं साक्षाच्चित्रगुप्तश्च पावकः ।। ९३ ।।

पितृभिः सह रुद्रैश्च दक्षिणद्वारमाश्रितः ।।

वरुणः सरितां नाथो गंगादिसरितां गणैः ।। ९४ ।।

आसेवते महादेवं पश्चिमद्वारमाश्रितः ।।

तथा वायुः कुबेरश्च देवेशी भद्रकर्णिका ।। ९५ ।।

मातृभिश्चंडिकाद्याभिरुत्तरद्वारमाश्रिता ।।

विश्वावसुश्चित्ररथश्चित्रसेनो महाबलः ।। ९६ ।।

सह गन्धर्ववर्गैश्च पूजयंति महाबलम् ।।

रंभा घृताची मेना च पूर्वचित्तिस्तिलोत्तमा ।। ९७ ।।

नृत्यंति पुरतः शम्भोरुर्वश्याद्याः सुरस्त्रियः ।।

वशिष्ठः कश्यपः कण्वो विश्वामित्रो महा तपाः ।। ९८ ।।

जैमिनिश्च भरद्वाजो जाबालिः क्रतुरंगिराः ।।

एते वयं च राजेंद्र सर्वे ब्रह्मर्षयोऽमलाः ।। ९९ ।।

देवं महाबलं भक्त्या समंतात्पर्यु पास्महे ।।

मरीचिना सहात्रिश्च दक्षाद्याश्च मुनीश्वराः ।। ३.३.२.१०० ।।

सनकाद्या महात्मान उपविष्टा उपासते ।।

तथैव मुनयः साध्या अजिनांबर धारिणः ।। १ ।।

दंडिनो व्रतमुण्डाश्च स्नातका ब्रह्मचारिणः ।।

त्वगस्थिमात्रावयवास्तपसा दग्धकिल्बिषाः ।। २ ।।

सेवन्ते परया भक्त्या देवदेवं पिनाकिनम् ।।

तथा देवाः सगन्धर्वाः पितरः सिद्धचारणाः ।। ३ ।।

विद्याधराः किंपुरुषाः किन्नरा गुह्यकाः खगाः ।।

नागाः पिशाचा वेताला दैतेयाश्च महाबलाः ।। ४ ।।

नानाविभवसंपन्ना नानाभूषणवाहनाः ।।

विमानैः सूर्यसंकाशैरग्निवर्णैः शशिप्रभैः ।। ५ ।।

विद्युत्पुंजनिभैरन्यैः समं तात्परिवारितम् ।।

प्रस्तुवंति प्रगायंति पठंति प्रणमंति च ।। ६ ।।

प्रनृत्यंति प्रहृष्यंति गोकर्णे पृथिवीपते ।।

लभंतेऽभीप्सितान्कामान्रमंते च यथा सुखम् ।। ७ ।।

गोकर्णसदृशं क्षेत्रं नास्ति ब्रह्मांडगोलके ।।

तत्र घोरं तपस्तप्तमगस्त्येन महात्मना ।। ८ ।।

तथा सनत्कुमारेण प्रियव्रतसुतैरपि ।।

अग्निना देववर्येण कन्दर्पेण च पार्थिव ।। ९ ।।

तथा देव्या भद्रकाल्या शिशुमारेण धीमता ।।

दुर्मुखेन फणींद्रेण मणिनागाह्वयेन च ।। ३.३.२.११० ।।

इलावर्तादिभिर्नागैर्गरुडेन बलीयसा ।।

रक्षसा रावणेनापि कुम्भकर्णाह्वयेन तु ।। ११ ।।

विभीषणेन पुण्येन तपस्तप्तं महात्मना ।।

एते चान्ये च गीर्वाणाः सिद्धदानवमानवाः ।। १२ ।।

गोकर्णे देवदेवेशं शिवमाराध्य भक्तितः ।।

स्वनामांकानि लिंगानि स्थापयित्वा सहस्रशः ।। १३ ।।

लेभिरे परमां सिद्धिं तथा तीर्थानि चक्रिरे ।।

अत्र स्थानानि सर्वेषां देवानां संति पार्थिव ।। १४ ।।

विष्णोश्च देवदेवस्य ब्रह्मणः परमेष्ठिनः ।।

कार्त्तिकेयस्य वीरस्य गजवक्त्रस्य चानघ ।। १५ ।।

धर्मस्य क्षेत्रपालस्य दुर्गायाश्च महामते ।।

गोकर्णे शिवलिंगानि विद्यंते कोटिकोटिशः ।। ।। १६ ।।

असंख्यातानि तीर्थानि तिष्ठंति च पदेपदे ।।

बहुनात्र किमुक्तेन गोकर्णस्थानि पार्थिव ।। १७ ।।

सर्वाण्यश्मानि लिंगानि तीर्थान्यंभांसि सर्वशः ।।

गोकर्णे शिवलिंगानां तीर्थानामपि भूरिशः ।। १८ ।।

गीयते महिमा राजन्पुराणेषु महर्षिभिः ।।

गोकर्णे कोटितीर्थं च तीर्थानां मुख्यतां गतम् ।। १९ ।।

सर्वेषां शिवलिंगानां सार्वभौमो महाबलः ।।

कृते महाबलः श्वेतस्त्रेतायामतिलोहितः ।। ३.३.२.१२० ।।

द्वापरे पीत वर्णश्च कलौ श्यामो भविष्यति ।।

आक्रांतं सप्तपातालं कुर्वन्नपि महाबलः ।। २१ ।।

प्राप्ते कलियुगे घोरे मृदुतामुपयास्यति ।।

पश्चिमांबुधितीरस्थं गोकर्णक्षेत्रमुत्तमम् ।। २२ ।।

ब्रह्महत्यादिपापानि दहतीति किमद्भुतम् ।।

ये चात्र ब्रह्महंतारो ये च भूतद्रुहः शठाः ।। २३ ।।

ये सर्वगुणहीनाश्च परदाररताश्च ये ।।

ये दुर्वृत्ता दुराचारा दुःशीलाः कृपणाश्च ये ।। २४ ।।

लुब्धाः क्रूराः खला मूढाः स्ते नाश्चैवातिकामिनः ।।

ते सर्वे प्राप्य गोकर्णं स्नात्वा तीर्थजलेषु च ।। १२५ ।।

देवं महाबलं दृष्ट्वा प्रयाताः शांकरं पदम् ।।

तत्र पुण्यासु तिथिषु पुण्य र्क्षे पुण्यवासरे ।। २६ ।।

येऽर्चयंति महेशानं ते रुद्राः स्युर्न संशयः ।।

यदा कदाचिद्गोकर्णं यो वा को वापि मानवः ।। २७ ।।

प्रविश्य पूजयेदीशं स गच्छेद्ब्रह्मणः पदम् ।।

रवींदुसौम्यवारेषु यदा दर्शो भविष्यति ।। २८ ।।

तदा जलनिधौ स्नानं दानं च पितृतर्पणम् ।।

शिवपूजा जपो होमो व्रतचर्या द्विजार्चनम् ।। २९ ।।

यत्किंचिद्वा कृतं कर्म तदनंतफलप्रदम् ।।

व्यतीपातादियोगेषु रविसंक्रमणेषु च ।। ३.३.२.१३० ।।

महाप्रदोषवेलासु शिव पूजा विमुक्तिदा ।।

अथैकां ते प्रवक्ष्यामि तिथिं पार्थिव मुक्तिदाम् ।। ३१ ।।

यस्यां किल महाव्याधो लेभे शंभोः परं पदम् ।।

माघमासे महापुण्या या सा कृष्णचतुर्दशी ।। ३२ ।।

शिवलिंगं बिल्वपत्रं दुर्लभं हि चतुष्टयम् ।।

अहो बलवती माया यया शैवी महातिथिः ।। ३३ ।।

नोपोष्यते जनैर्मूढैर्महामूकैरिव त्रयी ।।

उपवासो जागरणं सन्निधिः परमेशितुः ।। ३४ ।।

गोकर्णं शिवलोकस्य नृणां सोपानपद्धतिः ।।

शृणु राजन्नहमपि गोकर्णा दधुनागतः ।। १३५ ।।

उपास्यैनां शिवतिथिं विलोक्य च महोत्सवम् ।।

अस्यां शिवतिथौ सर्वे महोत्सवदिदृक्षवः ।। ३६ ।।

आगताः सर्वदेशेभ्यश्चातुर्वर्णा महाजनाः ।।

स्त्रियो वृद्धाश्च बालाश्च चतुराश्रमवासिनः ।। ३७ ।।

आगत्य दृष्ट्वा देवेशं लेभिरे कृतकृत्यताम् ।।

अथाहमप्यमी शिष्या ऋषयश्च तथाऽपरे ।। ३८ ।।

राजर्षयश्च राजेंद्र सनकाद्याः सुरर्षयः ।।

स्नात्वा सर्वेषु तीर्थेषु समुपास्य महाबलम् ।। ३९ ।।

लब्ध्वा च जन्मसाफल्यं प्रयाताः सर्वतोदिशम् ।।

अमुनाद्य नरेंद्रेण जनकेन यियक्षुणा ।।३.३.२.१४० ।।

निमंत्रितोऽहं संप्राप्तो गोकर्णाच्छिवमंदिरात् ।।

प्रत्यागमं किमप्यंग दृष्ट्वाश्चर्यमहं पथि ।।

महानंदेन मनसा कृतार्थोऽस्मि महीपते ।। १४१ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तर खंडे गोकर्णमहिमानुवर्णनंनाम द्वितीयोऽध्यायः ।। २ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 3

।। राजोवाच ।। ।।

किं दृष्टं भवता ब्रह्मन्नाश्चर्यं पथि कुत्र वा ।।

तन्ममाख्याहि येनाहं कृतकृत्यत्वमाप्नुयाम्।। १ ।।

।। गौतम उवाच ।। ।।

गोकर्णादहमागच्छन्क्वापि देशे विशांपते ।।

जाते मध्याह्नसमये लब्ध वान्विमलं सरः ।। २ ।।

तत्रोपस्पृश्य सलिलं विनीय च पथिश्रमम् ।।

सुस्निग्धशीतलच्छायं न्यग्रोधं समुपाश्रयम् ।। ३ ।।

अथाविदूरे चांडालीं वृद्धामंधां कृशाकृतिम् ।।

शुष्यन्मुखीं निराहारां बहुरोगनिपीडिताम् ।। ४ ।।

कुष्ठव्रणपरीतांगीमुद्यत्कृमिकुलाकुलाम् ।।

पूयशोणितसंसक्तजरत्पटल सत्कटीम्।। ५ ।।

महायक्ष्मगलस्थेन कंठसंरोधविह्वलाम् ।।

विनष्टदंतामव्यक्तां विलुठंतीं मुहुर्मुहुः ।। ६ ।।

चंडार्ककिरणस्पृष्टखरोष्णरजसाप्लुताम्।।

विण्मूत्रपूयदिग्धांगीमसृग्गंधदुरासदाम् ।। ७ ।।

कफरोगबहुश्वासश्लथन्नाडीबहुव्यथाम् ।।

विध्वस्तकेशावयवामपश्यं मरणोन्मुखीम् ।। ८ ।।

तादृग्व्यथां च तां वीक्ष्य कृपयाहं परिप्लुतः ।।

प्रतीक्षन्मरणं तस्याः क्षणं तत्रैव संस्थितः ।। ९ ।।

अथांतरिक्षपदवीं सिंचंतमिव रश्मिभिः ।।

दिव्यं विमानमानीतमद्राक्षं शिवकिंकरैः ।। ३.३.३.१० ।।

तस्मिन्रवींदुवह्नीनां तेजसामिव पंजरे ।।

विमाने सूर्यसंकाशानपश्यं शिवकिंकरान् ।। ११ ।।

ते वै त्रिशूलखट्वांगटंकचर्मासिपाणयः ।।

चंद्रार्धभूषणाः सांद्रचंद्रकुंदोरुवर्चसः ।। १२ ।।

किरीटकुंडलभ्राजन्महाहिवलयोज्ज्वलाः ।।

शिवानुगा मया दृष्टा श्चत्वारः शुभलक्षणाः ।। १३ ।।

तानापतत आलोक्य विमानस्थान्सुविस्मितः ।।

उपसृत्यांतिके वेगादपृच्छं गगने स्थितान् ।। १४ ।।

नमोनमो वस्त्रिदशोत्तमेभ्यस्त्रिलोचनश्रीचरणानुगेभ्यः ।।

त्रिलोकरक्षाविधिमावहद्भ्यस्त्रिशूलचर्मासिगदाधरेभ्यः ।। १५ ।।

विदिता हि मया यूयं महेश्वरपदा नुगाः ।।

इयं वो लोकरक्षार्था गतिराहो विनोदजा ।। ।६ ।।

उत सर्वजनाघौघविजयाय कृतोद्यमाः ।।

ब्रूत कारुण्यतो मह्यं यस्माद्यूयमिहागताः ।। १७ ।।

।। शिवदूता ऊचुः ।। ।।

एषाग्रे दृश्यते वृद्धा चांडाली मरणोन्मुखी ।।

एतामानेतुमायाताः संदिष्टा प्रभुणा वयम् ।। १८ ।।

इत्युक्ते शिवदूतैस्तैरपृच्छं पुनरप्यहम् ।।

विस्मयाविष्टचित्तस्तान्कृतांजलिरवस्थितः ।। १९ ।।

अहो पापीयसी घोरा चांडाली कथमर्हति ।।

दिव्यं विमानमारोढुं शुनीवाध्वरमंडलम् ।। ३.३.३.२० ।।

आजन्मतोऽशुचिप्राया पापां पापा नुगामिनीम् ।।

कथमेनां दुराचारां शिवलोकं निनीषथ ।। २१ ।।

अस्या नास्ति शिवज्ञानं नास्ति घोरतरं तपः ।।

सत्यं नास्ति दया नास्ति कथमेनां निनीषथ ।। २२ ।।

पशुमांसकृताहारा वारुणीपूरितोदराम् ।।

जीवहिंसारतां नित्यं कथमेनां निनीषथ ।। २३ ।।

न च पंचाक्षरी जप्ता न कृतं शिवपूजनम्।।

न ध्यातो भगवाञ्छंभुः कथमेनां निनीषथ ।। २४ ।।

नोपोषिता शिवतिथिर्न कृतं शिवपूजनम् ।।

भूतसौहृदं न जानाति न च बिल्वशिवार्पणम्।।

नेष्टापूर्तादिकं वापि कथमेनां निनीषथ ।। २५ ।।

न च स्नातानि तीर्थानि न दानानि कृतानि च ।।

न च व्रतानि चीर्णानि कथमेनां निनीषथ ।। २६ ।।

ईक्षणे परिहर्त्तव्या किमु संभाषणादिषु ।।

सत्संगरहितां चंडां कथमेनां निनीषथ ।। २७ ।।

जन्मांतरार्जितं किंचिदस्याः सुकृतमस्ति वा ।।

तत्कथं कुष्ठरोगण कृमिभिः परिभूयते ।। २८ ।।

अहो ईश्वरचर्येयं दुर्विभाव्या शरीरिणाम् ।।

पापात्मानोऽपि नीयंते कारुण्यात्परमं पदम् ।। २९ ।।

इत्युक्तास्ते मया दूता देवदेवस्य शूलिनः ।।

प्रत्यूचुर्मामथ प्रीत्या सर्वसंशयभेदिनः ।। ३.३.३.३० ।।

।। शिवदूता ऊचुः ।। ।।

ब्रह्मन्सुमहदाश्चर्यं शृणु कौतूहलं यदि ।।

इमामुद्दिश्य चांडालीं यदुक्तं भवताधुना ।। ३१ ।।

आसीदियं पूर्वभवे काचिद्ब्राह्मणकन्यका ।।

सुमित्रानाम संपूर्णसोमबिम्बसमानना ।। ३२ ।।

उत्फुल्लमल्लिकादामसुकुमारांगलक्षणा ।।

कैकेयद्विजमुख्यस्य कस्यचित्तनया सती ।। ३३ ।।

तां सर्वलक्षणोपेतां रतेर्मूर्तिमिवापराम्।।

वर्द्धमानां पितुर्गेहे वीक्ष्यासन्विस्मिता जनाः ।। ३४ ।।

दिनेदिने वर्धमाना बंधुभिर्लालिता भृशम् ।।

सा शनैर्यौवनं भेजे स्मरस्येव महाधनुः ।। ३५ ।।

अथ सा बंधुवर्गैश्च समेतेन कुमारिका ।।

पित्रा प्रदत्ता कस्मैचिद्विधिना द्विजसूनवे।। ३६ ।।

सा भर्त्तारमनुप्राप्य नवयौवनशालिनी ।।

कंचित्कालं शुभाचारा रेमे बंधुभिरावृता ।। ३७ ।।

अथ कालवशात्तस्याः पतिस्तीव्र रुजार्दितः ।।

रूपयौवनकांतोपि पंचत्वमगमन्मुने ।। ३८ ।।

मृते भर्त्तरि दुःखेन विदग्धहदया सती ।।

उवास कतिचिन्मासान्सुशीला विजितें द्रिया ।। ३९ ।।

अथ यौवनभारेण जृंभमाणेन नित्यशः ।।

बभूव हृदयं तस्याः कंदपर्परिकंपितम् ।। ३.३.३.४० ।।

सा गुप्ता बन्धुवर्गेण शासितापि महोत्तमैः ।।

न शशाक मनो रोद्धं मदनाकृष्टमंगना ।। ४१ ।।

सा तीव्रमन्मथाविष्टा रूपयौवनशालिनी ।।

विधवापि विशेषेण जारमार्गरताभवत् ।। ४२ ।।

न ज्ञाता केनचिदपि जारिणीति विचक्षणा ।।

जुगूहात्मदुराचारं कंचित्कालमसत्तमा ।। ४३ ।।

तां दोहदसमाक्रांतां घननीलमुखस्तनीम् ।।

कालेन बंधुवर्गोपि बुबोध विटदूषिताम् ।। ४४ ।।

इति भीतो महाक्लेशाच्चिंता लेभे दुरत्ययाम् ।।

स्त्रियः कामेन नश्यंति ब्राह्मणा हीनसेवया।।।४५।।

राजानो ब्रह्मदंडेन यतयो भोगसंग्रहात्।।

लीढं शुना तथैवान्नं सुरया वार्पितं पयः।।४६।।

रूपं कुष्ठरुजाविष्टं कुलं नश्यति कुस्त्रिया।।

इति सर्वे समालोच्य समेताः पतिसोदराः ॥ ४७॥

तत्यजुर्गोत्रतो दूरं गृहीत्वा सकचग्रहम् ॥

सघटोत्सर्गमुत्सृष्टा सा नारी सर्वबन्धुभिः॥ ४८

विचरंती च शूद्रेण रममाणा रतिप्रिया ॥

सा ययौ स्त्री बहिर्यामा दृष्टा शूद्रेण केनचित् ॥ ४९ ॥

स तां दृष्ट्वा वरारोहाँ पीनोन्नतपयोधराम् ॥

गृहं निनाय साम्ना च विधवां शूद्रनायकः ॥

सा नारी तस्य महिषी भूत्वा तेन दिवानिशम् ॥ ३.३.३.५०॥

रममाणा क्वचिद्देशे न्यवसद्गृहवल्लभा ॥

तत्र सा पिशिताहारा नित्यमापीतवारुणी।।५१।।

लेभे सुतं च शूद्रेण रममाणा रतिप्रिया ॥

कदाचिद्भर्त्तरि क्वापि याते पीतसुरा तु सा।।५२।।

इयेष पिशिताहारं मदिरामदविह्वला ॥

अथ मेषेषु बद्धेषु गोभिः सह बहिर्व्रजे ॥ ५३ ॥

ययौ कृपाणमादाय सा तमींधे निशामुखे ॥

अविमृश्य मदावेशान्मेषबुद्ध्यामिषप्रिया ॥ ५४ ॥

एकं जघानं गोवत्सं क्रोशंतं निशि दुर्भगा ॥

निहतं गृहमानीय ज्ञात्वा गोवत्समंगना ॥ ५५ ॥

भीता शिवशिवेत्याह केनचित्पुण्यकर्मणा ॥

सा मुहूर्तमिति ध्यात्वा पिशितासवलालसा ॥ ५६ ॥

छित्त्वा तमेव गोवत्सं चकाराहारमीप्सितम् ॥

गोवत्सार्धशरीरेण कृताहाराथ सा पुनः ॥ ५७ ॥

तदर्धदेहं निक्षिप्य बहिश्चुक्रोश कैतवात् ॥

अहो व्याघ्रेण भग्नोऽयं जग्धो गोवत्सको व्रजे ॥ ५८॥

इति तस्याः समाक्रंदः सर्वगेहेषु शुश्रुवे ।

अथ सर्वे शूद्रजनाः समागम्यांतिके स्थिताः ॥ ५९॥

हतं गोवत्समालोक्य व्याघ्रेणेति शुचं ययुः ॥

गतेषु तेषु सर्वेषु व्युष्टायां च ततो निशि ॥ ३.३.३.६० ॥

तद्भर्ता गृहमागत्य दृष्टवान्गृहविड्वरम् ।

एवं बहुतिथे काले गते सा शूद्ववल्लभा ॥ ६१ ।

कालस्य वशमापन्ना जगाम यममंदिरम् ।

यमोपि धर्ममालोक्य तस्याः कर्म च पौर्विकम् ॥ ६२ ॥

निर्वत्र्य निरयावासाञ्चक्रे चंडालजातिकाम् ॥

सापि भ्रष्टा यमपुराच्चांडालीगर्भमाश्रिता ॥ ६३ ॥

ततो बभूव जात्यंधा प्रशांतांगारमेचका ॥

तत्पिता कोपि चांडालो देशे कुत्रचिदास्थितः ॥ ६४ ॥

तां तादृशीमपि सुतां कृपया पर्यपोषयत् ॥

अभोज्येन कदन्नेन शुना लीढेन पूतिना ॥ ६५ ॥

अपेयैश्च रसैर्मात्रा पोषिता सा दिनेदिने ॥

जात्यंधा सापि कालेन बाल्ये कुष्ठरुजार्दिता ॥ ६६ ॥

ऊढा न केनचिद्वापि चांडालेनातिदुर्भगा ॥

अतीतबाल्ये सा काले विध्वस्तपितृमातृका ॥ ६७ ॥

दुर्भगेति परित्यक्ता बंधुभिश्च सहोदरैः ॥

ततः क्षुधार्दिता दीना शोचन्ती विगतेक्षणा ॥ ६८ ॥

गृहीतयष्टिः कृच्छ्रेण संचचाल सलोष्टिका ॥

पत्तनेष्वपि सर्वेषु याचमाना दिनेदिने ॥ ६९ ॥

चांडालोच्छिष्टपिंडेन जठराग्निमतर्पयत्॥

एवं कृच्छ्रेण महता नीत्वा सुबहुलं वयः ॥ ३.३.३.७० ॥

जरया ग्रस्तसर्वांगी दुःखमाप दुरत्ययम् ॥

निरन्नपानवसना सा कदाचिन्महाजनान्।। ७१ ।।

आयास्यंत्यां शिवतिथौ गच्छतो बुबुधेऽध्वगान्।।

तस्यां तु देवयात्रायां देशदेशांतयायिनाम् ।। ७२ ।।

विप्राणां साग्निहोत्राणां सस्त्रीकाणां महात्मनाम्।।

राज्ञां च सावरोधानां सहस्तिरथवाजिनाम् ।। ७३ ।।

सपरीवारघोषाणां यानच्छत्रादिशोभिनाम् ।।

तथान्येषां च विट्शूद्रसंकीर्णानां सहस्रशः ।। ७४ ।।

हसतां गायतां क्वापि नृत्यतामथ धावताम् ।।

जिघ्रतां पिबतां कामाद्गच्छतां प्रतिगर्जताम् ।। ७५ ।।।

संप्रयाणे मनुष्याणां संभ्रमः सुमहानभूत् ।।

इति सर्वेषु गच्छत्सु गोकर्णं शिवमंदिरम् ।। ७६ ।।

पश्यंति दिविजाः सर्वे विमानस्थाः सकौतुकाः ।।

अथेयमपि चांडाली वसनाशनतृष्णया ।। ७७ ।।

महाजनान्याचयितुं चचाल च शनैःशनैः ।।

करावलंबेनान्यस्याः प्राग्जन्मार्जितकर्मणा ।।

दिनैः कतिपयैर्याती गोकर्णं क्षेत्रमाययौ ।। ७८ ।।

ततो विदूरे मार्गस्य निषण्णा विवृतांजलिः ।।

याचमाना मुहुः पांथान्बभाषे कृपणं वचः ।। ७९ ।।

प्राग्जन्मार्जितपापौघैः पीडितायाश्चिरं मम ।।

आहारमात्रदानेन दयां कुरुत भो जनाः ।। ३.३.३.८० ।।

त्रातारः परमार्तानां दातारः परमाशिषाम् ।।

कर्तारो बहुपुण्यानां दयां कुरुत भो जनाः ।। र१ ।।

वसनाशनहीनायां स्वपितायां महीतले ।।

महापांसुनिमग्नायां दयां कुरुत भो जनाः ।। ८२ ।।

महाशीतातपार्त्तायां पीडितायां महारुजा ।।

अन्धायां मयि वृद्धायां दयां कुरुत भो जनाः ।। ८३ ।।

चिरोपवासदीप्तायां जठराग्निविवर्धनैः ।।

संदह्यमानसर्वांग्यां दयां कुरुत भो जनाः ।। ८४ ।।

अनुपार्जितपुण्यायां जन्मांतरशतेष्वपि ।।

पापायां मंदभाग्यायां दयां कुरुत भो जनाः ।।८५।।

एवमभ्यर्थयंत्यास्तु चांडाल्याः प्रसृतेंऽजलौ ।।

एकः पुण्यतमः पांथः प्राक्षिपद्बिल्वमंजरीम् ।। ८६ ।।

तामंचलौ निपतितां सा विमृश्य पुनः पुनः ।।

अभक्ष्येत्येव मत्वाथ दूरे प्राक्षिपदातुरा ।। ८७ ।।

तस्याः करेण निर्मुक्ता रात्रौ सा बिल्वमंजरी ।।

पपात कस्यचिद्दिष्ट्या शिवलिंगस्य मस्तके ।। ८८ ।।

सैवं शिवचतुर्दश्यां रात्रौ पांथजनान्मुहुः ।।

याचमानापि यत्किंचिन्न लेभे दैवयोगतः ।। ८९ ।।

तत्रोषितानया रात्रिर्भद्रकाल्यास्तु पृष्ठतः ।।

किंचिदुत्तरतः स्थानं तदर्धेनातिदूरतः ।। ३.३.३.९० ।।

ततः प्रभाते भ्रष्टाशा शोकेन महताप्लुता ।।

शनैर्निववृते दीना स्वदेशायैव केवला ।। ९१ ।।

श्रांता चिरोपवासेन निपतन्ती पदेपदे ।।

क्रंदंती वहुरोगार्ता वेपमाना भृशातुरा ।। ९२ ।।

दह्यमानार्कतापेन नग्नदेहा सयष्टिका।।

अतीत्यैतावतीं भूमिं निपपात विचेतना।।९३।।

अथ विश्वेश्वरः शंभुः करुणामृतवारिधिः।।

एनामानयतेत्त्यस्मान्युयुजे सविमानकान्।।९४।।

एषा प्रवृत्तिश्चांडाल्यास्तवेह परिकीर्त्तिता।।

तथा संदर्शिता शंभोः कृपणेषु कृपालुता।।

कर्मणः परिपाकोत्थां गतिं पश्य महामते ।।

अधमापि परं स्थानमारोहति निरामयम् ।। ९६ ।।

यदेतया पूर्वभवे नान्नदानादिकं कृतम् ।।

क्षुत्पिपासादिभिः क्लेशैस्तस्मादिह निपीड्यते ।। ९७ ।।

यदेषा मदवेगांधा चक्रे पापं महोल्बणम्।।

कर्मणा तेन जात्यंधा बभूवात्रैव जन्मनि ।। ९८ ।।

अपि विज्ञाय गोवत्सं यदेषाऽभक्षयत्पुरा ।।

कर्मणा तेन चांडाली बभूवेह विगर्हिता ।। ९९ ।।

यदेषार्यपथं हित्वा जारमार्गरता पुरा ।।

तेन पापेन केनापि दुर्वृत्ता दुर्भगापि वा ।। ।। ३.३.३.१०० ।।

यदाश्लिष्य मदाविष्टा जारेण विधवा पुरा ।।

तेन पापेन महता बहुकुष्ठव्रणान्विता ।। १०१ ।।

कामार्त्ता यदियं स्वैरं शूद्रेण रमिता पुरा ।।

महासृक्पूयकृमिभिः पीड्यते तेन पाप्मना ।। २ ।।

सुव्रतानि न चीर्णानि नेष्टापूतार्दिकं कृतम् ।।

सर्वभोगविहीनेयं दूयते तेन पाप्मना ।। ।। ३ ।।

यदेतया पूर्वभवे सुरा पीता विमूढया ।।

महायक्ष्मार्तिहृच्छूलैः पीड्यते तेन पाप्मना ।। ४ ।।

अत्रैव सर्वमर्त्येषु पापचिह्नानि कृत्स्नशः ।।

लक्ष्यते मुनिशार्दूल सविवेकैर्महात्मभिः ।। ५ ।।

अत्र ये बहुरोगार्त्ता ये पुत्रधनवर्जिताः ।। ६ ।।

ये च दुर्लक्षणक्लिष्टा याचका विगतह्रियः ।।

वासोन्नपानशयनभूषणाभ्यंजनादिभिः ।। ७ ।।

हीना विरूपा निर्विद्या विकलांगाः कुभोजनाः ।।

ये दुर्भाग्या निंदिताश्च ये चान्ये परसेवकाः ।। ।। ८ ।।

एते पूर्वभवे सर्वे सुमहत्पापकारिणः ।।

एवं विमृश्य यत्नेन दृष्ट्वा लोकजनस्थितिम् ।। ९ ।।

बुधो न कुरुते पापं यदि कुर्यात्स आत्महा ।।

देहोऽयं मानुषो जंतोर्बहुकर्मैकभाजनम् ।। ३.३.३.११० ।।

सदा सत्कर्म सेवेत दुष्कर्म सततं त्यजेत् ।।

पुण्यं सुखार्थी कुर्वीत दुःखार्थी पापमाचरेत् ।। ।। ११ ।।

द्वयोरेकतरे लोके गृहीते कुशलो जनः ।।

इमं मानुषमाश्रित्य देहं परमदुर्लभम् ।। १२ ।।

य आत्महितवान्कश्चिद्देवमेकं समाश्रयेत् ।।

अथ पापानि सर्वाणि कुर्वन्नपि सदा नरः ।। १३ ।।

शिवमेकमतिर्ध्यायेत्स संतरति पातकम् ।।

मृता पूर्वभवे त्वेषा यदा प्राप्ता यमालये ।। १४ ।।

तदा वितर्कः सुमहानासीद्यमसभासदाम् ।।

यद्यपि ब्राह्मणी त्वेषा सत्कुलाचारदूषिता ।। १५ ।।

अतोऽस्माभिरिहानीता निरयं यातु वा न वा ।।

अनया साधितो बाल्ये पुण्यलेशोऽस्ति वा न वा ।। १६ ।।

अथापि सुविमृश्यैवं धार्यो दंडोऽत्र नान्यथा ।।

बहुजन्मसहस्रेषु कृतपुण्यविपाकतः।। ।। १७ ।।

नृणां ब्रह्मकुले जन्म लभ्यते हि कथंचन ।।

अतोस्याः पूर्वपूर्वेषु कृताघं नास्ति जन्मसु।।१८।।

अन्यथा सत्कुले जन्म कथमेषा प्रपद्यते।।

अत्रैव जन्मन्यनया कृतमंहो दुरत्ययम् ।। १९ ।।

अथापि नरकावासं प्रायशो नेयमर्हति ।।

किंतु गोवत्सकं हत्वा विमृश्यागतसाध्वसा ।। ३.३.३.१२० ।।

एषा शिवशिवेत्याह प्राग्जन्मार्जितकर्मणा ।।

यदेषा पापविच्छित्त्यै सकृदप्युरुमंगलम् ।। २१ ।।

शिवनाम वदेद्भक्त्या तर्हि गच्छेत्परं पदम् ।।

एकजन्मकृतस्यास्य दारुणस्यापि यत्फलम् ।। २२ ।।

क्रमेणानुभवत्वेषा भूत्वा चांडालजातिका ।।

अस्मादन्यतमः को वा नरकोऽस्ति नृणा मिह ।। २३ ।।

अनेकक्लेशसंघातैर्यन्मुहुः परिपीडनम् ।।

दुष्कुले जन्म दारिद्र्यं महाव्याधिर्विमूढता ।। २४ ।।

एकैक एव नरकः सर्वे वा चाथ किं पुनः ।।

प्राग्जन्मपुण्यभारेण यन्नाम विवशाऽब्रवीत् ।। २५ ।।

तेनैषान्यभवे भूरि पुण्यमंते करिष्यति ।।

तेन पुण्येन महता निस्तीर्याघौघया तनाः ।। २६ ।।

नीता तत्पुरुषैरंते प्रयास्यति परं पदम् ।।

एतादृशानां मर्त्यानां शास्तारो न वयं क्वचित् ।।

विचार्य स्वयमेवेशो यद्युक्तं तत्करोतु सः ।। २७ ।।

एवं वैवस्वतपुरे सर्वैर्यमपुरोगमैः ।।

विमृश्य चित्रगुप्ताद्यैरियं मुक्ताऽपतद्भुवि ।। २८ ।।

आदौ यदेषा शिवनाम नारी प्रमादतो वाप्य सती जगाद ।।

तेनेह भूयः सुकृतेन शंभोर्बिल्वांकुराराधनपुण्यमाप ।। २९ ।।

श्रीगोकर्णे शिवतिथावुपोष्य शिवमस्तके ।।

कृत्वा जागरणं ह्येषा चक्रे बिल्वार्पणं निशि ।। ३.३.३.१३० ।।

अकामतः कृतस्यास्य पुण्यस्यैव च यत्फलम् ।।

अद्यैव भोक्ष्यते सेयं पश्यतस्तव नो मृषा ।। ३१ ।। ।।

।। गौतम उवाच ।। ।।

इत्युक्त्वा शिवदूतास्ते तस्याश्चांडालयोनितः ।।

जीवलेशं समाकृष्य युयुजुर्दिव्यतेजसा ।। ३२ ।।

तां दिव्यदेहसंक्रांतां तेजोराशिसमुज्ज्वलाम्।।

विमाने स्थापयामासुः प्रीतास्ते शिवकिंकराः ।। ३३ ।।

अथ सा परमोदाररूपलावण्यशालिनी ।।

दिव्यभूषणदीप्तांगी दिव्यांबरविधारिणी ।। ३४ ।।

देहेन दिव्यगंधेन दिव्यतेजोविकाशिना ।।

दिव्यमाल्यावतंसेन विरराज विमानगा ।। ३५ ।।

रत्नच्छत्रपताकाद्यैर्गीतवादित्रनिस्वनैः ।।

मध्ये सा शिवदूतानां मोदमाना वरानना ।। ३६ ।।

अनुभूतानि जन्मानि स्मृत्वास्मृत्वा पुनःपुनः ।।

भीता त्रस्ता दृढा श्चर्यं दृष्ट्वा स्वप्नमिवोत्थिता ।। ३७ ।।

काहं केऽमी महासिद्धाः कोयं लोको मनोरमः ।।

क्व गतं मे वपुः कष्टं चंडचांडालगोत्रजम् ।। ३८ ।।

अहो सुमहदाश्चर्यं दृष्टं मायाविलासजम् ।।

यन्मे भवसहस्रेषु भ्रातंभ्रांतं पुनःपुनः ।। ३९ ।।

अहो ईश्वरपूजाया माहात्म्यं विस्मयावहम् ।।

पत्रमात्रेण संतुष्टो यो ददाति निजं पदम् ।। ३.३.३.१४० ।।

इति तां जातनिर्वेदां स्मरन्तीं भगवत्पदम् ।।

दिव्यं विमानमारोप्य ते महेश्वरकिंकराः ।। ।। ४१ ।।

आलोकयत्सु सर्वेषु लोकेशेषु सविस्मयम् ।।

आमंत्र्य तामथानिन्युः परमेश्वरसन्निधिम् ।। ४२ ।।

राजन्सुमहदाश्चर्यमाख्यातं गिरिजा पतेः ।।

माहात्म्यं भक्तिलेशस्य सर्वाघौघविनाशनम् ।। ४३ ।।

।। राजोवाच ।। ।।

भगवन्परमेशस्य कीदृशो लोक उत्तमः ।।

तस्य मे लक्षणं ब्रूहि यद्यस्ति मयि ते दया ।। ४४ ।।

।। गौतम उवाच ।। ।।

ब्रह्मादिसुरनाथानां लोकेष्वपि सुदुर्लभः ।।

य आनंदः सदा यत्र स लोकः पारमेश्वरः ।। ४५ ।।

सर्वातिगमनं यत्र ज्योतिर्यत्र प्रतिष्ठितम् ।।

क्वापि नास्ति तमोयोगः स लोकः पारमेश्वरः ।। ४६ ।।

गुणवृत्ति विनिस्तीर्य संप्राप्ता यत्र योगिनः ।।

न पतेयुः पुनः सर्वे स लोकः पारमेश्वरः ।। ४७ ।।

यत्र वासं न कुर्वंति क्रोधलोभमदादयः ।।

यत्रावस्था न जन्माद्याः स लोकः पारमेश्वरः ।। ४८ ।।

सर्वेषां निगमानां च यदेकं क्षेत्रमुच्यते ।।

यस्मान्नास्ति परं वित्तं तत्पदं पारमेश्वरम् ।। ४९ ।।

प्रत्याहारासन ध्यानप्राणसंयमनादिभिः ।।

यत्र योगपथैः प्राप्तुं यतते योगिनः सदा ।। ३.३.३.१५० ।।

यत्र देवः सदानंदनिर्मलज्ञानरूपया ।।

अस्ति देव्या सह क्रीडञ्स लोकः पारमेश्वरः ।। ५१ ।।

जन्मानेकसहस्रेषु संभृतैः पुण्यराशिभिः ।।

आरूढाः पुरुषा नार्यः क्रीडन्ते यत्र संगताः ।। ५२ ।।

तेजो राशौ समालीना दुर्विभाव्ये मनोरमे ।।

अहोरात्रादिसंस्थानं न विंदंति कदाचन ।। ५३ ।।

स लोकः परमेशस्य दुर्लभो हि कुयोगिनः ।।

एतद्भक्ति सुपूर्णा ये तैरेव प्रतिपद्यते ।। ५४ ।।

ये तत्कथाश्रवणकीर्तनजातहर्षा ये सर्वभूतसुहृदः प्रशमैकनिष्ठाः ।।

संसारचक्रमतिवाह्य निरस्तमोहास्ते शांकरं पदमवाप्य सुखं रमन्ते ।। ५५ ।।

तथा त्वमपि राजेंद्र गोकर्णं गिरिशालयम् ।।

गत्वा प्रशमिताघौघः कृतकृत्यत्वमाप्नुहि ।। ५६ ।।

तत्र सर्वेषु कालेषु स्नात्वाभ्यर्च्य महाबलम् ।।

कृत्वा शिवचतुर्दश्यामुपवासं समाहितः ।। ५७ ।।

कृत्वा जागरणं रात्रौ बिल्वैरभ्यर्च्य शंकरम् ।।

सर्वपापविनिर्मुक्तः शिवलोकमवाप्स्यसि ।। ५८ ।।

एष ते विमलो राजन्नुपदेशो मया कृतः ।।

स्वस्ति तेऽस्तु गमिष्यामि मिथिलाधिपतेः पुरीम् ।। ५९ ।।

इत्यामन्त्र्य मुनिः प्रीत्या गौतमो मिथिलां ययौ ।।

सोऽपि हृष्टमना राजा गोकर्णं प्रत्यपद्यत ।। ३.३.३.१६० ।।

तत्र दृष्ट्वा महादेवं स्नात्वाभ्यर्च्य महाबलम् ।।

निर्धूताशेषपापौघो लेभे शम्भोः परं पदम् ।। ६१ ।।

य इमां शृणुयान्नित्यं कथां शैवीं मनोहराम् ।।

श्रावयेद्वा जनो भक्त्या स याति परमां गतिम् ।। ६२ ।।

श्रद्दधानः सकृद्वापि य इमां शृणुयात्कथाम् ।।

त्रिःसप्तकुलजैः सार्धं शिवलोकमवाप्नुयात् ।। ६३ ।।

इति कथितमशेषं श्रेयसामादिबीजं भवशतदुरितघ्नं ध्वस्तमोहांधकारम् ।।

चरितममरगेयं मन्मथारेरुदारं सततमपि निषेव्यं स्वस्तिमद्भिश्च लोकैः ।। ।।१६४।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे शिवचतुर्दशीगोकर्णमाहात्म्यवर्णनंनाम तृतीयोऽध्यायः ।। ।। ३ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 4

।। सूत उवाच ।। ।।

भूयोपि शिवमाहात्म्यं वक्ष्यामि परमाद्भुतम् ।।

शृण्वतां सर्वपापघ्नं भवपाशविमोचनम् ।। ।। १ ।।

दुस्तरे दुरितांभोधौ मज्जतां विषयात्मनाम् ।।

शिवपूजां विना कश्चित्प्लवो नास्ति निरूपितः ।। २ ।।

शिवपूजां सदा कुर्याद्बुद्धिमानिह मानवः ।।

अशक्तश्चेत्कृता पूजां पश्येद्भक्तिविनम्रधीः ।। ३ ।।

अश्रद्धयापि यः कुर्याच्छिवपूजां विमुक्तिदाम् ।।

पश्येद्वा सोपि कालेन प्रयाति परमं पदम् ।। ४ ।।

आसीत्किरातदेशेषु नाम्ना राजा विमर्दनः ।।

शूरः परमदुर्द्धर्षो जितशत्रुः प्रतापवान् ।। ५ ।।

सर्वदा मृगयासक्तः कृपणो निर्घृणो बली ।।

सर्वमांसाशनः क्रूरः सर्ववर्णांगनावृतः ।। ६ ।।

तथापि कुरुते शंभोः पूजां नित्यमतंद्रितः ।।

चतुर्दश्यां विशेषेण पक्षयोः शुक्लकृष्णयोः ।। ।। ७ ।।

महाविभवसंपन्नां पूजां कृत्वा स मोदते ।।

हर्षेण महताविष्टो नृत्यति स्तौति गायति ।। ८ ।।

तस्यैवं वर्तमानस्य नृपतेः सर्वभक्षिणः ।।

दुराचारस्य महिषी चेष्टितेनान्वतप्यत ।। ९ ।।

सा वै कुमुद्वतीनाम राज्ञी शीलगुणान्विता ।।

एकदा पतिमासाद्य रहस्ये तदपृच्छत ।। ३.३.४.१० ।।

एतत्ते चरितं राजन्महदाश्चर्यकारणम् ।।

क्व ते महादुराचारः क्व भक्तिः परमेश्वरे ।। ११ ।।

सर्वदा सर्वभक्षस्त्वं सर्वस्त्रीजनलालसः ।।

सर्वहिंसापरः क्रूरः कथं भक्तिस्तवेश्वरे ।। १२ ।।

इति पृष्टः स भूपालो विमृश्य सुचिरं ततः ।।

त्रिकालज्ञः प्रहस्यैनां प्रोवाच सुकुतूहलः ।। १३ ।। ।।

।। राजोवाच ।। ।।

अहं पूर्वभवे कश्चित्सारमेयो वरानने ।।

पंपानगरमाश्रित्य पर्यटामि समंततः ।। १४ ।।

एवं कालेषु गच्छत्सु तत्रैव नगरोत्तमे ।।

कदाचिदागतः सोहं मनोज्ञं शिवमंदिरम् ।। १५ ।।

पूजायां वर्तमानायां चतुर्दश्यां महातिथौ ।।

अपश्यमुत्सवं दूराद्बहिर्द्वारं समाश्रितः ।। १६ ।।

अथाहं परमक्रुद्धैर्दंडहस्तैः प्रधावितः ।।

तस्माद्देशादपक्रांतः प्राणरक्षापरायणः ।। १७ ।।

ततः प्रदक्षिणीकृत्य मनोज्ञं शिवमंदिरम् ।।

द्वारदेशं पुनः प्राप्य पुनश्चैव निवारितः ।। १८ ।।

पुनः प्रदक्षिणीकृत्य तदेव शिवमन्दिरम् ।।

बलिपिंडादिलोभेन पुनर्द्वारमुपागतः ।। १९ ।।

एवं पुनःपुनस्तत्र कृत्वा कृत्वा प्रदक्षिणाम् ।।

द्वारदेशे समासीनं निजघ्नुर्निशितैः शरैः ।। ३.३.४.२० ।।

स विद्धगात्रः सहसा शिवद्वारि गतासुकः ।।

जातोऽस्म्यहं कुले राज्ञां प्रभावाच्छिवसन्निधेः ।। २१ ।।

दृष्ट्वा चतुर्दशीपूजां दीपमाला विलोकिताः ।।

तेन पुण्येन महता त्रिकालज्ञोऽस्मि भामिनि ।। २२ ।।

प्राग्जन्मवासनाभिश्च सर्वभक्षोऽस्मि निर्घृणः ।।

विदुषामपि दुर्लंघ्या प्रकृतिर्वासनामयी ।। २३ ।।

अतोऽहमर्चयामीशं चतुर्दश्यां जगद्गुरुम् ।।

त्वमपि श्रद्धया भद्रे भज देवं पिनाकिनम् ।। २४ ।।

।। राज्ञ्युवाच ।। ।।

त्रिकालज्ञोऽसि राजेन्द्र प्रसादाद्गिरिजापतेः ।।

मत्पूर्वजन्मचरितं वक्तुमर्हसि तत्त्वतः ।। २५ ।।

।। राजोवाच ।। ।।

त्वं तु पूर्वभवे काचित्कपोती व्योमचारिणी ।।

क्वापि लब्धवती किंचिन्मां सपिंडं यदृच्छया ॥ २६॥

त्वद्गृहीतमथालोक्य गृध्रः कोप्यामिषं बली ।

निरामिषः स्वयं वेगाभिदुद्राव भीषणः ॥ २७॥

ततस्तं वीक्ष्य वित्रस्ता विद्रुतासि वरानने ॥

तेनानुयाता घोरेण मांसपिंडजिघृक्षया ॥ २८ ॥

दिष्ट्या श्रीगिरिमासाद्य श्रांता तत्र शिवालयम् ॥

प्रदक्षिणं परिक्रम्य ध्वजाग्रे समुपस्थिता ॥ २९॥

अथानुसृत्य सहसा तीक्ष्णतुंडो विहंगमः ॥

त्वां निहत्य निपात्याधो मांसमादाय जग्मिवान् ॥ ३.३.४.३० ॥

प्रदक्षिणप्रक्रमणाद्देवदेवस्य शूलिनः॥

तस्याग्रे मरणाच्चैव जातासीह नृपांगना ॥ ३१ ॥

॥ राज्ञ्युवाच ॥ ॥

श्रुतं सर्वमशेषेण प्राग्जन्मचरेितं मया ॥

जातं च महदाश्चर्यं भक्तिश्च मम चेतसि ॥

अथान्यच्छ्रोतुमिच्छामि त्रिकालज्ञ महामते ॥

इदं शरीरमुत्सृज्य यास्यावः कां गतिं पुनः । |॥ ३२ ॥

॥ राजोवाच ॥ ॥

अतो भवे जनिष्येऽहं द्वितीये सैंधवो नृपः ॥ ३३ ॥

सृंजयेशसुता त्वं हि मामेव प्रतिपत्स्यसे ॥

तृतीये तु भवे राजा सौराष्ट्रे भविताऽस्म्यहम् ॥ ३४ ॥

कलिंगराजतनया त्वं मे पत्नी भविष्यसि ॥

चतुर्थे तु भविष्यामि भवे गांधारभूमिपः ॥ ३५ ॥

मागधी राजतनया तत्र त्वं मम गेहिनी ॥

पंचमेऽवंतिनाथोऽहं भविष्यामि भवांतरे ॥ ३६ ॥

दाशार्हराजतनया त्वमेव मम वल्लभा॥

अस्माज् जन्मनि षष्ठेऽहमानर्ते भविता नृपः ॥ ३७॥

ययातिवंशजा कन्या भूत्वा मामेव यास्यसि ॥

पांड्यराजकुमारोऽहँ सप्तमे भविता भवे ॥ ३८ ॥

तत्र मत्सदृशो नान्यो रूपौदार्यगुणादिभिः ॥

सर्वशास्त्रार्थतत्त्वज्ञो बलवान्दृढविक्रमः ॥ ३९ ॥

सर्वलक्षणसंपन्नः सर्वलोकमनोरमः ॥

पद्मवर्ण इति ख्यातः पद्ममित्रसमद्युतिः ॥ ३.३.४.४०॥

भविता त्वं च वैदर्भी रूपेणाप्रतिमा भुवि ॥

नाम्ना वसुमती ख्याता रूपावयवशोभिनी ॥ ४१ ॥

सर्व राजकुमाराणां मनोनयननंदिनी ॥

सा त्वं स्वयंवरे सर्वान्विहाय नृपनंदनान् ॥ ४२ ॥

वरं प्राप्स्यसि मामेव दमयंतीव नैषधम् ॥

सोऽहं जित्वा नृपान्सर्वान्प्राप्य त्वां वरवर्णिनीम् ॥४३॥

स्वराष्ट्रस्थोऽखिलान्भोगान्भोक्ष्ये वर्षगणान्बहून् ॥

इष्ट्वा च विविधैर्यज्ञैर्वाजिमेधादिभिः शुभैः ॥ ४४ ॥

संतर्प्य पितृदेवर्षीन्दानैश्च द्विजसत्तमान् ॥

संपूज्य देवदेवेशं शंकरं लोकशंकरम् ॥ ४५ ॥

पुत्रे राज्यधुरं न्यस्य गंतास्मि तपसे वनम् ॥

तत्रागस्त्यान्मुनिवराद्ब्रह्मज्ञानमवाप्य च ॥ ४६ ॥

त्वया सह गमिष्यामि शिवस्य परमं पदम् ।

चतुर्दश्यां चतुर्दश्यामेवं संपूज्य शंकरम् ॥ ४७ ॥

सप्तजन्मसु राजस्त्वं भविष्यति वरानने ॥

इत्येतत्सुकृतं लब्धं पूज़ादर्शनमात्रतः ॥

क्व सारमेयो दुष्टात्मा क्वेदृशी बत सङ्गतिः॥ ४८ ।

।। सूत उवाच॥

इत्युक्तो निजनाथेन सा राज्ञी शुभलक्षणा ॥ ४९ ॥

परं विस्मयमापन्ना पूजयामास तं मुदा ॥

सोऽपि राजा तया सार्द्धं भुक्त्वा भोगान्यथेप्सितान् ।। ३.३.४.५० ।।

जगाम सप्तजन्मांते शंभोस्तत्परमं पदम् ।।

य एतच्छिवपूजाया माहात्म्यं परमाद्भुतम् ।।

शृणुयात्कीर्तयेद्वापि स गच्छेत्परमं पदम्।। ५१ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे चतुर्दशीमाहात्म्यवर्णनं नाम चतुर्थो ऽध्यायः ।। ४ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 5

।। सूत उवाच ।। ।।

शिवो गुरुः शिवो देवः शिवो बंधुः शरीरिणाम् ।।

शिव आत्मा शिवो जीवःशिवादन्यन्न किञ्चन ।।१।।।

शिवमुद्दिश्य यत्किंचिद्दत्तं जप्तं हुतं कृतम् ।।

तदनंतफलं प्रोक्तं सर्वागमविनिश्चितम् ।। २ ।।

भक्त्या निवेदितं शंभोः पत्रं पुष्पं फलं जलम् ।।

अल्पादल्पतरं वापि तदानंत्याय कल्पते ।। ३ ।।

विहाय सकलान्धर्मान्सकलागमनिश्चितान् ।।

शिवमेकं भजेद्यस्तु मुच्यते सर्वबन्धनात् ।। ४ ।।

या प्रीतिरात्मनः पुत्रे या कलत्रे धनेपि सा ।।

कृता चेच्छिवपूजायां त्रायतीति किमद्भुतम् ।। ५ ।।

तस्मात्केचिन्महात्मानः सकलान्विषयासवान् ।।

त्यजंति शिवपूजार्थे स्वदेहमपि दुस्त्यजम् ।। ६ ।।

सा जिह्वा या शिवं स्तौति तन्मनो ध्यायते शिवम् ।।

तौ कर्णौ तत्कथालोलौ तौ हस्तौ तस्य पूजकौ ।। ७ ।।

ते नेत्रे पश्यतः पूजां तच्छिरः प्रणतं शिवे ।।

तौ पादौ यौ शिवक्षेत्रं भक्त्या पर्यटतः सदा ।। ८ ।।

यस्येन्द्रियाणि सर्वाणि वर्तंते शिवकर्मसु ।।

स निस्तरति संसारं भुक्तिं मुक्तिं च विंदति ।। ९ ।।

शिवभक्तियुतो मर्त्यश्चांडालः पुल्कसोपि च ।।

नारी नरो वा षंढो वा सद्यो मुच्येत संसृतेः ।। ३.३.५.१० ।।

किं कुलेन किमाचारैः किंशीलेन गुणेन वा ।।

भक्तिलेशयुतः शंभोः स वंद्यः सर्वदेहिनाम् ।। ११ ।।

उज्जयिन्यामभूद्राजा चन्द्रसेनसमाह्वयः ।।

जातो मानवरूपेण द्वितीय इव वासवः ।। १२ ।।

तस्मिन्पुरे महाकालं वसंतं परमेश्वरम् ।।

संपूजयत्यसौ भक्त्या चन्द्रसेनो नृपोत्तमः ।। १३ ।।

तस्याभवत्सखा राज्ञः शिवपारिषदाग्रणीः ।।

मणिभद्रो जिताभद्रः सर्वलोकनमस्कृतः ।। १४ ।।

तस्यै कदा महीभर्तुः प्रसन्नः शंकरानुगः ।।

चिन्तामणिं ददौ दिव्यं मणिभद्रो महामतिः ।। १५ ।।

स मणिः कौस्तुभ इव द्योतमानोर्कसन्निभः ।।

दृष्टः श्रुतो वा ध्यातो वा नृणां यच्छति चिंतितम् ।। १६ ।।

तस्य कांतिलवस्पृष्टं कांस्यं ताम्रमयस्त्रपु ।।

पाषाणादिकमन्यद्वा सद्यो भवति कांचनम् ।। ।। १७ ।।

स तं चिन्तामणिं कंठे बिभ्रद्राजासनं गतः ।।

रराज राजा देवानां मध्ये भानुरिव स्वयम् ।। १८ ।।

सदा चिन्तामणिग्रीवं तं श्रुत्वा राजसत्तमम् ।।

प्रवृद्धतर्षा राजानः सर्वे क्षुब्धहृदोऽभवन् ।। १९ ।।

स्नेहात्केचिदयाचंत धार्ष्ट्यात्केचन दुर्मदाः ।।

दैवलब्धमजानंतो मणिं मत्सरिणो नृपाः।३.३.५.२०।।

सर्वेषां भूभृतां याञ्चा यदा व्यर्थीकृतामुना।।

राजानः सर्वदेशानां संरंभं चक्रिरे तदा।।२१।।

सौराष्ट्राः कैकयाः शाल्वाः कलिंगशकमद्रकाः ।।

पांचालावंतिसौवीरा मागधा मत्स्यसृंजयाः ।। २२ ।।

एते चान्ये च राजानः सहाश्वरथकुमजराः ।।

चन्द्रसेनं मृधे जेतुमुद्यमं चक्रुरोजसा ।। २३ ।।

ते तु सर्वे सुसंरब्धाः कंपयंतो वसुन्धराम् ।।

उज्जयिन्याश्चतुर्द्वारं रुरुधुर्बहुसैनिकाः ।। २४ ।।

संरुध्यमानो स्वपुरीं दृष्ट्वा राजभिरुद्धतैः ।।

चंद्रसेनो महाकालं तमेव शरणं ययौ ।। २५ ।।

निर्विकल्पो निराहारः स राजा दृढनिश्चयः ।।

अर्चयामास गौरीशं दिवा नक्त मनन्यधीः ।। २६ ।।

एतस्मिन्नंतरे गोपी काचित्तत्पुरवासिनी ।।

एकपुत्रा भर्तृहीना तत्रैवासीच्चिरंतना ।। २७ ।।

सा पंचहायनं बालं वहंती गत भर्तृका ।।

राज्ञा कृतां महापूजां ददर्श गिरिजापतेः ।। २८ ।।

सा दृष्ट्वा सर्वमाश्चर्यं शिवपूजामहोदयम् ।।

प्रणिपत्य स्वशिबिरं पुनरेवाभ्यपद्यत ।। ।। २९ ।।

एतत्सर्वमशेषेण स दृष्ट्वा बल्लवीसुतः ।।

कुतूहलेन विदधे शिवपूजां विरक्तिदाम्।। ३.३.५.३० ।।

आनीय हृद्यं पाषाणं शून्ये तु शिबिरोत्तमे ।।

नातिदूरे स्वशिबिराच्छिवलिंगमकल्पयत् ।। ३१ ।।

यानि कानि च पुष्पाणि हस्तलभ्यानि चात्मनः ।।

आनीय स्नाप्य तल्लिंगं पूजयामास भक्तितः ।। ३२ ।।

गंधालंकारवासांसि धूपदीपाक्षतादिकम् ।।

विधाय कृत्रिमैर्दिव्यैर्नैवेद्यं चाप्यकल्पयत् ।। ३३ ।।

भूयोभूयः समभ्यर्च्य पत्रैः पुष्पैर्मनोरमैः ।।

नृत्यं च विविधं कृत्वा प्रणनाम पुनःपुनः ।।३४।।

एवं पूजां प्रकुर्वाणं शिवस्यानन्यमानसम् ।।

सा पुत्रं प्रणयाद्गोपी भोजनाय समा ह्वयत्।।३५।।

मात्राहूतोपि बहुशः स पूजासक्तमानसः ।।

बालोपि भोजनं नच्छत्तदा माता स्वयं ययौ।। ३६।।

तं विलोक्य शिवस्याग्रे निषण्णं मी लितेक्षणम्।।

चकर्ष पाणिं संगृह्य कोपेन समताडयत्।। ३७ ।।

आकृष्टस्ताडितो वापि नागच्छत्स्वसुतो यदा ।।

तां पूजां नाशयामास क्षिप्त्वा लिंगं विदूरतः ।। ३८ ।।

हाहेति रुदमानं तं निर्भर्त्स्य स्वसुतं तदा ।।

पुनर्विवेश स्वगृहं गोपी रोषसमन्विता ।। ३९ ।।

मात्रा विनाशितां पूजां दृष्ट्वा देवस्य शूलिनः ।।

देवदेवेति चुक्रोश निपपात स बालकः ।। ३.३.५.४० ।।

प्रनष्टसंज्ञः सहसा बाष्पपूरपरिप्लुतः ।।

लब्धसंज्ञो मुहूर्तेन चक्षुषी उदमीलयत्।। ।। ४१ ।।

ततो मणिस्तंभविराजमानं हिरण्मयद्वारकपाटतोरणम् ।।

महार्हनीलामलवज्रवेदिकं तदेव जातं शिबिरं शिवालयम् ।। ४२ ।।

संतप्तहेम कलशैर्बहुभिर्विचित्रैः प्रोद्भासितस्फटिकसौधतलाभिरामम् ।।

रम्यं च तच्छिवपुरं वरपीठमध्ये लिंगं च रत्नसहितं स ददर्श बालः ।। ४३ ।।

स दृष्ट्वा सहसोत्थाय भीतविस्मितमानसः ।।

निमग्न इव संतोषात्परमानंदसागरे ।। ४४ ।।

विज्ञाय शिवपूजाया माहात्म्यं तत्प्रभावतः ।।

ननाम दंडवद्भूमौ स्वमातुरघशांतये ।। ४५ ।।

देव क्षमस्व दुरितं मम मातुरुमापते ।।

मूढायास्त्वामजानंत्याः प्रसन्नो भव शंकर ।। ४६ ।।

यद्यस्ति मयि यत्किंचित्पुण्यं त्वद्भक्तिसंभवम् ।।

तेनापि शिव मे माता तव कारुण्यमाप्नुयात् ।। ४७ ।।

इति प्रसाद्य गिरिशं भूयोभूयः प्रणम्य च ।।

सूर्ये चास्तं गते बालो निर्जगाम शिवालयात् ।। ४८ ।।

अथापश्यत्स्वशिबिरं पुरंदरपुरोपमम् ।।

सद्यो हिरण्मयीभूतं विचित्रविभवोज्ज्वलम् ।। ४९ ।।

सोंतः प्रविश्य भवनं मोदमानो निशामुखे ।।

महामणिगणाकीर्णं हेमराशिसमुज्ज्वलम् ।। ३.३.५.५० ।।

तत्रापश्यत्स्वजननीं स्मरंतीमकुतोभयाम् ।।

महार्हरत्न पर्यंके सितशय्यामधिश्रिताम् ।। ५१ ।।

रत्नालंकारदीप्तांगीं दिव्यांबरविराजिनीम् ।।

दिव्यलक्षणसंपन्नां साक्षात्सुरवधूमिव ।। ५२ ।।

जवेनोत्थापयामास संभ्रमोत्फुल्ललोचनः ।।

अंब जागृहि भद्रं ते पश्येदं महदद्भुतम्।। ५३ ।।

इति प्रबोधिता गोपी स्वपुत्रेण महात्मना ।।

ततोऽपश्यत्स्वजननी स्मयन्ती मुकुटोज्ज्वला ।। ५४ ।।

ससंभ्रमं समुत्थाय तत्सर्वं प्रत्यवेक्षत ।।

अपूर्वमिव चात्मानमपूर्वमिव बालकम् ।। ५५ ।।

अपूर्वं च स्वसदनं दृष्ट्वा सीत्सुखविह्वला ।।

श्रुत्वा पुत्रमुखात्सर्वं प्रसादं गिरिजापतेः ।। ५६ ।।

राज्ञे विज्ञापयामास यो भजत्यनिशं शिवम् ।।

स राजा सहसागत्य समाप्त नियमो निशि ।। ५७ ।।

ददर्श गोपिकासूनोः प्रभावं शिवतोषजम् ।।

हिरण्मयं शिवस्थानं लिंगं मणिमयं तथा ।। ५८ ।।

गोपवध्वाश्च सदनं माणि क्यवरकोज्ज्वलम्।।

दृष्ट्वा महीपतिः सर्वं सामात्यः सपुरोहितः ।।५९ ।।

मुहूर्तं विस्मितधृतिः परमानंदनिर्भरः ।।

प्रेम्णा वाष्पजलं मुंचन्परिरेभे तम र्भकम् ।। ३.३.५.६० ।।

एवमत्यद्भुताकाराच्छिवमाहात्म्यकीर्त्तनात् ।।

पौराणां संभ्रमाच्चैव सा रात्रिः क्षणतामगात् ।। ६१ ।।

अथ प्रभाते युद्धाय पुरं संरुध्य संस्थिताः ।।

राजानश्चारवक्त्रेभ्यः शुश्रुवुः परमाद्भुतम् ।। ६२ ।।

ते त्यक्तवैराः सहसा राजानश्चकिता भृशम् ।।

न्यस्तशस्त्रा निविविशुश्चंद्रसेनानुमोदिताः ।। ६३ ।।

तां प्रविश्य पुरीं रम्यां महाकालं प्रणम्य च ।।

तद्गोपवनितागेहमाजग्मुः सर्वभूभृतः ।। ६४ ।।

ते तत्र चंद्रसेनेन प्रत्युद्गम्याभि पूजिताः ।।

महार्हविष्टरगताः प्रीत्यानंदन्सुविस्मिताः ।। ६५ ।।

गोपसूनोः प्रसादाय प्रादुर्भूतं शिवालयम् ।।

लिंगं च वीक्ष्य सुमहच्छिवे चक्रुः परां मतिम् ।। ६६ ।।

तस्मै गोपकुमाराय प्रीतास्ते सर्वभूभुजः ।।

वासोहिरण्यरत्नानि गोमहिष्यादिकं धनम् ।। ६७ ।।

गजानश्वान्रथान्रौक्माञ्छत्र यानपरिच्छदान् ।।

दासान्दासीरनेकाश्च ददुः शिवकृपार्थिनः ।। ६८ ।।

येये सर्वेषु देशेषु गोपास्तिष्ठंति भूरिशः ।।

तेषां तमेव राजानं चक्रिरे सर्व पार्थिवाः ।।६९।।

अथास्मिन्नंतरे सर्वैस्त्रिदशैरभिपूजितः ।।

प्रादुर्बभूव तेजस्वी हनूमान्वानरेश्वरः ।।३.३.५.७०।।

तस्याभिगमनादेव राजानो जातसंभ्रमाः ।।

प्रत्युत्थाय नमश्चक्रुर्भक्तिनम्रात्ममूर्त्तयः ।। ७१ ।।

तेषां मध्ये समासीनः पूजितः प्लवगेश्वरः ।।

गोपात्मजं समाश्लिष्य राज्ञो वीक्ष्येदमववीत् ।। ।। ७२ ।।

सर्वे शृणुत भद्रं वो राजानो ये च देहिनः ।।

शिवपूजामृते नान्या गतिरस्ति शरीरिणाम ।। ७३ ।।

एष गोपसुतो दिष्ट्या प्रदोषे मंदवा सरे ।।

अमंत्रेणापि संपूज्य शिवं शिवमवाप्तवान् ।। ७४ ।।

मंदवारे प्रदोषोऽयं दुर्लभः सर्वदेहिनाम् ।।

तत्रापि दुर्लभतरः कृष्णपक्षे समागते ।। ।। ७५ ।।

एष पुण्यतमो लोके गोपानां कीर्तिवर्धनः ।।

अस्य वंशेऽष्टमो भावी नंदोनाम महायशाः ।।

प्राप्स्यते तस्य पुत्रत्वं कृष्णो नारा यणः स्वयम् ।। ७६ ।।

अद्यप्रभृति लोकेस्मिन्नेष गोपालनंदनः ।।

नाम्ना श्रीकर इत्युच्चैर्लोके ख्यातिं गमिष्यति ।। ७७ ।।

।। सूत उवाच ।।

एवमुक्त्वांजनीसूनुस्तस्मै गोपकसूनवे ।।

उपदिश्य शिवाचारं तत्रैवांतरधीयत ।। ७८ ।।

ते च सर्वे महीपालाः संहृष्टाः प्रतिपूजिताः ।।

चन्द्रसेनं समामंत्र्य प्रतिजग्मुर्यथागतम् ।। ७९ ।।

श्रीकरोऽपि महातेजा उपदिष्टो हनूमता ।।

ब्राह्मणैः सह धर्मज्ञैश्चक्रे शम्भोः समर्हणम् ।। ३.३.५.८० ।।

कालेन श्रीकरः सोऽपि चंद्रसेनश्च भूपतिः ।।

समाराध्य शिवं भक्त्या प्रापतुः परमं पदम् ।। ८१ ।।

इदं रहस्यं परमं पवित्रं यशस्करं पुण्यमहर्द्धिवर्धनम् ।।

आख्यानमाख्यातमघौघनाशनं गौरीशपादांबुजभक्तिवर्धनम् ।। ८२ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तर खण्डे गोपकुमारचरितवर्णनं नाम पञ्चमोऽध्यायः ।। ५ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 6

।। ऋषय ऊचुः ।। ।।

यदुक्तं भवता सूत महदाख्यानमद्भुतम् ।।

शम्भोर्माहात्म्यकथनमशेषाघहरं परम् ।। १ ।।

भूयोपि श्रोतुमिच्छामस्तदेव सुसमाहिताः ।।

प्रदोषे भगवाञ्छंभुः पूजितस्तु महात्मभिः ।। २ ।।

संप्रयच्छति कां सिद्धिमेतन्नो ब्रूहि सुव्रत ।।

श्रुतमप्यसकृत्सूत भूयस्तृष्णा प्रवर्धते ।। ३ ।।

।। सूत उवाच ।। ।।

साधु पृष्टं महाप्राज्ञा भवद्भिर्लोकविश्रुतैः ।।

अतोऽहं संप्रवक्ष्यामि शिवपूजाफलं महत् ।। ४ ।।

त्रयोदश्यां तिथौ सायं प्रदोषः परिकीर्त्तितः ।।

तत्र पूज्यो महादेवो नान्यो देवः फलार्थिभिः ।। ५ ।।

प्रदोषपूजामाहात्म्यं को नु वर्णयितुं क्षमः ।।

यत्र सर्वेऽपि विबुधास्तिष्ठंति गिरिशांतिके ।। ६ ।।

प्रदोषसमये देवः कैलासे रजतालये ।।

करोति नृत्यं विबुधैरभिष्टुतगुणोदयः ।। ७ ।।

अतः पूजा जपो होमस्तत्कथास्तद्गुणस्तवः ।।

कर्त्तव्यो नियतं मर्त्यैश्चतुर्वर्गफला र्थिभिः ।। ८ ।।

दारिद्यतिमिरांधानां मर्त्यानां भवभीरुणाम् ।।

भवसागरमग्नानां प्लवोऽयं पारदर्शनः ।। ९ ।।

दुःखशोकभयार्त्तानां क्लेशनिर्वाणमिच्छताम् ।।

प्रदोषे पार्वतीशस्य पूजनं मंगलायनम् ।। ३.३.६.१० ।।

दुर्बुद्धिरपि नीचोपि मन्दभाग्यः शठोऽपि वा ।।

प्रदोषे पूज्य देवेशं विपद्भ्यः स प्रमुच्यते ।। ११ ।।

शत्रुभिर्हन्यमानोऽपि दश्यमानोपि पन्नगैः ।।

शैलैराक्रम्यमाणोऽपि पतितोऽपि महांबुधौ ।। १२ ।।

आविद्धकालदण्डोऽपि नानारोगहतोऽपि वा ।।

न विनश्यति मर्त्योऽसौ प्रदोषे गिरिशार्चनात् ।। १३ ।।

दारिद्र्यं मरणं दुःखमृणभारं नगोपमम् ।।

सद्यो विधूय संपद्भिः पूज्यते शिवपूजनात् ।। १४ ।।

अत्र वक्ष्ये महापुण्यमितिहासं पुरातनम् ।।

यं श्रुत्वा मनुजाः सर्वे प्रयांति कृतकृत्यताम् ।। १५ ।।

आसीद्विदर्भविषये नाम्ना सत्यरथो नृपः ।।

सर्वधर्मरतो धीरः सुशीलः सत्यसंगरः ।। १६ ।।

तस्य पालयतो भूमिं धर्मेण मुनिपुंगवाः ।।

व्यतीयाय महान्कालः सुखेनैव महामतेः ।। १७ ।।

अथ तस्य महीभर्तुर्बभूवुः शाल्वभूभुजः ।।

शत्रवश्चोद्धतबला दुर्मर्षणपुरोगमाः ।। १८ ।।

कदाचिदथ ते शाल्वाः संनद्धबहुसैनिकाः ।।

विदर्भनगरीं प्राप्य रुरुधुर्विजिगीषवः ।। १९ ।।

दृष्ट्वा निरुद्ध्यमानां तां विदर्भाधिपतिः पुरीम् ।।

योद्धुमभ्याययौ तूर्णं बलेन महता वृतः ।। ३.३.६.२० ।।

तस्य तैरभवयुद्धं शाल्वैरपि बलोद्धतैः ।।

पाताले पन्नगेन्द्रस्य गन्धर्वैरिव दुर्मदैः ।। २१ ।।

विदर्भनृपतिः सोऽथ कृत्वा युद्धं सुदारुणम् ।।

प्रनष्टोरुबलैः शाल्वैर्निहतो रणमूर्धनि ।। २२ ।।

तस्मिन्महारथे वीरे निहते मंत्रिभिः सह ।।

दुद्रुवुः समरे भग्ना हतशेषाश्च सैनिकाः ।। २३ ।।

अथ युद्धेभिविरते नदत्सु रिपुमंत्रिषु ।।

नगर्यां युद्ध्यमानायां जाते कोलाहले रवे ।। २४ ।।

तस्य सत्यरथस्यैका विदर्भाधिपतेः सती ।।

भूरिशोकसमाविष्टा क्वचिद्यत्नाद्विनिर्ययौ ।। २५ ।।

सा निशासमये यत्नादंतर्वत्नी नृपांगना ।।

निर्गता शोक संतप्ता प्रतीचीं प्रययौ दिशम् ।। २६ ।।

अथ प्रभाते मार्गेण गच्छन्ती शनकैः सती ।।

अतीत्य दूरमध्वानं ददर्श विमलं सरः ।। २७ ।।

तत्रागत्य वरारोहा तप्ता तापेन भूयसा ।।

विलसंतं सरस्तीरे छायावृक्षं समाश्रयत् ।। २८ ।।

तत्र दैववशाद्राज्ञी विजने तरुकुट्टिमे ।।

असूत तनयं साध्वी मूहूर्ते सद्गुणान्विते ।। २९ ।।

अथ सा राजमहिषी पिपासाभिहता भृशम् ।।

सरोऽवतीर्णा चार्वंगी ग्रस्ता ग्राहेण भूयसा ।। ३.३.६.३० ।।

जातमात्रः कुमारोऽपि विनष्टपितृमातृकः ।।

रुरोदोच्चैः सरस्तीरे क्षुत्पिपासार्दितोऽबलः ।। ३१ ।।

तस्मिन्नेवं क्रन्दमाने जातमात्रे कुमारके ।।

काचिदभ्याययौ शीघ्रं दिष्ट्या विप्रवरांगना ।। ३२ ।।

साप्येकहायनं बालमुद्वहन्ती निजात्मजम् ।।

अधना भर्तृरहिता याचमाना गृहेगृहे ।। ३३ ।।

एकात्मजा बंधुहीना याञ्चामार्गवशंगता।।

उमानाम द्विजसतीददर्श नृपनंदनम्।। ३४ ।।

सा दृष्ट्वा राजतनयं सूर्यबिंवमिव च्युतम्।।

अनाथमेनं क्रंदंतं चिंतयामास भूरिशः ॥ ३५॥

अहो सुमहदाश्चर्यमिदं दृष्टं मयाधुना ॥

अच्छिन्ननाभिसूत्रोऽयं शिशुर्माता क्व वा गता ॥ ३६ ॥

पिता नास्ति न चान्योस्ति नास्ति बंधुजनोऽपि वा ॥

अनाथः कृपणो बालः शेते केवल भूतले ॥ ३७ ॥

एष चांडालजो वापि शूद्रजो वैश्यजोपि वा ॥

विप्रात्मजो वा नृपजो ज्ञायते कथमर्भकः ॥ ३८॥

शिशुमेनं समुद्धृत्य पुष्णाम्यौरसवद्ध्रुवम् ॥

किं त्वविज्ञातकुलजं नोत्सहे स्प्रष्टुमुत्तमम् ॥ ३९ ॥

इति मीमांसमानायां तस्यां विप्रवरस्त्रियाम् ॥ ३.३.६.४० ॥

कश्चित्समाययौ भिक्षुः साक्षाद्देवः शिवः स्वयम् ॥

तामाह भिक्षुवर्योथ विप्रभामिनि मा खिदः ॥ ११ ॥

रक्षैनं बालकं सुभ्रुर्विसृज्य हृदि संशयम्॥

अनेन परमं श्रेयः प्राप्स्यसे ह्यचिरादेिह ॥ ४२ ॥

एतावदुक्त्वा त्वरितो भिक्षुः कारुणिको ययौ ॥

अथ तस्मिन्गते भिक्षौ विश्रब्धा विप्रभामिनी ॥ ४३ ॥

तमर्भकं समादाय निजमेव गृहं ययौ ॥

भिक्षुवाक्येन विश्रब्धा सा राज तनयं सती ॥ ४४ ॥

आत्मपुत्रेण सदृशं कृपया पर्यपोषयत्॥

एकचक्राह्वये रम्ये ग्रामे कृतनिकेतना ॥ ४९ ॥

स्वपुत्रं राजपुत्रं च भिक्षान्नेन व्यवर्धयत् ॥

ब्राह्मणीतनयश्चैव स राजतनयस्तथा ॥ १६ ॥

ब्राह्मणैः कृतसंस्कारौ ववृधाते सुपूजितौ।॥

कृतोपनयनौ काले बालकौ नियमे स्थितौ ॥ ॥ ४७ ॥

भिक्षार्थं चेरतुस्तत्र मात्रा सह दिनेदिने ॥

ताभ्यां कदाचिद्बालाभ्यां सा विप्रवनिता सह ॥ ४८ ॥

भैक्ष्यं चरंती दैवेन प्रविष्टा देवतालयम्॥

तत्र वृद्धैः समाकीर्णे मुनिभिर्देवतालये ॥ १९ ॥

तौ दृष्ट्वा बालकौ धीमाञ्छांडिल्यो मुनिरब्रवीत् ॥

अहो दैवबलं चित्रमहो कर्म दुरत्ययम् ॥ ३.३.६.५० ॥

एष बालोऽन्यजननीं श्रितो भैक्ष्येण जीवति ॥

इमामेव द्विजवधूं प्राप्य मातरमुत्तमाम् ॥ ५१ ॥

सहैव द्विजपुत्रेण द्विजभावं समाश्रितः ॥

इति श्रुत्वा मुनेर्वाक्यं शांडिल्यस्य द्विजांगना ॥ ५२॥

सा प्रणम्य सभामध्ये पर्यपृच्छत्सविस्मया ॥

ब्रह्मन्नेषोर्भको नीतो मया भिक्षोर्गिरा गृहम् ॥ ५३ ॥

अविज्ञातकुलोद्यापि सुतवत्परिपोष्यते ॥

कस्मिन्कुले प्रसूतोऽयं का माता जनकोस्य कः ॥ ५४ ॥

सर्वं विज्ञातुमिच्छामि भवतो ज्ञानचक्षुषः ॥.५५ ।॥

इति पृष्टो मुनिः सोथ ज्ञानदृष्टिर्द्विजस्त्रियां ॥

आचख्यौ तस्य बालस्य जन्म कर्म च पौर्विकम् ॥ ५६ ॥

विदर्भराजपुत्रस्तु तत्पितुः समरे मृतिम्॥

तन्मातुर्नक्रहरणं साकल्येन न्यवेदयत् ॥ ५७ ॥

अथ सा विस्मिता नारी पुनः प्रपच्छ तं मुनिम् ॥

स राजा सकलान्भोगान्हित्वा युद्धे कथं मृतः ॥ ५८ ॥

दारिद्र्यमस्य बालस्य कथं प्राप्तं महामुने ॥

दारिद्र्यं पुनरुद्धूय कथं राज्यमवाप्स्यति ॥ ॥ ५९ ॥

अस्यापि मम पुत्रस्य भिक्षान्नेनैव जीवतः ।

दारिद्र्यशमनोपायमुपदेष्टुं त्वमर्हसि ॥३.३.६.६०॥

॥ शांडिल्य उवाच ॥॥

अमुष्य बालस्य पिता स विदर्भमहीपतिः ।।

पूर्वजन्मनि पांड्येशो बभूव नृपसत्तमः ।। ६१ ।।

स राजा सर्वधर्मज्ञः पालयन्सकलां महीम् ।।

प्रदोषसमये शंभुं कदा चित्प्रत्यपूजयत् ।। ६२ ।।

तस्य पूजयतो भक्त्या देवं त्रिभुवनेश्वरम् ।।

आसीत्कलकलारावः सर्वत्र नगरे महान् ।। ६३ ।।

श्रुत्वा तमुत्कटं शब्दं राजा त्यक्तशिवार्चनः ।।

निर्ययौ राजभवनान्नगरक्षोभशंकया ।। ६४ ।।

एतस्मिन्नेव समये तस्यामात्यो महाबलः ।।

शत्रुं गृहीत्वा सामंतं राजांतिकमुपागमत् ।। ६५ ।।

अमात्येन समानीतं शत्रुं सामंतमुद्धतम् ।।

दृष्ट्वा क्रोधेन नृपतिः शिरच्छेदमकारयत् ।। ६६ ।।

स तथैव महीपालो विसृज्य शिवपूजनम् ।।

असमाप्तात्मनियमश्चकार निशि भोजनम् ।। ६७ ।।

तत्पुत्रोपि तथा चक्रे प्रदोषसमये शिवम् ।।

अनर्चयित्वा मूढात्मा भुक्त्वा सुष्वाप दुर्मदः ।। ६८ ।।

जन्मांतरे स नृपतिर्विदर्भक्षितिपोऽभवत् ।।

शिवार्चनांतरायेण परैर्भोगांतरे हतः ।। ६९ ।।

तत्पुत्रो यः पूर्वभवे सोस्मिञ्जन्मनि तत्सुतः ।।

भूत्वा दारिद्र्यमापन्नः शिवपूजाव्यतिक्रमात् ।। ३.३.६.७० ।।

अस्य माता पूर्वभवे सपत्नीं छद्मनाहनत् ।।

तेन पापेन महता ग्राहेणास्मिन्भवे हता ।। ७१ ।।

एषा प्रवृत्तिरेतेषां भवत्यै समुदाहृता ।।

अनर्चितशिवा मर्त्याः प्राप्नुवंति दरिद्रताम् ।। ।। ७२ ।।

सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि ।।

संसारमुल्बणमसारमवाप्य जंतोः सारो यमीश्वरपदांबुरुहस्य सेवा ।। ७३ ।।

ये नार्चयंति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमंति चान्ये ।।

एतत्कथां श्रुतिपुटैर्न पिबंति मूढास्ते जन्मजन्मसु भवंति नरा दरिद्राः ।। ७४ ।।

ये वै प्रदोषसमये परमेश्वरस्य कुर्वंत्यनन्यमनसोंऽघ्रिसरोजपूजाम् ।।

नित्यं प्रवृद्धधन धान्यकलत्रपुत्रसौभाग्यसंपदधिकास्त इहैव लोके ।। ७५ ।।

कैलासशैलभवने त्रिजगजनित्रीं गौरीं निवेश्य कनकांचितरत्नपीठे ।।

नृत्यं विधातु मभिवाञ्छति शूलपाणौ देवाः प्रदोषसमयेऽनुभजंति सर्वे ।। ७६ ।।

वाग्देवी धृतवल्लकी शतमखो वेणुं दधत्पद्मजस्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता ।।

विष्णुः सांद्रमृदंगवादनपटुर्देवाः समंतात्स्थिताः सेवंते तमनु प्रदोषसमये देवं मृडानीपतिम् ।। ७७ ।।

गंधर्वयक्षपतगोरगसिद्ध साध्या विद्याधरामरवराप्सरसां गणाश्च ।।

येऽन्ये त्रिलोकनिलयाः सह भूतवर्गाः प्राप्ते प्रदोषसमये हरपार्थसंस्थाः ।। ७८ ।।

अतः प्रदोषे शिव एक एव पूज्योऽथ नान्ये हरिपद्मजाद्याः ।।

तस्मिन्महेशे विधिनेज्यमाने सर्वे प्रसीदंति सुराधिनाथाः ।। ७९ ।।

एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः ।।

प्रतिग्रहैर्वयो निन्ये न यज्ञाद्यैः सुकर्मभिः।।३.३.६.८०।।

अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि।।

तद्दोष परिहारार्थं शरणं यातु शंकरम् ।। ८१ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे प्रदोषमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ।। ६ ।। ।। छ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 7

।। सूत उवाच ।। ।।

इत्युक्ता मुनिना साध्वी सा विप्रवनिता पुनः ।।

तं प्रणम्याथ पप्रच्छ शिवपूजाविधेः क्रमम् ।। १ ।।

।। शांडिल्य उवाच ।। ।।

पक्षद्वये त्रयोदश्यां निराहारो भवेद्यदा ।।

घटीत्रयादस्तमयात्पूर्वं स्नानं समाचरेत् ।। २ ।।

शुक्लांबरधरो धीरो वाग्यतो नियमान्वितः।।

कृतसंध्याजपविधिः शिवपूजां समारभेत् ।। ३ ।।

देवस्य पुरतः सम्यगुपलिप्य नवांभसा ।।

विधाय मंडलं रम्यं धौतवस्त्रादिभिर्बुधः ।। ४।।

वितानाद्यैरलंकृत्य फलपुष्पनवांकुरैः ।।

विचित्रपद्ममुद्धृत्य वर्णपंचकसंयुतम् ।। ५ ।।

तत्रोपविश्य सुशुभे भक्तियुक्तः स्थिरासने ।।

सम्यक्संपादिताशेष पूजोपकरणः शुचिः ।। ६ ।।

आगमोक्तेन मंत्रेण पीठमामंत्रयेत्सुधीः ।।

ततः कृत्वात्मशुद्धिं च भूतशुद्ध्यादिकं क्रमात् ।। ७ ।।

प्राणायामत्रयं कृत्वा बीजवर्णैः सबिंदुकैः ।।

मातृका न्यस्य विधिवद्ध्यात्वा तां देवतां पराम् ।। ८ ।।

समाप्य मातृका भूयो ध्यात्वा चैव परं शिवम् ।।

वामभागे गुरुं नत्वा दक्षिणे गणपं नमेत् ।। ९ ।।

अंसोरुयुग्मे धर्मादीन्न्यस्य नाभौ च पार्श्वयोः ।।

अधर्मादीननंतादीन्हृदि पीठे मनुं न्यसेत् ।। ।। 3.3.7.१० ।।

आधारशक्तिमारभ्य ज्ञानात्मानमनुक्रमात् ।।

उक्तक्रमेण विन्यस्य हृत्पद्मे साधुभाविते ।। ११ ।।

नवशक्तिमये रम्ये ध्यायेद्देवमुमापतिम्।।

चन्द्रकोटिप्रतीकाशं त्रिनेत्रं चन्द्रशेखरम् ।। १२ ।।

आपिंगलजटाजूटं रत्नमौलिविराजितम् ।।

नीलग्रीवमुदारांगं नागहारोपशोभितम् ।। १३ ।।

वरदाभयहस्तं च धारिणं च परश्वधम् ।।

दधानं नागवलयकेयूरांगदमुद्रिकम् ।। १४ ।।

व्याघ्रचर्मपरीधानं रत्नसिंहासने स्थितम् ।।

ध्यात्वा तद्वाम भागे च चिंतयेद्गिरिकन्यकाम् ।। १५ ।।

भास्वज्जपाप्रसूनाभामुदयार्कसमप्रभाम् ।।

विद्युत्पुंजनिभां तन्वीं मनोनयननंदिनीम् ।। १६ ।।

बालेंदु शेखरां स्निग्धां नीलकुंचितकुन्तलाम् ।।

भृंगसंघातरुचिरां नीलालकविराजिताम् ।। १७ ।।

मणिकुंडलविद्योतन्मुखमंडलविभ्रमाम् ।।

नवकुम्कुमपंकांक कपोलदलदर्पणाम् ।।१८।।

मधुरस्मितविभ्राजदरुणाधरपल्लवाम् ।।

कंबुकंठीं शिवामुद्यत्कुचपंकजकुड्मलाम् ।। १९ ।।

पाशांकुशाभयाभीष्टविल सत्सु चतुर्भुजाम् ।।

अनेकरत्नविलसत्कंकणांकितमुद्रिकाम् ।। 3.3.7.२० ।।

वलित्रयेण विलसद्धेमकांचीगुणान्विताम् ।।

रक्तमाल्यांबरधरां दिव्यचंदनच र्चिताम् ।। २१ ।।

दिक्पालवनितामौलिसन्नतांघ्रिसरोरुहाम् ।।

रत्नसिंहासनारूढां सर्पराजपरिच्छदाम् ।। २१ ।।

एवं ध्यात्वा महादेवं देवीं च गिरि कन्यकाम् ।।

न्यासक्रमेण संपूज्य देवं गंधादिभिः क्रमात् ।। २३ ।।

पंचभिर्ब्रह्मभिः कुर्यात्प्रोक्तस्थानेषु वा हृदि ।।

पृथक्पुष्पांजलिं देहे मूलेन च हदि त्रिधा ।। २४ ।।

पुनः स्वयं शिवो भूत्वा मूलमंत्रेण साधकः ।।

ततः संपूजयेद्देवं बाह्यपीठे पुनः क्रमात् ।। २५ ।।

संकल्पं प्रवदेत्तत्र पूजारंभे समाहितः ।।

कृतांजलिपुटो भूत्वा चिंतयेद्धृदि शंकरम् ।। २६ ।।

ऋणपातकदौर्भाग्यदारिद्र्यविनिवृत्तये ।।

अशेषाघविनाशाय प्रसीद मम शंकर ।। २७ ।।

दुःखशोकाग्निसंतप्तं संसारभयपीडितम् ।।

बहुरोगाकुलं दीनं त्राहि मां वृषवाहन ।। २८ ।।

आगच्छ देवदेवेश महादेवाभयंकर ।।

गृहाण सह पार्वत्या तव पूजां मया कृताम् ।। २९।।

इति संकल्प्य विधिवद्ब्राह्मपूजां समाचरेत् ।।

गुरुं गणपतिं चैव यजेत्सव्यापसव्ययोः ।। 3.3.7.३० ।।

क्षेत्रेशमीशकोणे तु यजेद्वास्तोष्पतिं क्रमात् ।।

वाग्देवीं च यजेत्तत्र ततः कात्यायनीं यजेत् ।। ३१ ।।

धर्मं ज्ञानं च वैराग्यमैश्वर्यं च नमोंऽतकैः ।।

स्वरैरीशादिकोणेषु पीठपादाननुक्रमात् ।।

आभ्यां बिंदुविसर्गाभ्यामधर्मादीन्प्रपूजयेत् ।। ३२ ।।

सत्त्वरूपैश्चतुर्दिक्षु मध्येऽनंतं सतारकम् ।।

सत्त्वादींस्त्रिगुणांस्तं तु रूपान्पीठेषु विन्यसेत् ।। ३३ ।।

अत ऊर्ध्वच्छदे मायां सह लक्ष्म्या शिवेन च ।। ३४ ।।

तदंते चांबुजं भूयः सकलं मंडलत्रयम् ।।

पत्रकेसरकिंजल्कव्याप्तं ताराक्षरैः क्रमात् ।। ३५ ।।

पद्मत्रयं तथाभ्यर्च्य मध्ये मंडलमादरात् ।।

वामां ज्येष्ठां च रौद्रीं च भागाद्यैर्दिक्षु पूजयेत् ।। ।। ३६ ।।

वामाद्या नव शक्तीश्च नवस्वरयुता यजेत् ।।

हृदि बीजत्रयाद्येन पीठमंत्रेण चार्चयेत् ।।३७।।

आवृत्तैः प्रथमांगैश्च पंचभिर्मूर्त्तिशक्तिभिः ।।

त्रिशक्तिमूर्त्तिभिश्चान्यैर्निधिद्वयसमन्वितैः ।। ३८ ।।

अनंताद्यैः परीताश्च मातृभिश्च वृषादिभिः ।।

सिद्धिभिश्चाणिमाद्याभिरिंद्राद्यैश्च सहायुधैः ।। ।। ३९ ।।

वृषभक्षेत्रचंडेशदुर्गाश्च स्कंदनंदिनौ ।।

गणेशः सैन्यपश्चैव स्वस्वलक्षणलक्षिताः ।। 3.3.7.४० ।।

अणिमा महिमा चैव गरिमा लघिमा तथा ।।

ईशित्वं च वशित्वं च प्राप्तिः प्राकाम्यमेव च ।। ४१ ।।

अष्टैश्वर्याणि चोक्तानि तेजोरूपाणि केवलम् ।।

पंचभिर्ब्रह्मभिः पूर्वं हृल्लेखाद्यादिभिः क्रमात ।। ४२ ।।

अंगैरुमाद्यैरिंद्राद्यैः पूजोक्ता मुनिभिस्तु तैः ।।

उमाचंडेश्वरादींश्च पूजयेदुत्तरादितः ।। ४३ ।।

एवमावरणैर्युक्तं तेजोरूपं सदाशिवम् ।।

उमया सहितं देवमुपचारैः प्रपूजयेत् ।। ४४ ।।

सुप्रतिष्ठितशंखस्य तीर्थैः पंचामृतैरपि ।।

अभिषिच्य महादेवं रुद्रसूक्तैः समाहितः ।। ४५ ।।

कल्पयेद्विविधैर्मंत्रैरासनाद्युपचारकान्।।

आसनं कल्पयेद्धैमं दिव्यवस्त्रसमन्वितम् ।। ४६ ।।

अर्घ्यमष्टगुणोपेतं पाद्यशुद्धोदकेन च ।।

तेनैवाचमनं दद्यान्मधुपर्कं मधूत्तरम् ।। ४७ ।।

पुनराचमनं दत्त्वा स्नानं मंत्रै प्रकल्पयेत् ।।

उपवीतं तथा वासो भूषणानि निवेदयेत् ।।

गंधमष्टांगसंयुक्तं सुपूतं विनिवेदयेत् ।। ।। ४८ ।।

ततश्च बिल्वमंदारकह्लारसरसीरुहम् ।।

धत्तूरकं कर्णिकारं शणपुष्पं च मल्लिकाम् ।। ४९ ।।

कुशापामार्गतुलसीमाधवीचंपकादिकम् ।।

बृहतीकरवीराणि यथालब्धानि साधकः ।। 3.3.7.५० ।।

निवेदयेत्सुगंधीनि माल्यानि विविधानि च ।।

धूपं कालागरूत्पन्नं दीपं च विमलं शुभम् ।। ।।५१।।

विशेषकम् ।।

अथ पायसनैवेद्यं सघृतं सोपदंशकम् ।।

मोदकापूपसंयुक्तं शर्करागुडसंयुतम् ।। ५२ ।।

मधुनाक्तं दधियुतं जलपानसमन्वितम् ।।

तेनैव हविषा वह्नौ जुहुयान्मंत्रभाविते ।। ५३ ।।

आगमोक्तेन विधिना गुरुवाक्यनियंत्रितः ।।

नैवेद्यं शंभवे भूयो दत्त्वा तांबूलमुत्तमम् ।। ५४ ।।।

धूपं नीराजनं रम्यं छत्रं दर्पणमुत्तमम् ।।

समर्पयित्वा विधिवन्मंत्रैर्वेदिकतांत्रिकैः ।। ५५ ।।

यद्यशक्तः स्वयं निःस्वो यथाविभवमर्चयेत् ।।

भक्त्त्या दत्तेन गौरीशः पुष्पमात्रेण तुष्यति ।। ५६ ।।

अथांगभूतान्सकलान्गणेशादीन्प्रपूजयेत् ।।

स्तवैर्नानाविधैः स्तुत्वा साष्टांगं प्रणमेद्बुधः ।। ५७ ।।

ततः प्रदक्षिणीकृत्य वृषचंडेश्वरादिकान् ।।

पूजां समर्प्य विधिवत्प्रार्थयेद्गिरिजापतिम् ।। ५८ ।।

जय देव जगन्नाथ जय शंकर शाश्वत ।।

जय सर्व सुराध्यक्ष जय सर्वसुरार्चित ।। ५९ ।।

जय सर्वगुणातीत जय सर्ववरप्रद ।।

जय नित्य निराधार जय विश्वंभराव्यय ।। 3.3.7.६० ।।

जय विश्वैकवेद्येश जय नागेंद्रभूषण ।।

जय गौरीपते शंभो जय चंद्रार्धशेखर ।। ६१ ।।

जय कोट्यर्कसंकाश जयानंतगुणाश्रय ।। ६२ ।।

जय रुद्र विरूपाक्ष जयाचिंत्य निरंजन ।।

जय नाथ कृपासिंधो जय भक्तार्तिभञ्जन ।।

जय दुस्तरसंसारसागरोत्तारण प्रभो ।। ६३ ।।

प्रसीद मे महादेव संसारार्त्तस्य खिद्यतः ।।

सर्वपापभयं हृत्वा रक्ष मां परमेश्वर ।। ६४ ।।

महादारिद्र्यमग्नस्य महापापहतस्य च ।।

महाशोकविनष्टस्य महारोगातुरस्य च ।। ६५ ।।

ऋणभारपरीतस्य दह्यमानस्य कर्मभिः ।।

ग्रहैः प्रपीड्यमानस्य प्रसीद मम शंकर ।। ६६ ।।

दरिद्रः प्रार्थयेदेवं पूजांते गिरिजापतिम् ।।

अर्थाढ्यो वापि राजा वा प्रार्थयेद्देवमीश्वरम् ।। ६७ ।।

दीर्घमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः ।।

ममास्तु नित्यमानन्दः प्रसादात्तव शंकर ।। ६८ ।।

शत्रवः संक्षयं यांतु प्रसीदन्तु मम ग्रहाः ।।

नश्यन्तु दस्यवो राष्ट्रे जनाः संतु निरापदः ।। ६९ ।।

दुर्भिक्षमारीसंतापाः शमं यांतु महीतले ।।

सर्वसस्यसमृद्धिश्च भूयात्सुखमया दिशः ।। 3.3.7.७० ।।

एवमाराधयेद्देवं प्रदोषे गिरिजापतिम् ।।

ब्राह्मणान्भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत् ।। ७१ ।।

सर्वपापक्षयकरी सर्वदारिद्र्यनाशिनी ।।

शिवपूजा मया ख्याता सर्वाभीष्टवरप्रदा ।। ७२ ।।

महापातकसंघातमधिकं चोपपातकम् ।।

शिवद्रव्यापहरणादन्यत्सर्वं निवारयेत् ।। ७३ ।।

ब्रह्महत्यादिपापानां पुराणेषु स्मृतिष्वपि ।।

प्रायश्चित्तानि दृष्टानि न शिवद्रव्यहारिणाम् ।। ७४ ।।

बहुनात्र किमुक्तेन श्लोकार्धेन ब्रवीम्यहम् ।।

ब्रह्महत्याशतं वापि शिवपूजा विनाशयेत् ।। ७५ ।।

मया कथितमेतत्ते प्रदोषे शिवपूजनम् ।।

रहस्यं सर्वजंतूनामत्र नास्त्येव संशयः ।। ७६ ।।

एताभ्यामपि बालाभ्यामेवं पूजा विधीयताम् ।।

अतः संवत्सरादेव परां सिद्धिमवाप्स्यथ ।। ७७ ।।

इति शांडिल्यवचनमाकर्ण्य द्विजभामिनी ।।

ताभ्यां तु सह बालाभ्यां प्रणनाम मुनेः पदम् ।। ७८ ।। ।।

।। विप्रस्त्र्युवाच ।। ।।

अहमद्य कृतार्थास्मि तव दर्शनमात्रतः ।।

एतौ कुमारौ भगवंस्त्वामेव शरणं गतौ ।। ७९ ।।

एष मे तनयो ब्रह्मञ्छुचिव्रत इतीरितः ।।

एष राजसुतो नाम्ना धर्मगुप्तः कृतो मया ।। 3.3.7.८० ।।

एतावहं च भगवन्भवच्चरणकिंकराः ।।

समुद्धरास्मिन्पतितान्घोरे दारिद्र्यसागरे ।। ८१ ।।

इति प्रपन्नां शरणं द्विजांगनामाश्वास्य वाक्यैरमृतोपमानैः ।।

उपादिदेशाथ तयोः कुमारयोर्मुनिः शिवाराधनमंत्र विद्याम् ।। ८२ ।।

अथोपदिष्टौ मुनिना कुमारौ ब्राह्मणी च सा ।।

तं प्रणम्य समामंत्र्य जग्मुस्ते शिवमंदिरात् ।। ८३ ।।

ततः प्रभृति तौ बालौ मुनिवर्योपदेशतः ।।

प्रदोषे पार्वतीशस्य पूजां चक्रतुरंजसा ।। ८४ ।।

एवं पूजयतोर्देवं द्विजराजकुमारयोः ।।

सुखेनैव व्यतीयाय तयोर्मासचतुष्टयम् ।। ८५ ।।

कदाचिद्राजपुत्रेण विनासौ द्विजनंदनः ।।

स्नातुं गतो नदीतीरे चचार बहुलीलया ।। ८६ ।।

तत्र निर्झरनिर्घातनिर्भिन्ने वप्र कुट्टिमे ।।

निधानकलशं स्थूलं प्रस्फुरंतं ददर्श ह ।। ८७ ।।

तं दृष्ट्वा सहसागत्य हर्षकौतुकविह्वलः ।।

दैवोपपन्नं मन्वानो गृहीत्वा शिरसा ययौ ।। ।। ८८ ।।

ससंभ्रमं समानीय निधाय कलशं बलात् ।।

निधाय भवनस्यांते मातरं समभाषत ।। ८९ ।।

मातर्मातरिमं पश्य प्रसादं गिरिजापतेः ।।

निधानं कुम्भरूपेण दर्शितं करुणात्मना ।। 3.3.7.९० ।।

अथ सा विस्मिता साध्वी समाहूय नृपात्मजम् ।।

स्वपुत्रं प्रतिनंद्याह मानयन्ती शिवार्चनम् ।। ।। ९१ ।।

शृणुतां मे वचः पुत्रौ निधानकलशीमिमाम् ।।

समं विभज्य गृह्णीतं मम शासनगौरवात् ।। ९२ ।।

इति मातुर्वचः श्रुत्वा तुतोष द्विज नंदनः ।।

प्रत्याह राजपुत्रस्तां विस्रब्धः शंकरार्चने ।। ९३ ।।

मातस्तव सुतस्यैव सुकृतेन समागतम् ।।

नाहं ग्रहीतुमिच्छामि विभक्तं धनसंच यम् ।। ९४ ।।

आत्मनः सुकृताल्लब्धं स्वयमेव भुनक्त्वसौ ।।

स एव भगवानीशः करिष्यति कृपां मयि ।। ९५ ।।

एवमर्चयतोः शंभुं भूयोपि परया मुदा ।।

संवत्सरो व्यतीयाय तस्मिन्नेव गृहे तयोः ।। ९६ ।।

अथैकदा राजसूनुः सह तेन द्विजन्मना ।।

वसंतसमये प्राप्ते विजहार वनां तरे ।। ९७ ।।

अथ दूरं गतौ क्वापि वने द्विजनृपात्मजौ ।।

गन्धर्वकन्याः क्रीडंती शतशस्तावपश्यताम् ।। ९८ ।।

ताः सर्वाश्चारुसर्वांग्यो विहरंत्यो मनोहरम् ॥

दृष्ट्वा द्विजात्मजो दूरादुवाच नृपनंदनम् ॥ ९९ ॥

इतः पुरो न गंतव्यं विहरंत्यग्रतः स्त्रियः॥

स्त्रीसंन्निधानं विबुधास्त्यजंति विमलाशयाः॥ 3.3.7.१०० ॥

एताः कैतवकारिण्यो धनयौवनदुर्मदाः ।

मोहयन्त्यो जनं दृष्ट्वा वाचानुनयकोविदाः ॥ १ ॥

अतः परित्यजेत्त्स्त्रीणां सन्निधिं सहभाषणम् ।

निज़धर्मरतो विद्वन्ब्रह्मचारी विशेषतः ॥ ३॥

अतोहं नोत्सहे गन्तुं क्रीडास्थानं मृगीदृशाम् ॥

इत्युक्त्वा द्विजपुत्रस्तु निवृत्तो दूरतः स्थितः ॥ ३ ॥

अथासौ राजपुत्रस्तु कौतुकाविष्टमानसः ॥

तासां विहारपदवीमेक एवाभयो ययौ ॥ १ ॥

तत्र गंधर्वकन्यानां मध्ये त्वेका वरानना ॥

दृष्ट्वाऽऽयांतं राजपुत्रं चिंतयामास चेतसा ॥ ९ ॥

अहो कोयमुदारांगो युवा सर्वांगसुन्दरः ॥

मत्तमातंग गमनो लावण्यामृतवारिधिः ॥ ६॥

लीलालोलविशालाक्षी मधुरस्मितपेशलः ॥

मदनोपमरूपश्रीः सुकुमारांगलक्षणः ॥ ७॥

इत्याश्चर्ययुता बाला दूराद्दृष्ट्वा नृपात्मजम् ॥

सर्वाः सखीः समालोक्य वचनं चेदमब्रवीत् ॥ ८ ॥

इतो विदूरे हे सख्यो वनमस्त्येकमुत्तमम् ॥

विचित्रचंपकाशोकपुन्नागबकुलैर्युतम् ॥ ९॥

तत्र गत्वा वनं सर्वाः संचीय कुसुमोत्करम् ॥

भवत्यः पुनरायांतु तावत्तिष्ठाम्यहं त्विह ॥ 3.3.7.११० ॥

इत्यादिष्टः सखीवर्गो जगाम विपिनांतरम् ॥

सापि गंधर्वजा तस्थौ न्यस्तदृष्टिर्नृपात्मजे ॥ ११ ॥

तां समालोक्य तन्वंगीं नवयौवनशालिनीम् ॥

बालां स्वरूपसंपत्त्या परैिभूततिलोत्तमाम् ॥ १२ ॥

राजपुत्रः समागम्य कौतुकोत्फुल्ललोचनः ॥

अवाप दैवयोगेन मदनस्य शरव्यथाम् ॥ १३ ॥

गन्धर्वतनया सापि प्राप्ताय नृपसूनवे ॥

उत्थाय तरसा तस्मै प्रददौ पल्लवासनम् ॥ १४ ॥

कृतोपचारमासीनं तमासाद्य सुमध्यमा ॥

पप्रच्छ तद्रूपगुणैर्ध्वस्तधैर्याकुलेंद्रिया ॥ १९ ।

कस्त्वं कमलपत्राक्ष कस्माद्देशादिहागतः ॥

कस्य पुत्र इति प्रेम्णा पृष्टः सर्वं न्यवेदयत् ॥ १६ ॥

विदर्भ राजतनयं विध्वस्तपितृमातृकम् ॥

शत्रुभिश्च हृतस्थानमात्मानं परराष्ट्रगम् ॥ १७ ॥

सर्वमावेद्य भूयस्तां पप्रच्छ नृपनंदनः ॥

का त्वं वामोरु किं चात्र कार्यं ते कस्य चात्मजा ॥ १८ ॥

किमवध्यायसि हृदा किं वा वक्तुमिहेच्छसि ॥

इत्युक्ता सा पुनः प्राह शृणु राजेंद्रसत्तम ॥ १९ ॥

अस्त्येको द्रविकोनाम गंधर्वाणां कुलाग्रणीः ॥

तस्याहमस्मि तनया नाम्ना चांशुमती स्मृता ॥ 3.3.7.१२० ॥

त्वामायांतं विलोक्याहं त्वत्संभाषण लालसा ॥

त्यक्त्वा सखीजनं सर्वमेकैवास्मि महामते ॥ २१ ॥

सर्वसंगीतविद्यासु न मत्तोऽन्यास्ति काचन ॥

मम योगेन तुष्यंति सर्वा अपि सुरस्त्रियः ॥ २२ ॥

साहं सर्वकलाभिज्ञा ज्ञातसर्वजनेंगिता ॥

तवाहमीप्सितं वेद्मि मयि ते संगतं मनः ॥ २३ ॥

तथा ममापि चौत्सुक्यं दैवेन प्रतिपादितम्।।

आवयोः स्नेहभेदोऽत्र नाभिभूयादितः परम् ।। २४ ।।

इति संभाष्य तेनाशु प्रेम्णा गन्धर्वनंदिनी ।।

मुक्ताहारं ददौ तस्मै स्वकुचांतरभूषणम्।। २५ ।।

तमादायाद्भुतं हारं स तस्याः प्रणयाकुलः ।।

गाढहर्षभरोत्सिक्तामिदमाह नृपात्मजः ।। २६ ।।

सत्यमुक्तं त्वया भीरु तथाप्येकं वदाम्यहम् ।।

त्यक्तराज्यस्य निःस्वस्य कथं मे भवसि प्रिया ।। २७ ।।

सा त्वं पितृमती बाला विलंघ्य पितृशासनम् ।।

स्वच्छंदा चरणं कर्तुं मूढेव कथमर्हसि ।। २८ ।।

इति तस्य वचः श्रुत्वा तं प्रत्याह शुचिस्मिता ।।

अस्तु नाम तथैवाहं करिष्ये पश्य कौतुकम् ।। २९ ।।

गच्छ स्वभवनं कांत परश्वः प्रातरेव तु ।।

आगच्छ पुनरत्रैव कार्यमस्ति च नो मृषा ।। 3.3.7.१३० ।।

इत्युक्त्वा तं नृपसुतं सा संगतसखीजना ।।

अपाक्रामत चार्वंगी स चापि नृपनन्दनः ।। ३१ ।।

स समभ्येत्य हर्षेण द्विजपुत्रस्य सन्निधिम् ।।

सर्वमाख्याय तेनैव सार्धं स्वभवनं ययौ ।। ।। ३२ ।।

तां च विप्रसतीं भूयो हर्षयित्वा नृपात्मजः ।।

परश्वो द्विजपुत्रेण सार्धं तेन वनं ययौ ।। ३३ ।।

स तया पूर्वनिर्दिष्टं स्थानं प्राप्य नृपात्मजः ।।

गन्धर्वराजमद्राक्षीत्स्वदुहित्रा समन्वितम् ।। ३४ ।।

स गंधर्वपतिः प्राप्तावभिनंद्य कुमारकौ ।।

उपवेश्यासने रम्ये राजपुत्रमभाषत ।। ।। ३५ ।।

।। गंधर्व उवाच ।। ।।

राजेंद्रपुत्र पूर्वेद्युः कैलासं गतवानहम् ।।

तत्रापश्यं महादेवं पार्वत्या सहितं प्रभुम् ।। ३६ ।।

आहूय मां स देवेशः सर्वेषां त्रिदिवौकसाम् ।।

सन्निधावाह भगवान्करुणामृतवारिधिः । ३७ ।।

धर्मगुप्ताह्वयः कश्चिद्राजपुत्रोऽस्ति भूतले ।।

अकिञ्चनो भ्रष्टराज्यो हृतदेशश्च शत्रुभिः ।। ३८ ।।

स बालो गुरुवाक्येन मदर्च्चायां रतः सदा ।।

अद्य तत्पितरः सर्वे मां प्राप्तास्तत्प्रभावतः ।। ३९ ।।

तस्य त्वमपि साहाय्यं कुरु गन्धर्वसत्तम ।।

अथासौ निजराज्यस्थो हतशत्रुर्भविष्यति ।। 3.3.7.१४० ।।

इत्याज्ञप्तो महेशेन संप्राप्तो निजमदिरम् ।।

अनया मद्दुहित्रा च बहुशोऽभ्यर्थितस्तथा ।। ४१ ।।

ज्ञात्वेमं सकलं शंभोर्नियोगं करुणात्मनः ।।

आदायेमां दुहितरं प्राप्तोऽस्मीदं वनांतरम् ।।४२।।

अत एनां प्रयच्छामि कन्यामंशुमतीं तव ।।

हत्वा शत्रून्स्वराष्टे त्वां स्थापयामि शिवाज्ञया ।। ४३ ।।

तस्मिन्पुरे त्वमनया भुक्त्वा भोगान्यथेप्सितान्।।

दशवर्षसहस्रान्ते गन्तासि गिरिशालयम् ।।

तत्रापि मम कन्येयं त्वामेव प्रतिपत्स्यते ।।

अनेनैव स्वदेहेन दिव्येन शिवसन्निधौ ।। ४५ ।।

इति गन्धर्वराजस्तमाभाष्य नृपनन्दनम् ।।

तस्मिन्वने स्वदुहितुः पाणिग्रहमकारयत् ।। ४६ ।।

पारिबर्हमदात्तस्मै रत्नभारान्महोज्ज्वलान् ।।

चूडामणिं चन्द्रनिभं मुक्ताहारांश्च भासुरान्।।४७।।

दिव्यालंकारवासांसि कार्त्तस्वरपरिच्छदान् ।।

गजानामयुतं भूयो नियुतं नीलवाजिनाम्।।४८।।

स्यन्दनानां सहस्राणि सौवर्णानि महांति च ।।

पुनरेकं रथं दिव्यं धनुश्चेन्द्रायुधोपमम् ।। ४९ ।।

अस्त्राणां च सहस्राणि तूणी चाक्षय्यसायकौ ।।

अभेद्यं वर्म सौवर्णं शक्तिं च रिपुमर्दिनीम् ।। 3.3.7.१५० ।।

दुहितुः परिचर्यार्थं दासीपञ्चसहस्रकम् ।।

ददौ प्रीतमनास्तस्मै धनानि विविधानि च ।। ।। ५१ ।।

गंधर्वसैन्यमत्युग्रं चतुरंगसममन्वितम् ।।

पुनश्च तत्सहायार्थे गन्धर्वाधिपतिर्ददौ ।। ५२ ।।

इत्थं राजेन्द्रतनयः संप्राप्तः श्रियमुत्तमाम् ।।

अभीष्टजायासहितो मुमुदे निजसंपदा ।। ५३ ।।

कारयित्वा स्वदुहितुर्विवाहं समयोचितम् ।।

ययौ विमानमारुह्य गंधर्वाधिपतिर्दिवम् ।। ५४ ।।

धर्मगुप्तः कृतोद्वाहः सह गंधर्वसेनया ।।

पुनः स्वनगरं प्राप्य जघान रिपुवाहिनीम् ।। ५५ ।।

दुर्धर्षणं रणे हत्वा शक्त्या गंधर्वसेनया ।।

निः शेषितारातिबलः प्रविवेश निजं पुरम् ।। ५६ ।।

ततोभिषिक्तः सचिवैर्ब्राह्मणैश्च महोत्तमैः ।।

रत्नसिंहासनारूढश्चक्रे राज्यमकण्टकम् ।। ५७ ।।

या विप्रवनिता पूर्वं तमपुष्णात्स्वपुत्रवत् ।।

सैव माताभवत्तस्य स भ्राता द्विजनन्दनः ।। ५८ ।।

गंधर्वतनया जाया विदर्भनगरेश्वरः ।।

आराध्य देवं गिरिशं धर्मगुप्तो नृपोऽभवत् ।। ५९ ।।

एवमन्ये समाराध्य प्रदोषे गिरिजापतिम् ।।

लभंतेभीप्सितान्कामान्देहांते तु परां गतिम् ।। 3.3.7.१६० ।।

।। सूत उवाच ।। ।।

एतन्महाव्रतं पुण्यं प्रदोषे शंकरार्चनम् ।।

धर्मार्थकाममोक्षाणां यदेतत्साधनं परम् ।। ६१ ।।

य एतच्छृणुयात्पुण्यं माहात्म्यं परमाद्भुतम् ।।

प्रदोषे शिवपूजांते कथयेद्वा समाहितः ।। ६२ ।।

भवेन्न तस्य दारिद्र्यं जन्मान्तरशतेष्वपि ।।

ज्ञानैश्वर्यसमायुक्तः सोन्ते शिवपुरं व्रजेत् ।। ६३ ।।

ये प्राप्य दुर्लभतरं मनुजाः शरीरं कुर्वंति हंत परमेश्वरपादपूजाम् ।।

धन्यास्त एव निजपुण्यजितत्रिलोकास्तेषां पदांबुजरजो भुवनं पुनाति ।। १६४ ।। ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे प्रदोषमहिमावर्णनं नाम सप्तमो ऽध्यायः ।। ७ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 8

।। सूत उवाच ।। ।।

नित्यानंदमयं शांतं निर्विकल्पं निरामयम् ।।

शिवतत्त्वमनाद्यंतं ये विदुस्ते परं गताः ।। १ ।।

विरक्ताः कामभोगेभ्यो ये प्रकुर्वंत्यहैतुकीम् ।।

भक्तिं परां शिवे धीरास्तेषां मुक्तिर्न संसृतिः ।।२।।

विषयानभिसंधाय ये कुर्वंति शिवे रतिम् ।।

विषयैर्नाभिभूयंते भुंजानास्तत्फलान्यपि ।। ३ ।।

येन केनापि भावेन शिवभक्तियुतो नरः ।।

न विनश्यति कालेन स याति परमां गतिम् ।। ४ ।।

आरुरुक्षुः परं स्थानं विषयासक्तमानसः ।।

पूजयेत्कर्मणा शंभुं भोगांते शिवमाप्नुयात् ।। ५ ।।

अशक्तः कश्चिदुत्स्रष्टुं प्रायो विषयवासनाम् ।।

अतः कर्ममयी पूजा कामधेनुः शरीरिणाम् ।।६।।

मायामयेपि संसारे ये विहृत्य चिरं सुखम् ।।

मुक्तिमिच्छन्ति देहांते तेषां धर्मोयमीरितः ।। ७।।

शिवपूजा सदा लोके हेतुः स्वर्गापवर्गयोः ।।

सोमवारे विशेषेण प्रदोषादिगुणान्विते ।। ८ ।।

केवलेनापि ये कुर्युः सोमवारे शिवार्चनम् ।।

न तेषां विद्यते किंचिदिहामुत्र च दुर्लभम् ।। ९ ।।

उपोषितः शुचिर्भूत्वा सोमवारे जितेंद्रियः ।।

वैदिकैर्लौकिकैर्वापि विधिवत्पूजयेच्छिवम् ।।3.3.8.१०।।

ब्रह्मचारी गृहस्थो वा कन्या वापि सभर्त्तृका।।

विभर्तृका वा संपूज्य लभते वरमीप्सितम्।।११।।

अत्राहं कथयिष्यामि कथां श्रोतृमनोहराम्।।

श्रुत्वा मुक्तिं प्रयांत्येव भर्तिर्भवति शांभवी।।१२।।

आर्यावर्ते नृपः कश्चिदासीद्धर्मभृतां वरः।।

चित्रवर्मेति विख्यातो धर्मराजो दुरात्मनाम्।। ।। १३ ।।

स गोप्ता धर्मसेतूनां शास्ता दुष्पथगामिनाम् ।।

यष्टा समस्तयज्ञानां त्राता शरणमिच्छताम्।।१४।।

कर्त्ता सकलपुण्यानां दाता सकलसंपदाम् ।।

जेता सपत्नवृंदानां भक्तः शिवमुकुन्दयोः ।। १५ ।।

सोनुकूलासु पत्नीषु लब्ध्वा पुत्रान्महौजसः ।।

चिरेण प्रार्थितां लेभे कन्यामेकां वराननाम् ।। १६ ।।

स लब्ध्वा तनयां दिष्ट्या हिमवानिव पार्वतीम् ।।

आत्मानं देवसदृशं मेने पूर्णमनोरथम् ।। १७ ।।

स एकदा जातकलक्षणज्ञानाहूय साधून्द्विजमुख्यवृंदान् ।।

कुतूहलेनाभिनिविष्टचेताः पप्रच्छ कन्याजनने फलानि ।। १८ ।।

अथ तत्राब्रवीदेको बहुज्ञो द्विजसत्तमः ।।

एषा सीमंतिनी नाम्ना कन्या तव महीपते ।। १९ ।।

उमेव मांगल्यवती दमयंतीव रूपिणी ।।

भारतीव कलाभिज्ञा लक्ष्मीरिव महागुणा ।। ।। 3.3.8.२० ।।

सुप्रजा देवमातेव जानकीव धृतव्रता ।।

रविप्रभेव सत्कांतिश्चंद्रिकेव मनोरमा ।। २१ ।।

दशवर्षसहस्राणि सह भर्त्रा प्रमोदते ।।

प्रसूय तनयानष्टौ परं सुखमवाप्स्यति।। २२ ।।

इत्युक्तवंतं नृपतिर्धनैः संपूज्य तं द्विजम् ।।

अवाप परमां प्रीतिं तद्वागमृतसेवया ।। २३ ।।

अथान्योऽपि द्विजः प्राह धैर्यवानमितद्युतिः ।।

एषा चतुर्दशे वर्षे वैधव्यं प्रतिपत्स्यति ।। २४ ।।

इत्याकर्ण्य वचस्तस्य वज्रनिर्घातनिष्ठुरम् ।।

मुहूर्तमभवद्राजा चिंताव्याकुलमानसः ।। २५ ।।

अथ सर्वान्समुत्सृज्य ब्राह्मणान्ब्रह्मवत्सलः ।।

सर्वं दैवकृतं मत्त्वा निश्चिंतः पार्थिवोऽभवत् ।। २६ ।।

सापि सीमंतिनी बाला क्रमेण गतशैशवा ।।

वैधव्यमात्मनो भावि शुश्रावात्मसखीमुखात् ।। २७ ।।

परं निर्वेदमापन्ना चिंतयामास बालिका ।।

याज्ञवल्क्यमुनेः पत्नीं मैत्रेयीं पर्यपृच्छत।।२८।।

मातस्त्वच्चरणांभोजं प्रपन्नास्मि भयाकुला।।

सौभाग्यवर्धनं कर्म मम शंसितुमर्हसि।।२९।।

इति प्रपन्नां नृपतेः कन्यां प्राह मुनेः सती।।

शरणं व्रज तन्वंगि पार्वतीं शिवसंयुताम्।।3.3.8.३०।।

सोमवारे शिवं गौरीं पूजयस्व समाहिता।।

उपोषिता वा सुस्नाता विरजाम्बरधारिणी ।। ३१ ।।

यतवाङ्निश्चलमनाः पूजां कृत्वा यथोचिताम् ।।

ब्राह्मणान्भोजयित्वाथ शिवं सम्यक्प्रसादयत् ।।३२।।

पापक्षयोऽभिषेकेण साम्राज्यं पीठपूजनात् ।।

सौभाग्यमखिलं सौख्यं गंधमाल्याक्षतार्पणात् ।। ३३ ।।

धूपदानेन सौगंध्यं कांतिर्दीपप्रदानतः ।।

नैवेद्यैश्च महाभोगो लक्ष्मीस्तांबूलदानतः ।। ३४ ।।

धर्मार्थकाममोक्षाश्च नमस्कारप्रदानतः ।।

अष्टैश्वर्यादिसिद्धीनां जप एव हि कारणम् ।। ३५ ।।

होमेन सर्वकामानां समृद्धिरुपजायते ।।

सर्वेषामेव देवानां तुष्टिर्ब्राह्मणभोजनात् ।। ३६ ।।

इत्थमाराधय शिवं सोमवारे शिवामपि ।।

अत्यापदमपि प्राप्ता निस्तीर्णाभिभवा भवेः ।। ३७ ।।

घोराद्घोरं प्रपन्नापि महाक्लेशं भयानकम् ।।

शिवपूजाप्रभावेण तरिष्यसि महद्भयम् ।। ३८ ।।

इत्थं सीमंतिनीं सम्यगनुशास्य पुनः सती ।।

ययौ सापि वरारोहा राजपुत्री तथाऽकरोत् ।। ३९ ।।

दमयंत्यां नलस्यासीदिंद्रसेनाभिधः सुतः ।।

तस्य चंद्रांगदो नाम पुत्रोभू च्चंद्रसन्निभः ।। 3.3.8.४० ।।

चित्रवर्मा नृपश्रेष्ठस्तमाहूय नृपात्मजम् ।।

कन्यां सीमंतिनीं तस्मै प्रायच्छद्गुर्वनुज्ञया ।। ४१ ।।

सोऽभून्महोत्सवस्तत्र तस्या उद्वाहकर्मणि ।।

यत्र सर्वमहीपानां समवायो महानभूत् ।। ४२ ।।

तस्याः पाणिग्रहं काले कृत्वा चंद्रांगदः कृती ।।

उवास कतिचिन्मासांस्तत्रैव श्वशुरालये ।। ४३ ।।

एकदा यमुनां तर्तुं स राजतनयो बली ।।

आरुरोह तरीं कैश्चिद्वयस्यैः सह लीलया ।। ४४ ।।

तस्मिंस्तरति कालिंदीं राजपुत्रे विधेर्वशात् ।।

ममज्ज सह कैवतैरावर्त्ताभिहता तरी ।। ४५ ।।

हा हेति शब्दः सुमहानासीत्तस्यास्तटद्वये ।।

पश्यतां सर्वसैन्यानां प्रलापो दिवम स्पृशत् ।। ४६ ।।

मज्जंतो मम्रिरे केचित्केचिद्ग्राहोदरं गताः ।।

राजपुत्रादयः केचिन्नादृश्यंत महाजले ।। ४७ ।।

तदुपश्रुत्य राजापि चित्रवर्मातिवि ह्वलः ।।

यमुनायास्तटं प्राप्य विचेष्टः समजायत ।।४८।।

श्रुत्वाथ राजपत्न्यश्च वभूबुर्गतचेतनाः ।।

सा च सीमंतिनी श्रुत्वा पपाप डूवि मूर्च्छिता ।। ४९ ।।

तथान्ये मंत्रिमुख्याश्च नायकाः सपुरोहिताः।।

विह्वलाः शोकसंतप्ता विलेपुर्मुक्तमूर्धजाः ।।3.3.8.५०।।

इंद्रसेनोपि राजेद्रः पुत्रवार्त्तां सुदुःखितः।।

आकर्ण्य सह पत्नीभिर्नष्टसंज्ञः पपात ह ।। ५१ ।।

तन्मंत्रिणश्च तत्पौरास्तथा तद्देशवासिनः ।।

आबालवृद्धवनिताश्चुक्रुशुः शोकविह्वलाः ।। ५२ ।।

शोकात्केचिदुरो जघ्नुः शिरो जघ्नुश्च केचन ।।

हा राजपुत्र हा तात क्वासि क्वासीति बभ्रमुः ।।५३।।

एवं शोकाकुलं दीनमिंद्रसेनमहीपतेः ।।

नगरं सहसा क्षुब्धं चित्रवर्मपुरं तथा ।। ५४ ।।

अथ वृद्धैः समाश्वस्तश्चित्रवर्मा महीपतिः ।।

शनैर्नगरमागत्य सान्त्वयामास चात्मजाम् ।। ५५ ।।

स राजांभसिमग्नस्य जामातुस्तस्य बांधवैः ।।

आगतैः कारयामास साकल्यादौर्ध्वदैहिकम् ।।५६।।

सा च सीमंतिनी साध्वी भर्तृलोकमतिः सती ।।

पित्रा निषिद्धा स्नेहेन वैधव्यं प्रत्यपद्यत ।। ५७ ।।

मुनेः पत्न्योऽपदिष्टं यत्सोमवारव्रतं शुभम् ।।

न तत्याज शुभाचारा वैधव्यं प्राप्तवत्यपि ।। ५८ ।।

एवं चतुर्दशे वर्षे दुःखं प्राप्य सुदारुणम् ।।

ध्यायन्ती शिवपादाब्जं वत्सरत्रयमत्यगात् ।। ५९ ।।

पुत्रशोकादिवोन्मत्तमिंद्रसेनं महीपतिम् ।।

प्रसह्य तस्य दायादाः सप्तांगं जह्रुरोजसा ।। 3.3.8.६० ।।

हृतसिंहासनः शूरैर्दायादैः सोऽप्रजो नृपः ।।

निगृह्य काराभवने सपत्नीको निवेशितः ।। ।। ६१ ।।

चंद्रागदोऽपि तत्पुत्रो निमग्नो यमुनाजले ।।

अधोधोमज्जमानोऽसौ ददर्शोरगकामिनीः ।। ६२ ।।

जलक्रीडासु सक्तास्ता दृष्ट्वा राजकुमार कम् ।।

विस्मितास्तमथो निन्युः पातालं पन्नगालयम् ।। ६३ ।।

स नीयमानस्तरसा पन्नगीभिर्नृपात्मजः ।।

तक्षकस्य पुरं रम्यं विवेश परमाद्भुतम् ।। ।। ६४ ।।

सोऽपश्यद्राजतनयो महेंद्रभवनोपमम् ।।

महारत्नपरिभ्राजन्मयूखपरिदीपितम् ।। ६५।।

वज्रवैडूर्यपाचादिप्रासादशतसंकुलम् ।।

माणिक्य गोपुरद्वारं मुक्तादामभिरुज्ज्वलम् ।। ६६ ।।

चंद्रकांतस्थलं रम्यं हेमद्वारकपाटकम् ।।

अनेकशतसाहस्रमणिदीपविराजितम् ।। ६७ ।।

तत्रापश्यत्सभा मध्ये निषण्णं रत्नविष्टरे ।।

तक्षकं पन्नगाधीशं फणानेकशतोज्ज्वलम् ।। ६८ ।।

दिव्यांबरधरं दीप्तं रत्नकुण्डलराजितम् ।।

नानारत्नपरिक्षिप्तमुकुट द्युतिरंजितम् ।। ६९ ।।

फणामणिमयूखाढ्यैरसंख्यैः पन्नगोत्तमैः ।।

उपासितं प्रांजलिभिश्चित्ररत्नविभूषितैः ।। 3.3.8.७० ।।

रूपयौवनमाधुर्यविलासगति शोभिना ।।

नागकन्यासहस्रेण समंतात्परिवारितम् ।। ७१ ।।

दिव्याभरणदीप्तांगं दिव्यचंदनचर्चितम् ।।

कालाग्निमिव दुर्धर्षं तेजसादित्यसन्निभम् ।। ।। ७२ ।।

दृष्ट्वा राजसुतो धीरः प्रणिपत्य सभास्थले ।।

उत्थितः प्रांजलिस्तस्य तेजसाक्षिप्तलोचनः ।। ७३ ।।

नागराजोपि तं दृष्ट्वा राजपुत्रं मनोरमम् ।।

कोऽयं कस्मादिहायात इति पप्रच्छ पन्नगीः ।। ७४ ।।

ता ऊचुर्यमुनातोये दृष्टोऽस्माभिर्यदृच्छया ।।

अज्ञातकुलनामायमानीतस्तव सन्निधिम् ।। ७५ ।।

अथ पृष्टो राजपुत्रस्तक्षकेण महात्मना ।।

कस्यासि तनयः कस्त्वं को देशः कथमागतः ।। ७६ ।।

राजपुत्रो वचः श्रुत्वा तक्षकं वाक्यमब्रवीत् ।। ७७ ।।

।। राजपुत्र उवाच ।। ।।

अस्ति भूमंडले कश्चिद्देशो निषधसंज्ञकः ।।

तस्याधिपोऽभवद्राजा नलो नाम महा यशाः ।।

स पुण्यकीर्तिः क्षितिपो दमयन्तीपतिः शुभः ।। ७८ ।।

तस्मादपींद्रसेनाख्यस्तस्य पुत्रो महाबलः ।।

चंद्रांगदोस्मि नाम्नाहं नवोढः श्वशुरालये ।।

विहरन्यमुनातोये निमग्नो देवचोदितः ।। ७९ ।।

एताभिः पन्नगस्त्रीभिरानीतोस्मि तवांतिकम् ।।

दृष्ट्वाहं तव पादाब्जं पुण्यैर्जन्मांतरार्जितैः ॥ 3.3.8.८० ॥

अद्य धन्योऽस्मि धन्योऽस्मि कृतार्थो पितरौ मम ॥

यत्प्रेक्षितोऽहं कारुण्यात्त्वया संभाषितोपि च ॥ ८१ ॥

॥ सूत उवाच ॥ ॥

इत्युदारमसंभ्रांतं वचः श्रुत्वातिपेशलम् ॥

तक्षकः पुनरौत्सुक्याद्बभाषे राजनंदनम् ॥ ८२ ॥

॥ तक्षक उवाच ॥ ॥

भोभो नरेंद्रदायाद मा भैषीर्धीरतां व्रज ॥

सर्वदेवेषु को देवो युष्माभिः पूज्यते सदा ॥ ८३ ॥

॥ राजपुत्र उवाच ॥ ॥

यो देवः सर्वेदेवेषु महादेवं इति स्मृतः ॥

पूज्यते स हि विश्वात्मा शिवोऽस्माभिरुमापतिः ॥ ८४ ॥

यस्य तेजोंशलेशेन रजसा च प्रजापतिः ॥

कृतरूपोऽसृजद्विश्वं स नः पूज्यो महेश्वरः ॥ ८५ ॥

यस्यांशात्सात्त्विकं दिव्यं बिभ्रद्विष्णुः सनातनः ॥

विश्वं बिभर्त्ति भूतात्मा शिवोऽस्माभिः स पूज्यते ॥ ॥ ८६ ॥

यस्यांशात्तामसाज्जातो रुद्रः कालाग्निसन्निभः ॥

विश्वमेतद्धरत्यंते स पूज्योऽस्माभिरीश्वरः ॥ ८७ ॥

यो विधाता विधातुश्च कारणस्यापि कारणम् ॥

तेजसां परमं तेजः स शिवो नः परा गतिः ॥ ८८ ॥

योंतिकस्थोऽपि दूरस्थः पापोपहृतचेतसाम् ॥

अपरिच्छेद्य धामासौ शिवो नः परमा गतिः ॥ ८९ ॥

योऽग्नौ तिष्ठति यो भूमौ यो वायौ सलिले च यः ॥

य आकाशे च विश्वात्मा स पूज्यो नः सदाशिवः॥ 3.3.8.९० ।

यः साक्षी सर्वभूतानां य आत्मस्थो निरंजनः ॥

यस्येच्छावशगो लोकः सोऽस्माभिः पूज्यते शिवः ॥ ९१ ॥

यमेकमाद्यं पुरुषं पुराणं वदंति भिन्नं गुणवैकृतेन ॥

क्षेत्रज्ञमेकेथ तुरीयमन्ये कूटस्थमन्ये स शिवो गतिर्नः ॥ ९२ ॥

यं नास्पृशंश्चैत्यमचिंत्यतत्त्वं दुरंतधामानमतत्स्वरूपम् ॥

मनोवचोवृत्तय आत्मभाजां स एष पूज्यः परमः शिवो नः ॥ ९३॥

यस्य प्रसादं प्रतिलभ्य संतो वांछंति नैंद्रं पदमुज्ज्वलं वा ॥

निस्तीर्णकर्मार्गलकालचक्राश्चरंत्यभीताः स शिवो गतिर्नः ॥ ९४॥

यस्य स्मृतिः सकलपापरुजां विघातं सद्यः करोत्यपि चु पुल्कसजन्मभाजाम् ॥

यस्य स्वरूपमखिलं श्रुतिभिर्विमृग्यं तस्मै शिवाय सततं करवाम पूजाम् ॥ ९५ ॥

यन्मूर्ध्नि लब्धनिलया सुरलोकसिंधुर्यस्यांगगाँ भगवती जगदंबिका च ॥

यत्कुंडले त्वहह तक्षकवासुकी द्वौ सोऽस्माकमेव गतिरर्धशशांकमौलिः ॥ ९६ ॥

जयति निगमचूडाग्रेषु यस्यांघ्रिपद्मं जयति च हृदि नित्यं योगिनां यस्य मूर्तिः ॥

जयति सकलतत्त्वोद्भासनं यस्य मूर्तिः स विजितगुणसर्गः पूज्यतेऽस्माभिरीशः ॥ ९७ ॥

॥ सूत उवाच ॥ ॥

इत्याकर्ण्य वचस्तस्य तक्षकः प्रीतमानसः ॥

जातभक्तिर्महादेवे राजपुत्रमभाषत ॥ ९८ ॥

॥ तक्षक उवाच ॥ ॥

परितुष्टोऽस्मि भद्रं स्तात्तव राजेद्रनंदन ।।

बालोपि यत्परं तत्त्वं वेत्सि शैवं परात्परम् ।। ९९ ।।

एष रत्नमयो लोक एताश्चारुदृशोऽबलाः ।।

एते कल्पद्रुमाः सर्वे वाप्योमृतरसांभसः ।। 3.3.8.१०० ।।

नात्र मृत्युभयं घोरं न जरारोगपीडनम् ।।

यथेष्टं विहरात्रैव भुंक्ष्व भोगान्यथोचितान् ।। १०१ ।।

इत्युक्तो नागराजेन स राजेंद्रकुमारकः ।।

प्रत्युवाच परं प्रीत्या कृतांजलिरुदारधीः ।। २ ।।

कृतदारोऽस्म्यहं काले सुव्रता गृहिणी मम ।।

शिव पूजापरा नित्यं पितरावेकपुत्रकौ ।। ३ ।।

ते त्वद्य मां मृतं मत्त्वा शोकेन महतावृताः ।।

प्रायः प्राणैर्वियुज्यंते दैवात्प्राणान्वहंति वा ।। ४ ।।

अतो मया बहुतिथं नात्र स्थेयं कथंचन ।।

तमेव लोकं कृपया मां प्रापयितुमर्हसि ।। ५ ।।

इत्युक्तवंतं नरदेवपुत्रं दिव्यैर्वरान्नैः सुरपादपोत्थैः ।।

आप्याययित्वा वरगंधवासः स्रग्रत्नदिव्याभरणैर्विचित्रैः ।। ६ ।।

संतोषयित्वा विविधैश्च भोगैः पुनर्बभाषे भुजगाधिराजः ।।

यदायदा त्वं स्मरसि त्वदग्रे तदा तदाविष्क्रियते मयेति ।। ७ ।।

पुनश्च राजपुत्राय तक्षकोश्वं च कामगम् ।।

नानाद्वीपसमुद्रेषु लोकेषु च निरर्गलम् ।। ८ ।।

दत्तवान्रत्नाभरण दिव्याभरणवाससाम् ।।

वाहनाय ददावेकं राक्षसं पन्नगेश्वरः ।। ९ ।।

तत्सहायार्थमेकं च पन्नगेंद्रकुमारकम् ।।

नियुज्य तक्षकः प्रीत्या गच्छेति विससर्ज तम् ।। 3.3.8.११० ।।

इति चंद्रांगदः सोऽथ संगृह्य विविधं धनम् ।।

अश्वं कामगमारुह्य ताभ्यां सह विनिर्ययौ ।।११।।

स मूहूर्तादिवोन्मज्ज्य तस्मा देव सरिज्जलात् ।।

विजहार तटे रम्ये दिव्यमारुह्य वाजिनम् ।। १२ ।।

अथास्मिन्समये तन्वी सा च सीमंतिनी सती ।।

स्नातुं समाययौ तत्र सखी भिः परिवारिता ।। १३ ।।

सा ददर्श नदीतीरे विहरंतं नृपात्मजम् ।।

रक्षसा नररूपेण नागपुत्रेण चान्वितम् ।। १४ ।।

दिव्यरत्नसमाकीर्णं दिव्य माल्यावतंसकम् ।।

देहेन दिव्यगंधेन व्याक्षिप्तदशयोजनम् ।। १५ ।।

तमपूर्वाकृतिं वीक्ष्य दिव्याश्वमधिसंस्थितम् ।।

जडोन्मत्तेव भीतेव तस्थौ तन्न्यस्तलोचना ।। १६ ।।

तां च राजेंद्रपुत्रोऽसौ दृष्टपूर्वामिति स्मरन् ।।

निर्मुक्तकंठाभरणां कंठसूत्रविवर्जिताम् ।। १७ ।।

असंयोजितधम्मिल्लामंगरागविवर्जिताम् ।।

त्यक्तनीलांजनापांगीं कृशांगीं शोकदूषिताम् ।। १८ ।।

दृष्ट्वाऽवतीर्य तुरगादुपविष्टः सरित्तटे ।।

तामाहूय वरारोहामुपवेश्येदम ब्रवीत् ।। १९ ।।

का त्वं कस्य कलत्रं वा कस्यासि तनया सती ।।

किमिदं तेंगने बाल्ये दुःसहं शोकलक्षणम् ।। 3.3.8.१२० ।।

इति स्नेहेन संपृष्टा सा वधूरश्रुलोचना ।।

लज्जिता स्वयमाख्यातुं तत्सखी सर्वमब्रवीत् ।। २१ ।।

इयं सीमंतिनी नाम्ना स्नुषा निषधभूपतेः ।।

चंद्रांगदस्य महिषी तनया चित्रवर्मणः ।। २२ ।।

अस्याः पतिर्दैवयोगान्निमग्नोऽस्मिन्महाजले ।।

तेनेयं प्राप्तवैधव्या बाला दुःखेन शोषिता ।। २३ ।।

एवं वर्षत्रयं नीतं शोकेनातिबलीयसा ।।

अद्येंदुवारे संप्राप्ते स्नातुमत्र समागता ।। २४ ।।

श्वशुरोऽस्याश्च राजेंद्रो हृतराज्यश्च शत्रु भिः ।।

बलाद्गृहीतो बद्धश्च सभार्यस्तद्वशे स्थितः ।। २५ ।।

तथाप्येषा शुभाचारा सोमवारे महेश्वरम् ।।

सांबिकं परया भक्त्या पूजयत्यमलाशया ।। २६ ।।

।। सूत उवाच ।। ।।

इत्थं सखीमुखेनैव सर्वमावेद्य सुव्रता ।।

ततः सीमंतिनी प्राह स्वयमेव नृपात्मजम् ।। २७ ।।

कस्त्वं कंदर्पसंकाशः काविमौ तव पार्श्वगौ ।।

देवो नरेंद्रः सिद्धो वा गंधर्वो वाथ किन्नरः ।। २८ ।।

किमर्थं मम वृत्तांतं स्नेहवानिव पृच्छसि ।।

किं मां वेत्सि महाबाहो दृष्टवान्किमु कुत्रचित् ।। २९ ।।

दृष्टपूर्व इवाभासि मया च स्वजनो यथा ।।

सर्वं कथय तत्त्वेन सत्यसारा हि साधवः ।। 3.3.8.१३० ।।

।। सूत उवाच ।।

एतावदुक्त्वा नरदेवपुत्री सबाष्पकंठं सुचिरं रुरोद ।।

मुमोह भूमौ पतिता सखीभिर्वृता न किंचित्कथितुं शशाक ।। ३१ ।।

श्रुत्वा चंद्रांगदः सर्वं प्रियायाः शोककारणम् ।।

मुहूर्त्तमभवतूष्णीं स्वयं शोकसमाकुलः ।। ३२ ।।

अथाश्वास्य प्रियां तन्वीं विविधैर्वाक्यनैपुणैः ।।

सिद्धा नाम वयं देवाः कामगा इति सोऽब्रवीत् ।। ३३ ।।

ततो बलादिवाकृष्य पाणिग्रहणशंकिताम् ।।

पुलकांचितसर्वांगीं तां कर्णे त्विदमब्रवीत् ।। ३४ ।।

क्वापि लोके मया दृष्टस्तव भर्त्ता वरानने ।।

त्वद्व्रताचरणात्प्रीतः सद्य एवागमिष्यति ।। ।। ३५ ।।

अपनेष्यति ते शोकं द्वित्रैरेव दिनैर्ध्रुवम् ।।

एतच्छंसितुमायातस्तव भर्त्तुः सखाऽस्म्यहम् ।। ३६ ।।

अत्र कार्यो न संदेहः शपामि शिवपादयोः ।।

तावत्त्वद्धृदये स्थेयं न प्रकाश्यं च कुत्रचित् ।। ३७ ।।

सा तु तद्वचनं श्रुत्वा सुधाधाराशताधिकम् ।।

संभ्रमोद्भ्रांतनयना तमेव मुहुरैक्षत ।। ।। ३८ ।।

प्रेमबंधानुगुणितं वाक्यं चाह रसायनम् ।।

विभ्रमोदारसहितं मधुरापांगवीक्षणम् ।। ३९ ।।

स्वपाणिस्पर्शनोद्भिन्नपुलकांचितविग्रहम्।।

पूर्व दृष्टानि चांगेषु लक्षणानि स्वरादिषु ।।

वयःप्रमाणं वर्णं च परीक्ष्यैनमतर्कयत् ।। 3.3.8.१४० ।।

एष एव पतिर्मे स्याद्ध्रुवं नान्यो भविष्यति ।।

अस्मिन्नेव प्रसक्तं मे हृदयं प्रेमकातरम् ।। १४१ ।।

परलोकादिहायातः कथमेवं स्वरूपधृक् ।।

दुर्भाग्यायाः कथं मे स्याद्भर्तुर्नष्टस्य दर्शनम् ।। १४२ ।।

स्वप्नोयं किमु न स्वप्नो भ्रमोऽयं किं तु न भ्रमः ।।

एष धूर्तोऽथवा कश्चिद्यक्षो गंधर्व एव वा ।। १४३ ।।

मुनिपल्या यदुक्तं मे परमापद्गतापि च ।।

व्रतमेतत्कुरुष्वेति तस्य वा फलमेव वा।।४४।।

यो वर्षायुत सौभाग्यं ममेत्याह द्विजोत्तमः।।

नूनं तस्य वचः सत्यं को विद्यादीश्वरं विना।।४५।।

निमित्तानि च दृश्यंते मंगलानि दिनेदिने।।

प्रसन्ने पार्वतीनाथे किमसाध्यं शरीरिणाम्।। ४६।।

इत्थं विमृश्य बहुधा तां पुनर्मुक्तसंशयाम्।।

लज्जानम्रमुखीं कर्णे शशंसात्मप्रयोजनम् ।। ४७ ।।

इमं वृत्तांतमाख्यातुं तत्पित्रोः शोकतप्तयोः ।।

गच्छामः स्वस्ति ते भद्रे सद्यः पतिमवाप्स्यसि ।। ४८ ।।

इत्युक्त्वाश्वं समारुह्य जगाम नृपनंदनः ।।

ताभ्यां सह निजं राष्ट्रं प्रत्यपद्यत तत्क्षणात् ।। ४९ ।।

स पुरोपवनाभ्याशे स्थित्वा तं फणि पुत्रकम् ।।

विससर्जात्मदायादान्नृपासनगतान्प्रति ।।3.3.8.१५०।।

स गत्वोवाच ताञ्छीघ्रमिंद्रसेनो विमुच्यताम् ।।

चंद्रांगदस्तस्य सुतः प्राप्तोऽयं पन्नगाल यात् ।। १५१ ।।

नृपासनं विमुंचंतु भवंतो न विचार्यताम् ।।

नो चेच्चंद्रागदस्याशु बाणाः प्राणान्हरंति वः ।। १५२ ।।

स मग्नो यमुनातोये गत्वा तक्षकमंदिरम् ।।

लब्ध्वा च तस्य साहाय्यं पुनर्लोकादिहागतः ।। १५३ ।।

इत्याख्यातमशेषेण तद्वृत्तांतं निशम्य ते ।।

साधुसाध्विति संभ्रांताः शशंसुः परिपंथिनः ।। ५४ ।।

अथेंद्रसेनाय निवेद्य सत्वरं नष्टस्य पुत्रस्य पुनः समागमम् ।।

प्रसाद्य तं प्राप्तनरेश्वरासनं दायादमुख्यास्तु भयं प्रपेदिरे ।। ५५ ।।

अथ पौरजनाः सर्वे पुरोद्याने नृपात्मजम् ।।

दृष्ट्वा राज्ञे द्रुतं प्रोचुर्लेभिरे च महाधनम् ।। ५६ ।।

आकर्ण्य पुत्रमायांतं राजानंदजलाप्लुतः ।।

न व्यजानादिमं लोकं राज्ञी च परया मुदा ।। ५७ ।।

अथ नागरिकाः सर्वे मंत्रिवृद्धाः पुरोधसः ।।

प्रत्युद्गम्य परिष्वज्य तमानिन्युर्नृपांति कम् ।। ५८ ।।

अथोत्सवेन महता प्रविश्य निजमंदिरम् ।।

राजपुत्रः स्वपितरौ ववंदे बाष्पमुत्सृजन् ।। ५९ ।।

तं पादमूले पतितं स्वपुत्रं विवेद नासौ पृथिवीपतिः क्षणम् ।।

प्रबोधितोऽमात्यजनैः कथंचिदुत्थाय क्लिन्नेन हृदालिलिंग ।। 3.3.8.१६० ।।

क्रमेण मातॄरभिवंद्य ताभिः प्रवर्धिताशीः प्रणयाकु लाभिः ।।

आलिंगितः पौरजनानशेषान्संभावयामास स राजसूनुः ।।६१।।

तेषां मध्ये समासीनः स्ववृत्तांतमशेषतः ।।

पित्रे निवेदयामास तक्षकस्य च मित्रताम्।।६२।।

दत्तं भुजंगराजेन रत्नादिधनसंचयम् ।।

दिव्यं तद्राक्षसानीतं पित्रे सर्वं न्यवेदयत् ।।६३।।

राजपुत्रस्य चरितं दृष्ट्वा श्रुत्वा च विह्वलः ।। ।

मेने स्नुषायाः सौभाग्यं महेशाराधनार्जितम् ।।६४।।

सौमांगल्यमयीं वार्तामिमां निषधभूपतिः।।

चारैर्निवेदयामास चित्रवर्ममहीपतेः ।।६५।।

श्रुत्वाऽमृतमयीं वार्त्तां स समुत्थाय संभ्रमात् ।।

तेभ्यो दत्त्वा धनं भूरि ननर्तानंदविह्वलः।।६६।।

अथाहूय स्वतनयां परिष्वज्याश्रुलोचनः ।।

भूषणैर्भूषयामास त्यक्तवैधव्यलक्षणाम् ।। ६७ ।।

अथोत्सवो महानासीद्राष्ट्रग्रामपुरादिषु ।।

सीमंतिन्याः शुभाचारं शशंसुः सर्वतो जनाः ।। ६८ ।।

चित्रवर्माथ नृपतिः समाहूयेंद्रसेनजम् ।।

पुनर्विवाहविधिना सुतां तस्मै न्यवेदयत् ।। ६९ ।।

चन्द्रांगदोऽपि रत्नाद्यैरानीतैस्तक्षकालयात् ।।

स्वां पत्नीं भूषयां चक्रे मर्त्यानामतिदुर्लभैः ।। 3.3.8.१७० ।।

अंगरागेण दिव्येन तप्तकांचनशोभिना ।।

शुशुभे सा सुगंधेन दशयोजनगामिना ।। ७१ ।।

अम्लानमालया शश्वत्पद्मकिंजल्कवर्णया ।।

कल्पद्रुमोत्थया बाला भूषिता शुशुभे सती ।। ७२ ।।

एवं चंद्रांगदः पत्नीमवाप्य समये शुभे ।।

ययौ स्वनगरीं भूयः श्वशुरेणानुमोदितः ।। ७३ ।।

इन्द्रसेनोऽपि राजेंद्रो राज्ये स्थाप्य निजात्मजम् ।।

तपसा शिवमाराध्य लेभे संयमिनां गतिम् ।। ७४ ।।

दशवर्ष सहस्राणि सीमंतिन्या स्वभार्यया ।।

सार्धं चन्द्रांगदो राजा बुभुजे विषयान्बहून् ।। ७५ ।।

प्रासूत तनयानष्टौ कन्यामेकां वराननाम् ।।

रेमे सीमंतिनी भर्त्रा पूजयती महेश्वरम् ।।

दिनेदिने च सौभाग्यं प्राप्तं चैवेन्दुवासरात् ।। ७६ ।।

।। सूत उवाच ।। ।।

विचित्रमिदमाख्यानं मया समनुवर्णितम् ।।

भूयोऽपि वक्ष्ये माहात्म्यं सोमवारव्रतोदितम् ।। १७७ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां ब्रह्मोत्तरखण्डे सोमवारव्रतवर्णनंनामाष्टमोऽध्यायः ।। ८ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 9

।। ऋषय ऊचुः ।। ।।

साधुसाधु महाभाग त्वया कथितमुत्तमम् ।।

आख्यानं पुनरन्यत्र विचित्रं वक्तुमर्हसि ।। १ ।।

।। सूत उवाच ।। ।।

विदर्भविषये पूर्वमासीदेको द्विजोत्तमः ।।

वेदमित्र इति ख्यातो वेद शास्त्रार्थवित्सुधीः ।। २ ।।

तस्यासीदपरो विप्रः सखा सारस्वताह्वयः ।।

तावुभौ परमस्निग्धावेकदेशनिवासिनौ ।। ३ ।।

वेदमित्रस्य पुत्रोऽभूत्सुमेधा नाम सुव्रतः ।।

सारस्वतस्य तनयः सोमवानिति विश्रुतः ।। ४ ।।

उभौ सवयसौ बालौ समवेषौ समस्थिती ।।

समं च कृतसंस्कारौ सम विद्यौ बभूवतुः ।। ५ ।।

सांगानधीत्य तौ वेदांस्तर्कव्याकरणानि च ।।

इतिहासपुराणानि धर्मशास्त्राणि कृत्स्नशः ।। ६ ।।

सर्वविद्याकुशलिनौ बाल्य एव मनीषिणौ ।।

प्रहर्षमतुलं पित्रोर्ददतुः सकलैर्गुणैः ।। ७ ।।

तावेकदा स्वतनयौ तावुभौ ब्राह्मणोत्तमौ ।।

आहूयावोचतां प्रीत्या षोड शाब्दौ शुभाकृती ।। ८ ।।

हे पुत्रकौ युवां बाल्ये कृतविद्यौ सुवर्चसौ ।।

वैवाहिकोयं समयो वर्तते युवयोः समम् ।। ९ ।।

इमं प्रसाद्य राजानं विदर्भेशं स्वविद्यया ।।

ततः प्राप्य धनं भूरि कृतोद्वाहौ भविष्यथः ।। ३.३.९.१० ।।

एवमुक्तौ सुतौ ताभ्यां तावुभौ द्विजनंदनौ ।।

विदर्भराजमासाद्य समतोषयतां गुणैः ।। ११ ।।

विद्यया परितुष्टाय तस्मै द्विजकुमारकौ ।।

विवाहार्थं कृतोद्योगौ धनहीनावशंसताम् ।। १२ ।।

तयोरपि मतं ज्ञात्वा स विदर्भमहीपतिः ।।

प्रहस्य किंचित्प्रोवाच लोकतत्त्वविवित्सया ।। १३ ।।

आस्ते निषधराजस्य राज्ञी सीमंतिनी सती ।।

सोमवारे महादेवं पूजयत्यंबिकायुतम्।।१४।।

तस्मिन्दिने सपत्नीकान्द्विजाग्र्यान्वेदवित्तमान्।।

संपूज्य परया भक्त्या धनं भूरि ददाति च।।१५।।

अतोऽत्र युवयोरैको नारीविभ्रमवेषधृक्।।

एकस्तस्या पतिर्भूत्वा जायेतां विप्रदंपती।।१६।।

युवां वधूवरौ भूत्वा प्राप्य सीमंतिनीगृहम्।।

भुक्त्वा भूरि धनं लब्ध्वा पुनर्यातं ममांमतिकम् ।। १७ ।।

इति राज्ञा समादिष्टौ भीतौ द्विजकुमारकौ ।।

प्रत्यूचतुरिदं कर्म कर्तुं नौ जायते भयम् ।। १८ ।।

देवतासु गुरौ पित्रोस्तथा राजकुलेषु च ।।

कौटिल्यमाचरन्मोहात्सद्यो नश्यति सान्वयः ।। १९ ।।

कथमंतर्गृहं राज्ञां छद्मना प्रविशेत्पुमान् ।।

गोप्यमानमपिच्छद्म कदाचित्ख्यातिमेष्यति ।। ३.३.९.२० ।।

ये गुणाः साधिताः पूर्वं शीलाचारश्रुतादिभिः ।।

सद्यस्ते नाशमायांति कौटिल्य पथगामिनः ।। २१ ।।

पापं निंदा भयं वैरं चत्वार्येतानि देहिनाम् ।।

छद्ममार्गप्रपन्नानां तिष्ठंत्येव हि सर्वदा ।। २२ ।।

अत आवां शुभाचारौ जातौ च शुचिनां कुले ।।

वृत्तं धूर्तजनश्लाघ्यं नाश्रयावः कदाचन ।। २३ ।।

।। राजोवाच ।। ।।

दैवतानां गुरूणां च पित्रोश्च पृथिवीपतेः ।।

शासनस्याप्यलंघ्यत्वात्प्रत्यादेशो न कर्हिचित् ।। २४ ।।

एतैर्यद्यत्समादिष्टं शुभं वा यदि वाऽशुभम् ।।

कर्तव्यं नियतं भीतैरप्रमत्तैर्बुभूषुभिः ।। ।। २५ ।।

अहो वयं हि राजानः प्रजा यूयं हि संमताः ।।

राजाज्ञया प्रवृत्तानां श्रेयः स्यादन्यथा भयम् ।। २६ ।।

अतो मच्छासनं कार्यं भव द्भ्यामविलंबितम् ।।

इत्युक्तौ नरदेवेन तौ तथेत्यूचतुर्भयात् ।। २७ ।।

सारस्वतस्य तनयं सामवन्तं नराधिपः ।।

स्त्रीरूपधारिणं चक्रे वस्त्राकल्पां जनादिभिः ।। २८ ।।

स कृत्रिमोद्भूतकलत्रभावः प्रयुक्तकर्णाभरणांगरागः ।।

स्निग्धाञ्जनाक्षः स्पृहणीयरूपो बभूव सद्यः प्रमदोत्तमाभः ।। २९ ।।

तावुभौ दंपती भूत्वा द्विजपुत्रौ नृपाज्ञया ।।

जग्मतुर्नैषधं देशं यद्वा तद्वा भवत्विति ।। ३.३.९.३० ।।

उपेत्य राजसदनं सोमवारे द्विजोत्तमैः ।।

सपत्नीकैः कृतातिथ्यौ धौतपादौ बभूवतुः ।। ३१ ।।

सा राज्ञी ब्राह्मणान्सर्वानुपविष्टान्वरासने ।।

प्रत्येकमर्चयांचक्रे सपत्नीकान्द्विजोत्तमान्।। ३२ ।।

तौ च विप्रसुतौ दृष्ट्वा प्राप्तौ कृतकदंपती ।।

ज्ञात्वा किंचिद्विहस्याथ मेने गौरीमहेश्वरौ ।। ३३ ।।

आवाह्य द्विजमुख्येषु देवदेवं सदाशिवम् ।।

पत्नीष्वावाहयामास सा देवीं जगदंबिकाम् ।। ३४ ।।

गन्धैर्माल्यैः सुरभिभिर्धूपैर्नीराजनैरपि ।।

अर्चयित्वा द्विजश्रेष्ठान्नमश्चक्रे समाहिता ।। ३५ ।।

हिरण्मयेषु पात्रेषु पायसं घृतसंयुतम् ।।

शर्करामधुसंयुक्तं शाकैर्जुष्टं मनोरमैः ।। ३६ ।।

गंधशाल्योदनैर्हृद्यैर्मोदकापूपराशिभिः ।।

शष्क्रुलीभिश्च संयावैः कृसरैर्माषपक्वकैः ।। ३७ ।।

तथान्यैरप्यसंख्यातैर्भक्ष्यैर्भोज्यैर्मनोरमैः ।।

सुगन्धैः स्वादुभिः सूपैः पानीयैरपि शीतलैः ।। ३८ ।।

क्लृप्तमन्नं द्विजा -ग्र्येभ्यः सा भक्त्या पर्यवेषयत् ।।

दध्योदनं निरुपमं निवेद्य समतोषयत् ।। ३९ ।।

भुक्तवत्सु द्विजाग्र्येषु स्वाचांतेषु नृपांगना ।।

प्रणम्य दत्त्वा तांबूलं दक्षिणां च यथार्हतः ।। ३.३.९.४० ।।

धेनूर्हिरण्यवासांसि रत्नस्रग्भूषणानि च ।।

दत्त्वा भूयो नमस्कृत्य विससर्ज द्विजोत्तमान् ।। ४१ ।।

तयोर्द्वयोर्भूसुरवर्यपुत्रयोरेकस्त्तया हैमवतीधियार्चितः ।।

एको महादेवधियाभिपूजितः कृतप्रणामौ ययतुस्तदाज्ञया ।। ४२ ।।

सा तु विस्मृतपुंभावा तस्मिन्नेव द्विजोत्तमे ।।

जातस्पृहा मदोत्सिक्ता कन्दर्पविवशाब्रवीत् ।। ४३ ।।

अंयि नाथ विशालाक्ष सर्वावयवसुन्दर ।।

तिष्ठतिष्ठ क्व वा यासि मां न पश्यसि ते प्रियाम् ।। ४४ ।।

इदमग्रे वनं रम्यं सुपुष्पितमहाद्रुमम् ।।

अस्मिन्विहर्तुमिच्छामि त्वया सह यथासुखम् ।। ४५ ।।

इत्थं तयोक्तमाकर्ण्य पुरोऽगच्छद्द्विजात्मजः ।।

विचिंत्य परिहासोक्तिं गच्छति स्म यथा पुरा ।। ४६ ।।

पुनरप्याह सा बाला तिष्ठतिष्ठ क्व यास्यसि।।

दुरुत्सहस्मरावेशां परिभोक्तुमुपेत्य माम् ।। ४७ ।।

परिष्वजस्व मां कांतां पाययस्व तवाधरम् ।।

नाहं गंतुं समर्थास्मि स्मरबाणप्रपीडिता ।। ।। ४८ ।।

इत्थमश्रुतपूर्वां तां निशम्य परिशंकितः ।।

आयांतीं पृष्ठतो वीक्ष्य सहसा विस्मयं गतः ।।४९।।

कैषा पद्मपलाशाक्षी पीनोन्नतपयोधरा ।।

कृशोदरी बृहच्छ्रोणी नवपल्लवकोमला ।। ३.३.९.५० ।।

स एव मे सखा किन्नु जात एव वरांगना ।।

पृच्छाम्येनमतः सर्वमिति संचिन्त्य सोऽब्रवीत् ।।५१।।

किमपूर्व इवाभाषि सखे रूपगुणादिभिः ।।

अपूर्वं भाषसे वाक्यं कामिनीव समाकुला ।। ५२ ।।

यस्त्वं वेदपुराणज्ञो ब्रह्मचारी जितेंद्रियः ।।

सारस्वतात्मजः शांतः कथमेवं प्रभाषसे ।। ५३ ।।

इत्युक्ता सा पुनः प्राह नाहमस्मि पुमान्प्रभो ।।

नाम्ना सामवती बाला तवास्मि रतिदायिनी।। ५४ ।।

यदि ते संशयः कांत ममांगानि विलोकय ।।

इत्युक्तः सहसा मार्गे रहस्येनां व्यलोकयत् ।।५५।।

तामकृत्रिमधम्मिल्लां जवनस्तनशोभिनीम् ।।

सुरूपां वीक्ष्य कामेन किंचिद्व्याकुलतामगात् ।। ५६ ।।

पुनः संस्तभ्य यत्नेन चेतसो विकृतिं बुधः ।।

मुहूर्तं विस्मयाविष्टो न किंचित्प्रत्यभाषत ।। ५७ ।।

।। सामवत्युवाच ।। ।।

गतस्ते संशयः कश्चित्तर्ह्यागच्छ भजस्व माम् ।।

पश्येदं विपिनं कांत परस्त्रीसुरतोचितम् ।। ५८ ।।

।। सुमेधा उवाच ।। ।।

मैवं कथय मर्यादां मा हिंसीर्मदमत्तवत् ।।

आवां विज्ञातशास्त्रार्थौ त्वमेवं भाषसे कथम् ।।५९।।

अधीतस्य च शास्त्रस्य विवेकस्य कुलस्य च ।।

किमेष सदृशो धर्मो जारधर्मनिषेवणम् ।। ३.३.९.६० ।।

न त्वं स्त्री पुरुषो विद्वाञ्जानीह्यात्मानमात्मना ।।

अयं स्वयंकृतोऽनर्थ आवाभ्यां यद्विचेष्टितम् ।। ६१ ।।

वंचयित्वात्मपितरौ धूर्त्तराजानुशासनात् ।।

कृत्वा चानुचितं कर्म तस्यैतद्भुज्यते फलम् ।। ६२ ।।

सर्वं त्वनुचितं कर्म नृणां श्रेयोविनाशनम् ।।

यस्त्वं विप्रात्मजो विद्वान्गतः स्त्रीत्वं विगर्हितम् ।। ६३ ।।

मार्गं त्यक्त्वा गतोऽरण्यं नरो विध्येत कण्टकैः ।।

बलार्द्धिस्येत वा हिंस्रैर्यदा त्यक्तसमा गमः ।। ६४ ।।

एवं विवेकमाश्रित्य तूष्णीमेहि स्वयं गृहम् ।।

देवद्विजप्रसादेन स्त्रीत्वं तव विलीयते ।। ६५ ।।

अथवा दैवयोगेन स्त्रीत्वमेव भवेत्तव ।।

पित्रा दत्ता मया साकं रंस्यसे वरवर्णिनि ।। ६६ ।।

अहो चित्रमहो दुःखमहो पापबलं महत् ।।

अहो राज्ञः प्रभावोयं शिवाराधनसंभृतः ।। ६७ ।।

इत्युक्ताप्यसकृत्तेन सा वधूरतिविह्वला ।।

बलेन तं समालिंग्य चुचुंबाधरपल्लवम् ।। ६८ ।।

धर्षितोपि तया धीरः सुमेधा नूतनस्त्रियम् ।।

यत्नादानीय सदनं कृत्स्नं तत्र न्यवेदयत् ।। ६९ ।।

तदाकर्ण्याथ तौ विप्रौ कुपितौ शोकविह्वलौ ।।

ताभ्यां सह कुमाराभ्यां वैदर्भांतिकमीयतुः ।। ३.३.९.७० ।।

ततः सारस्वतः प्राह राजानं धूर्तचेष्टितम् ।।

राजन्ममात्मजं पश्य तव शासनयंत्रितम् ।। ७१ ।।

एतौ तवाज्ञावशगौ चक्रतुः कर्म गर्हितम् ।।

मत्पुत्रस्तत्फलं भुंक्ते स्त्रीत्वं प्राप्य जुगुप्सितम्।। ७२ ।।

अद्य मे संततिर्नष्टा निराशाः पितरो मम ।।

नापुत्रस्य हि लोकोस्ति लुप्तपिंडादिसंस्कृतेः ।। ७३ ।।

शिखोपवीतमजिनं मौजीं दंडं कमंडलुम् ।।

ब्रह्मचर्योचितं चिह्नं विहायेमां दशां गतः ।। ७४ ।।

ब्रह्मसूत्रं च सावित्रीं स्नानं संध्यां जपार्चनम् ।।

विसृज्य स्त्रीत्वमाप्तोस्य का गतिर्वद पार्थिव ।। ७५ ।।

त्वया मे संततिर्नष्टा नष्टो वेदपथश्च मे ।।

एकात्मजस्य मे राजन्का गतिर्वद शाश्वती ।। ७६ ।।

इति सारस्वतेनोक्तं वाक्यमाकर्ण्य भूपतिः ।।

सीमंतिन्याः प्रभावेण विस्मयं परमं गतः ।। ७७ ।।

अथ सर्वान्समाहूय महर्षीनमितद्युतीन्।।

प्रसाद्य प्रार्थयामास तस्य पुंस्त्वं महीपतिः ।। ७८ ।।

तेऽबुवन्नथ पार्वत्याः शिवस्य च समीहितम् ।।

तद्भक्तानां च माहात्म्यं कोन्यथा कर्तुमीश्वरः ।। ७९ ।।

अथ राजा भरद्वाजमादाय मुनिपुंगवम् ।।

ताभ्यां सह द्विजाग्र्याभ्यां तत्सुताभ्यां समन्वितः ।। ३.३.९.८० ।।

अंबिकाभवनं प्राप्य भरद्वाजोपदेशतः ।।

तां देवीं नियमैस्तीव्रैरुपास्ते स्म महानिशि ।। ८१ ।।

एवं त्रिरात्रं सुविसृष्टभोजनः स पार्वतीध्यान रतो महीपतिः ।।

सम्यक्प्रणामैर्विविधैश्च संस्तवैर्गौरीं प्रपन्नार्तिहरामतोषयत् ।। ८२ ।।

ततः प्रसन्ना सा देवी भक्तस्य पृथिवीपतेः ।।

स्वरूपं दर्शयामास चंद्रकोटिसमप्रभम् ।। ८३ ।।

अथाह गौरी राजानं किं ते ब्रूहि समीहितम् ।।

सोऽप्याह पुंस्त्वमेतस्य कृपया दीयतामिति ।। ८४ ।।

भूयोप्याह महादेवी मद्भक्तैः कर्म यत्कृतम् ।।

शक्यते नान्यथा कर्तुं वर्षायुतशतैरपि ।। ८५ ।।

।। राजोवाच ।। ।।

एकात्मजो हि विप्रोयं कर्मणा नष्टसंततिः ।।

कथं सुखं प्रपद्येत विना पुत्रेण तादृशः ।। ८६ ।।

।। देव्युवाच ।। ।।

तस्यान्यो मत्प्रसादेन भविष्यति सुतोत्तमः ।।

विद्या विनयसंपन्नो दीर्घायुरमलाशयः ।। ८७ ।।

एषा सामवती नाम सुता तस्य द्विजन्मनः ।।

भूत्वा सुमेधसः पत्नी कामभोगेन युज्यताम् ।। ८८ ।।

इत्युक्त्वांतर्हिता देवी ते च राजपुरोगमाः ।।

गताः स्वंस्वं गृहं सर्वे चक्रुस्तच्छासने स्थितिम् ।। ८९ ।।

सोपि सारस्वतो विप्रः पुत्रं पूर्वसुतो त्तमम् ।।

लेभे देव्याः प्रसादेन ह्यचिरादेव कालतः ।। ३.३.९.९० ।।

तां च सामवतीं कन्यां ददौ तस्मै सुमेधसे ।।

तौ दंपती चिरं कालं बुभुजाते परं सुखम् ।। ९१ ।।

।। सूत उवाच ।। ।।

इत्येष शिवभक्तायाः सीमंतिन्या नृपस्त्रियाः ।।

प्रभावः कथितः शंभोर्माहात्म्यमपि वर्णितम् ।। ९२ ।।

भूयोपि शिवभक्तानां प्रभावं विस्मयावहम् ।।

समासाद्वर्णयिष्यामि श्रोतॄणां मंगलायनम् ।। ९३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे सीमंतिन्याः प्रभाववर्णनं नाम नवमोऽध्यायः ।। ९ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 10

।। सूत उवाच ।। ।।

विचित्रं शिवनिर्माणं विचित्र शिवचेष्टितम् ।।

विचित्रं शिवमाहात्म्यं विचित्रं शिवभाषितम् ।। १ ।।

विचित्रं शिवभक्तानां चरितं पापनाशनम् ।।

स्वर्गापवर्गयोः सत्यं साधनं तद्ब्रवीम्यहम् ।। २ ।।

अवंतीविषये कश्चिद्ब्राह्मणो मंदराह्वयः ।।

बभूव विषयारामः स्त्रीजितो धनसंग्रही ।। ३ ।।

संध्यास्नापरित्यक्तो गंधमाल्यांबरप्रियः ।।

कुस्त्रीसक्तः कुमार्गस्थो यथा पूर्वमजामिलः ।। ४ ।।

स वेश्यां पिंगलां नाम रममाणो दिवानिशम् ।।

तस्या एव गृहे नित्यमासीदविजितेंद्रियः ।। ५ ।।

कदाचित्सदने तस्यास्तस्मिन्निवसति द्विजे ।।

ऋषभो नाम धर्मात्मा शिवयोगी समाययौ ।। ।। ६ ।।

तमागतमभिप्रेक्ष्य मत्वा स्वं पुण्यमूर्जितम् ।।

सा वेश्या स च विप्रश्च पर्यपूजयतामुभौ ।। ७ ।।

तमारोप्य महापीठे कंबलांबरसंभृते ।।

प्रक्षाल्य चरणौ भक्त्या तज्जलं दधतुः शिरः ।। ८ ।।

स्वागतार्घ्यनमस्कारैर्गंधपुष्पाक्षतादिभिः ।।

उपचारैः समभ्यर्च्य भोजयामासतुर्मुदा ।। ९ ।।

तं भुक्तवंतमाचांतं पर्यंके सुखसंस्तरे ।।

उपवेश्य मुदा युक्तौ तांबूलं प्रत्ययच्छताम् ।। ३.३.१०.१० ।।

पादसंवाहनं भक्त्या कुर्वंतौ दैवचो दितौ ।।

कल्पयित्वा तु शुश्रूषां प्रीणयामासतुश्चिरम् ।। ११ ।।

एवं समर्चितस्ताभ्यां शिवयोगी महाद्युतिः ।।

अतिवाह्य निशामेकां ययौ प्रातस्तदादृतः ।। १२ ।।

एवं काले गतप्राये स विप्रो निधनं गतः ।।

सा च वेश्या मृता काले ययौ कर्मार्जितां गतिम् ।। १३ ।।

स विप्रः कर्मणा नीतो दशार्णधरणीपतेः ।।

वज्रबाहुकुटुंबिन्याः सुमत्या गर्भमास्थितः ।। १४ ।।

तां ज्येष्ठपत्नीं नृपतेर्गर्भसंपदमाश्रिताम् ।।

अवेक्ष्य तस्यै गरलं सपत्न्यश्छद्मना ददुः ।। १५ ।।

सा भुक्त्वा गरलं घोरं न मृता दैवयोगतः ।।

क्लेशमेव परं प्राप मरणादतिदुःसहम् ।। १६ ।।

अथ काले समायाते पुत्रमे कमजीजनत् ।।

क्लेशेन महता साध्वी पीडिता वरवर्णिनी ।। १७ ।।

स निर्दशो राजपुत्रः स्पृष्टपूर्वो गरेण यत् ।।

तेनावाप महाक्लेशं क्रंदमानो दिवानिशम् ।। १८ ।।

तस्य बालस्य माता च सर्वांगव्रणपीडिता ।।

बभूवतुरतिक्लिष्टौ गरयोगप्रभावतः ।। १९ ।।

तौ राज्ञा च समानीतौ वैद्यैश्च कृतभेषजौ ।।

न स्वास्थ्यमापतुर्यत्नैरनेकैर्योजितैरपि ।। ३.३.१०.२० ।।

न रात्रौ लभते निद्रां सा राज्ञी विपुलव्यथा ।।

स्वपुत्रस्य च दुःखेन दुःखिता नितरां कृशा ।। २१ ।।

नीत्वैवं कतिचिन्मासान्स राजा मातृपुत्रकौ ।।

जीवंतौ च मृतप्रायौ विलोक्यात्मन्यचिंतयत् ।। २२ ।।

एतौ मे गृहिणीपुत्रौ निरयादागताविह ।।

अश्रांतरोगौ क्रंदंतौ निद्राभंगविधायिनौ ।। २३ ।।

अत्रोपायं करिष्यामि पापयोर्ध्रुवमेतयोः ।।

मर्तुं वा जीवितुं वापि न क्षमौ पापभोगिनौ ।। २४ ।।

इत्थं विनिश्चित्य च भूमिपालः सक्तः सपत्नीषु तदात्मजेषु ।।

आहूय सूतं निजदारपुत्रौ निर्वापयामास रथेन दूरम्।। २५ ।।

तौ सूतेन परित्यक्तौ कुत्रचिद्विजने वने ।।

अवापतुः परां पीडां क्षुत्तृड्भ्यां भृशविह्वलौ ।। २६ ।।

सोद्वहंती निजं बालं निपतंती पदे पदे ।।

निःश्वसंती निजं कर्म निंदंती चकिता भृशम् ।। २७ ।।

क्वचित्कंटकभिन्नांगी मुक्तकेशी भयातुरा ।।

क्वचिद्व्याघ्रस्वनैर्भीता क्वचिद्व्यालैरनुद्रुता ।। २८ ।।

भर्त्स्यमाना पिशाचैश्च वेतालैर्ब्रह्मराक्षसैः ।।

महागुल्मेषु धावंती भिन्नपादा क्षुराश्मभिः ।। २९ ।।

सैवं घोरे महारण्ये भ्रमंती नृपगे हिनी ।।

दैवात्प्राप्ता वणिङ्मार्गं गोवाजिनरसेवितम् ।। ३.३.१०.३० ।।

गच्छंती तेन मार्गेण सुदूरमतियत्नतः ।।

ददर्श वैश्यनगरं वहुस्त्रीनरसेवितम् ।। ३१ ।।

तस्य गोप्ता महावैश्यो नगरस्य महाजनः ।।

अस्ति पद्माकरो नाम राजराज इवापरः ।। ३२ ।।

तस्य वैश्यपतेः काचिद्गृहदासी नृपांगनाम् ।।

आयांती दूरतो दृष्ट्वा तदंतिकमुपाययौ ।।३३ ।।

सा दासी नृपतेः कांतां सपुत्रां भृशपीडिताम् ।।

स्वयं विदितवृत्तांता स्वामिने प्रत्यदर्शयत् ।। ।। ३४ ।।

स तां दृष्ट्वा विशां नाथो रुजार्त्तां क्लिष्टपुत्रकाम् ।।

नीत्वा रहसि सुव्यक्तं तद्वृत्तांतमपृच्छत ।। ३५ ।।

तया निवेदिताशेषवृत्तांतः स वणिक्पतिः ।।

अहोकष्टमिति ज्ञात्वा निशश्वास मुहुर्मुहुः ।। ३६ ।।

तामंतिके स्वगेहस्य संनिवेश्य रहोगृहे ।।

वासोन्नपानशयनैर्मातृसाम्यमपूजयत् ।। ।। ३७ ।।

तस्मिन्गृहे नृपवधूर्निवसंती सुरक्षिता ।।

व्रणयक्ष्मादिरोगाणां न शांतिं प्रत्यपद्यत ।। ३८ ।।

ततो दिनैः कतिपयैः स बालो व्रणपीडितः ।।

विलंघितभिषक्सत्त्वो ममार च विधेर्वशात् ।। ३९ ।।

मृते स्वतनये राज्ञी शोकेन महतावृता ।।

मूर्च्छिता चापतद्भूमौ गजभग्नेव वल्लरी ।। ३.३.१०.४० ।।

दैवात्संज्ञामवाप्याथ वाष्पक्लिन्नपयोधरा ।।

सांत्विताऽपि वणिक्स्त्रीभिर्विललाप सुदुःखिता ।। ४१ ।।

हा ताततात हा पुत्र हा मम प्राणरक्षक ।।

हा राजकुलपूर्णेन्दो हा ममानंदवर्धन ।। ४२ ।।

इमामनाथां कृपणां त्वत्प्राणां त्यक्तवबांधवाम् ।।

मातरं ते परित्यज्य क्व यातोऽसि नृपात्मज ।। ।। ४३ ।।

इत्येभिरुदितैर्वाक्यैः शोकचिंताविवर्धकैः ।।

विलपंतीं मृतापत्यां को नु सांत्वयितुं क्षमः ।। ४४ ।।

एतस्मिन्समये तस्या दुःखशोकचिकित्सकः।।

ऋषभः पूर्वमाख्यातः शिवयोगी समाययौ।।४५।।

स योगी वैश्यनाथेन सार्घहस्तेन पूजितः।।

तस्याः सकाशमगमच्छोचन्त्या इदमब्रवीत् ।। ४६ ।।

।। ऋषभ उवाच ।। ।।

अकस्मात्किमहो वत्से रोरवीषि विमूढधीः ।।

को जातः कतमो लोके को मृतो वद सांप्रतम् ।। ।। ४७ ।।

अमी देहादयो भावास्तोयफेनसधर्मकाः ।।

क्वचिद्भ्रांतिः क्वचिच्छांतिः स्थितिर्भवति वा पुनः ।। ४८ ।।

अतोऽस्मिन्फेनसदृशे देहे पञ्चत्वमागते ।।

शोकस्यानवकाशत्वान्न शोचंति विपश्चितः ।। ४९ ।।

गुणैर्भूतानि सृज्यंते भ्राम्यंते निजकर्मभिः ।।

कालेनाथ विकृष्यंते वासनायां च शेरते ।। ३.३.१०.५० ।।

माययोत्पत्तिमायांति गुणाः सत्त्वादयस्त्रयः ।।

तैरेव देहा जायंते जातास्तल्लक्षणाश्रयाः ।। ५१ ।।

देवत्वं यानि सत्त्वेन रजसा च मनुष्यताम् ।।

तिर्यक्त्वं तमसा जंतुर्वासनानुगतोवशः ।। ५२ ।।

संसारे वर्तमानेस्मिञ्जंतुः कर्मानुबन्धनात् ।।

दुर्विभाव्यां गतिं याति सुखदुःखमयीं मुहुः ।। ५३ ।।

अपि कल्पायुषां तेषां देवानां तु विपर्ययः ।।

अनेकामयबद्धानां का कथा नरदेहिनाम् ।। ५४ ।।

केचिद्वदंति देहस्य कालमेव हि कारणम् ।।

कर्म केचिद्गुणान्केचिद्देहः साधारणो ह्ययम् ।। ५५ ।।

कालकर्मगुणाधानं पञ्चात्मकमिदं वपुः ।।

जातं दृष्ट्वा न हृष्यंति न शोचंति मृतं बुधाः ।। ५६ ।।

अव्यक्ते जायते जंतुरव्यक्ते च प्रलीयते ।।

मध्ये व्यक्तवदाभाति जलबुद्बुदसन्निभः ।। ५७ ।।

यदा गर्भगतो देही विनाशः कल्पितस्तदा ।।

दैवाज्जीवति वा जातो म्रियते सहसैव वा ।। ५८ ।।

गर्भस्था एव नश्यंति जातमात्रास्तथा परे ।।

क्वचिद्युवानो नश्यंति म्रियंते केपि वार्धके ।। ५९ ।।

यादृशं प्राक्तनं कर्म तादृशं विंदते वपुः ।।

भुंक्ते तदनुरूपाणि सुखदुःखानि वै ह्यसौ ।। ३.३.१०.६० ।।

मायानुभावेरितयोः पित्रोः सुरतसंभ्रमात् ।।

देह उत्पद्यते कोपि पुंयोषित्क्लीबलक्षणः ।। ६१ ।।

आयुः सुखं च दुःख च पुण्यं पापं श्रुतं धनम् ।।

ललाटे लिखितं धात्रा वहञ्जंतुः प्रजायते ।। ६२ ।।

कर्मणामविलंघ्यत्वात्कालस्याप्यनतिक्रमात् ।।

अनित्यत्वाच्च भावानां न शोकं कर्तुमर्हसि ।। ६३ ।।

क्व स्वप्ने नियतं स्थैर्यमिंद्रजाले क्व सत्यता ।।

क्व नित्यता शरन्मेघे क्व शश्वत्त्वं कलेवरे ।। ६४ ।।

तव जन्मान्यतीतानि शतकोट्ययुतानि च ।।

अजानंत्याः परं तत्त्वं संप्राप्तोऽयं महाश्रमः।। ६५ ।।

कस्यकस्यासि तनया जननी कस्यकस्य वा ।।

कस्यकस्यासि गृहिणी भवकोटिषु वर्त्तिनी ।। ।। ६६ ।।

पञ्चभूतात्मको देहस्त्वगसृङ्मांसबन्धनः ।।

मेदोमज्जास्थिनिचितो विण्मूत्रश्लेष्मभाजनम् ।। ६७ ।।

शरीरांतरमप्येतन्निजदेहोद्भवं मलम् ।।

मत्त्वा स्वतनयं मूढे मा शोकं कर्तुमर्हसि ।। ६८ ।।

यदि नाम जनः कश्चिन्मृत्युं तरति यत्नतः ।।

कथं तर्हि विपद्येरन्सर्वे पूर्वे विपश्चितः।। ।। ६९ ।।

तपसा विद्यया बुद्ध्या मन्त्रौषधिरसायनैः ।।

अतियाति परं मृत्युं न कश्चिदपि पंडितः ।। ३.३.१०.७० ।।

एकस्याद्य मृतिर्जंतोः श्वश्चान्यस्य वरानने ।।

तस्मादनित्यावयवे न त्वं शोचितुमर्हसि ।। ७१ ।।

नित्यं सन्निहितो मृत्युः किं सुखं वद देहिनाम् ।।

व्याघ्रे पुरः स्थिते ग्रासः पशूनां किं नु रोचते ।। ७२ ।।

अतो जन्मजरां जेतुं यदीच्छसि वरानने ।।

शरणं व्रज सर्वेशं मृत्युंजयमुमापतिम् ।। ७३ ।।

तावन्मृत्युभयं घोरं तावज्जन्मजराभयम् ।।

यावन्नो याति शरणं देही शिवपदांबुजम् ।। ७४ ।।

अनुभूयेह दुःखानि संसारे भृशदारुणे ।।

मनो यदा वियुज्येत तदा ध्येयो महेश्वरः ।। ७५ ।।

मनसा पिबतः पुंसः शिवध्यानरसामृतम् ।।

भूयस्तृष्णा न जायेत संसारविषयासवे ।। ७६ ।।

विमुक्तं सर्वसंगैश्च मनो वैराग्ययंत्रितम् ।।

यदा शिवपदे मग्नं तदा नास्ति पुनर्भवः ।। ७७ ।।

तस्मादिदं मनो भद्रे शिवध्यानैकसाधनम् ।।

शोकमोहसमाविष्टं मा कुरुष्व शिवं भज ।। ७८ ।।

।। सूत उवाच ।। ।।

इत्थं सानुनयं राज्ञी बोधिता शिवयोगिना ।।

प्रत्याचष्ट गुरोस्तस्य प्रणम्य चरणां बुजम् ।। ७९ ।।

।। राज्ञ्युवाच ।। ।।

भगवन्मृतपुत्रायास्त्यक्तायाः प्रियबन्धुभिः ।।

महारोगातुराया मे का गतिर्मरणं विना ।। ३.३.१०.८० ।।

अतोऽहं मर्तुमिच्छामि सहैव शिशुनाऽमुना ।।

कृतार्थाहं यदद्य त्वामपश्यं मरणोन्मुखी ।। ८१ ।।

।। सूत उवाच ।। ।।

इति तस्या वचः श्रुत्वा शिवयोगी दयानिधिः ।।

पूर्वोपकारं संस्मृत्य मृतस्यांतिकमाययौ ।। ८२ ।।

स तदा भस्म संगृह्य शिवमन्त्राभिमंत्रितम् ।।

विदीर्णे तन्मुखे क्षिप्त्वा मृतं प्राणैरयोजयत् ।। ८३ ।।

स बालः संगतः प्राणैः शनैरुन्मील्य लोचने ।।

प्राप्तपूर्वेन्द्रियबलो रुरोद स्तन्यकांक्षया ।। ८४ ।।

मृतस्य पुनरुत्थानं वीक्ष्य बालस्य विस्मिताः ।।

जना मुमुदिरे सर्वे नगरेषु पुरोगमाः ।।८५।।

अथानंदभरा राज्ञी विह्वलोन्मत्तलोचना ।।

जग्राह तनयं शीघ्रं बाष्पव्याकुललोचना ।।८६।।

उपगुह्य तदा तन्वी परमानंदनिर्वृता ।।

न वेदात्मानमन्यं वा सुषुप्तेव परिश्रमात् ।। ८७ ।।

पुनश्च ऋषभो योगी तयोर्मातृकुमारयोः ।।

विषव्रणयुतं देहं भस्मनैव परामृशत् ।। ८८ ।।

तौ च तद्भस्मना स्पृष्टौ प्राप्तदिव्यकलेवरौ ।।

देवानां सदृशं रूपं दधतुः कांतिभूषितम्।। ८९ ।।

संप्राप्ते त्रिदिवैश्वर्ये यत्सुखं पुण्यकर्मणाम् ।।

तस्माच्छतगुणं प्राप सा राज्ञी सुखमुत्तमम् ।। ३.३.१०.९० ।।

तां पादयोर्निपतितामृषभः प्रेमविह्वलः ।।

उत्थाप्याश्वासयामास दुःखैर्मुक्तामुवाच ह ।। ९१ ।।

अयि वत्से महाराज्ञि जीवत्वं शाश्वतीः समाः ।।

यावज्जीवसि लोकेस्मिन्न तावत्प्राप्स्यसे जराम् ।। ९२ ।।

एष ते तनयः साध्वि भद्रायुरिति नामतः ।।

ख्यातिं यास्यति लोकेषु निजं राज्यमवाप्स्यति ।। ।। ९३ ।।

अस्य वैश्यस्य सदने तावत्तिष्ठ शुचिस्मिते ।।

यावदेष कुमारस्ते प्राप्तविद्यो भविष्यति ।। ९४ ।।

सूत उवाच।। ।। ।।

इति तामृषभो योगी तं च राजकुमारकम् ।।

संजीव्य भस्मवीर्येण ययौ देशान्यथेप्सितान्।। ९५ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भद्राय्वाख्याने ऋषभयोगिना भद्रायुजीवनं नाम दशमोऽध्यायः ।। ।। १० ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 11

।। सूत उवाच ।। ।।

पिंगला नाम या वेश्या मया पूर्वमुदाहृता ।।

शिवभक्तार्चनात्पुण्यात्त्यक्त्वा पूर्वकलेवरम् ।। १ ।।

चन्द्रांगदस्य सा भूयः सीमंतिन्यामजायत ।।

रूपौदार्यगुणोपेता नाम्ना वै कीर्तिमालिनी ।। २ ।।

भद्रायुरपि तत्रैव राजपुत्रो वणिक्पतेः ।।

ववृधे सदने भानुः शुचाविव महातपाः ।। ३ ।।

तस्यापि वैश्यनाथस्य कुमारस्त्वेक उत्तमः ।।

स नाम्ना सुनयः प्रोक्तो राजसूनोः सखाऽभवत् ।। ४ ।।

तावुभौ परमस्निग्धौ राजवैश्यकुमारकौ।।

चित्रक्रीडावुदारांगौ रत्नाभरणमंडितौ ।। ५ ।।

तस्य राजकुमारस्य ब्राह्मणैः स वणिक्पतिः ।।

संस्कारान्कारयामास स्वपुत्रस्यापि विस्तरात् ।। ६ ।।

काले कृतोपनयनौ गुरुशुश्रूषणे रतौ ।।

चक्रतुः सर्वविद्यानां संग्रहं विनयान्वितौ ।। ७ ।।

अथ राजकुमारस्य प्राप्ते षोडशहायने ।।

स एव ऋषभो योगी तस्य वेश्मन्युपाययौ ।। ८ ।।

सा राज्ञी स कुमारश्च शिवयोगिनमागतम् ।।

मुहुर्मुहुः प्रणम्योभौ पूजयामासतुर्मुदा ।। ९ ।।

ताभ्यां च पूजितः सोऽथ योगीशो हृष्टमानसः ।।

तं राजपुत्रमुद्दिश्य बभाषे करुणार्द्रधीः ।। ३.३.११.१० ।।

।। शिवयोग्युवाच ।। ।।

कच्चित्ते कुशलं तात त्वन्मातुश्चाप्यनामयम् ।।

कच्चित्त्वं सर्वविद्यानामकार्षीश्च प्रतिग्रहम् ।। ११ ।।

कच्चिद्गुरूणां सततं शुश्रूषातत्परो भवान् ।।

कच्चित्स्मरसि मां तात तव प्राणप्रदं गुरुम् ।। १२ ।।

एवं वदति योगीशे राज्ञी सा विनयान्विता ।।

स्वपुत्रं पादयोस्तस्य निपात्यैनमभाषत ।। १३ ।।

एष पुत्रस्तव गुरो त्वमस्य प्राणदः पिता ।।

एष शिष्यस्तु संग्राह्यो भवता करुणात्मना ।। १४ ।।

अतो बन्धुभिरुत्सृष्टमनाथं परिपालय ।।

अस्मै सम्यक्सतां मार्गमुपदेष्टुं त्वमर्हसि ।। १५ ।।

इति प्रसादितो राज्ञ्या शिवयोगी महामतिः ।।

तस्मै राजकुमाराय सन्मार्गमुपदिष्टवान् ।। १६ ।।

।। ऋषभ उवाच ।। ।।

श्रुतिस्मृतिपुराणेषु प्रोक्तो धर्मः सनातनः ।।

वर्णाश्रमानुरूपेण निषेव्यः सर्वदा जनैः ।। १७ ।।

भज वत्स सतां मार्गं सदेव चरितं चर ।।

न देवाज्ञां विलंघेथा मा कार्षीर्देवहेलनम् ।। १८ ।।

गोदेवगुरुविप्रेषु भक्तिमान्भव सर्वदा ।।

चांडालमपि संप्राप्तं सदा संभावयातिथिम् ।। १९ ।।

सत्यं न त्यज सर्वत्र प्राप्तेऽपि प्राणसंकटे ।।

गोब्राह्मणानां रक्षार्थमसत्यं त्वं वद क्वचित् ।। ३.३.११.२० ।।

परस्वेषु परस्त्रीषु देवब्राह्मण वस्तुषु ।।

तृष्णां त्यज महाबाहो दुर्लभेष्वपि वस्तुषु ।। २१ ।।

सत्कथायां सदाचारे सद्व्रते च सदागमे ।।

धर्मादिसंग्रहे नित्यं तृष्णां कुरु महामते ।। २२ ।।

स्नाने जपे च होमे च स्वाध्याये पितृतर्पणे ।।

गोदेवातिथिपूजासु निरालस्यो भवानघ ।। २३ ।।

क्रोधं द्वेषं भयं शाठ्यं पैशुन्य मसदाग्रहम् ।।

कौटिल्यं दंभमुद्वेगं यत्नेन परिवर्जय ।। २४ ।।

क्षात्रधर्मरतोऽपि त्वं वृथा हिंसां परित्यज ।।

शुष्कवैरं वृथालापं परनिदां च वर्जय ।। २५ ।।

मृगया द्यूतपानेषु स्त्रीषु स्त्रीविजितेषु च ।।

अत्याहारमतिक्रोधमतिनिद्रामतिश्रमम् ।। २६ ।।

अत्यालापमतिक्रीडां सर्वदा परिवर्जय ।। ।। २७ ।।

अतिविद्यामतिश्रद्धामतिपुण्यमतिस्मृतिम् ।।

अत्युत्साहमतिख्यातिमतिधैर्यं च साधय ।। २८ ।।

सकामो निजदारेषु सक्रोधो निज शत्रुषु ।।

सलोभः पुण्यनिचये साभ्यसूयो ह्यधर्मिषु ।। २९ ।।

सद्वेषो भव पाखण्डे सरागः सज्जनेषु च ।।

दुर्बोधो भव दुर्मंत्रे बधिरः पिशुनोक्तिषु ।। ३.३.११.३० ।।

धूर्त्तं चंडं शठं क्रूरं कितवं चपलं खलम् ।।

पतितं नास्तिकं जिह्मं दूरतः परिवर्जय ।। ३१ ।।

आत्मप्रशंसा मा कार्षीः परिज्ञातेंगितो भव ।।

धने सर्वकुटुंबे च नात्यासक्तः सदा भव ।। ३२ ।।

पत्न्याः पतिव्रतायाश्च जनन्याः श्वशुरस्य च ।।

सतां गुरोश्च वचने विश्वासं कुरु सर्वदा ।। ३३ ।।

आत्मरक्षापरो नित्यमप्रमत्तो दृढव्रतः ।।

विश्वासं नैव कुर्वीथाः स्वभृत्येष्वपि कुत्र चित् ।। ३४ ।।

विश्वस्तं मा वधीः कंचिदपि चोरं महामते ।।

अपापेषु न शंकेथाः सत्यान्न चलितो भव ।। ३५ ।।

अनाथं कृपणं वृद्धं स्त्रियं बालं निरागसम् ।।

परिरक्ष धनैः प्राणैर्बुद्ध्या शक्त्या बलेन च ।। ३६ ।।

अपि शत्रुं वधस्यार्हं मा वधीः शरणागतम् ।।

अप्यपात्रं सुपात्रं वा नीचो वापि महत्तमः ।। ३७ ।।

यो वा को वापि याचेत तस्मै देहि शिरोपि च ।।

अपि यत्नेन महता कीर्तिमेव सदार्जय ।। ३८ ।।

राज्ञां च विदुषां चैव कीर्तिरेव हि भूषणम् ।।

सत्कीर्तिप्रभवा लक्ष्मीः पुण्यं सत्कीर्तिसंभवम् ।। ३९ ।।

सत्कीर्त्या राजते लोकश्चंद्रश्चंद्रिकया न्यथा ।।

गजाश्वहेमनिचयं रत्नराशिं नगोपमम् ।। ३.३.११.४० ।।

अकीर्त्योपहतं सर्वं तृणवन्मुंच सत्वरम् ।।

मातुः कोपं पितुः कोपं गुरोः कोपं धनव्य यम् ।। ४१ ।।

पुत्राणामपराधं च ब्राह्मणानां क्षमस्व भोः ।।

यथा द्विजप्रसादः स्यात्तथा तेषां हितं चर ।। ४२ ।।

राजानं संकटे मग्नमुद्धरेयुर्द्विजोत्तमा ।।

आयुर्यशो बलं सौख्यं धनं पुण्यं प्रजोन्नतिः ।। ४३ ।।

कर्मणा येन जायेत तत्सेव्यं भवता सदा ।।

देशं कालं च शक्तिं च कार्यं चा कार्यमेव च ।। ४४ ।।

सम्यग्विचार्य यत्नेन कुरु कार्यं च सर्वदा ।।

न कुर्याः कस्यचिद्बाधां परबाधां निवारय ।। ४५ ।।

चोरान्दुष्टांश्च बाधेथाः सुनीत्या शक्तिमत्तया ।।

स्नाने जपे च होमे च दैवे पित्र्ये च कर्मणि ।। ४६ ।।

अत्वरो भव निद्रायां भोजने भव सत्वरः ।।

दाक्षिण्ययुक्तमशठं सत्यं जनमनोहरम् ।। ४७ ।।

अल्पाक्षरमनंतार्थं वाक्यं ब्रूहि महामते।।

अभीतो भव सर्वत्र विपक्षेषु विपत्सु च ।। ४८ ।।

भीतो भव ब्रह्मकुले न पापे गुरुशासने ।।

ज्ञातिबंधुषु विप्रेषु भार्यासु तनयेषु च ।। ४९ ।।

समभावेन वर्तेथास्तथा भोजनपंक्तिषु ।।

सतां हितोपदेशेषु तथा पुण्य कथासु च ।। ३.३.११.५० ।।

विद्यागोष्ठीषु धर्म्यासु क्वचिन्मा भूः पराङ्मुखः ।।

शुचौ पुण्यजलस्यांते प्रख्याते ब्रह्मसंकुले ।। ५१।।

महादेशे शिवमये वस्तव्यं भवता सदा ।।

कुलटा गणिका यत्र यत्र तिष्ठति कामुकः ।। ५२ ।।

दुर्देशे नीचसंबाधे कदाचिदपि मा वस ।।

एकमेवाश्रितोपि त्वं शिवं त्रिभुवनेश्वरम् ।। ५३ ।।

सर्वान्देवानुपासीथास्तद्दिनानि च मानयन् ।।

सदा शुचिः सदा दक्षः सदा शांतः सदा स्थिरः ।। ५४ ।।

सदा विजित षड्वर्गः सदैकांतो भवानघ ।।

विप्रान्वेदविदः शांतान्यतींश्च नियतोज्वलान्।। ५५ ।।

युग्मम् ।।

पुण्यवृक्षान्पुण्यनदीः पुण्यतीर्थं महत्सरः ।।

धेनुं च वृषभं रत्नं युवतीं च पतिव्रताम्।। ५६ ।।

आत्मनो गृहदेवांश्च सहसैव नमस्कुरु ।।

उत्थाय समये ब्राह्मे स्वाचम्य विमलाशयः ।।५७ ।।

नमस्कृत्यात्मगुरुवे ध्यात्वा देवमुमापतिम्।।

नारायणं च लक्ष्मीशं ब्रह्माणं च विनायकम्।। ५८ ।।

स्कन्दं कात्यायनीं देवीं महालक्ष्मीं सरस्वतीम् ।।

इन्द्रादीनथ लोकेशान्पुण्यश्लोकानृषीनपि ।। ५९ ।।

चिंतयित्वाथ मार्त्तंडमुद्यंतं प्रणमेत्सदा ।।

गंधं पुष्पं च तांबूलं शाकं पक्वफलादिकम् ।। ३.३.११.६० ।।

शिवाय दत्त्वोपभुंक्ष्व भक्ष्यं भोज्यं प्रियं नवम् ।।

यद्दत्तं यत्कृतं जप्तं यत्स्नातं यद्धुतं स्मृतम् ।। ६१ ।।

यच्च तप्तं तपः सर्वं तच्छिवाय निवेदय।।

भुंजानश्च पठन्वापि शयानो विहरन्नपि ।।

पश्यञ्छृण्न्ववदन्गृह्णञ्छिवमेवानुचिंतय ।। ६२ ।।

रुद्राक्षकंकणलसत्करदंडयुग्मो मालांतरालधृतभस्म सितत्रिपुंडूः ।।

पंचाक्षरं परिपठन्परमंत्रराजं ध्यायन्सदा पशुपतेश्चरणं रमेथाः ।।६३ ।।

इति संक्षेपतो वत्स कथितो धर्मसंग्रहः ।।

अन्येषु च पुराणेषु विस्तरेण प्रकीर्तितः ।।६४।।

अथापरं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम्।।

जयप्रदं सर्वविपद्विमोचनं वक्ष्यामि शैवं कवचं हिताय ते ।।६५।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे भद्रायुं प्रति ऋषभोपदेशवर्णनं नामैकादशोऽध्यायः ।। ११ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 12

।। ऋषभ उवाच ।। ।।

नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् ।।

वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ।। १ ।।

शुचौ देशे समासीनो यथावत्कल्पितासनः ।।

जितेंद्रियो जितप्राणश्चिंतयेच्छिवमव्ययम् ।। २।।

हृत्पुंडरीकांतरसन्निविष्टं स्वतेजसा व्याप्तनभोवकाशम् ।।

अतींद्रियं सूक्ष्ममनंतमाद्यं ध्यायेत्परानंदमयं महेशम् ।। ३ ।।

ध्यानावधूताखिलकर्मबंधश्चिरं चिदानंदनिमग्नचेताः ।।

षडक्षरन्याससमाहितात्मा शैवेन कुर्या त्कवचेन रक्षाम् ।। ४ ।।

मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे ।।

तन्नाम दिव्यं वरमंत्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ।। ५ ।।

सर्वत्र मां रक्षतु विश्वमूर्त्तिर्ज्योतिर्मयानंदघनश्चिदात्मा ।।

अणोरणीयानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ।। ६ ।।

यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशोऽष्टमूर्तिः ।।

योऽपां स्वरूपेण नृणां करोति संजीनं सोऽवतु मां जलेभ्यः ।। ७ ।।

कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः ।।

स कालरुद्रोऽवतु मां दवाग्नेर्वात्यादिभीतेरखिलाच्च तापात् ।। ८ ।।

प्रदीप्तविद्युत्कनकावभासो विद्यावराभीतिकुठारपाणिः।।

चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितं रक्षतु मामजस्रम् ।। ९ ।।

कुठारवेदांकुशपाशशूलकपालढक्काक्षगुणान्दधानः ।।

चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ।। ३.३.१२.१० ।।

कुंदेन्दुशंखस्फटिकावभासो वेदाक्षमालावरदाभयांकः ।।

त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्योधिजातोवतु मां प्रतीच्याम् ।। ११ ।।

वराक्षमालाभयटंकहस्तः सरोजकिंजल्कसमानवर्णः ।।

त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ।। १२ ।।

वेदाभयेष्टांकुशटंकपाशकपालढक्काक्षकशूलपाणिः ।।

सितद्युतिः पंचमुखोऽवतान्मामीशान ऊर्द्ध्वं परमप्रकाशः ।। १३ ।।

मूर्धानमव्यान्मम चंद्रमौ लिर्भालं ममाव्यादथ भालनेत्रः ।।

नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ।। १४ ।।

पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्या त्सततं कपाली ।।

वक्त्रं सदा रक्षतु पंचवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ।। १५ ।।

कंठं गिरीशोऽवतु नीलकंठः पाणिद्वयं पातु पिनाकपाणिः ।।

दोर्मूलमव्यान्मम धर्मबाहुर्वक्षःस्थलं दक्षमखांतकोऽव्यात् ।। १६ ।।

ममोदरं पातु गिरींद्रधन्वा मध्यं ममाव्यान्मदनान्तकारी ।।

हेरंबतातो मम पातु नाभिं पायात्कटी धूर्जटिरीश्वरो मे ।। १७ ।।

ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् ।।

जंघायुगं पुंगवकेतुरव्यात्पादौ ममाव्या त्सुरवंद्यपादः ।। १८ ।।

महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतु वामदेवः ।।

त्रियंबकः पातु तृतीययामे वृषध्वजः पातु दिनांत्ययामे ।। ।। १९ ।।

पायान्निशादौ शशिशेखरो मां गंगाधरो रक्षतु मां निशीथे ।।

गौरीपतिः पातु निशावसाने मृत्युंजयो रक्षतु सर्वकालम् ।। ३.३.१२.२० ।।

अंतःस्थितं रक्षतु शंकरो मां स्थाणुः सदा पातु बहिःस्थितं माम् ।।

तदंतरे पातु पतिः पशूनां सदा शिवो रक्षतु मां समंतात् ।। २१ ।।

तिष्ठंतमव्या द्भुवनैकनाथः पायाद्व्रजंतं प्रमथाधिनाथः ।।

वेदांतवेद्योऽवतु मान्निषण्णं मामव्ययः पातु शिवः शयानम् ।। २२।।

मार्गेषु मां रक्षतु नीलकंठः शैलादिदुर्गेषु पुरत्रयारिः ।।

अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्तिः ।। २३ ।।

कल्पांतकाटोपपटुप्रकोपः स्फुटाट्टहासोच्चलितांडकोशः ।।

घोरारिसेनार्णवदुर्निवारमहाभयाद्रक्षतु वीरभद्रः।।२४।।

पत्त्यश्वमातंगघटावरूथसहस्रलक्षायुतकोटिभीषणम् ।।

अक्षौहिणीनां शतमाततायिनां छिंद्या न्मूढो घोरकुठारधारया ।। २५ ।।

निहंतु दस्यून्प्रलयानलार्चिर्ज्वलत्त्रिशूलं त्रिपुरांतकस्य ।।

शार्दूलसिंहर्क्षवृकादिहिंस्रान्संत्रासयत्वीशधनुःपिनाकम्।। ।।२६।।

दुःस्वप्नदुःशकुनदुर्गतिदौर्मनस्यदुर्भिक्षदुर्व्यसनदुःसहदुर्यशांसि।

उत्पाततापविषभीतिमसद्ग्रहार्तिव्याधींश्च नाशयतु मे जगतामधीशः।।२७।।

ओंनमो भगवते सदाशिवाय सकलतत्त्वात्मकाय सकलतत्त्वविहाराय सकललोकैककर्त्रे सकललौकैकभर्त्रे सकललोकैकहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवरप्रदाय सकलदुरितार्तिभंजनाय सकलजगदभयंकराय सकललोकैकशंकराय शशांकशेखराय शाश्व तनिजाभासाय निर्गुणाय निरुपमाय नीरूपाय निराभासाय निरामयाय निष्प्रपंचाय निष्कलंकाय निर्द्वंद्वाय निःसंगाय निर्मलाय निर्गमाय नित्यरूपविभवाय निरुपमविभवाय निराधाराय नित्यशुद्धबुद्धपरिपूर्णसच्चिदानंदाद्वयाय परमशांतप्रकाशतेजोरूपाय जयजय महारुद्र महारौद्र भद्रावतार दुःखदावदारण महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर खट्वांगखड्गचर्मपाशांकुशडमरुशूलचापबाणगदाशक्तिभिं डिपालतोमरमुसलमुद्गरपट्टिशपरशुपरिघभुशुंडीशतघ्नीचक्राद्यायुधभीषणकरसहस्र मुखदंष्ट्राकराल विकटाट्टहासविस्फारितब्रह्मामण्डल नागेंद्र कुण्डल नागेंद्रहार नागेंद्रवलय नागेंद्रचर्मधर मृत्युंजय त्र्यंबक त्रिपुरांतक विरूपाक्ष विश्वेश्वर विश्वरूप वृषभवाहन विषभूषण विश्वतोमुख सर्वतो रक्षरक्ष मां ज्वलज्वल महामृत्युभयमपमृत्युभयं नाशयनाशय रोगभयमुत्सादयोत्सादय विषसर्पभयं शमयशमय चोरभयं मारयमारय मम शत्रूनुच्चा टयोच्चाटय शूलेन विदारयविदारय कुठारेण भिंधिभिंधि खड्गेन छिंधिछिंधि खट्वांगेन विपोथयविपोथय मुसलेन निष्पेषयनिष्पेषय बाणैः संताडय संताडय रक्षांसि भीषयभीषय भूतानि विद्रावयविद्रावय कूष्मांडवेतालमारीगणब्रह्मराक्षसान्संत्रासयसंत्रासय ममाभयं कुरुकुरु वित्रस्तं मामाश्वास याश्वासय नरकभयान्मामुद्धारयोद्धारय संजीवयसंजीवय क्षुत्तृड्भ्यां मामाप्याययाप्यायय दुःखातुरं मामानन्दयानंदय शिवकवचेन मामाच्छादया च्छादय त्र्यंबक सदाशिव नमस्तेनमस्तेनमस्ते ।।

।। ऋषभ उवाच ।। ।।

इत्येतत्कवचं शैवं वरदं व्याहृतं मया ।।

सर्वबाधाप्रशमनं रहस्यं सर्व देहिनाम् ।। २८ ।।

यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् ।।

न तस्य जायते क्वापि भयं शम्भोरनुग्रहात् ।। २९ ।।

क्षीणायुर्मृत्युमापन्नो महारोगहतोऽपि वा ।।

सद्यः सुखमवाप्नोति दीर्घमायुश्च विंदति ।। ३.३.१२.३० ।।

सर्वदारिद्र्यशमनं सौमंगल्यविवर्धनम् ।।

यो धत्ते कवचं शैवं स देवैरपि पूज्यते ।। ३१ ।।

महापातकसंघातैर्मुच्यते चोपपातकैः ।।

देहांते शिवमाप्नोति शिववर्मानुभावतः ।। ३२ ।।

त्वमपि श्रद्धया वत्स शैवं कवच मुत्तमम्।।

धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ।। ३३ ।।

।। सूत उवाच ।। ।।

इत्युक्त्वा ऋषभो योगी तस्मै पार्थिवसूनवे ।।

ददौ शंखं महारावं खड्गं चारिनिषूदनम् ।। ३४ ।।

पुनश्च भस्म संमंत्र्य तदंगं सर्वतोऽस्पृशत् ।।

गजानां षट्सहस्रस्य द्विगुणं च बलं ददौ ।। ३५ ।।

भस्मप्रभावात्संप्राप्य बलैश्वर्यधृतिस्मृतीः ।।

स राजपुत्रः शुशुभे शरदर्क इव श्रिया ।। ३६ ।।

तमाह प्रांजलिं भूयः स योगी राजनंदनम् ।।

एष खड्गो मया दत्तस्तपोमंत्रानुभावतः ।। ३७ ।।

शितधारमिमं खड्गं यस्मै दर्शयसि स्फुटम् ।।

स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ।। ।। ३८ ।।

अस्य शंखस्य निह्रादं ये शृण्वंति तवाहिताः.।।

ते मूर्च्छिताः पतिष्यंति न्यस्तशस्त्रा विचेतना ।। ३९ ।।

खड्गशंखाविमौ दिव्यौ परसैन्यविनाशिनौ ।।

आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ।। ३.३.१२.४० ।।

एतयोश्च प्रभावेन शैवेन कवचेन च ।।

द्विषट्सहस्रनागानां बलेन महतापि च ।।४१।।

भस्मधारणसामर्थ्याच्छत्रुसैन्यं विजेष्यसि ।।

प्राप्य सिंहासनं पैत्र्यं गोप्तासि पृथिवीमिमाम् ।।४२।।

इति भद्रायुषं सम्यगनुशास्य समातृकम्।।

ताभ्यां संपूजितः सोऽथ योगी स्वैरगतिर्ययौ ।। ४३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तर खंडे सीमंतिनीमाहात्म्ये भद्रायूपाख्याने शिवकवचकथनं नाम द्वादशोऽध्यायः ।। १२ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 13

।। सूत उवाच ।। ।।

दशार्णाधिपतेस्तस्य वज्रबाहोर्महाभुजः ।।

बभूव शत्रुर्बलवान्राजा मगधराट् ततः ।। १ ।।

स वै हेमरथो नाम बाहुशाली रणोत्कटः ।।

बलेन महतावृत्य दशार्णं न्यरुधद्बली ।। २ ।।

चमूपास्तस्य दुर्धर्षाः प्राप्य देशं दशार्णकम् ।।

व्यलुंपन्वसुरत्नानि गृहाणि ददहुः परे ।।३।।

केचिद्धनानि जगृहुः केचिद्बालान्स्त्रियोऽपरे ।।

गोधनान्यपरेऽगृह्णन्केचिद्धान्यपरिच्छदान् ।।

केचिदारामसस्यानि गृहोद्यानान्यनाशयत् ।।४।।

एवं विनाश्य तद्राज्यं स्त्रीगोधनजिघृक्षवः ।।

आवृत्य तस्य नगरीं वज्रबाहोस्तु मागधः ।। ५ ।।

एवं पर्याकुलं वीक्ष्य राजा नगरमेव च ।।

युद्धाय निर्जगामाशु वज्रबाहुः ससै निकः ।। ६ ।।

वज्रबाहुश्च भूपालस्तथा मंत्रिपुरःसराः ।।

युयुधुर्मागधैः सार्धं निजघ्नुः शत्रुवाहिनीम् ।।७।।

वज्रबाहुर्महेष्वासो दंशितो रथमास्थितः।।

विकिरन्बाणवर्षाणि चकार कदनं महत् ।।८।।

दशार्णराजं युध्यंतं दृष्ट्वा युद्धे सुदुःसहम् ।।

तमेव तरसा वव्रुः सर्वे मागधसैनिकाः ।। ९ ।।

कृत्वा तु सुचिरं युद्धं मागधा दृढविक्रमाः ।।

तत्सैन्यं नाशयामासुर्लेभिरे च जयश्रियम् ।।३.३.१३.१०।।

केचित्तस्य रथं जघ्नुः केचित्तद्धनुराच्छिनम् ।।

सूतं तस्य जघानैकस्त्वपरः खड्गमाच्छिनत् ।। ११।।

संछिन्नखड्गधन्वानं विरथं हतसारथिम् ।।

बलाद्गृहीत्वा बलिनो बबंधुर्नृपतिं रुषा ।।१२।।

तस्य मंत्रिगणं सर्वं तत्सैन्यं च विजित्य ते ।।

मागधास्तस्य नगरीं विविशुर्जयकाशिनः ।। १३ ।।

अश्वान्नरान्गजानुष्ट्रान्पशूंश्चैव धनानि च ।।

जगृहुर्युवतीः सर्वाश्चार्वंगीश्चैव कन्यकाः ।। १४ ।।

राज्ञो बबंधुर्महिषीर्दासीश्चैव सहस्रशः ।।

कोशं च रत्नसंपूर्णं जह्रुस्तेऽप्याततायिनः ।। १५ ।।

एवं विनाश्य नगरीं हृत्वा स्त्रीगोधनादिकम् ।।

वज्रबाहुं बलाद्बद्ध्वा रथे स्थाप्य विनिर्ययुः ।। १६ ।।

एवं कोलाहले जाते राष्ट्रनाशे च दारुणे ।।

राजपुत्रोऽथ भद्रायुस्तद्वार्तामशृणोद्बली ।। १७ ।।

पितरं शत्रुनिर्बद्धं पितृपत्नीस्तथा हृताः ।।

नष्टं दशार्णराष्ट्रं च श्रुत्वा चुक्रोश सिंहवत् ।। १८ ।।

स खड्गशंखावादाय वैश्यपुत्रसहायवान् ।।

दंशितो हयमारुह्य कुमारो विजिगीषया ।। १९ ।।

जवेनागत्य तं देशं मागधैरभिपूरितम् ।।

दह्यमानं क्रंदमानं हृतस्त्रीसुतगोधनम् ।। ३.३.१३.२० ।।

दृष्ट्वा राजजनं सर्वं राज्यं शून्यं भयाकुलम् ।।

क्रोधाध्मातमनास्तूर्णं प्रविश्य रिपुवाहिनीम् ।।

आकर्णाकृष्टकोदंडो ववर्ष शरसंततीः ।। २१ ।।

ते हन्यमाना रिपवो राजपुत्रेण सायकैः ।।

तमभिद्रुत्य वेगेन शरैर्विव्यधुरुल्बणैः ।। २२ ।।

हन्यमानोऽस्त्रपूगेन रिपुभिर्युद्धदुर्मदैः ।।

न चचाल रणे धीरः शिववर्माभिरक्षितः ।। २३ ।।

सोऽस्त्रकर्षं प्रसह्याशु प्रविश्य गजलीलया ।।

जघानाशु रथान्नागान्पदातीनपि भूरिशः ।। २४ ।।

तत्रैकं रथिनं हत्वा ससूतं नृपनंदनः ।।

तमेव रथमास्थाय वैश्यनंदनसारथिः ।।

विचचार रणे धीरः सिंहो मृगकुलं यथा ।। २५ ।।

अथ सर्वे सुसंरब्धाः शूराः प्रोद्यतकार्मुकाः ।।

अभिसस्रुस्तमेवैकं चमूपा बलशालिनः ।। २६ ।।

तेषामापततामग्रे खड्गमुद्यम्य दारुणम् ।।

अभ्युद्ययौ महावीरान्दर्शयन्निव पौरुषम् ।। २७ ।।

करालांतकजिह्वाभं तस्य खड्गं महोज्ज्वलम् ।।

दृष्ट्वैव सहसा मम्रुश्च मूपास्तत्प्रभावतः ।। २८ ।।

येये पश्यंति तं खड्गं प्रस्फुरंतं रणांगणे ।।

ते सर्वे निधनं जग्मुर्वज्रं प्राप्येव कीटकः ।। २९ ।।

अथासौ सर्वसैन्यानां विनाशाय महाभुजः ।।

शंखं दध्मौ महारावं पूरयन्निव रोदसी ।। ३.३.१३.३० ।।

तेन शंखनिनादेन विषाक्तेनैव भूयसा ।।

श्रुतमात्रेण रिपवो मूर्च्छिताः पतिता भुवि ।।३१ ।।

येऽश्वपृष्ठे रथे ये च ये च दंतिषु संस्थिताः।।

ते विसंज्ञाः क्षणात्पेतुः शंखनादहतौजसः।।३२।।

तान्भूमौ पतितान्सर्वान्नष्टसंज्ञा न्निरायुधान्।।

विगणय्य शवप्रायाननावधीद्धर्मशास्त्रवित्।।३३।।

आत्मनः पितरं बद्धं मोचयित्वा रणाजिरे।।

तत्पत्नीः शत्रुवशगाः सर्वाः सद्यो व्यमोचयत् ।। ३४ ।।

पत्नीश्च मंत्रिमुख्यानां तथान्येषां पुरौकसाम् ।।

स्त्रियो बालांश्च कन्याश्च गोधनादीन्यनेकशः ।। ३५ ।।

मोचयित्वा रिपुभयात्तमाश्वासयदाकुलः ।।

अथारिसैन्येषु चरंस्तेषां जग्राह योषितः ।। ३६ ।।

मरुन्मनोजवानश्वान्मातंगान्गिरिसन्निभान् ।।

स्यंदनानि च रौक्माणि दासीश्च रुचिराननाः ।। ३७ ।।

युग्मम् ।।

सर्वमाहृत्य वेगेन गृहीत्वा तद्धनं बहु ।।

मागधेशं हेमरथं निर्बबंध पराजितम् ।। ३८ ।।

तन्मंत्रिणश्च भूपांश्च तत्र मुख्यांश्च नायकान्।।

गृहीत्वा तरसा बद्ध्वा पुरीं प्रावेशयद्द्रुतम् ।। ३९ ।।

पूर्वं ये समरे भग्ना विवृत्ताः सर्वतोदिशम् ।।

ते मंत्रिमुख्या विश्वस्ता नायकाश्च समाययुः ।। ३.३.१३.४० ।।

कुमारविक्रमं दृष्ट्वा सर्वे विस्मितमानसाः ।।

तं मेनिरे सुरश्रेष्ठं कारणादागतं भुवम् ।। ।। ४१ ।।

अहो नः सुमहाभाग्यमहो नस्तपसः फलम् ।।

केनाप्यनेन वीरेण मृताः संजीविताः खलु ।। ४२ ।।

एष किं योगसिद्धो वा तपःसिद्धो ऽथवाऽमरः ।।

अमानुषमिद कर्म यदनेन कृतं महत् ।। ४३ ।।

नूनमस्य भवेन्माता सा गौरीति शिवः पिता ।।

अक्षौहिणीनां नवकं जिगायानंतशक्तिधृक् ।। ४४ ।।

इत्याश्चर्ययुतैर्हृष्टैः प्रशंसद्भिः परस्परम् ।।

पृष्टोऽमात्यजनेनासावात्मानं प्राह तत्त्वतः ।। ४५ ।।

समागतं स्वपितरं विस्मयाह्लादविप्लुतम् ।।

मुंचंतमानंदजलं ववंदे प्रेमविह्वलः ।। ४६ ।।

स राजा निजपुत्रेण प्रणयादभिवंदितः ।।

आश्लिष्य गाढं तरसा बभाषे प्रेमकातरः ।। ४७ ।।

कस्त्वं देवो मनुष्यो वा गन्धर्वो वा महामते ।।

का माता जनकः को वा को देशस्तव नाम किम् ।। ४८ ।।

कस्मान्न शत्रुभिर्बद्धान्मृतानिव हतौजसः ।।

कारुण्यादिह संप्राप्य सपत्नीकान्मुमोच यः ।। ४९ ।।

कुतो लब्धमिदं शौर्यं धैर्यं तेजो बलोन्नतिः ।।

जिगीषसीव लोकांस्त्रीन्सदेवासुरमानुषान् ।। ३.३.१३.५० ।।

अपि जन्मसहस्रेण तवानृण्यं महौजसः ।।

कर्तुं नाहं समर्थोस्मि सहैभिर्दारबांधवैः ।।५१।।

इमान्पुत्रानिमाः पत्नीरिदं राज्यमिदं पुरम् ।।

सर्वं विहाय मच्चित्तं त्वय्येव प्रेमबंधनम् ।।५२।।

सर्वं कथय मे तात मत्प्राणपरिरक्षक ।।

एतासां मम पत्नीनां त्वदधीनं हि जीवितम् ।। ५३ ।।

।। सूत उवाच ।। ।।

इति पृष्टः स भद्रायुः स्वपित्रा तमभाषत ।।

एष वैश्यसुतो राजन्सुनयो नाम मत्सखा ।। ५४ ।।

अहमस्य गृहे रम्ये वसामि सहमातृकः ।।

भद्रायुर्नाम मद्वृत्तं पश्चाद्विज्ञापयामि ते ।। ५५ ।।

पुरं प्रविश्य भद्रं ते सदारः ससुहृज्जनः ।।

त्यक्त्वा भयमरातिभ्यो विहरस्व यथासुखम् ।। ५६ ।।

नैतान्मुंच रिपूंस्तावद्यावदागमनं मम ।।

अहमद्य गमिष्यामि शीघ्रमात्मनिवेशनम् ।। ५७ ।।

इत्युक्त्वा नृपमामंत्र्य भद्रायुर्नृपनंदनः ।।

आजगाम स्वभवनं मात्रे सर्वं न्यवेदयत् ।। ५८।।

सापि हृष्टा स्वतनयं परिरेभेऽश्रुलोचना ।।

स च वैश्यपतिः प्रेम्णा परिष्वज्याभ्यपूजयत् ।। ५९ ।।

वज्रबाहुश्च राजेंद्रः प्रविष्टो निजमंदिरम् ।।

स्त्रीपुत्रामात्य सहितः प्रहर्षमतुलं ययौ ।। ३.३.१३.६० ।।

तस्यां निशायां व्युष्टायामृषभो योगिनां वरः ।।

चंद्रांगदं समागत्य सीमंतिन्याः पतिं नृपम् ।। ६१ ।।

भद्रायुषः समुत्पत्तिं तस्य कर्माप्यमानुषम् ।।

आवेद्य रहसि प्रेम्णा त्वत्सुतां कीर्तिमालिनीम् ।। ६२ ।।

भद्रायुषे प्रयच्छेति बोधयित्वा च नैषधम् ।।

ऋषभो निर्जगामाथ देशकालार्थतत्त्ववित् ।। ६३ ।।

विशेषकम् ।।

अथ चंद्रांगदो राजा मुहूर्त्ते मंगलोचिते ।।

भद्रायुषं समाहूय प्रायच्छत्कीर्त्तिमालिनीम् ।। ६४ ।।

कृतोद्वाहः स राजेंद्रतनयः सह भार्यया ।।

हेमासनस्थः शुशुभे रोहिण्येव निशाकरः ।। ६५ ।।

वज्रबाहुं तत्पितरं समाहूय स नैषधः ।।

पुरं प्रवेश्य सामात्यः प्रत्युद्गम्याभ्यपूजयत् ।। ६६ ।।

तत्रापश्यत्कृतोद्वाहं भद्रायुषमरिंदमम् ।।

पादयोः पतितं प्रेम्णा हर्षात्तं परिषस्वजे ।। ।। ६७ ।।

एष मे प्राणदो वीर एष शत्रुनिषूदनः ।।

अथाप्यज्ञातवंशोऽयं मयानंतपराक्रमः ।। ६८ ।।

एष ते नृप जामाता चंद्रांगद महाबलः ।।

अस्य वंशमथोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः ।। ६९ ।।

इत्थं दशार्णराजेन प्रार्थितो निषधाधिपः ।।

विविक्त उपसंगम्य प्रहसन्निदमब्रवीत् ।। ३.३.१३.७० ।।

एष ते तनयो राजञ्छैशवे रोगपीडितः ।।

त्वया वने परित्यक्तः सह मात्रा रुजार्तया ।। ७१ ।।

परिभ्रमंती विपिने सा नारी शिशुनामुना ।।

दैवाद्वैश्यगृहं प्राप्ता तेन वैश्येन रक्षिता ।। ७२ ।।

अथासौ बहुरोगार्तो मृतस्तव कुमारकः ।।

केनापि योगिराजेन मृतः संजीवितः पुनः ।। ७३ ।।

ऋषभाख्यस्य तस्यैव प्रभावाच्छिवयोगिनः ।।

रूपं च देवसदृशं प्राप्तौ मातृकुमारकौ ।। ७४ ।।

तेन दत्तेन खड्गेन शंखेन रिपुघातिना ।।

जिगाय समरे शत्रूञ्छिववर्माभिरक्षितः ।। ७५ ।।

द्विषट्सहस्रनागानां बलमेको बिभर्त्यसौ ।।

सर्वविद्यासु निष्णातो मम जामातृतां गतः ।। ७६ ।।

अत एनं समादाय मातरं चास्य सुव्रताम्।।

गच्छस्व नगरीं राजन्प्राप्स्यसि श्रेय उत्तमम् ।। ७७ ।।

इति चंद्रांगदः सर्वमाख्यायांतर्गृहे स्थिताम् ।।

तस्याग्र पत्नीमाहूय दर्शयामास भूषिताम् ।। ७८ ।।

इत्यादि सर्वमाकर्ण्य दृष्ट्वा च स महीपतिः ।।

व्रीडितो नितरां मौढ्यात्स्वकृतं कर्म गर्हयन् ।। ७९ !।

प्राप्तश्च परमानन्दं तयोर्दर्शनकौतुकात् ।।

पुलकांकितसर्वांगस्तावुभौ परिषस्वजे ।। ३.३.१३.८० ।।

युग्मम् ।।

एवं निषधराजेन पूजितश्चाभिनन्दितः ।।

स भोजयित्वा तं सम्यक्स्वयं च सह मंत्रिभिः ।। ८१ ।।

तामात्मनोग्रमहिषीं पुत्रं तमपि तां स्नुषाम् ।।

आदाय सपरीवारो वज्रबाहुः पुरीं ययौ ।।८२।।

स संभ्रमेण महता भद्रायुः पितृमंदिरम्।।

संप्राप्य परमानंदं चक्रे सर्वपुरौकसाम्।।८३।।

कालेन दिवमारूढे पितरि प्राप्तयौवनः।।

भद्रायुः पृथिवीं सर्वां शशासाद्भुतविक्रमः ।। ८४ ।।

मागधेशं हेमरथं मोचयामास बंधनात् ।।

संधाय मैत्रीं परमां ब्रह्मर्षीणां च सन्निधौ।। ८५।।

इत्थं त्रिलोकमहितां शिवयोगिपूजां कृत्वा पुरातनभवेऽपि स राजसूनुः ।।

निस्तीर्य दुःसहविपद्गणमाप्तराज्यश्चंद्रांगदस्य सुतया सह साधु रेमे ।। ८६ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखंडे भद्रायुविवाहकथनं नाम त्रयोदशोऽध्यायः ।। १३ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 14

।। सूत उवाच ।। ।।

प्राप्तसिंहासनो वीरो भद्रायुः स महीपतिः ।।

प्रविवेश वनं रम्यं कदाचिद्भार्यया सह ।। १ ।।

तस्मिन्विकसिताशोकप्रसूननवपल्लवे।।

प्रोत्फुल्लमल्लिकाखंडकूजद्भ्रमरसंकुले।।२।।

नवकेसरसौरभ्यबद्धरागिजनोत्सवे।।

सद्यः कोरकिताशोकतमालगहनांतरे ।।३।।

प्रसूनप्रकरानम्र माधवीवनमंडपे।।

प्रवालकुसुमोद्द्योतचूतशाखिभिरञ्चिते ।।४।।

पुन्नागवनविभ्रांतपुंस्कोकिलविराविणि।।

वसन्तसमये रम्ये विजहार स्त्रिया सह ।।५।।

अथाविदूरे क्रोशंतौ धावंतौ द्विजदंपती ।।

अन्वीयमानौ व्याघ्रेण ददर्श नृपसत्तमः ।। ६ ।।

पाहि पाहि महाराज हा राजन्करुणानिधे ।।

एष धावति शार्दूलो जग्धुमावां महारयः ।। ७ ।।

एष पर्वतसंकाशः सर्वप्राणिभयंकरः ।।

यावन्न खादति प्राप्य तावन्नौ रक्ष भूपते ।। ८ ।।

इत्थमाक्रंदितं श्रुत्वा स राजा धनुराददे ।।

तावदागत्य शार्दूलो मध्ये जग्राह तां वधूम् ।। ९ ।।

हा नाथ नाथ हा कांत हा शंभो जगतः पते ।।

इति रोरूयमाणां तां यावज्जग्राह भीषणः ।। ३.३.१४.१० ।।

तावत्स राजा निशितैर्भल्लैर्व्याघ्रमताडयत् ।।

न च तैर्विव्यथे किंचिद्गिरींद्र इव वृष्टिभिः ।।११।।

स शार्दूलो महासत्त्वो राज्ञोस्त्रैरकृतव्यथः ।।

बलादाकृष्य तां नारीमपाक्रामत सत्वरः ।। १२ ।।

व्याघ्रेणापहृतां पत्नीं वीक्ष्य विप्रोऽतिदुःखितः ।।

रुरोद हा प्रिये बाले हा कांते हा पतिव्रते ।। १३ ।।

एकं मामिह संत्यज्य कथं लोकांतरं गता ।।

प्राणेभ्योपि प्रियां त्यक्त्वा कथं जीवितुमुत्सहे ।। १४ ।।

राजन्क्व ते महास्त्राणि क्व ते श्लाघ्यं महद्धनुः ।।

क्व ते द्वादशसाहस्रमहानागातिगं बलम् ।। १५ ।।

किं ते शंखेन खङ्गेन किं ते मंत्रास्त्रविद्यया ।।

किं च तेन प्रयत्नेन किं प्रभावेण भूयसा ।। १६ ।।

तत्सर्वं विफलं जातं यच्चान्यत्त्वयि तिष्ठति ।।

यस्त्वं वनौकसं जंतुं निवारयितुमक्षमः ।। १७ ।।

क्षात्त्रस्यायं परो धर्मः क्षताद्यत्परिरक्षणम् ।।

तस्मात्कुलोचिते धर्मे नष्टे त्वज्जीवितेन किम् ।।१८।।

आर्तानां शरणार्तानां त्राणं कुर्वंति पार्थिवाः ।।

प्राणैरर्थैश्च धर्मज्ञास्तद्विहीना मृतोपमाः ।। १९ ।।

धनिनां दानहीनानां गार्हस्थ्याद्भिक्षुता वरा ।।

आर्तत्राणविहीनानां जीवितान्मरणं वरम् ।। ३.३.१४.२० ।।

वरं विषादनं राज्ञो वरमग्नौ प्रवेशनम् ।।

अनाथानां प्रपन्नानां कृपणानामरक्षणात् ।। २१ ।।

इत्थं विलपितं तस्य स्ववीर्यस्य च गर्हणम् ।।

निशम्य नृपतिः शोकादात्मन्येवमचिंतयत् ।। २२ ।।

अहो मे पौरुषं नष्टमद्य दैवविपर्ययात् ।।

अद्य कीर्तिश्च मे नष्टा पातकं प्राप्तमुत्क टम् ।। २३ ।।

धर्मः कालोचितो नष्टो मन्दभाग्यस्य दुर्मतेः ।।

नूनं मे संपदो राज्यमायुष्यं क्षयमेष्यति ।।२४।।

अपुंसां संपदो भोगाः पुत्रदारधनानि च ।।

दैवेन क्षणमुद्यंति क्षणादस्तं व्रजंति च ।।२५।।

अत एनं द्विजन्मानं हतदारं शुचार्दितम् ।।

गतशोकं करिष्यामि दत्त्वा प्राणानपि प्रियान् ।। ।। २६ ।।

इति निश्चित्य मनसा भद्रायुर्नृपसत्तमः ।।

पतित्वा पादयोस्त्वस्य बभाषे परिसांत्वयन् ।। २७ ।।

कृपां कुरु मयि ब्रह्मन्क्षत्रबंधौ हतौजसि ।।

शोकं त्यज महाबुद्धे दास्याम्यर्थं तवेप्सितम् ।। २८ ।।

इदं राज्यमियं राज्ञी ममेदं च कलेवरम् ।।

त्वधीनमिदं सर्वं किं तेऽभिलषितं वद ।। ।। २९ ।।

।। ब्राह्मण उवाच ।। ।।

किमादर्शेन चांधस्य किं गृहैर्भैक्ष्यजीविनः ।।

किं पुस्तकेन मूर्खस्य ह्यस्त्रीकस्य धनेन किम् ।। ३.३.१४.३० ।।

अतोऽहं गतपत्नीको भुक्तभोगो न कर्हिचित् ।।

इमां तवाग्रमहिषीं कामार्थं दीयतां मम ।। ३१ ।।

।। राजोवाच ।। ।।

ब्रह्मन्किमेष धर्मस्ते किमेतद्गुरुशासनम् ।।

अस्वर्ग्यमयशस्यं च परदाराभिमर्शनम् ।। ३२ ।।

दातारः संति वित्तस्य राज्यस्य गजवाजिनाम् ।।

आत्मदेहस्य वा क्वापि न कलत्रस्य कर्हिचित् ।।३३।।

परदारोपभोगेन यत्पापं समुपार्जितम् ।।

न तत्क्षालयितुं शक्यं प्रायश्चित्तशतैरपि ।।३४।।

।। ब्राह्मण उवाच ।।

अपि ब्रह्मवधं घोरमपि मद्यनिषेवणम् ।।

तपसा नाशयिष्यामि कि पुनः पारदारिकम् ।।

तस्मात्प्रयच्छ मे भार्यामिमां त्वं ध्रुवमन्यथा ।। ३५ ।।

अरक्षणाद्भयार्तानां गंतासि निरयं ध्रुवम् ।।

इति विप्रगिरा भीतश्चिंतयामास पार्थिवः ।।

अरक्षणान्महत्पापं पत्नीदानं ततो वरम् ।। ३६ ।।

अतः पत्नीं द्विजाग्र्याय दत्त्वा निर्मुक्तकिल्विषः ।।

सद्यो वह्निं प्रवेक्ष्यामि कीर्तिश्च निहिता भवेत् ।। ३७ ।।

इति निश्चित्य मनसा समुज्ज्वाल्य हुताशनम् ।।

तं ब्राह्मणं समाहूय ददौ पत्नीं सहोदकाम् ।। ३८ ।।

स्वयं स्नातः शुचिर्भूत्वा प्रणम्य विबुधेश्वरान् ।।

तमग्निं द्विः परिक्रम्य शिवं दध्यौ समाहितः ।। ३९ ।।

तमथाग्नौ पतिष्यंतं स्वपदासक्तचेतसम् ।।

प्रत्यदृश्यत विश्वेशः प्रादुर्भूतो जगत्पतिः ।। ३.३.१४.४० ।।

तमीश्वरं पंचवक्त्रं त्रिनेत्रं पिनाकिनं चन्द्रकलावतंसम् ।।

आलंबितापिंगजटाकलापं मध्यंगतं भास्करकोटितेजसम् ।। ४१ ।।

मृणालगौरं गजचर्मवाससं गंगातरंगो क्षितमौलिदेशम् ।।

नागेंद्रहारावलिकंकणोर्मिकाकिरीटकोट्यंगदकुंडलोज्ज्वलम् ।। ४२ ।।

त्रिशूलखट्वांगकुठारचर्ममृगाभयेष्टार्थपिनाकहस्तम् ।।

वृषोपरिस्थं शितिकंठमीशं प्रोद्भूतमग्रे नृपतिर्ददर्श ।। ४३ ।।

अथांबराद्द्रुतं पेतुर्दिव्याः कुसुमवृष्टयः ।।

प्रणेदुर्देवतूर्याणि देवाश्च ननृतुर्जगुः ।। ४४ ।।

तत्राजग्मुर्नारदाद्याः सनकाद्या सुरर्षयः ।।

इन्द्रादयश्च लोकेशास्तथाब्रह्मर्षयोऽमलाः ।। ४५ ।।

तेषां मध्ये समासीनो महादेवः सहोमया ।।

ववर्ष करुणासारं भक्तिनम्रे महीपतौ ।। ४६ ।।

तद्दर्शनानंदविजृंभिताशयः प्रवृद्धबाष्पांबुपरिप्लुतांगः ।।

प्रहृष्टरोमा गलगद्गदाक्षरं तुष्टाव गीर्भिर्मुकुलीकृतांजलिः ।। ४७ ।।

।। राजोवाच ।। ।।

नतोस्म्यहं देवमनाथमव्ययं प्रधानमव्यक्तगुणं महांतम् ।।

अकारणं कारणकारणं परं शिवं चिदानंदमयं प्रशांतम् ।। ४८ ।।

त्वं विश्वसाक्षी जगतोऽस्यकर्त्ता विरूढधामा हृदि सन्निविष्टः ।।

अतो विचिन्वंति विधौ विपश्चितो योगैरनेकैः कृतचित्तरोधैः ।। ४९ ।।

एकात्मतां भावयतां त्वमेको नानाधियां यस्त्वमनेकरूपः ।।

अतींद्रियं साक्ष्युदयास्तविभ्रमं मनःपथात्संह्रियते पदं ते ।। ३.३.१४.५० ।।

तं त्वां दुरापं वचसो धियाश्च व्यपेतमोहं परमात्मरूपम् ।।

गुणैकनिष्ठाः प्रकृतौ विलीनाः कथं वपुः स्तोतुमलंगिरो मे ।। ५१ ।।

तथापि भक्त्याश्रयतामुपेयुस्तवांघ्रिपद्मं प्रणतार्तिभंजनम् ।।

सुघोरसंसारदवाग्निपीडितो भजामि नित्यं भवभीतिशांतये ।। ५२ ।।

नमस्ते देव देवाय महादेवाय शंभवे ।।

नमस्त्रिमूर्तिरूपाय सर्गस्थित्यंतकारिणे ।। ५३ ।।

नमो विश्वादिरूपाय विश्वप्रथमसाक्षिणे ।।

नमः सन्मात्रतत्त्वाय बोधानंदघनाय च ।। ५४ ।।

सर्वक्षेत्रनिवासाय क्षेत्रभिन्नात्मशक्तये ।।

अशक्ताय नमस्तुभ्यं शक्ताभासाय भूयसे ।। ५५ ।।

निराभासाय नित्याय सत्यज्ञानांतरात्मने ।।

विशुद्धाय विदूराय विमुक्ताशेषकर्मणे ।। ५६ ।।

नमो वेदांतवेद्याय वेदमूलनिवासिने ।।

नमो विविक्तचेष्टाय निवृत्तगुण वृत्तये ।। ५७ ।।

नमः कल्याणवीर्याय कल्याणफलदायिने ।।

नमोऽनंताय महते शांताय शिवरूपिणे ।। ५८ ।।

अघोराय सुघोराय घोराघौघ विदारिणे ।।

भर्गाय भवबीजानां भंजनाय गरीयसे ।।

नमो विध्वस्तमोहाय विशदात्मगुणाय च ।। ५९ ।।

पाहि मां जगतां नाथ पाहि शंकर शाश्वत ।।

पाहि रुद्र विरूपाक्ष पाहि मृत्युंजयाव्यय ।। ३.३.१४.६० ।।

शम्भो शशांककृतशेखर शांतमूर्ते गौरीश गोपतिनिशापहुताशनेत्र ।।

गंगाधरांधकविदारण पुण्यकीर्ते भूतेश भूधरनिवास सदा नमस्ते ।। ६१ ।।

।। सूत उवाच ।। ।।

एवं स्तुतः स भगवान्राज्ञा देवो महेश्वरः ।।

प्रसन्नः सह पार्वत्या प्रत्युवाच दयानिधिः ।। ६२ ।।

।। ईश्वर उवाच ।। ।।

राजंस्ते परितुष्टोऽस्मि भक्त्या पुण्यस्तवेन च ।।

अनन्यचेता यो नित्यं सदा मां पर्यपूजयः ।। ६३ ।।

तव भावपरीक्षार्थं द्विजो भूत्वाहमागतः ।।

व्याघ्रेण या परिग्रस्ता सैषा दैवी गिरींद्रजा ।। ६४ ।।

व्याघ्रो मायामयो यस्ते शरैरक्षतविग्रहः ।।

धीरतां द्रष्टुकामस्ते पत्नीं याचितवानहम् ।। ६५ ।।

अस्याश्च कीर्तिमालिन्यास्तव भक्त्या च मानद ।।

तुष्टोऽहं संप्रयच्छामि वरं वरय दुर्लभम् ।। ६६ ।।

।। राजोवाच ।। ।।

एष एव वरो देव यद्भवान्परमेश्वरः ।।

भवतापपरीतस्य मम प्रत्यक्षतां गतः ।। ६७ ।।

नान्यं वरं वृणे देव भवतो वरदर्षभात् ।।

अहं च सेयं सा राज्ञी मम माता च मत्पिता ।। ६८ ।।

वैश्यः पद्माकरो नाम तत्पुत्रः सुनयाभिधः ।।

सर्वानेतान्महादेव सदा त्वत्पार्श्वगान्कुरु ।। ६९ ।।

।। सूत उवाच ।। ।।

अथ राज्ञी महाभागा प्रणता कीर्तिमालिनी ।।

भक्त्या प्रसाद्य गिरिशं ययाचे वरमुत्तमम् ।। ३.३.१४.७० ।।

।। राज्ञ्युवाच ।। ।।

चंद्रांगदो मम पिता माता सीमंतिनी च मे ।।

तयोर्याचे महादेव त्वत्पार्श्वे सन्निधिं सदा ।। ७१ ।।

एवमस्त्विति गौरीशः प्रसन्नो भक्तवत्सलः ।।

तयोः कामवरं दत्त्वा क्षणादंतर्हितोऽभवत् ।। ७२ ।।

सोपि राजा सुरैः सार्धं प्रसादं प्राप्य शूलिनः ।।

सहितः कीर्तिमालिन्या बुभुजे विषयान्प्रियान् ।। ७३ ।।

कृत्वा वर्षायुतं राज्यमव्याहतबलोन्नतिः ।।

राज्यं पुत्रेषु विन्यस्य भेजे शंभोः परं पदम् ।। ७४ ।।

चंद्रांगदोपि राजेंद्रो राज्ञी सीमंतिनी च सा ।।

भक्त्या संपूज्य गिरिशं जग्मतुः शांभवं पदम् ।। ७५ ।।

एतत्पवित्रमघनाशकरं विचित्रं शम्भोर्गुणानुकथनं परमं रहस्यम् ।।

यः श्रावयेद्बुधजनान्प्रयतः पठेद्वा संप्राप्य भोगविभवं शिव मेति सोंते ।। ७६ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भद्रायुशिवप्रसादकथनं नाम चतुर्दशोऽध्यायः ।। ।। १४ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 15

।। सूत उवाच ।। ।।

ऋषभस्यानुभावोयं वर्णितः शिवयोगिनः ।।

अथान्यस्यापि वक्ष्यामि प्रभावं शिवयोगिनः ।। १ ।।

भस्मनश्चापि माहात्म्यं वर्णयामि समासतः ।।

कृतकृत्या भविष्यंति यच्छुत्वा पापिनो जनाः ।। २ ।।

अस्त्येको वामदेवाख्यः शिवयोगी महा तपाः ।।

निर्द्वंद्वो निर्गुणः शांतो निःसंगः समदर्शनः ।। ३ ।।

आत्मारामो जितक्रोधो गृहदारविवर्जितः ।।

अतर्कितगतिर्मौनी संतुष्टो निष्प रिग्रहः ।। ४ ।।

भस्मोद्धूलितसर्वांगो जटामंडलमंडितः ।।

वल्कलाजिनसंवीतो भिक्षामात्रपरिग्रहः ।। ५ ।।

स एकदा चरंल्लोके सर्वानुग्रहतत्परः ।।

क्रौंचारण्यं महाघोरं प्रविवेश यदृच्छया ।। ६ ।।

तस्मिन्निर्मनुजेऽरण्ये तिष्ठत्येकोऽतिभीषणः ।।

क्षुत्तृषाकुलितो नित्यं यः कश्चिद्ब्रह्मराक्षसः ।। ७ ।।

तं प्रविष्टं शिवात्मानं स दृष्ट्वा ब्रह्मराक्षसः ।।

अभिदुद्राव वेगेन जग्धंु क्षुत्परिपीडितः ।। ८ ।।

व्यात्ताननं महाकायं भीमदंष्ट्रं भयानकम् ।।

तमायांतमभिप्रेक्ष्य योगीशो न चचाल सः ।। ९ ।।

अथाभिद्रुत्य तरसा स घोरो वनगोचरः ।।

दोर्भ्यां निष्पीड्य जग्राह निष्कंपं शिवयोगिनम्।।3.3.15.१०।।

तदंगस्पर्शनादेव सद्यो विध्वस्तकिल्बिषः ।।

स ब्रह्मराक्षसो घोरो विषण्णः स्मृतिमाययौ ।। ११ ।।

यथा चिंतामणिं स्पृष्ट्वा लोहं कांचनतां व्रजेत् ।।

यथा जंबूनदीं प्राप्य मृत्तिका स्वर्णतां व्रजेत् ।। १२ ।।

यथा मानसमभ्येत्य वायसा यांति हंसताम् ।।

यथामृतं सकृत्पीत्वा नरो देवत्वमाप्नुयात् ।। ।। १३ ।।

तथैव हि महात्मानो दर्शनस्पर्शनादिभिः ।।

सद्यः पुनंत्यघोपेतान्सत्संगो दुर्लभो ह्यतः ।। १४ ।।

यः पूर्वं क्षुत्पिपासार्तो घोरात्मा विपिने चरः ।।

स सद्यस्तृप्तिमायातः पूर्णानंदो बभूव ह ।। १५ ।।

तद्गात्रलग्नसितभस्मकणानुविद्धः सद्यो विधूतघनपापतमःस्वभावः ।।

संप्राप्तपूर्वभव संस्मृतिरुग्रकार्यस्तत्पादपद्मयुगले प्रणतो बभाषे ।। १६ ।।

।। राक्षस उवाच ।। ।।

प्रसीद मे महायोगिन्प्रसीद करुणानिधे ।।

प्रसीद भवतप्तानामानंदामृवारिधे ।। १७ ।।

क्वाहं पापमतिर्घोरः सर्वप्राणिभयंकरः ।।

क्व ते महानुभावस्य दर्शनं करुणात्मनः ।। १८ ।।

उद्धरोद्धर मां घोरे पतितं दुःखसागरे ।।

तव सन्निधिमात्रेण महानंदोऽभिवर्धते ।। १९ ।।

।। वामदेव उवाच ।। ।।

कस्त्वं वनेचरो घोरो राक्षसोऽत्र किमास्थितः ।।

कथमेतां महाघोरां कष्टां गतिमवाप्तवान् ।। 3.3.15.२० ।।

।। राक्षस उवाच ।। ।।

राक्षसोऽहमितः पूर्वं पंचविंशतिमे भवे ।।

गोप्ता यवनराष्ट्रस्य दुर्जयो नाम वीर्यवान् ।। २१ ।।

सोऽहं दुरात्मा पापीयान्स्वैरचारी मदोत्कटः ।।

दंडधारी दुराचारः प्रचंडो निर्घृणः खलः ।। २२ ।।

युवा बहुकलत्रोऽपि कामासक्तोऽजितेंद्रियः ।।

इमां पापीयसीं चेष्टां पुनरेकां गतोऽस्म्यहम् ।। २३ ।।

प्रत्यहं नूतनामन्या नारीं भोक्तुमनाः सदा ।।

आहृताः सर्वदेशेभ्यो नार्यो भृत्यैर्मदाज्ञया ।। २४ ।।

भुक्त्वाभुक्त्वा परित्यक्तामेकामेकां दिनेदिने ।।

अन्तर्गृहेषु संस्थाप्य पुनरन्याः स्त्रियो धृताः ।। २५ ।।

एवं स्वराष्ट्रात्परराष्ट्रतश्च देशाकरग्रामपुरव्रजेभ्यः ।।

आहृत्य नार्यो रमिता दिनेदिने भुक्वा पुनः कापि न भुज्यते मया ।। २६ ।।

अथान्यैश्च न भुज्यंते मया भुक्तास्तथा स्त्रियः ।।

अन्तर्गृहेषु निहिताः शोचंते च दिवानिशम् ।। २७ ।।

ब्रह्मविट्क्षत्रशूद्राणां यदा नार्यो मया हृताः ।।

मम राज्ये स्थिता विप्राः सह दारैः प्रदुद्रुवुः।। २८ ।।

सभर्तृकाश्च कन्याश्च विधवाश्च रजस्वलाः ।।

आहृत्य नार्यो रमिता मया कामहतात्मना ।।२९।।

त्रिशतं द्विजनारीणां राजस्त्रीणां चतुःशतम् ।।

षट्शतं वैश्यनारीणां सहस्रं शूद्रयोषिताम् ।। 3.3.15.३० ।।

शतं चांडालनद्गीर्णा पुलिंदीनां सहस्रकम् ।।

शैलूषीणां पंचशतं रजकीनां चतुःशतम्।।३१।।

असंख्या वारमुख्याश्च मया भुक्ता दुरात्मना।।

तथापि मयि कामस्य न तृप्तिः समजायत ।। ३२ ।।

एवं दुर्विषयासक्तं मत्तं पानरतं सदा ।।

यौवनेपि महारोगा विविशुर्यक्ष्मकादयः ।। ३३ ।।

रोगार्दितोऽनपत्यश्च शत्रुभिश्चापि पीडितः ।।

त्यक्तोमात्यैश्च भृत्यैश्च मृतोऽहं स्वेन कर्मणा ।। ३४ ।।

आयुर्विनश्यत्ययशो विवर्धते भाग्यं क्षयं यात्यतिदुर्गतिं व्रजेत् ।।

स्वर्गाच्च्यवंते पितरः पुरातना धर्मव्यपेतस्य नरस्य निश्चितम् ।। ३५ ।।

अथाहं किंकरैर्याम्यैर्नीतो वैवस्वतालयम् ।।

ततोऽहं नरके घोरे तत्कुण्डे विनिपातितः ।। ३६ ।।

तत्राहं नरके घोरे वर्षाणामयुतत्रयम् ।।

रेतः पिबन्पीड्यमानो न्यवसं यमकिंकरैः ।। ३७ ।।

ततः पापावशेषेण पिशाचो निर्जने वने ।।

सहस्रशिश्नः संजातो नित्यं क्षुत्तृषयाकुलः ।। ३८ ।।

पैशाचीं गतिमाश्रित्य नीतं दिव्यं शरच्छतम् ।।

द्वितीयेहं भवे जातो व्याघ्रः प्राणिभयंकरः ।। ३९ ।।

तृतीयेऽजगरो घोरश्चतुर्थेऽहं भवे वृकः ।।

पंचमे विड्वराहश्च षष्ठेऽहं कृकलासकः ।। 3.3.15.४० ।।

सप्तमेऽहं सारमेयः सृगालश्चाष्टमे भवे ।।

नवमे गवयो भीमो मृगोऽहं दशमे भवे ।। ४१ ।।

एकादशे मर्कटश्च गृध्रोऽहं द्वादशे भवे ।।

त्रयोदशेऽहं नकुलो वायसश्च चतु र्दशे ।। ४२ ।।

अच्छभल्लः पंचदशे षोडशे वनकुक्कुटः।।

गर्दभोऽहं सप्तदशे मार्जारोष्टादशे भवे ।।४३।।

एकोनविंशे मण्डूकः कूर्मो विंशतिमे भवे ।।

एकविंशे भवे मत्स्यो द्वाविंशे मूषकोऽभवम् ।। ४४ ।।

उलूकोहं त्रयोविंशे चतुर्विशे वनद्विपः ।।

पंचविंशे भवे चास्मिञ्जातोहं ब्रह्मराक्षसः ।। ४५ ।।

क्षुत्परीतो निराहारो वसाम्यत्र महावने ।।

इदानीमागतं दृष्ट्वा भवंतं जग्धुमुत्सुकः ।।

त्वद्देहस्पर्शमात्रेण जाता पूर्वभवस्मृतिः ।। ४६ ।।

गतजन्म सहस्राणि स्मराम्यद्य त्वदंतिके ।।

निर्वेदश्च परो जातः प्रसन्नं हृदयं च मे ।। ४७ ।।

ईदृशोऽयं प्रभावस्ते कथं लब्धो महामते ।।

तपसा वापि तीव्रेण किमु तीर्थनिषेवणात् ।। ४८ ।।

योगेन देवशक्त्या वा मंत्रैर्वानंतशक्तिभिः ।।

तत्त्वतो ब्रूहि भगवंस्त्वामहं शरणं गतः ।। ४९ ।।

।। वामदेव उवाच ।। ।।

एष मद्गात्रलग्नस्य प्रभावो भस्मनो महान् ।।

यत्संपर्कात्तमोवृत्तेस्तवेयं मतिरुत्तमा ।। 3.3.15.५० ।।

को वेद भस्मसामर्थ्यं महादेवा दृते परः ।।

दुर्विभाव्यं यथा शंभोर्माहात्म्यं भस्मनस्तथा ।। ५१ ।।

पुरा भवादृशः कश्चिद्ब्राह्मणो धर्मवर्जितः ।।

द्राविडेषु स्थितो मूढः कर्मणा शूद्रतां गतः ।। ५२ ।।

चौर्यवृत्तिर्नैष्कृतिको वृषलीरतिलालसः।।

कदाचिज्जारतां प्राप्तः शूद्रेण निहतो निशि ।। ५३ ।।

तच्छवस्य बहिर्ग्रामा त्क्षिप्तस्य प्रेतकर्मणः ।।

चचार सारमेयोंऽगे भस्मपादो यदृच्छया ।। ५४ ।।

अथ तं नरके घोरे पतितं शिवकिंकराः।।

निन्युर्विमानमारोप्य प्रसह्य यमकिंकरान् ।। ५५ ।।

शिवदूतान्समभ्येत्य यमोपि परिपृष्टवान् ।।

महापातककर्त्तारं कथमेनं निनीषथ ।। ५६ ।।

अथोचुः शिवदूतास्ते पश्यास्य शवविग्रहम् ।।

वक्षोललाटदोर्मूलान्यंकितानि सुभस्मना ।। ५७ ।।

अत एनं समानेतुमागताः शिवशासनात् ।।

नास्मान्निषेद्धुं शक्तोसि मास्त्वत्र तव संशयः ।। ५८ ।।

इत्याभाष्य यमं शंभोर्दूतास्तं ब्राह्मणं ततः ।।

पश्यतां सर्वलोकानां निन्युर्लोकमनामयम् ।। ५९ ।।

तस्मादशेषपापानां सद्यः संशोधनं परम् ।।

शंभोर्विभूषणं भस्म सततं ध्रियते मया ।। 3.3.15.६० ।।

इत्थं निशम्य माहात्म्यं भस्मनो ब्रह्मराक्षसः ।।

विस्तरेण पुनः श्रोतु मौत्कंठ्यादित्यभाषत ।। ६१ ।।

साधुसाधु महायोगिन्धन्योस्मि तव दर्शनात् ।।

मां विमोचय धर्मात्मन्घोरादस्मात्कुजन्मनः ।। ६२ ।।

किंचिदस्तीह मे भाति मया पुण्यं पुराकृतम् ।।

अतोहं त्वत्प्रसादेन मुक्तोस्म्यद्य द्विजोत्तम ।। ६३ ।।

एकस्मै शिवभक्ताय तस्मिन्पार्थिवजन्मनि ।।

भूमिर्वृत्तिकरी दत्ता सस्यारामान्विता मया ।। ९९ ।।

यमेनापि तदैवोक्तं पंचविंशतिमे भवे ।।

कस्यचिद्योगिनः संगान्मोक्ष्यसे संसृतेरिति ।। ६५ ।।

तदद्य फलितं पुण्यं यत्किंचित्प्राग्भवार्जितम् ।।

अतो निर्मनुजारण्ये संप्राप्तस्तव संगमः ।। ६६ ।।

अतो मां घोरपाप्मानं संसरंतं कुजन्मनि ।।

समुद्धर कृपासिन्धो दत्त्वा भस्म समंत्रकम् ।। ६७ ।।

कथं धार्यमिदं भस्म को मंत्रः को विधिः शुभः ।।

कः कालः कश्च वा देशः सर्वं कथय मे गुरो ।। ६८ ।।

भवादृशा महात्मानः सदा लोकहिते रताः ।।

नात्मनो हितमिच्छंति कल्पवृक्षसधर्मिणः ।। ६९ ।।

।। सूत उवाच ।। ।।

इत्युक्तस्तेन योगीशो घोरेण वनचारिणा ।।

भूयोपि भस्ममाहात्म्यं वर्णयामास तत्त्ववित् ।। 3.3.15.७० ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भस्ममाहात्म्यकथनं नाम पंचदशोऽध्यायः ।। १५ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 16

।। सूत उवाच । ।।

शृणुध्वं मुनयः श्रेष्ठा वामदेवस्य भाषितम् ।। १ ।।

।। वामदेव उवाच ।। ।।

पुरा मंदरशैलेंद्रे नानाधातुविचित्रिते ।।

नानासत्वसमाकीर्णे नानाद्रुमलताकुले ।। २ ।।

कालाग्निरुद्रो भगवान्कदाचिद्विश्ववंदितः ।।

समाससाद भूतेशः स्वेच्छया परमेश्वरः ।।३ ।।

समंतात्समुपातिष्ठन्रुद्राणां शतकोटयः ।।

तेषां मध्ये समासीनो देवदेवस्त्रिलोचनः ।। ४ ।।

तत्रागच्छत्सुरश्रष्ठो देवैः सह पुरंदरः ।।

तथाग्निर्वरुणो वायुर्यमो वैवस्वतस्तथा ।। ५ ।।

गंधर्वाश्चित्रसेनाद्याः खेचराः पन्नगादयः ।।

विद्याधराः किंपुरुषाः सिद्धाः साध्याश्च गुह्यकाः ।। ६ ।।

ब्रह्मर्षयो वसिष्ठाद्या नारदाद्याः सुरर्षयः ।।

पितरश्च महात्मानो दक्षाद्याश्च प्रजेश्वराः ।। ७ ।।

उर्वश्याद्याश्चाप्सरसश्चंडिकाद्याश्च मातरः ।।

आदित्या वसवो दस्रौ विश्वेदेवा महौजसः ।। ८ ।।

अथान्ये भूतपतयो लोकसंहरणे क्षमाः ।।

महाकालश्च नंदी च तथा वै शंखपालकौ ।। ९ ।।

वीरभद्रो महातेजाः शंकुकर्णो महाबलः ।।

घंटाकर्णश्च दुर्धर्षो मणिभद्रो वृकोदरः ।। 3.3.16.१० ।।

कुंडोदरश्च विकटास्तथा कुभोदरो बली ।।

मंदोदरः कर्णधारः केतुर्भृंगीरिटिस्तथा ।। ११ ।।

भूतनाथास्तथान्ये च महाकाया महौजसः ।।

कृष्णवर्णास्तथा श्वेताः केचिन्मंडूकसप्रभाः ।। १२ ।।

हरिता धूसरा धूम्राः कर्बुरा पीतलोहिताः।।

चित्रवर्णा विचित्रांगाश्चित्रलीला मदोत्कटाः ।। १३ ।।

नानायुधोद्यतकरा नानावाहनभूषणाः ।।

केचिद्व्याघ्रमुखाः केचित्सूकरास्या मृगा ननाः ।। १४ ।।

केचिच्च नक्रवदनाः सारमेयमुखाः परे ।।

सृगालवदनाश्चान्य उष्ट्राभवदनाः परे ।। १५ ।।

केचिच्छरभभेरुंडसिंहाश्वोष्ट्रबकाननाः ।।

एकवक्त्रा द्विवक्त्राश्च त्रिमुखाश्चैव निर्मुखाः ।। १६ ।।

एकहस्तास्त्रिहस्ताश्च पंचहस्तास्त्वहस्तकाः ।।

अपादा बहुपादाश्च बहुकर्णैककर्णकाः ।।१७।।

एकनेत्राश्चतुर्नेत्रा दीर्घाः केचन वामनाः ।।

समंतात्परिवार्येशं भूतनाथमुपासते ।। १८ ।।

अथागच्छन्महातेजा मुनीनां प्रवरः सुधीः ।।

सनत्कुमारो धर्मात्मा तं द्रष्टुं जगदीश्वरम् ।। १९ ।।

तं देवदेवं विश्वेशं सूर्यकोटिसमप्रभम् ।।

महाप्रलयसंक्षुब्धसप्तार्णवघनस्वनम् ।। 3.3.16.२० ।।

संवर्त्ताग्निसमाटोपं जटामंडलशोभितम् ।।

अक्षीणभालनयनं ज्वालाम्लानमुखत्विषम् ।। २१ ।।

प्रदीप्तचूडामणिना शशिखंडेन शोभितम् ।।

तक्षकं वामकर्णेन दक्षिणेन च वासुकिम् ।। २२ ।।

बिभ्राणं कुंडलयुगं नीलरत्नमहाहनुम् ।।

नीलग्रीवं महाबाहुं नागहारविराजितम् ।। २३ ।।

फणिराजपरिभ्राजत्कंक णांगदमुद्रिकम् ।।

अनंतगुणसाहस्रमणिरंजितमेखलम् ।। २४ ।।

व्याघ्रचर्मपरीधानं घंटादर्पणभूषितम् ।।

कर्कोटकमहापद्मधृतराष्ट्रधनंजयैः ।।२५।।

कूजन्नूपुरसंघुष्टपादपद्मविराजितम् ।।

प्रासतोमरखट्वाङ्गशूलटंकधनुर्धरम् ।। २६ ।।

अप्रधृष्यमनिर्देश्यमचिंत्याकारमीश्वरम् ।।

रत्नसिंहासनारूढं प्रण नाम महामुनिः ।। २७ ।।

तं भक्तिभारोच्छ्वसितांतरात्मा संस्तूय वाग्भिः श्रुतिसंमिताभिः ।।

कृतांजलिः प्रश्रयनम्रकंधरः पप्रच्छ धर्मानखिलाञ्छु भप्रदान् ।। २८ ।।

यान्यानपृच्छत मुनिस्तांस्तान्धर्मानशेषतः ।।

प्रोवाच भगवान्रुद्रो भूयो मुनिरपृच्छत ।। २९ ।।

।। सनत्कुमार उवाच ।। ।।

श्रुतास्ते भगवन्धर्मास्त्वन्मुखान्मुक्तिहेतवः ।।

यैर्मुक्तपापा मनुजास्तरिष्यंति भवार्णवम् ।। 3.3.16.३० ।।

अथापरं विभो धर्ममल्पायासं महाफलम् ।।

ब्रूहि कारुण्यतो मह्यं सद्यो मुक्तिप्रदं नृणाम् ।। ३१ ।।

अभ्यासबहुला धर्माः शास्त्रदृष्टाः सहस्रशः ।।

सम्यक्संसेविताः कालात्सिद्धिं यच्छंति वा न वा ।। ३२ ।।

अतो लोकहितं गुह्यं भुक्तिमुक्त्योश्च साधनम् ।।

धर्मं विज्ञातुमिच्छामि त्वत्प्रसादान्महेश्वर ।। ३३ ।।

।। श्रीरुद्र उवाच ।। ।।

सर्वेषामपि धर्माणामुत्तमं श्रुतिचोदितम् ।।

रहस्यं सर्वजंतूनां यत्त्रिपुंड्रस्य धारणम् ।। ३४ ।।

।। सनत्कुमार उवाच।। ।।

त्रिपुंड्रस्य विधिं ब्रूहि भगवञ्जगतां पते ।।

तत्त्वतो ज्ञातुमिच्छामि त्वत्प्रसादान्महेश्वर ।। ३५ ।।

कति स्थानानि किं द्रव्यं का शक्तिः का च देवता ।।

किं प्रमाणं च कः कर्त्ता के मंत्रास्तस्य किं फलम् ।। ३६ ।।

एतत्सर्वमशेषेण त्रिपुंड्रस्य च लक्षणम् ।।

ब्रूहि मे जगतां नाथ लोकानुग्रहकाम्यया ।। ३७ ।।

।। श्रीरुद्र उवाच ।। ।।

आग्नेयमुच्यते भस्म दग्धगोमयसंभवम् ।।

तदेव द्रव्यमित्युक्तं त्रिपुंड्रस्य महामुने ।। ३८ ।।

सद्योजातादिभिर्ब्रह्ममयैर्मंत्रैश्च पंचभिः।।

परिगृह्याग्निरित्यादिमंत्रैर्भस्माभिमंत्रयेत् ।। ३९ ।।

मानस्तोकेति संमृंज्य शिरो लिंपेच्च त्र्यंबकम् ।।

त्रियायुषादिभिर्मंत्रैर्ललाटे च भुजद्वये ।।

स्कंधे च लेपयेद्भस्म सजलं मंत्रभावितम् ।। 3.3.16.४० ।।

तिस्रो रेखा भवंत्येषु स्थानेषु मुनिपुंगव ।।

भ्रुवोर्मध्यं समारभ्य यावदंतो भ्रुवोर्भवेत् ।। ४१ ।।

मध्यमानामिकांगुल्योर्मध्ये तु प्रतिलोमतः ।।

अंगुष्ठेन कृता रेखा त्रिपुंड्रस्याभिधीयते ।। ४२ ।।

तिसृणामपि रेखाणां प्रत्येकं नव देवताः ।।

अकारो गार्हपत्यश्च ऋग्भूर्लोको रजस्तथा ।। ४३ ।।

आत्मा चैव क्रियाशक्तिः प्रातः सवनमेव च ।।

महादेवस्तु रेखायाः प्रथमायास्तु देवता ।। ४४ ।।

उकारो दक्षिणाग्निश्च नभः सत्त्वं यजुस्तथा ।।

मध्यंदिनं च सवनमिच्छाशक्त्यंतरात्मकौ ।। ४५ ।।

महेश्वरश्च रेखाया द्वितीयायाश्च देवता ।।

मकाराहवनीयौ च परमात्मा तमो दिवः ।। ४६ ।।

ज्ञानशक्तिः सामवेदस्तृतीयसवनं तथा ।।

शिवश्चेति तृतीयाया रेखायाश्चाधिदेवता ।। ४७ ।।

एता नित्यं नमस्कृत्य त्रिपुंड्रं धारयेत्सुधीः ।।

महेश्वरव्रतमिदं सर्ववेदेषु कीर्तितम् ।।४८।।

मुक्तिकामैर्नरैः सेव्यं पुनस्तेषां न संभवः ।।

त्रिपुंड्रं कुरुते यस्तु भस्मना विधिपूर्वकम् ।।४९।।

ब्रह्मचारी गृहस्थो वा वनस्थो यतिरेव वा।।

महापातकसंघातैर्मुच्यते चोपपातकैः।।3.3.16.५०।।

तथान्यैः क्षत्रविट्शूद्रस्त्रीगोहत्या दिपातकैः।।

वीरहत्याश्वहत्याभ्यां मुच्यते नात्र संशयः।।५१।।

अमंत्रेणापि यः कुर्यादज्ञात्वा महिमोन्नतिम्।।

त्रिपुंड्रं भालपटले मुच्यते सर्वपातकैः ।।५२।।

परद्रव्यापहरणं परदाराभिमर्शनम्।।

परनिंदा परक्षेत्रहरणं परपीडनम्।।५३।।

सस्यारामादिहरणं गृहदाहादिकर्म च ।।

असत्यवादं पैशुन्यं पारुष्यं वेदविक्र यः।।

कूटसाक्ष्यं व्रतत्यागः कैतवं नीचसेवनम् ।।५४।।

गोभूहिरण्यमहिषी तिलकंबलवाससाम्।।

अन्नधान्यजलादीनां नीचेभ्यश्च परिग्रहः।।५५।।

दासी वेश्याभुजंगेषु वृषलीषु नटीषु च ।।

रजस्वलासु कन्यासु विधवासु च संगमः ।। ५६ ।।

मांसचर्मरसादीनां लवणस्य च विक्रयः ।।

एवमादीन्य संख्यानि पापानि विविधानि च ।। ५७ ।।

सद्य एव विनश्यंति त्रिपुंड्रस्य च धारणात् ।।

शिवद्रव्यापहरणं शिवनिंदा च कुत्रचित् ।। ५८ ।।

निंदा च शिवभक्तानां प्रायश्चितैर्न शुद्ध्यति ।।

रुद्राक्षा यस्य गात्रेषु ललाटे च त्रिपुंड्रकम् ।।५९।।

स चांडालोऽपि संपूज्यः सर्ववर्णोत्तमो भवेत् ।।

यानि तीर्थानि लोकेऽस्मिन्गंगायाः सरितश्च याः ।। 3.3.16.६० ।।

स्नातो भवति सर्वत्र ललाटे यस्त्रिपुंड्रधृक् ।।

सप्तकोटिमहामंत्राः पंचाक्षरपुरःसराः ।। ।। ६१ ।।

तथान्ये कोटिशो मंत्राः शैवाः कैवल्यहेतवः ।।

ते सर्वे येन जप्ताः स्युर्यो बिभर्ति त्रिपुंड्रकम् ।। ६२ ।।

सहस्रं पूर्वजातानां सहस्रं च जनिष्यताम् ।।

स्ववंशजानां मर्त्यानामुद्धरेद्यस्त्रिपुंड्रधृक्।। ६३ ।।

इह भुक्त्वाखिलान्भोगान्दीर्घायुर्व्याधिवर्जितः ।।

जीवितांते च मरणं सुखनैवं प्रपद्यते ।। ६४ ।।

अष्टैश्वर्यगुणोपेतं प्राप्य दिव्यं वपुः शुभम् ।।

दिव्यं विमानमारुह्य दिव्यस्त्रीशतसेवितः ।। ६५ ।।

विद्याधराणां सिद्धानां गंधर्वाणां महौजसाम् ।।

इंद्रादिलोकपालानां लोकेषु च यथाक्रमम् ।। ६६ ।।

भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पुरेषु च ।।

ब्रह्मणः पदमासाद्य तत्र कल्पशतं रमेत् ।। ६७ ।।

विष्णोर्लोके च रमते यावद्ब्रह्मशतत्रयम् ।। ६८ ।।

शिवलोकं ततः प्राप्य रमते कालमक्षयम् ।।

शिवसायुज्यमाप्नोति न स भूयोऽभिजायते ।। ६९ ।।

सर्वोपनिषदां सारं समालोच्य मुहुर्मुहुः ।।

इदमेव हि निर्णीतं परं श्रेयस्त्रिपुंड्रकम् ।। 3.3.16.७० ।।

एतत्त्रिपुंड्रमाहात्म्यं समासात्कथितं मया ।।

रहस्यं सर्वभूतानां गोपनीयमिदं त्वया ।। ७१ ।।

इत्युक्त्वा भगवान्रुद्रस्तत्रैवांतरधीयत ।।

सनत्कुमारोऽपि मुनिर्जगाम ब्रह्मणः पदम् ।। ७२ ।।

तवापि भस्मसंपर्कात्संजाता विमला मतिः ।।

त्वमपि श्रद्धया पुण्यं धारयस्व त्रिपुंड्रकम् ।। ७३ ।।

।। सूत उवाच ।। ।।

इत्युक्त्वा वामदेवस्तु शिवयोगी महातपाः ।।

अभिमंत्र्य ददौ भस्म घोराय ब्रह्मरक्षसे ।। ७४ ।।

तेनासौ भालपटले चक्रे तिर्य क्त्रिपुंड्रकम् ।।

ब्रह्मराक्षसतां सद्यो जहौ तस्यानुभावतः ।। ७५ ।।

स बभौ सूर्यसंकाशस्तेजोमण्डलमंडितः ।।

दिव्यावयरूपैश्च दिव्यमाल्यांबरो ज्ज्वलः ।। ७६ ।।

भक्त्या प्रदक्षिणीकृत्य तं गुरुं शिवयोगिनम् ।।

दिव्यं विमानमारुह्य पुण्यलोकाञ्जगाम सः ।। ७७ ।।

वामदेवो महायोगी दत्त्वा तस्मै परां गतिम् ।।

चचार लोके मूढात्मा साक्षादिव शिवः स्वयम् ।। ७८ ।।

य एतद्भस्ममाहात्म्यं त्रिपुंड्रं शृणुयान्नरः ।।

श्रावयेद्वा पठेद्वापि स हि याति परां गतिम् ।। ७९ ।।

कथयति शिवकीर्तिं संसृतेर्मुक्तिहेतुं प्रणमति शिवयोगिध्येयमीशांघ्रिपद्मम् ।।

रचयति शिवभक्तोद्भासि भाले त्रिपुंड्रं न पुनरिह जनन्या गर्भवासं भजेत्सः ।। 3.3.16.८० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तर खण्डे भस्ममाहात्म्यकथनं नाम षोडशोऽध्यायः ।। १६ ।। ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 17

।। ऋषय ऊचुः ।। ।।

वेदवेदांगतत्त्वज्ञैर्गुरुभिर्ब्रह्मवादिभिः ।।

नृणां कृतोपदेशानां सद्यः सिद्धिर्हि जायते।।१।।

अथान्यजनसामान्यैर्गुरुभिर्नीतिकोविदैः।।

नृणां कृतोपदेशानां सिद्धिर्भवति कीदृशी ।। २ ।।

।। ।। सूत उवाच ।। ।।

श्रद्धैव सर्वधर्मस्य चातीव हितकारिणी ।।

श्रद्धयैव नृणां सिद्धिर्जायते लोकयोर्द्वयोः ।। ३ ।।

श्रद्धया भजतः पुंसः शिलापि फलदायिनी ।।

मूर्खोऽपि पूजितो भक्त्या गुरुर्भवति सिद्धिदः ।। ४ ।।

श्रद्धया पठितो मन्त्रस्त्वबद्धोपि फलप्रदः ।।

श्रद्धया पूजितो देवो नीचस्यापि फलप्रदः ।। ६. ।।

अश्रद्धया कृता पूजा दानं यज्ञस्तपो व्रतम् ।।

सर्वं निष्फलतां याति पुष्पं वन्ध्यत रोरिव ।। ६ ।।

सर्वत्र संशयाविष्टः श्रद्धाहीनोऽतिचंचलः ।।

परमार्थात्परिभ्रष्टः संसृतेर्न हि मुच्यते ।। ७ ।।

मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।।

यादृशी भावना यत्र सिद्धिर्भवति तादृशी ।। ८ ।।

अतो भावमयं विश्वं पुण्यं पापं च भावतः ।।

ते उभे भावहीनस्य न भवेतां कदाचन ।। ९ ।।

अत्रेदं परमाश्चर्यमाख्यानमनुवर्ण्यते ।।

अश्रद्धा सर्वमर्त्यानां येन सद्यो निवर्तते ।। ३.३.१७.१० ।।

आसीत्पांचालराजस्य सिंहकेतुरिति श्रुतः ।।

पुत्रः सर्वगुणोपेतः क्षात्रधर्मरतः सदा ।। ११ ।।

स एकदा कतिपयैर्भृत्यैर्युक्तो महाबलः ।।

जगाम मृगयाहेतोर्बहु सत्त्वान्वितं वनम् ।। १२ ।।

तद्भृत्यः शबरः कश्चिद्विचरन्मृगयां वने ।।

ददर्श जीर्णं स्फुटितं पतितं देवतालयम् ।। १३ ।।

तत्रापश्यद्भिन्नपीठं पतितं स्थंडिलोपरि ।।

शिवलिंङ्गमृजुं सूक्ष्मं मूर्तं भाग्यमिवात्मनः ।। १४ ।।

स समादाय वेगेन पूर्वकर्मप्रचोदितः ।।

तस्मै संदर्शयामास राज पुत्राय धीमते ।। १५ ।।

पश्येदं रुचिरं लिंगं मया दृष्टमिह प्रभो ।।

तदेतत्पूजयिष्यामि यथाविभवमादरात् ।। १६ ।।

अस्य पूजाविधिं ब्रूहि यथा देवो महेश्वरः ।।

अमंत्रज्ञैश्च मन्त्रज्ञैः प्रीतो भवति पूजितः ।। १७ ।।

इति तेन निषादेन पृष्टः पार्थिवनंदनः ।।

प्रत्युवाच प्रहस्यैनं परिहास विचक्षणः ।। १८ ।।

संकल्पेन सदा कुर्यादभिषेकं नवांभसा ।।

उपवेश्यासने शुद्धे शुभैर्गंधाक्षतैर्नवैः ।।

वन्यैः पत्रैश्च कुसुमैर्धूपैर्दीपैश्च पूजयेत ।। ।। १९ ।।

चिताभस्मोपहारं च प्रथमं परिकल्पयेत् ।।

आत्मोपभोग्येनान्नेन नैवद्यं कल्पयेद्बुधः ।। ३.३.१७.२० ।।

पुनश्च धूपदीपादीनुपचारान्प्रकल्पेत् ।।

नृत्यवादित्रगीतादीन्यथावत्परिकल्पयेत् ।। २१ ।।

नमस्कृत्वा तु विधिवत्प्रसादं धारयेद्बुधः ।।

एष साधारणः प्रोक्तः शिवपूजाविधिस्तव ।। ।। २२ ।।

चिताभस्मोपहारेण सद्यस्तुष्यति शंकरः ।। २३ ।।

।। सूत उवाच ।। ।।

परिहासरसेनेत्थं शासितः स्वामिनाऽमुना ।।

स चंडकाख्यः शबरो मूर्ध्ना जग्राह तद्वचः ।। २४ ।।

ततः स्वभवनं प्राप्य लिंगमूर्ति महेश्वरम् ।।

प्रत्यहं पूजयामास चिताभस्मोपहारकृत् ।। २५ ।।

यच्चात्मनः प्रियं वस्तु गन्धपुष्पाक्षतादिकम् ।।

निवेद्य शंभवे नित्यमुपायुंक्त ततः स्वयम् ।। २६ ।।

एवं महेश्वरं भक्त्या सह पत्न्याभ्यपूजयत् ।।

शबरः सुखमासाद्य निनाय कतिचित्समाः ।। २७ ।।

एकदा शिवपूजायै प्रवृत्तः शबरोत्तमः ।।

न ददर्श चिताभस्म पात्रे पूरितमण्वपि ।। २८ ।।

अथासौ त्वरितो दूरमन्विष्यन्परितो भ्रमन् ।।

न लब्धवांश्चिताभस्म श्रांतो गृहमगात्पुनः ।। २९ ।।

तत आहूय पत्नीं स्वां शबरो वाक्यमब्रवीत् ।।

न लब्धं मे चिताभस्म किं करोमि वद प्रिये ।।३.३.१७.३०।।

शिवपूजांतरायो मे जातोद्य बत पाप्मनः ।।

पूजां विना क्षणमपि नाहं जीवितुमुत्सहे ।।३१।।

उपायं नात्र पश्यामि पूजोपकरणे हते ।।

न गुरोश्च विहन्येत शासनं सकलार्थदम् ।। ३२ ।।

इति व्याकुलितं दृष्ट्वा भर्त्तारं शबरांगना ।।

प्रत्यभाषत मा भैस्त्वमुपायं प्रवदामि ते ।। ३३ ।।

इदमेव गृहं दग्ध्वा बहुकालोपबृंहितम् ।।

अहमग्निं प्रवेक्ष्यामि चिताभस्म भवेत्ततः ।। ३४ ।।

।। शबर उवाच ।। ।।

धर्मार्थकाममोक्षाणां देहः परमसाधनम् ।।

कथं त्यजसि तं देहं सुखार्थं नवयौवनम् ।। ३५ ।।

अधुना त्वनपत्या त्वमभुक्तविषयासवा ।।

भोगयोग्यमिमं देहं कथं दग्धुमिहेच्छसि ।। ३६ ।।

।। शबर्युवाच ।। ।।

एतावदेव साफल्यं जीवितस्य च जन्मनः ।।

परार्थे यस्त्यजेत्प्राणाञ्छिवार्थे किमुत स्वयम् ।। ३७ ।।

किं नु तप्तं तपो घोरं किं वा दत्तं मया पुरा ।।

किं वार्चनं कृतं शंभोः पूर्वजन्मशतांतरे ।। ३८ ।।

किं वा पुण्यं मम पितुः का वा मातुः कृतार्थता ।।

यच्छिवार्थे समिद्धेऽग्नौ त्यजाम्येतत्कलेवरम् ।। ३९ ।।

इत्थं स्थिरां मतिं दृष्ट्वा तस्या भक्तिं च शंकरे ।।

तथेति दृढसंकल्पः शबरः प्रत्यपूजयत् ।। ३.३.१७.४० ।।

सा भर्त्तारमनुप्राप्य स्नात्वा शुचिरलंकृता ।।

गृहमादीप्य तं वह्निं भक्त्या चक्रे प्रदक्षिणम् ।। ४१ ।।

नमस्कृत्वात्मगुरवे ध्यात्वा हृदि सदाशिवम् ।।

अग्निप्रवेशाभिमुखी कृतांजलिरिदं जगौ ।। ४२ ।।

।। शबर्युवाच ।। ।।

पुष्पाणि संतु तव देव ममेंद्रियाणि धूपोऽगुरुर्वपुरिदं हृदयं प्रदीपः ।।

प्राणा हवींषि करणानि तवाक्षताश्च पूजाफलं व्रजतु सांप्रतमेष जीवः ।। ४३ ।।

वांछामि नाहमपि सर्वधनाधिपत्यं न स्वर्गभूमिमचलां न पदं विधातुः ।।

भूयो भवामि यदि जन्मनिजन्मनि स्यां त्वत्पादपंकजलसन्मकरंदभृंगी ।। ४४ ।।

जन्मानि संतु मम देव शताधिकानि माया न मे वि शतु चित्तमबोधहेतुः ।।

किंचित्क्षणार्धमपि ते चरणारविन्दान्नापैतु मे हृदयमीश नमोनमस्ते ।।४५।।

इति प्रसाद्य देवेशं शबरी दृढनिश्चया ।।

विवेश ज्वलितं वह्निं भस्मसादभवत्क्षणात् ।। ४६ ।।

शबरोपि च तद्भस्म यत्नेन परिगृह्य सः ।।

चक्रे दग्धगृहोपान्ते शिवपूजां समाहितः ।। ४६ ।।

अथ सस्मार पूजांते प्रसादग्रहणोचिताम् ।।

दयितां नित्यमायांतीं प्रांजलिं विनयान्विताम् ।। ४८ ।।

स्मृतमात्रां तदापश्यदागतां पृष्ठतः स्थिताम् ।।

पूर्वेणावयवेनैव भक्तिनम्रां शुचिस्मिताम् ।। ४९ ।।

तां वीक्ष्य शबरः पत्नीं पूर्ववत्प्रांजलिं स्थिताम् ।।

भस्मावशेषितगृहं यथापूर्वमवस्थितम् ।।। ।। ३.३.१७.५० ।।

अग्निर्दहति तेजोभिः सूर्यो दहति रश्मिभिः ।।

राजा दहति दंडेन ब्राह्मणो मनसा दहेत् ।। ५१ ।।

किमयं स्वप्न आहोस्वित्किं वा माया भ्रमात्मिका ।।

इति विस्मयसंभ्रातस्तां भूयः पर्यपृच्छत ।। ५२ ।।

अपि त्वं च कथं प्राप्ता भस्मभूतासि पावके ।।

दग्धं च भवनं भूयः कथं पूर्व वदास्थितम् ।। ५३ ।।

।। शबर्युवाच ।। ।।

यदा गृहं समुद्दीप्य प्रविष्टाहं हुताशने ।।

तदात्मानं न जानामि न पश्यामि हुताशनम् ।। ५४ ।।

न तापलेशोप्यासीन्मे प्रविष्टाया इवोदकम् ।।

सुषुप्तेव क्षणार्धेन प्रबुद्धास्मि पुनः क्षणात् ।। ५५ ।।

तावद्भवनमद्राक्षमदग्धमिव सुस्थितम् ।।

अधुना देवपूजांते प्रसादं लब्धुमागता ।। ५६ ।।

एवं परस्परं प्रेम्णा दंपत्योर्भाषमाणयोः ।।

प्रादुरासीत्तयोरग्रे विमानं दिव्यमद्भुतम् ।। ५७ ।।

तस्मिन्विमाने शतचन्द्रभास्वरे चत्वार ईशानुचराः पुरःसराः ।।

हस्ते गृहीत्वाथ निषाददंपती आरोपयामासुरमुक्तविग्रहौ ।। ५८ ।।

तयोर्निषाददंपत्योस्तत्क्षणादेव तद्वपुः ।।

शिवदूतकरस्पर्शात्तत्सारूप्यमवाप ह ।। ५९ ।।

तस्माच्छ्रद्धैव सर्वेषु विधेया पुण्यकर्मसु ।।

नीचोपि शबरः प्राप श्रद्धया योगिनां गतिम् ।। ३.३.१७.६० ।।

किं जन्मना सकलवर्णजनोत्तमेन किं विद्यया सकलशास्त्रविचारवत्या ।।

यस्यास्ति चेतसि सदा परमेशभक्तिः कोऽन्यस्ततस्त्रिभुवने पुरुषोस्ति धन्यः ।। ६१ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भस्ममाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ।। १७ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 18

।। सूत उवाच ।। ।।

अथाहं संप्रवक्ष्यामि सर्वधर्मोत्तमोत्तमम् ।।

उमामहेश्वरं नाम व्रतं सर्वार्थसिद्धिदम् ।। १ ।।

आनर्त्त संभवः कश्चिन्नाम्ना वेदरथो द्विजः ।।

कलत्रपुत्रसंपन्नो विद्वानुत्तमवंशजः ।। २ ।।

तस्यैवं वर्तमानस्य ब्राह्मणस्य गृहाश्रमे ।।

बभूव शारदानाम कन्या कमललोचना ।।३।।

तां रूपलक्षणोपेतां बालां द्वादशहायनाम् ।।

ययाचे पद्मनाभाख्यो मृतदारश्च स द्विजः ।। ४ ।।

महाधनस्य शांतस्य सदा राजसखस्य च ।।

याञ्चाभंगभयात्तस्य तां कन्यां प्रददौ पिता ।। ५ ।।

मध्यंदिने कृतोद्वाहः स विप्रः श्वशुरालये ।।

संध्यामुपासितुं सायं सरस्तटमुपाययौ ।।६।।

उपास्य संध्यां विधिवत्प्रत्यागच्छत्तमोवृते ।।

मार्गे दष्टो भुजंगेन ममार निजकर्मणा ।।७।।

तस्मिन्मृते कृतोद्वाहे सहसा तस्य बांधवाः ।।

चुक्रुशुः शोकसंतप्तौ श्वशुरावस्य कन्यका ।। ८ ।।

निर्हृत्य तं बंधुजना जग्मुः स्वं स्वं निवेशनम् ।।

शारदा प्राप्तवैधव्या पितुरेवालये स्थिता ।।९।।

भूताच्छादनभोज्येन भर्त्रा विरहिता सती।।

निनाय कतिचिन्मासान्सा बाला पितृमंदिरे।।३.३.१८.१०।।

एकदा नैध्रुवो नाम कश्चिद्वृद्धतरो मुनिः।।

अन्धः शिष्यकरग्राही तन्मंदिरमुपाययौ ।। ११ ।।

तस्मिन्वृद्धे गृहं प्राप्ते क्वापि यातेषु बंधुषु ।।

साक्षादिवात्मनो दैवं सा बाला समुपागमत् ।। ।। १२ ।।

स्वागतं ते महाभाग पीठेस्मिन्नुपविश्यताम् ।।

नमस्ते मुनिनाथाय प्रियं ते करवाणि किम् ।। १३ ।।

इत्युक्त्वा भक्तिमास्थाय कृत्वा पादावनेजनम् ।।

वीजयित्वा परिश्रांतं तं मुनिं पर्यतोषयत् ।। १४ ।।

श्रांतं पीठे समावेश्य कृत्वाभ्यंगं स्वपाणिना ।।

कृतस्नानं च विधिवत्कृतदेवार्चनं मुनिम् ।। १५ ।।

सुखासनोपविष्टं तं धूपमाल्यानुलेपनैः ।।

अर्चयित्वा वरान्नेन भोजयामास सादरम् ।। १६ ।।

भुक्त्वा च सम्यक्छनकैस्तृप्तश्चानंदनिर्भरः ।।

चकारांधमुनिस्तस्यै सुप्रीतः परमाशिषम् ।। १७ ।।

विहृत्य भर्त्रा सहसा च तेन लब्ध्वा सुतं सर्वगुणैर्वरिष्ठम् ।।

कीर्तिं च लोके महतीमवाप्य प्रसादयोग्या भव देवतानाम् ।। १८ ।।

इत्यभिव्याहृतं तेन मुनिना गतचक्षुषा ।।

निशम्य विस्मिता बाला प्रत्युवाच कृतांजलिः ।। १९ ।।

ब्रह्मंस्त्वद्वचनं सत्यं कदाचिन्न मृषा भवेत् ।।

तदेतन्मंदभाग्यायाः कथमेतत्फलिष्यति ।। ३.३.१८.२० ।।

शिलाग्र्यामिव सद्वृष्टिः शुनक्यामिव सत्क्रिया ।।

विफला मंदभाग्यायामाशीर्ब्रह्मविदामपि ।। २१ ।।

सैषाहं विधवा ब्रह्मन्दुष्कर्मफलभागिनी ।।

त्वदाशीर्वचनस्यास्य कथं यास्यामि पात्रताम् ।। २२ ।।

।। मुनिरुवाच ।। ।।

त्वामनालक्ष्य यत्प्रोक्तमंधेनापि मयाऽधुना ।।

तदेतत्साधयिष्यामि कुरु मच्छासनं शुभे ।। २३ ।।

उमामहेश्वरं नाम व्रतं यदि चरिष्यसि ।।

तेन व्रतानुभावेन सद्यः श्रेयोऽनुभोक्ष्यसे ।। २४ ।।

।। शारदोवाच ।। ।।

त्वयोपदिष्टं यत्नेन चरिष्याम्यपि दुश्चरम् ।।

तद्व्रतं ब्रूहि मे ब्रह्मन्विधानं वद विस्तरात् ।। २५ ।।

।। मुनिरुवाच ।। ।।

चैत्रे वा मार्गशीर्षे वा शुक्लपक्षे शुभे दिने ।।

व्रतारंभं प्रकुर्वीत यथावद्गुर्वनुज्ञया ।। २६ ।।

अष्टम्यां च चतुर्दश्यामुभयोरपि पर्वणोः ।।

संकल्पं विधिवत्कृत्वा प्रातःस्नानं समाचरेत् ।। २७ ।।

सन्तर्प्य पितृदेवादीन्गत्वा स्वभवनं प्रति ।।

मंडपं रचयेद्दिव्यं वितानाद्यैरलंकृतम् ।। २८ ।।

फलपल्लवपुष्पाद्यैस्तोरणैश्च समन्वितम् ।।

पंचवर्णैश्च तन्मध्ये रजोभिः पद्ममुद्धरेत् ।। २९ ।।

चतुर्दशदलैर्बाह्ये द्वाविंशद्भिस्तदंतरे ।।

तदंतरं षोडशभिरष्टभिश्च तदंतरे ।। ३.३.१८.३० ।।

एवं पद्मं समुद्धत्य पंचवर्णैर्मनोरमम् ।।

चतुरस्रं ततः कुर्यादंतर्वर्तुलमुत्तमम् ।। ३१ ।।

व्रीहितंडुलराशिं च तन्मध्ये च सकूर्चकम् ।।

कूर्चोपरि सुसंस्थाप्य कलशं वारिपूरितम् ।। ३२ ।।

कलशोपरि विन्यस्य वस्त्रं वर्णसमन्वितम् ।।

तस्योपरिष्टात्सौवर्ण्यौ प्रतिमे शिवयोः शुभे ।।

निधाय पूजयेद्भक्त्या यथाविभवविस्तरम् ।। ३३ ।।

पंचामृतैस्तु संस्नाप्य तथा शुद्धोदकेन च ।।

रुद्रैकादशकं जप्त्वा पंचाक्षरशताष्टकम् ।। ३४ ।।

अभिमंत्र्य पुनः स्थाप्य पीठं मध्ये तथार्चयेत् ।।

स्वयं शुद्धासनासीनो धौतशुक्लांबरः सुधीः ।। ३५ ।।

पीठमामंत्र्य मंत्रेण प्राणायामान्समाचरेत् ।।

संकल्पं प्रवदेत्तत्र शिवाग्रे विहितांजलिः ।। ३६ ।।

यानि पापानि घोराणि जन्मांतरशतेषु मे ।।

तेषां सर्वविनाशाय शिवपूजां समारभे ।। ३७ ।।

सौभाग्यविजयारोग्यधर्मैश्वर्याभिवृद्धये ।।

स्वर्गापवर्गसिद्ध्यर्थं करिष्ये शिवपूजनम् ।। ३८ ।।

इति संकल्पमुच्चार्य यथावत्सुसमाहितः ।।

अंगन्यासं ततः कृत्वा ध्यायेदीशं च पार्वतीम् ।। ३९ ।।

कुंदेंदुधवलाकारं नागाभरणभूषितम् ।।

वरदाभयहस्तं च बिभ्राणं परशुं मृगम् ।। ३.३.१८.४० ।।

सूर्यकोटिप्रतीकाशं जगदानंदकारणम् ।।

जाह्नवीजलसंपर्काद्दीर्घपिंगजटाधरम् ।। ४१ ।।

उरगेंद्रफणोद्भूतमहामुकुटमंडितम् ।।

शीतांशुखंडविलसत्कोटीरांगदभूषणम् ।। ४२ ।।

उन्मीलद्भालनयनं तथा सूर्येंदुलोचनम् ।।

नीलकंठं चतुर्बाहुं गजेंद्राजिनवाससम् ।। ४३ ।।

रत्नसिंहासनारूढं नागाभरणभूषितम् ।।

देवीं च दिव्यवसनां बालसूर्यायुतद्युतिम् ।। ४४ ।।

बालवेषां च तन्वंगीं बालशीतांशुशेखराम् ।।

पाशांकुशवराभीतिं बिभ्रतीं च चतुर्भुजाम् ।। ४५ ।।

प्रसादसुमुखीमंबां लीलारसविहारिणीम् ।।

लसत्कुरबकाशोकपुन्नागनवचंपकैः ।। ४६ ।।

कृतावतंसामुत्फुल्लमल्लिकोत्कलितालकाम् ।।

कांचीकलापपर्यस्तजघनाभोगशालिनीम् ।। ४७ ।।

उदारकिंकिणीश्रेणीनूपुराढ्यपदद्वयाम् ।।

गंडमंडलसंसक्तरत्नकुंडलशोभिताम् ।। ४८ ।।

बिंबाधरानुरक्तांशुलसद्दशन कुड्मलाम् ।।

महार्हरत्नग्रेवेयतारहारविराजिताम् ।।४९।।

नवमाणिक्यरुचिरकंकणांगदमुद्रिकाम् ।।

रक्तांशुकपरीधानां रत्नमाल्यानुलेपनाम् ।। ३.३.१८.५० ।। ।

उद्यत्पीनकुचद्वंद्वनिंदितांभोजकुड्मलाम् ।।

लीलालोलासितापांगीं भक्तानुग्रहदायिनीम् ।। ५१ ।।

एवं ध्यात्वा तु हृत्पद्मे जगतः पितरौ शिवौ ।।

जप्त्वा तदात्मकं मंत्रं तदंते बहिरर्चयेत् ।। ५२ ।।

आवाह्य प्रतिमायुग्मे कल्पयेदासनादिकम् ।।

अर्घ्यं च दद्याच्छिवयोर्मंत्रेणानेन मंत्रवित् ।। ५३ ।।

नमस्ते पार्वतीनाथ त्रैलोक्यवरदर्षभ ।।

त्र्यंबकेश महादेव गृहाणार्घ्यं नमोऽस्तु ते ।। ५४ ।।

नमस्ते देवदेवेशि प्रपन्नभयहारिणि ।।

अंबिके वरदे देवि गृहाणार्घ्यं शिवप्रिये ।। ५५ ।।

इति त्रिवारमुच्चार्य दद्यादर्घ्यं समाहितः ।।

गन्धपुष्पाक्षतान्सम्यग्धूपदीपान्प्रकल्पयेत् ।। ५६ ।।

नैवेद्यं पायसान्नेन घृताक्तं परिकल्पयेत् ।।

जुहुयान्मूलमंत्रेण हविरष्टोत्तरं शतम् ।। ५७ ।।

तत उद्वास्य नैवेद्यं धूपनीराजनादिकम् ।।

कृत्वा निवेद्य तांबूलं नमस्कुर्यात्समाहितः ।। ५८ ।।

अथाभ्यर्च्योपचारेण भोजयेद्विप्रदंपती ।। ५९ ।।

एवं सायंतनीं पूजां कृत्वा विप्रानुमोदितः ।।

भुंजीत वाग्यतो रात्रौ हविष्यं क्षीरभावितम् ।। ३.३.१८.६० ।।

एवं संवत्सरं कुर्याद्व्रतं पक्षद्वये बुधः ।।

ततः संवत्सरे पूर्णे व्रतोद्यापनमाचरेत् ।। ६१ ।।

शतरुद्राभिजप्तेन स्नापयेत्प्रतिमे जलैः ।।

आगमोक्तेन मन्त्रेण संपूज्य गिरिजाशिवौ ।। ६२ ।।

सवस्त्रं ससुवर्ण च कलशं प्रति मान्वितम्।।

दत्त्वाचार्याय महते सदाचाररताय च ।।

ब्राह्मणान्भोजयेद्भक्त्या यथाशक्त्याभिपूज्य च ।। ६३ ।।

दद्याच्च दक्षिणां तेभ्यो गोहिरण्यांबरादिकम् ।।

भुंजीत तदनुज्ञातः सहेष्टजनबंधुभिः ।। ६४ ।।

एवं यः कुरुते भक्त्या व्रतं त्रैलोक्यविश्रुतम् ।।

त्रिःसप्तकुलमुद्धृत्य भुक्त्वा भोगान्यथेप्सि तान् ।। ६५ ।।

इन्द्रादिलोकपालानां स्थानेषु रमते धुवम् ।।

ब्रह्मलोके च रमते विष्णुलोके च शाश्वते ।। ६६ ।।

शिवलोकमथ प्राप्य तत्र कल्पशतं पुनः ।।

भुक्त्वा भोगान्सुविपुलाञ्छिवमेव प्रपद्यते ।। ६७ ।।

महाव्रतमिदं प्रोक्तं त्वमपि श्रद्धया चर ।।

अत्यंतदुर्लभं वापि लप्स्यसे च मनोरथम् ।। ।। ६८ ।।

इत्यादिष्टा मुनींद्रेण सा बाला मुदिता भृशम् ।।

प्रत्यग्रहीत्सुविश्रब्धा तद्वाक्यं सुमनोहरम् ।। ६९ ।।

अथ तस्याः समायाताः पितृमातृ सहोदराः ।।

तं मुनिं सुखमासीनं ददृशुः कृतभोजनम् ।। ३.३.१८.७० ।।

सहसागत्य ते सर्वे नमश्चक्रुर्महात्मने ।।

प्रसीद नः प्रसीदेति गृणतः पर्यपूज यन् ।। ७१ ।।

श्रुत्वा च ते तया साध्व्या पूजितं परमं मुनिम् ।।

अनुग्रहवतं तस्यै श्रुत्वा हर्षं परं ययुः ।। ७२ ।।

ते कृतांजलयः सर्वे तमूचुर्मुनि पुंगवम् ।। ७३ ।।

अद्य धन्या वयं सर्वे तवागमनमात्रतः ।।

पावितं नः कुलं सर्वं गृहं च सफलीकृतम् ।। ७४ ।।

इयं च शारदा नाम कन्या वैधव्यमागता ।।

केनापि कर्मयोगेन दुर्विलंघ्येन भूयसा ।। ७५ ।।

सैषाद्य तव पादाब्जं प्रपन्ना शरणं सती ।।

इमां समुद्धरासह्यात्सुघोराद्दुःख सागरात् ।। ७६ ।।

त्वयापि तावदत्रैव स्थातव्यं नो गृहांतिके ।।

अस्मद्गृहमठेऽप्यस्मिन्स्नानपूजाजपोचिते ।। ७७ ।।

एषा बालापि भगवन्कुर्वंती त्वत्पदार्चनम् ।।

व्रतं त्वत्सन्निधावेव चरिष्यति महामुने ।। ७८ ।।

यावत्समाप्तिमायाति व्रतमस्यास्त्वदंतिके ।।

उषित्वा तावदत्रैव कृतार्थान्कुरु नो गुरो ।। ७९ ।।

एवमभ्यर्थितः सर्वैस्तस्या भ्रातृजनादिभिः ।।

तथेति स मुनिश्रेष्ठस्तत्रोवास मठे शुभे ।। ३.३.१८.८० ।।

सापि तेनोपदिष्टेन मार्गेण गिरिजाशिवौ ।।

अर्चयंती व्रतं सम्यक्चचार विमला सती ।। ८१ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे उमामहेश्वरव्रताचरणं नामाष्टादशोऽध्यायः ।। १८ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 19

।। सूत उवाच ।। ।।

एवं महाव्रतं तस्याश्चरंत्या गुरुसन्निधौ ।।

संवत्सरो व्यतीयाय नियमासक्तचेतसः ।। १ ।।

संवत्सरांते सा बाला तत्रैव पितृमंदिरे ।।

चकारोद्यापनं सम्यग्विप्रभोजनपूर्वकम् ।। २ ।।

दत्त्वा च दक्षिणां तेभ्यो ब्राह्मणेभ्यो यथार्हतः ।।

विसृज्य तान्नमस्कृत्य पितृभ्यामभिनंदिता ।। ३ ।।

उपोषिता स्वयं तस्मिन्दिने नियममाश्रिता ।।

जजाप परमं मंत्रमुपदिष्टं महात्मना ।। ४ ।।

अथ प्रदोषसमये प्राप्ते संपूज्य शंकरम् ।।

तस्मिन्गृहांतिकमठे गुरोस्तस्य च सन्निधौ ।। ५ ।।

जपार्चनरता साध्वी ध्यायती परमेश्वरम् ।।

तस्मिञ्जागरणे रात्रावुपविष्टा शिवांतिके ।। ६ ।।

युग्मम् ।।

तस्यां रात्रौ तया सार्धं स मुनिर्जगदंबिकाम् ।।

जपध्यान तपोभिश्च तोषयामास पार्वतीम्।। ७ ।।

तस्याश्च भक्त्या व्रतभाविताया मुनेस्तपोयोगसमाधिना च ।।

तुष्टा भवानी जगदेकमाता प्रादुर्बभूवा कृतसांद्रमूर्तिः ।। ८ ।।

प्रादुर्भूता यदा गौरी तयोरग्रे जगन्मयी ।।

अन्धोऽपि तत्क्षणादेव मुनिः प्राप दृशोर्द्वयम् ।। ९ ।।

तां वीक्ष्य जगतां धात्रीमाविर्भूतां पुरःस्थिताम् ।।

निपेततुस्तत्पदयोः स मुनिः सा च कन्यका ।। ३.३.१९.१० ।।

तौ भक्तिभावोच्छ्वसितामलाशयावानंदबाष्पोक्षित सर्वगात्रौ ।।

उत्थाप्य देवी कृपया परिप्लुता प्रेम्णा बभाषे मृदुवल्गुभाषिणी ।। ११ ।।

।। देव्युवाच ।। ।।

प्रीतास्मि ते मुनिश्रेष्ठ वत्से प्रीतास्मि तेऽनघे ।।

किं वा ददाम्यभिमतं देवानामपि दुर्लभम् ।। १२ ।।

।। मुनिरुवाच ।। ।।

एषा तु शारदा नाम कन्या तु गतभतृका ।।

मया प्रतिश्रुतं चास्यै तुष्टेन गतचक्षुषा ।। १३ ।।

सह भर्त्रा चिरं कालं विहृत्य सुतमुत्तमम् ।।

लभस्वेति मया प्रोक्तं सत्यं कुरु नमोऽस्तु ते ।। १४ ।।

।। श्रीदेव्युवाच ।। ।।

एषा पूर्वभवे बाला द्राविडस्य द्विजन्मनः ।।

आसीद्द्वितीया दयिता भामिनी नाम विश्रुता ।। १५ ।।

सा भर्तृप्रेयसी नित्यं रूपमाधुर्यपेशला ।।

भर्तारं वशमानिन्ये रूपवश्यादिकैतवैः । १६ ।।

अस्यां चासक्तहृदयः स विप्रो मोहयंत्रितः ।।

कदाचिदपि नैवागाज्ज्येष्ठपत्नीं पतिव्रताम् ।। १७ ।।

अनभ्यागमनाद्भर्तुः सा नारी पुत्रवर्जिता ।।

सदा शोकेन संतप्ता कालेन निधनं गता ।। १८ ।।

अस्या गृहसमीपस्थो यः कश्चिद्ब्राह्मणो युवा ।।

इमां वीक्ष्याथ चार्वंगीं कामार्तः करमग्रहीत् ।। १९ ।।

अनया रोषताम्राक्ष्या स विप्रस्तु निवारितः ।।

इमां स्मरन्दिवानक्तं निधनं प्रत्यपद्यत ।। ३.३.१९.२० ।।

एषा संमोह्य भर्तारं ज्येष्ठपत्न्यां पराङ्मुखम् ।।

चकार तेन पापेन भवेस्मिन्विधवाऽभवत् ।। २१ ।।

याः कुर्वंति स्त्रियो लोके जायापत्योश्च विप्रियम् ।।

तासां कौमारवैधव्यमेकविंशतिजन्मसु ।। २२ ।।

यदेतया पूर्वभवे मत्पूजा महती कृता ।।

तेन पुण्येन तत्पापं नष्टं सर्वं तदैव हि ।। २३ ।।

यो विप्रो विरहार्तः सन्मृतः कामविमोहितः ।।

सोऽस्याः पाणिग्रहं कृत्वा भवेस्मिन्निधनं गतः ।। २४ ।।

प्राग्जन्मपतिरेतस्याः पांड्यराष्ट्रेषु सोऽधुना ।।

जातो विप्रवरः श्रीमान्सदारः सपरिच्छदः ।। २५ ।।

तेन भर्त्रा प्रतिनिशं सैषा प्रेम्णाभिसंगता ।।

स्वप्ने रतिसुखं यातु श्रेष्ठं जागरणादपि ।।२६।।

षष्ट्युत्तरत्रिशतयोजनदूरसंस्थो देशादितो द्विजवरः स च कर्मगत्या ।।

एनां वधूं प्रतिनिशं मनसोभिरामां स्वप्नेषु पश्यति चिरं रतिमादधानः ।। २७ ।।

सैषा वै स्वप्नसंगत्या पत्युः प्रतिनिशं सती ।।

कालेन लप्स्यते पुत्रं वेदवेदांगपारगम् ।। २८ ।।

एतस्यां तनयं जातमात्मनश्चिरसंगमात् ।।

सोऽपि विप्रोऽनिशं स्वप्ने द्रक्ष्यति प्रेमभावितम् ।। २९ ।।

अनयाराधिता पूर्वे भवे साहं महामुने ।।

अस्यैव वरदानाय प्रादुर्भूतास्मि सांप्रतम् ।। ३.३.१९.३० ।।

।। सूत उवाच ।। ।।

अथोवाच महादेवी तां बालां प्रति सादरम् ।।

अयि वत्से महाभागे शृणु मे परमं वचः ।। ३१ ।।

यदा कदापि भर्त्तारं क्वापि देशे पुरातनम् ।।

द्रक्ष्यसि स्वप्नदृष्टं प्राक्ज्ञास्यसे त्वं विचक्षणा ।। ३२ ।।

त्वां द्रक्ष्यति स विप्रोपि सुनयां स्वप्नलक्षणाम् ।।

तदा परस्परालापो युवयोः संभविष्यति ।। ३३ ।।

तदा स्वतनयं भद्रे तस्मै देहि बहुश्रुतम् ।।

फलमस्य व्रतस्याग्र्यं तस्य हस्ते समर्पय ।। ३४ ।।

ततः प्रभृति तस्यैव वशे तिष्ठ सुमध्यमे ।।

युवयोदैहिकः संगो माभूत्स्वप्नरतादृते ।। ३५ ।।

कालात्पंचत्वमापन्ने तस्मिन्ब्राह्मणसत्तमे ।।

अग्निं प्रविश्य तेनैव सह यास्यसि मत्पदम् ।। ३६ ।।

पुत्रस्ते भविता सुभ्रु सर्वलोकमनोरमः ।।

संपदश्च भविष्यंति प्राप्स्यते परमं पदम् ।। ३७ ।।

।। सूत उवाच ।। ।।

इत्युक्त्वा त्रिजगन्माता दत्त्वा तस्यै मनोरथम् ।।

तयोः संपश्यतोरेव क्षणेनादर्शनं गता ।। ३८ ।।

सापि बाला वरं लब्ध्वा पार्वत्याः करुणानिधेः ।।

अवाप परमानंदं पूजयामास तं गुरुम् ।। ३९ ।।

तस्यां रात्र्यां व्यतीतायां स मुनिर्लब्धलोचनः ।।

तस्याः पित्रोश्च तत्सर्वं रहस्याचष्ट धर्मवित् ।। ३.३.१९.४० ।।

अथ सर्वानुपामंत्र्य शारदां च यशस्विनीम् ।।

विधायानुग्रहं तेषां ययौ स्वैरगतिर्मुनिः ।। ४१ ।।

एवं दिनेषु गच्छत्सु सा बाला च प्रतिक्षणम् ।।

भर्तुः समागमं लेभे स्वप्ने सुख विवर्धनम् ।। ४२ ।।

गौर्या वरप्रदानेन शारदा विशदव्रता ।।

दधार गर्भं स्वप्नेपि भर्तुः संगानुभावतः ।। ४३ ।।

तां श्रुत्वा भर्तृरहितां शारदां गर्भिणी सतीम्।।

सर्वे धिगिति प्रोचुस्तां जारिणीति जगुर्जनाः ।। ४४ ।।

संपरेतस्य तद्भर्तुर्ये जातिकुलवबांधवाः ।।

तां वार्तां दुःसहां श्रुत्वा ययुस्तत्पितृमंदिरम् ।। ४५ ।।

अथ सर्वे समायाता ग्रामवृद्धाश्च पंडिताः ।।

समाजं चक्रिरे तत्र कुलवृद्धैः समन्वितम् ।। ४६ ।।

अन्तर्वत्नीं समाहूय शारदां विनताननाम् ।।

अतर्जयन्सुसंक्रुद्धाः केचिदासन्पराङ्मुखाः ।। ४७ ।।

अयि जारिणि दुर्बुद्धे किमेतत्ते विचेष्टितम् ।।

अस्मत्कुले सुदुष्कीर्त्तिं कृतवत्यसि बालिशे ।। ४८ ।।

इति संतर्जयंतस्ते ग्रामवृद्धा मनीषिणः ।।

सर्वे संमंत्रयामासुः किं कुर्म इति भाषिणः ।। ४९ ।।

तत्रोचुः के च वृद्धास्तां बालां प्रति विनिर्दयाः ।।

एषा पापमतिर्बाला कुलद्वयविनाशिनी। ।। ३.३.१९.५० ।।

कृत्वास्याः केशवपनं छित्त्वा कर्णौ च नासिकाम् ।।

निर्वास्यतां बहिर्ग्रामात्परित्यज्य स्वगोत्रतः ।। ५१ ।।

इति सर्वे समालोच्य तां तथा कर्तुमुद्यताः ।।

अथांतरिक्षे संभूता शुश्रुवे वागगोचरा ।। ५२ ।।

अनया न कृतं पापं न चैव कुलदूषणम् ।।

व्रतभंगो न चैतस्यास्सुचरित्रेयमंगना ।। ५३ ।।

इतः परमियं नारी जारिणीति वदंति ये ।।

तेषां दोषविमूढानां सद्यो जिह्वा विदीर्यते ।। ५४ ।।

इत्यंतरिक्षे जनितां वाणीं श्रुत्वाऽशरीरिणीम् ।।

सर्वे प्रजहृषुस्तस्या जननीजनकादयः ।।५५।।

ततः ससंभ्रमाः सर्वे ग्रामवृद्धाः सभाजनाः ।।

मुहूर्त्तं मौनमालंब्य भीतास्तस्थुरधोमुखाः ।।५६।।

तत्र केचिदविश्वस्ता मिथ्यावाणीत्यवादिषुः।।

तेषां जिह्वा द्विधा भिन्ना ववमुस्ते कृमीन्क्षणात् ।। ५७ ।।

ततः संपूजयामासुस्तां बालां ज्ञातिबांधवाः ।।

बांधवाश्च स्त्रियो वृद्धाः शशंसुः साधुसाध्विति ।। ५८ ।।

मुमुचुः केचिदानंदबाष्पबिंदून्कुलोत्तमाः।।

कुलस्त्रियः प्रमुदितास्तामुद्दिश्य समाश्वसन् ।। ५९ ।।

अथ तत्रापरे प्रोचुर्देवो वदति नानृतम् ।।

कथमेषां दधौ गर्भं शीलान्न चलिता ध्रुवम् ।। ३.३.१९.६० ।।

इति सर्वान्सभ्यजना न्संशयाविष्टचेतसः ।।

विलोक्य वृद्धस्तत्रैको सर्वज्ञो लोकतत्त्ववित् ।। ६१ ।।

मायामयमिदं विश्वं दृश्यते श्रूयते च यत् ।।

किं भाव्यं किमभाव्यं वा संसारेऽस्मिन्क्षणात्मके ।। ६२ ।।

अनिरूप्यमभूतार्थं मायया जायते स्फुटम् ।।

ईश्वरस्य वशे माया तस्य को वेद चेष्टितम् ।। २३ ।।

यूपकेतोश्च राजर्षेः शुक्रं निपतितं जले ।।

सशुक्रं तज्जलं पीत्वा वेश्या गर्भं दधौ किल ।। ६४ ।।

मुनेर्विभांडकस्यापि शुक्रं पीत्वा सहांभसा ।।

हरिणी गर्भिणी भूत्वा ऋष्यशृंगमसूयत ।। ६५ ।।

सुराष्ट्रस्य तथा राज्ञः करं स्पृष्ट्वा मृगांगना।।

तत्क्षणाद्गर्भिणी भूत्वा मुनिं प्रासूत तापसम् ।। ६६ ।।

तथा सत्यवती नारी शफरीगर्भसंभवा ।।

तथैव महिषीगर्भो जातश्च महिषासुरः।। ६७ ।।

तथा संति पुरा नार्यः कारुण्याद्गर्भसंभवाः।।

तथा हि वसुदेवेन रोहिण्या स्तनयोऽभवत् ।। ६८ ।।

देवतानां महर्षीणां शापेन च वरेण च ।।

अयुक्तमपि यत्कर्म युज्यते नात्र संशयः ।। ६९ ।।

सांबस्य जठराज्जातं मुसलं मुनिशापतः ।।

युवनाश्वस्य गर्भोऽभून्मुनीनां मंत्रगौरवात् ।। ३.३.१९.७० ।।

नूनमेषापि कल्याणी महर्षेः पादसेवनात् ।।

महाव्रतानुभावाच्च धत्ते गर्भमनिं दिता ।। ७१ ।।

अस्मिन्नर्थे रहस्येनां सत्यं पृच्छंतु योषितः ।।

ततो निवृत्तसंदेहो भविष्यति महाजनः ।। ७२ ।।

ततस्तद्वचनादेव तामपृच्छन्स्त्रियो मिथः ।।

ताभ्यः शशंस तत्सर्वं सा स्ववृत्तं महाद्भुतम् ।। ७३ ।।

विजानंतस्ततः सर्वे मानयित्वा च तां सतीम् ।।

मोदमानाः प्रशंसंतः प्रययुः स्वं स्वमालयम्।। ७४ ।।

अथ काले शुभे प्राप्ते शारदा विमलाशया ।।

असूत तनयं बाला बालार्कसमतेजसम् ।। ७५ ।।

स कुमारो महोदारलक्षणः कमलेक्षणः ।।

अवाप्य महतीं विद्यां बाल्य एव महामतिः ।। ७६ ।।

अथोपनीतो गुरुणा काले लोकमनोरमः ।।

स शारदेय एवेति लोके ख्याति मवाप ह ।। ७७ ।।

ऋग्वेदमष्टमे वर्षे नवमे यजुषां गणम् ।

दशमे सामवेदं च लीलयाध्यगमत्सुधीः ।। ७८ ।।

अथ त्रिलोकमहिते संप्राप्ते शिवपर्वणि ।।

गोकर्णं प्रययुः सर्वे जनाः सर्वनिवासिनः ।। ७९ ।।

शारदापि स्वपुत्रेण गोकर्णं प्रययौ सती ।। ३.३.१९.८० ।।

तत्रापश्यत्समायातं सदा स्वप्नेषु लक्षितम् ।।

पूर्वजन्मनि भर्त्तारं द्विजबंधुजनावृतम् ।। ८१ ।।

तं दृष्ट्वा प्रेमनिर्विण्णा पुलकांकितविग्रहा ।।

निरुद्धबाष्पप्रसरा तस्थौ तन्न्यस्तलोचना ।। ८२ ।।

स च विप्रोऽपि तां दृष्ट्वा रूपलक्षणलक्षिताम्।।

स्वप्ने सदा भुज्यमानामात्मनो रतिदायिनीम् । ८३ ।।

तं कुमारमपि स्वप्ने दृष्ट्वा चात्म शरीरजम् ।।

विलोक्य विस्मयाविष्टस्तदंतिकमुपाययौ ।। ८४ ।।

भद्रे त्वां प्रष्टुमिच्छामि यत्किंचिन्मनसि स्थितम् ।।

इति प्रथममाभाष्य रहः स्थानं निनाय ताम्।। ८५।।

का त्वं कथय वामोरु कस्य भार्यासि सुव्रते ।।

को देशः कस्य वा पुत्री किन्नामेत्यब्रवीच्च ताम् ।। ८६ ।।

इति तेन समापृष्टा सा नारी बाष्पलोचना ।।

व्याजहारात्मनोवृत्तं बाल्ये वैधव्यकारणम् ।। ८७ ।।

पुनः पप्रच्छ तां बालां पुत्रः कस्यायमुत्तमः ।।

कथं धृतो वा जठरे बालोऽयं चंद्रसन्निभः ।। ८८ ।।

। शारदोवाच ।। ।।

एष मे तनयः स्वामिन्सर्वविद्याविशारदः।।

शारदेय इति प्रोक्तो मम नाम्नैव कल्पितः ।। ६९ ।।

इति तस्या वचः श्रुत्वा विहस्य ब्राह्मणोत्तमः ।।

प्रोवाच कष्टात्कष्टं हि चरितं तव भामिनि ।। ३.३.१९.९० ।।

पाणिग्रहणमात्रं ते कृत्वा भर्त्ता मृतः किल ।।

कथं चायं सुतो जातस्तस्य कारणमुच्यताम् ।। ९१ ।।

इति तेनोदितां वाणीमाकर्ण्यातीव लज्जिता ।।

क्षणं चाश्रुमुखी भूत्वा धैर्यादित्थमभाषत ।। ९२ ।।

।। शारदोवाच ।। ।।

तदलं परिहासोक्त्या त्वं मां वेत्सि महामते ।।

त्वामहं वेद्मि चार्थेऽस्मिन्प्रमाणं मन आवयोः ।। ९३ ।।

इत्युक्त्वा सर्वमावेद्य देव्या दत्तं वरादिकम् ।।

व्रतस्यार्धं कुमारं तं ददौ तस्मै धृतव्रतम् ।। ९४ ।।

सोऽपि प्रमुदितो विप्रः कुमारं प्रतिगृह्य तम्।।

पित्रोरनुमतेनैव तां निनाय निजालयम् ।। ९५ ।।

सापि स्थित्वा बहून्मासांस्तस्य विप्रस्य मंदिरे ।।

तस्मिन्कालवशं प्राप्ते प्रविश्याग्निं तमन्वगात् ।। ९६ ।।

ततस्तौ दंपती भूत्वा विमानं दिव्यमास्थितौ ।।

दिव्यभोगसमायुक्तौ जग्मतुः शिवमंदिरम् ।। ९७ ।।

इत्येततत्पुण्यमाख्यानं मया समनुवर्णितम् ।।

पठतां शृण्वतां सम्यग्भुक्तिमुक्तिफलप्रदम् ।। ९८ ।।

आयुरारोग्यसंपत्तिधनधत्यविवर्द्धनम् ।।

स्त्रीणां मंगलसौभाग्यसंतानसुखसाधनम् ।। ९९ ।।

एतन्महाख्यानमघौघनाशनं गौरीमहेशव्रतपुण्यकीर्तनम् ।।

भक्त्या सकृद्यः शृणुयाच्च कीर्त्तयेद्भुक्त्वा स भोगान्पदमेति शाश्वतम् ।। ३.३.१९.१०० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे शारदाख्यानवर्णनं नामैकोनविंशोऽध्यायः ।। १९ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 20

।। सूत उवाच ।। ।।

अथ रुद्राक्षमाहात्म्यं वर्णयामि समासतः ।।

सर्वपापक्षयकरं शृण्वतां पठतामपि ।। ।। १ ।।

अभक्तो वापि भक्तो वा नीचो नीचतरोपि वा ।।

रुद्राक्षान्धारयेद्यस्तु मुच्यते सर्वपातकैः ।। २ ।।

रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् ।।

महाव्रतमिदं प्राहुर्मुनयस्तत्त्वदर्शिनः ।। ३ ।।

सहस्रं धारयेद्यस्तु रुद्राक्षाणां धृतव्रतः ।।

तं नमंति सुराः सर्वे यथा रुद्रस्तथैव सः ।। ४ ।।

अभावे तु सहस्रस्य बाह्वोः षोडश षोडश ।।

एकं शिखायां करयोर्द्वादश द्वादशैव हि ।। ५ ।।

द्वात्रिंशत्कंठदेशे तु चत्वारिंशत्तु मस्तके ।।

एकैक कर्णयोः षट् षट् वक्षस्यष्टोत्तरं शतम् ।।

यो धारयति रुद्राक्षान्रुद्रवत्सोपि पूज्यते ।। ६ ।।

मुक्ताप्रवालस्फटिकरौप्यवैदूर्यकांचनैः ।।

समेतान्धारयेद्यस्तु रुद्राक्षान्स शिवो भवेत् ।। ७ ।।

केवलानपि रुद्राक्षान्यथालाभं बिभर्ति यः ।।

तं न स्पृशंति पापानि तमांसीव विभावसुम् ।। ८ ।।

रुद्राक्षमालया जप्तो मंत्रोऽनंतफलप्रदः ।।

अरुद्राक्षो जपः पुंसां तावन्मात्रफलप्रदः ।। ९ ।।

यस्यांगे नास्ति रुद्राक्ष एकोपि बहुपुण्यदः ।।

तस्य जन्म निरर्थं स्यात्त्रिपुंड्ररहितं यदि ।। ३.३.२०.१० ।।

रुद्राक्षं मस्तके बद्ध्वा शिरःस्नानं करोति यः ।।

गंगास्नानफलं तस्य जायते नात्र संशयः ।। ११ ।।

रुद्राक्षं पूजयेद्यस्तु विना तोयाभिषेचनम् ।।

यत्फलं लिंगपूजायास्तदेवाप्नोति निश्चितम् ।। १२ ।।

एकवक्त्राः पंचवक्त्रा एकादशमुखाः परे ।।

चतुर्दशमुखाः केचिद्रुद्राक्षा लोकपूजिताः ।। १३ ।।

भक्त्या संपूजितो नित्यं रुद्राक्षः शंकरात्मकः ।।

दरिद्रं वापि कुरुते राजराजश्रियान्वितम् ।। १४ ।।

अत्रेदं पुण्यमाख्यानं वर्णयंति मनीषिणः ।

महापापक्षयकरं श्रवणात्कीर्त्तनादपि ।। १५ ।।

राजा काश्मीरदेशस्य भद्रसेन इति श्रुतः ।।

तस्य पुत्रो ऽभवद्धीमान्सुधर्मानाम वीर्यवान् ।। १६ ।।

तस्यामात्यसुतः कश्चित्तारको नाम सद्गुणः ।।

बभूव राजपुत्रस्य सखा परमशोभनः ।। १७ ।।

तावुभौ परमस्निग्धौ कुमारौ रूपसुन्दरौ ।।

विद्याभ्यासपरौ बाल्ये सह क्रीडां प्रचक्रतुः ।। १८ ।।

तौ सदा सर्वगात्रेषु रुद्राक्षकृतभूषणौ ।।

विचेरतुरुदारांगौ सततं भस्मधारिणौ ।। १९ ।।

हारकेयूरकटककुंडलादिविभूषणम् ।।

हेमरत्नमयं त्यक्त्वा रुद्राक्षान्दधतुश्च तौ ।। ३.३.२०.२० ।।

रुद्राक्षमालितौ नित्यं रुद्राक्षकरकंकणौ ।।

रुद्राक्षकंठाभरणौ सदा रुद्राक्षकुंडलौ ।। २१ ।।

हेमरत्नाद्यलंकारे लोष्टपाषाणदर्शनौ ।।

बोध्यमानावपि जनैर्न रुद्राक्षान्व्यमुंचताम् ।। २२ ।।

तस्य काश्मीरराजस्य गृहं प्राप्तो यदृच्छया ।।

पराशरो मुनिवरः साक्षादिव पितामहः ।। २३ ।।

तमर्चयित्वा विधिवद्राजा धर्मभृतां वरः ।।

प्रपच्छ सुखमासीनं त्रिकालज्ञं महामुनिम् ।। २४ ।।

।। राजोवाच ।। ।।

भगवन्नेष पुत्रो मे सोपि मंत्रिसुतश्च मे ।।

रुद्राक्षधारिणौ नित्यं रत्नाभरणनिःस्पृहौ ।। २५ ।।

शास्यमानावपि सदा रत्नाकल्पपरिग्रहे ।।

विलंघितास्मद्वचनौ रुद्राक्षेष्वेव तत्परौ ।। २६ ।।

नोपदिष्टाविमौ बालौ कदाचिदपि केनचित् ।।

एषा स्वाभाविकी वृत्तिः कथमासीत्कुमारयोः ।। २७ ।।

।। पराशर उवाच ।। ।।

शृणु राजन्प्रवक्ष्यामि तव पुत्रस्य धीमतः ।।

यथा त्वं मंत्रिपुत्रस्य प्राग्वृत्तं विस्मयावहम् ।।२८।।

नंदिग्रामे पुरा काचिन्महानंदेति विश्रुता।।

बभूव वारवनिता शृंगारललिताकृतिः ।।२९।।

छत्रं पूर्णेंदुसंकाशं यानं स्वर्णविराजितम् ।।

चामराणि सुदंडानि पादुके च हिरण्मये।।३.३.२०.३०।।

अंबराणि विचित्राणि महार्हाणि द्युमंति च ।।

चंद्ररश्मिनिभाः शय्या पर्यंकाश्च हिरण्मयाः ।। ३१ ।।

गावो महिष्यः शतशो दासाश्च शतशस्तथा ।। ३२ ।।

सर्वाभरणदीप्तांग्यो दास्यश्च नवयौवना ।।

भूषणानि परार्ध्याणि नवरत्नोज्ज्वलानि च ।। ३३ ।।

गन्धकुंकुमकस्तूरीकर्पूरागुरुलेपनम् ।।

चित्रमाल्यावतंसश्च यथेष्टं मृष्टभोजनम् ।।३४।।

नानाचित्रवितानाढ्यं नानाधान्यमयं गृहम् ।।

बहुरत्नसहस्राढ्यं कोटिसंख्याधिकं धनम् ।। ३५ ।।

एवं विभवसंपन्ना वेश्या कामविहारिणी ।।

शिवपूजारता नित्यं सत्यधर्मपरायणा ।। ३६ ।।

सदाशिवकथासक्ता शिवनामकथोत्सुका ।।

शिवभक्तांघ्र्यवनता शिवभक्तिरतानिशम् ।। ३७ ।।

विनोदहेतोः सा वेश्या नाट्यमण्डपमध्यतः।।

रुद्राक्षैभूषयित्वैकं मर्कटं चैव कुक्कुटम् ।।३८।।

करतालैश्च गीतैश्च सदा नर्तयति स्वयम् ।।

पुनश्च विहसंत्युच्चैः सखीभिः परिवारिता ।। ३९ ।।

युग्मम् ।।

रुद्राक्षैः कृतकेयूरकर्णाभरणभूषणः ।।

मर्कटः शिक्षया तस्याः सदा नृत्यति बालवत् ।। ३.३.२०.४० ।।

शिखायां बद्धरुद्राक्षः कुक्कुटः कपिना सह ।।

चिरं नृत्यति नृत्यज्ञः पश्यतां चित्रमावहन् ।।४१।।

एकदा भवनं तस्याः कश्चिद्वैश्यः शिवव्रती।।

आजगाम सरुद्राक्षस्त्रिपुंड्री निर्ममः कृती ।। ४२ ।।

स बिभ्रद्भस्म विशदे प्रकोष्ठे वरकंकणम् ।।

महारत्नपरिस्तीर्णं ज्वलंतं तरुणार्कवत् ।।४३।।

तमागतं सा गणिका संपूज्य परया मुदा।

तत्प्रकोष्ठगतं वीक्ष्य कंकणं प्राह विस्मिता ।। ४४ ।।

महारत्नमयः सोऽयं कंकणस्त्वत्करे स्थितः ।।

मनो हरति मे साधौ दिव्यस्त्रीभूषणोचितः ।। ४५ ।।

इति तां वररत्नाढ्य सस्पृहां करभूषणे ।।

वाक्ष्योदारमतिर्वैश्यः सस्मितं समभाषत ।। ४६ ।। ।।

।। वैश्य उवाच ।। ।।

अस्मिन्रत्नवरे दिव्ये यदि ते सस्पृहं मनः ।।

तमेवादत्स्व सुप्रीता मौल्यमस्य ददासि किम् ।। ४७ ।।

।। वेश्यो वाच ।। ।।

वयं तु स्वैरचारिण्यो वेश्यास्तु न पतिव्रताः ।।

अस्मत्कुलोचितो धर्मो व्यभिचारो न संशयः ।। ४८ ।।

यद्येतद्रत्नखचितं ददासि करभूषणम्।।

दिनत्रयमहोरात्रं तव पत्नी भवाम्यहम् ।। ४९ ।।

।। वैश्य उवाच ।। ।।

तथास्तु यदि ते सत्यं वचनं वारवल्लभे ।।

ददामि रत्नवलयं त्रिरात्रं भव मद्वधूः ।। ३.३.२०.५० ।।

एतस्मिन्व्यवहारे तु प्रमाणं शशिभास्करौ ।।

त्रिवारं सत्यमित्युक्त्वा हृदयं मे स्पृश प्रिये ।। ५१ ।। ।।

।। वेश्योवाच ।। ।।

दिनत्रयमहोरात्रं पत्नी भूत्वा तव प्रभो ।।

सहधर्मं चरामीति सा तद्धृदयमस्पृशत् ।। ५२ ।।

अथ तस्यै स वैश्यस्तु प्रददौ रत्नकङ्कणम् ।।

लिंगं रत्नमयं चास्या हस्ते दत्त्वेदमब्रवीत् ।। ५३ ।।

इदं रत्नमयं शैवं लिंगं मत्प्राणसंनिभम् ।।

रक्षणीयं त्वया कांते तस्य हानिर्मृतिर्मम ।। ५४ ।।

एवमस्त्विति सा कांता लिंगमादाय रत्नजम् ।।

नाट्यमण्डपिकास्तंभे निधाय प्राविशद्गृहम् ।। ५५ ।।

सा तेन संगता रात्रौ वैश्येन विटधर्मिणा ।।

सुखं सुष्वाप पर्यंके मृदुतल्पोपशोभिते ।। ५६ ।।

ततो निशीथसमये नाट्यमण्डपिकांतरे ।।

अकस्मादुत्थितो वह्निस्तमेव सहसावृणोत् ।। ५७ ।।

मण्डपे दह्यमाने तु सहसोत्थाय संभ्रमात् ।।

सा वेश्या मर्कटं तत्र मोचयामास बंधनात् ।। ५८ ।।

स मर्कटो मुक्तबंधः कुक्कुटेन सहामुना ।।

भीतो दूरं प्रदुद्राव विधूयाग्निकणान्बहून् ।। ५९ ।।

स्तंभेन सह निर्दग्धं तल्लिंगं शकलीकृतम् ।।

दृष्ट्वा वेश्या च वैश्यश्च दुरंतं दुःखमापतुः ।। ३.३.२०.६० ।।

दृष्ट्वा प्राणसमं लिंगं दग्धं वैश्यपतिस्तथा ।।

स्वयमप्याप्तनिर्वेदो मरणाय मतिं दधौ ।। ६१ ।।

निर्वेददान्नितरां खेदाद्वैश्यस्तामाह दुःखिताम् ।।

शिवलिंगे तु निर्भिन्ने नाहं जीवितुमुत्सहे ।। ६२ ।।

चितां कारय मे भद्रे तव भृत्यैर्बलाधिकैः ।।

शिवे मनः समावेश्य प्रविशामि हुताशनम् ।। ६३ ।।

यदि ब्रह्मेंद्रविष्ण्वाद्या वारयेयुः समेत्य माम् ।।

तथाप्यस्मिन्क्षणे धीरः प्रविश्याग्निं त्यजाम्यसून् ।। ६४ ।।

तमेवं दृढबंधं सा विज्ञाय बहुदुःखिता ।।

स्वभृत्यैः कारयामास चितां स्वनगराद्बहिः ।। ६५ ।।

ततः स वैश्यः शिवभक्तिपूतः प्रदक्षिणीकृत्य समिद्धमग्निम् ।।

विवेश पश्यत्सु जनेषु धीरः सा चानुतापं युवती प्रपेदे ।। ६६ ।।

अथ सा दुःखिता नारी स्मृत्वा धर्मं सुनिर्मलम् ।।

सर्वान्बन्धून्समीक्ष्यैव बभाषे करुणं वचः ।। ६७ ।।

रत्नकंकणमादाय मया सत्यमुदाहृतम् ।।

दिनत्रयमहं पत्नी वैश्यस्यामुष्य संमता।। ६८।।

कर्मणा मत्कृतेनायं मृतो वैश्यः शिवव्रती।

तस्मादहं प्रवेक्ष्यामि सहानेन हुताशनम् ।।

सधर्मचारिणीत्युक्तं सत्यमेतद्धि पश्यथ ।। ६९ ।।

सत्येन प्रीतिमायांति देवास्त्रिभुवनेश्वराः ।।

सत्यासक्तिः परो धर्मः सत्ये सर्वं प्रतिष्ठितम् ।। ३.३.२०.७० ।।

सत्येन स्वर्गमोक्षौ च नासत्येन परा गतिः ।।

तस्मासत्यं समाश्रित्य प्रवेक्ष्यामि हुताशनम् ।। ७१ ।।

इति सा दृढनिर्बंधा वार्यमाणापि बंधुभिः ।।

सत्यलोपभयान्नारी प्राणांस्त्यक्तुं मनो दधे ।। ७२ ।।

सर्वस्वं शिवभक्तेभ्यो दत्त्वा ध्यात्वा सदाशिवम् ।।

तमग्निं त्रिः परिक्रम्य प्रदेशाभिमुखी स्थिता ।। ७३ ।।

तां पतंतीं समिद्धेऽग्नौ स्वपदार्पितमानसाम् ।।

वारयामास विश्वात्मा प्रादुर्भूतः शिवः स्वयम् ।। ७४ ।।

सा तं विलोक्याखिलदेव देवं त्रिलोचनं चन्द्रकलावतंसम् ।।

शशांकसूर्यानलकोटिभासं स्तब्धेव भीतेव तथैव तस्थौ ।। ७५ ।।

तां विह्वलां परित्रस्तां वेपमानां जडी कृताम् ।।

समाश्वास्य गलद्बाष्पां करे गृह्याब्रवीद्वचः ।। ७६ ।।

।। शिव उवाच ।। ।।

सत्यं धर्मं च ते धैर्यं भक्तिं च मयि निश्चलाम् ।।

निरीक्षितुं त्वत्सकाशं वैश्यो भूत्वाहमागतः ।। ७७ ।।

माययाग्निं समुत्थाप्य दग्धवान्नाट्यमंडपम् ।।

दग्धं कृत्वा रत्नलिंगं प्रवृष्टोस्मि हुताशनम् ।। ।। ७८ ।।

वेश्याः कैतवकारिण्यः स्वैरिण्यो जनवंचकाः ।।

सा त्वं सत्यमनुस्मृत्य प्रविष्टाग्निं मया सह ।। ७९ ।।

अतस्ते संप्रदास्यामि भोगांस्त्रिदशदुर्लभान् ।।

आयुश्च परमं दीर्घमारोग्यं च प्रजोन्नतिम् ।।

यद्यदिच्छसि सुश्रोणि तत्तदेव ददामि ते ।। ३.३.२०.८० ।।

।। सूत उवाच ।। ।।

इति ब्रुवति गौरीशे सा वेश्या प्रत्यभाषत ।। ८१ ।।

।। वेश्योवाच ।। ।।

न मे वांछास्ति भोगेषु भूमौ स्वर्गे रसातले ।।

तव पादांबुजस्पर्शादन्यत्किंचिन्न वै वृणे ।। ८२ ।।

एते भृत्याश्च दास्यश्च ये चान्ये मम बांधवाः ।।

सर्वे त्वदर्चनपरास्त्वयि संन्यस्तवृत्तयः ।। ८३ ।।

सर्वानेतान्मया सार्धं नीत्वा तव परं पदम् ।।

पुनर्जन्मभयं घोरं विमोचय नमोस्तु ते ।। ८४ ।।

तथेति तस्या वचनं प्रतिनंद्य महेश्वरः ।।

तान्सर्वांश्च तया सार्धं निनाय परमं पदम् ।। ८५ ।।

।। पराशर उवाच ।। ।।

नाट्यमंडपिकादाहे यौ दूरं विद्रुतौ पुरा ।।

तत्रावशिष्टौ तावेव कुक्कुटो मर्कटस्तथा ।। ८६ ।।

कालेन निधनं यातो यस्तस्या नाट्यमर्कटः ।।

सोभूत्तव कुमारोऽसौ कुवकुटो मंत्रिणः सुतः ।। ८७ ।।

रुद्राक्षधारणोद्भूतात्पुण्यात्पूर्वभवार्जितात् ।।

कुले महति संजातौ वर्तेते बालकाविमौ ।। ८८ ।।

पूर्वाभ्यासेन रुद्राक्षान्दधाते शुद्धमानसौ ।।

अस्मिञ्जन्मनि तं लोकं शिवं संपूज्य यास्य तः ।। ८९ ।।

एषा प्रवृत्तिस्त्वनयोर्बालयोः समुदाहृता ।।

कथा च शिवभक्ताया किमन्यत्प्रष्टुमिच्छसि ।। ९० ।।

इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे रुद्राक्षमहिमवर्णनं नाम विंशोऽध्यायः ।। २० ।। ।। अ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 21

।। सूत उवाच ।। ।।

एवं ब्रह्मर्षिणा प्रोक्तां वाणीं पीयूषसन्निभाम् ।।

आकर्ण्य मुदितो राजा प्रांजलिः पुनरब्रवीत् ।। १ ।।

।। राजोवाच ।। ।।

अहो सत्संगमः पुंसामशेषाघप्रशोधनः ।।

कामक्रोधनिहंता च इष्टदोग्धा जनस्य हि ।। २ ।।

मम मायातमो नष्टं ज्ञानदृष्टिः प्रकाशिता ।।

तव दर्शनमात्रेण प्रायोहममरोत्तमः ।। ।। ३ ।।

श्रुतं च पूर्वचरितं बालयोः सम्यगेतयोः ।।

भविष्यदपि पृच्छामि मत्पुत्राचरणं मुने ।। ४ ।।

अस्यायुः कति वर्षाणि भाग्यं वद च कीदृशम् ।।

विद्या कीर्तिश्च शक्तिश्च श्रद्धा भक्तिश्च कीदृशी ।। ५ ।।

एतत्सर्वमशेषेण मुने त्वं वक्तुमर्हसि ।।

तव शिष्योस्मि भृत्योस्मि शरणं त्वां गतोस्मयहम् ।। ६ ।।

।। पराशर उवाच ।। ।।

अत्रावाच्यं हि यत्किंचित्कथं शक्तोस्मि शंसितुम् ।।

यच्छ्रुत्वा धृतिमंतोपि विषादं प्राप्नुयुर्जनाः ।। ।। ७ ।।

तथापि निर्व्यलीकेन भावेन परिपृच्छतः ।।

अवाच्यमपि वक्ष्यामि तव स्नेहान्महीपते ।। ८ ।।

अमुष्य त्वत्कुमारस्य वर्षाणि द्वादशात्ययुः ।।

इतः परं प्रपद्येत सप्तमे दिवसे मृतिम् ।। ९ ।।

इति तस्य वचः श्रुत्वा कालकूटमिवोदितम् ।।

मूर्च्छितः सहसा भूमौ पतितो नृपतिः शुचा ।। ३.३.२१.१० ।।

तमुत्थाप्य समाश्वास्य स मुनिः करुणार्द्रधीः ।।

उवाच मा भैर्नृपते पुनर्वक्ष्यामि ते हितम् ।। ११ ।।

सर्गात्पुरा निरालोकं यदेकं निष्कलं परम् ।।

चिदानंदमयं ज्योतिः स आद्यः केवलः शिवः ।। १२ ।।

स एवादौ रजोरूपं सृष्ट्वा ब्रह्माणमात्मना ।।

सृष्टिकर्मनियुक्ताय तस्मै वेदांश्च दत्तवान् ।। १३ ।।

पुनश्च दत्तवानीश आत्मतत्त्वैकसंग्रहम् ।।

सर्वोपनिषदां सारं रुद्राध्यायं च दत्तवान् ।। १४ ।।

यदेकमव्ययं साक्षाद्ब्रह्मज्योतिः सनातनम् ।।

शिवात्मकं परं तत्त्वं रुद्राध्याये प्रतिष्ठितम् ।। १५ ।।

स आत्मभूः सृजद्विश्वं चतुर्भिर्वदनैर्विराट् ।।

ससर्ज वेदांश्चतुरो लोकानां स्थितिहेतवे ।। १६ ।।

तत्रायं यजुषां मध्ये ब्रह्मणो दक्षिणान्मुखात् ।।

अशेषोपनिषत्सारो रुद्राध्यायः समुद्गतः ।। १७ ।।

स एष मुनिभिः सर्वैर्मरीच्यत्रिपुरोगमैः ।।

सह देवैर्धृतस्तेभ्यस्तच्छिष्या जगृहुश्च तम् ।। १८ ।।

तच्छिष्यशिष्यैस्तत्पुत्रैस्तत्पुत्रैश्च क्रमागतैः ।।

धृतो रुद्रात्मकः सोऽयं वेदसारः प्रसादितः ।। १९ ।।

एष एव परो मन्त्र एष एव परं तपः ।।

रुद्राध्यायजपः पुंसां परं कैवल्यसाधनम् ।। ३.३.२१.२० ।।

महापातकिनः प्रोक्ता उपपातकिनश्च ये ।।

रुद्राध्यायजपात्सद्यस्तेऽपि यांति परां गतिम् ।। २१ ।।

भूयोपि ब्रह्मणा सृष्टाः सदसन्मिश्रयोनयः ।।

देवतिर्यङ्मनुष्याद्यास्ततः संपूरितं जगत् ।। २२ ।।

तेषां कर्माणि सृष्टानि स्वजन्मानुगुणानि च ।।

लोकास्तेषु प्रवर्तंते भुंजते चैव तत्फलम् ।। २३ ।।

लोकसृष्टिप्रवाहार्थं स्वयमेव प्रजापतिः।।

धर्माधर्मौ ससर्जाग्रे स्ववक्षःपृष्ठभागतः ।। २४ ।।

धर्ममेवानुतिष्ठंतः पुण्यं विंदंति तत्फलम् ।।

अधर्ममनुतिष्ठंतस्ते पापफलभोगिनः ।। २५ ।।

पुण्यकर्मफल स्वर्गो नरकस्तद्विपर्ययः ।।

तयोर्द्वावधिपौ धात्रा कृतौ शतमखांतकौ ।। २६ ।।

कामः क्रोधश्च लोभश्च मदमानादयः परे ।।

अधर्मस्य सुता आसन्सर्वे नरकनायकाः ।। २७ ।।

गुरुतल्पः सुरापानं तथान्यः पुल्कसीगमः ।।

कामस्य तनया ह्येते प्रधानाः परिकीर्तिताः ।। २८ ।।

क्रोधात्पितृवधो जातस्तथा मातृवधः परः ।।

ब्रह्महत्या च कन्यैका क्रोधस्य तनया अमी ।। २९ ।।

देवस्वहरणश्चैव ब्रह्मस्वहरणस्तथा ।।

स्वर्णस्तेय इति त्वेते लोभस्य तनयाः स्मृताः ।। ३.३.२१.३० ।।

एतानाहूय चांडालान्यमः पातकनायकान् ।।

नरकस्य विवृद्ध्यर्थमाधिपत्यं चकार ह ।। ३१ ।।

ते यमेन समादिष्टा नव पातकनायकाः ।।

ते सर्वे संगता भूयो घोराः पातकनायकाः ।। ३२ ।।

नरकान्पालयामासुः स्वभृत्यैश्चोपपातकैः ।।

रुद्राध्याये भुवि प्राप्ते साक्षात्कैवल्यसाधने ।। ३३ ।।

भीताः प्रदुद्रुवुः सर्वे तेऽमी पातकनायकाः ।।

यमं विज्ञापयामासुः सहान्यैरुपपातकैः ।। ३४ ।।

जय देव महाराज वयं हि तव किंकराः ।।

नरकस्य विवृद्ध्यर्थं साधिकाराः कृतास्त्वया ।। ३५ ।।

अधुना वर्तितुं लोके न शक्ताः स्मो वयं प्रभो ।।

रुद्राध्यायानुभावेन निर्दग्धाश्चैव विद्रुताः ।। ३६ ।।

ग्रामेग्रामे नदीकूले पुण्येष्वायतनेषु च ।।

रुद्रजाप्ये तु पर्याप्ते कथं लोके चरेमहि ।। ३७ ।।

प्रायश्चित्तसहस्रं वै गणयामो न किंचन ।।

रुद्रजाप्याक्षराण्येव सोढुं बत न शक्नुमः ।। ३८ ।।

महापातकमुख्यानामस्माकं लोकघातिनाम् ।।

रुद्रजाप्यं भयं घोरं रुद्रजाप्यं महद्विषम् ।। ३९ ।।

अतो दुर्विषहं घोरमस्माक व्यसनं महत् ।।

रुद्रजाप्येन संप्राप्तमपनेतुं त्वमर्हसि ।। ३.३.२१.४० ।।

इति विज्ञापितः साक्षाद्यमः पातकनायकैः ।।

ब्रह्मणोंऽतिकमासाद्य तस्मै सर्वं न्यवेदयत् ।। ४१ ।।

देवदेव जगन्नाथ त्वामेव शरणं गतः ।।

त्वया नियुक्तो मर्त्यानां निग्रहे पापकारिणाम् ।। ४२ ।।

अधुना पापिनो मर्त्या न संति पृथिवीतले ।।

रुद्राध्यायेन निहतं पातकानां महत्कुलम् ।। ४३ ।।

पातकानां कुले नष्टे नरकाः शून्यतां गताः ।।

नरके शून्यतां याते मम राज्यं हि निष्फलम् ।। ४४ ।।

तस्मात्त्वयैव भगवन्नुपायः परिचिन्त्यताम् ।।

यथा मे न विहन्येत स्वामित्वं मर्त्यदेहिनाम् ।। ४५ ।।

इति विज्ञापितो धाता यमेन परिखिद्यता ।।

रुद्रजाप्यविघातार्थमुपायं पर्यकल्पयत् ।।४६।।

अश्रद्धां चैव दुर्मेधामविद्यायाः सुते उभे ।।

श्रद्धामेधाविघातिन्यौ मर्त्येषु पर्यचोदयत् ।। ४७ ।।

ताभ्यां विमोहिते लोके रुद्राध्यायपराङ्मुखे ।।

यमः स्वस्थानमासाद्य कृतार्थ इव सोऽभवत् ।। ४८ ।।

पूर्वजन्मकृतैः पापैर्जायंतेऽल्पायुषो जनाः ।।

तानि पापानि नश्यंति रुद्रं जप्तवतां नृणाम् ।। ४९ ।।

क्षीणेषु सर्वपापेषु दीर्घमायुर्बलं धृतिः ।।

आरोग्यं ज्ञानमैश्वर्यं वर्धते सर्वदेहिनाम् ।। ३.३.२१.५० ।।

रुद्राध्यायेन ये देवं स्नापयंति महेश्वरम् ।।

तज्जलैः कुर्वतः स्नानं ते मृत्युं संतरंति च ।। ५१ ।।

रुद्राध्यायाभिजप्तेन स्नानं कुर्वंति येंऽभसा ।।

तेषां मृत्युभयं नास्ति शिवलो के महीयते ।। ५२ ।।

शतरुद्राभिषेकेण शतायुर्जायते नरः ।।

अशेषपापनिर्मुक्तः शिवस्य दयितो भवेत् ।। ५३ ।।

एष रुद्रायुतस्नानं करोतु तव पुत्रकः ।।

दशवर्षसहस्राणि मोदते भुवि शक्रवत् ।। ५४ ।।

अव्याहतबलैश्वर्यो हतशत्रुर्निरामयः ।।

निर्धूताखिलपापौघः शास्ता राज्यमकंटकम् ।। ५५ ।।

विप्रा वेदविदः शांताः कृतिनः शंसितव्रताः ।।

ज्ञानयज्ञतपोनिष्ठाः शिवभक्तिपरायणाः ।। ५६ ।।

रुद्राध्याय जपं सम्यक्कुर्वंतु विमलाशयाः ।।

तेषां जपानुभावेन सद्यः श्रेयो भविष्यति ।। ५७ ।।

इत्युक्तवंतं नृपतिर्महामुनिं तमेव वव्रे प्रथमं क्रियागुरुम् ।।

अथापरांस्त्यक्तधनाशयान्मुनीनावाहयामास सहस्रशः क्षणात् ।। ५८ ।।

ते विप्राः शांतमनसः सहस्रपरिसंमिताः ।।

कलशानां शतं स्थाप्य पुण्य वृक्षरसैर्युतम् ।। ५९ ।।

रुद्राध्यायेन संस्नाप्य तमुर्वीपतिपुत्रकम् ।।

विधिवत्स्नापयामासुः संप्राप्ते सप्तमे दिने ।। ३.३.२१.६० ।।

स्नाप्यमानो मुनिजनैः स राजन्यकुमारकः ।।

अकस्मादेव संत्रस्तः क्षणं मूर्च्छामवाप ह ।। ६१ ।।

सहसैव प्रबुद्धोऽसौ मुनिभिः कृतरक्षणः ।।

प्रोवाच कश्चित्पुरुषो दंडहस्तः समागतः ।। ६२ ।।

मां प्रहर्तुं कृतमतिर्भीमदण्डो भयानकः ।।

सोऽपि चान्यैर्महावीरै पुरुषैरभिताडितः ।। ६३ ।।

बद्ध्वा पाशेन महता दूरं नीत इवाभवत् ।।

एतावदहमद्राक्षं भवद्भिः कृतरक्षणः ।। ६४ ।।

इत्युक्तवंतं नृपतेस्तनूजं द्विजसत्तमाः ।।

आशीर्भिः पूजयामासुर्भयं राज्ञे न्यवेदयन् ।। ।। ६५ ।।

अथ सर्वानृषीञ्छ्रेष्ठान्दक्षिणाभिर्नृपोत्तमः ।।

पूजयित्वा वरान्नेन भोजयित्वा च भक्तितः ।। ६६ ।।

प्रतिगृह्याशिषस्तेषां मुनीनां ब्रह्मवादिनाम् ।।

भक्त्या बंधुजनैः सार्धं सभायां समुपाविशत् ।। ६७ ।।

तस्मिन्समागते वीरे मुनिभिः सह पार्थिवे ।।

आजगाम महायोगी देवर्षिर्नारदः स्वयम् ।। ६८ ।।

तमागतं प्रेक्ष्य गुरुं मुनीनां सार्धं सदस्यैरखिलैर्मुनींद्रैः ।।

प्रणम्य भक्त्या विनिवेश्य पीठे कृतोपचारं नृपतिर्बभाषे ।। ६९ ।। ।।

।। राजोवाच ।। ।।

दृष्टं किमस्ति ते ब्रह्मस्त्रिलोक्यां किंचिदद्भुतम् ।।

तन्नो ब्रूहि वयं सर्वे त्वद्वाक्यामृतलालसाः ।। ३.३.२१.७० ।।

।। नारद उवाच ।। ।।

अद्य चित्रं महद्दृष्टं व्योम्नोवतरता मया ।।

तच्छृणुष्व महाराज सहैभिर्मुनिपुंगवैः ।। ७१ ।।

अद्य मृत्युरिहायातो निहंतुं तव पुत्रकम्।।

दंडहस्तो दुराधर्षो लोकमुद्बाधयन्सदा ।। ७२ ।।

ईश्वरोपि विदित्वैनं त्वत्पुत्रं हंतुमागतम् ।।

सहैव पार्षदैः कंचिद्वीरभद्रमचोदयत् ।। ७३ ।।

स आगत्य हठान्मृत्युं त्वत्पुत्रं हंतुमागतम् ।।

गृहीत्वा सुदृढं बद्ध्वा दंडेनाभ्यहनद्रुषा ।। ७४ ।।

तं नीयमानं जगदीशसन्निधिं शीघ्रं विदित्वा भगवान्यमः स्वयम् ।।

कृतांजलिर्देव जयेत्युदीरयन्प्रणम्य मूर्ध्ना निजगाद शूलिनम् ।। ७५ ।।

।। यम उवाच ।। ।।

देवदेव महारुद्र वीरभद्र नमोऽस्तु ते ।।

निरागसि कथं मृत्यौ कोपस्तव समुत्थितः।।७६।।

निजकर्मानुबंधेन राजपुत्रं गतायुषम्।।

प्रहर्तुमुद्यते मृत्यौ कोपराधो वद प्रभो।।७७।।

।।वीरभद्र उवाच।।

दशवर्षसहस्रायुः स राजतनयः कथम्।।

विपत्तिमंतरायाति रुद्रस्नानहताशुभः।।७८।।

अस्ति चेत्तव संदेहो मद्वाक्येऽप्यनिवारिते ।।

चित्रगुप्तं समाहूय प्रष्टव्योऽद्यैव मा चिरम्।। ७९ ।।

।। नारद उवाच ।। ।।

अथाहूतश्चित्रगुप्तो यमेन सहसागतः ।।

आयुःप्रमाण त्वत्सूनोः परिपृष्टः स चाब्रवीत् ।। ३.३.२१.८० ।।

द्वादशाब्दं च तस्यायुरित्युक्त्वाथ विमृश्य च ।।

पुनर्लेख्यगतं प्राह स वर्षायुतजीवितम् ।।८१।।

अथ भीतो यमो राजा वीरभद्रं प्रणम्य च ।।

कथंचिन्मोचयामास मृत्युं दुर्वारबंधनात् ।। ८२ ।।

वीरभद्रेण मुक्तोऽथ यमोऽगान्निजमंदिरम् ।।

वीरभद्रश्च कैलासमहं प्राप्तस्तवांतिकम् ।। ८३ ।।

अतस्तव कुमारोऽयं रुद्रजाप्यानुभावतः ।।

मृत्योर्भयं समुत्तीर्य सुखी जातोऽयुतं समाः ।। ८४ ।।

इत्युक्त्वा नृपमामंत्र्य नारदे त्रिदिवं गते ।।

विप्राः सर्वे प्रमुदिताः स्वस्वजग्मुरथाश्रमम् ।। ८५ ।।

इत्थं काश्मीरनृपती रुद्राध्यायप्रभावतः ।।

निस्तीर्याशेषदुः खानि कृतार्थोभूत्सपुत्रकः।।८६।।

ये कीर्तयंति मनुजाः परमेश्वरस्य माहात्म्यमेतदथ कर्णपुटैः पिबंति ।।

ते जन्मकोटिकृतपापगणैर्विमुक्ताः शांताः प्रयांति परमं पदमिंदुमौलेः ।। ८७ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखंडे रुद्राध्यायमहिमवर्णनंनामैकविंशोऽध्यायः ।। २१ ।।

खण्डः ३ (ब्रह्मखण्डः) · ब्रह्मोत्तर खण्डः — Adhyāya 22

।। सूत उवाच ।। ।।

एवं शिवतमः पंथाः शिवेनैव प्रदर्शितः ।।

नृणां संसृतिबद्धानां सद्योमुक्तिकरः परः ।। १ ।।

अथ दुर्मेधसां पुंसां वेदेष्वनधिकारिणाम् ।।

स्त्रीणां द्विजातिबंधूनां सर्वेषां च शरीरिणाम् ।। २ ।।

एष साधारणः पंथाः साक्षात्कैवल्यसाधनः ।।

महामुनिजनैः सेव्यो देवैरपि सुपूजितः ।।३।।

यत्कथाश्रवणं शंभोः संसारभयनाशनम् ।।

सद्योमुक्तिकरं श्लाघ्यं पवित्रं सर्वदेहिनाम् ।।४।।

अज्ञानतिमिरांधानां दीपोऽयं ज्ञानसिद्धिदः ।।

भवरोगनिबद्धानां सुसेव्यं परमौषधम् ।। ५ ।।

महापातकशैलानां वज्रघातसुदारुणम् ।।

भर्जनं कर्मबीजानां साधनं सर्व संपदाम् ।। ६ ।।

ये शृण्वंति सदा शम्भोः कथां भुवनपावनीम् ।।

ते वै मनुष्या लोकेस्मिन्रुद्रा एव न संशयः ।। ७ ।।

शृण्वतां शूलिनो गाथां तथा कीर्तयतां सताम् ।।

तेषां पादरजांस्येव तीर्थानि मुनयो जगुः ।। ८ ।।

तस्मान्निश्रेयसं गन्तुं येभिवांछंति देहिनः ।।

ते शृण्वंतु सदा भक्त्या शैवीं पौराणिकीं कथाम् ।। ९ ।।

यद्यशक्तः सदा श्रोतुं कथां पौराणिकीं नरः ।।

मुहूर्तं वापि शृणुयान्नियतात्मा दिनेदिने ।। ३.३.२२.१० ।।

अथ प्रतिदिनं श्रोतुमशक्तो यदि मानवः ।।

पुण्यमासेषु वा पुण्ये दिने पुण्यतिथिष्वपि ।। ११ ।।

यः शृणोति कथां रम्यां पुराणैः समुदीरिताम् ।।

स निस्तरति संसारं दग्ध्वा कर्ममहाटवीम् ।। १२ ।।

मुहूर्त्तं वा तदर्द्धं वा क्षणं वा पावनीं कथाम् ।।

ये शृण्वंति सदा भक्त्या न तेषामस्ति दुर्गतिः ।। १३ ।।

यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम् ।।

सकृत्पुराणश्रवणात्तत्फलं विंदते नरः ।। १४ ।।

कलौ युगे विशेषेण पुराणश्रवणादृते ।।

नास्ति धर्मः परः पुंसां नास्ति मुक्तिपथः परः ।। १५ ।।

पुराणश्रवणाच्छंभोर्नास्ति संकीर्तनं परम् ।।

अत एव मनुष्याणां कल्पद्रुममहाफलम् ।। १६ ।।

कलौ हीनायुषो मर्त्या दुर्बलाः श्रमपीडिताः ।।

दुर्मेधसो दुःखभाजो धर्माचारविवर्जिताः ।। १७ ।।

इति संचिंत्य कृपया भगवान्बादरायणः ।।

हिताय तेषां विदधे पुराणाख्यं सुधारसम् ।। १८ ।।

पिबन्नेवामृतं यत्नादेतत्स्यादजरामरः ।।

शम्भोः कथामृतं कुर्यात्कुलमेवाजरामरम् ।। १९ ।।

बालो युवा दरिद्रो वा वृद्धो वा दुर्बलोऽपि वा ।।

पुराणज्ञः सदा वन्द्यः पूज्यश्च सुकृतार्थिभिः ।। ३.३.२२.२० ।।

नीचबुद्धिं न कुर्वीत पुराणज्ञे कदाचन ।।

यस्य वक्त्रांबुजाद्वाणी कामधेनुः शरीरिणाम् ।। २१ ।।

गुरवः संति लोकेषु जन्मतो गुणतस्तथा ।।

तेषामपि च सर्वेषां पुराणज्ञः परो गुरुः ।। २२ ।।

भवकोटिसहस्रेषु भूत्वाभूत्वावसीदति ।।

यो ददात्यपुनर्वृत्तिं कोऽन्यस्तस्मात्परो गुरुः ।। २३ ।।

पुराणज्ञः शुचिर्दांतः शांतो विजितमत्सरः ।।

साधुः कारुण्यवान्वाग्मी वदेत्पुण्यकथां सुधी ।। २४ ।।

व्यासासनं समारूढो यदा पौराणिको द्विजः ।।

असमाप्तप्रसंगश्च नमस्कुर्यान्न कस्य चित् ।। २५ ।।

ये धूर्ता ये च दुर्वृत्ता ये चान्ये विजिगीषवः ।।

तेषां कुटिलवृत्तीनामग्रे नैव वदेत्कथाम् ।। २६ ।।

न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते ।।

देशे न द्यूतसदने वदेत्पुण्यकथां सुधीः ।। २७ ।।

सद्ग्रामे सुजनाकीर्णे सुक्षेत्रे देवतालये ।।

पुण्ये नदनदीतीरे वदेत्पुण्यकथां सुधीः ।। २८ ।।

शिवभक्तिसमायुक्ता नान्यकार्येषु लालसा ।।

वाग्यताः सुश्रवोऽव्यग्राः श्रोतारः पुण्यभागिनः ।। २९ ।।

अभक्ता ये कथां पुण्यां शृण्वंति मनुजाधमाः ।।

तेषां पुण्यफलं नास्ति दुःखं स्याज्जन्मजन्मनि ।। ३.३.२२.३० ।।

पुराणं ये त्वसंपूज्य तांबूलाद्यैरुपायनैः ।।

शृण्वंति च कथां भक्त्या दरिद्राः स्युर्न पापिनः ।। ३१ ।।

कथायां कीर्त्यमानायां ये गच्छंत्यन्यतो नराः ।।

भोगांतरे प्रणश्यंति तेषां दाराश्च संपदः ।। ३२ ।।

सोष्णीषमस्तका ये च कथां शृण्वंति पावनीम् ।।

ते बलाकाः प्रजायन्ते पापिनो मनुजाधमाः ।। ३३ ।।

तांबूलं भक्षयन्तो ये कथां शृण्वंति पावनीम् ।।

स्वविष्ठां खादयंत्येतान्नरके यमकिंकराः ।। ३४ ।।

ये च तुंगासनारूढाः कथां शृण्वंति दांभिकाः ।।

अक्षयान्नरकान्भुक्त्वा ते भवंत्येव वायसाः ।। ३५ ।।

ये च वीरासनारूढा ये च मंचकसंस्थिताः ।।

शृण्वंति सत्कथां ते वै भवंत्यनृजुपादपाः ।। ३६ ।।

असंप्रणम्य शृण्वंतो विषवृक्षा भवंति ते ।।

कथां शयानाः शृण्वन्तो भवंत्यजगरा नराः ।।३७।।

यः शृणोति कथां वक्तुः समानासनमाश्रितः ।।

गुरुतल्पसमं पापं संप्राप्य नरकं व्रजेत् ।। ३८ ।।

ये निंदंति पुराणज्ञं कथां वा पापहारिणीम् ।।

ते वै जन्मशतं मर्त्याः शुनका संभवंति च ।। ३९ ।।

कथायां वर्तमानायां ये वदंति नराधमाः ।।

ते गर्दभाः प्रजायन्ते कृकलासास्ततः परम् ।। ३.३.२२.४० ।।

कदाचिदपि ये पुण्यां न शृण्वंति कथां नराः ।।

ते भुक्त्वा नरकान्घोरान्भ वंति वनसूकराः ।। ४१ ।।

ये कथामनुमोदन्ते कीर्त्यमानां नरोत्तमाः ।।

अशृण्वंतोऽपि ते यांति शाश्वतं परमं पदम् ।। ४२ ।।

कथायां कीर्त्यमानायां विघ्नं कुर्वंति ये शठाः ।।

कोट्यब्दान्नरकान्भुक्त्वा भवंति ग्रामसूकराः ।। ४३ ।।

ये श्रावयंति मनुजान्पुण्यां पौराणिकीं कथाम् ।।

कल्पकोटिशतं साग्रं तिष्ठंति ब्रह्मणः पदम् ।। ४४ ।।

आसनार्थं प्रयच्छंति पुराणज्ञस्य ये नराः ।।

कम्बलाजिनवासांसि मञ्चं फलकमेव च ।। ४५ ।।

स्वर्गलोकं समासाद्य भुक्त्वा भोगान्यथेप्सितान् ।।

स्थित्वा ब्रह्मादिलोकेषु पदं यांति निरामयम् ।। ४६ ।।

पुराणज्ञस्य यच्छंति ये सूत्रवसनं नवम् ।।

भोगिनो ज्ञानसंपन्नास्ते भवंति भवेभवे ।। ४७ ।।

ये महापातकैर्युक्ता उपपातकिनश्च ये ।।

पुराणश्रवणादेव ते यांति परमं पदम् ।। ४८ ।।

अत्र वक्ष्ये महापुण्यमितिहासं द्विजोत्तमाः ।।

शृण्वतां सर्वपापघ्नं विचित्रं सुमनोहरम् ।। ४९ ।।

दक्षिणापथमध्ये वै ग्रामो बाष्कलसंज्ञितः ।।

तत्र संति जनाः सर्वे मूढाः कर्मविवर्जिताः ।। ३.३.२२.५० ।।

न तत्र ब्राह्मणाचाराः श्रुतिस्मृतिपराङ्मुखाः ।।

जपस्वाध्यायरहिताः परस्त्री विषयातुराः ।। ५१ ।।

कृषीवलाः शस्त्रधरा निर्देवा जिह्मवृत्तयः ।।

न जानंति परं धर्मं ज्ञानवैराग्यलक्षणम् ।। ५२ ।।

स्त्रियश्च पापनिरताः स्वैरि ण्यः कामलालसाः।।

दुर्बुद्धयः कुटिलगाः सद्गताचारवर्जिताः ।। ५३ ।।

तत्रैको विदुरो नाम दुरात्मा ब्राह्मणाधमः ।।

आसीद्वेश्यापतिर्योऽसौ सदारोऽपि कुमार्गगः ।। ५४ ।।

स्वपत्नीं बंदुलां नाम हित्वा प्रतिनिशं तथा ।।

वेश्याभवनमासाद्य रमते स्मरपीडितः ।। ५५ ।।

सापि तस्यांगना रात्रौ वियुक्ता नवयौवना ।।

असहंती स्मरावेशं रेमे जारेण संगता ।। ५६ ।।

तां कदाचिद्दुराचारां जारेण सह संगताम् ।।

दृष्ट्वा तस्याः पतिः क्रोधादभि दुद्राव सत्वरः ।। ५७ ।।

जारे पलायिते पत्नीं गृहीत्वा स दुराशयः ।।

संताड्य मुष्टिबंधेन मुहुर्मुहुरताडयत् ।। ५८ ।।

सा नारी पीडिता भर्त्रा कुपिता प्राह निर्भया ।।

भवान्प्रतिनिशं वेश्यां रमते का गतिर्मम ।। ५९ ।।

अहं रूपवती योषा नवयौवनशालिनी ।।

कथं सहिष्ये कामार्ता तव संगतिवर्जिता ।। ३.३.२२.६० ।।

इत्युक्तः स तया तन्व्या प्रोवाच ब्राह्मणाधमः ।।

युक्तमेव त्वयोक्तं हि तस्माद्वक्ष्यामि ते हितम् ।। ६१ ।।

जारेभ्यो धनमाकृष्य तेभ्यो देहि परां रतिम् ।।

तद्धनं देहि मे सर्वं पण्यस्त्रीणां ददामि तत् ।। ६२ ।।

एवं संपूर्यते कामो ममापि च वरानने ।।

तथेति भर्तृवचनं प्रतिजग्राह सा वधूः ।। ६३ ।।

एवं तयोस्तु दंपत्योर्दुराचारप्रवृत्तयोः ।।

कालेन निधनंप्राप्तः स विप्रो वृषलीपतिः ।। ६४ ।।

मृते भर्तरि सा नारी पुत्रैः सह निजालये ।।

उवास सुचिरं कालं किंचिदुत्क्रांतयौवना ।। ६५ ।।

एकदा दैवयोगेन संप्राप्ते पुण्यपर्वणि ।।

सा नारी बंधुभिः सार्धं गोकर्णं क्षेत्र माययौ ।। ६६ ।।

तत्र तीर्थजले स्नात्वा कस्मिंश्चिद्देवतालये ।।

शुश्राव देवमुख्यानां पुण्यां पौराणिकीं कथाम् ।। ६७ ।।

योषितां जारसक्तानां नरके यमकिंकराः ।।

संतप्तलोहपरिघं क्षिपंति स्मरमंदिरे ।। ६८ ।।

इति पौराणिकेनोक्तां सा श्रुत्वा धर्मसंहिताम् ।।

तमुवाच रहस्येषा भीता ब्राह्मणपुंगवम् ।। ६९ ।।

ब्रह्मन्पापमजानंत्या मयाचरितमुल्बणम् ।।

यौवने कामचारेण कौटिल्येन प्रवर्तितम् ।। ३.३.२२.७० ।।

इदं त्वद्वचनं श्रुत्वापुराणार्थविजृंभि तम् ।।

भीतिर्मे महती जाता शरीरं वेपते मुहुः ।। ७१ ।।

धिङ्मां दुरिंद्रियासक्तां पापां स्मरविमोहिताम् ।।

अल्पस्य यत्सुखस्यार्थे घोरां यास्यामि दुर्गतिम् ।। ७२ ।।

कथं पश्यामि मरणे यमदूतान्भयंकरान् ।।

कथं पाशैर्बलात्कंठे बध्यमाना धृतिं लभे ।। ७३ ।।

कथं सहिष्ये नरके खंडशो देहकृंतनम ।।

पुनः कथं पतिष्यामि संतप्ता क्षारकर्दमे ।। ७४ ।।

कथं च योनिलक्षेषु क्रिमिकीटखगादिषु ।।

परिभ्रमामि दुःखौघात्पीड्यमाना निरंतरम् ।। ७५ ।।

कथं च रोचते मह्यमद्यप्रभृति भोजनम् ।।

रात्रौ कथं च सेविष्ये निद्रां दुःखपरिप्लुता ।। ७६ ।।

हाहा हतास्मि दग्धास्मि विदीर्णहृदयास्मि च ।।

हा विधे मां महापापे दत्त्वा बुद्धिमपातयः ।। ७७ ।।

पततस्तुंगशैलाग्राच्छूलाक्रांतस्य देहिनः ।।

यद्दुःखं जायते घोरं तस्मात्कोटिगुणं मम ।। ७८ ।।

अश्वमेधायुतं कृत्वा गंगां स्नात्वा शतं समाः ।।

न शुद्धिर्जायते प्रायो मत्पापस्य गरीयसः ।। ७९ ।।

किं करोमि क्व गच्छामि कं वा शरणमाश्रये ।।

को वा मां त्रायते लोके पतंती नरकार्णवे ।। ३.३.२२.८० ।।

त्वमेव मे गुरुर्ब्रह्मंस्त्वं माता त्वं पितासि च ।।

उद्धरोद्धर मां दीनां त्वामेव शरणं गताम् ।।८१।।

इति तां जातनिर्वेदां पतितां चरणद्वये ।।

उत्थाप्य कृपया धीमान्बभाषे द्विजपुंगवः ।। ८२ ।।

।। ब्राह्मण उवाच ।। ।।

दिष्ट्या काले प्रबुद्धासि श्रुत्वेमां महतीं कथाम् ।।

मा भैषीस्तव वक्ष्यामि गतिं चैव सुखावहाम् ।।८३।।

सत्कथाश्रवणादेव जाता ते मतिरीदृशी ।।

इंद्रियार्थेषु वैराग्यं पश्चात्तापो महानभूत् ।। ८४ ।।

पश्चात्तापो हि सर्वेषामघानां निष्कृतिः परा ।।

तेनैव कुरुते सद्यः प्रायश्चित्तं सुधीर्नरः ।। ८५ ।।

प्रायश्चित्तानि सर्वाणि कृत्वा च विधिवत्पुनः ।।

अपश्चात्तापिनो नार्या न यांति गतिमुत्तमाम् ।। ८६ ।।

सत्कथाश्रवणान्नित्यं संयाति परमां गतिम् ।।

पुण्यक्षेत्रनिवासाच्च चित्तशुद्धिः प्रजायते ।।८७।।

यथा सत्कथया नित्यं संयाति परमां गतिम् ।।

तथान्यैः सद्व्रतैर्जंतोर्नभवेन्मतिरुत्तमा ।। ८८।।

यथा मुहुः शोध्यमानो दर्पणो निर्मलो भवेत् ।।

तथा सत्कथया चेतो विशुद्धिं परमां व्रजेत् ।। ८९ ।।

विशुद्धे चेतसि नृणां ध्यानं सिध्यत्युमापतेः ।।

ध्यानेन सर्वं मलिनं मनोवाक्कायसंभृतम् ।। ३.३.२२.९० ।।

सद्यो विधूय कृतिनो यांति शम्भोः परं पदम् ।।

अतः संन्यस्तपुण्यानां सत्कथा साधनं परम् ।। ९१ ।।

कथया सिध्यति ध्यानं ध्यानात्कैवल्यमुत्तमम् ।।

असिद्धपरमध्यानः कथामेतां शृणोति यः ।।

सोऽन्यजन्मनि संप्राप्य ध्यानं याति परां गतिम् ।। ९२ ।।

नामोच्चारणमात्रेण जप्त्वा मंत्रमजामिलः ।।

पश्चात्तापसमायुक्तस्त्ववाप परमां गतिम् ।। ९३ ।।

सर्वेषां श्रेयसां बीजं सत्कथाश्रवणं नृणाम् ।।

यस्तद्विहीनः स पशुः कथं मुच्येत बन्धनात् ।। ९४ ।।

अतस्त्वमपि सर्वेभ्यो विषयेभ्यो निवृत्तधीः ।।

भक्तिं परां समाधाय सत्कथां शृणु सर्वदा ।।

शृण्वंत्याः सत्कथां नित्यं चेतस्ते शुद्धिमेष्यति ।। ९५ ।।

तेन ध्यायसि विश्वेशं ततो मुक्तिमवाप्स्यसि ।।

ध्यायतः शिवपादाब्जं मुक्तिरेकेन जन्मना ।। ९६ ।।

भविष्यति न सन्देहः सत्यं सत्यं वदाम्यहम् ।।

इत्युक्ता तेन विप्रेण सा नारी बाष्पसंकुला ।। ९७ ।।

पतित्वा पादयोस्तस्य कृतार्थास्मीत्यभाषत ।।

तस्मिन्नेव महाक्षेत्रे तस्मादेव द्विजोत्तमात् ।। ९८ ।।

शुश्राव सत्कथां साध्वीं कैवल्यफल दायिनी।।

स उवाच द्विजस्तस्यै कथां वैराग्यबृंहिताम् ।। ९९ ।।

यां श्रुत्वा मनुजः सद्यस्त्यजेद्विषयवासनाम् ।।

तस्याश्चित्तं यथा शुद्धं वैराग्यरसगं यथा ।। ३.३.२२.१०० ।।

तथोवाच द्विजः शैवीं कथां भक्तिसमन्विताम् ।।

यथायथा मनस्तस्याः प्रसादमभिगच्छति ।।

तथातथा शनैः शंभोर्ध्यानयोगमुपादिशत् ।। १ ।।

शनैः शनैर्ध्वस्तरजस्तमोमलं विमुक्तसर्वेन्द्रियभोगविग्रहम् ।।

विशुद्धतत्त्वं हृदयं द्विजस्त्रिया विवेश विश्वेश्वर रूपचिंतनम्।। २ ।।

इत्थं सद्गुरुमाश्रित्य सा नारी प्राप्तसन्मतिः ।।

दध्यौ मुहुर्मुहुः शंभोश्चिदानंदमयं वपुः ।। ३ ।।

नित्यं तीर्थजले स्नात्वा जटावल्कलधारिणी ।।

भस्मोद्धूलितसर्वांगी रुद्राक्षकृतभूषणा ।। ४ ।।

शिवनामजपासक्ता वाग्यता मितभोजना ।।

बद्धपद्मासनाऽव्यग्रा सत्कथा श्रवणोत्सुका ।। ५ ।।

गुरुशुश्रूषणरता त्यक्तापत्यसुहृजना ।।

गुरूपदिष्टयोगेन शिवमेवमतोषयत् ।। ६ ।।

विश्वेश विश्वविलयस्थितिजन्महेतो विश्वैकवंद्य शिव शाश्वत विश्वरूप ।।

विध्वस्तकालविपरीतगुणावभास श्रीमन्महेश मयि धेहि कृपाकटाक्षम् ।। ७ ।।

शंभो शशांककृतशेखर शांतमूर्ते गंगाधरामरवरार्चितपादपद्म ।।

नागेंद्रभूषण नगेंद्रनिकेतनेश भक्तार्तिहन्मयि निधेहि कृपाकटाक्षम् ।।।८।।।

श्रीविश्वनाथ करुणाकर शूलपाणे भूतेश भर्ग भुवनत्रयगीतकीर्ते ।।

श्रीनीलकण्ठ मदनान्तक विश्वमूर्ते गौरीपते मयि निधेहि कृपाकटाक्षम् ।। ९ ।।

इत्थं प्रतिदिनं भक्त्या प्रार्थयंती महेश्वरम्।।

शृण्वंती सत्कथां सम्यक्कर्मबंधं समाच्छिनत् ।। ३.३.२२.११० ।।

अथ कालेन सा नारी समुत्सृज्य कलेवरम् ।।

महेशानुचरैर्नीता संप्राप्ता शिव मंदिरम् ।। ११ ।।

तत्र देवैर्महादेवं सेव्यमानं सहोमया ।।

गणेशनंदिभृंग्याद्यैर्वीरभद्रेश्वरादिभिः ।। १२ ।।

उपास्यमानं गौरीशं कोटिसूर्यसमप्रभम् ।।

त्रिलोचनं पंचमुखं नीलग्रीवं सदाशिवम् ।। १३ ।।

वामांके बिभ्रतं गौरीं विद्युच्चंद्रसमप्रभाम् ।।

दृष्ट्वा ससंभ्रमं नारी सा प्रणम्य पुनःपुनः ।। १४ ।।

आनन्दाश्रुजलोत्सिक्ता रोमहर्षसमाकुला ।।

संमानिता करुणया पार्वत्या शंकरेण च ।।१५।।

तस्मिँल्लोके परानन्दघनज्योतिषि शाश्वते ।।

लब्ध्वा निवासमचलं लेभे सुखमनाहतम् ।। १६ ।।

सा कदाचिदुमां देवीमुपसृत्य प्रणम्य च ।।

पर्यपृच्छत मे भर्त्ता कां गतिं गतवानिति ।।१७।।

तामुवाच महादेवी स ते भर्त्ता दुराशयः ।।

भुक्त्वा नरकदुःखानि विंध्ये जातः पिशाचकः ।। १८ ।।

पुनः प्रपच्छ सा नारी देवीं त्रिभुवनेश्वरीम् ।।

केनोपायेन मे भर्त्ता सद्गतिं प्राप्नुयादिति ।। १९ ।।

।। देव्युवाच ।। ।।

सोऽस्मत्कथां महापुण्यां कदाचिच्छृणुयाद्यदि ।।

निस्तीर्य दुर्गतिं सर्वामिमं लोकं प्रयास्यति ।। ३.३.२२.१२० ।।

इति गौर्या वचः श्रुत्वा सा नारी विहितांजलिः ।।

प्रार्थयामास तां देवीं भर्तुः पापविशोधने ।।२१।।

तया मुहुः प्रार्थ्यमाना पार्वतीकरुणायुता ।।

तुंबुरुं नाम गंधर्वमाहूयेदमथाब्रवीत् ।। २२ ।।

तुंबुरो गच्छ भद्रं ते विंध्यशैलं सहानया ।।

आस्ते पिशाचकस्तत्र योऽस्याः पतिरसन्मतिः ।। २३ ।।

तस्याग्रे परमां पुण्यां कथामस्मद्गुणैर्युताम् ।।

आख्याय दुर्गतेर्मुक्तं तमानय शिवांतिकम् ।। २४ ।।

इति देव्या समादिष्टस्तुंबुरुस्तां प्रणम्य च ।।

तया सह विमानेन विंध्याद्रिं सहसा ययौ ।। २५ ।।

तत्रापश्यन्महाकायं रक्तनेत्रं महाहनुम् ।।

प्रहसंतं रुदंतं च वल्गंतं च पिशाचकम्।। २६ ।।

बलाद्गृहीत्वा तं पाशैर्बद्ध्वा वै संनिवेश्य च ।।

तुंबुरुर्वल्लकीहस्तो जगौ गौरीपतेः कथाम् ।। २७ ।।

स पिशाचो महापुण्यां कथां श्रुत्वा पुरद्विषः ।।

विधूय कलुषं सर्वं सप्ताहात्प्राप संस्मृतिम् ।। २८ ।।

स पैशाचं वपुस्त्यक्त्वा स्वरूपं दिव्यमाप्य च ।।

जगौ स्वयमपि श्रीमच्चरितं पार्वतीपतेः ।। २९ ।।

विमानमारुह्य स दिव्यरूपधृक्स तुंबुरुः पार्श्वगतः स्वकांतया ।।

गायन्महेशस्य गुणान्मनोरमाञ्जगाम कैवल्यपदं सनातनम् ।। ३.३.२२.१३० ।। ।।

सूत उवाच ।। ।।

इत्येतत्कथितं पुण्यमाख्यानं दुरितापहम् ।।

महेश्वरप्रीतिकरं निर्मलज्ञानसाधनम् ।। ।। ३१ ।।

य इदं शृणुयान्मर्त्यः कीर्तयेद्वा समाहितः ।।

शंभोर्गुणानुकथनं विचित्रं पापनाशनम् ।। ३२ ।।

परमानन्दजनकं भवरोगमहौषधम् ।। ।

भुक्त्वेह विविधान्भोगान्मुक्तो याति परां गतिम् ।। ३३ ।।

।। सूत उवाच ।। ।।

यूयं खलु महाभागाः कृतार्था मुनिसत्तमाः ।।

ये सेवंते सदा शंभोः कथामृतरसं नवम् ।। ३४ ।।

ते जन्मभाजः खलु जीवलोके येषां मनो ध्यायति विश्वनाथम् ।।

वाणी गुणान्स्तौति कथां शृणोति श्रोत्रद्वयं ते भवमुत्तरंति ।। ३५ ।।

विविधगुणविभेदैर्नित्यमस्पृष्टरूपं जगति च बहिरंतर्वा समानं महिम्ना ।।

स्वमहसि विहरंतं वाङ्मनोवृत्तिदूरं परमशिवमनंतानंदसांद्रं प्रपद्ये ।। १३६ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोतरखण्डे पुराणश्रवणमहिमवर्णनंनाम द्वाविंशो ऽध्यायः।। २२।।

इति स्कान्दे तृतीयं ब्राह्मखण्डं संपूर्णम्।।३।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 1

अथ ब्राह्मखण्डे प्रथमं सेतुमाहात्म्यम् ।। ( ३-१) ।।

।।श्रीगणेशाय नमः ।।

श्रीवेदव्यासायनमः ।।

शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।।

प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये।।१ ।।

नैमिषारण्यनिलया ऋषयः शौनकादयः ।।

अष्टांगयोगनिरता ब्रह्मज्ञानैकतत्पराः ।। १ ।।

मुमुक्षवो महात्मानो निर्ममा ब्रह्मवादिनः ।।

धर्मज्ञा अनसूयाश्च सत्यवतपरायणाः ।। २ ।।

जितेंद्रिया जितक्रोधाः सर्वभूतदयालवः ।।

भक्त्या परमया विष्णुमर्चयंतः सनातनम् ।।३ ।।

तपस्तेपुर्महापुण्ये नैमिषे मुक्तिदायिनि ।।

एकदा ते महात्मानः समाजं चक्रुरुत्तमम्।। ४ ।।

कथयंतो महापुण्याः कथाः पापप्रणाशिनी ।।

भुक्तिमुक्त्योरुपायं च जिज्ञासंतः परस्परम् ।। ५ ।।

षड्विंशतिसहस्राणामृषीणां भावितात्मनाम् ।।

तेषां शिष्यप्रशिष्याणां संख्या कर्तुं न शक्यते।। ६ ।।

अत्रांतरे महाविद्वान्व्यासशिष्यो महामुनिः ।।

आगमन्नैमिषारण्यं सूतः पौराणिकोत्तमः ।। ७ ।।

तमागतं मुनिं दृष्ट्वा ज्वलंतमिव पावकम् ।।

अर्घ्याद्यैः पूजयामासुर्मुनयः। शौनकादयः ।। ८ ।।

सुखोपविष्टं तं सूतमासने परमे शुभे ।।

पप्रच्छुः परमं गुह्यं लोकानुग्रहकांक्षया ।। ९ ।।

सूत धर्मार्थतत्त्वज्ञ स्वागतं मुनिपुंगव ।।

श्रुतवांस्त्वं पुराणानि व्यासात्सत्यवतीसुतात् ।। 3.1.1.१० ।।

अतः सर्वपुराणानामर्थज्ञोऽसि महामुने ।।

कानि क्षेत्राणि पुण्यानि कानि तीर्थानि भूतले ।। ११ ।।

कथं वा लप्स्यते मुक्तिर्जीवानां भवसागरात् ।।

कथं हरे हरौ वापि नृणां भक्तिः प्रजायते ।। १२ ।।

केन सिध्येत च फलं कर्मणास्त्रिविधा त्मनः ।।

एतच्चान्यच्च तत्सर्वं कृपया वद सूतज ।। १३ ।।

ब्रूयुः स्निग्धाय शिष्याय गुरवो गुह्यमप्युत ।।

इति पृष्टस्तदा सूतो नैमिषारण्यवासिभिः ।। ।। १४ ।।

वक्तुं प्रचक्रमे नत्वा व्यासं स्वगुरुमादितः ।।

श्रीसूत उवाच ।। ।।

सम्यक्पृष्टमिदं विप्रा युष्माभिर्जगतो हितम् ।। १५ ।।

रहस्यमे तद्युष्माकं वक्ष्यामि शृणुतादरात् ।।

मया नोक्तमिदं पूर्वं कस्यापि मुनिपुंगवाः ।। १६ ।।

मनो नियम्य विप्रेंद्राः शृणुध्वं भक्तिपूर्वकम् ।।

अस्ति रामेश्वरं नाम रामसेतौ पवित्रितम् ।। १७ ।।

क्षेत्राणामपि सर्वेषां तीर्थानामपि चोत्तमम् ।।

दृष्टमात्रे रामसेतौ मुक्तिः संसारसागरात् ।। १८ ।।

हरे हरौ च भक्तिः स्यात्तथा पुण्यसमृद्धिता ।।

कर्मणस्त्रिविधस्यापि सिद्धिः स्यान्नात्र संशयः ।। १९ ।।

यो नरो जन्ममध्ये तु सेतुं भक्त्यावलोकयेत् ।।

तस्य पुण्यफलं वक्ष्ये शृणुध्वं मुनिपुंगवाः ।।3.1.1.२० ।।

मातृतः पितृतश्चैव द्विकोटिकुलसंयुतः ।।

निर्विश्य शंभुना कल्पं ततो मोक्षं समश्नुते।। २१ ।।

गण्यंते पांसवो भूमेर्गण्यंते दिवि तारकाः ।।

सेतुदर्शनजं पुण्यं शेषेणापि न गण्यते ।। २२ ।।

समस्तदेवतारूपः सेतुवंधः प्रकीर्तितः ।।

तद्दर्शनवतः पुंसः कः पुण्यं गणितुं क्षमः ।। २३ ।।

सेतुं दृष्ट्वा नरो विप्राः सर्वयागकरः स्मृतः ।।

स्नातश्च सर्वतीर्थेषु तपोऽतप्यत चाखिलम् ।।२४।। Esoteric aspect of setu

सेतुं गच्छेति यो ब्रूयाद्यं कं वापि नरं द्विजाः ।।

सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषणः ।। २५ ।।

सेतुस्नानकरो मर्त्यः सप्तकोटिकुलान्वितः ।।

संप्राप्य विष्णुभवनं तत्रैव परिमुच्यते ।। २६ ।।

सेतुं रामेश्वरं लिंगं गंधमादनपर्वतम् ।।

चिंतयन्मनुजः सत्यं सर्वपापैः प्रमुच्यते ।। २७ ।।

मातृतः पितृतश्चैव लक्षकोटिकुलान्वितः ।।

संप्राप्य विष्णुभवनं तत्रैव परिमुच्यते ।।

कल्पत्रयं शंभुपदे स्थित्वा तत्रैव मुच्यते ।। २८ ।।

मूषावस्थां वसाकूपं तथा वैतरणी नदीम् ।।

श्वभक्षं मूत्रपानं च सेतुस्नायी न पश्यति ।। २९ ।।

तप्तशूलं तप्तशिलां पुरी षह्रदमेव च ।।

तथा शोणितकूपं च सेतुस्नायी न पश्यति ।। 3.1.1.३० ।।

शाल्मल्यारोहणं रक्तभोजनं कृमिभोजनम् ।।

स्वमांसभोजनं चैव वह्निज्वालाप्रवेशनम् ।। ३१ ।।

शिलावृष्टिं वह्निवृष्टिं नरकं कालसूत्रकम् ।।

क्षारोदकं चोष्णतोयं नेयात्सेत्ववलोककः ।। ३२ ।।

सेतुस्नायी नरो विप्राः पंचपातकवानपि ।।

मातृतः पितृतश्चैव शतकोटिकुलान्वितः ।। ३३ ।।

कल्पत्रयं विष्णुपदे स्थित्वा तत्रैव मुच्यते ।।

अधःशिरःशोषणं च नरकं क्षारसेवनम् ।। ३४ ।।

पाषाणयन्त्रपीडां च मरुत्प्रपतनं तथा ।।

पुरीषलेपनं चैव तथा क्रकचदारणम् ।। ३५ ।।

पुरीषभोजनं रेतःपानं संधिषु दाहनम् ।।

अंगारशय्याभ्रमणं तथा मुसलमर्द्दनम् ।। ३६ ।।

एतानि नरकाण्यद्धा सेतुस्नायी न पश्यति ।।

सेतु स्नानं करिष्येऽहमिति बुद्ध्या विचिंतयन् ।। ३७ ।।

गच्छेच्छतपदं यस्तु स महापातकोऽपि सन् ।।

बहूनां काष्ठयंत्राणां कर्षणं शस्त्रभेदनम्।। ३८ ।।

पतनोत्पतनं चैव गदादण्डनिपीडनम् ।।

गजदन्तैश्च हननं नानाभुजगदंशनम् ।। ३९ ।।

धूमपानं पाशबन्धं नानाशूलनिपीडनम् ।।

मुखे च नासिकायां च क्षारोदकनिषेचनम् ।। 3.1.1.४० ।।

क्षारांबुपानं नरकं तप्तायः सूचिभक्षणम् ।।

एतानि नरकान्यद्धा न याति गतपातकः ।। ४१ ।।

क्षारांबुपूर्णरंध्राणां प्रवेशं मलभोजनम् ।।

स्नायुच्छेदं स्नायुदाहमस्थिभेदनमेव च ।। ४२ ।।

श्लेष्मादनं पित्तपानं महातिक्तनिषेवणम् ।।

अत्युष्ण तैलपानं च पानं क्षारोदकस्य च ।। ४३ ।।

कषायोदकपानं च तप्तपाषाणभोजनम् ।।

अत्युष्णसिकतास्नानं तथा दशनमर्दनम् ।। ४४ ।।

तप्तायःशयनं चैव संतप्तांबुनिषेचनम् ।।

सूचिप्रक्षेपणं चैव नेत्रयोर्मुखसंधिषु ।। ४५ ।।

शिश्ने सवृषणे चैव ह्ययोभारस्य बन्धनम् ।।

वृक्षाग्रात्पतनं चैव दुर्गंधपरिपूरिते ।। ४६ ।।

तीक्ष्णधारास्त्रशय्यां च रेतःपानादिकं तथा ।।

इत्यादि नरकान्घोरासेतुस्नायी न पश्यति ।। ४७ ।।

सेतुसैकतमध्ये यः शेते तत्पांसुकुंठितः ।।

यावन्तः पांसवो लग्नास्तस्यांगे विप्रसत्तमाः ।। ४८ ।।

तावतां ब्रह्महत्यानां नाशः स्यान्नात्र संशयः ।।

सेतुमध्यस्थ वातेन यस्यांगं स्पृश्यतेऽखिलम् ।। ४९ ।।

सुरापानायुतं तस्य तत्क्षणादेव नश्यति ।।

वर्तंते यस्य केशास्तु वपनात्सेतुमध्यतः ।। 3.1.1.५० ।।

गुरुतल्पा युतं तस्य तत्क्षणादेव नश्यति ।।

यस्यास्थि सेतुमध्ये तु स्थापितं पुत्रपौत्रकैः ।।

स्वर्णस्तेयायुतं तस्य तत्क्षणादेव नश्यति ।। ५१ ।।

स्मृत्वा यं सेतुमध्ये तु स्नानं कुर्याद्द्विजोत्तमाः ।।

महापातकिसंसर्गदोषस्तस्य लयं व्रजेत् ।। ५२ ।।

मार्गभेदी स्वार्थपाकी यतिब्राह्मणदूषकः ।।

अत्याशी वेदविक्रेता पंचैते ब्रह्मघातकाः ।। ५३ ।।

ब्राह्मणान्यः समाहूय दास्यामीति धनादिकम् ।।

पश्चान्नास्तीति यो ब्रूते ब्रह्महा सोपि कीर्तितः ।। ५४ ।।

परिज्ञाय यतो धर्मांस्तस्मै यो द्वेषमाचरेत् ।।

अवजानाति वा विप्रान्ब्रह्महा सोपि कीर्तितः ।। ५५ ।।

जलपानार्थमायातं गोवृन्दं तु जलाशये ।।

निवारयति यो विप्रा ब्रह्महा सोपि कीर्तितः ।। ५६ ।।

सेतुमेत्य तु ते सर्वे मुच्यंते दोषसंचयैः ।।

ब्रह्मघातकतुल्या ये संति चान्ये द्विजोत्तमाः ।। ।। ५७ ।।

ते सर्वे सेतुमागत्य मुच्यंते नात्र संशयः ।।

औपासनपरित्यागी देवतान्नस्य भोजकः ।।५८।।

सुरापयोषित्संसर्गी गणिकान्नाशनस्तथा ।।

गणान्नभोजकश्चैव पतितान्नरतश्च यः ।। ५९ ।।

एते सुरापिनः प्रोक्ताः सर्वकर्मबहिष्कृताः ।।

सेतुस्नानेन मुच्यंते ते सर्वे हतकिल्बिषाः ।। 3.1.1.६० ।।

सुरापतुल्या ये चान्ये मुच्यंते सेतुमज्जनात् ।।

कन्दमूलफलानां च कस्तूरीपट्टवाससाम् ।। ६१ ।।

पयश्चंदनकर्पूरक्रमुकाणां तथैव च ।।

मध्वाज्यता म्रकांस्यानां रुद्राक्षाणां तथैव च ।। ६२ ।।

चोरकास्तु परिज्ञेया सुवर्णस्तेयिनः समाः ।।

ते सेतुक्षेत्रमागत्य मुच्यन्ते नात्र संशयः ।। ६९ ।।

अन्ये च स्तेयिनः सर्वे सेतुस्नानेन वै द्विजाः ।।

मुच्यंते सर्वपापेभ्यो नात्र कार्या विचारणा ।। ६४ ।।

भगिनीं पुत्रभार्यां च तथैव च रजस्वलाम् ।।

भ्रातृभार्यां मित्रभार्यां मद्यपां च परस्त्रियम् ।।६५।।

हीनस्त्रियं च विश्वस्तां योऽभिगच्छति रागतः ।।

गुरुतल्पी स विज्ञेयः सर्वकर्मबहिष्कृतः ।।६६।।

एते चान्ये च ये संति गुरुतल्पगतुल्यकाः ।।

ते सर्वे प्रविमुच्यंते सेतुस्नानेन वै द्विजाः ।। ६७ ।।

एतैः संसर्गिणो विप्रा ये चान्ये संति पापिनः ।।

सेतुस्नानेन महता तेऽपि मोक्षमवाप्नुयुः।।६९।।

यागं विना देवलोके घृताचीमेनकादिभिः।।

संभोगकामिनो विप्राः स्नातुं संतावघापहे ।। ६९ ।।

अनिषेव्य रविं वह्निमनुपास्य परान्सुरान् ।।

शुभकामी जनः सेतौकुर्यात्स्नानं सभक्तिकम् ।।3.1.1.७।।।

तिलान्भूमिं सुवर्णं च धान्यं तंदुलमेव च ।।

अदत्त्वेच्छंति ते स्वर्गं स्नातुं सेतौ तु ते द्विजाः ।।७१।।

उपवासैर्व्रतैः कृत्स्नैरसंताप्य निजां तनुम् ।।

स्वर्गाभिलाषिणः पुंसः स्नांतु सेतौ विमुक्तिदे।।७२।।

सेतुस्नानं मोक्षदं हि मनःशुद्धिप्रदं तथा ।।

जपाद्धोमात्तथा दानाद्यागाच्च तपसोऽपि च ।। ७३ ।।

सेतुस्नानं विशिष्टं हि पुराणे परिपठ्यते ।।

अकामनाकृतं स्नानं सेतौ पापविनाशने ।। ७४ ।।

अपुनर्भवदं प्रोक्तं सत्यमुक्तं द्विजोत्तमाः ।।

यः संपदं समुद्दिश्य स्नाति सेतौ नरो मुदा ।। ७५ ।।

स संपदमवाप्नोति विपुलां द्विजपुंगवाः ।।

शुद्ध्यर्थं स्नाति चेत्सेतौ तदा शुद्धिमवाप्नुयात् ।। ७६ ।।

रत्यर्थं यदि च स्नायादप्सरोभिर्नरो दिवि ।।

तदा रतिमवाप्नोति स्वर्गलोकेऽमरीजनैः ।। ७७ ।।

मुक्त्यर्थं यदि च स्नायात्सेतौ मुक्तिप्रदायिनि ।।

तदा मुक्तिमवाप्नोति पुनरावृत्तिवर्जिताम् ।।७८।।

सेतुस्नानेन धर्मः स्यात्सेतुस्नानादघक्षयः ।।

सेतुस्नानं द्विजश्रेष्ठाः सर्वकामफलप्रदम् ।। ७९ ।।

सर्वव्रताधिकं पुण्यं सर्वयज्ञोत्तरं स्मृतम् ।।

सर्वयोगाधिकं प्रोक्तं सर्व तीर्थाधिकं स्मृतम् ।। 3.1.1.८० ।।

इंद्रादिलोकभोगेषु रागो येषां प्रवर्तते ।।

स्नातव्यं तैर्द्विजश्रेष्ठाः सेतौ रामकृते सकृत् ।। ८१ ।।

ब्रह्मलोके च वैकुण्ठे कैलासेऽपि शिवालये ।।

रंतुमिच्छा भवेद्येषां ते सेतौ स्नांतु सादरम् ।। ८२ ।।

आयुरारोग्यसंपत्तिमतिरूपगुणाढ्यताम् ।।

चतुर्णामपि वेदानां सांगानां पारगामिनाम् ।। ८३ ।।

सर्वशास्त्राधिगंतृत्वं सर्वमंत्रेष्वभिज्ञताम् ।।

समुद्दिश्य तु यः स्नायात्सेतौ सर्वार्थसिद्धिदे ।। ८४ ।।

तत्तत्सिद्धिम वाप्नोति सत्यं स्यान्नात्र संशयः ।।

दारिद्र्यान्नरकाद्ये च मनुजा भुवि बिभ्यति ।। ८५ ।।

स्नानं कुर्वंतु ते सर्वे रामसेतौ विमुक्तिदे ।।

श्रद्धया सहितो मर्त्यः श्रद्धया रहितोऽपि वा ।। ८६ ।।

इहलोके परत्रापि सेतुस्नायी न दुःखभाक् ।।

सेतुस्नानेन सर्वेषां नश्यते पापसंचयः ।। ८७ ।।

वर्द्धते धर्मराशिश्च शुक्लपक्षे यथा शशी ।।

यथा रत्नानि वर्द्धंते समुद्रे विविधान्यपि ।। ८८ ।।

तथा पुण्यानि वर्द्धंते सेतुस्नानेन वै द्विजाः ।।

काम धेनुर्यथा लोके सर्वाकामान्प्रयच्छति ।। ८९ ।।

चिंतामणिर्यथा दद्यात्पुरुषाणां मनोरथान् ।।

यथाऽमरतरुर्दद्यात्पुरुषाणामभीप्सितम् ।। 3.1.1.९० ।।

सेतुस्नानं तथा नृणां सर्वाभीष्टान्प्रदास्यति ।।

अशक्तः सेतुयात्रायां दारिद्र्येण च मानवः ।। ९१ ।।

याचित्वा स धनं शिष्टात्सेतौ स्नानं समाच रेत् ।।

सेतुस्नानसमं पुण्यं तत्र दाता समश्नुते ।। ९२ ।।

तथा प्रतिगृहीतापि प्राप्नोत्यविकलं फलम् ।।

सेतुयात्रां समुद्दिश्य गृह्णीयाद्ब्राह्मणाद्ध नम् ।। ९३ ।।

क्षत्रियादपि गृह्णीयान्न दद्युर्ब्राह्मणा यदि ।।

वैश्याद्वा प्रतिगृह्णीयान्न प्रयच्छंति चेन्नृपाः ।। ९४ ।।

शूद्रान्न प्रतिगृह्णीयात्कथंचिदपि मानवः ।।

यः सेतुं गच्छतः पुंसो धनं वा धान्यमेव वा ।। ९५ ।।

दत्त्वा वस्त्रादिकं वापि प्रवर्तयति मानवः ।।

सोऽश्वमेधादियज्ञानां फलमाप्तो त्यनुत्तमम् ।। ९६ ।।

चतुर्णामपि वेदानां पारायणफलं लभेत् ।।

तुलापुरुषमुख्यानां दानानां फलमश्नुते ।। ९७ ।।

ब्रह्महत्यादिपापानां नाशः स्या न्नात्र संशयः ।।

बहुना किं प्रलापेन सर्वान्कामान्समश्नुते ।। ९८ ।।

एवं प्रतिगृहीतापि तत्तुल्यफलमश्नुते ।।

याचतः सेतुयात्रार्थं न प्रतिग्रहकल्मषम् ।। ९९ ।।

सेतुं गच्छ धनं तेऽहं दास्यामीति प्रलोभ्य यः ।।

पश्चान्नास्तीति च ब्रूयात्तमाहुर्ब्रह्मघातकम् ।। 3.1.1.१०० ।।

लोभेन सेतुयात्रार्थं संपन्नोऽपि दरिद्रवत् ।।

मानवो यदि याचेत तमाहुस्तेयिनं बुधाः ।। १०१ ।।

गमिष्ये सेतुमिति वै यो गृहीत्वा धनं नरः ।।

न याति सेतुं लोभेन तमाहुर्ब्रह्मघा तकम् ।। १०२ ।।

येन केनाप्युपायेन सेतुं गच्छेन्नरो मुदा ।।

अशक्तो दक्षिणां दत्त्वा गमयेद्वा द्विजोत्तमम् ।।१०३।।

याचित्वा यज्ञकरणे यथा दोषो न विद्यते ।।

याचित्वा सेतुयात्रायां तथा दोषो न विद्यते ।। १०४ ।।

याचित्वाप्यन्यतो द्रव्यं सेतुस्नाने प्रवर्तयेत् ।।

सोऽपि तत्फलमाप्नोति सेतु स्नायी नरो यथा ।। १०५ ।।

ज्ञानेन मोक्षमभियांति कृते युगे तु त्रेतायुगे यजनमेव विमुक्तिदायि ।।

श्रेष्ठं तथान्ययुगयोरपि दानमाहुः सर्वत्र सेत्व भिषवो हि वरो नराणाम् ।।१०६।।

इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सेतुगमनफलादिवर्णनं नाम प्रथमोऽध्यायः।।१।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 2

।। ऋषय ऊचुः ।। ।।

कथं सूत महाभाग रामेणाक्लिष्टकर्मणा ।।

सेतुर्बद्धो नदीनाथे ह्यगाधे वरुणालये ।।१।।

सेतौ च कति तीर्थानि गंधमादनपर्वते ।।

एतन्नः श्रद्दधानानां ब्रूहि पौराणिकोत्तम ।। २ ।।

।। श्रीसूत उवाच ।। ।।

रामेण हि यथासेतुर्निबद्धो वरुणालये ।।

तदहं संप्रवक्ष्यामि युष्माकं मुनिपुंगवाः ।। ३ ।।

आज्ञया हि पितू रामो न्यवसद्दंडकानने।।

सीतालक्ष्मणसंयुक्तः पंचवट्यां समाहितः।। ४ ।।

तस्मिन्निव सतस्तस्य राघवस्य महात्मनः ।।

रावणेन हृता भार्या मारीचच्छद्मना द्विजाः ।।५ ।।

मार्गमाणो वने भार्यां रामो दशरथात्मजः।।

पंपातीरे जगा मासौ शोकमोहसमन्वितः ।।६।।

दृष्टवान्वानरं तत्र कंचिद्दशरथात्मजः ।।

वानरेणाथ पृष्टोऽयं को भवानिति राघवः ।। ७ ।।

आदितः स्वस्य वृत्तांत्तं तस्मै प्रोवाच तत्त्वतः ।।

अथ राघवसंपृष्टो वानरः को भवानिति ।। ८ ।।

सोपि विज्ञापयामास राघवाय महात्मने ।।

अहं सुग्रीवसचिवो हनूमा न्नाम वानरः ।। ९ ।।

तेन च प्रेरितोऽभ्यागां युवाभ्यां सख्यमिच्छता ।।

आगच्छतं तद्भद्रं वां सुग्रीवांतिकमाशु वै ।। 3.1.2.१० ।।

तथास्त्विति स रामो पि तेन साकं मुनीश्वराः ।।

सुग्रीवांतिकमागप्य सख्यं चक्रेऽग्निसाक्षिकम् ।। ११ ।।

प्रतिजज्ञेऽथ रामोऽपि तस्मै वालिवधं प्रति ।।

सुग्रीवश्चापि वै देह्याः पुनरानयनं द्विजाः ।। १२ ।।

इत्येवं समयं कृत्वा विश्वास्य च परस्परम् ।।

मुदा परमया युक्तौ नरेश्वरकपीश्वरौ ।।१३।।

आसाते ब्राह्मणश्रेष्ठा ऋष्यमूकगिरौ तथा ।।

सुग्रीवप्रत्ययार्थं च दुंदुभेः कायमाशु वै।। १४ ।।

पादांगुष्ठेन चिक्षेप राघवो बहुयोजनम् ।।

सप्तताला विनिर्भिन्ना राघवेण महात्मना ।। १५ ।।

ततः प्रीतमना वीरः सुग्रीवो राममब्रवीत् ।।

इंद्रादिदेवताभ्योऽपि नास्ति राघव मे भयम्।। १६ ।।

भवान्मित्रं मया लब्धो यस्मादति पराक्रमः ।।

अहं लंकेश्वरं हत्वा भार्यामानयितास्मि ते ।। १७ ।।

ततः सुग्रीवसहितो रामचंद्रो महाबलः ।।

सलक्ष्मणो ययौ तूर्णं किष्किंधां वालिपालिताम् ।। १८ ।।

ततो जगर्ज सुग्रीवो वाल्यागमनकांक्षया ।।

अमृष्यमाणो वाली च गर्जितं स्वानुजस्य वै।। ।। १९ ।।

अंतःपुराद्विनिष्क्रम्य युयुधेऽवरजेन सः ।।

वालिमुष्टिप्रहारेण ताडितो भृशविह्वलः ।। 3.1.2.२० ।।

सुग्रीवो निर्गतस्तूर्णं यत्र रामो महाबलः ।।

ततो रामो महाबाहुस्सुग्रीवस्य शिरोधरे ।। २१ ।।

लतामाबध्य चिह्नं तु युद्धायाचोदयत्तदा ।।

गर्जितेन समाहूय सुग्रीवो वालिनं पुनः ।। २२ ।।

रामप्रेरणया तेन बाहुयुद्धमथाकरोत् ।।

ततो वालिनमाजघ्ने शरेणैकेन राघवः ।। २३ ।।

हते वालिनि सुग्रीवः किष्किंधां प्रत्यपद्यत ।।

ततो वर्षास्वतीतासु सुग्रीवो वानराधिपः ।। २४ ।।

सीतामानयितुं तूर्णं वानराणां महाचमूम् ।।

समादाय समागच्छदंतिकं नृपपुत्रयोः ।। २५ ।।

प्रस्थापयामास कपीन्सीतान्वेषणकांक्षया ।।

विदितायां तु वैदेह्या लंकायां वायुसूनुना ।। २६ ।।

दत्ते चूडामणौ चापि राघवो हर्षशोकवान्।।

सुग्रीवेणानुजेनापि वायुपुत्रेण धीमता ।। २७ ।।

तथान्यैः कपिभिश्चैव जांबवन्नलमुख्यकैः ।।

अन्वीयमानो रामोऽसौ मुहूर्तेऽभिजिति द्विजाः ।।२८।।

विलंघ्य विविधा न्देशान्महेंद्रं पर्वतं ययौ ।।

चक्रतीर्थं ततो गत्वा निवासमकरोत्तदा ।। २९ ।।

तत्रैव तु स धर्मात्मा समागच्छद्विभीषणः ।।

भ्राता वै राक्षसेंद्रस्य चतुर्भिः सचिवैः सह ।। 3.1.2.३० ।।

प्रतिजग्राह रामस्तं स्वागतेन महात्मना ।।

सुग्रीवस्य तु शंकाऽभूत्प्रणिधिः स्यादयं त्विति ।। ३१ ।।

राघवस्तस्य चेष्टाभिः सम्यक्स्वचरितैर्हितैः ।।

अदुष्टमेनं दृष्ट्वैव तत एनमपूजयत् ।। ३२ ।।

सर्वराक्षसराज्ये तमभ्यषिंचद्विभीषणम् ।।

चक्रे च मंत्रिप्रवरं सदृशं रविसूनुना ।। ३३ ।।

चक्रतीर्थं समासाद्य निवसद्रघुनंदनः ।।

चिंतयन्राघवः श्रीमान्सुग्रीवादीनभाषत ।। ३४ ।।

मध्ये वानरमु ख्यानां प्राप्तकालमिदं वचः ।।

उपायः को नु भवतामेतत्सागरलंघने ।। ३५ ।।

इयं च महती सेना सागरश्चापि दुस्तरः ।।

अंभोराशिरयं नीलश्चंचलोर्म्मिसमाकुलः ।। ३६ ।।

उद्यन्मत्स्यो महानक्रशंखशुक्तिसमाकुलः ।।

क्वचिदौर्वानलाक्रांतः फेनवानतिभीषणः ।। ।। ३७ ।।

प्रकृष्टपवनाकृष्टनीलमेघसमन्वितः ।।

प्रलयांभोधरारावः सारवाननिलोद्धतः ।। ३८ ।।

कथं सागरमक्षोभ्यं तरामो वरुणा लयम् ।।

सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ।। ३९ ।।

उपायैरधिगच्छामो यथा नदनदीपतिम् ।।

कथं तरामः सहसा ससैन्या वरुणालयम् ।। 3.1.2.४० ।।

शतयोजनमायातं मनसापि दुरासदम् ।।

अतो नु विघ्ना बहवः कथं प्राप्या च मैथिली ।। ४१ ।।

कष्टात्कष्टतरं प्राप्ता वयमद्य निराश्रयाः ।।

महाजले महावाते समुद्रे हि निराश्रये ।। ४२ ।।

उपायं कं विधास्यामस्तरणार्थं वनौकसाम् ।।

राज्याद्भ्रष्टो वनं प्राप्तो हृता सीता मृतः पिता ।। ४३ ।।

इतोऽपि दुःसहं दुःखं यत्सागरविलंघनम् ।।

धिग्धिग्गर्जितमंभोधे धिगेतां वारिराशिताम् ।। ४४ ।।

कथं तद्वचनं मिथ्या महर्षेः कुम्भजन्मनः ।।

हत्वा त्वं रावणं पापं पवित्रे गंधमादने ।।

पापोपशमनायाशु गच्छस्वेति यदीरितम् ।।४५।।

।। श्रीसूत उवाच ।। ।।

इति रामवचः श्रुत्वा सुग्रीवप्रमुखास्तदा ।। ४६ ।।

ऊचुः प्रांजलयः संर्मे राघवं तं महाबलम् ।।

नौभिरेनं तरिष्यामः प्लवैश्च विविधैरिति ।। ४७ ।।

मध्ये वानरकोटीनां तदोवाच विभीषणः ।।

समुद्रं राघवो राजा शरणं गन्तुमर्हति ।। ४८ ।।

खनितः सागरैरेष समुद्रो वरुणालयः ।।

कर्तुमर्हति रामस्य तज्ज्ञातेः कार्यमंबुधिः ।। ४९ ।।

विभीषणेनैवमुक्तो राक्षसेन विपश्चिता ।।

सांत्वयन्राघवः सर्वान्वानरानिदमब्रवीत् ।। 3.1.2.५० ।।

शतयोजन विस्तारमशक्ताः सर्ववानराः ।।

तर्तुं प्लवोडुपैरेनं समुद्रमतिभीषणम् ।। ५१ ।।

नावो न संति सेनाया बह्व्या वानरपुंगवाः ।।

वणिजामुपघातं च कथमस्मद्विधश्चरेत् ।। ५२ ।।

विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वा परः ।।

प्लवोडुपप्रतारोऽतो नैवात्र मम रोचते ।। ५३ ।।

विभीषेणोक्तमे वेदं मोदते मम वानराः ।।

अहं त्विमं जलनिधिमुपास्ये मार्गसिद्धये ।। ५४ ।।

नो चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं तदा ।।

महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ।। ५५ ।।

इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः ।।

प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे ।। ५६ ।।

तदा रामः कुशा स्तीर्णे तीरे नदनदीपतेः ।।

संविवेश महाबाहुर्वेद्यामिव हुताशनः ।। ५७ ।।

शेषभोगनिभं बाहुमुपधाय रघूद्वहः ।।

दक्षिणो दक्षिणं बाहुमुपास्ते मकरालयम् ।। ५८ ।।

तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले ।।

नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः ।। ५९ ।।

स त्रिरात्रोषितस्तत्र नयज्ञो धर्मतत्परः ।।

उपास्तेस्म तदा रामः सागरं मार्गसिद्धये ।। 3.1.2.६० ।।

न च दर्शयते मन्दस्तदा रामस्य सागरः ।।

प्रयतेनापि रामेण यथार्हमपि पूजितः ।। ६१ ।।

तथापि सागरो रामं न दर्शयति चात्मनः ।।

समुद्राय ततः क्रुद्धो रामो रक्तांतलोचनः ।। ६२ ।।

समीपवर्तिनं चेदं लक्ष्मणं प्रत्यभाषत ।।

अद्य मद्बाणनिर्भिन्नैर्मकरैर्वरुणालयम् ।। ६३ ।।

निरुद्धतोयं सौमित्रे करिष्यामि क्षणादहम् ।।

सशंखशुक्ताजालं हि समीनमकरं शनैः ।। ६४ ।।

अद्य बाणैरमोघास्त्रैर्वारिधिं परिशोषये ।।

क्षमया हि समायुक्तं मामयं मकरालयः ।। ६९ ।।

असमर्थं विजानाति धिक्क्षमामीदृशे जने ।।

न दर्शयति साम्ना मे सागरो रूपमात्मनः ।। ६६ ।।

चापमानय सौमित्रे शरांश्चाशीविषोपमान्।।

सागरं शोषयिष्यामि पद्भ्यां यांतु प्लवंगमाः ।। ६७ ।।

एनं लंघितमर्यादं सहस्रोर्मिसमाकुलम् ।।

निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् ।। ६८ ।।

महार्णवं शोषयिष्ये महादानवसंकुलम् ।।

महामकरनक्राढ्यं महावीचिसमाकुलम् ।। ६९ ।।

एवमुक्त्वा धनुष्पाणिः क्रोधपर्याकुलेक्षणः ।।

रामो बभूव दुर्धर्षस्त्रिपुरघ्नो यथा शिवः ।। 3.1.2.७० ।।

आकृष्य चापं कोपेन कम्पयित्वा शरैर्जगत् ।।

मुमोच विशिखानुग्रांस्त्रिपुरेषु यथा भवः ।। ७१ ।।

दीप्ता बाणाश्च ये घोरा भासयन्तो दिशो दश ।।

प्राविशन्वारिधेस्तोयं दृप्तदानवसंकुलम् ।।७२।।

समुद्रस्तु ततो भीतो वेपमानः कृतांजलिः ।।

अनन्यशरणो विप्राः पाता लात्स्वयमुत्थितः।।७३।।

शरणं राघवं भेजे कैवल्यपदकारणम् ।।

तुष्टाव राघवं विप्रा भूत्वा शब्दैर्मनोरमैः ।। ७४ ।।

।। समुद्र उवाच।। ।।

नमामि ते राघव पादपंकजं सीतापते सौख्यद पादसेवनात् ।।

नमामि ते गौतमदारमोक्षजं श्रीपादरेणुं सुरवृन्दसेव्यम्।।७६।।

सुन्दप्रियादेहविदारिणे नमो नमोस्तु ते कौशिकयागरक्षिणे ।।

नमो महादेवशरासभेदिने नमो नमो राक्षससंघनाशिने ।। ७६ ।।

रामराम नमस्यामि भक्तानामिष्टदायिनम् ।।

अवतीर्णो रघुकुले देवकार्यचिकीर्षया ।। ७७ ।।

नारायणमनाद्यंतं मोक्षदं शिवमच्युतम् ।।

रामराम महाबाहो रक्ष मां शरणागतम् ।। ७८ ।।

कोपं संहर राजेंद्र क्षमस्व करुणालय ।।

भूमिर्वातो वियच्चापो ज्योतींषि च रघूद्वह ।। ७९ ।।

यत्स्वभावानि सृष्टानि ब्रह्मणा परमेष्ठिना ।।

वर्तंते तत्स्वभा वानि स्वभावो मे ह्यगाधता ।। 3.1.2.८० ।।

विकारस्तु भवेद्गाध एतत्सत्यं वदाम्यहम् ।।

लोभात्कामाद्भयाद्वापि रागाद्वापि रघूद्वह ।। ८१ ।।

न वंशजं गुणं हातुमुत्सहेयं कथंचन ।।

तत्करिष्ये च साहाय्यं सेनायास्तरणे तव ।। ८२ ।।

इत्युक्तवन्तं जलधिं रामोऽवादीन्नदीपतिम् ।।

ससैन्योऽहं गमि ष्यामि लंकां रावणपालिताम् ।। ८३ ।।

तच्छोषमुपयाहि त्वं तरणार्थं ममाधुना ।।

इत्युक्तस्तं पुनः प्राह राघवं वरुणालयः ।। ८४ ।।

शृणुष्वाव हितो राम श्रुत्वा कर्तव्यमाचर ।।

यद्याज्ञया ते शुष्यामि ससैन्यस्य यियासतः ।।८५।।

अन्येऽप्याज्ञापयिष्यंति मामेवं धनुषो बलात् ।।

उपायमन्यं वक्ष्यामि तरणार्थं बलस्य ते ।। ८१६ ।।

अस्ति ह्यत्र नलोनाम वानरः शिल्पिसंमतः ।।

त्वष्टुः काकुत्स्थ तनयो बलवान्विश्वकर्मणः ।। ८७ ।।

स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि ।।

सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ।। ८८ ।।

सेतुना तेन गच्छ त्वं लंकां रावणपालि ताम् ।।

उक्त्वेत्यंतर्हिते तस्मिन्रामो नलमुवाच ह ।। ८९ ।।

कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि महामते ।।

तदाऽब्रवीन्नलो वाक्यं रामं धर्मभृतां वरम् ।। 3.1.2.९० ।।

अहं सेतुं विधास्यामि ह्यगाधे वरुणालये ।।

पित्रा दत्तवरश्चाहं सामर्थ्ये चापि तत्समः ।। ९१ ।।

मातुर्मम वरो दत्तो मन्दरे विश्वक र्मणा ।।

शिल्पकर्मणि मत्तुल्यो भविता ते सुतस्त्विति ।। ९२ ।।

पुत्रोऽहमौरसस्तस्य तुल्यो वै विश्वकर्मणा ।।

अद्यैव कामं बध्नंतु सेतुं वानरपुं गवाः ।। ९३ ।।

ततो रामनिसृष्टास्ते वानरा बलवत्तराः ।।

पर्वतान्गिरिशृंगाणि लतातृणमहीरुहान् ।। ९४ ।।

समाजह्रुर्महाकाया गरुडानिलरंहसः ।।

नलश्चक्रे महासेर्तुमध्ये नदनदीपतेः ।। ९५ ।।

दशयोजनविस्तीर्णं शतयोजनमायतम् ।।

जानकीरमणो रामः सेतुमेवमकारयत् ।। ९६ ।।।

नलेन वानरेन्द्रेण विश्वकर्मसुतेन वै ।।

तमेवं सेतुमासाद्य रामचन्द्रेण कारितम् ।। ९७ ।।

सर्वे पातकिनो मर्त्या मुच्यन्ते सर्वपातकैः ।।

व्रतदान तपोहोमैर्न तथा तुष्यते शिवः ।। ९८ ।।

सेतुमज्जनमात्रेण यथा तुष्यति शंकरः ।।

न तुल्यं विद्यते तेजोयथा सौरेण तेजसा ।। ९९ ।।

सेतुस्नानेन च तथा न तुल्यं विद्यते क्वचित् ।।

तत्सेतुमूलं लंकायां यत्ररामो यियासया ।। 3.1.2.१०० ।।

वानरैः सेतुमारेभे पुण्यं पाप प्रणाशनम् ।।

तद्दर्भशयनं नाम्ना पश्चाल्लोकेषु विश्रुतम् ।। १०१।।

एवमुक्तं मया विप्राः समुद्रे सेतुबंधनम् ।।

अत्र तीर्थान्यनेकानि संति पुण्यान्यनेकशः ।। १०२ ।।

न संख्यां नामधेयं वा शेषो गणयितुं क्षमः ।।

किं त्वहं प्रब्रवीम्यद्य तत्र तीर्थानि कानिचित् ।। १०३ ।।

चतुर्विंशति तीर्थानि संति सेतौ प्रधानतः।।

प्रथमं चकतीर्थं स्याद्वेतालवरदं ततः ।। १०४ ।।

ततः पापविनाशार्थं तीर्थं लोकेषु विश्रुतम् ।।

ततः सीतासरः पुण्यं ततो मंगलतीर्थकम्।। ।। १०५ ।।

ततः सकलपापघ्नी नाम्ना चामृतवापिका ।।

ब्रह्मकुण्डं ततस्तीर्थं ततः कुंडं हनूमतः ।। १०६ ।।

आगस्त्यं हि ततस्तीर्थं रामतीर्थ मतः परम् ।।

ततो लक्ष्मणतीर्थं स्याज्जटातीर्थमतः परम् ।। १०७ ।।

ततो लक्ष्म्याः परं तीर्थमग्नितीर्थमतः परम् ।।

चक्रतीर्थं ततः पुण्यं शिवतीर्थमतः परम् ।। १०८ ।।

ततः शंखाभिधं तीर्थं ततो यामुनतीर्थकम् ।।

गंगातीर्थं ततः पश्चाद्गयातीर्थमनन्तरम् ।। १०९ ।।

ततः स्यात्कोटितीर्थाख्यं साध्यानाममृतं ततः ।।

मानसाख्यं ततस्तीर्थं धनुष्कोटिस्ततः परम् ।। 3.1.2.११० ।।

प्रधानतीर्थान्येतानि महापापहराणि च ।।

कथितानि द्विजश्रेष्ठास्सेतुमध्यगतानि वै ।। १११ ।।

यथा सेतुश्च बद्धोऽभूद्रामेण जलधौ महान् ।।

कथितं तच्च विप्रेन्द्राः पुण्यं पापहारं तथा ।। ११२ ।।

यच्छ्रुत्वा च पठित्वा च मुच्यते मानवो भुवि ।। ११३ ।।

अध्यायमेनं पठते मनुष्यः शृणोति वा भक्तियुतो द्विजेंद्राः ।।

सो नंतमाप्नोति जयं परत्र पुनर्भवक्लेशमसौ न गच्छेत् ।। ११४ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सेतुनिर्माणादिवर्णनंनाम द्वितीयोऽध्यायः ।। २ ।। ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 3

।। ऋषय ऊचुः ।। ।।

चतुर्विंशतितीर्थानि यान्युक्तानि त्वया मुने ।।

तेषां प्रधानतीर्थानां सेतौ पापविनाशने ।। १ ।।

आदिमस्य तु तीर्थस्य चक्रतीर्थमिति प्रथा ।।

कथं समागता सूत वदास्माकं हि पृच्छताम् ।। २ ।।

।। श्रीसूत उवाच ।। ।।

चतुर्विंशतितीर्थानां प्रधानानां द्विजोत्तमाः ।।

यदुक्तमादिमं तीर्थं सर्वलोकेषु विश्रुतम् ।। ।। ३ ।।

स्मरणात्तस्य तीर्थस्य गर्भवासो न विद्यते ।।

विलयं यांति पापानि लक्षजन्मकृतान्यपि ।। ४ ।।

तस्मिंस्तीर्थे सकृत्स्नाना त्स्मरणात्कीर्तनादपि ।।

लोके ततोधिकं तीर्थं तत्तुल्यं वा द्विजोत्तमाः ।। ५ ।।

न विद्यते मुनिश्रेष्ठाः सत्यमुक्तमिदं मया ।।

गंगा सरस्वती रेवा पंपा गोदावरी नदी ।। ६ ।।

कालिंदी चैव कावेरी नर्मदा मणिकर्णिका ।।

अन्यानि यानि तीर्थानि नद्यः पुण्या महीतले ।। ।। ७ ।।

अस्य तीर्थस्य विप्रेंद्राः कोट्यंशेनापि नो समाः ।।

धर्मतीर्थमिति प्राहुस्तत्तीर्थं हि पुराविदः ।। ८ ।।

यथा समागता तस्य चक्रतीर्थमिति प्रथा ।।

तदिदानीं प्रवक्ष्यामि शृणुध्वं मुनिपुंगवाः ।। ९ ।।

सेतुमूलं हि तत्प्रोक्तं तद्दर्भशयनं मतम् ।।

तत्रैव चक्रतीर्थं तु महापातकमर्द्दनम् ।। ।।3.1.3.१०।।।

पुरा हि गालवोनाम मुनिर्विष्णुपरायणः ।।

दक्षिणांभोनिधेस्तीरे हालास्यादविदूरतः ।।११।।

फुल्लग्रामसमीपे च तथा क्षीरसरोंतिके ।।

धर्म पुष्करिणीतीरे सोऽतप्यत महत्तपः ।। १२ ।।

युगानामयुतं ब्रह्म गृणन्विप्राः सनातनम्।।

दयायुक्तो निराहारः सत्यवान्विजितेंद्रियः ।।१३।।

आत्मवत्सर्वभूतानि पश्यन्विषयनिःस्पृहः ।।

सर्वभूतहितो दांतः सर्वद्वंद्वविवर्जितः ।। १४ ।।

वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोऽभवत ।।

किंचित्कालं जलाहारो वायुभक्षः कियत्समाः ।। १५ ।।

एवं पंचसहस्राणि वर्षाणि स महामुनिः ।।

अतप्यत तपो घोरं देवैरपि सुदुष्करम् ।। १६ ।।।

ततः पंचसहस्राणि वर्षाणि मुनिपुंगवः ।।

निराहारो निरालोको निरुच्छ्वासो निरास्पदः ।। १७ ।।

वर्षास्वासारसहनं हेमंतेषु जलेशयः।।

ग्रीष्मे पंचाग्निमध्यस्थो विष्णुध्यानपरायणः।। १८ ।।

जपन्नष्टाक्षरं मंत्रं ध्यायन्हृदि जनार्दनम्।।

तताप सुमहातेजा गालवो मुनिपुंगवः ।। १९ ।।

एवं त्वयुतव वर्षाणि स समतीतानि वै मुनेः।।

अथ तत्तपसा तुष्टो भगवान्कमलापतिः।।3.1.3.२०।।।

प्रत्यक्षतामगात्तस्य शंखचक्रगदाधरः।।

विकचांबुजपत्राक्षः सूर्यकोटिसमप्रभः।।२१।।

विनतानंदनारूढश्छत्रचामरशोभितः।।

हारकेयूरमुकुटकटकादिविभूषितः।।२२।।

विष्वक्सेनसुनंदादिकिंकरैः परिवारितः ।।

वीणावेणुमृदंगादिवादकैर्नारदादिभिः ।। २३ ।।

उपगीयमानविजयः पीतांबरविराजितः ।।

लक्ष्मीविराजितोरस्को नीलमेघसमच्छविः।। ।। २४ ।।

धुनानः पद्ममेकेन पाणिना मधुसूदनः ।।

सनकादिमहायोगिसेवितः पार्श्वयोर्द्वयोः ।। २५ ।।

मंदस्मितेन सकलं मोहयन्भुवनत्रयम् ।।

स्वभासा भासयन्सर्वान्दिशो दश च भूसुराः ।। २६ ।।

कंठलग्रेन मणिना कौस्तुभेन च शोभितः ।।

सुवर्णवेत्रहस्तैश्च सौविदल्लैरनेकशः ।। ।। २७ ।।

अनन्यदुर्लभाचिंत्यगीयमाननिजाद्भुतः ।।

सुभक्तसुलभो देवो लक्ष्मीकांतो हरिः स्वयम् ।। २८ ।।

सन्न्यधत्त पुरस्तस्य गालवस्य महामुनेः ।।

आविर्भूतं तदा दृष्ट्वा श्रीवत्सांकितवक्षसम् ।। २९ ।।

पीतांबरधरं देवं तुष्टिं प्राप महामुनिः ।।

भक्त्या परमया युक्तस्तुष्टाव जगदीश्वरम्।। ।।3.1.3.३०।

।। गालव उवाच ।।

नमो देवादिदेवाय शंखचक्रगदाभृते ।।

नमो नित्याय शुद्धाय सच्चिदानंदरूपिणे ।।३१।।

नमो भक्तार्ति हंत्रे ते हव्यकव्यस्वरूपिणे।।

नमस्त्रिमूर्तये तुभ्यं सृष्टिस्थित्यंतकारिणे।।३२।।

नमः परेशाय नमो विभूम्ने नमोस्तु लक्ष्मीपतये विधात्रे।।

नमोस्तु सूर्येंदुविलोचनाय नमो विरिंच्याद्यभिवंदिताय ।।३३।।

यो नामजात्यादिविकल्पहीनः समस्तदोषैरपि वर्जितो यः ।।

स्रमस्तसंसारभयापहारिणे तस्मै नमो दैत्यविनाशनाय ।। ३४ ।।

वेदांतवेद्याय रमेश्वराय वैकुण्ठवासाय विधातृपित्रे ।।

नमोनमः सत्यजनार्तिहारिणे नारायणायामितविक्रमाय।। ३५।।

नमस्तुभ्यं भग वते वासुदेवाय शार्ङ्गिणे ।।

भूयोभूयो नमस्तुभ्यं शेषपर्यंकशायिने ।। ३६ ।।

इति स्तुत्वा हरिं विप्रास्तूष्णीमास्ते स गालवः ।।

श्रुत्वा स्तुतिं श्रुति सुखां हरिस्तस्यमहात्मनः ।। ३७ ।।

अवाप परमं तोषं शंखचक्रगदाधरः ।।

अथालिंग्य मुनिं शौरिश्चतुर्भिर्बाहुभिस्तदा ।। ३८ ।।

बभाषे प्रीतिसं युक्तो वरो वै व्रियतामिति ।।

तुष्टोऽस्मि तपसा तेऽद्य स्तोत्रेणापि च गालव ।। ३९ ।।

नमस्कारेण च प्रीतो वरदोऽहं तवागतः ।।

।। गालव उवाच ।। ।।

नारायण रमानाथ पीतांबर जगन्मय ।। 3.1.3.४० ।।

जनार्दन जगद्धामन्गोविंद नरकांतक ।।

त्वद्दर्शनात्कृतार्थोऽस्मि सर्वस्मादधिकस्तथा ।। ४१ ।।

त्वां न पश्यंत्यधर्मिष्ठा यतस्त्वं धर्मपालकः ।।

यन्न वेत्ति भवो ब्रह्मा यन्न वेत्ति त्रयी तथा ।। ४२ ।।

तं वेद्मि परमात्मानं किमस्मा दधिकं वरम्।।

योगिनो यं न पश्यन्ति यं न पश्यंति कर्मठाः ।। ४३ ।।

तं पश्यामि परात्मानं किमस्मादधिकं वरम् ।।

एतेन च कृतार्थोऽस्मि जनार्दन जगत्पते ।। ४४ ।।

यन्नामस्मृतिमात्रेण महापातकिनोऽपिच।।

मुक्तिं प्रयांति मुनयस्तं पश्यामि जनार्दनम्।। ४५ ।।

त्वत्पादपद्मयुगले निश्चला भक्तिरस्तुमे ।।

।। हरिरुवाच ।। ।।

मयि भक्तिर्दृढा तेऽस्तु निष्कामा गालवाधुना।। ४६ ।।

शृणु चाप्यपरं वाक्यमुच्यमानं मया मुने ।।

मदर्थं कर्म कुर्वाणो मद्ध्यानो मत्परायणः ।।४७।।

एतत्प्रारब्धदेहांते मत्स्वरूपमवाप्स्यसि ।।

अस्मिन्नेवाश्रमे वासं कुरुष्व मुनिपुंगव ।।४८।।

धर्मपुष्करिणी चेयं पुण्या पापविनाशिनी ।।

अस्यास्तीरे तपः कुर्वंस्तपःसिद्धिमवाप्नुयात् ।। ४९ ।।

धर्मः पुरा समागत्य दक्षिणस्योदधेस्तटे ।।

तपस्तेपे महादेवं चिंतयन्मनसा तदा ।। 3.1.3.५० ।।

स्नानार्थमेकं तीर्थं च चक्रे धर्मो महामुने ।।

धर्मपुष्करिणी तेन प्रसिद्धा तत्कृता यतः ।। ५१ ।।

त्वया यथा तपस्तप्तमिदानीं मुनिसत्तम ।।

तथा तप्तं तपस्तेन धर्मेण हरसेविना ।। ५२ ।।

तपसा तस्य तुष्टः सञ्छूलपाणिर्महेश्वरः ।।

प्रादुरासीस्त्वया दीप्त्या दिशोदशविभासयन् ।। ५३ ।।

अथाश्रममनुप्राप्तं महादेवं कृपानिधिम् ।।

धर्मः परमसन्तुष्टस्तुष्टाव परमेश्वरम्।। ५४ ।।

।। धर्म उवाच ।। ।।

प्रणमामि जगन्नाथमीशानं प्रणवात्मकम् ।।

समस्तदेवतारूपमादिमध्यांतवर्जितम् ।। ५५ ।।

ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं नमाम्य हम् ।।

समस्तजगदाधारमनन्तमजमव्ययम् ।।५६।।

यमामनन्ति योगीन्द्रास्तं वन्दे पुष्टिवर्धनम् ।।

नमो लोकाधिनाथाय वंचते परिवंचते ।।५७ ।।

नमोऽस्तु नीलकण्ठाय पशूनां पतये नमः ।।

नमः कल्मषनाशाय नमो मीढुष्टमाय च ।। ५८ ।।

नमो रुद्राय देवाय कद्रुद्राय प्रचेतसे ।।

नमः पिनाकहस्ताय शूलहस्ताय ते नमः ।। ५९ ।।

नमश्चैतन्यरूपाय पुष्टीनां पतये नमः ।।

नमः पंचास्यदेवाय क्षेत्राणां पतये नमः ।। 3.1.3.६० ।।

इति स्तुतो महादेवः शंकरोलोकशंकरः ।।

धर्मस्य परमां तुष्टिमापन्नस्तमुवाच वै ।। ६१ ।।

।। महेश्वर उवाच ।। ।।

प्रीतोस्म्यनेन स्तोत्रेण तव धर्म महामते ।।

वरं मत्तो वृणीष्व त्वं मा विलंबं कुरुष्व वै ।। ६२ ।।

ईश्वरेणैवमुक्तस्तु धर्मो देवमथाब्रवीत् ।।

वाहनं ते भविष्यामि सदाहं पार्वतीपते ।।। ।। ६३ ।।

अयमेव वरो मह्यं दातव्यस्त्रिपुरांतक ।।

तवोद्वहनमात्रेण कृतार्थोऽहं भवामि भोः ।। ६४ ।।

इत्थं धर्मेण कथितो देवो धर्ममथाब्रवीत् ।।

।। ईश्वर उवाच ।। ।।

वाहनं भव मे धर्म सर्वदा लोकपूजितः ।। ६५ ।।

मम चोद्वहने शक्तिरमोघा ते भविष्यति ।।

त्वत्सेविनां सदा भक्तिर्मयि स्यान्नात्र संशयः ।। ६६ ।।

इत्युक्ते शंकरेणाथ धर्मोपि वृषरूपधृक् ।।

उवाह परमेशानं तदाप्रभृति गालव ।। ६७ ।।

महादेवस्तमारुह्य धर्मं वै वृषरूपिणम् ।।

शोभमानो भृशं धर्ममुवाच परमामृतम् ।।६८ ।।

।। ईश्वर उवाच ।।

त्वया कृतं हि यत्तीर्थं दक्षिणस्योदधेस्तटे ।।

धर्मपुष्करिणीत्येषा लोके ख्याता भविष्यति ।।६९।।

अस्यास्तीरे जपोहोमो दानं स्वाध्याय एव च ।।

अन्ये च धर्मनिवहाः क्रियमाणा नरैर्मुदा ।। 3.1.3.७।।।

अनंतफलदा ज्ञेया नात्र कार्या विचारणा ।।

इति दत्त्वा वरं तस्मै धर्मतीर्थाय शंकरः ।। ७१ ।।

आरुह्य वृषभं धर्मं कैलासं पर्वतं ययौ ।।

धर्मपुष्करिणीतीरे गालव त्वमतोधुना ।। ७२ ।।

शरीरपातपर्यंतं तपः कुर्वन्समाहितः ।।

वस त्वं मुनि शार्दूल पश्चान्मामाप्स्यसे ध्रुवम् ।। ७३ ।।

यदा ते जायते भीतिस्तदा तां नाशयाम्यहम् ।।

ममायुधेन चक्रेण प्रेरितेन मया क्षणात् ।।७४।।

इत्युक्त्वा भगवान्विष्णुस्तत्रैवांतरधीयत ।।

।। श्रीसूत उवाच ।। ।।

तस्मिन्नंतर्हिते विष्णौ गालवो मुनिपुंगवः ।।७५।।

धर्मपुष्करिणीतीरे विष्णुध्यानपरायणः ।।

त्रिकालमर्चयन्विष्णुं शालग्रामे विमुक्तिदे ।। ७६ ।।

उवास मतिमान्धीरो विरक्तो विजितेंद्रियः ।।

कदाचिन्माघमासे तु शुक्लपक्षे हरेर्दिने ।। ७७ ।।

उपोष्य जागरं कृत्वा रात्रौ विष्णुमपूजयत् ।।

स्नात्वा परेद्युर्द्वादश्यां धर्मपुष्करिणीजले ।। ७८ ।।

संध्यावन्दनपूर्वाणि नित्यकर्माणि चाकरोत् ।।।

ततः पूजां विधातुं स हरेः समुपचक्रमे ।। ७९ ।।

तुलस्यादीनि पुष्पाणि समाहृत्य च गालवः ।।

विधाय पूजां कृष्णस्य स्तोत्रमेतदुदैरयत् ।। 3.1.3.८० ।।

।। गालव उवाच ।। ।।

सहस्रशिरसं विष्णुं मत्स्यरूपधरं हरिम् ।।

नमस्यामि हृषीकेशं कूर्मवाराहरूपिणम् ।। ८१ ।।

नारसिंहं वामनाख्यं जाम दग्न्यं च राघवम् ।।

बलभद्रं च कृष्णं च कल्किं विष्णुं नमाम्यहम् ।। ८२ ।।

वासुदेवमनाधारं प्रणतार्तिविनाशनम् ।।

आधारं सर्वभूतानां प्रणमामि जनार्दनम् ।। ८३ ।।

सर्वज्ञं सर्वकर्तारं सच्चिदानंदविग्रहम् ।।

अप्रतर्क्यमनिर्देश्यं प्रणतोऽस्मि जनार्दनम् ।। ८४ ।।

एवं स्तुवन्महा योगी गालवो मुनिपुंगवः ।।

धर्मपुष्करिणीतीरे तस्थौ ध्यानपरायणः ।। ८५ ।।

एतस्मिन्नंतरे कश्चिद्राक्षसो गालवं मुनिम् ।।

आययौ भक्षितुं घोरः क्षुधया पीडितो भृशम् ।। ८६ ।।

गालवं तरसा सोऽयं राक्षसो जगृहे तदा ।।

गृहीतस्तरसा तेन गालवो नैऋतेन सः ।। ८७ ।।

प्रचुक्रोश दयां भोधिमापन्नानां परायणम् ।।

नारायणं चक्रपाणिं रक्षरक्षेति वै मुहुः ।। ८८ ।।

परेश परमानंद शरणागतपालक ।।

त्राहि मां करुणासिंधो रक्षोवशे मुपागतम् ।। ८९ ।।

लक्ष्मीकांत हरे विष्णो वैकुंठ गरुडध्वज ।।

मां रक्ष रक्षसाक्रांतं ग्राहाक्रांतं गजं यथा ।। 3.1.3.९० ।।

दामोदर जगन्नाथ हिरण्यासुर मर्द्दन ।।

प्रह्रादमिव मां रक्ष राक्षसेनातिपीडितम् ।। ९१ ।।

इत्येवं स्तुवतस्तस्य गालवस्य द्विजोत्तमाः ।।

स्वभक्तस्य भयं ज्ञात्वा चक्रपाणिवृषा कपिः ।। ९२ ।।

स्वचक्रं प्रेषयामास भक्तरक्षणकारणात् ।।

प्रेरितं विष्णुचक्रं तद्विष्णुना प्रभविष्णुना ।। ९३ ।।

आजगामाथ वेगेन धर्मपुष्करिणी तटम् ।।

अनंतादित्यसंकाशमनंताग्निसमप्रभम् ।। ९४ ।।

महाज्वालं महानादं महासुरविमर्दनम् ।।

दृष्ट्वा सुदर्शनं विष्णो राक्षसोऽथ प्रदुद्रुवे ।। ।। ९५ ।।

द्रवमाणस्य तस्याशु राक्षसस्य सुदर्शनम्।।

शिरश्चकर्त सहसा ज्वालामालादुरासदम् ।। ९६ ।।

ततस्तु गालवो दृष्ट्वा राक्षसं पतितं भुवि ।।

मुदा परमया युक्तस्तुष्टाव च सुदर्शनम् ।। ९७ ।।

।। गालव उवाच ।। ।।

विष्णुचक्रं नमस्तेस्तु विश्वरक्षणदीक्षित ।।

नारायणकरांभोजभूषणाय नमोऽस्तु ते ।। ९८ ।।

युद्धेष्वसुरसंहारकुशलाय महारव ।।

सुदर्शन नमस्तुभ्यं भक्तानामार्तिनाशिने ।। ९९ ।।

रक्ष मां भयसंविग्नं सर्वस्मादपि कल्मषात् ।।

स्वामिन्सुदर्शन विभो धर्मर्तीर्थे सदा भवान् ।। 3.1.3.१०० ।।

संनिधेहि हिताय त्वं जगतो मुक्तिकांक्षिणः ।।

गालवेनैवमुक्तं तद्विष्णुचक्रं मुनीश्वराः ।।

तं प्राह गालवमुनिं प्रीणयन्निव सौहृदात् ।। १०१ ।।

।। सुदर्शन उवाच ।। ।।

गालवैतन्महापुण्यं धर्मतोर्थमनुत्तमम् ।। १०२ ।।

अस्मिन्वसामि सततं लोकानां हितकाम्यया।।

त्वत्पीडां परिचिंत्याह राक्षसेन दुरात्मना ।।१०३।।

प्रेरितो विष्णुना विप्र त्वरया समुपागतः।।

त्वत्पीडकोथ निहतो मयायं राक्षसाधमः ।।१०४।।

मोचितस्त्वं भयादस्मात्त्वं हि भक्तो हरेः सदा ।।

पुष्करिण्यामहं त्वस्यां धर्मस्य मुनिपुंगव ।।१०५।।

सततं लोकरक्षार्थं संनिधानं करोमि वै ।।

अस्यां मत्संनिधानात्ते तथान्येषामपि द्विज ।।१०६।।

इतः परं न पीडा स्याद्भूतराक्षससंभवा ।।

धर्मपुष्करिणी ह्येषा सर्वपापविनाशिनी ।। १०७ ।।

देवीपट्टणपर्यंता कृता धर्मेण वै पुरा ।।

अत्र सर्वत्र वत्स्यामि सर्वदा मुनिपुंगव ।। १०८ ।।

अस्या मत्संनिधा नात्स्याच्चक्रतीर्थमिति प्रथा।।

स्नानं येऽत्र प्रकुर्वंति चक्रतीर्थे विमुक्तिदे ।। १०९. ।।

तेषां पुत्राश्च पौत्राश्च वंशजाः सर्व एव हि ।।

विधूतपापा यास्यंति तद्विष्णोः परमं पदम् ।। 3.1.3.११० ।।

पितॄनुद्दिश्य पिंडानां दातारो येऽत्र गालव ।।

स्वर्गं प्रयांति ते सर्वे पितरश्चापि तर्प्पिताः ।। १११ ।।

इत्युक्त्वा विष्णुचक्रं तद्गालवस्यापि पश्यतः।।

अन्येषामपि विप्राणां पश्यतां सहसा द्विजाः ।। ११२ ।।

धर्मापुष्कारिणीं तां तु प्राविशत्पापनाशिनीम् ।।

श्रीसूत उवाच।।

धर्मतीर्थस्य विप्रंद्राश्चक्रतीर्थमिति प्रथा।।११३।।

प्राप्ता यथा तत्कथितं युष्माकं हि मया मुदा।।

चक्रतीर्थसमं तीर्थं न भूतं न भविष्यति।।११४।।

अत्र स्नाता नरा विप्रा मोक्षभाजो न संशयः।।

कीर्तयेदिममध्यायं शृणुयाद्वा समाहितः।।

चक्र तीर्थाभिषेकस्य प्राप्नोति फलमुत्तमम् ।।

इह लोके सुखं प्राप्य परत्रापिसुखं लभेत् ।। ११६ ।।

यो धर्मतीर्थं च तथैव गालवं कुर्वाणगत्युग्रसमाधियो गम् ।।

सुदर्शनं राक्षसनाशनं च स्मरेत्सकृद्वा न स पापभाग्जनः ।। ११७ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे. सेतुमाहात्म्ये गालवाख्याने धर्मतीर्थस्य चक्रतीर्थप्रथावर्णनंनाम तृतीयो ऽध्यायः ।। ३ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 4

।। ऋषय ऊचुः ।। ।।

भगवन्राक्षसः कोऽसौ सूत पौराणिकोत्तम।।

विष्णुभक्तं महात्मानं यो गालवमबाधत।।१।।

श्रीसूत उवाच।।

वक्ष्यामि राक्षसं क्रूरं तं विप्राः शृणुतादरात् ।।

यथा स राक्षसो जातो मुनीनां शापवैभवात् ।। २ ।।

पुरा कैलासशिखरे हालास्ये शिवमंदिरे ।।

चतुर्विशतिसाहस्रा मुनयो ब्रह्मवादिनः ।। ३ ।।

वसिष्ठात्रिमुखाः सर्वे शिवभक्ता महौजसः ।।

भस्मोद्धूलितसर्वांगास्त्रिपुंड्रांकितमस्तकाः ।। ४ ।।

रुद्राक्ष मालाभरणाः पंचाक्षरजपे रताः ।।

हालास्यनाथं भूतेशं चंद्रचूडमुमापतिम् ।। ५ ।।

उपासांचक्रिरे मुक्त्यै मधुरापुरवासिनः ।।

कदाचित्तत्र गंधर्वो विश्वावसुसुतो बली ।। ६ ।।

दुर्द्दमोनाम विप्रेंद्रा विटगोष्ठीपरायणः ।।

ललनाशतसंयुक्तो विवस्त्रः सलिलाशये ।। ७ ।।

चिक्रीड स विवस्त्राभिः साकं युवतिभिर्मुदा ।।

हालास्यनाथतीर्थं तद्वसिष्ठो मुनिभिः सह ।। ८ ।।

माध्यंदिनं कर्तुमना ययौ शंकरमंदिरात् ।।

तानृषीनवलोक्याथ रामास्ता भयकातराः ।। ९ ।।

वासांस्याच्छादयामासुर्दुर्द्दमो न तु साहसी ।।

ततो वसिष्ठः कुपितः शशापैनं गत त्रपम् ।। 3.1.4.१० ।।

।। वसिष्ठ उवाच ।। ।।

यस्माद्दुर्दम गंधर्व दृष्ट्वास्माँल्लज्जया त्वया ।।

वासो नाच्छादितं शीघ्रं याहि राक्षसतां ततः ।। ११ ।।

इत्युक्त्वा ता स्त्रियः प्राह वसिष्ठो मुनिपुंगवः ।।

यस्मादाच्छादितं वस्त्रं दृष्ट्वास्माँल्ललनोत्तमाः ।। १२ ।।

ततो न युष्माञ्छपिष्यामि गन्छध्वं त्रिदिवं ततः ।।

एवमुक्ता वसिष्ठेन रामाः प्रांजलयस्तदा ।। १३ ।।

प्रणिपत्य वसिष्ठं तं भक्तिनम्रेण चेतसा ।।

मुनिमंडलमध्ये तं वसिष्ठमिदमब्रुवन् ।। १४।। ।।

।। रामा ऊचुः ।। ।।

भगवन्सर्वधर्मज्ञ चतुरानननंदन ।।

दयासिंधोऽवलोक्यास्मान्न कोपं कर्तुमर्हसि ।। १५ ।।

पतिरेवहि नारीणां भूषणं परमुच्यते ।।

पतिहीना तु या नारी शतपुत्रापि सा मुने ।।१६।।

विधवेत्युच्यते लोके तत्स्त्रीणां मरणं स्मृतम् ।।

तत्प्रसादं कुरु मुने पत्यावस्माक मादरात् ।। १७ ।।

एकोऽपराधः क्षंतव्यो मुनिभिस्तत्त्वदर्शिभिः ।।

क्षमां कुरु दयासिंधो युष्मच्छिष्येऽत्र दुर्दमे ।। १९ ।।

वसिष्ठः प्रार्थितस्त्वैवं दुर्दम स्यांगनाजनैः ।।

प्रोवाच वचनं भूयः प्रसन्नः स द्विजोत्तमाः ।। १९ ।।

न मे स्याद्वचनं मिथ्या कदाचिदपि सुभ्रुवः ।।

उपायं वः प्रवक्ष्यामि शृणुध्वं श्रद्धया सह ।। 3.1.4.२० ।।

षोडशाब्दावधिः शापो भर्तुर्वो भविता ध्रुवम् ।।

षोडशाब्दावधौ चैष दुर्दमो राक्षसाकृतिः ।। २१ ।।

यदृच्छयाचक्र तीर्थं गमिष्यति सुरांगनाः ।।

आस्ते तत्र महायोगी गालवो विष्णुतत्परः ।।२२।।

भक्ष्यार्थं तं मुनिं सोऽयं राक्षसोभिगमिष्यति ।।

ततो गालवरक्षार्थं प्रेरितं चक्रमुत्तमम्।।२३।।

विष्णुनास्य शिरो रामा हरिष्यति न संशयः।।

ततः स्वरूपमासाद्य शापान्मुक्तः सुदुर्दमः ।।२४।।

पतिर्वस्त्रिदिवं भूयो गंतास्त्यत्र न संशयः ।।

ततस्त्रिदिवमासाद्य दुर्द्दमोऽयं पतिर्हि वः ।। २५ ।।

रमयिष्यति सुन्दर्यो युष्मान्सुन्दरवेषभृत् ।।

।। श्रीसूत उवाच ।। ।।

इत्युक्त्वा तु वसिष्ठस्ता दुर्दमस्य वरांगनाः ।। २६ ।।

स्वाश्रमं प्रययौ तूर्णं हालास्येश्वरभक्तिमान् ।।

अथ रामास्तमालिंग्य दुर्द्दमं पतिमातुराः ।। २७ ।।

रुरुदुः शोकसंविग्ना दुःखसागरमध्यगाः ।। प्र

पश्यंतीषु तास्वेव दुर्दमो राक्षसोऽभवत् ।। २८ ।।

महादंष्ट्रो महाकायो रक्तश्मश्रुशिरोरुहः ।।

तं दृष्ट्वा भयसंविग्ना जग्मू रामास्त्रिविष्टपम् ।। २९ ।।

ततो राक्षसवेषोऽयं दुर्दमो भैरवाकृतिः ।।

भक्षयन्प्राणिनः सर्वान्देशाद्देशं वनाद्वनम्।। 3.1.4.३० ।।

भ्रमन्न निलवेगोऽसौ धर्मतीर्थं ततो ययौ ।।

एवं षोडशवर्षाणि भ्रमतोऽस्य ययुस्तदा ।। ३१ ।।

ततस्तु षोडशाब्दांते राक्षसोयं मुनीश्वराः ।।

भक्षितुं गालवमुनिं धर्मतीर्थनिवासिनम् ।। ३२ ।।

उपाद्रवद्वायुवेगः सचास्तौषीज्जनार्दनम् ।।

गालवेन स्तुतो विष्णुस्तदा चक्रमचोदयत् ।। ३३ ।।

रक्षितुं गाल वमुनिं राक्षसेन प्रपीडितम् ।।

अथागत्य हरेश्चक्रं राक्षसस्य शिरोऽहरत् ।। ३४ ।।

ततोऽयं राक्षसं देहं त्यक्त्वा दिव्यकलेवरः ।।

विमानवरमारुह्य दुर्दमः पुष्पवर्षितः ।। ३५ ।।

प्रांजलिः प्रणतो भूत्वा ववन्दे तं सुदर्शनम् ।।

तुष्टाव श्रुतिरम्याभिर्वाग्भिरग्र्याभिरादरात् ।। ३६ ।।

।। दुर्दम उवाच ।।।

सुदर्शन नमस्तेऽस्तु विष्णुहस्तैकभूषण ।।

नमस्तेऽसुरसंहर्त्रे सहस्रादित्यतेजसे ।। ३७ ।।

कृपालेशेन भवतस्त्यक्त्वाहं राक्षसीं तनुम् ।।

स्वरूपमभजं विष्णोश्चक्रायुध नमोऽस्तु ते ।। ३८ ।।

अनुजानीहि मां गन्तुं त्रिदिवं विष्णुवल्लभ ।।

भार्या मे परिशोचंति विरहातुरचेतसः ।। ३९ ।।

त्वन्मनस्को भविष्यामि यावज्जीवं यथाह्यहम् ।।

तथा कृपां कुरुष्व त्वं मयि चक्र नमोऽस्तु ते ।। 3.1.4.४० ।।

एवं स्तुतं विष्णुचक्रं दुर्दमेन सभक्तिकम् ।।

अनुजग्राह सहसा तथास्त्विति मुनीश्वराः ।। ४१ ।।

चक्रायुधाभ्यनुज्ञातो दुर्दमो गालवं मुनिम् ।।

प्रणम्य तेनानुज्ञातो गन्धर्वस्त्रिदिवं ययौ ।। ४२ ।।।

दुर्दमे तु गते स्वर्गं गालवो मुनिपुंगवः ।।

स चक्रं प्रार्थयामास विष्ण्वायुधमनुत्तमम् ।। ४३ ।।

चक्रायुध नमामि त्वां महासुरविमर्द्दन ।।

देवीपट्टण पर्यंते धर्मतीर्थे ह्यनुत्तमे ।। ४४ ।।

सन्निधानं कुरुष्व त्वं सर्वपापविनाशनम् ।।

त्वत्सन्निधानात्सर्वेषां स्नातानां पापिनामिह ।। ४५ ।।

पापनाशं कुरुष्व त्वं मोक्षं च कुरु शाश्वतम् ।।

चक्रतीर्थमिति ख्यातिं लोकस्य परिकल्पय ।। ४६ ।।

त्वत्सन्निधानादत्रत्यमुनीनां भयनाशनम् ।।

इतः परं भवत्वार्य चक्रायुध नमोऽस्तु ते ।। ४७ ।।

भूतप्रेतपिशाचेभ्यो भयं मा भवतु प्रभो ।।

इति संप्रार्थितं चक्रं गालवेन मुनीश्वराः ।। ४८ ।।

तथैवा स्त्विति सम्भाष्य तस्मिंस्तीर्थे तिरोहितम् ।।

।। श्रीसूत उवाच ।। ।।

एवं वः कथितो विप्रा राक्षसस्स भवो मया ।। ४९ ।।

माहात्म्यं चक्र तीर्थस्य कथितं च मलापहम्।।

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ।। 3.1.4.५० ।।

।। ऋषय ऊचुः ।। ।।

व्यासशिष्य महाप्राज्ञ सूत पौराणिकोत्तम ।।

आरभ्य दर्भशयनमादेवीपत्तनावधि ।। ५१ ।।

बहुव्यायामसंयुक्तं चक्रतीर्थमनुत्तमम् ।।

ययौ विच्छिन्नतां मध्ये कथं कथय सांप्रतम् ।। ।। ५२ ।।

एनं मनसि तिष्ठन्तं संशयं छेत्तुमर्हसि ।।

।। श्रीसूत उवाच ।। ।।

पुरा हि पर्वताः सर्वे जातपक्षा मनोजवाः ।। ५३ ।।

पर्यंतपर्वतै सार्द्धं चेरुराकाशमार्गगाः ।।

नगरेषु च राष्ट्रेषु ग्रामेषु च वनेषु च ।। ५४ ।।

आप्लुत्याप्लुत्य तिष्ठंति पर्वताः सर्वतो भुवि ।।

आक्रम्याक्रम्य तिष्ठंति यत्रयत्र महीधराः ।। ५५ ।।

तत्रतत्र नरा गावस्तथान्ये प्राणिसंचयाः ।।

मरणं सहसा प्रापुः पीड्यमाना महीधरैः ।। ५६ ।।

ब्राह्मणादिषु वर्णेषु नष्टेषु समनन्तरम् ।।

यज्ञाद्यभावात्सहसा देवता व्यसनं ययुः ।। ५७ ।।

तत इन्द्रो महाक्रुद्धो वज्रमादाय वेगवान् ।।

चिच्छेद सहसा पक्षान्पर्वतानां तरस्विनाम् ।। ५८ ।।

छिद्यमानच्छदाः सर्वे वासवेन महीधराः ।।

अनन्यशरणा भूत्वा समुद्रं प्राविशन्भयात् ।। ५९ ।।

अचलेषु च सर्वेषु पतत्सु लवणार्णवे ।।

निपेतुरर्णवभ्रांत्या चक्रतीर्थेपि केचन ।। 3.1.4.६० ।।

पतितैः पर्वतैस्तैस्तु मध्यतः पूरितोदरम् ।।

चक्रतीर्थं महापुण्यं मध्ये विच्छेदमाययौ ।। ६१ ।।

यदृच्छया महाशैलाः पार्श्वयोस्तत्र नापतन् ।।

अतो वै दर्भशयने तथा देवीपुरेऽपि च ।। ६२ ।।

विच्छिन्नमध्यं तद्द्वेधा विभक्तमिव दृश्यते ।।

मध्यतः पतितैः शैलैश्चक्रतीर्थं स्थलीकृतम् ।।६३।।

।। श्रीसूत उवाच ।। ।।

युष्माकमेवं कथितं मुनीन्द्रा यन्मध्यतस्तीर्थमिदं स्थली कृतम् ।।

यथा महीध्राः सहसा बिडौजसा विच्छिन्नपक्षा इह पेतुरुन्नताः ।। ६४ ।। ।।

इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये दुर्दमगंधर्वशापमोचनंनाम चतुर्थोऽध्यायः ।। ४ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 5

।। श्रीसूत उवाच ।। ।।

प्रस्तुत्य चक्रतीर्थं तु पुण्यं पापविनाशनम् ।।

पुनरप्यद्भुतं किञ्चित्प्रब्रवीमि मुनीश्वराः ।। १ ।।

विधूमनामा हि वसुर्देवस्त्री चाप्यलंबुषा ।।

ब्रह्मशापान्महाघोरात्पुरा प्राप्तौ मनुष्यताम्।। ।। २ ।।

चक्रतीर्थे महापुण्ये स्नात्वा शापाद्विमोचितौ ।।

।। ऋषय ऊचुः ।। ।।

सूतसूत महाप्राज्ञ पुराणार्थविशारद।। ३ ।।

प्राज्ञत्वाद्व्यासशिष्य त्वादज्ञातं ते न किंचन ।।

ब्रह्मा केनापराधेन सहालंबुसया वसुम् ।। ४ ।।

पुरा विधूमनामानं शप्तवांश्चतुराननः ।।

ब्रह्मशापेन घोरेण कयोस्तौ पुत्रतां गतौ ।। ५ ।।

शापस्यान्तः कथमभूद्ब्रह्मणा शप्तयोस्तयोः ।।

एतन्नः श्रद्दधानानां विस्तराद्वक्तुमर्हसि ।। ६ ।।

।। श्रीसूत उवाच ।। ।।

पुरा हि भगवान्ब्रह्मा स्वयम्भूश्चतुराननः ।।

सावित्र्या च सरस्वत्या पार्श्वयोः प्रविराजितः ।। ७ ।।

सनातनेन मुनिना सनकेन च धीमता ।।

सनत्कुमारनाम्ना च नारदेन महात्मना ।। ८ ।।

सनन्दनादिभिश्चान्यैः सेव्यमानो मुनीश्वरैः ।।

सुपर्ववृन्दजुष्टेन स्तूयमानो बिडौजसा ।। ९ ।।

आदित्यादि ग्रहैश्चैव स्तूयमानपदांबुजः ।।

सिद्धैः साध्यैर्मरुद्भिश्च किंनरैश्च समावृतः ।। 3.1.5.१० ।।

गणैः किंपुरुषाणां च वसुभिश्चाष्टभिर्वृतः ।।

उर्वशीप्रमुखानां च स्वर्वेश्यानां मनोरमम् ।। ११ ।।

नृत्यं वादित्रसहितं वीक्ष्यमाणो मुहुर्मुहुः ।।

गोष्ठीं चक्रे सभामध्ये सत्यलोके कदाचन ।। १२ ।।

मेघगर्जितगम्भीरो जनानां नंदयन्मुहुः ।।

वीणावेणुमृदंगानां ध्वनिस्तत्र व्यसर्पत ।। १३ ।।

गंगातरंगमालानां शीकरस्पर्शशीतलः ।।

पवमानः सुखस्पर्शो मन्दं मन्दं ववौ तदा ।। १४ ।।

पर्यायेण तदा सर्वा ननृतुर्देवयोषितः ।।

नृत्यश्रमेण खिन्नासु वेश्यास्वन्यासु सादरम् ।। १५ ।।

अलंबुसा देवनारी रूपयौ वनशालिनी ।।

मदयन्ती जनान्सर्वान्सभामध्ये ननर्त वै ।। १६ ।।

तस्मिन्नवसरे तस्या नृत्यंत्याः संसदि द्विजाः ।।

वस्त्रमाभ्यंतरं वायुर्लीलया समुदक्षिपत् ।। १७ ।।

तत्क्षिप्ते वसने स्पष्टमूरुमूलमदृश्यत ।।

तथाभूतां तु तां दृष्ट्वा सर्वे ब्रह्मादयो ह्रिया ।। १९ ।।

सभामध्ये समासीना निमीलित दृशोऽभवन् ।।

विधूमनामा तु वसुः कामबाणप्रपीडितः ।। १९ ।।

तामेव ब्रह्मभवने दृष्ट्वानिलहृतांशुकाम् ।।

हर्षसंफुल्लनयनो हृष्टरोमा ततोऽभवत् ।। 3.1.5.२० ।।

अलंबुसायां तस्यां तु जातकामं विलोक्य तम् ।।

वसुं विधूमनामानं शशाप चतुराननः ।। २१ ।।

यस्मात्त्वमीदृशं कार्यं विधूम कृतवानसि ।।

तस्माद्धि मर्त्यलोके त्वं मानुषत्वमवाप्स्यसि ।। २२ ।।

इयं च देवयोषित्ते तत्र भार्या भविष्यति ।।

एवं स ब्रह्मणा शप्तो विधूमः खिन्नमानसः ।। २३ ।।

प्रसादयामास वसुर्ब्रह्माणं प्रणिपत्य तु ।।

।। विधूम उवाच ।। ।।

अस्य शापस्य घोरस्य भगवन्भक्तवत्सल ।। २४ ।।

नाहमर्होऽस्मि देवेश रक्ष मां करुणानिधे ।।

एवं प्रसादितस्तेन भारतीपतिरव्ययः ।। २५ ।।

कृपया परया युक्तो विधूमं प्राह सांत्वयन् ।।

।। ब्रह्मोवाच ।। ।।

त्वयि शापोऽप्ययं दत्तो न चासत्यं ब्रवीम्यहम् ।। २६ ।।

ततोऽवधिं कल्पयामि शापस्यास्य तवाधुना ।।

मर्त्यभावं समापन्नः सहालंबुसयाऽनया ।। २७ ।।

तत्र भूत्वा महाराजः शासयित्वा चिरं महीम् ।।

पुत्रमप्रतिमं त्वस्यां जनयित्वा महीपतिम् ।। २८ ।।

अभिषिच्य च राज्ये तं राज्यरक्षाविचक्षणम् ।।

एतच्छापस्य शांत्यर्थं दक्षिणस्योदधेस्तटे ।।

फुल्लग्रामसमीपस्थे चक्रतीर्थे महत्तरे ।। २९ ।।

अनया भार्यया सार्द्धं यदा स्नानं करिष्यसि ।।

तदा त्वं मानुषं भावं जीर्णत्वचमिवोरगः ।। 3.1.5.३० ।।

विसृज्य भार्यया सार्द्धं स्वं लोकं प्रतिपत्स्यसे ।।

चक्रतीर्थे विना स्नानं न नश्येच्छाप ईदृशः।।३१।।

इति ब्रह्मवचः श्रुत्वा विधूमो नातिहृष्टवान् ।।

स्ववेश्म प्राविशत्तूर्णमामंत्र्य चतुराननम्।।३२।।

चिंतयामास तत्रासौ मर्त्यतां यास्यतो मम।।

को वा पिता भवेद्भूमौ का वा माता भविष्यति।।३३।।

बहुधेत्थं समालोच्य विधूमो निश्चिकाय सः।।

कौशांबीनगरे राजा शतानीक इति श्रुतः ।।३४।।

अस्ति वीरो महाभागो भार्या चापि पतिव्रता ।।

तस्य विष्णुमतीनाम विष्णोः श्रीरिव वल्लभा ।।३५।।

तमेव पितरं कृत्वा मातरं च विधाय ताम् ।।

संभविष्यामि भूलोके स्वकर्मपरिपाकतः ।।३६।।

ततः स माल्यवन्तं च पुष्पदंतं बलोत्कटम्।।

त्रीनाहूयात्मनो भृत्यान्वृत्तमेतन्न्यवे दयत् ।। ३७ ।।

भृत्याः शृणुत भद्रं वो ब्रह्मशापान्महाभयात् ।।

जनिष्यामि शतानीकाद्विष्णुमत्यामहं सुतः ।। ३८ ।।

इति श्रुत्वा वचो भृत्यास्तस्या प्राणा बहिश्चराः ।।

वाष्पपूर्णमुखाः सर्वे विधूमं वाक्यमब्रुवन् ।।३९ ।।

।। भृत्या ऊचुः ।। ।।

त्वद्वियोगं वयं सर्वे त्रयोऽपि न सहामहे ।।

तस्मान्मानुष भावत्वमस्माभिः सह यास्यसि ।। 3.1.5.४० ।।

शतानीकस्य राजर्षेर्मंत्री योऽयं युगन्धरः ।।

सेनानीर्विप्रतीकश्च योऽयं प्राग्रसरो रणे ।।४१।।

नर्मकर्मसु हृद्विप्रो वल्लभाख्यो महांश्च यः ।।

तेषां पुत्रास्त्रयोऽप्येते भविष्यामो न संशयः ।। ४२ ।।

शतानीकस्य राजर्षेः पुत्रभावं गतस्य ते ।।

शुश्रूषां संविधास्यामस्तेषु तेषु च कर्मसु ।।

तानेवंवादिनः सोऽयं विधूमो वाक्यमब्रवीत् ।। ४३ ।।

।। विधूम उवाच ।। ।।

जानेऽहं भवतां स्नेहं तादृशं मय्य नुत्तमम् ।। ४४ ।।

तथापि कथयाम्यद्य तच्छृणुध्वं हितं वचः ।।

ब्रह्मशापेन घोरेण स्वेन दुष्कर्मणा कृतम्।। ४५ ।।

कुत्सितं मानुषं भावमहमेकोऽनुवर्तये ।।

विहितं न हि युष्माकमेतच्छापानुवर्तनम् ।। ४६ ।।

जुगुप्सितेऽतो मानुष्ये मा कुरुध्वं मनोऽधुना ।।

अतः शापावधिर्यावन्मद्वियोगो विषह्यताम् ।। ४७ ।।

इत्युक्तवन्तं ते सर्वे माल्यवत्प्रमुखास्तदा ।।

ऊचुः प्रणम्य शिरसा प्रार्थयंतः पुनःपुनः ।। ४८ ।।

रक्षित्वा कृपया ह्यस्मान्मा कुरुष्व च साहसम् ।।

परित्यजसि नः सर्वान्भक्तानद्य निरागसः ।। ४९ ।।

त्वद्वियोगान्महाघोरान्मानुष्यमपि कुत्सितम् ।।

बहु मन्यामहे देव तस्मान्नस्त्राहि सांप्रतम् ।। 3.1.5.५० ।।

एवं स याचमानांस्त्रीनन्वमन्यत भृत्यकान् ।।

तैस्त्रिभिः सहितः सोऽयं कौशांबीं गन्तुमैच्छत ।। ५१ ।।

एतस्मिन्नेव काले तु सोमवंशविवर्द्धनः ।।

अर्जुनाभिजने जातो जनमेजयसंभवः ।। ५२ ।।

शतानीको महीपालः पृथिवीमन्वपालयत् ।।

बुद्धिमान्नीतिमान्वाग्मी प्रजापालनतत्परः ।। ५३ ।।

चतुरंगबलोपेतो विक्रमैकधनो युवा ।।

स कौशांबीं महाराजो नगरीमध्युवास वै ।। ५४ ।।

तस्य मन्त्ररहस्यज्ञो मन्त्री जातो युगंधरः ।।

सेनानीर्विप्रतीकश्च तस्य प्राग्रसरो रणे ।। ५५ ।।

नर्मकर्मसु तस्यासीद्वल्लभाख्यः सखा द्विजः ।।

तस्य विष्णुमती नाम विष्णोः श्रीरिव वल्लभा ।। ५६ ।।

स सर्वगुणसंपन्नः शतानीको महामतिः ।।

पुत्रमात्मसमं तस्यां भार्यायां नान्वविंदत ।। ५७ ।।

आत्मानमसुतं ज्ञात्वा स भृशं पर्यतप्यत ।।

स युगंधरमाहूय मंत्रिणं मन्त्रवित्तमम् ।। ५८ ।।

पुत्रलाभः कथं मे स्यादिति कार्यममन्त्रयत् ।।

युगन्धरो मही पालं पुत्रालाभेन पीडितम् ।।

हर्षयन्वचसा स्वेन वाक्यमेतदभाषत ।। ५९ ।।

।। युगन्धर उवाच ।। ।।

अस्ति शांडिल्यनामा तु महर्षिः सत्यवाक्छुचिः ।। 3.1.5.६० ।।

शत्रुमित्रसमो दांतस्तपःस्वाध्यायतत्परः ।।

तमेव मुनिमासाद्य ज्वलंतमिव पावकम् ।। ६१ ।।

पुत्रमात्मसमं राजन्प्रार्थयेथा विनीतवत् ।।

कृपावान्स महर्षिस्तु पुत्रं ते दास्यति ध्रुवम् ।। ६२ ।।

इति तद्वचनं श्रुत्वा हर्षसंफुल्ललोचनः ।।

मंत्रिणा तेन संयुक्तस्तस्यागादाश्रमं मुनेः ।। ६३ ।।

तमाश्रमे समासीनं प्रणनाम महीपतिः ।।

शांडिल्यस्तु महातेजा राजानं प्राप्तमाश्रमम् ।। ६४ ।।

दृष्ट्वा पाद्यादिभिः पूज्य स्वागतं व्याजहार सः ।।

।। शांडिल्य उवाच ।। ।।

शतानीक किमर्थं त्वमाश्रमं प्राप्तवान्मम ।। ६५ ।।

यत्कर्तव्यमिदानीं ते तद्वदस्व करोम्यहम् ।।

मुनिमेवं वदंतं तं प्रत्यवादीद्युगंधरः ।। ६६ ।।

भगवन्नेष वै राजा पुत्रालाभेन कर्षितः ।।

भवंतं शरणं प्राप्तः सांप्रतं पुत्रकारणात् ।। ६७ ।।

अस्यापुत्रत्वजं दुःखं त्वमपाकर्तुमर्हसि ।।

इति तस्य वचः श्रुत्वा शांडिल्यो मुनिसत्तमः ।।६८।।

पुत्रलाभवरं तस्मै प्रतिजज्ञे नृपाय वै ।।

स राज्ञो वरदः श्रीमान्कौशांबीमेत्य सादरम् ।। ६९ ।।

पुत्रेष्ट्या पुत्रकामस्य याजकोऽभून्महामुनिः ।।

ततो मुनिप्रसादेन राजा दशरथोपमः ।। 3.1.5.७० ।।

यज्वा राममिव प्राप सहस्रानीकमात्मजम् ।।

एवं विधूमः संजज्ञे शतानीकान्नृपोत्तमात् ।। ७१ ।।

अत्रांतरे मंत्रिवरस्सेनानीस्तु महीपतेः ।।

द्विजो नर्मवयस्यश्च पुत्रान्प्रापुः कुलोचितान् ।। ७२ ।।

पुत्रो युगंधरस्यासीन्माल्यवान्नाम भृत्यकः ।।

यौगंधरायणो नाम्ना मन्त्रशास्त्रेषु कोविदः ।। ।। ७३ ।।

विप्रतीकस्य तनयः पुष्पदन्तो बभूव ह ।।

रुमण्वानिति विख्यातः परसैन्यविमर्दनः ।। ७४ ।।

वल्लभस्य तदा जज्ञे तनयो वै बलोत्कटः ।।

वसंतक इति ख्यातो नर्मकर्मसु कोविदः ।। ७५ ।।

अथ ते ववृधुः सर्वे राजपुत्रपुरोगमाः ।।

पञ्चहायनतां तेषु यातेषु तदनंतरम् ।। ७६ ।।

अलंबुसापि स्वर्वेश्या भूपतेः कृतवर्मणः ।।

अयोध्यायां महापुर्यां कन्या जाता मृगावती ।। ७७ ।।

एवं विधूममुख्यास्ते जज्ञिरे क्षितिमण्डले ।।

अत्रांतरे महासत्त्वो दुष्टसानुचरो बली ।। ७८ ।।

अहिदंष्ट्र इति ख्यातो महादैत्यो बलोत्कटः ।।

युक्तः स्थूलशिरोनामा सहायेन दुरात्मना ।।७९।।

रुरोध देवनगरं बबाध विबुधानपि ।।

वर्तमाने दिवि महासमरे सुररक्षसाम् ।। 3.1.5.८० ।।

आनिनाय शतानीकं सहायार्थं पुरंदरः ।।

स यौवराज्ये तनयं विधाय विधिना नृपः ।। ८१ ।।

प्रतस्थे रथमास्थाय युद्धाय दितिजैः सह ।।

नीतो मातलिनाभ्येत्य सादरं स धनुर्धरः ।। ८२ ।।

विधाय प्रेक्षकान्देवाञ्जघान दितिजान्रणे ।।

अथ दैत्याधिपः सोऽपि निहतः समरे दिवि ।। ८३ ।।

ततः शक्रस्य वचसा परेतं नृपपुंगवम् ।।

रथमारोप्य सहसा कौशांबीं मातलिर्ययौ ।। ८४ ।।

नीत्वा महीतलमसौ तत्सुताय न्यवेदयत् ।।

ततः सहस्रानीकोपि विलप्य वहुदुखितः ।। ८५ ।।

मंत्रिभिः सह संभूय प्रेतकार्यं न्यवर्तयत् ।।

मृतं ज्ञात्वा पतिं राज्ञी सहैवानुममार च ।। ८६ ।।

महिष्या सह संप्राप्ते भूपाले कीर्तिशेषताम् ।।

भेजे राज्यं शतानीकतनयो मंत्रिणां गिरा ।। ८७ ।।

युगन्धरे विप्रतीके वल्लभे च मृते सति ।।

यौगन्धरायणमुखास्तत्पुत्राः सर्व एव हि ।। ८८ ।।

शतानीक सुतस्यास्य तत्तत्कार्यमकुर्वत ।।

एवं स पालयामास महीं राजसुतो बली ।। ८९ ।।

याते काले महेन्द्रेण सनन्दनमहोत्सवे ।।

निमंत्रितस्तत्कथितां भाविनीमशृणोत्कथाम् ।। 3.1.5.९० ।।

स्वर्योषिद्ब्रह्मणः शापादयोध्यायायामलंबुसा ।।

जाता मृगावती कन्या भूपतेः कृतवर्मणः ।। ९१ ।।

विधूम नामा च वसुस्त्वं नाकललनां पुरा ।।

तामेव ब्रह्मसदने दृष्ट्वानिलहृतांशुकाम् ।। ९२ ।।

तदैव मादनाक्रांतः शापान्मर्त्यत्वमागतः ।।

सैव ते दयिता राजन्भाविनी न चिरात्सखे ।। ९३ ।।

यदा त्वमात्मनः पुत्रं राज्ये संस्थाप्य भूपते ।।

मृगावत्या स्त्रिया सार्द्धं दक्षिणस्योदधेस्तटे ।। ९४ ।।

चक्रतीर्थे महापुण्ये फुल्लग्रामसमीपतः ।।

स्नानं करिष्यसि तदा शापान्मुक्तो भविष्यसि ।। ९५ ।।

इति प्रोवाच भगवन्सत्यलोके पितामहः ।।

इतींद्रवचनं श्रुत्वा सहस्रानीकभूपतिः ।। ९६ ।।

तथोद्वाहकृतोत्साहः समामंत्र्य शचीपतिम् ।।

कौशांबीं प्रस्थितो हृष्टः स तिलोत्तमया पथि ।। ।। ९७ ।।

स्मरन्किमपि तां कांतां भाषमाणामनन्यधीः ।।

ध्यायञ्छतक्रतुवचो नालुलोके महीपतिः ।। ९८ ।।

सा शशाप नृपं सुभ्रूरनादरतिर स्कृता ।।

आहूयमानोपि मया सहस्रानीक भूपते ।। ९९ ।।

मृगावतीं हृदा ध्यायन्किमर्थं मामुपेक्षसे ।।

सौभाग्यमत्ता मानिन्यो न सहंतेऽवधीर णाम्।। 3.1.5.१०० ।।

मामवज्ञाय यां राजन्हृदा ध्यायसि सांप्रतम् ।।

तया चतुर्दशसमा वियुक्तस्त्वं भविष्यसि ।। १०१ ।।

इति शप्तवतीं राजा तामु वाच तिलोत्तमाम्।।

तामेव यदि लभ्येयं तनुजां कृतवर्मणः ।। १०२ ।।

चतुर्दशसमा दुःखं सहिष्ये तद्वियोगजम्।।

इत्युक्त्वा तद्गतमना नृपः प्राया न्निजां पुरीम् ।। १०३ ।।

ततः कालेन तनया भूपतेः कृतवर्मणः ।।

तमाससाद दयिता सर्वस्वं पुष्पधन्वनः ।। १०४ ।।

मृगावती समासाद्य विला सतरुवल्लरीम्।।

विभ्रमांभोधिलहरीं ननंद मदनद्युतिः ।। १०५ ।।

सा तस्माद्गर्भमाधत्त भवानीवेंदुशेखरात् ।।

पांडिम्ना शशिलेखेव पीपूषक्षालिता बभौ ।। १०६ ।।

सुन्दरी दौर्हृदव्यक्तेरथ पौरंदरीव दिक् ।।

रराज राजमहिषी रजनीकरगर्भिणी ।। १०७ ।।

सा दौर्हृदवशाद्राज्ञी यंयं काममकाम यत् ।।

सुदुर्लभमपिप्रेम्णा तत्तत्सर्वं समाहरत् ।। १०८ ।।

पत्यौ समीहितकरे सा कदाचिन्मृगावती ।।

स्वेच्छया वै मतिं चक्रे रक्तवापीनिमज्जने ।। १०९ ।।

अभिलाषं सविज्ञाय मृगावत्या महीपतिः ।।

कौसुम्भसलिलैः पूर्णां क्षणाद्वापीमकारयत् ।। 3.1.5.११० ।।

तस्मिन्रक्तजले राज्ञी स्नानं सादरमातनोत्।।

ततस्तां रक्ततोयार्द्रां फुल्लकिंशुकसन्निभाम्।।१११।।

राजस्त्रीमामिषधिया सुपर्णकुलसंभवः।।

जहार विकटः पक्षी मुग्धां दग्धविधेर्वशात्।। ।।११२।।

नीत्वा विहायसा दूरं स तामचलसन्निभः।।

तत्याजमोहविवशामुदयाचलकंदरे।।११३।।

लब्धसंज्ञा शनैः कंपविलोलतनुवल्लरी।।

दृग्भ्यामुत्पलतुल्याभ्यां मुहुरश्रूण्यवर्तयत्।।११४।।

हा नाथ मंदभाग्याहं त्वद्वियोगेनपीडिता।।

का गतिः क्व नु गच्छामि द्रक्ष्यामि त्वन्मुखं कदा।।११५।।

इत्युक्त्वा गजसिंहानां पुरोभूद्वधकांक्षिणी ।।

सा सर्वकेसरिगजैस्त्यक्ता न निधनं गता।।११६।।

आपत्काले नृणां नूनं मरणं नैव लभ्यते।।

अतिदीनं समाकर्ण्य तस्याः क्रंदितमुन्मुखाः।।११७।।

मृगा निष्पंदगतयो न तृणान्यप्यभक्षयन्।।

ततस्तां करुणासिंधुर्मुनिपुत्रस्तथास्थिताम्।।११८।।

रुदतीं कृपया राज्ञीं समानीय स्वमाश्रमम् ।।

न्यवेदयच्च तां राज्ञीं गुरवे जमदग्नये ।।

जमदग्निस्तु धर्मात्मा तामाश्वासयदंतिके ।। ११९ ।।

।। जमदग्निरुवाच ।। ।।

तथा जानीहि मां भद्रे कृतवर्मा यथा तव ।। 3.1.5.१२० ।।

एवमाश्वासिता तत्र कृपया जमदग्निना ।।

चक्रे तत्रैव सा वासमाश्रमे मुनिसंकुले ।। १२१ ।। ।

ततस्स्वल्पेन कालेन विशाखमिव पार्वती ।।

असूत तनयं बाला शौर्यधैर्यगुणान्वितम् ।। १२२ ।।

सूतिकागृहकृत्यानि यानि कार्याणि बंधुभिः ।।

चक्रिरे मातृवत्तानि मृगावत्या मुनिस्त्रियः ।। १२३ ।।

तं सुजातं नृपसुतं कापि वागशरीरिणी ।।

उदयाचलजातत्वाच्चकारोदयनाभिधम्।। ।। १२४ ।।

आश्रमे स मुनीन्द्रेण कृतचूडादिकव्रतः ।।

जग्राह सकला विद्या जमदग्नेर्महामुनेः ।।१२५।।

युवा नृपसुतः सोऽयं कदाचिन्मृगयापरः ।।

अपश्यदेकं भुजगं व्याधेन दृढसंयतम् ।। १२६ ।।

उवाच स कृपायुक्तो व्याध मुंच भुजंगमम् ।।

किं करिष्यस्यनेन त्वं नैनं हिंसितुर्महसि ।।१२७।।

तमुवाच ततो व्याधः सर्पेणानेन पूरुष ।।

धनधान्यादिकं लप्स्ये ग्रामेषु नगरेषु च ।। १२८ ।।

अतोहं जीविकामेनं नैव मोक्ष्ये कथंचन ।।

इत्युक्त्वा पेटिकायां तं वबंध शबराधमः ।। १२९ ।।

बद्धमालोक्य भुजगं शबराय धनार्थिने ।।

अमोचयत्स्वजननीदत्तं दत्त्वा स कंकणम् ।। 3.1.5.१३० ।।

मोचितस्तेन सर्पोऽसौ नरो भूत्वा कृतांजलिः ।।

सख्यं कृत्वा च सहसा तं पातालं निनाय वै ।। १३१ ।।

किन्नराख्येन नागेन धृतराष्ट्रसुतेन सः।।

पातालं प्राविशत्तत्र न्यवसत्पूजितस्सुखम् ।। १३२ ।।

धृतराष्ट्रस्य तनयां भगिनीं किन्नरस्य च ।।

ललिताख्यां गुणोपेतां प्रियां भेजे नृपात्मजः ।। ।। १३३ ।।

सा तस्माज्जनयामास पुत्रमप्रतिमौजसम् ।।

ततः सा ललिता प्राह त्वरितोदयनं प्रति ।। १३४ ।।

।। ललितोवाच ।। ।।

अहं विद्या धरी पूर्वं सुकर्णी नाम नामतः ।।

शापात्सर्पत्वमाप्तास्मि शापांतो गर्भ एष मे ।। १३५ ।।

ततोऽमुं प्रतिगृह्णीष्व पुत्रमप्रतिमौजसम् ।।

तांबूलीं स्रजमम्लानां वीणां घोषवतीमपि ।। १३६ ।।

तथेति प्रतिजग्राह तत्सर्वं नृपनंदनः.।।

पश्यतां सर्वसर्पाणां साप्यगच्छद्विहायसम् ।। १३७ ।।

ततः सोऽपि गृहीत्वा तु वीणां मालां च पुत्रकम् ।।

दुःखितामात्मजननीं द्रष्टुकामस्त्वरान्वितः ।। १३८ ।।

श्वशुरादीननुज्ञाप्य सहसा स्वाश्रमं ययौ ।।

जननीं शोकसंतप्तामाश्वस्तां जमदग्निना ।। १३९ ।।

समेत्य तोषयामास वृत्तं चास्यै न्यवेदयत् ।।

तदा प्रहृष्टहृदया सा बभूव मृगावती ।। 3.1.5.१४० ।।

अत्रांतरे स शबरः कौशांब्यां वणिजं ययौ ।।

सहस्रानीकनामांकं विक्रेतुं मणिकंकणम्।।१४१।।

राजमुद्रां समालोक्य कंकणे स वणिग्वरः ।।

शबरेण समं गत्वा सर्वं राज्ञे न्यवेदयत्।।१४२।।

ततः सहस्रानीकोऽयं तत्प्राप्य मणिकंकणम् ।।

मृगावतीविप्रयोगविषाग्निपरिपीडितः ।। १४३ ।।

तद्बाहुसंगपीयूष शीकरासारशीतलम्।।

कंकणं हृदये न्यस्य विललाप सुदुःखितः ।। १४४ ।।

उवाच च कथं लब्धं कंकणं शबर त्वया ।।

स चैवमुक्तस्तत्प्राप्ति क्रमं तस्मै न्यवेदयत् ।। १४५ ।।

शबरस्य वचः श्रुत्वा सहस्रानीकभूपतिः ।।

प्रतस्थे मंत्रिभिः सार्द्धं प्रियालोकनकौतुकी ।। १४६ ।।

यत्रेंदुभास्क रमुखा लभंते सहसोदयम् ।।

तमेव गिरिमुद्दिश्य सहसा सोऽभ्यगच्छत ।। १४७ ।।

किंचिन्मार्गं समुल्लंघ्य तस्थौ विश्रांतसैनिकः ।।

तस्मिन्विनिद्रे दयितासंगमध्यानतत्परे ।। १४८ ।।

वसंतको विचित्रास्तु कथयामास वै कथाः ।।

तत्कथाश्रवणेनैव तां रात्रिं स निनाय वै ।। १४९ ।।

ततः कालेन ककुभं प्राप्य जंभारिपालिताम् ।।

जमदग्न्याश्रमं गत्वा निर्वैरहरिकुंजरम् ।। 3.1.5.१५० ।।

तपस्यंतं मुनिं दृष्ट्वा शिरसा प्रणनाम सः ।।

आशीर्वादेन स मुनिः प्रतिजग्राह तं नृपम् ।। १५१ ।।

विधिवत्पूजयामास पाद्यार्घ्याचमनीयकैः ।।

उवाच च महीपालं धर्मार्थसहितं वचः ।। १५२ ।।

नरनाथ मृगावत्यां जातोऽयं तनयस्तव ।।

यशोनिधिर्महातेजा रामचंद्र इवापरः ।। १९३ ।।

भविष्यति दिशां जेता सिंहसंहननो युवा ।।

पौत्र एष महाभाग तथा द्युदयनात्मजः ।। १५४ ।।

इयं मृगावती भार्या पाति व्रत्यपरायणा ।।

तदेतांस्त्रीन्महाराज प्रतिगृह्णीष्व मा चिरम् ।। १५५ ।।

उक्त्वैवं मुनिना दत्तांस्तान्गृहीत्वा महीपतिः ।।

प्रियासहायः स्वपुरीं प्रतस्थे मंत्रिभिर्वृतः ।। १५६ ।।

ततः प्रविश्य कौशांबीं नगरीं स नृपोत्तमः ।।

स्मरञ्छक्रस्य वचनं मानुषं जन्म कुत्सयन् ।। १५७ ।।

महीमुदयनायैव ददौ पुत्राय धीमते ।।

तस्मिन्नुदयने पुत्र राज्यपालनदक्षिणे ।।१५८।।

राज्यभारं विनिक्षिप्य स शापविनिवृत्तये।।

वसंतकरुमण्वद्भ्यां मृगावत्या च भार्यया ।। १५९।।

यौगन्धरायणेनापि मंत्रिपुत्रेण संयुतः ।।

चक्रतीर्थे महापुण्ये दक्षिणस्योदधेस्तटे ।। 3.1.5.१६० ।।

स्नानं कर्तुं ययौ तूर्णं सर्वतीर्थोत्त मोत्तमे ।।

वाहनैर्वातरंहोभिरचिराल्लवणोदधिम् ।। १६१ ।।

संप्राप्य चक्रतीर्थं च स्नानं चक्रुर्यथाविधि ।।

तेषु च स्नातमात्रेषु चक्रतीर्थे नृपादिषु ।। ।।१६२।।

विनष्टं तत्क्षणादेव मानुष्यमतिकुत्सितम् ।।

ततो विधूतपापास्ते स्वं रूपं प्रतिपेदिरे ।।१६३।।

दिव्यांबरधराः सर्वे दिव्यमाल्यानुलेपनाः ।।

विमानानि महार्हाणि समारुह्य विभूषिताः ।। १६४ ।।

तत्तीर्थं बहु मन्वानाः स्वशापच्छेदकारणम् ।।

पश्यतां सर्वलोकानां स्वर्गलोकं ययुस्तदा ।। ।।१६५।।

तदाप्रभृति ते सर्वे ज्ञात्वा तत्तीर्थवैभवम् ।।

पावने चक्रतीर्थेऽस्मिन्स्नानं कुर्वंति सर्वदा ।।१६६।।

एवं प्रभावं तत्तीर्थं ये समागत्य मानवाः ।।

स्नानं सकृच्च कुर्वंति ते सर्वे स्वर्गवासिनः ।। १६७ ।।

एवं वः कथितं विप्रा विधूमचरितं महत् ।।

यः पठेदिममध्यायं शृणुयाद्वा समाहितः ।।

यं यं कामयते कामं तं सर्वं शीघ्रमाप्नुयात्।। १६८ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्ये चक्रतीर्थप्रशंसायामलंबुसाविधूमशापविमोचनंनाम पञ्चमोऽध्यायः ।। ५ ।। ।। छ ।।

तुलनीय - कथासरित्सागरे उदयनस्य जन्मकथा

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 6

।। ऋषय ऊचुः ।। ।।

द्वैपायनविनेय त्वं सूत पौराणिकोत्तम ।।

देवीपत्तनपर्यंतं चक्रतीर्थमनुत्तमम् ।। १ ।।

इत्यब्रवीः पुरास्माकमतः पृच्छाम किंचन ।।

देवीपुरं हि तत्कुत्र यदन्तं चक्रतीर्थकम् ।। २ ।।

देवीपत्तन मित्याख्या कथं तस्याभवत्तथा ।।

श्रीरामसेतुमूले च स्नातानां पापिनामपिः।। ३ ।।

कीदृशं वा भवेत्पुण्यं चक्रतीर्थे तथैव च ।।

एतच्चान्यान्विशे षांश्च ब्रूहि पौराणिकोत्तम ।। ४ ।।

।। श्रीसूत उवाच ।। ।।

सर्वमेतत्प्रवक्ष्यामि शृणुध्वं मुनिपुंगवाः ।।

पठतां शृण्वतां चैतदाख्यानं पापनाश नम् ।। ५ ।।

यत्र पाषाणनवकं स्थापयित्वा रघूद्वहः ।।

बबन्ध प्रथमं सेतुं समुद्रे मैथिलीपतिः ।। ६ ।।

देवीपुरं तु तत्रैव यदन्तं चक्रतीर्थकम् ।।

देवीपत्तनमित्याख्या यथा तस्य समागता ।। ।७ ।।

तद्ब्रवीमि मुनिश्रेष्ठाः शृणुध्वं श्रद्धया सह ।।

पुरा देवासुरे युद्धे देवैर्नाशितपुत्रिणी ।।

दितिः प्रोवाच तनयामात्मनः शोकमोहिता ।। ८ ।।

।। दितिरुवाच ।। ।।

याहि पुत्रि तपः कर्तुं तपोवनमनुत्तमम्।। ९ ।।

पुत्रार्थं तव सुश्रोणि नियता नियतेन्द्रिया ।।

इन्द्रादयो न शिष्येरन्येन पुत्रेण वै सुराः ।। 3.1.6.१० ।।

उदिता तनया चैवं जनन्या तां प्रणम्य सा ।।

स्वीकृत्य माहिषं रूपं वनं पञ्चाग्निमध्यगा ।। ११ ।।

तपोऽतप्यत सा घोरं तेन लोकाश्चकंपिरे ।।

तस्यां तपः प्रकुर्वंत्यां त्रिलोक्यासीद्भयातुरा ।। १२ ।।

इन्द्रादयः सुर गणा मोहमापुर्द्विजोत्तमाः ।।

सुपार्श्वस्तपसा तस्या मुनिः क्षुब्धोऽवदत्तु ताम् ।। १३ ।।

।। सुपार्श्व उवाच ।। ।।

परितुष्टोऽस्मि सुश्रोणि पुत्रस्तव भविष्यति ।।

मुखेन महिषाकारो वपुषा नररूपवान् ।। १४ ।।

महिषो नामपुत्रस्ते भविष्यत्यतिवीर्यवान् ।।

पीडयिष्यति यः स्वर्गं देवेन्द्रं च ससैनिकम् ।। १५ ।।

सुपार्श्वस्त्वेवमुक्त्वा तां विनिवार्य तपस्तथा ।।

आगच्छदात्मनो लोकमनुनीय तपस्विनीम् ।। १६ ।।

अथ जज्ञे स महिषो यथोक्तं ब्रह्मणा पुरा ।।

व्यवर्द्धत महावीर्यः पर्वणीव महोदधिः ।। १७ ।।

ततः पुत्रो विप्रचित्तेर्विद्युन्माल्यसुराग्रणीः ।।

अन्येऽप्यसुरवर्यास्ते संति ये भूतले द्विजाः ।। १८ ।।

ते सर्वे महिषस्यास्य श्रुत्वा दत्तवरं मुदा ।।

समागम्य मुनिश्रेष्ठाः प्रावदन्महिषासुरम् ।। १९ ।।

स्वर्गाधिपत्यमस्माकं पूर्व मसीन्महामते ।।

देवैर्विष्णुं समाश्रित्य राज्यं नो हृतमोजसा ।। 3.1.6.२० ।।

तद्राज्यमानय वलादस्माकं महिषासुर ।।

वीर्यं प्रकटयस्वाद्य प्रभावमपि चात्मनः ।।२१।।

अतुल्यबलवीर्यस्त्वं ब्रह्मदत्तवरोद्धतः।।

पुलोमजापतिं युद्धे जहि देवगणैः सह।।२२।।

दनुजैरेवमुक्तोऽसौ योद्धुकामोऽमरैः सह।।

महा वीर्योऽथ महिषः प्रययावमरावतीम् ।।२३।।

देवानामसुराणां च संवत्सरशतं रणम् ।।

पुरा बभूव विप्रेंद्रास्तुमुलं रोमहर्षणम्।। २४ ।।

देववृन्दं ततो भी त्या पुरस्कृत्य पुरन्दरम्।।

कांदिशीकमभूद्विप्रा ब्रह्माणं च ययौ तदा ।। २५ ।।

ब्रह्मा तानमरासर्वान्समादाय ययौ पुनः।।

नारायणशिवौ यत्र वर्तेते विश्वपालकौ ।।२६।।

तत्र गत्वा नमस्कृत्य स्तुत्वा स्तोत्रैरनेकशः ।।

ब्रह्मा निवेदयामास महिषासुरचेष्टितम् ।। २७ ।।

सुराणामसुरैः पीडां देवयोः शंभुकृष्णयोः ।।

इंद्राग्नियमसूर्येंदुकुबेरवरुणादिकान् ।। २८ ।।

निराकृत्याधिकारेषु तेषां तिष्ठत्ययं स्वयम् ।।

अन्येषां देववृंदानामधिकारेपि तिष्ठति ।। २९ ।।

निरस्तं देववृंदं तत्स्वर्लोकादवनीतले ।।

मनुष्यवद्विचरते महिषासुरबाधितम् ।। 3.1.6.३० ।।

एतज्ज्ञापयितुं देवौ युवयोरहमागतः।।

सार्द्धं देव गणैरत्र रक्षतं तान्समागतान् ।। ३१ ।।

ब्रह्मणो वचनं श्रुत्वा रमेश्वरमहेश्वरौ ।।

कोपात्करालवदनौ दुष्प्रेक्ष्यौ तौ बभूवतुः ।। ३२ ।।

अत्यन्तकोपज्वलितान्मुखाद्विष्णोरथ द्विजाः ।।

निश्चक्राम महत्तेजः शंभोः स्रष्टुस्तथैव च ।। ३३ ।।

अपरेषां सुराणां च देहादिंद्रशरीरतः ।।

तेजः समुदभूत्क्रूरं तदेकं समजायत ।। ३४ ।।

तेषां तु तेजसां राशिर्ज्वलत्पर्वतसंनिभः ।।

ददृशे देववृंदैस्तैर्ज्वालाव्याप्तदिगंतरः ।। ३५ ।।

तेजसां समुदायोऽसौ नारी काचि दभूत्तदा ।।

शिवतेजो मुखमभूद्विष्णुतेजो भुजौ द्विजाः ।। ३६ ।।

ब्रह्मतेजस्तु चरणौ मध्यमैंद्रेण तेजसा ।।

यमस्य तेजसा केशाः कुचौ चंद्रस्य तेजसा ।। ३७ ।।

जंघोरू कल्पितौ विप्रा वरुणस्य तु तेजसा ।।

नितंबः पृथिवीतेजः पादांगुल्योऽर्कतेजसा ।। ३८ ।।

करांगुल्यो वसूनां च तेजसा कल्पितास्तथा ।।

कुबेरतेजसा विप्रा नासिकापरिकल्पिता ।। ३९ ।।

नवप्रजापतीनां च तेजसा दंतपंक्तयः ।।

चक्षुर्द्वयं समजनि हव्यवाहनतेजसा ।। ।। 3.1.6.४० ।।

उभे संध्ये भ्रुवौ जाते श्रवणे वायुतेजसा ।।

इतरेषां च देवानां तेजोभिरतिदारुणैः ।। ४१ ।।

कृतान्यावयवा नारी दुर्गा परमभास्वरा ।।

बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ।। ४२ ।।

सर्ववृंदारकानीकतेजःसंघसमुद्भवा ।।

तां दृष्ट्वा प्रीतिमापुस्ते देवा महिषबाधिताः ।। ४३ ।।

ततो रुद्रा दयो देवा विनिष्कृष्यायुधान्निजात् ।।

आयुधानि ददुस्तस्यै शूलादीनि द्विजोत्तमाः ।। ४४ ।।

भूषणानि ददुस्तस्यै वस्त्रमाल्यानि चंदनम् ।।

सापि देवी तदा वस्त्रैर्भूषणैश्चंदनादिभिः ।। ४५ ।।

कुसुमैरायुधैर्हारैर्भूषिता परिचारकैः ।।

साट्टहासं प्रमुंचंती भैरवी भैरवस्वना ।। ४६ ।।

ननाद कंपयतीव रोदसी देवसेविता ।।

देव्या भैरवनादेन चचाल सकलं जगत् ।। ४७ ।।

सिंहवाहनमारूढां देवीं ताममरास्तदा ।।

मुनयः सिद्धगंधर्वास्तुष्टुवुर्जयश ब्दतः ।। ४९ ।।

अतिभीषणनादेन देव्याः क्षुब्धं जगत्त्रयम् ।।

दृष्ट्वा देवारयो दैत्याः समुत्तस्थुरुदायुधाः ।। ४९ ।।

महिषोऽपि महाक्रोधात्समुद्यत महायुधः ।।

तं शब्दमवलक्ष्याथ ययावसुरसंवृतः ।। 3.1.6.५० ।।

व्यलोकयत्ततो देवीं तेजोव्याप्तजगत्त्रयीम् ।।

सायुधानंतबाह्वाढयां नादकंपितभूतलाम् ।। ५१ ।।

क्षोभिताशेषशेषादिमहानागपरंपराम् ।।

विलोक्य देवीमसुराः समनह्यन्नुदायुधाः ।। ५२ ।।

ततो देव्या तया सार्द्धमसुराणामभूद्रणः ।।

अस्त्रैः शस्त्रैः शरैश्चक्रैर्गदाभिर्मुसलैरपि ।। ५३ ।।

गजाश्वरथपादातैरसंख्येयैर्महावलः ।।

महिषो युयुधे तत्र देव्या साकमरिंदमः ।। ५४ ।।

लक्षको टिसहस्राणि प्रधानासुरयूथपाः ।।

एकैकस्य तु सेनायास्तेषां संख्या न विद्यते ।। ५५ ।।

ते सर्वे युगपद्देवीं शस्त्रैरावव्रुरोजसा ।।

सापि देवी ततो भीमा दैत्यमुक्तास्त्रसंचयम् ।। ५६ ।।

बिभेद लीलया बाणैः स्वकार्मुकविनिःसृतैः ।।

ससर्ज दैत्यकायेषु बाणपूगान्यनेकशः ।। ५७ ।।

देव्याश्रयबला द्देवा निर्भया दैत्ययूथपैः ।।

युयुधुः संयुगे शस्त्रैरस्त्रैरप्यायुधांतरैः ।। ५८ ।।

ततो देवा बलोत्सिक्ता देवीशक्त्युपबृंहिताः ।।

निःशेषमसुरान्सर्वानायु धैर्निरमूलयन् ।। ५९ ।।

स्वसैन्ये तु क्षयं याते संक्षुब्धो महिषासुरः ।।

चापमादाय वेगेन विकृष्य च महास्वनम् ।। 3.1.6.६० ।।

संधाय मुमुचे बाणान्देव सैन्येषु भूसुराः ।।

इंद्रे तु दशसाहस्रं यमे पंचसहस्रकम् ।। ६१ ।।

वरुणे चाष्टसाहस्रं कुबेरे षट्सहस्रकम् ।।

सूर्ये चंद्रे च वह्नौ च वायौ वसुषु चाश्विनोः ।। ६२ ।।

अन्येष्वपि च देवेषु महिषो दानवेश्वरः ।।

प्रत्येकमयुतं बाणान्मुमुचे बलिनां वरः ।। ६३ ।।

पलायंते ततो देवा महिषासुरमर्द्दिताः ।।

देवीं शरणमाजग्मुस्त्राहित्राहीतिवादिनः ।। ६४ ।।

ततो देवी गणान्स्वस्य भूतवेतालकादिकान् ।।

यूयं नाशयत क्षिप्रमासुरं बलमित्यशात् ।।। ।। ६५ ।।

अहं तु महिषं युद्धे योधयामि वलोद्धतम् ।।

ततो देव्या गणैः सर्वमासुरं क्षतमाशु वै ।। ६६ ।।।

ततः सैन्यं क्षयं नीते गणै र्देवीप्रचोदितैः ।।

योद्धुकामः स महिषो गणैः साकं व्यतिष्ठत ।। ६७ ।।

अत्रांतरे महानादः सुचक्षुश्च महाहनुः ।।

महाचंडो महाभक्षो महोदरम होत्कटौ ।। ६८ ।।

पञ्चास्यः पादचूडश्च बहुनेत्रः प्रबाहुकः ।।

एकाक्षस्त्वेकपादश्च बहुपादोऽप्यपादकः ।। ६९ ।।

एते चान्ये च बहवो महिषासुर मंत्रिणः ।।

योद्धुकामा रणे देव्याः पुरतस्त्ववतस्थिरे ।। 3.1.6.७० ।।

सिंहं वाहनमारुह्य ततो देवी मनोजवम् ।।

प्रलयांबुदनिर्घोषं चापमादाय भैरवम् ।। ।। ७१ ।।

विस्फोट्य मुमुचे बाणान्वज्रवेगसमान्युधि ।।

दशलक्षगजैश्चापि शतलक्षैश्च वाजिभिः ।। ७२ ।।

शतलक्षै रथैश्चापि लक्षायुतपदातिभिः ।।

युक्तो महाहनुर्दैत्यो देव्या युधि निपातितः ।।७३।।

सैन्ये च तस्य निहता देव्या बाणैर्द्विजोत्तमाः ।।

लक्षकोटिसहस्राणि प्रधानासुरनायकाः ।।७४।।

महिषस्य हि विद्यन्ते महाबलपराक्रमाः ।।

एकैकस्य प्रधानस्य चतुरङ्गबलं तथा ।। ७५ ।।

महाहनोर्यथा विप्रास्तथैवास्ति महद्बलम् ।।

तत्सर्वं निहतं देव्या शरैः कांचनपुंखितैः ।। ७६ ।।

याममात्रेण विप्रेंद्रास्तदद्भुतमिवाभवत् ।। ७७ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये चक्रतीर्थप्रशंसायां देवीपुराभिधानकथने देवीमहिषासुरयुद्धवर्णनं नाम षष्ठोऽध्यायः ।। ६ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 7

।। श्रीसूत उवाच ।। ।।

स्वसैन्यमवलोक्याथ महिषो दानवेश्वरः ।।

हतं देव्या महाक्रोधाच्चंडकोपमथाब्रवीत् ।। १ ।।

।। महिष उवाच ।। ।।

चंडकोप महावीर्य युद्ध्यस्वैनां दुरात्मिकाम् ।।

तथास्त्विति स चोक्त्वाथ चंडकोपः प्रतापवान् ।। २ ।।

अवाकिरद्बाणवर्षैर्देवीं समरमूर्द्धनि ।।

बाणजालानि तस्याशु चंडकोपस्य लीलया ।। ३ ।।

छित्त्वा जघान शस्त्रेण चंडकोपस्य सांबिका ।।

चकर्त वाजिनोऽप्यस्य सारथिं च ध्वजं धनुः ।। ४ ।।

उन्ममाथ रथं चापि तं बाणैर्हृद्यताडयत् ।।

स भग्नधन्वा विरथो हताश्वो हतसारथिः ।। ५ ।।

चंडकोपस्ततो देवीं खड्गचर्मधरोऽभ्यगात् ।।

खड्गेन सिंहमाजघ्ने देव्या वाहं महासुरः ।। ६ ।।

देवीमपि भुजे सव्ये खड्गेन प्रजघान सः ।।

खङ्गो देव्या भुजे सव्ये व्यशीर्यत सहस्रधा ।। ७ ।।

ततः शूले न महता चंडकोपं तदांबिका ।।

जघान हृदये सोऽपि पपात च ममार च ।। ८ ।।

चंडकोपे हते तस्मिन्महावीर्ये महाबले ।।

चित्रभानुर्गजारूढो देवीं तामभ्यधावत ।। ९ ।।

दिव्यां शक्तिं ससर्जाथ महाघंटारवाकुलाम् ।।

न्यवारयत हुंकारैर्देवी शक्तिं निराकुलाम् ।। 3.1.7.१० ।।

ततः शूलेन सा देवी चित्रभानुं व्यदारयत् ।।

मृते तस्मिंस्ततो युद्धे करालो द्रुतमभ्यगात् ।। ११ ।।

करमुष्टिप्रहारेण सोऽपि देव्या निपातितः ।।

ततो देवी मदोन्मत्तं गदया व्यसुमातनोत् ।। १२ ।।

बाष्कलं पट्टिशेनापि चक्रेणापि तथांतिकम् ।।

प्राहिणोद्यमलोकाय दुर्गा देवी द्विजोत्तमाः ।। १३ ।।

एवमन्यान्महाकायान्मंत्रिणो महिषस्य च ।।

शूलेन प्रोथयित्वाथ प्राहिणोद्यमसादनम् ।। १४ ।।

आत्मसैन्ये हते त्वेवं दुर्गया महिषासुरः ।।

माहिषेणाथ रूपेण गणान्देव्या अभक्षयत् ।। १५ ।।

तुण्डेन निजघानैकान्सुराघातैस्तथापरान् ।।

निश्वासवायुभिश्चान्यान्पातयामास रोषितः ।। १६ ।।

देव्या भूतगणं त्वेवं निहत्य महिषासुरः ।।

सिंहं मारयितुं देव्याश्चुक्रोध च ननाद च ।। १७ ।।

ततः सिंहोऽभवत्क्रुद्धो महावीर्यो महाबलः ।।

सुराभि घातनिर्भिन्नमहीतलमहीधरः ।। १८ ।।

महिषासुरमायांतं नखैरेनं व्यदारयत् ।।

चंडिकापि ततः क्रुद्धा वधे तस्याकरोन्मतिम् ।। १९ ।।

बबन्ध पाशैर्महिषं चंडिका कोपमूर्च्छिता।।

मोचयित्वा ततः पाशांस्त्यक्तमाहिषवेषवान्।।3.1.7.२।।।

सिंहवेषोऽभवद्दैत्यो महाबलपराक्रमः।।

देवी तस्य शिरोयावच्छेत्तुं बुद्धिमधारयत्।।२१।।

तावत्स पुरुषो भूत्वा खड्गपाणिरदृश्यत।।

अथ तं पुरुषं देवी खड्गहस्तं शरोत्करैः।।२२।।

जघान तीक्ष्णधाराग्रैः परमर्मविदारणैः ।।

ततः स पुरुषो विप्रा गजोऽभूद्धस्तदन्तवान् ।। २३ ।।

दुर्गाया वाहनं सिंहं करेण विचकर्ष च ।।

ततः सिंहः करं तस्य विचकर्त नखांकुरैः ।। २४ ।।

भूयो महासुरो जातो माहिषं वेषमाश्रितः ।।

ततः क्रुद्धा भद्रकाली महत्पानमसेवत ।। २५ ।।

ततः पानवशा न्मत्ता जहासारुणलोचना ।।

महिषः सोऽपि गर्वेण शृंगाभ्यां पर्वतोत्करान् ।।२६।।

चंडिकां प्रतिं चिक्षेप सा च तानच्छिनच्छरैः ।।

ततो देवी जग न्माता महिषासुरमब्रवीत् ।। २७ ।।

।। देव्युवाच ।। ।।

कुरु गर्वं क्षणं मूढ मधु यावत्पिबाम्यहम् ।।

निवृत्तमधुपानाहं त्वां नयिष्ये यमक्षयम्।। ।।२८।।

हते त्वयि दुराधर्षे मया दैवतकंटके।।

स्वंस्वं स्थानं प्रपद्यंतां सिद्धा साध्या मरुद्गणाः।।२९।।

उक्त्वैवं ताडयामास मुष्टिना महिषासुरम्।।

ताडितोऽयं ततो देव्या महिषो भृशविह्वलः।।3.1.7.३।।।

दक्षिणस्योदधेस्तीरेप्रदुद्राव त्वरान्वितः।।

अनुदुद्राव तं देवी सिंहमारुह्य वाहनम्।।३१।।

अनुद्रुतस्ततो देव्या महिषो दानवेश्वरः।।

धर्मपुष्कीरणीतोये दशयोजनमायते।।३२।।

प्रविश्यांतर्हितस्तस्थौ दुर्गाताडनविह्वलः।।

ततो दुर्गा समासाद्य धर्मपुष्करिणीतटम् ।। ।।३३।।

नददर्शासुरं तत्र महिषं चंडिका तदा ।।

अशरीरा ततो वाणी दुर्गा देवीमभाषत।।३४।।

भद्रकालि महादेवि महिषो दानवस्त्वया ।।

ताडितो मुष्टिना भद्रे धर्मपुष्करिणीजले ।।३५।।

अस्मिन्नंतर्हितः शेते भयार्तो मारयस्व तम् ।।

येनकेनाप्युपायेन चैनं प्राणैर्वियोजय ।।३६।।

एवं वाचाऽशरी रिण्या कथिता चंडिका तदा ।।

प्राह स्ववाहनं सिंहमसुरेंद्रवधोद्यता ।।३७।।

मृगेंद्र सिंहविक्रांत महावलपराक्रम ।।

धर्मपुष्कीरणीतोयं निःशेषं पीय तां त्वया ।। ३८ ।।

देव्यैवमुक्तः पंचास्यो धर्मपुष्करिणीजलम् ।।

निःशेषं च पपौ विप्रा यथा पांसुर्भवेत्तथा ।। ३९ ।।

निरगान्महिषो दीनस्ततस्तस्मा ज्जलाशयात् ।।

आयांतमसुरं देवी पादेनाक्रम्य मूर्द्धनि ।। 3.1.7.४० ।।

कंठं शूलेन तीक्ष्णेन पीडयामास कोपिता ।।

ततो देव्यसिमादाय चकर्तास्य शिरो महत् ।। ४१ ।।

एवं स महिषो विप्राः सभृत्यबलवाहनः ।।

दुर्गया निहतो भूमौ पपात च ममार च ।। ४२ ।।

ततो देवाः सगंधर्वाः सिद्धाश्च परमर्षयः ।।

स्तुत्वा देवीं ततः स्तोत्रैस्तुष्टा जहृषिरे तदा ।। ४३ ।।

अनुज्ञातास्ततो देव्या देवा जग्मुर्यथागतम् ।।

ततो देवी जगन्माता स्व नाम्ना पुरमुत्तमम् ।। ४४ ।।

दक्षिणस्य समुद्रस्य तीरे चक्रे तदोत्तरे ।।

ततो देव्यनुशिष्टास्ते देवाः शक्रपुरोगमाः ।। ४५ ।।

पूरयामासुरमृतैर्धर्मपुष्क रिणीं तदा ।।

ततो ह्यमृततीर्थाख्यां लेभे तत्तीर्थमुत्तमम् ।। ४६ ।।

ततो देवी वरमदात्स्वपुरस्य मुदान्विता ।।

पशव्यं चापरोगं च पुरमेतद्भवत्विति ।। ४७ ।।

ददौ तीर्थाय च वरं स्नातानामत्र वै नृणाम् ।।

यथाभिलाषं सिद्धिः स्यादित्युक्त्वा सा दिवं ययौ ।। ४९ ।।

।। श्रीसूत उवाच ।। ।।

यत्स्वनाम्ना चकारेदं देवी पुरमनुत्तमम् ।।

देवीपत्तनमित्युक्तं तेन देव्याः पुरोत्तमम् ।। ४९ ।।

देवीपत्तनमारभ्य सुमुहूर्ते दिने द्विजाः ।।

विघ्नेश्वरं प्रणम्यादौ सलिलस्वामिनं तथा ।। 3.1.7.५० ।।

महादेवाभ्यनुज्ञातो रामचंद्रोऽतिधार्मिकः ।।

स्थापयित्वा स्वहस्तेन पाषाणनवकं मुदा।। ५१ ।।

सेतुमारब्धवान्विप्रा यावल्लंकामतंद्रितः ।।

सिंहासनं समारुह्य रामो नलकृतं शुभम्।। ५२ ।।

वानरैः कारयामास सेतुमब्धौ नलादिभिः ।।

पर्वताञ्छाखिनोवृक्षान्दृषदः काष्ठसंचयान् ।। ५३ ।।

तृणानि च समाजह्रुर्वानरा वनमध्यतः ।। ५४ ।।

नलस्तानि समादाय चक्रे सेतुं महोदधौ ।।

पंचभिर्दिवसैः सेतुर्यावल्लंकासमीपतः ।। ५५ ।।

दशयोजनविस्तीर्णश्शतयोजनमायतः ।।

कृतः सेतुर्नलेनाब्धौ पुण्यः पापविनाशनः ।। ५६ ।।

देवीपुरस्य निकटे नवपाषाणरूपके ।।

सेतुमूले नरः स्नायात्स्वपापपरिशुद्धये ।। ५७ ।।

चक्रतीर्थे तथा स्नायाद्भजेत्सेत्वधिपं हरिम्।।

देवीपत्तनमारभ्य यत्कृतं सेतुबंधनम् ।। ५८ ।।

तत्सेतुमूलं विप्रेंद्रा यथार्थं परिकल्पितम् ।।

सेतोस्तु पश्चिमा कोटिर्दर्भशय्या प्रकीर्तिता ।। ५९ ।।

देवीपुरी च प्राक्कोटिरुभयं सेतुमूलकम् ।।

उभयं पुण्यमाख्यातं पवित्रं पापनाशनम् ।। 3.1.7.६० ।।

यत्सेतुमूलं गच्छंति येन मार्गेण वै नराः।।

तत्तन्मार्गगतास्ते ते तस्मिंस्तस्मिन्विमुक्तिदे ।। ६१ ।।

स्नात्वादौ सेतुमूले तु चक्रतीर्थे तथैव च ।।

संकल्पपूर्वकं पश्चाद्गच्छेयुः सेतुबंधनम्।। ६२ ।।

देवीपुरे तथा दर्भशय्यायामपि भूसुराः ।।

चक्रतीर्थे शिवे स्नानं पुण्यपापविनाशनम् ।।६३।।

स्मरणादुभयत्रापि चक्रतीर्थस्य वै द्विजाः ।।

भस्मीभवंति पापानि लक्षजन्मकृतान्यपि ।। ६४ ।।

जन्मापि विलयं यायान्मुक्तिश्चापि करे स्थिता ।।

चक्रतीर्थसमं तीर्थं न भूतं न भविष्यति ।। ६५ ।।

भूलोके यानि तीर्थानि गंगादीनि द्विजोत्तमाः ।।

चक्रतीर्थस्य तान्यद्धा कलां नार्हंति षोडशीम् ।। ६६ ।।

आदौ तु नवपाषाणमध्येऽब्धौ स्नानमाचरेत् ।।

क्षेत्रपिंडे ततः कुर्याच्चक्रतीर्थे तथैव च ।। ६७ ।।

सेतुनाथं हरिं सेवेत्स्वपापपरिशुद्धये ।।

एवं हि दर्भशय्यायां कुर्युस्तन्मार्गतो गताः ।। ६८ ।।

आरूढं रामचंद्रेण यो नमस्कुरुते जनः ।।

सिंहासनं नलकृतं न तस्य नरकाद्भयम्।। ६९ ।।

सेतुमादौ नमस्कुर्याद्रामं ध्यायन्हृदा तदा ।।

रघुवीरपदन्यास पवित्रीकृतपांसवे ।। 3.1.7.७० ।।

दशकंठशिरश्छेदहेतवे सेतवे नमः ।।

केतवे रामचंद्रस्य मोक्षमार्गैकहेतवे ।। ७१ ।।

सीताया मानसांभोजभानवे सेतवे नमः ।। ।।

साष्टांगं प्रणिपत्यादौ मंत्रेणानेन वै द्विजाः ।। ७२ ।।

ततो वेतालवरदं तीर्थं गच्छेन्महाबलम् ।।

तत्र स्नानादवाप्नोति सिद्धिं पारामिकां नरः ।। ७३ ।।

योऽध्यायमेनं पठते मनुष्यः शृणोति वा भक्तियुतो द्विजेंद्राः ।।

स्वर्गादयस्तस्य न दुर्लभाः स्युः कैवल्यमप्यस्य करस्थमेव ।। ७४ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये चकतीर्थप्रशंसायां देवीपुराभिधानकथने महिषासुरसंहारवर्णनंनाम सप्तमोऽध्यायः ।। ७ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 8

।। ऋषय ऊचुः ।। ।।

भगवन्सूतसर्वज्ञ कृष्णद्वैपायनप्रिय ।।

त्वन्मुखाद्वै कथाः श्रुत्वा श्रोत्रकामृतवर्षिणीः ।। १ ।।

तृप्तिर्न जायतेऽस्माकं त्वद्वचोमृतपायिनाम् ।।

अतः शुश्रूषमाणानां भूयो ब्रूहि कथाः शुभाः ।। २ ।।

वेतालवरदंनाम चक्रतीर्थस्य दक्षिणे ।।

तीर्थमस्ति महापुण्यमित्यवादीद्भवान्पुरा ।। ३।।

वेतालवरदाभिख्या तीर्थस्यास्यागता कथम् ।।

किंप्रभावं च तत्तीर्थमेतन्नो वक्तुमर्हसि ।। ४ ।।

।। श्रीसूत उवाच ।। ।।

साधुपृष्टं हि युष्माभिरतिगुह्यं मुनीश्वराः ।।

शृणुध्वं मनसा सार्द्धं ब्रवीम्यत्यद्भुतां कथाम् ।। ५ ।।

पामरा अपि मोदन्ते यां वै श्रुत्वा कथां शुभाम् ।।

कथा चेयं महापुण्या पुरा कैलासपर्वते ।। ६ ।।

केलिकालेषु पावत्यै शंभुना कथिता द्विजाः ।।

तां ब्रवीमि कथामेनामत्यद्भुततरां हि वः ।। ७ ।।

पुरा हि गालवोनाम महर्षिः सत्यवाक्छुचिः ।।

चिंतयानः परं ब्रह्म तपस्तेपे निजाश्रमे।। ।। ८ ।।

तस्य कन्या महाभागा रूपयौवनशालिनी ।।

नाम्ना कांतिमती बाला व्यचरत्पितुरंतिके ।। ९ ।।

आहरंती च पुष्पाणि बल्यर्थं तस्य वै मुनेः ।।

वेदिसंमार्जनादीनि समिदाहरणानि च ।। 3.1.8.१० ।।

कुर्वती पितरं बाला सम्यक्परिचचार ह ।।

कदाचित्सा तु वल्यर्थं पुष्पाण्याहर्तुमुद्यता ।। ।। ११ ।।

तस्मिन्वने कांतिमती सुदूरमगमत्तदा ।।

तत्र पुष्पाणि रम्याणि समाहृत्य च पेटके ।। १२ ।।

तूर्णं निववृते बाला पितृशुश्रूषणे रता ।।

निवर्तमानां तां कन्यां विद्याधरकुमारकौ ।। १३ ।।

सुदर्शनसुकर्णाख्यौ विमानस्थौ ददर्शतुः ।।

तां दृष्ट्वा गालवसुतां रूपयौवनशालिनीम् ।।१४।।

कामस्य पत्नीं ललितां रतिं मूर्तिमतीमिव ।।

सुदर्शनाभिधो ज्येष्ठो विद्याधरकुमारकः ।। १५ ।।

हर्षसंफुल्लनयनश्चकमे काममोहितः ।।

पूर्णचन्द्राननां तां वै वीक्षमाणो मुहुर्मुहुः ।। १६ ।।

तया रिरंसुकामोऽसौ विमानाग्रादवातरत् ।।

तामुपेत्य मुनेः कन्यामित्युवाच सुदर्शनः ।। १७ ।। ।।

।। सुदर्शन उवाच ।। ।।

कासि भद्रे सुता कस्य रूपयौवनशालिनी ।।

रूपमप्रतिमं ह्येतदाह्लादयति मे मनः ।। १८ ।।

त्वां दृष्ट्वा रतिसंकाशां बाधते मां मनोभवः ।।

सुकण्ठनामधेयस्य विद्याधरपतेरहम् ।। १९ ।।

आत्मजो रूपसंपन्नो नाम्ना चैव सुदर्शनः ।।

प्रतिगृह्णीष्व मां भद्रे रक्ष मां करुणादृशा ।। 3.1.8.२० ।।

भर्तारं मां समासाद्य सर्वान्भोगानवाप्स्यसि ।।

इत्याकर्ण्य वचस्तस्य विद्याधरसुतस्य सा ।। २१ ।।

तदा कांतिमती वाक्यं धर्मयुक्तमभाषत ।।

सुदर्शन महाभाग विद्याधरपतेः सुत ।।२२ ।।

आत्मजां मां विजानीहि गालवस्य महात्मनः ।।

कन्या चाहमनूढास्मि पितृशु श्रूषणे रता ।। २३ ।।

बल्यर्थं हि पितुश्चाहं पुष्पाण्याहर्तुमागता ।।

आहरंत्याश्च पुष्पाणि याम एको न्यवर्तत ।। २४ ।।

मद्विलंबेन स मुनिर्देव तार्चनतत्परः ।।

कोपं विधास्यते नूनं तपस्वी मुनिपुंगवः ।। २५ ।।

तच्छीघ्रमद्य गच्छामि पुष्पाण्यप्याहृतानि मे ।।

कन्याश्च पितुराधीना न स्वतन्त्राः कदाचन ।।२६।।

यदि मामिच्छति भवान्पितरं मम याचय ।।

इति विद्याधरसुतमुक्त्वा कांतिमती तदा ।। २७ ।।

पितुराशंकिता तूर्णमा श्रमं गन्तुमुद्यता ।।

गच्छन्तीं तां समालोक्य विद्याधरकुमारकः ।। २८ ।।

तूर्णं जग्राह केशेषु धावित्वा मदनार्दितः ।।

अभ्येत्य निजकेशेषु गृह्णन्ते तं विलोक्य सा ।। २९ ।।

उच्चैश्चक्रंद सहसा कुररीव मुनेः सुता ।।

अस्माद्विद्याधरसुताज्जनक त्राहि मां विभो ।। 3.1.8.३० ।।

बलाद्गृह्णाति दुष्टात्मा विद्याधरसुतोऽद्य माम् ।।

इत्थमुच्चैः प्रचुक्रोश स्वाश्रमान्नातिदूरतः ।। ३१ ।।

तदाक्रंदितमाकर्ण्य गन्धमादनवासिनः ।।

मुनयस्तु पुरस्कृत्य गालवं मुनिपुंगवम् ।। ३२ ।।

किमेतदिति विज्ञातुं तं देशं तूर्णमाययुः ।।

तं देशं तु समागत्य सर्वे ते ऋषिपुंगवाः ।। ३३ ।।

विद्याधरगृहीतां तां ददृशुर्मु निकन्यकाम् ।।

विद्याधरसुतं चान्यमंतिके समुपस्थितम् ।। ३४ ।।

एतद्दृष्ट्वा महायोगी गालवो मुनिपुंगवः ।।

गतः कोपवशं किंचिद्दुराप्मानं शशाप तम् ।। ३५ ।।

कृतवानीदृशं कार्यं यत्त्वं विद्याधराधम ।।

तद्याहि मानुषीं योनिं स्वस्य दुष्कर्मणः फलम् ।। ३६ ।।

संप्राप्य मानुषं जन्म बहुदुःखसमाकुलम् ।।

अचिरेण तु कालेन तस्मिन्नेव तु जन्मनि ।। ३७ ।।

मनुष्यैरपि निंद्यं तद्वेतालत्वं प्रयास्यसि ।।

मांसानि शोणितं चैव सर्वदा भक्षयिष्यसि ।। ३८ ।।

वेताला राक्षसप्राया बलाद्गृह्णन्ति योषितः ।।

तस्मात्त्वं मानुषो भूत्वा वेतालत्वमवाप्स्यसि ।। ३९?।।

तव दुष्कर्मणो योऽसावनुमंता कनिष्ठकः ।।

सुकर्ण इति विख्यातो भविता सोपि मानुषः ।। 3.1.8.४० ।।

किंतु साक्षान्न कृतवान्यतोऽसावीदृशीं क्रियाम्।।

तन्मानुषत्व मेवास्य वेतालत्वं तु नो भवेत् ।। ४१ ।।

विज्ञप्तिकौतुकाभिख्यं यदा विद्याधराधिपम् ।।

द्रक्ष्यतेऽसौ कनिष्ठस्ते तदा शापाद्विमोक्ष्यते ।। ४२ ।।

ईदृशस्यतु यः कर्ता महापापस्य कर्मणः ।।

स त्वं संप्राप्य मानुष्यं तस्मिन्नेव तु जन्मनि ।। ४३ ।।

वेतालजन्म संप्राप्य चिरं लोके चरिष्यसि ।।

इत्युक्त्वा गालवः कन्यां गृहीत्वा मुनिभिः सह ।। ४४ ।।

विद्याधरसुतौ शप्त्वा स्वाश्रमं प्रति निर्ययौ ।।

ततस्तस्मिन्महाभागे निर्याते मुनिपुंगवे ।। ।। ४५ ।।

सुदर्शनसुकर्णाख्यौ विद्याधरपतेः सुतौ।।

मुनिशापेन दुःखार्तौ चिंतयामासतुर्भृशम् ।। ४६ ।।

कर्तव्यं तौ विनिश्चित्य सुदर्शनसुकर्णकौ ।।

गोविंदस्वामिनामानं यमुनातटवासिनम् ।। ४७ ।।

ब्राह्मणं शीलसंपन्नं पितृत्वे परिकल्प्य तौ ।।

परित्यज्य स्वकं रूपमजायेतां तदा त्मजौ ।। ४८ ।।

विजयाशोकदत्ताख्यौ तस्य पुत्रौबभूवतुः ।।

सुतो विजयदत्ताख्यो ज्येष्ठो जज्ञे सुदर्शनः ।। ४९ ।।

अशोकदत्तनामा तु सुकर्णश्च कनिष्ठकः ।।

विजयाशोकदत्तौ तु क्रमाद्यौवनमापतुः ।। 3.1.8.५० ।।

एतस्मिन्नेव कालेतु यमुनायास्तटे शुभे ।।

अनावृष्ट्या तु दुर्भिक्षमभूद्द्वादशवार्षि कम् ।। ५१ ।।

गोविंदस्वामिनामा तु ब्राह्मणो वेदपारगः ।।

दुर्भिक्षोपहतां दृष्ट्वा तदानीं स निजां पुरीम् ।। ५२ ।।

प्रययौ काशनिगरं सपुत्रः सह भार्यया ।।

स प्रयागं समासाद्य द्वं दृष्ट्वा महावटम्।। ५३ ।।

कपालमालाभरणं सोऽपश्यद्यतिनं पुरः ।।

गोविंदस्वामिनामा तु नमश्चक्रे स तं मुनिम् ।। ५४ ।।

सपुत्रस्य सभार्यस्य सोऽवादीदाशिषो मुनिः ।।

इदं च वचनं प्राह गोविंदस्वामिनं प्रति ।। ५५ ।।

ज्येष्ठेनानेन पुत्रेण सांप्रतं ब्राह्मणोत्तम ।।

क्षिप्रं विजयदत्तेन वियोगस्ते भविष्यति ।। ५६ ।।

इति तस्य वचः श्रुत्वा गोविंदस्वामिनामकः ।।

सूर्ये चास्तं गते तत्र सांध्यं कर्म समाप्य च ।। ५७ ।।

सभार्यः ससुतो विप्रः सुदूराध्वसमाकुलः ।।

उवास तस्यां शर्वर्य्यां शून्ये वै देवतालये ।। ५८ ।।

तदा त्वशोकदत्तश्च ब्राह्मणी च समाकुलौ ।।

वस्त्रेणास्तीर्य पृथिवीं रात्रौ निद्रां समापतुः ।। ५९।।

ततो विजयदत्तस्तु दूरमार्गविलंघनात् ।।

बभूवात्यंतमलसो भृशं शीतज्वरार्दितः ।। 3.1.8.६० ।।

गोविंदस्वामिना पित्रा शीतवबाधानिवृत्तये ।।

गाढमालिंग्यमानोऽपि शीतबाधां न सोऽत्यजत् ।। ६१ ।।

बाधतेऽत्यर्थमधुना तात मां शीतलो ज्वरः ।।

एतद्बाधानिवृत्त्यर्थं वह्निमानय मा चिरम् ।। ६२ ।।

इति पुत्रवचः श्रुत्वा सर्वत्राग्निं गवेषयन् ।।

अलब्धवह्निः प्रोवाच पुन रभ्येत्य पुत्रकम् ।। ६३ ।।

न वह्निं पुत्र विंदामि मार्गमाणोऽपि सर्वशः ।।

रात्रिमध्ये तु संप्राप्ते द्वारेषु पिहितेषु च ।। ६४ ।।

निद्रापरवशाः पौरा नैव दास्यंति पावकम् ।।

इत्थं विजयदत्तोऽसावुक्तः पित्रा ज्वरातुरः ।। ६५ ।।

ययाचे वह्निमेवासौ पितरं दीनया गिरा ।।

शीतज्वरसमुद्भूतशीतबाधाप्रपीडितम् ।। ६६ ।।

हिमशीकरवान्वायुर्द्विगुणं बाधतेऽद्य माम् ।।

वह्निर्न लब्ध इति वै मिथ्यैवोक्तं पितस्त्वया ।। ६७ ।।

दूरादेष पुरोभागे ज्वालामालासमाकुलः ।।

शिखाभिर्लेलिहानोभ्रं दृश्यते पश्य पावकः ।। ६८ ।।

तं वह्निमानय क्षिप्रं तात शीतनिवृत्तये ।।

इत्युक्तवन्तं तं पुत्रं स पिता प्रत्यभाषत ।। ६९ ।।

नानृतं वच्मि पुत्राद्य सत्यमेव ब्रवीम्यहम् ।।

वह्निमान्योऽयमुद्देशो दूरादेव विलोक्यते ।। 3.1.8.७० ।।

पितृकाननदेशं तं पुत्र जानीहि सांप्रतम् ।।

यद्येषोभ्रंलिहज्वालः पुरस्ताज्ज्वलतेऽनलः ।। ७१ ।।

पुत्र वित्रासजनकं तं जानीहि चितानलम् ।।

अमंगलो न सेव्योऽयं चिताग्निः स्पर्शदूषितः ।। ७२ ।।

तस्य चायुःक्षयं याति सेवते यश्चितानलम् ।।

तस्मात्तवायुर्हानिर्मा भूयादिति मया सुत ।। ७३ ।।

अमंगलस्तथा स्पृश्यो नानीतोऽयं चितानलः ।।

इत्युक्तवंतं पितरं स दीनः प्रत्यभाषत ।। ७४ ।।

अयं शवानलो वा स्यादध्वरानल एव वा ।।

सर्वथानीयतामेष नोचेन्मे मरणं भवेत् ।। ७५ ।।

पुत्रस्नेहाभिभूतोऽथ समाहर्तुं चितानलम् ।।

गोविंदस्वामिनामा तु श्मशानं शीघ्रमभ्यगात् ।। ७६ ।।

गोविंदस्वामिनि गते समाहर्तुं चितानलम्।।

तूर्णं विजयदत्तोऽपि तदा गच्छंतमन्वयात् ।। ७७ ।।

संप्राप्य तापनिकटं विकीर्णास्थि चितानलम् ।।

आलिंगन्निव सोद्वेगं शनैर्निर्वृतिमाप्तवान् ।। ७९ ।।

अथावादीत्स पितरं तदिदं परिवर्तुलम् ।।

अतिदीप्तं विभात्यग्नौ किं रक्तांबुजसन्निभम् ।।७९ ।।

इति तस्य वचः श्रुत्वा पुत्रस्य ब्राह्मणोत्तमः ।।

निपुणं तं निरूप्यैतद्वचनं पुनरब्रवीत् ।। 3.1.8.८० ।।

।। गोविंदस्वाम्युवाच ।। ।।

एतत्कपालमनलज्वालावलयवर्तुलम् ।।

वसाकीकसमांसाढ्यमेतद्रक्तांबुजोपमम् ।। ८१ ।।

द्विजस्य सूनुः श्रुत्वेति काष्ठाग्रेण जघान तत् ।।

येन तत्स्फुटनोद्गीर्णवसासिक्तमुखोऽभवत् ।। ८२ ।।

कपालघट्टनाद्रक्तं यत्संसक्तं मुखे तदा ।।

जिह्वया लेलिहानोऽसौ मुहुस्तद्रक्तमा स्वदत् ।। ८३ ।।

आस्वाद्यैवं समादाय तत्कपालं समाकुलः ।।

पीत्वा वसां महाकायो बभूवातिभयंकरः ।। ८४ ।।

सद्यो वेता लतां प्राप तीक्ष्णदंष्ट्रस्तदा निशि ।।

तस्याट्टहासघोषेण दिशश्च प्रदिशस्तदा ।। ८५ ।।

द्यौरतरिक्षं भूमिश्च स्फुटिता इव सर्वशः ।।

तस्मिन्वेगात्समाकृष्य पितरं हन्तुमुद्यते ।। ८६ ।।

मा कृथाः साहसमिति प्रादुरासीद्वचो दिवि ।।

स दिव्यां गिरमाकर्ण्य वेतालोऽतिभयंकरः ।। ८७ ।।

पितरं तं परित्यज्य महावेगसमन्वितः ।।

तूर्णमाकाशमाविश्य प्रययावस्खलद्गतिः ।।८८।।

स गत्वा दूरमध्वानं वेतालैः सह संगतः ।।

तमागतं समालोक्य वेतोलास्सर्व एव ते ।। ८९ ।।

कपालस्फोटनादेष वेतालत्वं यदाप्तवान् ।।

कपालस्फोटनामानमाह्वयांचक्रिरे ततः ।।3.1.8.९०।।

ततः कपालस्फोटो ऽसौ वेतालैः सर्वतो वृतः।।

नरास्थिभूषणाख्यस्य सद्यो वेतालभूपतेः ।।९१।।

अन्तिकं सहसा प्राप महाबलसमन्वितः।।

नरास्थिभूषणश्चैनं सेनाप तिमकल्पयत् ।। ९२ ।।

तं कदाचित्तु गन्धर्वश्चित्रसेनाभिधो बली ।।

नरास्थिभूषणं संख्ये न्यवधीत्सोऽपि संस्थितः ।। ९३।।

नरास्थिभूषणे तस्मि न्गन्धर्वेण हते युधि ।।

तदा कपालस्फोटोऽसौ तत्पदं समवाप्तवान् ।। ९४ ।।

विद्याधरेन्द्रस्य सुतः सुदर्शनो मनुष्यतां वै प्रथमं स गत्वा ।।

वेतालतां प्राप्य महर्षिशापात्क्रमाच्च वेतालपतिर्बभूव ।। ९५ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये वेतालवरदतीर्थप्रशंसायां सुदर्शनवेतालत्वप्राप्तिवर्णनं नामाष्टमोऽध्यायः ।। ८ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 9

ततः स विप्रः प्रत्यूषे पुत्रशोकेन पीडितः ।।

अशोक दत्तसंयुक्तो भार्यया विललाप ह ।। १ ।।

विलपंतं समालोक्य गोविंदस्वामिनं द्विजाः ।।

वणिक्समुद्रदत्ताख्यः समानिन्ये निजं गृहम् ।। २ ।।

समानीय समाश्वास्य दयायुक्तो वणिग्वरः ।।

स्वधनानां हि सर्वेषां रक्षितारमकल्पयत् ।। ३ ।।

स्मरन्महायतिवचः पुत्रदर्शनलालसः ।।

स तस्थौ वणिजो गेहे पुत्रभार्यासमन्वितः ।। ४ ।।

अशोकदत्तनामा तु द्वितीयो विप्रनंदनः ।।

शस्त्रे चैव तथा शास्त्रे बभूवातिविचक्षणः ।। ५ ।।

तथान्यास्वपि विद्यासु नास्ति तत्सदृशो भुवि ।।

कृतविद्यो द्विजसुतः प्रख्यातो नगरेऽभवत् ।। ६ ।।

अत्रांतरे नरपतिं प्रतापमुकुटाभिधम् ।।

काशीदेशाधिपो मल्लः कश्चिदभ्याययौ बली ।। ७ ।।

प्रतापमुकुटो राजा मल्लस्यास्य जयाय सः ।।

बलिनं द्विजपुत्रं तमाह्वयामास भृत्यकैः ।। ८ ।।

तमागतं समालोक्य प्रतापमुकुटोऽब्रवीत् ।।

अशोकदत्त सहसा मल्लमेनं बलोत्कटम् ।। ९ ।।

दुर्जयं जहि संग्रामे त्वं वै वलवतां वरः ।।

दाक्षिणात्यमहामल्लपतावस्मिञ्जिते त्वया ।। 3.1.9.१० ।।

यदिष्टं तव तत्सर्वं दास्याम्यहं न संशयः ।।

इति तस्य वचः श्रुत्वा वलवान्द्विजनंदनः ।। ११ ।।

दाक्षिणात्यमहामल्लनृपतिं समताडयत् ।।

ताडितो द्विजपुत्रेण मल्लः स बलिना बली ।। १२ ।।

सद्यो विवृत्तनयनः परासुर्न्यपतद्भुवि ।।

द्विज पुत्रस्य तत्कर्म देवैरपि सुदुष्करम् ।। १३ ।।

प्रतापमुकुटो दृष्ट्वा प्रसन्नहृदयोऽभवत् ।।

दत्त्वा वहुधनान्ग्रामान्समीपेऽस्थापयत्तदा ।। १४ ।।

स कदाचिन्महाराज सहितो द्विजसूनुना ।।

संध्यायां विजने देशे चचार तुरगेण वै ।। १५ ।।

द्विजसूनुसखस्तत्र दीनां वाणीमथाशृणोत् ।।

राजन्नल्पापराधोऽहं शत्रुप्रेरणयासकृत् ।। १६ ।।

दण्डपालेन निहितः शूले निर्घृणचेतसा ।।

दिनमद्य चतुर्थं मे शूलस्थस्यैव जीवतः ।। १७ ।।

प्राणाः सुखेन निर्यांति न हि दुष्कृतकर्मणाम् ।।

भृशं मां बाधते तृष्णा तां निवारय भूपते ।।१८ ।।

इति दीनां समाकर्ण्य वाचं राजा द्विजा त्मजम् ।।

अशोकदत्तनामानं धैर्यवंतमभाषत ।। १९ ।।

अस्मै निरपराधाय शूलप्रोताय जंतवे ।।

तृष्णार्दिताय दातव्यं द्विजसूनो त्वया जलम् ।। ।। 3.1.9.२० ।।

इत्यादिष्टो नरेन्द्रेण सहसा द्विजनन्दनः ।।

जलपूर्णं समादाय कलशं वेगवान्ययौ ।। २१ ।।

तच्छ्मशानं समासाद्य भूतवेतालसंकुलम् ।।

शूलप्रोताय वै तस्मै जलं दातुं समुत्सुकः ।। २२ ।।

ददर्शाथ स्थितां नारीं नवयौवनशालिनीम् ।।

उदैक्षत महाकांतिं मूर्तामिव रतिं द्विजः ।। ।। २३ ।।

तामालोक्य ततः प्राह धैर्यवान्द्विजनंदनः ।।

कासि भद्रे वरारोहे श्मशाने विजने स्थिता ।। २४ ।।

अस्याधस्तात्किमर्थं त्वं शूलप्रोतस्य तिष्ठसि ।।

इति तस्य वचः श्रुत्वा सा प्राह रुचिरानना ।। २५ ।।

पुरुषो वल्लभोऽयं मे शूले राज्ञा समर्पितः ।।

धनं यथा च कृपणः पश्य प्राणान्न मुंचति ।। २६ ।।

आसन्नमरणं चैनमनुयातुमिह स्थिता ।।

तृषितो याचते वारि मामयं व्यथते मुहुः ।। २७ ।।

शूलप्रोतो द्धतग्रीवं मुमूर्षुं प्राणनायकम्।।

नास्मि पाययितुं शक्ता जलमेनमधःस्थिता।।२८।।

अशोकदत्तस्तच्छ्रुत्वा करुणावरुणालयः ।।

तत्कालसदृशं वाक्यं तां वधूमब्रवीत्तदा ।।२९।।

।। अशोकदत्त उवाच ।। ।।

मातर्मत्स्कंधमारुह्य देह्यस्मै शीतलं जलम्।।

सा तथेति तमाभाष्य तरुणी त्वरयान्विता।।3.1.9.३०।।

आनम्रवपुषस्तस्य स्कंधं पद्भ्यां रुरोह वै ।।

द्विजसूनुर्ददर्शाथ शोणितं नूतनं पतत्।।३१।।

किमेतदिति सोपश्यदुन्नम्य सहसा मुखम् ।।

भक्ष्यमाणं तया तत्स विज्ञाय द्विजनंदनः।।३२।।

अशोकदत्तो जग्राह तस्याः पादं सनूपुरम्।।

ततोऽगान्नूपुरं त्यक्त्वा बद्धरत्नं विहाय तत्।।३३।।

प्रत्युप्तानेकरत्नाढ्यं तदादायच नूपुरम्।।

अशोकदत्तः प्रययौ तच्छ्मशानान्नृपांतिकम्।।३४।।

स्मशानवृत्तं तत्सर्वं स नृपाय निवेद्य वै।।

महार्घ्यरत्नप्रत्युप्तं नूपुरं च ददौ तदा ।।३५।।

ज्ञात्वा तद्वीरचरितं वीरैरन्यैः सुदुष्करम्।।

ददौ मदनलेखाख्यां सुतां तस्मै महीपतिः।।३६।।

कदाचिदथ ताद्दिव्यं नूपुरं वीक्ष्य भूपतिः।।

अस्य नूपुरवर्यस्य तुल्यं वै नूपुरांतरम्।। ३७ ।।

कुतो वा लभ्यत इति सादरं समचिंतयत् ।।

अशोकदत्तस्तु तदा विज्ञाय नृपकांक्षितम् ।। ३८ ।।

नृपुरांतरसि द्ध्यर्थं चिंतयामास चेतसा ।।

श्मशाने नूपुरमिदं यतः प्राप्तं मया पुरा ।।३९।।

तां नूपुरांतरप्राप्त्यै कुत्र द्रक्ष्यामि सांप्रतम् ।।

इत्थं वितर्क्य बहुधा नि श्चिकाय महामतिः।।3.1.9.४०।।

विक्रेष्यामि महामांसं समेत्य पितृकाननम्।।

तत्र राक्षसवेतालपिशाचादिषु सर्वशः।।४१।।

मंत्रैराहूयमानेषु साप्यायास्य ति राक्षसी ।।

तामागतां बलाद्गृह्य तद्ग्रहीष्यामि नूपुरम्।।४२।।

राक्षसानां सहस्रं वा पिशाचानां तथायुतम् ।।

वेतालानां तथा कोटिर्न लक्ष्यं बलिनो मम ।।४३।।

इति निश्चित्य मनसा श्मशानं सहसा ययौ ।।

विक्रीणानो महामांसं मंत्रैराहूय राक्षसान् ।।४४।।

गृहाणेत्युच्चया वाचा चचार श्रावयन्दि शः ।।

विक्रीयते महामांसं गृह्यतांगृह्यतामिति ।। ४५ ।।

तत्र राक्षसवेतालाः कंकालाश्च पिशाचकाः ।।

अन्ये च भूतनिवहाः समाजग्मुः प्रहर्षिताः ।। ।। ४६ ।।

भक्षयिष्यामहे सर्वे मांसमिष्टतमं त्विति ।।

तत्रागच्छत्सु सर्वेषु रक्षःकन्यासमावृता ।। ४७ ।।

आययौ राक्षसी सापि मांसभक्षणलालसा ।।

गवेषयंस्तदा विप्रस्तां समुद्वीक्ष्य राक्षसीम्।। ४८ ।।

सेयं दृष्टा पुरेत्येष प्रत्यभिज्ञानमाप्तवान् ।।

तामाह द्विजपुत्रोऽन्यद्देहि मे नूपुरं त्विति ।। ४९ ।।

सा तस्य वचनं श्रुत्वा प्रीता वाक्यमथाऽब्रवीत् ।।

ममैव च त्वया नीतं पुरा वीरेंद्र नूपुरम् ।। 3.1.9.५० ।।

गृहाण रत्नरुचिरं द्वितीयमपि नूपुरम् ।।

इत्युक्त्वा नूपुरं तस्मै स्वसुतां च ददौ प्रियाम्।। ५१ ।।

विद्युत्केश्या तदा दत्तां प्रियां विद्युत्प्रभाभिधाम् ।।

विप्रः संप्राप्य मुमुदे रूपयौवनशालि नीम् ।। ५२ ।।

विद्युत्केशी तु जामात्रे हेमाब्जमपि सा ददौ ।।

विद्युत्प्रभां नूपुरं च हेमाब्जमपिलभ्य सः ।। ५३ ।।

श्वश्रूमाभाष्य सहसा पुनः प्रायान्नृपांतिकम्।।

ततः प्रतापमुकुटो नूपुरप्राप्तिनंदितः ।। ५४ ।।

शौर्यधैर्यसमायुक्तं प्रशशंस द्विजात्मजम्।।

अथ विद्युत्प्रभां विप्रः सोऽब्रवीद्रहसि प्रियाम्।।५५।।

मात्रा तव कुतो लब्धमेतद्धेमांबुज प्रिये।।

एतत्तुल्यानि चान्यानि यतः प्राप्स्ये वरानने।।५६।।

द्विजात्मजं ततः प्राह पतिं विद्युत्प्रभा रहः ।।

प्रभो कपालविस्फोटनाम्नो वेतालभूपतेः ।। ५७ ।।

अस्ति दिव्यं सरः किंचिद्धेमांबुजपरिष्कृतम् ।।

तव श्वश्र्वा जलक्रीडां वितन्वं त्येदमाहृतम् ।। ५८ ।।

इति श्रुत्वा वचस्तत्र मां नयेति जगाद सः ।।

ततः सा सहसा विप्रं निन्ये तत्कांचनं सरः ।। ५९ ।।

ततः स हेमपद्मानामाजिहीर्षुर्द्विजात्मजः ।।

तद्विप्रकारिणः सर्वान्वेतालादींस्ततोऽवधीत् ।। 3.1.9.६० ।।

स्वयं कपालविस्फोटं निहताशेषसैनिकम् ।।

ददर्श वेतालपतिं तं च हंतुं प्रचक्रमे ।। ६१ ।।

अत्रांतरे महातेजा नाम्ना विज्ञप्तिकौतुकः ।।

विद्याधरपतिः प्राप्य विमानेनैनमब्रवीत् ।। ६२ ।।

अशोकदत्तं विप्रेंद्र साहसं मा कृथा इति ।।

तदाकर्ण्य द्विजसुतो विमानवरसंस्थितम् ।।६३।।

ददर्श प्रभया युक्तं विद्याधरपतिं दिवि ।।

तस्य दर्शनमात्रेण शापामुक्तो द्विजा त्मजः ।। ६४ ।।

संत्यज्य मानुषं रूपं दिव्यं रूपमवाप्तवान् ।।

विमानवरमारूढं दिव्याभरणभूषितम् ।। ६५ ।।

शापान्मुक्तं सुकर्णं तं प्राह विज्ञप्ति कौतुकः ।।

अयं सुकर्ण ते भ्राता गालवस्य महामुनेः ।। ६६ ।।

शापाद्वेतालतां प्राप तत्कन्यास्पर्शपातकी ।।

त्वं च शप्तः पुरा तेन तत्पापस्यानु मोदकः ।। ६७ ।।

तवायमल्पपापस्य शापो मद्दर्शनावधिः ।।

कल्पिस्ततेन मुनिना शापांतो नास्य कल्पितः ।। ६८।।

तदेहि मुक्तशापोसि सुकर्ण स्वर्गमारुह ।।

ततः सुकर्णस्तं प्राह विद्याधरकुलाधिपम् ।। ६९ ।।

विद्याधरपते भ्रात्रा विना ज्येष्ठेन सांप्रतम् ।।

सर्वभोगयुतं स्वर्गं नैव गंतुं समुत्सहे ।। 3.1.9.७० ।।

शापस्यांतो यथा भूयान्मम भ्रातुस्तथा वद ।।

तमुवाच महातेजास्तथा विज्ञप्तिकौतुकः ।। ७१ ।।

दुर्निवारमिमं शापमन्यः को वा निवारयेत् ।।

किं तु गुह्यतमं किंचित्तव वक्ष्यामि सांप्रतम्।।७२।।

ब्रह्मणा सनकादिभ्यो मुनिभ्यः कथितं पुरा।।

सर्वतीर्थाश्रये पुण्ये दक्षिणस्यो दधेस्तटे।।७३।।

चक्रतीर्थसमीपे तु तीर्थमस्तिमहत्तरम्।।

महापातकसंघाश्च यस्य दर्शनमात्रतः।।७४।।

नश्यंति तत्क्षणादेव न जाने स्नानजं फलम्।।

तत्र गत्वा तव ज्येष्ठो यदि स्नायान्महत्तरे ।।७५।।

वेतालत्वं त्यजेन्नूनं तदा गालवशापजम्।।

सुकर्णस्तद्वचः श्रुत्वा भ्रात्रा वेतालरूपिणा ।।७६।।

सहितः सहसा प्रायाद्दक्षिणस्योदधेस्तटम् ।।

दक्षिणं चक्रतीर्थाख्यादुत्तरं गंधमादनात् ।। ७७ ।।

ब्रह्मणा सनकादिभ्यः कथितं तीर्थमभ्यगात् ।।

तत्तीर्थकूलमासाद्य भ्रातरं चेदमब्रवीत् ।। ७८ ।।

भ्रातर्गालवशापस्य घोरस्यास्य निवृत्तये ।।

तीर्थेऽस्मिन्नचिरात्स्नाहि सर्वतीर्थोत्तमोत्तमे ।। ७९ ।।

तस्मिन्न वसरे विप्रास्तस्य तीर्थस्य शीकराः ।।

न्यपतंस्तस्य गात्रेषु वायुना वै समाहृताः ।। 3.1.9.८० ।।

स तच्छीकरसंस्पर्शात्त्यक्त्वा वेतालतां तदा ।।

तदेव मानुषं भावं द्विजपुत्रत्वमाप्तवान्।। ८१ ।।

ततः संकल्प्य सहसा तस्मिंस्तीर्थोत्तमोत्तमे ।।

मनुष्यत्वनिवृत्त्यर्थं निममज्ज द्विजात्मजः ।। ८२ ।।

उत्तिष्ठन्नेव सहसा दिव्यं रूपमवाप्तवान् ।।

विमानवरमारूढो देवस्त्रीपरिवारितः ।। ८३ ।।

सर्वाभरणसंयुक्तः सह भ्रात्रा सुदर्शनः ।।

श्लाघमानश्च तत्तीर्थं नमस्कत्य पुनःपुनः ।। ८४ ।।

विज्ञप्तिकौतुकं चापि पुरस्कृत्य दिवं ययौ ।।

तदाप्रभृति तत्तीर्थं वेतालवरदाभिधम्।। ८५ ।।

वेतालत्वं विनष्टं यच्छीकरस्पर्शमात्रतः ।।

य इदं तीर्थमासाद्य चक्रतीर्थस्य दक्षिणे ।। ८६ ।।

स्नानं कदाचित्कुर्वंति जीवन्मुक्ता भवंति ते।।

एतत्तीर्थसमं पुण्यं न भूतं न भविष्यति ।। ८७ ।।

घोरां वेतालतां त्यक्त्वा दिव्यतां स यदाप्तवान् ।। ८८ ।।

अत्र संकल्प्य च स्नात्वा वेतालवरदे शुभे ।।

पितृभ्यः पिंडदानं च कुर्याद्वै नियमान्वितः ।। ८९ ।।

एवं वः कथितं विप्रास्तस्य तीर्थस्य वैभवम् ।।

वेतालवरदाभिख्या यथा चास्य समागता ।।। ।। 3.1.9.९० ।।

यः पठेदिममध्यायं शृणुयाद्वा स मुच्यते ।। ९१ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये वेतालवरदतीर्थप्रशंसायां सुदर्शनसुकर्णशापमोक्षणंनाम नवमोऽध्यायः ।। ९ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 10

thumb|500px|सोमाभिषवणम्

thumb|500px|सोमाभिषवणम्

।। श्रीसूत उवाच ।। ।।

वेतालवरदे तीर्थे नरः स्नात्वा द्विजोत्तमाः ।।

ततः शनैःशनैर्गच्छेद्गन्धमादनपर्वतम् ।। १ ।।

योंऽबुधौ सेतुरूपेण वर्तते गन्धमादनः ।।

स मार्गो ब्रह्मलोकस्य विश्वकर्त्रा विनिर्मितः ।। २ ।।

लक्षकोटिसहस्राणि सरांसि सरितस्तथा ।।

समुद्राश्च महापुण्या वनान्यप्याश्रमाणि च ।। ३ ।।

पुण्यानि क्षेत्रजातानि वेदारण्या दिकानि च ।।

मुनयश्च वसिष्ठाद्या सिद्धचारणकिन्नराः ।। ४ ।।

लक्ष्म्या सह धरण्या च भगवान्मधुसूदनः ।।

सावित्र्या च सरस्वत्या सहैव चतुराननः ।। ५ ।।

हेरंबः षण्मुखश्चैव देवाश्चेंद्रपुरोगमाः ।।

आदित्यादिग्रहाश्चैव तथाष्टौ वसवो द्विजाः ।। ६ ।।

पितरो लोकपालाश्च तथान्ये देवता गणाः ।।

महापातकसंघानां नाशने लोकपावने ।। ७ ।।

दिवानिशं वसंत्यत्र पर्वते गंधमादने ।।

अत्र गौरी सदा तुष्टा हरेण सह वर्तते ।। ।।

अत्र किन्नरकांतानां क्रीडा जागर्ति नित्यशः ।।

तस्य दर्शनमात्रेण बुद्धिसौख्यं नृणां भवेत् ।। ९ ।।

तन्मूर्धनि कृतावासाः सिद्धचारणयोषितः ।।

पूजयंति सदा कालं शंकरं गिरिजापतिम् ।। 3.1.10.१० ।।

कोटयो ब्रह्महत्यानामगम्यागमकोटयः ।।

अंगलग्नैर्विनश्यंति गन्धमादनमारुतैः ।। ११ ।।

असावुल्लोलकल्लोले तिष्ठन्मध्ये महांबुधौ ।।

आसीन्मुनिगणैः सेव्यः पुरा वै गन्धमादनः ।। १२ ।।

ततो नलेन सेतौ तु बद्धे तन्मध्यगोचरः ।।

रामाज्ञयाखिलैः सेव्यो बभूव मनुजैरपि ।। १३ ।।

सेतुरूपं गिरिं तं तु प्रार्थयेद्गंधमादनम् ।।

क्षमाधर महापुण्य सर्वदेवनमस्कृत ।। १४ ।।

विष्ण्वा दयोऽपि ये देवास्सेवंते श्रद्धया सह ।।

तं भवंतमहं पद्भ्यामाक्रमामि नगोत्तम ।। १५ ।।

क्षमस्व पादघातं मे दयया पापचेतसः ।।

त्वन्मूर्द्धनि कृतावासं शंकरं दर्शयस्व मे ।। १६ ।।

प्रार्थयित्वा नरस्त्वेवं सेतुरूपं नगोत्तमम् ।।

ततो मृदुपदं गच्छेत्पावनं गन्धमादनम् ।। १७ ।।

अब्धौ तत्र नरः स्नात्वा पर्वते गन्धमादने ।।

पिंडदानं ततः कुर्यादपि सर्षपमात्रकम् ।। १८ ।।

तृप्तिं प्रयांति पितरस्तस्य यावद्युगक्षयः ।।

शमीदलसमानान्वा दद्यात्पिंडान्पितॄन्प्रति ।। १९।।

स्वर्गस्था मोक्षमायांति स्वर्गं नरकवासिनः ।।

ततस्तस्योपरि महातीर्थं लोकेषु विश्रुतम् ।।3.1.10.२।।।

सर्वतीर्थोत्तमं पुण्यं नाम्ना पापविनाशनम् ।।

अस्ति पुण्यतमं विप्राः पवित्रे गन्धमादने ।।२१।।

यस्य संस्मरणादेव गर्भवासो न विद्यते ।।

तत्प्राप्य तु नरः स्नायात्स्वदे हमलनाशनम् ।।

तत्र स्नानान्नरो याति वैकुण्ठं नात्र संशयः ।।२२।।

।। ऋषय ऊचुः ।। ।।

सूत पापविनाशाख्य तीर्थस्य ब्रूहि वैभवम् ।।

व्यासेन बोधितस्त्वं हि वेत्सि सर्वं महामुने।।२३।।

।।श्रीसूत उवाच।। ।।

ब्रह्माश्रमपदे वृत्तां पार्श्वे हिमवतः शुभे।।

वक्ष्यामि ब्राह्मणश्रेष्ठा युष्माकं तु कथां शुभाम्।।२४।।

अस्याश्रमपदं पुण्यं ब्रह्माश्रमपदे शुभे ।।

नानावृक्षगणाकीर्णं पार्श्वे हिमवतः शुभे ।। २५ ।।

वहुगुल्मलताकीर्णं मृगद्विपनिषेवितम् ।।

सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम् ।। २६ ।।

वृतिभिर्बहुभिः कीर्णं तापसैरुशोभितम् ।।

ब्राह्मणैश्च महाभागैः सूर्यज्वलनसंनिभैः ।। २७ ।।

नियमव्रतसं पन्नैः समाकीर्णं तपस्विभिः ।।

दीक्षितैर्यागहेतोश्च यताहारैः कृतात्मभिः ।। २८ ।।

वेदाध्ययनसंपन्नैर्वैदिकैः परिवेष्टितम् ।।

वर्णिभिश्च गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ।। २९ ।।

स्वाश्रमाचारनिरतैः स्ववर्णोक्तविधायिभिः ।।

वालखिल्यैश्च मुनिभिः संप्राप्तैश्च मरीचिभिः ।। 3.1.10.३० ।।

तत्राश्रमे पुरा कश्चिच्छूद्रो दृढमतिर्द्विजाः ।।

साहसी ब्राह्मणाभ्याशमाजगाम मुदान्वितः ।। ३१ ।।

आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ।।

नाम्ना दृढमतिः शूद्रः साष्टांगं प्रणनाम वै ।। ३२ ।।

तान्स दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः ।।

कुर्वतो विविधान्यज्ञान्संप्रहृष्य स शूद्रकः ।। ३३ ।।

अथास्य बुद्धिरभवत्तपःकर्तुमनुत्तमम् ।।

ततोऽब्रवीत्कुलपतिं मुनिमागत्य तापसम् ।। ३४ ।।

।। दृढमतिरुवाच ।। ।।

तपोधन नमस्तेऽस्तु रक्ष मां करुणानिधे ।।

तव प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ ।। ३५ ।।

तस्मादभिगतं मां त्वं यागे दीक्षय सुव्रत ।।

ब्रह्मन्नवरवर्णोऽहं शूद्रो जात्यास्मि सत्तम ।। ३६ ।।

शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे ।।

एवमुक्ते तु शूद्रेण तमाह ब्राह्मणस्तदा ।। ३७ ।।

।। कुलपतिरुवाच ।।

यागे दीक्षयितुं शक्यो न शूद्रो हीनजन्मभाक् ।।

श्रूयतां यदि ते बुद्धिः शुश्रूषानिरतो भव ।। ३८ ।।

उपदेशो न कर्तव्यो जातिहीनस्य कर्हिचित् ।।

उपदेशे महान्दोष उपाध्यायस्य विद्यते ।। ३९ ।।

नाध्यापयेद्बुधः शूद्रं तथा नैव च याजयेत् ।।

न पाठयेत्तथा शूद्रं शास्त्रं व्याकरणादिकम् ।। 3.1.10.४० ।।

काव्यं वा नाटकं वापि तथालंकारमेव च ।।

पुराणमितिहासं च शूद्रं नैव तु पाठयेत् ।। ४१ ।।

यदि चोपदिशेद्विप्रः शूद्रं चैतानि कर्हिचित् ।।

त्यजेयुर्ब्राह्मणा विप्रं तं ग्रामाद्ब्रह्मसंकुलात् ।। ४२ ।।

शूद्राय चोपदेष्टारं द्विजं चंडालवत्त्यजेत् ।।

शूद्रं चाक्षरसंयुक्तं दूरतः परिवर्जयेत् ।।४३ ।।

अतः शुश्रूष भद्रं ते ब्राह्मणाञ्छ्रद्धया सह।।

शूद्रस्य द्विजशुश्रूषा मन्वादिभिरुदीरिता।।४४।।

नहि नैसर्गिकं कर्म परित्यक्तुं त्वमर्हसि ।।

एवमुक्तस्तु मुनिना स शूद्रोऽचिंतयत्तदा ।। ४५ ।।

किं कर्तव्यं मया त्वद्य व्रते श्रद्धा हि मे पुरा ।।

यथा स्यान्मम विज्ञानं यतिष्येऽहं तथाद्य वै ।। ४६ ।।

इति निश्चित्य मनसा शूद्रो दृढमतिस्तदा ।।

गत्वाश्रमपदाद्दूरं कृतवानुटजं शुभम् ।। ४७ ।।

तत्र वै देवतागारं पुण्यान्यायतनानिच ।।

पुष्पारामादिकं चापि तटाकखननादिकम् ।। ४८ ।।

श्रद्धया कारयामास तपःसिद्ध्यर्थमात्मनः ।।

अभिषेकांश्च नियमानुपवासादिकानपि ।। ४९ ।।

बलिं च कृत्वा हुत्वा च दैवतान्यभ्यपूजयत् ।।

संकल्पनियमोपेतः फलाहारो जितेंद्रियः ।। 3.1.10.५० ।।

नित्यं कंदैश्च मूलैश्च पुष्पैरपि तथा फलैः ।।

अतिथीन्पूजयामास यथावत्समुपागतान् ।। ५१ ।।

एवं हि सुमहान्कालो व्यतिचक्राम तस्य वै ।।

अथाश्रममगात्तस्य सुमतिर्नाम नामतः ।। ५२ ।।

द्विजो गर्गकुलोद्भूतः सत्यवादी जितेंद्रियः ।।

स्वागतेन मुनिं पूज्य तोषयित्वा फलादिकैः ।। ५३ ।।

कथयन्वै कथाः पुण्याः कुशलं पर्यपृच्छत ।।

इत्थं सप्रणिपाताद्यैरुपचारैस्तु पूजितः ।। ५४ ।।

आशीर्भिरभिनंद्यैनं प्रतिगृह्य च सत्क्रियाम् ।।

तमापृछ्य प्रहृष्टाप्मा स्वाश्रमं पुनराययौ ।। ५५ ।।

एवं दिनेदिने विप्रः शूद्रेस्मिन्पक्षपातवान् ।।

आगच्छदाश्रमं तस्य द्रष्टुं तं शूद्रयोनिजम् ।। ५६ ।।

बहुकालं द्विजस्याभूत्संसर्गः शूद्रयोनिना।।

स्नेहस्य वशमापन्नः शूद्रोक्तं नातिचक्रमे ।। ५७ ।।

अथागतं द्विजं शूद्रः प्राह स्नेहवशीकृतम् ।।

हव्यकव्यविधानं मे कृत्स्नं ब्रूहि मुनीश्वर ।। ५८ ।।

पितृकार्यविधानार्थं देवकार्यार्थमेव च ।।

मंत्रानुपदिश त्वं मे महालयविधिं तथा ।। ५९ ।।

अष्टकाश्राद्धकृत्यं च वैदिकं यच्च किंचन ।।

सर्वमेतद्रहस्यं मे ब्रूहि त्वं वै गुरुर्मतः।। 3.1.10.६० ।।

एवमुक्तः स शूद्रेण सर्वमेतदुपादिशत् ।।

कारयामास तस्यायं पितृकार्यादिकं तथा ।। ६१ ।।

पितृकार्ये कृते तेन विसृष्टः स द्विजो गतः ।।

अथ दीर्घेण कालेन पोषितः शूद्रयोनिना ।। ६२ ।।

त्यक्तो विप्रगणैः सोऽयं पंचत्वमगमद्द्विजः

वैवस्वतभटैर्नीत्वा पातितो नरकेष्वपि ।। ६३ ।।

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।।

भुक्त्वा क्रमेण नरकांस्तदंते स्था वरोऽभवत् ।। ६४ ।।

गर्दभस्तु ततो जज्ञे विड्वराहस्ततः परम् ।।

जज्ञेऽथ सारमेयोऽसौ पश्चाद्वायसतां गतः ।। ६५ ।।

अथ चंडालतां प्राप शूद्रयोनिमगात्ततः ।।

गतवान्वैश्यतां पश्चात्क्षत्रियस्तदनंतरम् ।। ६६ ।।

प्रबलैर्बाध्यमानोऽसौ ब्राह्मणो वै तदाऽभवत् ।।

उपनीतः स पित्रा तु वर्षे गर्भाष्टमे द्विजः ।। ६७ ।।

वर्तमानः पितुर्गेहे स्वाचाराभ्यासतत्परः ।।

गच्छन्कदाचिद्गहने गृहीतो ब्रह्मरक्षसा ।। ६८ ।।

रुदन्भ्रमन्स्खल न्मूढः प्रहसन्विलपन्नसौ ।।

शश्वद्धाहेति च वदन्वैदिकं कर्म सोऽत्यजत् ।। ६९ ।।

दृष्ट्वा सुतं तथाभूतं पिता दुःखेन पीडितः ।।

सुतमादाय च स्नेहा दगस्त्यं शरणं ययौ ।। 3.1.10.७० ।।

भक्त्या मुनिं प्रणम्यासौ पिता तस्य सुतस्य वै ।।

तस्मै निवेदयामास स्वपुत्रस्य विचेष्टितम् ।। ७१ ।।

अब्रवीच्च तदा विप्रः कुम्भजं मुनिपुंगवम्।।

एष मे तनयो ब्रह्मन्गृहीतो ब्रह्मरक्षसा ।। ७२ ।।

सुखं न भजते ब्रह्मन्रक्ष तं करुणादृशा ।।

नास्ति मे तनयोऽ प्यन्यः पितॄणामृणमुक्तये ।। ७३ ।।

अस्य पीडाविनाशार्थमुपायं ब्रूहि कुम्भज ।।

त्वत्समस्त्रिषु लोकेषु तपःशीलो न विद्यते ।। ७४ ।।

अग्रणीः शिवभक्तानामुक्तस्त्वं हि महर्षिभिः ।।

त्वां विनास्य परित्राणं न मेपुत्रस्य विद्यते ।। ७५ ।।

पित्रे कृपां कुरुष्व त्वं दयाशीला हि साधवः ।। ।।

।। श्रीसूत उवाच ।। ।।

एवमुक्तस्तदा तेन कुम्भजो ध्यानमास्थितः ।। ७६ ।।

ध्यात्वा तु सुचिरं कालमब्रवीद्ब्राह्मणं ततः ।।

।। अगस्त्य उवाच ।। ।।

पूर्वजन्मनि ते पुत्रो ब्राह्मणोऽयं महामते ।। ७७ ।।

सुमतिर्नाम विप्रोऽयं मतिं शूद्राय वै ददौ ।।

कर्माणि वैदिकान्येष सर्वाण्युपदि देश वै ।। ७८ ।।

अतोऽयं नरकान्भुक्त्वा कल्पकोटिसहस्रकम् ।।

जातो भुवि तदंतेषु स्थावरादिषु योनिषु ।। ७९ ।।

इदानीं ब्राह्मणो जातः कर्मशेषेण ते सुतः ।।

यमेन प्रेषितेनात्र गृहीतो ब्रह्मरक्षसा ।। 3.1.10.८० ।।

क्रूरेण पातकेनाद्धा पूवजन्मकृतेन वै ।।

उपायं ते प्रवक्ष्यामि ब्रह्मरक्षोविनाशने ।। ८१ ।।

शृणुष्व श्रद्धया युक्तः समाधाय च मानसम् ।।

दक्षिणांभोनिधौ विप्र सेतुरूपो महागिरिः ।। ८२ ।।

वर्तते दैवतैः सेव्यः पावनो गन्धमादनः ।।

तस्योपरि महातीर्थं नाम्ना पापविनाशनम् ।। ८३ ।।

अस्ति पुण्यं प्रसिद्धं च महापातकनाशनम् ।।

भूतप्रेतपिशाचानां वेतालब्रह्म रक्षसाम्।। ८४ ।।

महतां चैव रोगाणां तीर्थं तन्नाशकं स्मृतम् ।।

सुतमादाय गच्छ त्वं तत्तीर्थं सेतुमध्यगम् ।। ८५ ।।

प्रयतः स्नापय सुतं तीर्थे पापविनाशने ।।

स्नानेन त्रिदिनं तत्र ब्रह्मरक्षो विनश्यति ।। ८६ ।।

नैवोपायांतरं तस्य विनाशे विद्यते भुवि ।।

तस्माच्छीघ्रं प्रयाहि त्वं रामसेतुं विमुक्तिदम् ।। ८७ ।।

तत्र पापविनाशाख्यतीर्थे स्नापय ते सुतम् ।।

मा विलंबं कुरुष्वात्र त्वरया याहि वै द्विज ।। ८८ ।।

इत्युक्तः स द्विजोऽगस्त्यं प्रणम्य भुवि दण्डवत्।।

अनुज्ञातश्च तेनासौ प्रययौ गंधमादनम् ।। ८९ ।।

सुतेन साकं विप्रेंद्रो गत्वा पापविनाशनम् ।।

संकल्पपूर्वं संस्नाप्य दिनत्रयमसौसुतम्।। 3.1.10.९।।।

सस्नौ स्वयं च विप्रेंद्राः पिता पापविनाशने ।।

अथ तस्य सुतस्तत्र विमुक्तो ब्रह्मरक्षसा ।। ९१ ।।

समजायत नीरोगः स्वस्थः सुन्दररूपधृक् ।।

सर्वसंपत्समृद्धोऽसौ भुक्त्वा भोगाननेकशः ।। ९२ ।।

देहांते प्रययौ मुक्तिं स्नानात्पापविनाशने ।।

पितापि तत्र स्नानेन देहांते मुक्तिमाप्तवान्।। ९३ ।।

तेनोपदिष्टो यः शूद्रः स भुक्त्वा नरकान्क्रमात् ।।

अनेकासु जनित्वा च कुत्सितास्वपियोनिषु ।। ९४ ।।

गृध्रजन्मा भवत्पश्चाद्गंधमादनपर्वते ।।

स कदाचिज्जलं पातुं तीर्थे पापविनाशने ।। ९५ ।।

समागतः पपौ तोयं सिषिचे चात्मनस्तनुम् ।।

तदैव दिव्यदेहः सन्सर्वाभरणभूषितः ।। ९६ ।।

दिव्यमाल्यांबरधरो रक्तचंदनरूषितः ।।

दिव्यं विमानमारुह्य शोभितश्छत्रचामरैः ।। ९७ ।।

उत्तमस्त्रीपरिवृतः प्रययावमरालयम् ।।९८।।

श्रीसूत उवाच ।। ।।

एवं प्रभावमेतद्वै तीर्थं पापविनाशनम् ।।

स्वर्गदं मोक्षदं पुण्यं प्रायश्चित्तकरं तथा ।।

ब्रह्मविष्णुमहे शानैः सेवितं सुरसेवितम् ।। ९९ ।।

पापानां नाशनाद्विप्राः पापनाशाभिधं हि तत् ।।

श्रेयोर्थी पुरुषस्तस्मात्स्नायात्पापविनाशने ।।3.1.10.१।।।।

इत्थं रहस्यं कथितं मुनींद्रास्तद्वैभवं पापविनाशनस्य ।।

यत्राभिषेकात्सहसा विमुक्तौ द्विजश्च शूद्रश्च विनिंद्यकृत्यौ ।।१०१।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये गंधमादनप्रशंसायां पापविनाशप्रभावकथनंनाम दशमोऽध्यायः ।। १० ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 11

।। श्रीसूत उवाच ।। ।।

पापनाशे नरः स्नात्वा सर्वपापनिबर्हणे ।।

ततः सीतासरो गच्छेत्स्नातुं नियमपूर्वकम् ।। १ ।।

यानि कानि च पुण्यानि ब्रह्मांडांतर्गतानि वै ।।

तानि गंगादितीर्थानि स्वपापपरिशुद्धये ।। २ ।।

सीतासरसि वर्तंते महापातकनाशने ।।

क्षेत्राण्यपि महार्हाणि काश्यादीनि दिवानिशम् ।। ३ ।।

सीतासरोत्र सेवंते स्वस्वकल्मषशांतये ।।

तस्याः सरसि संगीतगुणेनाकृष्य बालिशः ।। ४ ।।

पंचाननोऽपि वसते पंचपातकनाशनः ।।

तदेतत्तीर्थमागत्य स्नात्वा वै श्रद्धया सह ।।

पुरंदरः पुरा विप्रा मुमुचे ब्रह्महत्यया ।। ५ ।।

।। ऋषय ऊचुः ।। ।।

ब्रह्महत्या कथमभूद्वासवस्य पुरा मुने ।।

सीतासरसि स्नानात्कथं मुक्तोऽभवत्तया ।। ६।।

।। श्रीसूत उवाच ।। ।।

कपालाभरणोनाम राक्षसोऽभूत्पुरा द्विजाः ।। ।। ७ ।।

अवध्यः सर्वदेवानां सोऽभवद्ब्रह्मणो वरात् ।।

शवभक्षणनामा तु तस्यासीन्मंत्रिसत्तमः ।। ८ ।।

अक्षौहिणीशतं तस्य हयेभरथसंकुलम् ।।

अस्ति तस्य पुरं चापि वैजयंतमिति श्रुतम् ।। ९ ।।

वसत्यस्मिन्पुरे सोऽयं कपालाभरणो बली ।।

शवभक्षं समाहूय बभाषे मंत्रिणं द्विजाः ।। ।। 3.1.11.१० ।।

शवभक्ष महावीर्य मंत्रशास्त्रेषु कोविद ।।

वयं देवपुरीं गत्वा विनिर्जित्य सुरान्रणे ।। ११ ।।

शक्रस्य भवने रम्ये स्थास्यामस्सैनिकैः सह ।।

रमावो नंदने तस्य रंभाद्यप्सरसां गणैः ।। १२ ।।

कपालाभरणस्येदं निशम्य वचनं तदा ।।

शवभक्षोऽब्रवीद्विप्रा वचस्तत्र तथास्त्विति ।। ।। १३ ।।

ततः कपालाभरणः पुत्रं दुर्मेधसं बली ।।

प्रतिष्ठाप्य पुरे शूरं सेनया परिवारितः ।। १४ ।।

युयुत्सुरमरैः साकं प्रययावमरावतीम् ।।

गजाश्वरथपादातैरुद्धतै रेणुसंचयैः ।। १५ ।।

शोषयञ्जलधीन्सिंधूंश्चूर्णयन्पर्वतानपि ।।

निःसाणध्वनिना विप्रा नादयन्रोदसी तथा ।। १६ ।।

अश्वानां हेषितरवैर्गजानामपि बृंहितैः ।।

रथनेमिस्वनैरुग्रैः सिंहनादैः पदातिनाम् ।। १७ ।।

श्रोत्राणि दिग्गजानां च वितन्वन्बधिराणि सः ।।

अगमद्देवनगरीं युयुत्सुरमरैः सह ।। १८ ।।

तत इन्द्रादयो देवाः सेनाकलकलध्वनिम् ।।

श्रुत्वाभिनिर्य्ययुः पुर्या युद्धाभिमनसो द्विजाः ।। १९ ।।

ततो युद्धं समभवद्देवानां राक्षसैः सह ।।

अदृष्टपूर्वं जगति तथैवाश्रुतपूर्वकम् ।। 3.1.11.२० ।।

तत इन्द्रादयो देवा राक्षसाञ्जघ्नुराहवे ।।

राक्षसाश्च सुराञ्जघ्नुः समरे विजिगीषवः ।। २१ ।।

द्वन्द्वयुद्धं च समभूदन्योन्यं सुररक्षसाम् ।।

कपालाभरणेनाजौ युयुधे बलवृत्रहा ।। २२ ।।

यमेन शवभक्षश्च वरुणेन च कौशिकः ।।

कुबेरो रुधिराक्षेण युयुधे ब्राह्मणोत्तमाः ।। २३ ।।

मांसप्रियो मद्यसेवी क्रूरदृष्टिर्भयावहः ।।

चत्वार एते विक्रांताः कपालाभरणानुजाः ।। २४ ।।

अश्विभ्यामग्निवायुभ्यां युद्धे युयुधिरे मिथः ।।

ततो यमो महावीर्यः कालदण्डेन वेगवान् ।। २५ ।।

शवभक्षं निहत्याजावनयद्यमसादनम्।।

तस्य चाक्षौहिणीस्त्रिंशन्निजघ्ने समरे यमः ।। २६ ।।

वरुणः कौशिकस्याजौ प्रासेन प्राहरच्छिरः ।।

कुबेरो रुधिराक्षस्य कुन्तेनाभ्यहरच्छिरः ।। २७ ।।

अश्विभ्यामग्निवायुभ्यां कपालाभरणानुजाः ।।

निहताः समरे विप्राः प्रययुर्यमसादनम् ।। २८ ।।

अक्षौहिणीशतं चापि देवेन्द्रेण मृधे द्विजाः ।।

यामार्द्धेन हतं युद्धे प्रययौ यमसादनम् ।। २९ ।।

ततः कपालाभरणः प्रेक्ष्य सेनां निजां हताम् ।।

चापमादाय निशिताञ्छरांश्चापि महाजवान् ।। 3.1.11.३० ।।

अभ्ययात्समरे शक्रं तिष्ठतिष्ठेति चाब्रवीत् ।।

ततः शक्रस्य शिरसि व्यधमच्छरपंचकैः ।। ३१ ।।

तानप्राप्तान्प्रचिच्छेद शरैर्युद्धे स वृत्रहा ।।

ततः शूलं समादाय कपालाभरणो मृधे ।। ३२ ।।

देवेंद्राय प्रचिक्षेप तं शक्त्या निजघान सः ।।

ततः कपालाभरणः शतहस्तायतां गदाम्।। ३३ ।।

आयसीं पंचसाहस्रतुलाभारेणनिर्मिताम् ।।

आददे समरे शक्रं वक्षोदेशे जघान च ।।३४।।

ततः स मूर्च्छितः शक्रो रथोपस्थ उपाविशत् ।।

मृतसंजीविनीं विद्यां जपित्वाथ बृहस्पतिः ।। ३५ ।।

पुलोमजापतिं युद्धे समजीवयदद्भुतम् ।।

ऐरावतं तदारुह्य कपालाभरणांतिकम्।। ३६ ।।

आजगाम शचीभर्ता प्रहर्तुं कुलिशेन तम् ।।

एकप्रहारेण तदा महेंद्रः पाकशासनः ।। ३७ ।।

कपालाभरणं युद्धे वज्रेण सरथाश्वकम् ।।

सचापं सध्वजं चैव सतूणीरं सवर्मकम् ।।३८।।

चूर्णयामास कुपितस्तिलशः कणशस्तथा ।।

हते तस्मिन्महावीरे कपालाभरणे रणे।।३९।।

सुखं सर्वस्य लोकस्य बभूव चिरदुःखिनः ।।

राक्षसस्य वधोत्पन्ना ब्रह्महत्या पुरंदरम् ।।

अन्वधावत्तदा भीमा नादयंती दिशो दश ।।3.1.11.४०।।

।। ऋषय ऊचुः ।। ।।

न विप्रो राक्षसः सूत कपालाभरणो मुने ।।

तत्कथं ब्रह्महत्येंद्रं तद्वधात्समुपाद्रवत् ।। ४१ ।।

।। श्रीसूत उवाच ।। ।।

वक्ष्यामि परमं गुह्यं मुनींद्राः परमाद्भुतम् ।।४२।।

शृणुत श्रद्धया यूयं समाधाय स्वमानसम् ।।

पुरा विंध्यप्रदेशेषु त्रिवक्रो नाम राक्षसः ।। ४३ ।।

तस्य भार्या गुणोपेता सौंदर्यगुणशालिनी ।।

सुशीला नाम सुश्रोणी सर्वलक्षणलक्षिता ।। ४४ ।।

सा कदाचिन्मनोज्ञांगी सुवेषा चारुहासिनी ।।

विंध्यपादवनोद्देशे विचचार विलासिनी ।। ४५ ।।

तस्मिन्वने शुचिर्नाम वर्ततेस्म महामुनिः ।।

तपसमाधिसंयुक्तो वेदाध्ययनतत्परः ।। ४६ ।।

तस्याश्रमसमीपं तु सा ययौ वरवर्णिनी ।।

तां दृष्ट्वा स मुनिर्धैर्यं मुमोचानंगपीडितः।।

तामासाद्य वरारोहां बभाषे मुनिसत्तमः ।। ४७।।

।। शुचिरुवाच ।। ।।

ललने स्वागतं तेऽस्तु कस्य भार्या शुचिस्मिते ।। ४८ ।।

किमागमनकृत्यं ते वनेऽस्मिन्नतिभीषणे ।।

श्रांतासि त्वं वरारोहे वसास्मिन्नुटजे मम ।। ४९ ।।

तथोक्ता सा तु सुश्रोणी तं मुनिं प्रत्यभाषत ।।

त्रिवक्ररक्षोभार्याहं सुशीला नामतो मुने ।।3.1.11.५।।।

पुष्पावचयकामेन वनमेतत्समागता ।।

अपुत्राहं मुने भर्त्रा प्रेरिता पुत्रमिच्छता ।। ५१ ।।

शुचिं मुनिं समाराध्य तस्मात्पुत्रमवाप्नुहि ।।

इति प्रतिसमादिष्टा पतिना त्वां समागता ।।५२।।

पुत्रमुत्पादय त्वं मे कृपां कुरु मुने मयि ।।

एवमुक्तः स तु शुचिः सुशीलां तामभाषत ।। ५३ ।।

।। शुचिरुवाच ।।।।

त्वां दृष्ट्वा मम च प्रीतिः सुशीले विद्यतेऽधुना।।

मनोरथमहांभोधिं त्वमापूरय मामकम् ।। ५४ ।।

इत्युक्त्वा स मुनिस्तत्र तया रेमे दिनत्रयम् ।।

तामुवाच मुनिः प्रीतः सुशालां सुन्दराकृतिम् ।। ।। ५५ ।।

तवोदरे महावीर्यः कपालाभरणाभिधः ।।

भविष्यति चिरं राज्यं पालयिष्यति मेदिनीम् ।। ५६ ।।

सहस्रं वत्सरान्वत्सस्तपसा प्रीणयन्विधिम् ।।

पुरंदरं विनान्येभ्यो देवेभ्यो नास्य वध्यता।।५७।।

ईदृशस्ते सुतो भूयादिंद्रतुल्यपराक्रमः ।।

इत्युक्त्वा स मुनिर्नारीं काशीं शिवपुरीं ययौ ।।५८।।

सुशीला सापि सुषुवे कपालाभरणं सुतम् ।।

तं जघान मृधे शक्रो वज्रेण मुनिपुंगवाः ।।५९।।

शुचेर्बीजसमुद्भूतं तमिंद्रो न्यवधीद्यतः ।।

ततः पुरंदरः शक्रो जगृहे ब्रह्महत्यया ।।3.1.11.६०।।

धावति स्म तदा शक्रः सर्वांल्लोकान्भयाकुलः।।

धावंतमनुधावंती ब्रह्महत्या तमन्वगात्।।६१।।

अनुद्रुतो हि विप्रेंद्राः शक्रोऽयं ब्रह्महत्यया ।।

पितामहसदः प्राप संतप्तहृदयो भृशम् ।।६२।।

न्यवेदयद्ब्रह्महत्यां ब्रह्मणे स पुरंदरः ।।

भगवँल्लोकनाथेयं ब्रह्महत्याति भीषणा।।६३।।

बाधते मां प्रजानाथ तस्या नाशं ब्रवीहि मे ।।

पुरंदरेणैवमुक्तो ब्रह्मा प्राह दिवस्पतिम्।।६४।।

ब्रह्मोवाच ।।

सीताकुण्डं प्रयाहींद्र गंधमादनपर्वते।।

सीताकुण्डस्य तीरे त्वं इष्ट्वा यागैः सदाशिवम्।। ६५ ।।

तस्मिन्सरसि च स्नायाः सर्वपापहरे शुभे ।।

ततः पूतो भवेश्शक्र बह्महत्याविमोचितः।।६६।।

देवलोकं पुनर्यायाः सर्वदुःखविवर्जितः ।।

सर्वपापहरं पुण्यं सीताकुण्डं विमुक्तिदम् ।।६७।।

महापातकसंघानां नाशकं परमामृतम् ।।

सर्वदुःखप्रशमनं सर्वदारिद्र्यनाशनम् ।। ६९ ।।

धनधान्यप्रदं शुद्धं वैकुण्ठादिपदप्रदम्।।

तस्मात्तत्र कुरुष्वेष्टिं सीतासरसि वृत्रहन् ।। ६९ ।।

इत्युक्तः सुरराजोऽसौ प्रययौ गंधमादनम् ।।

प्राप्य सीतासरो विप्राः स्नात्वेष्ट्वा च तदंतिके ।। 3.1.11.७० ।।

प्रययौ स्वपुरीं भूयो ब्रह्महत्याविमोचितः ।।

एवं प्रभावं तत्तीर्थं सीतायाः कुण्डमुत्तमम् ।। ७१ ।।

राघवप्रत्ययार्थं हि प्रविश्य हुतवाहनम् ।।

संनिधौ सर्वदेवानां मैथिली जनकात्मजा ।। ७२ ।।

विनिर्गता पुनर्वह्नेः स्थिता सर्वांगशोभना ।।

निर्ममे लोकरक्षार्थं स्वनाम्ना तीर्थमुत्तमम् ।। ७३ ।।

तत्र सस्नौ स्वयं सीता तेन सीतासरः स्मृतम् ।।

तत्र यो मानवः स्नाति सर्वान्कामाँल्लभेत सः ।। ७४ ।।

तस्मिन्नुपस्पृश्य नरो द्विजेंद्रा दत्त्वा च दानानि पृथग्विधानि ।।

कृत्वा च यज्ञान्बहुदक्षिणाभिर्लोकं प्रयायात्परमेश्वरस्य ।। ७५ ।।

युष्माकमेवं प्रथितं मुनींद्राः सीतासरो वैभवमेतदुक्तम् ।।

शृण्वन्पठन्वै तदिहैव भोगान्भुक्त्वा परत्रापि सुखं लभेत ।। ७६।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्ये सीतासरःप्रशंसायामिंद्रब्रह्महत्याविमोक्षणनामैकादशोऽध्यायः ।। ११ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 12

।। श्रीसूत उवाच ।। ।।

सीताकुण्डे महापुण्ये नरः स्नात्वा द्विजोत्तमाः ।।

ततस्तु मंगलं तीर्थमभिगच्छेत्समाहितः ।। १ ।।

सन्निधत्ते सदा यत्र कमला विष्णुवल्लभा ।।

अलक्ष्मीपरिहाराय यस्मिन्सरसि वै सुराः ।। २ ।।

शतक्रतुमुखाः सर्वे समागच्छंति नित्यशः ।।

तदेतत्तीर्थमुद्दिश्य ऋषयो लोकपावनम् ।। ३ ।।

इतिहासं प्रवक्ष्यामि पुण्यं पापविनाशनम् ।।

पुरा मनोजवो नाम राजा सोमकुलोद्भवः ।। ४ ।।

पालयामास धर्मेण धरां सागरमेखलाम् ।।

अयष्ट स सुरान्यज्ञै र्ब्राह्मणानन्नसंचयैः ।। ५ ।।

तर्पयामास कव्येन प्रत्यब्दं पितृदेवताः ।।

त्रयीमध्यैष्ट सततमपाठीच्छास्त्रमर्थवत् । ६ ।।

व्यजेष्ट शत्रून्वीर्येण प्राणं सीदीशकेशवौ ।।

अरंस्त नीतिशास्त्रेषु तथापाठीन्महामनून् ।।७।।

एवं स धर्मतो राजा पालयामास मेदिनीम् ।।

रक्षतस्तस्य राज्ञोऽभूद्राज्यं निहत कंटकम् ।। ८ ।।

अहंकारोऽभवत्तस्य पुत्रसंपद्विनाशनः ।।

अहंकारो भवेद्यत्र तत्र लोभो मदस्तथा ।।९।।

कामः क्रोधश्च हिंसा च तथाऽसूया विमोहिनी ।।

भवंत्येतानि विप्रेंद्राः संपदां नाशहेतवः ।। 3.1.12.१० ।।

एतानि यत्र विद्यंते पुरुषे स विनश्यति ।।

क्षणेन पुत्रपौत्रैश्च सार्द्धं चाखिलसंपदा ।। ।। ११ ।।

बभूव तस्यासूया च जनविद्वेषिणी सदा ।।

असूयाकुलचित्तस्य वृथाहंकारिणस्तथा ।। १२ ।।

लुब्धस्य कामदुष्टस्य मतिरेवं बभूव ह ।।

विप्रग्रामे करादानं करिष्यामीति निश्चितः ।। १३ ।।

अकरोच्च तथा राजा निश्चित्य मनसा तदा ।।

धनं धान्यं च विप्राणां जहार किल लोभतः ।। ।। १४ ।।

शिवविष्ण्वादिदेवानां वित्तान्यादत्त रागतः ।।

शिवविष्ण्वादिदेवानां विप्राणां च महात्मनाम् ।। १५ ।।

क्षेत्राण्यपजहारायमहंकार विमूढधीः ।।

एवमन्याययुक्तस्य देवद्विजविरोधिनः ।। १६ ।।

दुष्कर्मपरिपाकेन क्रूरेण द्विजपुंगवाः ।।

पुरं रुरोध बलवान्परदेशाधिपो रिपुः ।। १७ ।।

गोलभोनाम विप्रेंद्राश्चतुरंगबलैर्युतः ।।

षण्मासं युद्धमभवद्गोलभेन दुरात्मनः ।। १९ ।।

मनोजवस्य नृपतेरहंकाररतात्मनः ।।

ततः स गोलभेनाजौ जितो राज्यात्परिच्युतः ।। १९ ।।

वनं सपुत्रदारः सन्प्रपेदे स मनोजवः ।।

गोलभः पालयन्नास्ते मनोजवपुरे चिरम् ।।3.1.12.२०।।

चतुरंगबलोपेतस्तमुद्वास्य रणे बली ।।

मनोजवोपि विप्रेंद्राः शोचन्स्त्रीपुत्रसंयुतः ।। २१ ।।

क्षुत्क्षामः प्रस्खलञ्छश्वत्प्रविवेश महावनम् ।।

झिल्लिकागणसंघुष्टं व्याघ्रश्वापद भीषणम् ।। २२ ।।

व्याप्तद्विरदचीत्कारं वराहमहिषाकुलम् ।।

तस्मिन्वने महाघोरे क्षुधया परिपीडितः ।। २३ ।।

अयाचतान्नं पितरं मनोजवसुतः शिशुः ।।

अंब मेन्नं प्रयच्छ त्वं क्षुधा मां बाधते भृशम् ।।२४ ।।

एवं स्वजननीं चापि प्रार्थयामास बालकः ।।

तन्मातापितरौ तत्र श्रुत्वा पुत्रस्य भाषितम् ।। २५ ।।

शोकाभिभूतौ सहसा मोहं समुपजग्मतुः ।।

भार्यामथाब्रवीद्राजा सुमित्रानाम नामतः ।। २६ ।।

मुह्यमानश्च स मुहुः शुष्ककंठौष्ठतालुकः ।।

सुमित्रे किं करिष्यामि कुत्र यास्यामि का गतिः ।। २७ ।।

मरिष्यत्यचिरादेष सुतो मे क्षुधयार्दितः ।।

किमर्थं ससृजे वेधा दुर्भाग्यं मां वृथा प्रिये ।। २८ ।।

को वा मोचयिता दुःखमेतद्दुष्कर्मजं मम ।।

न पूजितो मया शंभुर्हरिर्वा पूर्वजन्मसु ।। २९ ।।

तथान्या देवताः सूर्यविभावसुमुखाः प्रिये ।।

तेन पापेन चाद्याहमस्मिञ्जन्मनि शोभने ।। 3.1.12.३० ।।

अहंकाराभिभूतोऽस्मि विप्रक्षेत्राण्यपाहरम् ।।

शिवविष्ण्वादिदेवानां वित्तं चापहृतं मया ।। ३१ ।।

एवं दुष्कर्मबाहुल्याद्गोलभेन पराजितः ।।

वनं यातोस्मि विजनं त्वया सह सुतेन च ।। ३२ ।।

निरन्नो निर्धनो दुःखी क्षुधितो ऽहं पिपासितः ।।

कथमन्नं प्रदास्यामि क्षुधिताय सुताय मे ।। ३३ ।।

न मयान्नानि दत्तानि ब्राह्मणेभ्यः शुचिस्मिते ।।

न मया पूजितः शंभुर्विष्णुर्वा देवतांतरम् ।। ३४ ।।

तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ।।

न मयाग्नौ हुतं पूर्वं न तीर्थमपि सेवितम् ।। ३५ ।।

मातृश्राद्धं पितृश्राद्धं मृताह दिवसे तयोः।।

नैकोद्दिष्टविधानेन पार्वणेनापि वै प्रिये ।।३६।।

कृतं न हि मया भद्रे भूरिभोजनमेव वा ।।

तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ।। ।। ३७ ।।

चैत्रमासे प्रिये चित्रानक्षत्रे पानकं मया ।।

पनसानां फलं स्वादु कदलीफलमेव वा ।। ३८ ।।

तथा छत्रं सदंडं च रम्यं पादुकयोर्द्वयम् ।।

तांबूलानि च पुष्पाणि चंदनं चानुलेपनम् ।। ३९ ।।

न दत्तं वेदविद्भ्यस्तु चित्रगुप्तस्य तुष्टये ।।

तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ।। 3.1.12.४० ।।

नाश्वत्थश्चूतवृक्षो वा न्यग्रोधस्तिंतिणी तथा ।।

पिचुमंदः कपित्थो वा तथैवामलकीतरुः ।। ४१ ।।

नारिकेलतरुर्वापि स्थापितोऽध्वगशांतये ।।

तेन पापेन मे त्वद्य दुःखमेतत्समागतम्।। ४२ ।।

सम्मार्जनं च न कृतं शिवविष्ण्वालये मया ।।

न खानितं तटाकं च न कूपोपि ह्रदोऽपिवा ।। ।। ४३ ।।

न रोपितं पुष्पवनं तथैव तुलसीवनम् ।।

शिवविष्ण्वालयौ वापि निर्मितो न मया प्रिये ।। ४४ ।।

तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ।।

न मया पैतृके मासि पितॄनुद्दिश्य शोभने ।।

महालयं कृतं श्राद्धमष्टकाश्राद्धमेव वा ।। ४५ ।।

नित्यश्राद्धं तथा काम्यं श्राद्धं नैमित्तिकं प्रिये ।।

न कृताः क्रतवश्चापि विधिवद्भूरिदक्षिणाः ।। ४६ ।।

मासोपवासो न कृतः एकादश्यामुपोषणम् ।।

धनुर्मासेप्युषःकाले शंभुविष्ण्वादिदेवताः ।। ४७ ।।

संपूज्य विधिवद्भद्रे नैवेद्यं न कृतं मया ।।

तेन पापेन मे त्वद्य दुःखमेतत्समा गतम् ।। ४८।।

हरिशंकरयोर्नाम्नां कीर्तनं न मया कृतम् ।।

उद्धूलनं त्रिपुण्ड्रं च जाबालोक्तैश्च सप्तभिः ।। ४९ ।।

न धृतं भस्मना भद्रे रुद्राक्षं न धृतं मया ।।

जपश्च रुद्रसूक्तानां पंचाक्षरजपस्तथा ।। 3.1.12.५० ।।

तथा पुरुषसूक्तस्य जपोऽप्यष्टाक्षरस्य च ।।

नैवकारि मया भद्रे नैवान्यो धर्मसंचयः ।। ५१ ।।

तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ।।

एवं स विलपन्राजा भार्यामाभाष्य खिन्नधीः ।। ५२ ।।

मूर्च्छामुपाययौ विप्राः पपात च धरातले ।।

सुमित्रा पतितं दृष्ट्वा भार्या सा पतिमंगना ।। ५३ ।।

आलिंग्य विललापाथ सपुत्रा भृशदुःखिता ।।

मम नाथ महाराज सोमान्वयधुरंधर ।। ५४ ।।

मां विहाय क्व यातोऽसि सपुत्रां विजने वने ।।

अनाथां त्वामनुगतां सिंहत्रस्तां मृगीमिव ।। ५५ ।।

मृतोऽसि यदि राजेंद्र तर्हि त्वामहमप्यरम् ।।

अनुव्रजामि विधवा न स्थास्ये क्षणमप्युत।। ५६ ।।

पितरं पश्य पतितं चन्द्रकांत सुत क्षितौ ।।

इत्युक्तश्चंद्रकांतोऽपि सुतो राज्ञः क्षुधार्दितः ।। ५७ ।।

पितरं परिरभ्याथ निःशब्दं प्ररुरोद सः ।।

एतस्मिन्नंतरे विप्रा जटावल्कलसंवृतः ।। ५८ ।।

भस्मोद्धूलितसर्वांगस्त्रिपुण्ड्रांकितमस्तकः ।।

रुद्राक्षमालाभरणः सितयज्ञोपवीतवान् ।। ५९ ।।

पराशरोनाम मुनिराजगाम यदृच्छया ।।

तं शब्दमभिलक्ष्यासौ साधुसज्जनसंमतः ।। 3.1.12.६० ।।

ततः सुमित्रा तं दृष्ट्वा पराशरमुपागतम् ।।

ववंदे चरणौ तस्य सपुत्रा सा पतिव्रता ।। ६१ ।।

ततः पराशरेणेयं सुमित्रा परिसांत्विता ।।

आश्वासिता च मुनिना मा शोचस्वेति भामिनि ।।

ततः सुमित्रां पप्रच्छ शक्तिपुत्रो महामुनिः ।। ६२ ।।

।। पराशर उवाच ।।

का त्वं सुश्रोणि कश्चासौ यश्चायं पतितोऽग्रतः ।। ६३ ।।

अयं शिशुश्च कस्ते स्याद्वद तत्त्वेन मे शुभे ।।

पृष्टैवं मुनिना साध्वी तमुवाच महामुनिम् ।। ६४ ।।

।। सुमित्रोवाच ।। ।।

पतिर्ममायमस्याहं भार्या वै मुनिसत्तम ।।

आवाभ्यां जनितश्चायं चंद्रकांताभिधः सुतः ।। ६५ ।।

अयं मनोजवो नाम राजा सोमकुलोद्भवः ।।

विक्रमाढ्यस्य तनयः शौर्ये विष्णुसमो बली ।। ६६ ।।

सुमित्रा नाम तस्याहं भार्या पतिमनुव्रता ।।

युद्धे विनिर्जितो राजा गोलभेन मनोजवः ।। ६७ ।।

राज्याद्भ्रष्टो निरालंबो मया पुत्रेण चान्वितः ।।

वनं विवेश ब्रह्मर्षे क्रूरसत्त्वभयानकम् ।।६८।।

क्षुधया पीडितः पुत्रो ह्यावामन्नमयाचत ।।

निरन्नो विधुरो राजा दृष्ट्वा पुत्रं क्षुधार्दितम् ।। ६९ ।।

शोकाकुलमना ब्रह्मन्मूर्च्छितः पतितो भुवि ।।

इति तद्वचनं श्रुत्वा शोकपर्याकुलाक्षरम् ।। 3.1.12.७० ।।

शक्तिपुत्रो मुनिः प्राह सुमित्रां तां पतिव्रताम् ।।

मनोजवस्य नृपतेर्भार्यामग्निशिखोपमाम् ।। ।। ७१ ।।

।। पराशर उवाच ।। ।।

मनोजवस्य भार्ये ते मा भीर्भूयात्कथंचन ।।

युष्माकमशुभं सत्यमचिरान्नाशमेष्यति ।। ७२ ।।

मूर्च्छां विहाय ते भद्रे क्षणादुत्थास्यते पतिः ।।

ततः पराशरो विप्रः पाणिना तं नराधिपम् ।। ७३ ।।

पस्पर्श मंत्रं प्रजपन्ध्यात्वा देवं त्रियंबकम् ।।

ततो मनोजवो राजा करस्पृष्टो महामुनेः ।। ७४ ।।

उत्थितः सहसा तत्र त्यक्त्वा मूर्च्छां तमोमयीम् ।।

ततः पराशरमुनिं प्रणम्य जगतीपतिः ।।

उवाच परमप्रीतः प्रांजलिर्विप्रसत्तमम् ।। ७५ ।।

।। मनोजव उवाच ।। ।।

पराशरमुने त्वद्य त्वत्पादाब्जनिषेवणात् ।। ७६ ।।

मूर्च्छा मे विगता सद्यः पातकं चैव नाशितम् ।।

त्वद्दर्शनमपुण्यानां नैव सिध्येत्कदाचन ।। ७७ ।।

रक्ष मां करुणादृष्ट्या च्यावितं शत्रुभिः पुरात् ।।

इत्युक्तः स मुनिः प्राह राजानं तं मनोजवम् ।। ७८ ।।

।। पराशर उवाच ।। ।।

उपायं ते प्रवक्ष्यामि राजञ्च्छत्रुजयाय वै ।।

रामसेतौ महापुण्ये गंधमादनपर्वते ।। ७९ ।। ।

विद्यते मंगलं तीर्थं सर्वैश्वर्यप्रदायकम् ।।

सर्वलोकोपकाराय तस्मिन्सरसि राघवः ।। 3.1.12.८० ।।

सन्निधत्ते सदा लक्ष्म्या सीतया राजसत्तम ।।

सपुत्रभार्यस्त्वं तत्र गत्वा स्नात्वा सभक्तिकम् ।। ८१ ।।

क्षेत्रश्राद्धादिकं चापि तत्तीरे कुरु भूपते ।।

एवं कृते त्वया राजन्नलक्ष्मीः क्लेशकारिणी ।। ९२ ।।

वैभवात्तस्य तीर्थस्य नाशं यास्यत्यसंशयम् ।।

मंगलानि च सर्वाणि प्राप्स्यसे न चिरान्नृप ।। ८३ ।।

विजित्य शत्रूंश्च रणे पुनर्भूमिं प्रपत्स्यसे ।।

अतस्त्वं भार्यया सार्द्धं पुत्रेण च मनोजव ।। ८४ ।।

गच्छ मंगलतीर्थं तद्गन्धमादनपर्वते ।।

अहमप्यागमिष्यामि तवानुग्रहकाम्यया ।। ८५ ।।

पराशरस्त्वेवमुक्त्वा राजमुख्यैस्त्रिभिः सह ।।

प्रायात्सेतुं समुद्दिश्य स्नातुं मंगलतीर्थके ।। ८६ ।।

राजादिभिः सह मुनिर्विलंघ्य विविधं वनम् ।।

वनप्रदेशदेशांश्च दस्युग्रामाननेकशः ।। ८७ ।।

प्रययौ मंगलं तीर्थं गन्धमादनपर्वते ।।

तत्र संकल्प्य विधिवत्सस्नौ स मुनिपुंगवः ।। ८८ ।।

तानपि स्नापयामास राजादीन्विधिपूर्वकम् ।।

तत्र श्राद्धं च भूपालश्चकार पितृतृप्तये ।। ८९ ।।

तत्र मासत्रयं सस्नौ राजा पत्नीसुतस्तथा ।।

ततः पराशरमुनिः सस्नौ नियमपूर्वकम् ।।। ।। 3.1.12.९० ।।

एवं मासत्रयं सस्नौ तैः साकं मुनिपुंगवः ।।

मंगलाख्ये महापुण्ये सर्वामंगलनाशने ।। ९१ ।।

ततः पराशरमुनिः सर्वानर्थविनाशनम् ।।

रामस्यैकाक्षरं मंत्रं तदंते समुपादिशत् ।। ९२ ।।

चत्वारिंशद्दिनं तत्र मंत्रमेकाक्षरं नृपः ।।

तत्र तीर्थे जजापासौ मुन्युक्तेनैव वर्त्मना ।। ९३ ।।

एवमभ्यसतस्तस्य मंत्रमेकाक्षरं द्विजाः ।।

मुनिप्रसादात्पुरतो धनुः प्रादुरभूद्दृढम् ।। ९४ ।।

अक्षयाविषुधी चापि खड्गौ च कनकत्सरू ।।

एकं चर्म गदा चैका तथैको मुसलोत्तमः ।। ९५ ।।

एकः शंखो महानादो वाजियुक्तो रथस्तथा ।।

ससारथिः पताका च तीर्थादुत्तस्थुरग्रतः ।। ९६ ।। ।

कवचं कांचनमयं वैश्वानरसमप्रभम् ।।

प्रादुर्बभूव तत्तीर्थात्प्रसादेन मुनेस्तथा ।। ९७ ।।

हारकेयूरमुकुटकटकादिविभूषणम्।।

तीर्थानां प्रवरात्तस्मादुत्थितं नृपतेः पुरः ।। ९८ ।।

दिव्यांबरसहस्रं च तीर्थात्प्रादुरभूत्तदा ।।

माला च वैजयंत्याख्या स्वर्णपंकजशोभिता ।। ९९ ।।

एतत्सर्वं समालोक्य मुनयेऽसौ न्यवेदयत् ।।

ततः पराशरमुनिर्जलमादाय तीर्थतः ।। 3.1.12.१०० ।।

अभ्यषिंचन्नरपतिं मंत्रपूतेनवारिणा ।।

ततोऽभिषिक्तो नृपतिर्मुनिना परिशोभितः ।। १०१ ।।

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।।

हारकेयूरमुकुटकटकादिविभूषितः ।। १०२ ।।

दिव्यांबरधरश्चापि वाजियुक्त रथस्थितः ।।

शुशुभेऽतीव नृपतिर्मध्याह्न इव भास्करः ।। १०३ ।।

तस्मै नृपतये तत्र ब्रह्माद्यस्त्रं महामुनिः ।।

सांगं च सरहस्यं च सोत्सर्गं सोप संहृति ।। १०४ ।।

उपादिशच्छक्तिपुत्रः सुमित्राजानये तदा ।।

मनोजवोऽथ मुनिना ह्याशीर्वादपुरःसरम् ।। १०५ ।।

प्रेरितो रथमास्थाय प्रणम्य मुनिपुंगवम् ।।

प्रदक्षिणीकृत्य तदाभ्यनुज्ञातो महर्षिणा ।। १०६ ।।

सार्द्धं पत्न्या च पुत्रेण प्रययौ विजयाय सः ।।

स गत्वा स्वपुरं राजा प्रदध्मौ जलजं तदा ।। १०७ ।।

ततः शंखरवं श्रुत्वा गोलभस्तु ससैनिकः ।।

युद्धाय निर्ययौ तूर्णं मनोजवनृपेण सः ।। १०८ ।।

दिनत्रयं रणं जज्ञे गोलभेन नृपस्य वै ।।

ततश्चतुर्थे दिवसे गोलभं तु ससैनिकम् ।। १०९ ।।

मनोजवो नृपो युद्धे ब्रह्मास्त्रेण व्यनाशयत् ।।

ततः सपुत्र भार्योऽयं पुरं प्राप्य निजं नृपः ।। 3.1.12.११० ।।

पालयन्पृथिवीं सर्वां बुभुजे भार्यया सह ।।

तदाप्रभृति राजासौ नाहंकारं चकार वै ।। १११ ।।

असूयादींस्तथा दोषान्वर्जयामास भूपतिः ।।

अहिंसानिरतो दांतः सदा धर्मपरोऽभवत् ।। ११२ ।।

सहस्रं वत्सरानेवं ररक्ष स महीपतिः ।।

ततो विरक्तो राजेन्द्रः पुत्रे राज्यं निधाय तु ।। ११३ ।।

जगाम मंगलं तीर्थं गन्धमादनपर्वते ।।

तपश्चचार तत्रासौ ध्यायन्हृदि सदाशिवम् ।। ११४ ।।।

ततोऽचिरेण कालेन त्यक्त्वा देहं मनोजवः ।।

शिवलोकं ययौ राजा तस्य तीर्थस्य वैभवात् ।। ११५ ।।

तस्य भार्या सुमित्रापि तस्यालिंग्य तनुं तदा ।।

अन्वारूढा चितां विप्राः प्राप तल्लोकमेव सा ।। ११६ ।।

।। श्रीसूत उवाच ।। ।।

एवं प्रभावं तत्तीर्थं श्रीमन्मंगलनामकम् ।।

मनोजवो नृपो यत्र स्नात्वा तीर्थे महत्तरे ।। ११७ ।।

शत्रून्विजित्य देहांते शिवलोकं ययौ स्त्रिया ।।

तस्मात्सर्वप्रयत्नेन सेव्यं मंगलतीर्थकम् ।। ११८।।

तीर्थमेतदतिशोभनं शिवं भुक्तिमुक्तिफलदं नृणां सदा ।।

पापराशितृणतूलपावकं सेवत द्विजवरा विमुक्तये ।। ११९ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये मंगलतीर्थप्रशंसायां मनोजवालक्ष्मीविनाशवर्णनंनाम द्वादशोऽध्यायः ।। १२ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 13

।। श्रीसूत उवाच ।। ।।

मंगलाख्ये महातीर्थे नरः स्नात्वा विकल्मषः ।।

एकांतरामनाथाख्यं क्षेत्रं गच्छेत्ततः परम् ।। १ ।।

तत्र रामो जगन्नाथो जानक्या लक्ष्मणेन च ।।

हनुमत्प्रमुखैश्चापि वानरैः परिवारितः ।। २ ।।

सन्निधत्ते सदा विप्रा लोकानुग्रहकाम्यया ।।

विद्यते पुण्यदा तत्र नाम्ना ह्यमृतवापिका ।। ३ ।।

तस्यां निमज्जतां नृणां न जरांतकजं भयम् ।।

अस्याममृतवाप्यां यः सश्रद्धं स्नाति मानवः ।। ४ ।।

अमृतत्वं भजत्येष शंकरस्य प्रसादतः ।।

महापातकनाशिन्यामस्यां वाप्यां निमज्जताम् ।। ५ ।।

अमृतत्वं हरो दातुं सन्निधत्ते सदा तटे ।।

।। । ऋषय ऊचुः ।। ।।

इयं ह्यमृतवापीति कुतो हेतोर्निगद्यते ।। ६ ।।

अस्माकमेतद्ब्रूहि त्वं कृपया व्यासशासित ।।

तथैवामृतनामिन्या वापिकायाश्च वैभवम् ।।

तृप्तिर्न जायतेऽस्माकं त्वद्वचोऽमृतपायिनाम् ।। ।७ ।।

।। श्रीसूत उवाच ।। ।।

अस्या अमृतनामत्वं वैभवं च मनोहरम् ।। ८ ।।

प्रवक्ष्यामि विशेषेण शृणुत द्विजसत्तमाः ।।

पुरा हिमवतः पार्श्वे नानामुनिसमाकुले ।। ९ ।।

सिद्धचारणगंधर्वदेवकिन्नरसेविते ।।

सिंहव्याघ्रवराहेभमहिषादिसमाकुले ।। 3.1.13.१० ।।

तमालतालहिंतालचंपकाशोकसंतते ।।

हंसकोकिलदात्यूहचक्रवाकादिशोभिते ।। ११ ।।

पद्मेंदीवरकह्लारकुमुदाढ्यसरो वृते ।।

सत्यवाञ्छीलवान्वाग्मी वशी कुंभजसोदरः ।। १२ ।।

आस्ते तपश्चरन्नित्यं मोक्षार्थी शंकरप्रियः ।।

त्रिकालमर्चयञ्छंभु वन्यैर्मूलफलादिभिः ।।। १३ ।।

आगतान्स्वाश्रमाभ्याशमतिथीन्वन्यभोजनैः ।।

पूजयन्नर्चयन्नग्निं संध्योपासनतत्परः ।। १४ ।।

गायत्र्यादीन्महामंत्रान्कालेकाले जपन्मुदा ।।

निद्रां परित्यजन्ब्राह्मे मुहूर्ते विष्णुचिंतकः ।। १५ ।।

स्नानं कुर्वन्नुषःकाले नमन्संध्यां प्रसन्नधीः ।।

गायत्रीं प्रजपन्विप्राः पूजयन्हरिशंकरौ ।। १६ ।।

वेदाध्यायी शास्त्रपाठी मध्याह्नेऽतिथिपूजकः ।।

श्रोतापुराणपाठानामग्निकार्येष्वतंद्रितः ।। १७ ।।

पंचयज्ञपरो नित्यं वैश्वदेवबलिप्रदः ।।

प्रत्यब्दं श्राद्धकृत्पित्रोस्तथान्यश्राद्धकृद्द्विजाः ।। १८ ।।

एवं निनाय कालं स नित्यानुष्ठानतत्परः ।।

तस्यैवं वर्तमानस्य तपश्चरत उत्तमम् ।। १९ ।।

सहस्रवर्षाण्यगमञ्च्छंकरासक्तचेतसः ।।

तथापि शंकरो नास्याययौ प्रत्यक्षतां तदा ।। 3.1.13.२० ।।

ततस्त्वगस्त्यभ्रातासौ ग्रीष्मे पंचानिमध्यगः ।।

भास्करं दत्तदृष्टिश्च मौनव्रतसमन्वितः ।। २१ ।।

तिष्ठन्कनिष्ठिकांगुल्यां वामपादस्य निश्चलः ।।

ऊर्ध्वबाहुर्निरालंबस्तपस्तेपेऽतिदारुणम् ।। २२ ।।

अथ तस्य प्रसन्नात्मा महादेवो घृणानिधिः ।।

प्रादुरासीत्स्वया दीप्त्या दिशो दश विभासयन् ।। २३ ।।

ततोऽद्राक्षीन्मुनिः शंभुं सांबं वृषभसंस्थि तम् ।।

दृष्ट्वा प्रणम्य तुष्टाव भवानीपतिमीश्वरम् ।। २४ ।।

।। मुनिरुवाच ।। ।।

नमस्ते पार्वतीनाथ नीलकंठ महेश्वर।।

शिव रुद्र महादेव नम स्ते शंभवे विभो ।। २५ ।।

श्रीकंठोमापते शूलिन्भगनेत्रहराव्यय ।।

गंगाधर विरूपाक्ष नमस्ते रुद्र मन्यवे ।। २६ ।।

अंतकारे कामशत्रो देवदेव जगत्पते ।।

स्वामिन्पशुपते शर्व नमस्ते शतधन्वने ।।

दक्षयक्षविनाशाय स्नायूनां पतये नमः ।।

निचेरवे नमस्तुभ्यं पुष्टानां पतये नमः ।। ।। २८ ।।

भूयोभूयो नमस्तुभ्यं महादेव कृपालय ।।

दुस्तराद्भवसिंधोर्मां तारयस्व त्रिलोचन ।। २९ ।।

अगस्त्यसोदरेणैवं स्तुतः शंभुरभाषत ।।।

प्रीणयन्वचसा स्वेन कुंभजस्यानुजं मुनिम् ।। 3.1.13.३० ।।

।। ईश्वर उवाच ।। ।।

कुंभजानुज वक्ष्यामि मुक्त्युपायं तवानघ ।।

सेतुमध्ये महातीर्थं गंधमादनपर्वते ।। ३१ ।।

मंगलाख्यस्य तीर्थस्य नातिदूरेण वर्तते ।।

तत्र गत्वा कुरु स्नानं ततो मुक्तिमवाप्स्यसि ।।३२।।

तत्तीर्थसेवनान्नान्योमोक्षो पायो लघुस्तव ।।

न हि तत्तीर्थवैशिष्ट्यं वक्तुं शक्यं मयापि च ।। ३३ ।।

संदेहो नात्र कर्तव्यस्त्वयाद्य मुनिसत्तम।।

तस्मात्तत्रैव गच्छ त्वं यदीच्छसि भवक्षयम् ।। ३४ ।।

इत्युक्त्वा भगवानीशस्तत्रैवांतरधीयत ।।

ततो देवस्य वचनादगस्त्यस्य सहोदरः ।। ३५ ।।

गत्वा सेतुं समुद्रे तु गंधमादनपर्वते।।

ईश्वरणैव गदितं तीर्थं तच्छीघ्रमासदत् ।। ३६ ।।

तत्र तीर्थे महापुण्ये स्नातानां मुक्तिदायिनि ।।

एकांतरामनाथाख्ये क्षेत्रालंकरणे शुभे ।। ३७ ।।

सस्नौ नियमपूर्वं स त्रीणि वर्षाणि वै द्विजः ।।

ततश्चतुर्थवर्षे तु समाधिस्थो महामुनिः ।। ३८ ।।

ब्रह्मनाड्या प्राणवायुं मूर्द्धन्यारोप्ययोगतः ।।

प्राणान्निर्गमयामास ब्रह्मरंध्रेण तत्र सः ।। ३९ ।।

ततोऽगस्त्यानुजः सोयं परित्यज्य कलेवरम् ।।

अवाप मुक्तिं परमां तस्य तीर्थस्य वैभवात् ।।3.1.13.४।।।

विनष्टाशेषदुःखस्य तत्तीर्थस्नानवैभवात् ।।

मृतत्वमभूद्यस्मादगस्त्यानुजजन्मनः।।४१।।

ततो ह्यमृतवापीतिप्रथाऽस्यासीन्मुनीश्वराः।।

अत्र तीर्थे नरा ये तु वर्षत्रयमतंद्रिताः।।४२।।

स्नानं कुर्वंति ते सत्यममृतत्वं प्रयांति हि ।।

एवं त्वमृतवापीति प्रथा तद्वैभवं तथा ।।

युष्माकं कथितं विप्राः किंभूयः श्रोतुमिच्छथ ।। ४३ ।।

।। ऋषय ऊचुः ।। ।।

एकांतरामनाथाख्या तस्य क्षेत्रस्य वै मुने ।। ४४ ।।

कथं समागता सूत वक्तुमेतत्त्वमर्हसि ।।

अस्माकं मुनिशार्दूल तच्छुश्रूषातिभूयसी ।। ४५ ।।

।। श्रीसूत उवाच ।। ।।

पुरा दाशरथी रामः ससुग्रीवभिभीषणः ।।

लक्ष्मणेन युतो भ्रात्रा मंत्रज्ञेन हनूमता ।। ४६ ।।

वानरैर्बध्यमाने तु सेतावंबुधिमध्यतः ।।

चिंतयन्मनसा सीतामेकांते सममंत्रयत् ।। ४७ ।।

तेषु मंत्र यमाणेषु रावणादिवधं प्रति ।।

उल्लोलतरकल्लोलो जुघोष जलधिर्भृशम् ।। ४८ ।।

अर्णवस्य महाभीमे जृंभमाणे महाध्वनौ ।।

अन्योन्यकथितां वार्तां नाशृण्वंस्ते परस्परम् ।। ४९ ।।

ततः किंचिदिव क्रुद्धो भृकुटीकुटिलेक्षणः ।।

भ्रूभंगलीलया रामो नियम्य जलधिं तदा ।। ।। 3.1.13.५० ।।

न्यमंत्रयत विप्रेंद्रा राक्षसानां वधं प्रति ।।

एकांतेऽमंत्रयत्तत्र तैः सार्धं राघवो यतः ।। ५१ ।।

एकांतरामनाथाख्यं तत्क्षेत्रमभवद्विजाः ।।

सोयं नियमितो वार्धी रामभ्रूभंगलीलया ।। ५२ ।।

अद्यापि निश्चलजलस्तत्प्रदेशेषु दृश्यते ।।

एकांतरामनाथाख्यं तदेतत्क्षेत्रमुत्तमम् ।। ५३ ।।

आगत्यामृतवाप्यां च स्नात्वा नियमपूर्वकम् ।।

रामादीनपि सेवंते ते सर्वे मुक्तिमाप्नुयुः ।। ५४ ।।

अद्वैतविज्ञानविवेकशून्या विरक्तिहीनाश्च समाधि हीनाः ।।

यागाद्यनुष्ठानविवर्जिताश्च स्नात्वात्र यास्यंत्यमृतं द्विजेंद्राः ।। ५५ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये अमृतवापीप्रशंसायाम् अगस्त्यभ्रातृविमुक्तिवर्णनंनाम त्रयोदशोऽध्यायः ।। १३ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 14

।। श्रीसूत उवाच ।। ।।

स्नात्वा त्वमृत वाप्यां वै सेवित्वैकांतराघवम् ।।

जितेंद्रियो नरः स्नातुं ब्रह्मकुंडं ततो व्रजेत् ।। १ ।।

सेतुमध्ये महातीर्थं गंधमादनपर्वते ।।

ब्रह्मकुंडमिति ख्यातं सर्व दारिद्र्यभेषजम् ।। २ ।।

विद्यते ब्रह्महत्यानामयुतायुतनाशनम् ।।

दर्शनं ब्रह्मकुंडस्य सर्वपापौघनाशनम् ।। ३ ।।

किं तस्य बहुभिस्तीर्थैः किं तपोभिः किमध्वरैः ।।

महादानैश्च किं तस्य ब्रह्मकुंडविलोकिनः ।। ४ ।।

ब्रह्मकुंडे सकृत्स्नानं वैकुंठप्राप्तिकारणम् ।।

ब्रह्मकुंडसमुद्भूतं भस्म येन धृतं द्विजाः।। ।। ५ ।।

तस्यानुगास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।।

ब्रह्मकुंडसमुद्भूतभस्मना यस्त्रिपुंड्रकम् ।। ६ ।।

करोति तस्य कैवल्यं करस्थं नात्र संशयः ।।

तद्भस्मपरमाणुर्वा यो ललाटे धृतो भवेत् ।। ७ ।।

तावदेवास्य मुक्तिः स्यान्नात्र कार्या विचारणा ।।

तत्कुंडभस्मना मर्त्यः कुर्यादुद्धूलनं तु यः ।। ८ ।।

तस्य पुण्यफलं वक्तुं शंकरो वेत्ति वा न वा ।।

ब्रह्मकुंडसमुद्भूतं भस्म यो नैव धारयेत् ।। ९ ।।

रौरवे नरके सोऽयं पतेदाचंद्रतारकम् ।।

उद्धूलनं त्रिपुंड्रं वा ब्रह्मकुंडस्थभस्मना ।। 3.1.14.१० ।।

नराधमो न कुर्याद्यः सुखं नास्य कदाचन ।।

ब्रह्मकुंडसमुद्भूतभस्मनिंदारतस्तु यः ।। ११ ।।

उत्पत्तौ तस्य सांकर्यमनुमेयं विपश्चिता ।।

ब्रह्मकुंडसमुद्भूतं भस्मैतल्लोकपावनम् ।। १२ ।।

अन्यभस्मसमं यस्तु न्यूनं वा वक्ति मानवः ।।

उत्पत्तौ तस्य सांकर्य मनुमेयं विपश्चिता ।। १३ ।।

ब्रह्मकुंडसमुद्भूतेऽप्यस्मिन्भस्मनि जाग्रति ।।

भस्मांतरेण मनुजो धारयेद्यस्त्रिपुंड्रकम् ।। १४ ।।

उत्पत्तौ तस्य सांक र्यमनुमेयं विपश्चिता ।।

कदाचिदपि यो मर्त्यो भस्मैतत्तु न धारयेत् ।। १५ ।।

उत्पत्तौ तस्य सांकर्यमनुमेयं विपश्चिता ।।

ब्रह्मकुंडसमुद्भूतं भस्म दद्याद्द्विजाय यः ।। १६ ।।

चतुरर्णवपर्यंता तेन दत्ता वसुन्धरा ।।

संदेहो नात्र कर्तव्यस्त्रिर्वा शपथयाम्यहम् ।। १७ ।।

सत्यंसत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।।

ब्रह्मकुंडोद्भवं भस्म धारयध्वं द्विजोत्तमाः ।। १८ ।।

एतद्धि पावनं भस्म ब्रह्मयज्ञसमुद्भवम् ।।

पुरा हि भगवान्ब्रह्मा सर्वलोकपितामहः ।। १९ ।।

सन्निधौ सर्वदेवानां पर्वते गंधमादने ।।

ईशशापनिवृत्त्यर्थं क्रतून्सर्वान्समातनोत् ।। 3.1.14.२० ।।

विधाय विधिवत्सर्वानध्वरान्बहुदक्षिणान् ।।

मुमुचे सहसा ब्रह्मा शंभुशापाद्द्विजोत्तमाः ।। २१ ।।

तदेतत्तीर्थमासाद्य स्नानं कुर्वंति ये नराः ।।

ते महादेवसायुज्यं प्राप्नुवंति न संशयः ।। २२ ।। ।।

।। ऋषय ऊचुः ।। ।।

व्यासशिष्य महाप्राज्ञ पुराणार्थविशारद ।।

चतुर्दशानां लोकानां स्रष्टारं चतुराननम् ।। २३ ।।

शंभुः केनापराधेन शप्तवान्भारतीपतिम् ।।

शापश्च कीदृशस्तस्य पुरा दत्तो हरेण वै ।।

एतत्सर्वं मुने ब्रूहि तत्त्वतोऽस्माकमादरात् ।। २४ ।।

।। श्रीसूत उवाच ।।

पुरा बभूव कलहो ब्रह्मविष्ण्वोः परस्परम्।। २५ ।।

कंचिद्धेतुं समुद्दिश्य स्पर्धया श्लाघमानयोः ।।

अहं कर्त्ता न मत्तोऽन्यः कर्त्तास्ति जगतीतले ।। ।। २६ ।।

एवमाह हरिं ब्रह्मा ब्रह्माणं च हरिस्तथा ।।

एवं विवादः सुमहान्प्रावर्त्तत पुरा तयोः ।। २७ ।।

एतस्मिन्नंतरे विप्राः कुर्वतोः कलहं मिथः ।।

तयोर्गर्वविनाशाय प्रबोधार्थं च देवयोः ।। २८ ।।

मध्ये प्रादुरभूल्लिंगं स्वयंज्योतिरनामयम् ।।

तौ दृष्ट्वा विस्मितौ लिंगं ब्रह्मविष्णु परस्परम् ।। २९ ।।

समयं चक्रतुर्विप्रा देवानां सन्निधौ पुरा ।।

अनाद्यंतं महालिंगं यदेतद्दृश्यते पुरः ।। 3.1.14.३० ।।

अनंतादित्यसंका शमनंताग्निसमप्रभम् ।।

आवयोरस्य लिंगस्य योंऽतमादिं च द्रक्ष्यति ।। ३१ ।।

स भवेदधिको लोके लोककर्ता च स प्रभुः ।।

अहमूर्ध्वं गमिष्यामि लिंगस्यातं गवेषयन् ।। ३२ ।।

गवेषणाय मूलस्य त्वमधस्ताद्धरे व्रज ।।

इति तस्य वचः श्रुत्वा तथे त्याह रमापतिः ।। ३३ ।।

एवं तौ समयं कृत्वा मार्गणाय विनिर्गतौ ।।

विष्णुर्वराहरूपेण गतोऽधस्ताद्गवेषितुम् ।। ३४ ।।

हंसतां भारतीजानिः स्वीकृत्योपरि निर्ययौ ।।

अधो लोकान्विचित्याथो विष्णुर्वर्षगणान्बहून् ।।

यथास्थानं समागत्य वभाषे देवसन्निधौ ।। ३५ ।।

।। विष्णुरुवाच ।। ।।

अहं लिंगस्य नाद्राक्षमादिमस्येति सत्यवाक्।। ३६ ।।

ऊर्ध्वं गवेषयित्वाथ ब्रह्माप्यागच्छदत्र सः ।।

आगत्य च वचः प्राह छद्मना चतुराननः ।। ।। ३७ ।।

।। ब्रह्मोवाच ।। ।।

अहमद्राक्षमस्यांतं लिंगस्येति मृषा पुनः ।।

तयोस्तद्वचनं श्रुत्वा व्रह्मविष्ण्वोर्महेश्वरः ।।

मिथ्यावादिनमाहेदं प्रहस्य चतुराननम् ।। ३८ ।।

।। ईश्वर उवाच ।। ।।

असत्यं यदवोचस्त्वं चतुरानन मत्पुरः ।। ३९ ।।

तस्मात्पूजा न ते भूयाल्लोके सर्वत्र सर्वदा ।।

अथ विष्णुं पुनः प्राह भगवान्परमेश्वरः ।। 3.1.14.४० ।।

यस्मात्सत्यमवोचस्त्वं कमलायाः पते हरे ।।

तस्मात्ते मत्समा पूजा भविष्यति न संशयः ।। ४१ ।।

ततो ब्रह्मा विषण्णः सञ्छंकरं प्रत्यभाषत ।।

स्वामिन्ममापराधं त्वं क्षमस्व करुणानिधे ।। ४२ ।।

एकोपराधः क्षंतव्यः स्वामि भिर्जगदीश्वरैः ।।

ततो महेश्वरोऽवादीद्ब्रह्माणं परिसांत्वयन् ।। ४३ ।।

।। ईश्वर उवाच ।। ।।

न मिथ्यावचनं मे स्याद्ब्रह्मन्वक्ष्यामि ते शृणु ।।

गच्छ त्वं सहसा वत्स गन्धमादनपर्वतम् ।।४४।।

तत्र क्रतून्कुरुष्व त्वं मिथ्यादोषप्रशांतये ।।

ततो विधूतपापस्त्वं भविष्यसि न संशयः ।। ।।४५।।

तेन श्रौतेषु ते ब्रह्मन्स्मार्तेष्वपि च कर्मसु ।।

पूजा भविष्यति सदा न पूजा प्रतिमासु ते।।४६।।

इत्युक्त्वा भगवानीशस्तत्रैवांतरधीयत ।।

ततो ब्रह्मा ययौ विप्रा गंधमादनपर्वतम् ।। ४७ ।।

ईजे च क्रतुकर्तारं क्रतुभिः पार्वतीपतिम् ।।

अष्टाशीतिसहस्राणि वर्षाणि मुनिपुंगवाः ।। ४८ ।।

पौंडरीकादिभिः सर्वैरध्वरैर्भूरिदक्षिणैः ।।

इन्द्रादिसर्वदेवानां सन्निधावयजच्छिवम् ।।

तेन तुष्टोभवच्छंभुर्वरमस्मै प्रदत्तवान् ।। ४९ ।।

।। ईश्वर उवाच ।। ।।

मिथ्योक्तिदोषस्ते नष्टः कृतैरेतैर्मखैरिह ।। 3.1.14.५० ।।

चतुरानन ते पूजा श्रौतस्मार्तेषु कर्मसु ।।

भविष्यत्यमला ब्रह्मन्न पूजा प्रतिमासु ते ।। ५१ ।।

यागस्थलमिदं तेऽद्य ब्रह्मकुण्डमिति प्रथाम् ।।

गमिष्यति त्रिलोकेस्मिन्पुण्यं पापविनाशनम् ।। ५२ ।।

ब्रह्मकुण्डाभिधे तीर्थे सकृद्यः स्नानमा चरेत् ।।

मुक्तिद्वारार्गलं तस्य भिद्यते तत्क्षणाद्विधे ।। ५३ ।।

ब्रह्मकुण्डसमुद्भूतं ललाटे भस्म धारयन् ।।

मायाकपाटं निर्भिद्य मुक्तिद्वारं प्रया स्यति ।। ५४ ।।

ब्रह्मकुण्डोत्थितं भस्म ललाटे यो न धारयेत् ।।

स्वपितुर्बीजसंभूतो न मातरि सुतस्तु सः ।।५५।।

ब्रह्मकुण्डसमुद्भूतभस्मधारणतो विधे ।।

ब्रह्महत्यायुतं नश्येत्सुरापानायुतं तथा ।। ५६ ।।

गुरुतल्पायुतं नश्येत्स्वर्णस्तेयायुतं तथा ।।

तत्संसर्गायुतं नश्येत्सत्यमुक्तं मया विधे ।। ।। ५७ ।।

ब्रह्मकुण्डसमुद्भूतभस्मधारणवैभवात् ।।

भूतप्रेतपिशाचाद्या नश्यंति क्षणमात्रतः ।। ५८ ।।

इत्युक्त्वा भगवानीशस्तत्रैवांतरधीयत ।।

यज्ञेष्वथ समाप्तेषु मुनयश्च जितेंद्रियाः ।। ५९ ।।

इन्द्रादिदेवताश्चैव सिद्धचारणकिन्नराः ।।

अन्ये च देवनिवहा गंधमादनपर्वते ।। 3.1.14.६० ।।

तां यज्ञभूमिमाश्रित्य स्वयं रुद्रेण सेविताम् ।।

निरंतरमवर्तंत विदित्वा तस्य वैभवम् ।। ६१ ।।

यथाविधि ततो यज्ञान्समाप्य बहुदक्षिणान् ।।

सत्यलोकमगाद्ब्रह्मा शिवाल्लब्धमनोरथः ।। ६२ ।।

तदाप्रभृति देवाश्च मुनयश्च द्विजोत्तमाः ।।

ब्रह्मकुण्डं समासाद्य चक्रुर्यागान्विधानतः ।। ६३ ।।

तस्मादियक्षवो मर्त्याः कुर्युर्यज्ञानिहैव हि ।। ६४ ।।

मनुजदेवमुनीश्वरवंदितं सकलसंसृतिनाशकरं द्विजाः ।।

जलजसंभवकुण्डमिदं शुभं सकल पापहरं सकलार्थदम् ।। ६५ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये ब्रह्मकुण्डप्रशंसायां ब्रह्मशापविमोक्षणवर्णनंनाम चतुर्दशोऽध्यायः ।। १४ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 15

।। श्रीसूत उवाच ।। ।।

ब्रह्मकुण्डे महापुण्ये स्नानं कृत्वा समाहितः ।।

नरो हनूमतः कुण्डमथ गच्छेद्विजोत्तमाः ।। १ ।।

पुरा हतेषु रक्षःसु समाप्ते रणकर्मणि ।।

रामादिषु निवृत्तेषु गंधमादनपर्वते ।। २ ।।

सर्व लोकोपकाराय हनूमान्मारुतात्मजः ।।

सर्वतीर्थोत्तमं चक्रे स्वनाम्ना तीर्थमुत्तमम् ।। ३ ।।

विदित्वा वैभवं यस्य स्वयं रुद्रेण सेव्यते ।।

तस्य तीर्थस्य सदृशं न भूतं न भविष्यति ।। ४ ।।

यत्र स्नाता नरा यांति शिवलोकं सनातनम् ।।

यस्मिंस्तीर्थे महापुण्ये महापातकनाशने ।। ५ ।।

सर्वलोकोपकाराय निर्मिते वायुसूनुना ।।

सर्वाणि नरकाण्यासञ्च्छून्यान्येव चिराय वै ।। ६ ।।

वैभवं तस्य तीर्थस्य शंकरो वेत्ति वा न वा ।।

यत्र धर्मसखोनाम राजा केकयवंशजः ।। ७ ।।

भक्त्या सह पुरा स्नात्वा शतं पुत्रानवाप्त वान् ।।

।। ऋषय ऊचुः ।। ।।

सूत धर्मसखस्याद्य चरितं वक्तुमर्हसि ।।

हनूमत्कुण्डतीर्थे यो लेभे स्नात्वा शतं सुतान् ।। ८ ।। ।।

।। श्रीसूत उवाच ।। ।।

शृणुध्वमृषयो यूयं चरितं तस्य भूपतेः ।। ९ ।।

अद्य धर्मसखस्याहं प्रवक्ष्यामि समासतः ।।

राजा धर्मसखोनाम विजितारिः सुधार्मिकः ।। 3.1.15.१० ।।

बभूव नीतिमान्पूर्वं प्रजापालनतत्परः ।।

तस्य भार्याशतं विप्रा वभूव पतिदैवतम् ।। ११ ।।

स पालयन्महीं राजा सशैलवनकाननाम् ।।

तासु भार्यासु तनयं नाविंदद्वंशवर्द्धनम् ।। १२ ।।

पुत्रार्थं स महीपालो बहूयत्नानथाकरोत् ।।५

अकरोच्च महादानं पुत्रार्थं स महीपतिः ।। १३ ।।

अश्वमेधादिभिर्यज्ञैरयजच्च सुरान्प्रति ।।

तुलापुरुषमुख्यानि ददौ दानानि भूरिशः ।। १४ ।।

आमध्यरात्रमन्नानि सर्वेभ्योऽप्यनिवारितम् ।।

प्रायच्छद्बहुसूपानि सस्योपेतानि भूमिपः ।। १५ ।।

पितॄनुद्दिश्य च श्राद्धमकरोद्विधिपूर्वकम् ।।

संतानदायिनो मंत्राञ्जजाप नियतेद्रियः ।। १६ ।।

एवमादीन्बहून्धर्मान्पुत्रार्थं कृतवान्नृपः ।।

पुत्रमुद्दिश्य सततं कुर्वन्धर्माननुत्तमान् ।। १७ ।।

राजा दीर्घेण कालेन वृद्धतां प्रत्यपद्यत ।।

कदाचित्तस्य वृद्धस्य यतमानस्य भूपतेः ।। १८ ।।

पुत्रस्सुचंद्रनामाभूज्ज्येष्ठपत्न्यां मनोरमः ।।

जातं पुत्रं जनन्यस्ताः सर्वा वैषम्यवर्जिताः ।। १९ ।।

समं संवर्द्धयामासुः क्षीरादिभिरनुत्तमाः ।।

राज्ञश्च सर्वमातॄणां पौराणाम्मंत्रिणां तथा ।। 3.1.15.२० ।।

मनोनयनसंतोषजनकोऽयं सुतोऽभवत् ।।

लालयानः सुतं राजा मुदं लेभे परात्पराम्।।२१।।

आंदोलिकाशयानस्य सूनोस्तस्य कदाचन ।।

वृश्चिकोऽकुट्टयत्पादे पुच्छेनोद्यद्विषाग्निना ।। २२ ।।

कुट्टनाद्वृश्चिकस्यासावरुदत्तनयो भृशम् ।।

ततस्तन्मातरः सर्वाः प्रारुदञ्च्छोककातराः ।। २३ ।।

परिवार्यात्मजं विप्राः सध्वनिः संकुलोऽभवत् ।।

आर्तध्वनिं स शुश्राव राजा धर्मसखस्तदा ।। २४ ।।

उपविष्टः सभामध्ये सहामात्यपुरोहितः ।।

अथ प्रातिष्ठिपद्राजा सौविदल्लं स वेदितुम् ।। २५ ।।

अन्तःपुरबहिर्द्वारं सौविदल्लः समेत्य सः ।।

षंढवृद्धान्समाहूय वाक्यमेतदभाषत ।। २६ ।।

षंढाः किमर्थमधुना रुदत्यन्तःपुर स्त्रियः ।।

तत्परिज्ञायतां तत्र गत्वा रोदनकारणम् ।। २७ ।।

एतदर्थं हि मां राजा प्रेरयामास संसदि ।।

इत्युक्तास्तु परिज्ञाय निदानं रोदनस्य ते ।। २८ ।।

निर्गम्यांतःपुरात्तस्मै यथावृत्तं न्यवेदयत् ।।

स षंढकवचः श्रुत्वा सौविदल्लः सभां गतः ।। २९ ।।

राज्ञे निवेदयामास पुत्रं वृश्चिकपीडितम् ।।

ततो धर्मसखो राजा श्रुत्वा वृत्तांतमीदृशम् ।। 3.1.15.३० ।।

त्वरमाणः समुत्थाय सामात्यः सपुरोहितः ।।

प्रविश्यांतःपुरं सार्द्धं मांत्रिकैर्विषहा रिभिः ।। ३१ ।।

चिकित्सयामास सुतमौषधाद्यैरनेकशः ।।

जातस्वास्थ्यं ततः पुत्रं लालयित्वा स भूपतिः ।। ३२ ।।

मानयित्वा च मंत्रज्ञान्रत्नकां चनमौक्तिकैः ।।

निष्क्रम्यांतःपुराद्राजा भृशं चिंतासमाकुलः ।। ३३ ।।

ऋत्विक्पुरोहितामात्यैस्तां सभां सनुपाविशत् ।।

तत्र धर्मसखो राजा समासीनो वरासने ।।

उवाचेदं वचो युक्तमृत्विजः सपुरोहितान् ।। ३४ ।।

।। धर्मसख उवाच ।। ।।

दुःखायैवैकपुत्रत्वं भवति ब्राह्मणो त्तमाः ।। ३५ ।।

एकपुत्रत्वतो तृणां वरा चैव ह्यपुत्रता ।।

नित्यं व्यपाययुक्तत्वाद्वरमेव ह्यपुत्रता ।।

अहं भार्याशतं विप्रा उदवोढ विचिंत्य तु ।। ३६ ।।

वयश्च समतिक्रांतं सपत्नीकस्य मे द्विजाः ।।

प्राणा मम च भार्याणामस्मिन्पुत्रे व्यवस्थिताः ।। ३७ ।।

तन्नाशे मम भार्याणां सर्वासां च मृतिर्ध्रुवा ।।

ममापि प्राणनाशः स्यादेकपुत्रस्य मारणे ।। ३८ ।।

अतो मे बहुपुत्रत्वं केनोपायेन वै भवेत् ।।

तमुपायं मम ब्रूत ब्राह्मणा वेदवि त्तमाः ।। ३९ ।।

एकैकः शतभार्यासु पुत्रो मे स्याद्यथा गुणी ।।

तत्कर्म व्रत यूयं तु शास्त्रमालोक्य धर्मतः ।। 3.1.15.४० ।।

महता लघुना वापि कर्मणा दुष्करेण वा ।।

फलं यद्यपि तत्साध्यं करिष्येऽहं न संशयः ।। ४१ ।।

युष्माभिरुदितं कर्म करिष्यामि न संशयः ।।

कृतमेव हि तद्वित्त शपेऽहं सुकृतैर्मम ।। ४२ ।।

अस्ति चेदीदृशं कर्म येन पुत्रशतं भवेत् ।।

तत्कर्म कुत्र कर्तव्यं मयेति वदताधुना ।। ४३ ।।

इति पृष्टास्तदा राज्ञा ऋत्विजः सपुरोहिताः ।।

संभूय सर्वे राजानमिदमूचुः सुनिश्चितम् ।। ४४ ।।

।। ऋत्विज ऊचुः ।। ।।

अस्ति राजन्प्रवक्ष्यामो येन पुत्रशतं तव ।।

भवेद्धर्मेण महता शतभार्यासु कैकय ।। ४५ ।।

अस्ति कश्चिन्महापुण्यो गन्धमादनपर्वतः ।।

दक्षिणांबुधिमध्ये यः सेतुरूपेण वर्तते ।। ४६ ।।

सिद्धचारणगंधर्वदेवर्षिगणसंकुलः ।।

दर्शनात्स्पर्शनान्नृणां महापातकनाशनः ।। ४७ ।।

तत्रास्ति हनुमत्कुंडमिति लोकेषु विश्रुतम् ।।

महादुःखप्रशमनं स्वर्गमोक्षफलप्रदम्।। ४८ ।।

नरकक्लेशशमनं तथा दारिद्र्यमोचनम् ।।

पुत्रप्रदमपुत्राणामस्त्रीणां स्त्रीपदं नृणाम् ।। ४९ ।।

तत्र त्वं प्रयतः स्नात्वा सर्वाभीष्टप्रदायिनीम्।।

पुत्रीयेष्टिं च तत्तीरे कुरुष्व सुसमाहितः ।।3.1.15.५० ।।

तेन ते शतभार्यासु प्रत्येकं तनयो नृप ।।

एकैकस्तु भवेच्छीघ्रं मा कुरु ष्वात्र संशयम्।। ५१ ।।

तथोक्तो नृपतिर्विप्रैऋत्विक्भिः सपुरोहितैः ।।

तत्क्षणेनैव ऋत्विक्भिर्भार्याभिश्च पुरोधसा ।। ५२ ।।

वृतोमात्यैश्च भृत्यैश्च यज्ञसंभारसंयुतः ।।

प्रययौ दक्षिणांभोधौ गन्धमादनपर्वतम् ।। ५३ ।।

हनुमत्कुंडमासाद्य तत्र सस्नौ ससैनिकः ।।

मासमात्रं स तत्तीरे न्यवस त्स्नानमाचरन् ।। ५४ ।।

ततो वसंते संप्राप्ते चैत्रमासि नृपोत्तमः ।।

इष्टिमारब्धवांस्तत्र पुत्रीयां सपुरोहितः ।। ५५ ।।

सम्यक्कर्माणि चक्रुस्ते ऋत्विजः सपुरोधसः ।।

सपत्नीकस्य राजर्षेस्तथाधर्मसखस्य तु ।। ५६ ।।

इष्टौ तस्य समाप्तायां हनूमत्कुंडतीरतः ।।

पुरोहितो हुतोच्छिष्टं प्राश यद्राजयोषितः ।। ५७ ।।

ततो धर्मसखो राजा हनूमत्कुंडवारिषु ।।

सम्यक्चकारावभृथस्नानं भार्याशतान्वितः ।। ५८ ।।

ऋत्विक्भ्यो दक्षिणाः प्रादादसंख्यातास्तु भूरिशः ।।

ग्रामांश्च प्रददौ राजा बाह्मणेभ्यो द्विजोत्तमाः ।। ५९ ।।

सामात्यः सपरीवारः सपत्नीकः स धार्म्मिकः ।।

राजा ततो निववृते पुरीं स्वां प्रति नंदितः ।। 3.1.15.६० ।।

ततः कतिपये काले गते दशममामि वै ।।

शतं भार्याः शतं पुत्रान्सुषुवुर्गुणवत्तरान् ।। ६१ ।।

अथ प्रीतमना राजा वीरो धर्मसखो महान् ।।

स्नातः शुद्धश्च संकल्प्य जातकर्माकरोत्तदा।।६२ ।।

गोभूतिलहिरण्यादि ब्राह्मणेभ्यो ददौ बहु ।।

द्वौ पुत्रौ ज्येष्ठभार्यायाः पूर्वजोऽवरजस्तदा ।। ६३ ।।

सर्वे ववृधिरे पुत्रा एकाधिकशतं द्विजाः ।।

प्रौढेषु तेषु राजासौ तेभ्यो राज्यं विभज्य तु ।। ६४ ।।

दत्त्वा च प्रययौ सेतुं सभार्यो गन्धमादनम्।।

हनुमत्कुंडमासाद्य तपोऽतप्यत तत्तटे ।। ६५ ।।

महान्कालो व्यतीयाय राज्ञ स्तस्य तपस्यतः ।।

राज्ञो धर्मसखस्यास्य ध्यायमानस्य शूलिनम् ।। ६६ ।।

ततो बहुतिथे काले गते धर्मसखो नृपः ।।

कालधर्मं ययौ तत्र धार्म्मिकश्शांतमानसः ।। ६७ ।।

पत्न्योपि तस्य राजर्षेरनुजग्मुः पतिं तदा ।।

ज्येष्ठपुत्रः सुचन्द्रोपि संस्कृत्य पितरं ततः ।। ६८ ।।

अकरोच्छ्राद्ध पर्यंतं कर्माणि श्रद्धया सह ।।

राजा सभार्यो वैकुंठं मरणादत्र जग्मिवान् ।। ६९ ।।

सुचन्द्रमुख्यास्ते सर्वे राजपुत्रा महौजसः ।।

स्वस्वराज्यं बुभुजिरे भ्रातरस्त्यक्तमत्सराः ।। 3.1.15.७० ।।

एवं वः कथितं विप्रा हनूमत्कुंडवैभवम् ।।

राज्ञो धर्मसखस्यापि चरित्रं परमाद्भुतम् ।। ७१ ।।

तत्सर्वं कामसि द्ध्यर्थं स्नायात्कुंडे हनृमतः ।। ७२ ।।

अध्यायमेनं पठते मनुष्यः शृणोति वा यः सुसमाहितो द्विजाः ।।

सोऽनंतमाप्नोति सुखं परत्र क्रीडेत सार्द्धं दिवि देववृन्दैः ।। ७३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये हनुमत्कुंडप्रशंसायां धर्मसखशतपुउत्रावाप्तिवर्णनंनाम पञ्चदशोऽध्यायः ।। १५ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 16

।। सूत उवाच ।। ।।

कुंडे हनुमतः स्नात्वा स्वयं रुद्रेण सेविते ।।

अगस्तितीर्थं विप्रेंद्रास्ततो गच्छेत्समाहितः ।। १ ।।

एतद्विनिर्मितं तीर्थं साक्षाद्वै कुम्भयोनिना ।।

प्रवर्तमाने कलहे पुरा वै मेरुविंध्ययोः ।। २ ।।

निरुद्धभुवनाभोगो ववृधे विंध्यपर्वतः ।।

तदा प्राणिषु सर्वेषु निरुच्छ्वासेषु देवताः ।। ३ ।।

कैलासं पर्वतं गत्वा शंभवे तद्व्यजिज्ञपन्।।

तदा स पार्वतीपाणिग्रहणोत्सुककौतुकी ।। ४ ।।

प्रेषयित्वा वसिष्ठादीन्पार्वतीं याचितुं मुनीन्।।

कुंभज त्वं निगृह्णीष्व विंध्याद्रिमिति सोऽन्वशात् ।। ५ ।।

ततः स कुम्भजः प्राह भगवंतं पिनाकिनम् ।।

उद्वाहवेषं ते देव न द्रक्ष्येहं कथं विभो ।। ६ ।।

इति विज्ञापितः शंभुः पुनः कुंभजमब्रवीत्।।

कुंभजोद्वाहवेषं ते पार्वत्या सहितो ह्यहम् ।। ७ ।।

वेदारण्ये महापुण्ये दर्शयिष्याम्यसंशयः ।।

तद्गच्छ शीघ्रं विंध्याद्रिं निग्रहीतुं मुनीश्वर ।। ८ ।।

एवमुक्तस्ततोगस्त्यो विन्ध्याद्रिं स निगृह्य च ।।

पादाक्रमणमात्रेण समीकुर्वन्महीतलम् ।। ९ ।।

चरित्वा दक्षि णान्देशान्गन्धमादनमन्वगात् ।।

स विदित्वा महर्षिस्तु गन्धमादनवैभवम् ।। 3.1.16.१० ।।

तत्र तीर्थं महापुण्यं स्वनाम्ना निर्ममे मुनिः ।।

लोपामुद्रासखस्तत्र वर्ततेऽद्यापि कुंभजः ।। ११ ।।

तत्र स्नात्वा च पीत्वा च न भूयो जन्मभाग्भवेत् ।।

इह लोके त्रिकालेपि तत्तीर्थसदृशं द्विजाः ।। ।। १२ ।।

तीर्थं न विद्यते पुण्यं भुक्तिमुक्तिफलप्रदम् ।।

सर्वाभीष्टप्रदं नृणां यत्तीर्थस्नानवैभवात्।। १३ ।।

सुदीर्घतमसः पुत्रः कक्षीवान्नाम नामतः ।।

लेभे मनोरमां नाम स्वनयस्य सुतां प्रियाम् ।। १४ ।।

कक्षीवतः कथा सेयं पुण्यापापविनाशिनी ।।

तां कथां वः प्रवक्ष्यामि तच्छृणुध्वं मुनीश्वराः ।।। १५ ।।

अस्ति दीर्घतमा नाम मुनिः परमधार्मिकः ।।

तस्य पुत्रः समभवत्कक्षीवानिति विश्रुतः ।। १६ ।।

उपनीतः स कक्षीवान्ब्रह्मचारी जितें द्रियः ।।

वेदाभ्यासाय स गुरोः कुले वासमकल्पयत् ।। १७।।

उदंकस्य गुरोर्गेहे वसन्दीर्घतमःसुतः ।।

सोऽध्येष्ट चतुरो वेदान्सांगाञ्छास्त्राणि षट् तथा ।। १८ ।।

इतिहासपुराणानि तथोपनिषदोऽपिच ।।

उषित्वा षष्टिवर्षाणि कक्षीवान्गुरुसन्निधौ ।। १९ ।।

प्रयास्यन्स्वगृहं विप्रा गुरवे दक्षि णामदात् ।।

उवाच वै गुरुर्विद्वान्कक्षीवान्ब्रह्मवित्तमः ।। 3.1.16.२० ।।

।। कक्षीवानुवाच ।। ।।

अहं गृहं प्रयास्यामि कुर्वनुज्ञां महामुने ।।

अवलोक्य कृपादृष्ट्या मां रक्षोदंक सांप्रतम् ।।

उदंकस्त्वेव मुदितः कक्षीवंतमथाब्रवीत् ।। २१ ।।

।। उदंक उवाच ।।

अनुजानामि कक्षीवन्गच्छ त्वं स्वगृहं प्रति ।। २२ ।।

उद्वाहार्थमुपायं ते वत्स वक्ष्यामि तच्छृणु ।।

रामसेतुं प्रयाहि त्वं गंधमादनपर्वतम्।। २३ ।।

तत्रागस्त्यकृतं तीर्थं सर्वाभीष्टप्रदा यकम् ।।

भुक्तिमुक्तिप्रदं पुंसां सर्वपापनिबर्हणम्।। २४ ।।

विद्यते स्नाहि तत्र त्वं सर्वमंगलसाधने ।।

त्रिवर्षं वस तत्र त्वं नियमाचारसंयुतः ।। २५ ।।

वर्षेषु त्रिषु यातेषु चतुर्थे वत्सरे ततः ।।

निर्गमिष्यति मातंगः कश्चित्तीर्थोत्तमात्ततः ।। २६ ।।

चतुर्दंतो महाकायः शरदभ्रसमच्छविः ।।

तं गजं गिरिसंकाशं स्नात्वा तत्र समारुह ।। २७ ।।

आरुह्य तं गजं वत्स स्वनयस्य पुरीं व्रज ।।

चतुर्दंतगजस्थं त्वां दृष्ट्वा शक्रमिवापरम् ।।२८ ।।

राजर्षिः स्वनयो धीमान्हर्षव्याकुललोचनः ।।

स्वकन्यायाः कृते दुःखं त्यजेदेव हृदिस्थितम् ।। २९ ।।

पुरा हि प्रतिजज्ञे सा तस्य पुत्री मनोरमा ।।

चतुर्दंतं महाकायं गजं सर्वांगपांडुरम् ।। 3.1.16.३० ।।

आरुह्य यः समागच्छेत्स मे भर्ता भवेदिति ।।

स्वकन्यायाः प्रतिज्ञां तां समाकर्ण्य स भूपतिः ।। ।। ३१ ।।

दुःखाकुलमना भूत्वा सततं पर्यचिंतयत् ।।

स्वनये चिंतयत्येवं नारदः समुपागमत् ।। ३२ ।।

तमागतं मुनिं दृष्ट्वा राजर्षिरतिधार्मिकः ।।

प्रत्युद्गम्य मुदा युक्तः पाद्यार्घ्याद्यैरपूजयत् ।। ३३ ।।

प्रणम्य नारदं राजा वचनं चेदमब्रवीत् ।।

कन्येयं मम देवर्षे प्रतिज्ञामकरोत्पुरा ।। ३४ ।।

चतु र्दंतं महाकायं गजं सर्वांगपांडुरम् ।।

आरुह्य यः समागच्छेत्स मे भर्ता भवेदिति ।। ३५ ।।

चतुर्दंतो महाकायो गजः सर्वांगपांडुरः ।।

संभवेदिंद्रभवने भूतले नैव विद्यते ।। ३६ ।।

इयं च दुस्तरामेनां प्रतिज्ञां बालिशाऽकरोत् ।।

इयं प्रतिज्ञातितरां सततं बाधते हि माम् ।। ३७ ।।

अनूढा हि पितुः कन्या सर्वदा शोकमावहेत् ।।

इति तस्य वचः श्रुत्वा स्वनये नारदोऽब्रवीत् ।। ३८ ।।

मा विषीदस्व राजर्षे तस्या ईदृग्विधः पतिः ।।

भविष्यत्यचिरादेव पृथिव्यां ब्राह्मणोत्तमः ।। ३९ ।।

कक्षीवानिति विख्यातो जामाता ते भविष्यति ।।

इत्युक्त्वा नारदमुनिर्ययावाकाशमार्गतः ।। 3.1.16.४० ।।

स्व नयस्तद्वचः श्रुत्वा नारदेन प्रभाषितम् ।।

आकांक्षते दिवारात्रं तादृग्विधसमागमम् ।। ४१ ।।

अतः सौम्य महाभाग कक्षीवन्बालतापस ।।

अगस्त्यतीर्थमद्य त्वं स्नातुं गच्छ त्वरान्वितः ।। ४२ ।।

सर्वमंगलसिद्धिस्ते भविष्यति न संशयः ।।

उदंकेनैवमुक्तोऽथ कक्षीवान्द्विजपुंगवः ।। ४३ ।।

अनु ज्ञातश्च गुरुणा प्रययौ गंधमादनम् ।।

संप्राप्यागस्त्यतीर्थं च तत्र सस्नौ जितेंद्रियः ।। ४४ ।।

क्षेत्रोपवासमकरोद्दिनमेकं मुनीश्वरः ।।

अपरेद्युः पुनः स्नात्वा पारणामकरोद्द्विजः ।। ४५ ।।

रात्रौ तत्रैव सुष्वाप कक्षीवान्धर्मतत्परः ।।

एवं नियमयुक्तस्य तस्य कक्षीवतो मुनेः ।। ४६ ।।

एकेन दिवसे नोनं वर्षत्रयमथागमत् ।।

अथ वर्षत्रयस्यांते तस्मिन्नेव दिने मुनिः ।। ४७ ।।

अन्वास्य पश्चिमां संध्यां सुखं सुष्वाप तत्तटे ।।

याममात्रावशिष्टायां विभावर्यां महाध्वनिः ।। ४८ ।।

उदभूत्प्रलयांभोधिवीचिकोलाहलोपमः ।।

तेन शब्देन महता कक्षीवान्प्रत्यबुध्यत ।। ४९ ।।

ततस्तु स्वनयो नाम राजा सानुचरो बली ।।

मृगयाकौतुकी तत्र मधुरापतिराययौ ।। 3.1.16.५० ।।

विनिघ्नन्स गजान्सिंहान्वराहान्महिषान्नुरून् ।।

अन्यान्मृगविशेषांश्च स राजा न्यवधीच्छरैः ।। ८५१ ।।

सामात्यो मृगयासक्तो रथवाजिगजैर्युतः ।।

अगस्त्यतीर्थसविधमाससाद भटान्वितः ।। ५२ ।।

स राजा मृगयाश्रांतः श्रांतसैनिकसंवृतः ।।

तत्तीर्थतीरप्रांतेषु निषसाद महीपतिः ।। ५३ ।।

ततः प्रभाते विमले कक्षी वान्मुनिसत्तमः ।।

अगस्त्यतीर्थे स्नात्वाऽसौ संध्यां पूर्वामुपास्य च ।। ५४ ।।

तस्य तीरे जपन्मत्रांस्तस्थौ नियमसंयुतः ।।

अत्रांतरे तीर्थवराद्गज एको विनिर्ययौ ।। ५५ ।।

चतुर्दंतो महाकायः कैलास इव मूर्तिमान् ।।

स समुत्थाय तत्तीर्थादगात्कक्षीवदंतिकम् ।। ५६ ।।

तमागतमुदंकोक्त लक्षणैरुपलक्षितम् ।।

तदा निरीक्ष्य कक्षीवानारोढुं स्नानमातनोत् ।। ५७ ।।

नमस्कृत्य च तत्तीर्थं श्लाघमानो मुहुर्मुहुः ।।

आरुरोह च कक्षीवांश्चतुर्दंतं महागजम् ।। ५८ ।।

आरुह्य तं चतुर्दंतं रजताचलसंनिभम् ।।

स्वनयस्य पुरीमेव कक्षीवान्गंतुमैच्छत ।। ५९ ।।

तमारूढं चतुर्दंतं श्वेतदंतावलोत्तमम् ।।

स वीक्ष्य निश्चिकायैनं कक्षीवानिति भूपतिः ।। 3.1.16.६० ।।

प्रसन्नहृदयो राजा तस्यांतिकमुपागमत् ।।

तदाभ्याशमुपागम्य कक्षीवंतं नृपोऽब्रवीत् ।। ६१ ।।

।। स्वनय उवाच ।। ।।

त्वं ब्रह्मन्कस्य पुत्रोऽसि नाम किं तव मे वद ।।

गजमेनं समारुह्य कुत्र वा गन्तुमिच्छसि ।।

स्वनयेनैवमुक्तस्तु कक्षीवान्वाक्यमब्रवीत् ।। ६२ ।।

।। कक्षीवानुवाच ।। ।।

पुत्रोऽहं दीर्घतमसः कक्षीवानिति विश्रुतः ।। ६३ ।।

स्वनयस्य तु राजर्षेर्गच्छामि नगरं प्रति ।।

अहमुद्वोढुमिच्छामि तस्य कन्या मनोरमाम्।। ६४ ।।

चतुर्दंतगजारूढस्तत्प्रतिज्ञां च पूरयन् ।।

स्वनयस्य सुतापाणिं ग्रहीष्यामि नराधिप ।। ६५ ।।

तद्भाषितं समाकर्ण्य श्रोत्रपीयूषवर्षणम् ।।

हर्षसंफुल्लनयनः स्वनयो वाक्यम ब्रवीत् ।। ६६ ।।

कक्षीवन्भोः कृतार्थोस्मि स एव स्वनयो ह्यहम् ।।

उद्वोढुमिच्छति भवान्यस्य कन्यां मनोरमाम् ।। ६७ ।।

स्वागतं ते मुनिश्रेष्ठ कक्षीवन्बालतापस ।।

मम कन्यां गृहाण त्वं तपोधन मनोरमाम् ।। ६८ ।।

तया सह चरन्धर्मान्गार्हस्थ्यं प्रतिपालय ।।

राज्ञोक्तः स तदोवाच कक्षीवान्धर्मतत्परः ।।

राजानं स्वनयं प्रीतं मधुरापुरवासिनम् ।। ६९ ।।

।। कक्षीवानुवाच ।। ।।

पिता दीर्घतमानाम वेदारण्ये मम प्रभो ।। ।। 3.1.16.७० ।।

आस्ते तपश्चरन्सौम्यो नियमाचारतत्परः ।।

तस्यांतिकं प्रेषय त्वं विप्रमेकं धरापते ।। ७१ ।।

तथोक्तः स तदा राजा स्वनयो हृष्टमा नसः ।।

अनेकसेनया सार्धं प्राहिणोत्स्वपुरोधसम् ।। ७२ ।।

विप्रं सुदर्शनं नाम वेदारण्यस्थलं प्रति ।।

सुदर्शनः समादिष्टः स्वनयेन नृपेण सः ।। ७३ ।।

महत्या सेनया सार्धं प्रययौ वेदकाननम् ।।

तत्रोटजे समासीन तं दीर्घतमसं मुनिम् ।। ७४ ।।

तपश्चरतमासीनं ध्यायन्वेदाटवी पतिम् ।।

पुरोहितो ददर्शाथ जपंतं मंत्रमुत्तमम् ।। ७५ ।।

प्रणाममकरोत्तस्मै मुनये स सुदर्शनः ।।

उवाच दीर्घतमसं मुनिं प्रह्लादयन्निव ।। ७६ ।। ।।

।। सुदर्शन उवाच ।। ।।

कच्चित्ते कुशलं ब्रह्मन्कच्चित्ते वर्धते तपः ।।

आश्रमे कुशलं कच्चित्कच्चिद्धर्मे सुखं वद ।। ७७ ।।

पृष्टः सुदर्शनेनैवं मुनिर्दीर्घतमास्तदा ।।

सुदर्शनमुवाचेदमर्घ्यादिविधिपूर्वकम् ।। ७८ ।।

।। दीर्घतमा उवाच ।। ।।

सर्वत्र कुशलं ब्रह्मन्सुदर्शन महामते ।।

मम वेदाटवीनाथकृपया नाशुभं क्वचित्।। ७९ ।।

तवापि कुशलं ब्रह्मन्किं सुखागमनं तथा ।।

किंवाऽऽगमनकार्यं ते सुदर्शन ममाश्रमे ।। 3.1.16.८० ।।।

स्वनयस्य पुरोधास्त्वं खलु वेदविदांवरः ।।

तं विहाय महाराज मधुरापुरवासिनम् ।। ८१ ।।

महत्या सेनया सार्धं किमर्थं त्वमिहागतः ।।

इत्युक्तो दीर्घतमसा तदानीं स सुदर्शनः ।। ८२ ।।

उवाच तं महात्मानं मुनिं ज्वलिततेजसम् ।।

सर्वत्र मे सुखं ब्रह्मन्भवतः कृपया सदा ।। ८३ ।।

भगवन्स्व नयो राजा साष्टांगं प्रणिपत्य तु।।

त्वां प्राह प्रश्रितं वाक्यं मन्मुखेन शृणुष्व तत् ।। ८४ ।।

।। स्वनय उवाच ।। ।।

कक्षीवांस्ते सुतो ब्रह्म न्गंधमादनपर्वते ।।

स्नानं कुर्वन्नगस्त्यस्य तीर्थे संप्रति वर्तते ।। ८५ ।।

तस्य रूपं तपो धर्ममाचारान्वैदिकांस्तथा ।।

वेदशास्त्रप्रवीणत्वमाभि जात्यं च तादृशम् ।। ८६ ।।

लोकोत्तरमिदं सर्वं विज्ञाय तव नंदने ।।

मनोरमां सुतां तस्मै दातुमिच्छाम्यहं मुने ।। ८७ ।।

मृगयाकौतुकी चाहं गंधमादनपर्वतम् ।।

आगतो मुनिशार्दूल वर्त्ते युष्मत्सुतांतिके ।।८८।।

पित्रनुज्ञां विना नाहमुद्वहेयं सुतां तव ।।

इति ब्रूते तव सुतः कक्षीवान्मुनिस त्तम ।।८९।।

तद्भावां मत्सुतां तस्मै दातुं मेऽनुग्रहं कुरु ।।

प्रैषयं च समीपं ते सेनया च सुदर्शनम् ।। 3.1.16.९० ।।

।। सुदर्शन उवाच ।।।।

इति मां भगवन्राजा प्राहिणोत्तव सन्निधिम्।।

तद्भवाननुमन्यस्व राज्ञस्तस्य चिकीर्षितम् ।। ९१ ।।

।। श्रीसूत उवाच ।। ।।

इत्युक्त्वा विररामाथ स्वनयस्य पुरोहितः ।।

ततो दीर्घतमाः प्राह स्वनयस्य पुरोहितम् ।। ९२ ।।

।। दीर्घतमा उवाच ।। ।।

सुदर्शन भवत्वेवं कथितं स्वनयेन यत् ।।

ममाभीष्टतमं ह्येतत्पाणिग्रहणमंगलम् ।। ९३ ।।

आगमिष्याम्यहं विप्र गन्धमादनपर्वतम् ।।

इत्युक्त्वा स मुनिर्विप्रा महादीर्घतमा मुनिः ।। ९४ ।।

वेदाटवीपतिं नत्वा भक्तिप्रवणचेतसा ।।

सुदर्शनेन सहितः सेतुमुद्दिश्य निर्ययौ ।। ९५ ।।

षट्भिर्दिनैर्मुनिः पुण्यं प्रययौ गन्धमादनम् ।।

अगस्तितीर्थतीरं च गत्वा दीर्घतमा मुनिः ।। ९६ ।।

अथ पुत्रं ददर्शाग्रे कक्षीवंतं महामुनिः ।।

कक्षीवान्पितरं दृष्ट्वा ववन्दे नाम कीर्तयन् ।। ९७ ।।

ततो दीर्घतमा योगी स्वांकमारोप्य तं सुतम् ।।

मूर्ध्न्युपाघ्राय सस्नेहं सस्वजे पुलकाकुलः ।। ९८ ।।

कुशलं परिपप्रच्छ तदा दीर्घतमा ऋषिः ।।

सर्ववेदास्त्वयाधीताः कक्षीवन्किमु वत्सक ।। ९९ ।।

शास्त्राण्यपाठीः किं त्वं वा वत्स सर्वं वदस्व मे ।।

इति पृष्टः स्वपित्रा स सर्वं वृत्तं तमव्रवीत् ।। ।। 3.1.16.१००।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्येऽगस्तितीर्थप्रशंसायां कक्षीवदुद्वाहोद्योगवर्णनंनाम षोडशोऽध्यायः ।। १६ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 17

।। श्रीसूत उवाच ।। ।।

पुनरित्याह कक्षीवान्पितरं तं मुनीश्वराः ।।

यथोदंकेन गुरुणा प्रेषितोऽहमिहा धुना ।। १ ।।

समागतोस्मि तीर्थेऽस्मिन्नागस्त्ये मुनिसत्तम ।।

स्वनयस्य सुतोद्वाहसिद्ध्यर्थं गुरुचोदितः ।। २ ।।

उपायं तन्निगदितमत्र कुर्व न्न्यवर्तिषम् ।।

वर्षत्रयावसाने मामुद्वाहोपायसंयुतम् ।। ३ ।।

स्वनयोत्रैव तिष्ठन्तमाससाद यदृच्छया ।।

स च मामेत्य कन्यां ते दास्यामीति वचोऽब्रवीत् ।। ४ ।।

ततोस्मदनुरोधेन त्वामाह्वयदयं नृपः ।।

इतीरयित्वा पितरं कक्षीवान्विरराम सः ।। ५ ।।

सुदर्शनोऽथ विप्रेंद्रः पुरोधाः स्वन यस्य सः ।।

प्रययौ राजसविधं स्वनयाय निवेदितुम् ।। ६ ।।

राजानं तं समासाद्य स्वनयं स सुदर्शनः ।।

प्राप्तं निवेदयामास तं दीर्घतमसं मुनिम्।। ७ !।

ततः स राजा स्वनयो मुनिं प्राप्तं पुरोहितात् ।।

श्रुत्वा विनिर्ययौ द्रष्टुं महसा पटमण्डपात् ।। ८ ।।

अगस्त्यतीर्थतीरे तं सपुत्रमृषि सत्तमम्।।

ददर्श राजा स्वनयो ब्रह्माणमिव देवराट् ।। ९ ।।

ववंदे दीर्घतमसश्चरणौ लोकमंगलौ ।।

उत्थाप्य नृपतिं विप्रास्तदा दीर्घतमा मुनिः ।। ।। 3.1.17.१० ।।

आशिषं प्रयुयोजाथ स्वनयाय नृपाय सः ।।

अत्रांतरे समायात उदंकोऽपि महानृषिः ।। ११ ।।

रामसेतौ धनुष्कोटौ स्नातुं शिष्यगणैर्वृतः ।।

लक्षसंख्यो मुनिगणस्तेन साकं मुनीश्वरः ।। १२ ।।

उदंकोऽगस्त्यतीर्थेस्मिन्स्नातुं संप्राप्तवान्मुनिः ।।

उदंकमागतं दृष्ट्वा कक्षीवान्प्रणनाम तम् ।। १३ ।।

अकरोदाशिषं विप्रः शिष्यायाथ गुरुस्तदा ।।

अथ दीर्घतमा विप्रस्तमुदंकं महामुनिम् ।। १४ ।।

कुशलं परिपप्रच्छ सोऽपि तं मुनि पुंगमम् ।।

उभौ तौ मुनिशार्दूलौ सर्वलोकेषु विश्रुतौ ।। १५ ।।

कथयामासतुस्तत्र कथाः पापप्रणाशिनीः ।।

अथ राजाप्युदंकं तं प्रणनाम मुनीश्व रम् ।। १६ ।।

उदंकोप्याशिषं तस्मै प्रायुंक्त स्वनयाय वै ।।

राजाथ स्वनयः प्रीतस्तत्र वाक्यमभाषत ।। १७ ।।

मुनिं तं दीर्घतमसं विवाहः क्रिय तामिति ।।

तथास्त्वित्यवदत्सोऽपि तदा दीर्घतमा मुनिः ।। १८ ।।

श्व एव क्रियतां राजन्सुमुहूर्ते महामते ।।

अत्रैव पाणिग्रहणं क्रियतां गन्धमा दने ।। १९ ।।

तस्मादिहानय क्षिप्रं कन्यामंतःपुरं तथा ।।

इत्युक्तः स्वनयो राजा गत्वा स्वपटमण्डपम् ।। 3.1.17.२० ।।

आहूय शतसंख्याकान्वृद्धान्वर्ष वरांस्तदा ।।

आनेतुं प्रेषयामास कन्यामंतःपुरं तथा ।। २१ ।।

ते वर्षवरमुख्यास्तु स्वनयेन प्रचोदिताः ।।

मनोजवान्समारुह्य वाजिनो मधुरां ययुः ।। २२ ।।

गत्वा चांतःपुरं तूर्णं वृत्तं सर्वं निवेद्यच ।।

कन्ययांतःपुरेणापि सहिताः पुनराययुः ।। २३ ।।

ततः परस्मिन्दिवसे शुभे दीर्घतमा ऋषिः ।।

गोदानादीनि पुत्रस्य विधिवन्निरवर्तयत् ।। २४ ।।

निर्वृत्तेष्वथ कक्षीवान्गोदानादिषु कर्मसु ।।

उद्वोढुं राजतनयां पित्रा च गुरुणा सह ।। ।। २५ ।।

चतुर्दंतं महाकायं गजं सर्वांगपांडुरम् ।।

आरुह्य हर्षसंयुक्तो द्वितीय इव देवराट् ।। २६ ।।

मनोरमायाः कन्यायाः पूरयंश्च मनोरथम् ।।

ब्राह्मणैर्बहुसाहस्रैः सहितः स्वस्तिवाचकैः ।।२७।।

तोरणालंकृतद्वारं राजर्षे पटमण्डपम् ।।

कृतमंगलकृत्योऽसौ कक्षीवान्मुदितो ययौ ।।२८।।

ततः स्वनयकन्या सा कृतमंगलभूषणा ।।

चतुर्दंतमहाकायश्वेतदंतावलस्थितम्।। २९ ।।

कक्षीवंतं समायांतं दृष्ट्वा स्वोद्वाहनोत्सुकम् ।।

प्रतिज्ञा मत्कृते दानीं निर्वृत्तेति मुदं ययौ ।। 3.1.17.३० ।।

कक्षीवान्दीर्घतमसा तथोदंकेन संयुतः ।।

पटाकारबहिर्द्वारं क्रमाद्राज्ञः समाययौ ।। ३१ ।।

स्वनयस्तु ततो दृष्ट्वा कक्षीवंतं समागतम् ।।

प्रत्युज्जगाम सहितः सुदर्शनपुरोधसा ।। ३२ ।।

कक्षीवतो वरस्याथ कन्यकापरिचारिकाः ।।

राजतैः स्वर्णपात्रैश्च चक्रु र्नीराजनाविधिम् ।। ३३ ।।

स्वनयेन समाहूतो ब्राह्मणैः परिवारितः ।।

प्रविवेशाथ लक्ष्मीवान्कक्षीवान्राजमंदिरम् ।। ३४ ।।

ततो वरेण सहितं तं दीर्घतमसं मुनिम् ।।

सोदंकमनयद्राजा स्वगृहं विनयान्वितः ।। ३५ ।।

उदंकदीर्घतमसोरर्घ्यं च प्रददौ नृपः ।।

अलंकृते प्रपामध्ये वस्त्रचामरतोरणैः ।। ३६ ।।

वरो दीर्घतमाश्चान्ये सोदंका मुनयस्तदा ।।

न्यषीदन्स्वनयश्चापि सामात्यः सपुरोहितः ।। ३७ ।।

ततो दुहितरं कन्यां सुकेशीं तां मनो रमाम् ।।

भूषणालंकृतां गात्रे दिव्यवस्त्रधरां शुभाम् ।। ३८ ।।

बिंबोष्ठीं चारुसर्वांगीं पीनोन्नतपयोधराम् ।।

प्रपायामध्यमनयन्महाजनसमाकुलम् ।। ।। ३९ ।।

ततो वरस्य कंठे सा मालां चंपकनिर्मिताम् ।।

निवेशयामास शुभा जनमध्ये मनोरमा ।। 3.1.17.४० ।।

उदंकस्तत आगत्य प्रतिष्ठाप्यानलं स्थले ।।

कृत्वाग्निमुखपर्यंतं लाजाहोमादिकं तथा ।। ४१ ।।

पाणिमग्राहयत्तस्याः कन्यायाश्च वरेण तु ।।

उदंकः सर्वकर्माणि कारयामास तत्र वै ।। ।। ४२ ।।

वरवध्वोस्तदा विप्राः प्रायुंजत तदाशिषः ।।

ततः स राजा स्वनयो वरं दीर्घतमोमुनिम्।।४३।।

उदंकं वरपक्षीयान्स्वपक्षीयांस्तथाद्विजाः ।।

त्रिलक्षं ब्राह्मणानन्नैर्भोजयामास षड्रसैः ।। ४४ ।।

ततः संभावयामास तांबूलाद्यैरनेकधा ।।

अथामंत्र्य मुनिश्रेष्ठमुदंकः स्वाश्रमं ययौ ।।४५ ।।

अन्ये च ब्राह्मणाः सर्वे स्वदेशान्प्रययुस्तदा ।।

एवं विवाहे निर्वृत्ते कक्षीवद्राजकन्ययोः ।।४६।।

प्रविश्यागस्त्यतीर्थं स तिरोधत्त गजोत्तमः ।।

ततो दीर्घतमा विप्राः पुत्रेण स्नुषया सह ।। ४७ ।।

अगस्त्यस्य महातीर्थे स्नानं कृत्वेष्टदायिनि ।।

श्लाघमानश्च तत्तीर्थं सर्वलोकेषु विश्रुतम् ।। ४८ ।।

प्रयातुं स्वा श्रमं पुण्यं वेदारण्यं मनो दधे ।।

राजानं च तमागंतुमापृच्छन्मुनिसत्तमः ।। ४९ ।।

स्वनयोऽपि तदा राजा स्वदुहित्रे मुदान्वितः ।।

ददौ शतसहस्राणि स्वर्णानि स्त्रीधनं तदा ।। 3.1.17.५० ।।

गवां सहस्रं प्रददौ दासीनां च सहस्रकम् ।।

ग्रामं पंचशतं चापि ददौ दुहितृवत्सलः ।। ५१ ।।

दिव्यवस्त्रा युतं चापि शतं भूषणपेटिकाः ।।

हारमालासहस्रं च ददौ दुहितृसौहृदात् ।। ५२ ।।

एतत्सर्वं समादाय स पुत्रः सस्नुषो मुनिः ।।

राज्ञा च समनुज्ञातः प्रययौ वेदकाननम् ।।५३ ।।

वेदारण्यं समासाद्य तदा दीर्घतमा मुनिः ।।

उवास ससुखं विप्राः पुत्रेण स्नुषया सह ।। ५४ ।।

सेवन्वेदाटवीनाथं भुक्तिमुक्तिफलप्रदम् ।।

न्यवसत्तु चिरं कालं कक्षीवानपि भार्यया ।। ५५ ।।

स्वनयोपि स राजर्षिः स्नात्वा कुंभजनिर्मिते ।।

तत्र तीर्थे महापुण्ये सहितः सर्वसैनिकैः ।। ५६ ।।

अतःपुरं समादाय मुदितः स्वपुरं ययौ ।।

अगस्त्यतीर्थमाहात्म्यादेवं कक्षीवतो मुनेः ।।

अनन्यसुलभो विप्रा विवाहः समजायत ।। ५७ ।।

।। श्रीसूत उवाच ।। ।।

इतिहासस्त्वयं पुण्यो वेदसिद्धो मुनीश्वराः ।। ५८ ।।

धन्यो यशस्य आयुष्यः कीर्तिसौभाग्य वर्द्धनः ।।

श्रोतव्यः पठितव्योऽयं सर्वथा मानवैर्द्विजाः ।। ५९ ।।

पठतां शृण्वतां चेममितिहासं पुरातनम् ।।

नेहामुत्रापि वा क्लेशो दारिद्यं चापि नो भवेत् ।। 3.1.17.६० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये कक्षीवद्विवाहनिष्पत्तिवर्णनंनाम सप्त दशोऽध्यायः ।। १७ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 18

।। श्रीसूत उवाच ।। ।।

कुंभसंभवतीर्थेऽस्मिन्विधायाभिषवं नरः ।।

रामकुंडं ततः पुण्यं गच्छेत्पापविमुक्तये ।। १ ।।

रघुनाथसरः पुण्यं द्विजाः पापहरं तथा ।।

रघुनाथसरस्तीरे कृतो यज्ञोऽल्पदक्षिणः ।। २ ।।

संपूर्णफलदो भूयात्स्वाध्यायोऽपि जपस्तथा ।।

रघुनाथ सरस्तीरे मुष्टिमात्रमपि द्विजाः ।। ३ ।।

दत्तं चेद्वेदविदुषे तदनंतगुणं भवेत् ।।

रामतीर्थं समुद्दिश्य वक्ष्यामि मुनिपुंगवाः ।। ४ ।।

इतिहासं महापुण्यं सर्वपातकनाशनम् ।।

सुतीक्ष्णनामा विप्रेंद्रो मुनिर्नियतमानसः ।। ५ ।।

अगस्त्यशिष्यो रामस्य चरणाब्जविचिंतकः ।।

रामचंद्रसरस्तीरे तपस्तेपे सुदुष्करम् ।। ६ ।।

जपन्षडक्षरं मंत्रं रामचंद्राधिदैवतम् ।।

नित्यं स पंचसाहस्रं मत्रराजमतंद्रितः ।।७ ।।

जजाप कुर्वन्स्नानं च रघुनाथसरोजले ।।

भिक्षाशी नियताहारो जितक्रोधो जितेंद्रियः ।। ८ ।।

एवं सुतीक्ष्णो विप्रेंद्रा बहुकालमवर्तत ।।

ततः कदाचित्स मुनीरामं ध्याय न्सदा हृदि ।।

तुष्टाव सीतासहितं रामचंद्रं सभक्तिकम् ।। ९ ।।

।। सुतीक्ष्ण उवाच ।। ।।

नमस्ते जानकीनाथ नमस्ते हनुमत्प्रिय ।। 3.1.18.१० ।।

नमस्ते कौशिकमुनेर्यागरक्षणदीक्षित ।।

नमस्ते कौसलेयाय विश्वामित्रप्रियाय च ।। ११ ।।

नमस्ते हरकोदण्डभंजकामरसेवित ।।

मारीचांतक राजेंद्र ताटकाप्राणनाशन ।। १२ ।।

कबंधारे हरे तुभ्यं नमो दशरथात्मज ।।

जामदग्न्यजिते तुभ्यं खरविध्वंसिने नमः ।। १३ ।।

नमः सुग्रीवनाथाय नमो वालिहराय ते ।।

विभीषणभयक्लेशहारिणे मलहारिणे ।। १४ ।।

अहल्यादुःखसंहर्त्रे नमस्ते भरताग्रज ।।

अंभोधिगर्वसंहर्त्रे तस्मिन्सेतु कृते नमः ।। १५ ।।

तारकब्रह्मणे तुभ्यं लक्ष्मणाग्रज ते नमः ।।

रक्षःसंहारिणे तुभ्यं नमो रावणमर्द्दिने ।। १६ ।।

कोदण्डधारिणे तुभ्यं सर्व रक्षाविधायिने ।।

इति स्तुवन्मुनिः सोऽयं सुतीक्ष्णो राममन्वहम् ।। १७ ।।

निनाय कालमनिशं रामचंद्रनिषण्णधीः ।।

एवमभ्यसतस्तस्य राम मन्त्रं षडक्षरम्।। १८ ।।

स्तुवतो रामचंद्रं च स्तोत्रेणानेन सुव्रताः ।।

तीर्थे च रघुनाथस्य कुर्वतः स्नानमन्वहम् ।। १९ ।।

अभवन्निश्चला भक्ती रामचंद्रेतिनिर्मला ।।

अभूदद्वैतविज्ञानं प्रत्यगात्मैकलक्षणम् ।। 3.1.18.२० ।।

अनधीतत्रयीज्ञानं तथैवाश्रुतवेदनम् ।।

परकायप्रवेशे च सामर्थ्यमभवद्द्विजाः ।।२१ ।।

आकाशगमने शक्तिः कलावैदग्ध्यमेव च ।।

अश्रुतानां च शास्त्राणामभिज्ञानं विना गुरुम् ।। २२ ।।

गमनं सर्वलोकेषु प्रति घातविवर्जितम् ।।

अतींद्रियार्थद्रष्टृत्वं देवैः संभाषणं तथा ।। २३ ।।

पिपीलिकादिजंतूनां वार्ताज्ञानमपि द्विजाः ।।

ब्रह्मविष्णुमहादेवलोकेषु गमनं तथा।।२४ ।।

चतुर्दशसु लोकेषु स्वाधीनगमनं तथा ।।

एतान्यन्यानि सर्वाणि योगिलभ्यानि सत्तमाः ।। २५ ।।

सुतीक्ष्णस्याभवन्विप्रा रामा तीर्थनिषेवणात् ।।

एवंप्रभावं तत्तीर्थं महापातकनाशनम् ।। २६ ।।

महासिद्धिकरं पुण्यमपमृत्युविनाशनम् ।।

भुक्तिमुक्तिप्रदं पुंसां नरकक्लेशना शनम् ।। २७ ।।

रामभक्तिप्रदं नित्यं संसारोच्छेदकारणम् ।।

अस्य तीरे महल्लिंगं स्थापयित्वा रघूद्वहः ।।

पूजयामास तल्लिंगं लोकानुग्रहका म्यया ।। २८ ।।

रामतीर्थे महापुण्ये स्नात्वा तल्लिंगदर्शनात् ।।

नराणां मुक्तिरेव स्यात्किमुतान्या विभूतयः ।। २९ ।।

तत्र स्नात्वा शिवं दृष्ट्वा धर्म पुत्रः पुरा द्विजाः ।।

अनृतोक्तिसमुद्भूतदोषान्मुक्तोऽभवत्क्षणात् ।। 3.1.18.३० ।। ।।

ऋषय ऊचुः ।। ।। असत्यमुदितं कस्माद्धर्मपुत्रेण सूतज ।।

यद्दोषशांतये सस्नौ रामतीथेऽतिपावने ।। ३१ ।।

।। श्रीसूत उवाच ।। ।।

युष्माकमृषयो वक्ष्ये यथोक्तमनृतं रणे ।।

छलेन धर्मपुत्रेण यन्नष्टं रामतीर्थके ।। ३२ ।।

अन्योन्यं पांडवा विप्रा धर्मपुत्रादयः पुरा ।।

धृतराष्ट्रस्य पुत्राश्च दुर्नोधनमुखास्तदा ।। ३३ ।।

महद्वै वैरमासाद्य राज्यार्थं विप्रसत्तमाः ।।

महत्या सेनया सार्द्धं कुरुक्षेत्रे समेत्य च ।। ३४ ।।

अयुध्यन्समरे वीराः समरेष्वनिवर्तिनः ।।

युद्धं कृत्वा दशदिनं गांगेयः पतितो भुवि ।। ३५ ।।

ततः पंचदिनं भूयो धृष्टद्युम्नेन वीर्यवान् ।।

आचार्यो युयुधे द्रोणो महाबलपराक्रमः ।। ३६ ।।

अनेकास्त्राणि शस्त्राणि द्रोणाचर्यो महाबली ।।

विसृजन्पांडवानीकं पीडयामास वीर्यवान् ।। ३७ ।।

अथ दिव्यास्त्रविच्छूरो धृष्टद्युम्नो महाबलः ।।

अभिनद्बाणवर्षेण द्रोणसेनामनेकधा ।। ३८ ।।

धृष्टद्युम्नं तदा द्रोणः शरवर्षैरवाकिरत् ।।

पार्थसेना तथा द्रोणबाणवर्षातिपीडिता ।। ३९ ।।

दशदिक्षु भयाक्रांता विद्रुता द्विजसत्तमाः ।।

ततोऽर्जुनो रणे द्रोणं युयुधे रथिनां वरः ।। 3.1.18.४० ।।

रणप्रवीणयोस्तत्र विजयद्रोणयो रणे ।।

द्रष्टुं समागतैर्देवैरभूद्व्योमनिरं तरम् ।। ४१ ।।

द्रोणफाल्गुनयोर्विप्रा नास्ति युद्धोपमा भुवि ।।

सामर्षयोस्तदाचार्यशिष्ययोरभवद्रणः ।। ४२ ।।

द्रोणफाल्गुनयोर्युद्धं द्रोणफाल्गुन योरिव ।।

बहु मेनेऽथ मनसा द्रोणोऽर्जुनपराक्रमम् ।। ४३ ।।

ततो द्रोणो महावीर्यं प्रियशिष्यं स फाल्गुनम् ।।

विहाय पांचालबलं समयुध्यत वीर्यवान् ।। ४४ ।।

सविंशतिसहस्राणि दश तत्रायुतानि च ।।

द्रोणाचार्योऽवधीद्राज्ञां युद्धे सगजवाजिनाम् ।। ४५ ।।

धृष्टद्युम्नोऽथ कुपितो द्रोण मभ्यहनच्छरैः ।।

द्रोणश्च पट्टिशं गृह्य धृष्टद्युम्नमताडयत् ।। ४६ ।।

शरैर्विव्याध तं युद्धे तीक्ष्णैरग्निशिखोपमैः ।।

परङ्मुखोऽभवत्तत्र धृष्ट द्युम्नः शराहतः ।। ४७ ।।

ततो विरथमागत्य धृष्टद्युम्नं वृकोदरः ।।

स्वं स्यंदनं समारोप्य द्रोणाचार्यमथाब्रवीत् ।। ४८ ।।

स्वकर्मभिरसंतुष्टाः शिक्षितास्त्रा द्विजाधमाः ।।

न युद्ध्येरन्यदि क्रूरा न नश्येरन्नृपा रणे ।। ४९ ।।

अहिंसा हि परो धर्मो ब्राह्मणानां सदा स्मृतः ।।

हिंसया दारपुत्रादीन्रक्षंते व्याधजातयः ।। 3.1.18.५० ।।

हिंसीस्त्वमेकपुत्रार्थे युद्धे स्थित्वा बहून्नृपान् ।।

स चापि ते सुतो ब्रह्मन्हतः शेते रणाजिरे ।। ५१ ।।

तथापि लज्जा ते नास्ति शोकोऽपीह न जायते ।।

वचनं त्विति भीमस्य सत्यं श्रुत्वा युधिष्ठिरात् ।। ५२ ।।

निजायुधं स तत्याज पपात स्यंदनो परि ।।

योगवित्प्रायमातस्थे द्रोणाचार्यस्तदा द्विजाः ।। ५३ ।।

तदंतरं परिज्ञाय द्रोणाचार्यस्य पार्श्वतः ।।

खङ्गपाणिः शिरच्छेत्तुमभ्यधावद्रणा जिरे ।। ५४ ।।

वार्यमाणोऽपि पार्थाद्यैस्तच्छिरश्छेत्तुमुद्ययौ ।।

योगवित्त्वाद्द्रोणमूर्ध्नो ज्योतिरूर्ध्वं दिवं ययौ ।। ५५ ।।

दृष्टं कृष्णार्जुनकृपधर्मपुत्रादि भिर्मृधे ।।

द्रोणस्यास्य गतप्राणाच्छरीरादच्छिनच्छिरः ।। ५६ ।।

भारद्वाजे हते युद्धे कौरवाः प्राद्रवन्भयात् ।।

जहृषुः पांडवा विप्रा धृष्टद्युम्नादय स्तदा ।। ५७ ।।

सेनां तां विद्रुतां दृष्ट्वा द्रौणिरूचे सुयोधनम् ।।

एतद्द्रवति कि सैन्यं त्यक्तप्रहरणं नृप ।। ५८ ।।

तदा दुर्योधनो राजा स्वयं वक्तु मशक्नुवन् ।।

युद्धे द्रोणवधं वक्तुं कृपाचार्यमचोदयत् ।।

द्रौणयेऽथ कृपाचार्यो वधमूचे गुरोस्तदा ।। ५९ ।।

।। कृप उवाच ।। ।।

अश्वत्थामंस्तव पिता ब्रह्मास्त्रेण मृधे रिपून् ।।

हत्वा निनाय सदनं यमस्य शतशो बली ।। 3.1.18.६० ।।

दुराधर्षतमं दृष्ट्वा तद्वीर्यं केशवस्तदा ।।

पांडवान्प्राह विप्रेंद्र वाक्यं वाक्यविशारदः ।। ६१ ।।

।। केशव उवाच ।। ।।

द्रोणं जेतुमुपायोऽस्ति पांडवा युधि दुर्जयम् ।। ६२ ।।

अश्वत्थात्मा तव सुतो हतो द्रोण मृधेऽधुना ।।

सत्यवादी वदेदेवं यदि प्रामाणिको जनः ।। ६३ ।।

द्रोणो निवर्तेत रणात्तदा त्यक्त्वायुधं क्षणात् ।।

अत एनां मृषावार्तां धर्मराजोऽधुना वदेत्।। ६४ ।।

नान्यथा शक्यते जेतुं द्रोणो युद्धविशारदः ।।

धर्माज्जेतुमशक्यं चेद्धर्मं त्यक्त्वाऽप्यरिं जयेत् ।। ६५ ।।

इति केशववाक्यं तच्छ्रुत्वा भीमः पृथासतः ।।

पितरं ते समभ्येत्य मिथ्यावाक्यमभाषत ।। ६६ ।।

अश्वत्थामा हतो द्रोण युद्धेऽत्र पतितोऽधुना ।।

द्रोणाचार्योपि तद्वाक्यममन्यत यथार्थतः ।। ६७ ।।

अविश्वस्य पुनः सोऽथ धर्मजं प्राप्य चाब्रवीत् ।।

धर्मात्मज मृधे सूनुरश्वत्थामा ममाधुना ।। ६८ ।।

हतः किं त्वं वदस्वाद्य सत्यवादी भवान्मतः ।।

धर्मपुत्रोऽसत्यभीरुरासीच्चारिजयोत्सुकः ।। ६९ ।।

किं कर्तव्यं मयाद्येति दोलालोलमना अभूत् ।।

स दृष्ट्वा भीमनिहतमश्वत्थामाभिधं गजम् ।।3.1.18.७०।।

अश्वत्थामा हतो युद्धे भीमेनाद्य रणे महान् ।।

इत्थं द्रोणं बभाषेऽसौ धर्मपुत्रश्छलोक्तितः ।। ७१ ।।

तच्छ्रुत्वा त्वत्पिता शस्त्रं त्यक्त्वा युद्धान्न्यवर्त्तत ।।

अथ धर्मसुतः प्राह परं वारण इत्यपि ।। ७२ ।।

त्यक्तं शस्त्रं न गृह्णीयां युद्धे पुनरिति स्म सः ।।

प्रतिजज्ञे तव पिता वत्स द्रोणो बली पुनः ।। ७३ ।।

अतः शस्त्रं न जग्राह प्रतिज्ञाभंगकातरः ।।

धृष्टद्युम्नं तदा दृष्ट्वा पिता ते मृत्युमात्मनः ।। ७४ ।।

मत्वा प्रायोपवेशेन रथोपस्थे स योगवित् ।।

अशयिष्ट समाधिस्थः प्राणानायम्य वाग्यतः ।। ७५ ।।

ततो निर्भिद्य मूर्धानं तत्प्राणा निर्ययुः क्षणात् ।।

तदा मृतस्य द्रोणस्य वत्स खङ्गेन तच्छिरः ।। ७६ ।।

केशागृहीत्वा हस्तेन धृष्टद्युम्नोऽच्छिनद्युधि ।।

मावधीरिति पार्थाद्याः प्रोचुः सर्वे च सैनिकाः ।।

सर्वैर्निवार्यमाणोपि त्वत्तातं पार्श्वतोऽवधीत् ।। ७७ ।।

।। श्रीसूत उवाच ।। ।।

पितरं निहतं श्रुत्वा रुदन्द्रौणिश्चिरं द्विजाः ।। ।। ७८ ।।

कोपेन महता तत्र ज्वलन्वाक्यमथाब्रवीत ।।

अनृतं प्रोच्य पितरं न्यस्तशस्त्रं चकार यः ।। ७९ ।।

पितरं मेऽद्य तं पार्थमप्यन्या थ पांडवान् ।।

गृहीत्वा केशपाशं यस्त्यक्तशस्त्रशिरोऽहनत् ।। 3.1.18.८० ।।

छद्मना पार्षतं तं च हनिष्याम्यचिरादहम् ।।

कृष्णेन सह पश्यंतु पाण्डवा मत्पराक्रमम् ।। ८१ ।।

इति द्रौणिर्द्विजास्तत्र प्रतिजज्ञे भयंकरम् ।।

ततोस्तं गत आदित्ये राजानः सर्व एव ते ।। ८२ ।।

उभये निहते द्रोणे प्राविशन्पटमण्डपम् ।।

अष्टादशदिनैरेवं निवृत्तमभवद्रणम् ।। ८३ ।।

शल्यं कर्णं तथान्यांश्च दुर्योधनमुखांस्ततः ।।

धार्तराष्ट्रान्निहत्याजौ धर्मराजो युधिष्ठिरः ।। ८४ ।।

स्वीयानां च परेषां च मृतानां सांपरायिकम् ।।

अकरोद्विधिवद्विप्राः सार्धं धौम्या दिभिर्द्विजैः ।। ८५ ।।

वंदित्वा धृतराष्ट्रं च सर्वे संभूय पाण्डवाः ।।

धृतराष्ट्राभ्यनुज्ञाता हतशिष्टजनैर्वृताः ।। ८६ ।।

संप्राप्य हास्तिनपुरं प्राविशंस्ते स्वमंदिरम्।।

ततः कतिपयाहःसु गतेषु किल नागराः ।। ८७ ।।

धौम्यादिमुनिभिः सार्धं धर्मजस्य महात्मनः ।।

राज्या भिषेचनं कर्तुं प्रारभंत मुनीश्वराः ।। ।।

राज्याभिषेचने तस्य प्रवृत्ते धर्मजस्य तु ।।

अशरीरा ततो वाणी बभाषे धर्मनंदनम् ।। ८९ ।।

धर्म पुत्र महाभाग रिपूणामपि वत्सल ।।

राज्याभिषेकं मा कार्षीर्नार्हस्त्वं राज्यपालने ।। 3.1.18.९० ।।

यतस्त्वं छद्मनाचार्यमुक्त्वा सत्यं द्विजोत्तमम् ।।

न्यस्त शस्त्रं रणे राजन्नघातयदलज्जकः ।। ९१ ।।

अतस्ते पापबाहुल्यं विद्यते धर्मनंदन ।।

प्रायश्चित्तमकृत्वास्य राज्यपालनकर्मणि ।। ९२ ।।

नार्हता विद्यते यस्मात्प्रायश्चित्तमतश्चर ।।

इत्युक्त्वा विररामाथ सा तु वागशरीरिणी ।। ९३ ।।

ततो धर्मसुतो राजा तद्वाक्यं भृशकातरः ।।

मूढोऽहं साहसी क्रूरः पिशुनो लोभमोहितः ।। ९४ ।।

तुच्छराज्याभिलाषेण कृतवान्पापमीदृशम्।।

एतत्पापविशुद्ध्यर्थं किं करिष्यामि का गतिः ।। ९५ ।।

किं वा दानं प्रदास्यामि कुत्र यास्यामि वा पुनः ।।

इति शोकसमाविष्टे तस्मिन्राजनि धर्मजे ।। ९६ ।।

कृष्णद्वैपायनो व्यासस्समायातस्तदंतिकम् ।।

ततोऽभिवंद्य तं व्यासं प्रत्युत्थाय कृतांजलिः ।। ९७ ।।

संपूज्यार्घ्यादिना विप्रा भक्तियुक्तेन चेतसा ।।

अदेहवाचा यत्प्रोक्तं तत्सर्वमखिलेन सः ।। ।। ९८ ।।

व्यासाय श्रावयामास दुःखितो धर्मनंदनः ।।

श्रुत्वा तदखिलं वाक्यं धर्मजस्य महामुनिः ।।

ध्यात्वा तु सुचिरं कालं ततो वक्तुं प्रच क्रमे ।।९९।।

।। व्यास उवाच ।। ।।

मा कार्षीस्त्वं भयं राजन्नुपायं प्रब्रवीमि ते।।

अस्य पापस्य शांत्यर्थं श्रुत्वानुष्ठीयतां त्वया ।। 3.1.18.१०० ।। ।।

युधिष्ठिर उवाच ।। ।।

किं तद्ब्रूहि महायोगिन्पाराशर्य कृपानिधे ।।

येन मे पापनाशः स्यादचिरात्तद्वदाधुना ।। १०१ ।।

।। व्यास उवाच ।। ।।

दक्षिणांभोनिधौ सेतौ गंधमादनपर्वते ।। १०२ ।।

रामसेतौ महाराज रामतीर्थमिति श्रुतम् ।।

अस्ति पुण्यं सरः सिद्धं महापातकनाशनम् ।। ३ ।।

यस्य दर्शनमात्रेण महापातककोटयः ।।

प्रयांति विलयं सद्यस्तमः सूर्योदये यथा ।।४।।

रामतीर्थं यदा पश्येत्स्वयं रामेण निर्मितम् ।।

तदैव ब्रह्महत्याया मुच्यते नात्र संशयः ।। ५ ।।

तत्र गत्वा महाराज रामतीर्थे विमुक्तिदे ।।

स्नाहि ते पापशुद्धिः स्याद्राज्यरक्षार्हतापि च ।। ६ ।।

दानं कुरुष्व तत्तीरे गोभूमितिलवाससाम् ।।

सुवर्णरजतानां च दानं कुरु युधिष्ठिर ।।

अवश्यमेतत्पापानां शुद्धिस्ते न चिराद्भवेत् ।। ७ ।।

।। श्रीसूत उवाच ।।

व्यासेन धर्मपुत्रोऽयमेवमुक्तो द्विजोत्तमाः ।। ९ ।।

तत्क्षणेनैव धौम्येन सहितः सानुजस्तदा ।।

सहदेवं प्रतिष्ठाप्य राज्ये धर्मात्मजस्तदा ।। ९ ।।

रामसेतुं समुद्दिश्य प्रतस्थे वाहनं विना ।।

दिनैः कतिपयैरेव रामसेतुं जगाम सः ।। 3.1.18.११० ।।

रामतीर्थं समासाद्य धौम्येन सह पांडवः ।।

पुरोहितोक्तमार्गेण संकल्प्य विधिपूर्वकम्।। ११ ।।

सस्नौ रामसरस्तीर्थे पुण्ये पापविनाशने ।।

स्नात्वाचम्य विशुद्धात्मा क्षेत्रपिंडं प्रदाय च ।। १२ ।।

व्यासो क्ताखिलदानानि प्रददौ स युधिष्ठिरः ।।

मासमेकं निराहारः सस्नौ तत्र स धर्मजः ।। १३ ।।

प्रत्यहं च ददौ दानं वित्तलोभं विना द्विजाः ।।

एक मासे गते त्वेवं कस्मिंश्चिद्दिवसे ततः ।। १४ ।।

आह धर्मात्मजं वाणी पुनरप्यशरीरिणी ।।

राजंस्ते विलयं यातं सर्वं पापं युधिष्ठिर ।। १५ ।।

छले नासत्यवचनादाचार्यस्य वधेन यः ।।

दोषस्ते समभूत्पूर्वं सोऽपि नष्टः परंतप ।। १६ ।।

याहि स्वनगरं राजन्गत्वा पालय मेदिनीम् ।।

अभिषेचय चात्मानं राज्यरक्षार्हतास्ति ते ।। १७ ।।

इत्युक्त्वा विररामाथ सापि वागशरीरिणी ।।

ततो धर्मात्मजः प्रीतस्तामुद्दिश्य दिशं प्रति ।। १८ ।।

नमस्कृत्वाशरीरिण्यै तस्यै वाचे सहानुजः ।।

प्रययौ हास्तिनपुरं सुप्रीतेनांतरात्मना।। १९ ।।

अभिषिक्तोऽथ राज्येऽसौ पालयामास मेदिनीम् ।।

इत्थं धर्मात्मजो विप्रा रामतीर्थनिमज्जनात् ।। 3.1.18.१२० ।।

गतपापो विशुद्धात्मा योग्योऽभूद्राज्यरक्षणे ।।

एवं वः कथितं चित्रं रामतीर्थस्य वैभवम् ।। २१ ।।

सर्वपापहरं पुण्यं भक्तिमुक्तिप्रदायकम् ।।

यत्र स्नानाद्विमुक्तोऽभून्मिथ्यादोषात्स धर्मजः ।। २२ ।।

पठंति येऽ ध्यायमिदं द्विजोत्तमाः शृण्वंति वा ये मनुजा विपातकाः ।।

यास्यंति कैलासमनन्यलभ्यं गत्वा न संयांति पुनश्च जन्म ।। ।। १२३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां मंहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामतीर्थप्रशंसायां धर्मपुत्रमिथ्या कथनदोषशांतिवर्णनंनामाष्टादशोऽध्यायः ।। १८ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 19

।। श्रीसूत उवाच ।। ।।

तारकब्रह्मणस्तस्य तीर्थे स्नात्वा द्विजोत्तमाः ।।

लक्ष्मणस्य ततस्तीर्थमभिगच्छेत्समाहितः ।। १ ।।

श्रीलक्ष्मणस्य तीर्थे तु स्नात्वा पापैर्विमोचिताः ।।

मुक्तिं प्रयांति विमलामपुनर्भवलक्षणाम्।।२।।

स्नानाल्लक्ष्मणतीर्थे तु दारिद्र्यं नश्यतेखिलम् ।।

आयुष्मान्गुणवान्विद्वान्पुत्रश्चैवास्य जायते ।। ३ ।।

कूले लक्ष्मणतीर्थस्य तन्मन्त्रं जपते तु यः ।।

स सर्वशास्त्रवेत्ता स्याच्चतुर्वेदविदप्यसौ ।। ४ ।।

तस्य कूले महल्लिंगं स्थापयामास लक्ष्मणः ।।

तत्र तीर्थे तु यः स्नात्वा सेवते लक्ष्मणेश्वरम् ।। ५।।

इह दारिद्र्यरोगाभ्यां संसाराच्च विमुच्यते ।।

स्नात्वा लक्ष्मणतीर्थे तु सेवित्वा लक्ष्मणेश्वरम् ।।

बलभद्रः पुरा विप्रा मुमुचे ब्रह्महत्यया ।। ६ ।। ।।

।। ऋषय ऊचुः ।। ।।

ब्रह्महत्या कथमभूद्रौहिणेयस्य सूतज ।।

कथं चात्र विनष्टा सा तन्नो ब्रूहि महामुने ।। ७ ।।

।। श्रीसूत उवाच ।। ।।

शेषावतारो भगवान्बलभद्रः पुरा द्विजाः ।। ८ ।।

कुरूणां पांडवानां च युद्धोद्योगं विलोक्य तु ।।

बंधूनां स वधं सोढुमसमर्थो हलायुधः ।। ९ ।।

विचारमेवमकरोद्बलभद्रो महामतिः ।।

यद्यहं कुरुराजस्य करिष्यामि सहायताम् ।। 3.1.19.१० ।।

कोपः स्यात्पांडुपुत्राणां मय्यवार्यः सुदारुणः ।।

उपकारं करिष्यामि पांडवानामहं यदि ।। ११ ।।

दुर्योधनस्य कोपः स्यादिति बुद्ध्वा हलायुधः ।।

तीर्थयात्राच्छलेनासौ मध्यस्थः प्रययौ तदा ।। १२ ।।

प्रभासमभिगम्याथ स्नात्वा संकल्पपूर्वकम्।।

देवानृषीन्पितृगणांस्तर्पयामास वारिणा ।। १३ ।।

सरस्वतीं ततः प्रायात्प्रतीच्यभिमुखां हली ।।

पृथूदकं बिंदुसरो मुक्तिदं ब्रह्मतीर्थकम्।। १४ ।।

गंगां च यमुनां सिंधुं शतद्रूं च सुदर्शनम् ।।

संप्राप्य बलभद्रोऽयं स्नात्वा तीर्थेषु धर्मतः ।। १५ ।।

प्रपेदे नैमिषारण्यं मुनींद्रैरभिसेवितम् ।।

आगतं तं विलोक्याथ नैमिषीयास्तपस्विनः ।। १६ ।।

दीर्घसत्रे स्थिताः सम्यङ्नियता धर्मतत्पराः ।।

अभ्युद्गम्य यदुश्रेष्ठं प्रणम्योत्थाय चासनात् ।। १७ ।।

अपूजयन्विष्टराद्यैः कंदमूलफलैस्तदा ।।

आसनं परिगृह्यायं पूजितः सपुरःसरः ।। १८ ।।

उच्चासने स्थितं सूतमनमंतमनुत्थितम् ।।

अकृतांजलिमासीनं व्यासशिष्यं विलोक्य सः ।। १९ ।।

विप्रांश्चानमतो दृष्ट्वा विलोक्यात्मानमागतम् ।।

चुक्रोध रोहिणीसूनुः सूतं पौराणिकोत्तमम्।। 3.1.19.२० ।।

मध्ये मुनीनां सूतोऽयं कस्मान्निंद्योऽनुलोमजः ।।

उच्चासने समध्यास्ते न युक्तमिदमंजसा ।। ।। २१ ।।

अवमत्य भृशं चास्मान्धर्मसंरक्षकानयम् ।।

आस्तेऽनुत्थाय निर्भीतिर्न च प्रणमते तथा ।। २२ ।।

पठित्वायं पुराणानि द्वैपायनसकाशतः ।।

सेतिहासानि सर्वाणि धर्मशास्त्राण्यनेकशः ।। २३ ।।

न मां दृष्ट्वा प्रणमते नैव त्यजति चासनम् ।।

द्वैपायनस्य महतः शिष्याः पैलादयो द्विजाः ।। २४ ।।

एवंविधमधर्मं ते नैव कुर्युर्यथा त्वयम् ।।

तस्मादेनं वधिष्यामि दुरात्मानमचेतनम् ।। २५ ।।

दुष्टानां निग्रहार्थं हि भूर्लोकमहमागमम् ।।

मया हतो हि दुष्टात्मा शुद्धिमेष्यत्यसंशयम् ।। २६ ।।

इत्युक्त्वा भगवान्रामो मुसली प्रबलो हली ।।

पाणिस्थेन कुशाग्रेण तच्छिरः प्राच्छिनद्रुषा ।। २७ ।।

तत्रत्या मुनयः सर्वे हा कष्टमिति चुक्रुशुः ।।

अवादिषुस्तदा रामं मुनयो ब्रह्मवादिनः ।। २८ ।।

रामाधर्मः कृतः कष्टस्त्वया संकर्षण प्रभो ।।

अस्य सूतस्य चास्माभिर्दत्तं ब्रह्मासनं महत् ।। २९ ।।

अक्षयं चायुरस्माभिरस्य दत्तं हलायुध ।।

भवताऽऽजानतैवाद्य कृतो ब्रह्मवधो महान् ।। 3.1.19.३० ।।

योगेश्वरस्य भवतो नास्ति कश्चिन्नियामकः ।।

अस्यास्तु ब्रह्महत्याया यत्कर्त्तव्यं विचार्य तत् ।। ३१ ।।

प्रायश्चित्तं भवानेव लोकसंग्रहणाय तु ।।

कुरुष्व भगवन्राम नान्येन प्रेरितः कुरु ।।

इत्युक्तो भगवान्रामस्तानुवाच मुनीन्प्रति ।। ३२ ।।

।। राम उवाच ।। ।।

प्रायश्चित्तं चरिष्याभि पापशोधकमास्तिकाः ।। ३३ ।।

लोकसंग्रहणार्थाय नान्यकामनयाऽधुना ।।

यादृशो नियमोऽस्माभिः कर्तव्यः पापशांतये ।। ३४ ।।

तादृशं नियमं त्वद्य भवतः प्रब्रुवंतु नः ।।

भवद्भिरस्य सूतस्य यदायुर्दत्तमक्षयम् ।।

इंद्रियाणि च सत्त्वं च करिष्ये योगमायया ।।३५ ।।

।। मुनय ऊचुः ।। ।।

पराक्रमस्य तेस्त्रस्य मृत्योर्नश्च यथा प्रभो ।।

स्यात्सत्यवचनं राम तद्भवान्कर्तुमर्हति ।। ३६ ।। ।।

।। राम उवाच ।। ।।

आत्मा वै पुत्ररूपेण भवतीति श्रुतिस्सदा ।।३७ ।।

उद्घोषयति विप्रेंद्रास्तस्मादस्य शरीरतः ।।

पुत्रो भवतु दीर्घायुः सत्त्वेंद्रिय बलोर्जितः ।। ३९ ।।

कथयिष्यति युष्माकं पुराणादीनि सोऽन्वहम् ।।

संभविष्यति सर्वज्ञो योगमायाबलान्मम ।। ३९ ।।

इत्युक्त्वा रौहिणेयस्तान्पुनः प्रश्रितमब्रवीत् ।।

मनोभिलषितं किं वा युष्माकं करवाण्यहम् ।। 3.1.19.४० ।।

तद्ब्रूत मुनयो यूयं करिष्यामि न संशयः ।।

अज्ञानान्मत्कृतस्यास्य पापस्यापि निवर्तकम् ।।

प्रायश्चित्तं भवन्तो मे प्रब्रूत मुनिसत्तमाः ।। ४१ ।।

।। मुनय ऊचुः ।। ।।

इल्वलस्यात्मजः कश्चिद्दानवो बल्वलाभिधः ।। ४२ ।।

स दूषयति नो यागं रामेहागत्य पर्वणि ।।

दुष्टं तं दानवं पापं जहि लोकैककण्टकम् ।।४३ ।।

अनेन पूजा ह्यस्माकं कृता स्याद्भवताधुना ।।

अस्थिविण्मूत्ररक्तानि सुरामांसानि च क्रतौ ।। ४४ ।।

सदाभिवर्षतेऽस्माकमत्रागत्य स दानवः ।।

अस्मिन्भारतभूभागे यानि तीर्थानि संति हि ।। ४५ ।।

तेषु स्नाह्यब्दमेकं त्वं सर्वेषु सुसमाहितः ।।

तेन ते पापशांतिः स्यान्नात्र कार्या विचारणा ।। ४६ ।।

।। श्रीसूत उवाच ।। ।।

पर्वकाले तु विप्रेंद्राः समावृत्ते मुनिक्रतौ ।।

महाभीमो रजोवर्षो झंझावातश्च भीषणः ।। ४७ ।।

प्रादुर्बभूव विप्रेंद्राः पूयरक्तैश्च वर्षणम् ।।

ततो विष्ठामया वृष्टिर्बल्वलेन कृताप्यभूत् ।। ४९ ।।

असुरं यज्ञशालायां शूलपाणिमथ क्षणात् ।।

अपश्यद्बलभद्रोऽसौ महाबलपराक्रमम् ।। ४९ ।।

तमालोक्य महादेहं दग्धाद्रिप्रतिमं तदा ।।

प्रतप्तताम्रसंकाशश्मश्रुदंष्ट्रोत्कटाननम् ।। 3.1.19.५० ।।

चिंतयामास मुसलं रामः परविदारणम्।।

सीरं च दानवहरं गदां दैत्यविदारिणीम् ।। ५१ ।।

यान्यायुधानि तं रामं चिंतितान्युपतस्थिरे ।।

सीराग्रेण तमाकृष्य बल्वलं खेचरं तदा ।। ५२ ।।

मुसलेन निजघ्ने स कुपितो मूर्ध्नि वेगतः ।।

पपात भुवि संक्षुण्णललाटो रक्तमुद्वमन् ।। ५३ ।।

बल्वलो दीनकथनो गिरिर्वज्रहतो यथा ।।

स्तुत्वाथ मुनयो रामं प्रोच्चार्य विमलाशिषः ।। ९४ ।।

अभ्यषिंचञ्च्छुभैस्तोयैर्वृत्रशत्रुं यथा सुराः ।।

मालां ददुर्वैजयन्तीं श्रीमदंबुज शोभिताम् ।। ५५ ।।

माधवाय शुभे वस्त्रे भूषणानि शुभानि च ।।

धारयंस्तानि सर्वाणि रौहिणेयो महाबलः ।।५६।।

पुष्पितानोकहोपेतः कैलास इव पर्वतः ।।

अनुज्ञातोऽथ मुनिभिः सर्वतीर्थेषु स द्विजाः ।। ५७ ।।

एकमब्दं चरन्सस्नौ नियमाचारसंयुतः ।।

ततः संवत्सरे पूर्णे कालिंदीभेदनो बलः ।। ५८ ।।

समाप्ततीर्थयात्रः सन्पुरीं गन्तुं प्रचक्रमे ।।

ततस्तमोमयीं छायां पृष्ठतोनुगतां कृशाम् ।। ५९ ।।

अपश्यद्बलदेवोयं महानादविराविणीम् ।।

अथ वार्ता स शुश्राव समुद्भूतां तदांबरे ।। 3.1.19.६० ।।

रामराम महाबाहो रौहिणेय सितप्रभ ।।

तीर्थाभिगमनेनाद्य चरितेन त्वयाऽनघ ।। ।। ६१ ।।

न नष्टा ब्रह्महत्या ते निःशेषं रोहिणीसुत ।।

इति वार्तां समाकर्ण्य चिंतयामास वै बलः ।। ६२ ।।

प्रायश्चित्तं मया चीर्णमेकाब्दं तीर्थ सेवया ।।

तथापि ब्रह्महत्या सा न नष्टेति श्रुतं वचः ।। ६३ ।।

किं कुर्म इति संचिंत्य नैमिषारण्यमभ्यगात् ।।

तत्र गत्वा मुनीनां तन्न्यवेदयदरिंदमः ।। ६४ ।।

यच्छ्रुतं गगने वाक्यं या च दृष्टा तमोमयी ।।

न्यवेदयत तत्सर्वं मुनीनां रोहिणीसुतः ।।

तच्छ्रुत्वा मुनयः सर्वे रामं वाक्यमथाब्रुवन् ।। ६५ ।।

।। मुनय ऊचुः ।। ।।

यदि राम न नष्टा ते ब्रह्महत्या तु कृत्स्नशः ।। ६६ ।।

तर्हि गच्छ महाभाग गंधमादनपर्वतम् ।।

महादुःख प्रशमनं महारोगविनाशनम् ।। ६७ ।।

रामसेतौ महापुण्ये गन्धमादनपर्वते ।।

अस्ति लक्ष्मणतीर्थाख्यं सरः पापविनाशनम् ।। ६८ ।।

स्नानं कुरुष्व तत्र त्वं तल्लिंगं च नमस्कुरु ।।

निःशेषं तेन नष्टा स्याद्ब्रह्महत्या न संशयः ।। ६९ ।।

।। श्रीसूत उवाच ।। ।।

एवमुक्तस्तदा रामो गन्धमादनपर्वतम् ।।

गत्वा लक्ष्मणतीर्थं च प्राप्तवान्मुनिपुंगवाः ।। 3.1.19.७० ।।

स्नात्वा संकल्पपूर्वं तु तत्र तीर्थे हलायुधः ।।

ब्राह्मणेभ्यो ददौ वित्तं धान्यं गाश्च वसुन्धराम् ।। ७१ ।।

तस्मिन्नवसरे तत्र राममाहाशरीरवाक् ।।

निःशेषं राम नष्टा ते ब्रह्महत्याधुना त्विह ।। ७२ ।।

संदेहो नात्र कर्तव्यः सुखं याहि पुरीं निजाम् ।।

तच्छ्रुत्वा बलभद्रोऽथ तत्तीर्थं प्रशशंस ह ।। ७३ ।।

ततस्तत्रत्यतीर्थेषु स्नात्वा सर्वेषु माधवः ।।

धनुष्कोटौ तथा स्नात्वा रामनाथं निषेव्य च ।।

द्वारकां स्वपुरीं प्रायान्नष्टपातकसंचयः ।। ७४ ।।

।। श्रीसूत उवाच ।। ।।

एवं वः कथितं विप्राः श्रीलक्ष्मणसरोऽमलम् ।। ७५ ।।

पुण्यं पवित्रं पापघ्नं ब्रह्महत्यादिशोधकम् ।।

यः पठेदिममध्यायं शृणुयाद्वा समाहितः ।। ७६ ।।

स याति मुक्तिं विप्रेंद्राः पुनरावृत्तिवर्जिताम् ।। ७७ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये लक्ष्मणतीर्थप्रशंसायां बलभद्रब्रह्महत्याविमोक्षणनामैकोनविंशोऽध्यायः ।। १९ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 20

।। श्रीसूत उवाच ।। ।।

लक्ष्मणस्य महातीर्थे ब्रह्महत्याविनाशने ।।

स्नात्वा स्वचित्तशुद्ध्यर्थं जटातीर्थं ततो व्रजेत् ।। १ ।।

जन्ममृत्युजराक्रांतसंसारातुरचेतसाम् ।।

अज्ञाननाशकं नास्ति जटातीर्थादृते द्विजाः ।। २ ।।

लोके मुमुक्षवः केचिच्चित्तशुद्धिमभीप्सवः ।।

वाचा पठंति वेदांतांस्तूष्णीन्नानुभवंति ते ।। ३ ।।

पूर्वपक्षमहाग्राहे सिद्धांतझषसंकुले ।।

वेदांताब्धाविहाज्ञानं मुह्यंति पतिता द्विजाः ।। ४ ।।

प्रथमं चित्तशुद्ध्यर्थं वेदांतान्संपठंति ये ।।

विवदंते पठित्वा ते कलहं च वितन्वते ।। ५ ।।

चित्तशुद्धिर्न वेदांताद्बहुव्यामोहकारणात् ।।

ततो वयं न वेदांतान्मुनींद्रा बहु मन्महे ।। ६ ।।

चित्तशुद्धिं यदीच्छध्वं लघूपायेन तापसाः ।।

उद्घोषयामि सर्वेषां जटातीर्थं निषेवत ।। ७ ।।

पुरा सर्वोपकारार्थं तीर्थमज्ञाननाशनम् ।।

एतद्विनिर्मितं साक्षाच्छम्भुना गन्धमादने ।। ८ ।।

निहते रावणे विप्रा जटां रामस्तु धार्मिकः ।।

क्षालयामास यत्तोये तज्जटातीर्थमुच्यते ।। ९ ।।

वर्षाणां षष्टिसाहस्रं जाह्नवीजलमज्जनम् ।।

गोदावर्यां सकृत्स्नानं सिंहस्थे च बृहस्पतौ ।। 3.1.20.१० ।।

तावत्सहस्रस्नानानि सिंहं देवगुरौ गते ।।

गोमत्यां लभ्यते वर्षैस्तज्जटातीर्थदर्शनात् ।। ११ ।।

जटातीर्थे मनुष्याणां स्नातानां द्विजपुंगवाः ।।

अन्तःकरणशुद्धिः स्यात्ततोऽज्ञानं विनश्यति ।। १२ ।।

अज्ञाननाशे ज्ञानं स्यात्ततो मुक्तिमवाप्स्यसि ।।

अखण्डसच्चिदानंदसंपूर्णः स्यात्ततः परम् ।। १३ ।।

अत्राप्युदाहरंतीममितिहासं पुरातनम् ।।

पितुः पुत्रस्य संवादं व्यासस्य च शुकस्य च ।। १४ ।।

पुरा मुनिवरं कृष्णं भावि तात्मानमच्युतम् ।।

पारंपर्यविशेषज्ञं सर्वशास्त्रार्थकोविदम् ।।

प्रणम्य शिरसा व्यासं शुकः पप्रच्छ वै द्विजाः ।। १५ ।।

।। श्रीशुक उवाच ।। ।।

भगवंस्तात सर्वज्ञ ब्रूहि गुह्यमनुत्तमम् ।। १६ ।।

अन्तःकरणशुद्धिः स्यात्तथाज्ञानविनाशनम् ।।

ज्ञानोदयश्च येन स्यादंते मुक्तिश्च शाश्वती ।। १७ ।।

तमुपायं वदस्वाद्य स्नेहान्मम महामुने ।।

वेदांताश्चेतिहासाश्च पुराणादीनि कृत्स्नशः ।। १८ ।।

अधीतानि मया त्वत्तः शोधयंति न मानसम् ।।

अतो मे चित्तशुद्धिः स्याद्यथा तात तथा वद ।। १९ ।।

इति पृष्टस्तदा व्यासः शुकेन मुनिसत्तमाः ।।

रहस्यं कथयामास येनाविद्या विन श्यति ।। 3.1.20.२० ।।

।। व्यास उवाच ।। ।।

शुक वक्ष्यामि ते गुह्यमविद्याग्रन्थिभेदनम् ।।

बुद्धिशुद्धिप्रदं पुंसां जन्मादिभयनाशनम् ।। २१ ।।

रामसेतौ महापुण्यं गन्धमादनपर्वते ।।

विद्यते पापसंहारि जटातीर्थमिति श्रुतम् ।। २२ ।।

जटां स्वां शोधयामास यत्र रामो हरिः स्वयम् ।।

रामो दाशरथिः श्रीमांस्तीर्थाय च वरं ददौ ।। २३ ।।

स्नाति येऽत्र समागत्य जटातीर्थेऽतिपावने ।।

अन्तःकरणशुद्धिश्च तेषां भूयादिति स्म सः ।। २४ ।।

विना यज्ञं विना ज्ञानं विना जाप्यमुपोषणम् ।।

स्नानमात्राज्जटातीर्थे बुद्धिशुद्धिर्भवेन्नृणाम् ।। २५ ।।

सर्वदानसमं पुण्यं स्नानादत्र भविष्यति ।।

दुर्गाण्यनेन तरति पुण्यलोकान्समश्नुते ।। २६ ।।

महत्त्वमश्नुते स्नानाज्जटातीर्थे शुभोदके ।।

जटातीर्थं विना नान्यदंतःकरण शुद्धये ।। २७ ।।

विद्यते नियमो वापि जपो वा नान्यदेवता ।।

धन्यं यशस्यमायुष्यं सर्वलोकेषु विश्रुतम् ।। २८ ।।

पवित्राणां पवित्रं च जटातीर्थं शुकाधुना ।।

सर्वपापप्रशमनं मंगलानां च मंगलम् ।। २९ ।।

भृगुर्वै वारुणिः पूर्वं वरुणं पितरं शुक ।।

बुद्धिशुद्धिप्रदोपायमपृच्छत्पावनं शुभम् ।।

प्रोवाच वरुणस्तस्मै बुद्धिशुद्धिप्रदं शुभम् ।। 3.1.20.३० ।।

।। वरुण उवाच ।। ।।

रामसेतौ भृगो पुण्ये गन्धमादनपर्वते ।। ३१ ।।

स्नानमात्राज्जटा तीर्थे बुद्धिशुद्धिर्भवेद्ध्रुवम् ।।

स पितुर्वचनात्सद्यो भृगुर्वै वरुणात्मजः ।। ३२ ।।

गत्वा स्नात्वा जटातीर्थे बुद्धिशुद्धिमवाप्तवान् ।।

विनष्टाज्ञानसंतानस्तया शुद्ध्या तदा भृगुः ।। ३३ ।।

उत्पन्नाद्वैतविज्ञानः स्वपितुर्वरुणादयम् ।।

अखण्डसच्चिदानंदपूर्णाकारोऽभवच्छुक ।। ३४ ।।

शंकरांशोऽपि दुर्वासा जटातीर्थेऽभिषेकतः ।।

मनःशुद्धिमवाप्याशु ब्रह्मानंदमयोऽभवत् ।। ३५ ।।

दत्तात्रेयोऽपि विष्ण्वंशस्तीर्थेऽस्मिन्नभिषेचनात् ।।

शुद्धांतःकरणो भूत्वा ब्रह्माकारोऽभवच्छुक ।। ३६ ।।

इच्छेदज्ञाननाशं यः स स्नायात्तु जटाभिधे ।।

तीर्थे शुद्धतमे पुण्ये सर्वपापविनाशने ।। ३७ ।।

जटातीर्थमतस्त्वं च शुक गच्छ महामते ।।

मनःशुद्धिप्रदं तस्मिन्स्नानं च कुरु पुण्यदे ।। ३८ ।।

पित्रैवमुक्तो व्यासेन शुकः पुत्रस्तदा द्विजाः ।।

रामसेतुं महापुण्यं गन्धमादनपर्वतम् ।। ३९ ।।

अगमत्स्नातुकामः सञ्जटातीर्थे विशुद्धिदे ।।

स्नात्वा संकल्पपृर्वं च जटातीर्थे शुको मुनिः ।। 3.1.20.४० ।।

मनःशुद्धिमनुप्राप्य तेन चाज्ञाननाशने ।।

स्वस्वरूपं समापन्नः परमानंदरूपकम् ।। ४१ ।।

ये चाप्यन्ये मनःशुद्धिकामाः संति द्विजोत्तमाः ।।

जटातीर्थे तु ते सर्वे स्नातुं भक्तिपुरःसरम ।। ४२ ।।

अहो जना जटातीर्थे कामधेनुसमे शुभे ।।

विद्यमानेऽपि किं तुच्छे रमंतेन्यत्र मोहिताः ।। ४३ ।।

भुक्तिकामो लभेद्भुक्तिं मुक्तिकामस्तु तां लभेत् ।।

स्नानमात्राज्जटातीर्थे सत्यमुक्तं मया द्विजाः ।। ४४ ।।

वेदानुवच नात्पुण्याद्यज्ञाद्दानात्तपोव्रतात्।।

उपवासाज्जपाद्योगान्मनःशुद्धिर्नृणां भवेत् ।। ४५ ।।

विनाप्येतानि विप्रेंद्रा जटातीर्थेऽतिपावने ।।

स्नानमात्रान्मनःशुद्धिर्ब्राह्मणानां ध्रुवं भवेत् ।। ४६ ।।

जटातीर्थस्य माहात्म्यं मया वक्तुं न शक्यते ।।

शंकरो वेत्ति तत्तीर्थं हरिर्वेत्ति विधिस्तथा ।। ४७ ।।

जटातीर्थसमंतीर्थं न भूतं न भविष्यति।।

जटातीर्थस्य तीरे यः क्षेत्रपिंडं समाचरेत्।।४८।।

गयाश्राद्धसमंपुण्यंतस्य स्यान्नात्र संशयः।।

जटातीर्थे नरः स्नात्वा न पापेन विलिप्यते।।

दारिद्र्यं न समाप्नोति नेयाच्च नरकार्णवम्।।४९।।

श्रीसूत उवाच।।

एवं वः कथितं विप्रा जटातीर्थस्य वैभवम् ।। 3.1.20.५० ।।

यत्र व्याससुतो योगी स्नात्वा पापविमोचने ।।

अवाप्तवान्मनःशुद्धिमद्वैतज्ञानसाधनाम् ।। ५१ ।।

यस्त्विमं पठतेऽध्यायं शृणुते वा समाहितः ।।

स विधूयेह पापानि लभते वैष्णवं पदम् ।। ५२ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्ये जटातीर्थप्रशंसायां शुकचित्तशुद्धिवर्णनंनाम विंशोऽध्यायः ।। २० ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 21

।। श्रीसूत उवाच ।। ।।

जटा तीर्थाभिधे तीर्थे सर्वपातकनाशने ।।

स्नानं कृत्वा विशुद्धात्मा लक्ष्मीतीर्थं ततो व्रजेत् ।। १ ।।

यंयं कामं समुद्दिश्य लक्ष्मीतीर्थे द्विजोत्तमाः ।।

स्नानं समाचरेन्मर्त्यस्तंतं कामं समश्नुते ।। २ ।।

महादारिद्र्यशमनं महाधान्यसमृद्धिदम् ।।

महादुःखप्रशमनं महासंपद्विवर्धनम् ।। ३ ।।

अत्र स्नात्वा धर्मपुत्रो महदैश्वर्यमाप्तवान् ।।

इन्द्रप्रस्थे वसन्पूर्वं श्रीकृष्णेन प्रचोदितः ।। ४ ।।

।। ऋषय ऊचुः ।। ।।

यथैश्वर्यं धर्मपुत्रो लक्ष्मीतीर्थे निमज्जनात् ।।

आप्तवान्कृष्णवचनात्तन्नो ब्रूहि महामुने ।। ५ ।।

।। श्रीसूत उवाच ।। ।।

इन्द्रप्रस्थे पुरा विप्रा धृतराष्ट्रेण चोदिताः ।।

न्यवसन्पांडवाः पंच महाबलपराक्रमाः ।। ६ ।।

इन्द्रप्रस्थं ययौ कृष्णः कदाचित्तान्निरीक्षितुम् ।।

तमागतमेभिप्रेक्ष्य पांडवास्ते समुत्सुकाः ।। ७ ।।

स्वगृहं प्रापयामासुर्मुदा परमया युताः ।।

कञ्चित्कालमसौ कृष्णस्तत्रावात्सीत्पुरोत्तमे ।। ८ ।।

कदाचित्कृष्णमाहूय पूजयित्वा युधिष्ठिरः ।।

पप्रच्छ पुंडरीकाक्षं वासुदेवं जगत्पतिम् ।। ९ ।।

।। युधिष्ठिर उवाच ।। ।।

कृष्णकृष्ण महाप्राज्ञ येन धर्मेण मानवाः ।।

लभंते महदैश्वर्यं तन्नो ब्रूहि महामते ।।

इत्युक्तो धर्मपुत्रेण कृष्णः प्राह युधिष्ठिरम् ।। 3.1.21.१० ।।

।। श्रीकृष्ण उवाच ।। ।।

धर्मपुत्र महाभाग गन्धमादनपर्वते ।। ११ ।।

लक्ष्मी तीर्थमिति ख्यातमस्त्यैश्वर्यैककारणम् ।।

तत्र स्नानं कुरुष्व त्वमैश्वर्यं ते भविष्यति ।। १२ ।।

तत्र स्नानेन वर्धंते धनधान्यसमृद्धयः ।।

सर्वे सपत्ना नश्यंति क्षात्रमेषां विवर्द्धते ।। १३ ।।

तीर्थे सस्नुः पुरा देवा लक्ष्मीनामनि पुण्यदे ।।

अलभन्त्सर्वमैश्वर्यं तेन पुण्येन धर्मज ।। १४ ।।

असुरांश्च महावीर्यान्समरे जघ्नुरंजसा ।।

मही लक्ष्मीश्च धर्मश्च तत्तीर्थस्नायिनां नृणाम् ।। १५ ।।

भविष्यत्यचिरादेव संशयं मा कृथा इह ।।

तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पांडव ।। १६ ।।

ऐश्वर्यं प्राप्यते यद्वल्लक्ष्मीतीर्थनिमज्जनात् ।।

सर्वपापानि नश्यंति विप्रा यांति लयं सदा ।। ।। १७ ।।

व्याधयश्च विनश्यंति लक्ष्मीतीर्थनिषेवणात् ।।

श्रेयः सुविपुलं लोके लभ्यते नात्र संशयः ।। १८ ।।

स्नानमात्रेण वै लक्ष्म्यास्तीर्थेऽस्मि न्धर्मनंदन ।।

रंभामप्सरसां श्रेष्ठां लब्धवानवधो नृपः ।। १९ ।।

स्नात्वात्र तीर्थे पुण्ये तु कुबेरो नरवाहनः ।।

स महापद्ममुख्यानां निधीनां नायकोऽ भवत् ।।3.1.21.२।।।

तस्मात्त्वमपि राजेंद्र लक्ष्मीतीर्थे शुभप्रदे ।।

स्नात्वा वृकोदरमुखैरनुजैरपि संवृतः ।।२१।।

लप्स्यसे महतीं लक्ष्मीं जेष्यसे च रिपूनपि।।

संदेहो नात्र कर्तव्यः पैतृष्वसेय धर्मज ।।२२।।

इत्युक्तो धर्मपुत्रोऽयं कृष्णेनाद्भुतदर्शनः ।।

सानुजः प्रययौ शीघ्रं गन्धमादनपर्वतम् ।।२३।।

लक्ष्मी तीर्थं ततो गत्वा महदैश्वर्यकारणम् ।।

सस्नौ युधिष्ठिरस्तत्र सानुजो नियमान्वितः।।२४।।

लक्ष्मतीर्थस्य तोये स सर्वपातकनाशने ।।

सानुजो मासमेकं तु सस्नौ नियमपूर्वकम् ।।२५।।

गोभूतिलहिरण्यादीन्ब्राह्मणेभ्यो ददौ बहून् ।।

सानुजो धर्मपुत्रोऽसाविंद्रप्रस्थं ययौ ततः ।। २६ ।।

राजसूयक्रतुं कर्तुं तत एच्छद्युधिष्ठिरः ।।

कृष्णं समाह्वयामास यियक्षुर्धर्मनंदनं ।। २७ ।।

कृष्णो धर्मजदूतेन समाहूतः ससंभ्रमः ।।

चतुर्भिरश्वैः संयुक्तं रथमा रुह्य वेगिनम् ।। २८ ।।

सत्यभामासहचर इंद्रप्रस्थं समाययौ ।।

तमागतं समालोक्य प्रमोदाद्धर्मनंदनः ।। २९ ।।

न्यवेदयत्स कृष्णाय राजसूयोद्यमं तदा ।।

अन्वमन्यत कृष्णोपि तथैव क्रियतामिति ।। 3.1.21.३० ।।

वाक्यं च युक्तिसंयुक्तं धर्मपुत्रमभाषत ।।

पैतृष्वस्रेय धर्मात्मञ्च्छृणु पथ्यं वचो मम ।। ।। ३१ ।।

दुष्करो राजसूयोऽयं सर्वैरपि महीश्वरैः ।।

अनेकशतपादातरथकुंजरवाजिमान् ।। ३२ ।।

महीपतिरिमं यज्ञं कर्तुमर्हति नेतरः ।।

दिशो दश विजेतव्या प्रथमं वलिना त्वया ।। ३३ ।।

पराजितेभ्यः शत्रुभ्यो गृहीत्वा करमुत्तमम् ।।

तेन कांचनजातेन कर्तव्योऽयं क्रतूत्तमः ।। ३४ ।।

रोचये युक्तिविदहं न हि त्वां भीषयामि भोः ।।

अतः क्रतुसमारंभात्पूर्वं दिग्विजयं कुरु ।। ३५ ।।

ततो धर्मात्मजः श्रुत्वा कृष्णस्य वचनं हितम् ।।

प्रशंसन्देवकीपुत्रमाजुहाव निजानुजान् ।। ३६ ।।

आहूय चतुरो भ्रातॄन्धर्मजः प्राह हर्षयन् ।।

अयि भीम महाबाहो बहुवीर्य धनंजय ।। ३७ ।।

यमौ च सुकुमागंगौ शत्रुसंहारदीक्षितौ ।।

चिकीर्षामि महायज्ञं राजसूयमनुत्तमम् ।। ३८ ।।

स च सर्वान्रणे जित्वा कर्तव्यः पृथिवीपतीन् ।।

अतो विजेतुं भूपालांश्चत्वरोऽपि ससैनिकाः ।। ३९ ।।

दिशश्चतस्रो गच्छंतु भवंतो वीर्यवत्तराः ।।

युष्माभिराहतैर्द्रव्यैः करिष्यामि महाक्रतुम् ।। 3.1.21.४० ।।

इत्युक्ताः सादरं सर्वे वृकोदरमुखास्तदा ।।

प्रसन्नवदना भूत्वा धर्मपुत्रानुजाः पुरात् ।। ४१ ।।

राज्ञां जयाय सर्वासु निर्ययुर्दिक्षु पांडवाः ।।

ते सर्वे नृपतीञ्जित्वा चतुर्दिक्षु स्थितान्बहून् ।। ४२ ।।

स्ववशे स्थापयित्वा तान्नृपतीन्पांडुनंदनाः ।।

तैर्दत्तं बहुधा द्रव्यमसंख्यातमनुत्तमम् ।। ४३ ।।

आदाय स्वपुरं तूर्णमाययुः कृष्णसंश्रयाः ।।

भीमः समाययौ तत्र महाबलपराक्रमः ।। ४४ ।।

शतभारसुवर्णानि समादाय पुरोत्तमम् ।।

सहस्रं भारमादाय सुवर्णानां ततोऽर्जुनः ।। ४५ ।।

शक्रप्रस्थं समायातो महाबलपराक्रमः ।।

शतभारं सुवर्णानां प्रगृह्य नकुलस्तथा ।। ४६ ।।

समागतो महातेजाः शक्रप्रस्थं पुरोत्तमम् ।।

दत्तान्विभीषणेनाथ स्वर्णतालांश्चतुर्दश ।। ४७ ।।

दाक्षिणात्यमहीपानां गृहीत्वा धनसंचयम् ।।

सहदेवोपि सहसा समा यातो निजां पुरीम् ।। ४८ ।।

लक्षकोटिसहस्राणि लक्षकोटिशतान्यपि ।।

सुवर्णानि ददौ कृष्णो धर्मपुत्राय यादवः ।। ४९ ।।

स्वानुजैराहृतैरेवमसं ख्यातैर्महाधनैः ।।

कृष्णदत्तैरसंख्यातैर्धनैरपि युधिष्ठिरः ।। 3.1.21.५० ।।

कृष्णाश्रयोऽयजद्विप्रा राजसूयेन पांडवः ।।

तस्मिन्यागे ददौ द्रव्यं ब्राह्मणेभ्यो यथेष्टतः ।। ५१ ।।

अन्नानि प्रददौ तत्र ब्राह्मणेभ्यो युधिष्ठिरः ।।

वस्त्राणि गाश्च भूमिं च भूषणानि ददौ तथा ।। ५२ ।।

अर्थिनः परितुष्यंति यावता कांचनादिना ।।

ततोपि द्विगुणं तेभ्यो दापयामास धर्मजः ।। ५३ ।।

इयंति दत्तान्यर्थिभ्यो धनानि विविधान्यपि ।।

इतीयत्तां परिच्छेत्तुं न शक्ता ब्रह्मकोटयः ।। ५४ ।।

अर्थिभिर्दीयमानानि दृष्ट्वा तत्र धनानि वै ।।

सर्वस्वमप्यहो राज्ञा दत्तमित्यब्रवीज्जनः ।। ५५ ।।

दृष्ट्वा कोशास्तथा नंताननंतमणिकांचनान् ।। ५ ।।

स्वल्पं हि दत्तमर्थिभ्य इत्यवोचञ्जनास्तदा ।।

इष्ट्वैवं राजसूयेन धर्मपुत्रः सहानुजः ।। ५७ ।।

बहुवित्तसमृद्धः सन्रेमे तत्र पुरोत्तमे ।।

लक्ष्मीतीर्थस्य माहात्म्याद्धर्मपुत्रो युधिष्ठिरः ।। ५८ ।।

लेभे सर्वमिदं विप्रा अहो तीर्थस्य वैभवम् ।।

इदं तीर्थं महापुण्यं महा दारिद्यनाशनम् ।। ५९ ।।

धनधान्यप्रदं पुंसां महापातकनाशनम् ।।

महानरकसंहर्तृ महादुःखनिवर्तकम् ।। 3.1.21.६० ।।

मोक्षदं स्वर्गदं नित्यं महाऋण विमोचनम् ।।

सुकलत्रप्रदं पुंसां सुपुत्रप्रदमेव च ।। ६१ ।।

एतत्तीर्थसमं तीर्थं न भूतं न भविष्यति ।।

एतद्वः कथितं विप्रा लक्ष्मीतीर्थस्य वैभवम् ।। ६२।।

दुःस्वप्ननाशनं पुण्यं सर्वाभीष्टप्रसाधकम् ।।

यः पठेदिममध्यायं शृणुते वा सभक्तिकम् ।। ६३ ।।

धनधान्यसमृद्धः स्यात्स नरो नास्ति संशयः ।।

भुक्त्वेह सकलान्भोगान्देहांते मुक्तिमाप्नुयात् ।। ६४ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये लक्ष्मीतीर्थप्रशंसायां धर्मपुत्रनिरतिशयसंपदवाप्तिवर्णनंनामैकविंशोऽध्यायः ।। २१ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 22

।। श्रीसूत उवाच ।। ।।

लक्ष्मीतीर्थे शुभे पुंसां सर्वैश्वर्यैककारणे ।।

स्नात्वा नरस्ततो गच्छेदग्नितीर्थं द्विजोत्तमाः ।। १ ।।

अग्नितीर्थं महापुण्यं महापातकनाशनम् ।।

तीर्थानामुत्तमं तीर्थं सर्वाभीष्टैकसाधनम् ।।

तत्र स्नायान्नरो भक्त्या स्वपापपरिशुद्धये ।। २ ।।

।। ऋषय ऊचुः ।। ।।

अग्निर्तार्थमितिख्यातिः कथं तस्य मुनीश्वर ।। ।। ३ ।।

कुत्रैदमग्नितीर्थं च कीदृशं तस्य वैभवम् ।।

एतन्नः श्रद्दधानानां विस्तराद्वक्तुमर्हसि ।। ४ ।।

।। श्रीसूत उवाच ।। ।।

सम्यक्पृष्टं हि युष्माभिः शृणुध्वं मुनिपुंगवाः ।।

पुरा हि राघवो हत्वा रावणं सपरिच्छदम् ।। ५ ।।

स्थापयित्वा तु लंकायां भर्तारं च विभीषणम् ।।

सीतासौमित्रिसंयुक्तो रामो दशरथात्मजः ।। ६ ।।

सिद्धचारणगंधवैर्देवैरप्सरसां गणैः ।।

स्तूयमानो मुनिगणैः सत्याशीस्तीर्थकौतुकी ।। ७ ।।

धारयँल्लीलया चापं रामोऽसह्यपराक्रमः ।।

आत्मनः शुद्धिमाधातुं जानकीं शोधितु तथा ।। ८ ।।

इंद्रादिदेववृन्दैश्च मुनिभिः पितृभिस्तथा ।।

विभीषणेन सहितः सर्वेरपि च वानरैः।।९।।

आययौ सेतुमार्गेण गंधमादनपर्वतम्।।

लक्ष्मीतीर्थतटे स्थित्वा जानकीशोधनाय सः।।3.1.22.१०।।

अग्निमावाहयामास देवर्षिपितृसन्निधौ।।

अथोत्तस्थौ महांभोधेर्लक्ष्मीतीर्थाद्विदूरतः।।११।।

पश्यत्सु सर्वलोकेषु लिहन्नंभांसि पावकः।।

आताम्रलोचनः पीतवासा धनुर्धरः ।। १२ ।।

सप्तभिश्चैव जिह्वाभिर्लेलिहानो दिशो दश ।।

दृष्ट्वा रघुपतिं शूरं लीलामानुषरूपिणम् ।। १३ ।।

जगाद वचनं रम्यं जानकीशुद्धिकारणात् ।।

रामराम महाबाहो राक्षसानां भयावह ।। १४ ।।

पातिव्रत्येन जानक्या रावणं हतवान्भवान् ।।

सत्यंसत्यं पुनः सत्यं नात्र कार्या विचारणा ।। १५ ।।

कमलेयं जगन्माता लीलामानुषविग्रहा ।।

देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।। १६ ।।

विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ।।

यदायदा जगत्स्वामिन्देवदेव जनार्द्दन ।। १७ ।।

अवतारान्करोषि त्वं तदेयं त्वत्सहायिनी ।।

यदा त्वं भार्गवो रामस्तदाभूद्धरणी त्वियम् ।। १८ ।।

अधुना जानकी जाता भवित्री रुक्मिणी ततः ।।

अन्येषु चावतारेषु विष्णोरेषा सहायिनी ।। १९ ।।

तस्मामद्वचनादेनां प्रति गृह्णीष्व राघव ।।

पावकस्य तु तद्वाक्यं श्रुत्वा देवा महर्षयः ।। 3.1.22.२० ।।

विद्याधराश्च गंधर्वा मानवाः पन्नगास्तथा ।।

अन्ये च भूतनिवहा रामं दशरथात्मजम् ।। २१ ।।

जानकीं मैथिलीं चैव प्रशशंसुः पुनःपुनः ।।

रामोऽग्निवचनात्सीतां प्रतिजग्राह निर्मलाम् ।। २२ ।।

एवं सीताविशुद्ध्यर्थं रामेणाक्लिष्टकर्मणा ।।

आवाहने कृते वह्निर्लक्ष्मीतीर्थाद्विदूरतः ।। २३ ।।

यतः प्रदेशादुत्तस्थावंबुधेर्द्विजसत्तमाः ।।

अग्नितीर्थं विजानीत तं प्रदेशमनुत्तमम् ।। २४ ।।

ततो विनिर्गमादग्नेरग्नितीर्थमितीर्यते ।।

अत्र स्नात्वा नरो भक्त्या वह्नेस्तीर्थे विमुक्तिदे ।। २५ ।।

उपोष्य वेदविदुषो ब्राह्मणानपि भोजयेत् ।।

तेभ्यो वस्त्रं धनं भूमिं दद्यात्कन्यां च भूषिताम् ।। २६ ।।

सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ।।

अग्नितीर्थस्य कूलेस्मिन्नन्नदानं विशिष्यते ।। २७ ।।

अग्नितीर्थसमं तीर्थं न भूतं न भविष्यति ।।

दुष्पण्योपि महापापो यत्र स्नानात्पिशाचताम् ।। २८ ।।

परित्यज्य महाघोरां दिव्यं रूपमवाप्तवान् ।।

पशुमान्नाम वैश्योऽभूत्पुरा पाटलिपुत्रके ।। २९ ।।

स वै धर्मपरो नित्यं ब्राह्मणाराधने रतः ।।

कृषिं निरंतरं कुर्वन्गो रक्षां चैव सर्वदा ।। 3.1.22.३० ।।

पण्यवीथ्यां च विक्रीणन्कांचनादीनि धर्मतः ।।

पशुमन्नामधेयस्य वणिक्छ्रेष्ठस्य तस्य वै ।। ३१ ।।

बभूव भार्यात्रितयं पतिशुश्रूषणे रतम् ।।

ज्येष्ठा त्रीन्सुषुवे पुत्रान्वैश्यवंशविवर्द्धनान् ।। ३२ ।।

सुपण्यं पण्यवतं च चारुपण्यं तथैव च ।।

मध्यमा सुषुते पुत्रौ सुकोश बहुकोशकौ ।। ३३ ।।

तृतीयायां त्रयः पुत्रास्तस्य वैश्यस्य जज्ञिरे ।।

महापण्यो महाकोशो दुष्पण्य इति विश्रुताः ।। ३४ ।।

एवं पशुमतस्तस्य वैश्यस्य द्विजसत्तमाः ।।

बभूवुरष्टौ तनयास्तासु स्त्रीषु तिसृष्वपि।। ३५ ।।

ते सुपण्यमुखाः सर्वे पुत्रा ववृधिरे क्रमात ।।

धूलिकेलिं वितन्वन्तः पितरौ तोषयंति ते ।। ३६ ।।

पंचहायनतां प्राप्ताः क्रमात्ते वैश्यनंदनाः ।।

पशुमानपि वैश्येंद्रः सर्वानपि च तान्सुतान् ।। ३७ ।।

बाल्यमारभ्य सततं स्वकृत्येषु व्यशिक्षयत्।।

कृषिगोत्राणवाणिज्यकर्मसु क्रमशिक्षिताः ।।३८ ।।

सुपण्यमुख्याः सप्तैव पितृवाक्यमशृण्वत ।।

पशुमान्वक्ति यत्कार्यं तत्क्षणान्निरवर्तयन्।।३९।।

नैपुण्यं प्रापुरत्यंतं ते सुवर्णक्रियास्वपि।।

दुष्पण्यस्त्वष्टमः पुत्रो बाल्यमारभ्य संततम्।।3.1.22.४०।।

दुर्मार्गनिरतो भूत्वा नाशृणोत्पितृभाषितम्।।

धूलिकेलिं समारभ्य दुर्मार्गनिरतोऽभवत्।।४१।।

स बाल एव सन्पुत्रो बालानन्यानबाधत।।

दुष्कर्मनिरतं दृष्ट्वा तं पिता पशुमांस्तथा।।४२।।

उपेक्षामेव कृतवान्बालिशोऽयमितीरयन्।।

अथाष्टावपि वैश्यस्य प्रापुर्यौवनमात्मजाः।।४३।।

ततोऽयमष्टमः पुत्रो दुष्पण्यो बलिनां वरः ।।

गृहीत्वा पाणिषु गले बालान्नगरवर्तिनः ।। ४४ ।।

निचिक्षेप स कूपेषु सरित्सु च सरःस्वपि ।।

न कोऽपि तस्य जानाति दुश्चरित्रमिदं जनः ।। ४५ ।।

यावन्म्रियंते ते बालास्तावन्निक्षिप्तवाञ्जले ।।

तेषां मृतानां बालानां पितरो मातरस्तथा ।।४६।।

गवेषयंति तान्सर्वान्नगरेषु हि सर्वशः ।।

तान् दृष्ट्वा च मृतान्पुत्रान्केवलं प्रारुदञ्जनाः ।। ४७ ।।

जलेष्वथ शवान्दृष्ट्वा जनाश्चक्रुर्यथोचितम् ।।

एवं प्रतिदिनं बालान्दुष्पण्यो मारयन्पुरे ।। ४८ ।।

जनैरप्यपरिज्ञातश्चिरमेवमवर्तत ।।

म्रियमाणेषु बालेषु वैश्यपुत्रस्य कर्मणा ।। ४९ ।।

प्रजानां वृद्धिराहित्याच्छून्यप्रायमभूत्पुरम् ।।

ततः समेत्य पौरास्तद्वृत्तं राज्ञे न्यवेदयन्।। 3.1.22.५० ।।

श्रुत्वा नृपस्तद्वचनमाहूय ग्रामपालकान् ।।

कारणं बालमरणे चिंत्यतामिति सोऽन्वशात् ।। ५१ ।।

ग्रामपालास्तथेत्युक्त्वा तत्र तत्र व्यवस्थिताः ।।

सम्यग्गवेषयामासुः कारणं बालमारणे ।। ५२ ।।

ते वै गवेषंयतोऽपि नाविंदन्बालमारकम् ।।

ते पुनर्नृपमासाद्य भीता वाक्यमथाब्रुवन् ।। ५३ ।।

गवेषयंतोऽपि वयं तन्न विंदामहे नृप ।।

यो बालान्नगरे स्थित्वा सततं मारयत्यपि ।। ५४ ।।

पुनश्च नागराः सर्वे राजानं प्राप्य दुःखिताः ।।

पुनः प्रजानां मरणमब्रुवन्वाष्पसंकुलाः ।। ५५ ।।

राजा तत्कारणाज्ञानात्तूष्णीमास्ते विचिंत्य तु ।।

कदाचिद्वैश्यपुत्रोयं पंचभिर्बालकैः सह ।।५६ ।।

तटाकांतिकमापेदे पंकजाहरणच्छलात् ।।

बलाद्गृहीत्वा तान्बालान्दुष्पण्यः क्रोशतस्तदा ।। ५७ ।।

क्रूरात्मा मज्जयामास कंठदघ्ने सरोजले ।।

मृतान्मत्वा च ताञ्छीघ्रं दुष्पण्यः स्वगृहं ययौ ।। ५८ ।।

पञ्चानां पितरस्तेषां मार्गयंतः सुतान्पुरे ।।

तेषु वै मार्गमाणेषु पंच तेनातिबालकाः ।। ५९ ।।

निक्षिप्ता अपि तोयेषु नाम्रियंत यदृच्छया ।।

ते शनैः कूलमासाद्य पंचापि क्लिन्नमौलयः ।। 3.1.22.६० ।।

अशक्ता नगरं गंतुं बाल्यात्तत्रैव बभ्रमुः ।।

दूरादुच्चार्यमाणानि स्वनामानि स्वबंधुभिः ।। ६१ ।।

श्रुत्वा पंचापि ते बालाः प्रतिशब्दमकुर्वत ।।

ततस्तत्पितरः श्रुत्वा तत्रागत्यसरस्तटे ।। ६२ ।।

पुत्रान्दृष्ट्वा तु सप्राणान्प्रहर्षमतुलं गताः ।।

किमेतदिति पित्राद्यैः पृष्टास्ते बालकास्तदा ।। ६३ ।।

दुष्पण्यस्याथ दुष्कृत्यं बन्धुभ्यस्ते न्यवेदयन्।।

ततो विदितवृत्तांता राजानं प्राप्य नागराः ।। ६४ ।।

पंचभिः कथितं वृत्तं दुष्पण्यस्य न्यवेदयन् ।।

ततो राजा समाहूय पशुमंतं वणिग्वरम् ।।

पौरेष्वपि च शृण्वत्सु वाक्यमेतदभाषत ।। ६५ ।।

।। राजोवाच ।। ।।

दुष्पण्यनामा पशुमन्बहुप्रजमिदं पुरम् ।। ६६ ।।

शून्यप्रायं कृतं पश्य त्वत्पुत्रेण दुरात्मना ।।

इदानीं बालिशानेतान्मज्जयामास वै जले ।। ६७ ।।

यदृच्छया च सप्राणाः पुनरप्यागताः पुरम् ।।

अस्मिन्नित्थं गते कार्ये किं कर्तव्यं वदाधुना ।। ६८ ।।

अद्य त्वामेव पृच्छामि यतस्त्वं धर्मतत्परः ।।

इत्युक्तः पशुमान्राज्ञा धर्मज्ञो युक्तमब्रवीत् ।। ६९ ।।

।। पशुमानुवाच ।। ।।

पुरं निःशेषितं येन वधमेवायमर्हति ।।

न ह्यत्र विषये किंचित्प्रष्टव्यं विद्यते नृप ।। 3.1.22.७० ।।

न ह्ययं मम पुत्रः स्याच्छत्रुरेवातिपापकृत् ।।

न ह्यस्य निष्कृतिं पश्ये येन निःशेषितं पुरम् ।। ७१ ।।

वध्यतामेव दुष्टात्मा सत्यमेव ब्रवीम्यहम् ।।

श्रुत्वा पशुमतो वाक्यं नागराः सर्व एव हि ।। ७२ ।।

वणिग्वरं श्लाघमाना राजानमिदमूचिरे ।।

न वध्यतामयं दुष्टस्तूष्णीं निर्वास्यतां पुरात् ।। ७३ ।।

ततः स राजा दुष्पण्यं समाहूयेदमब्रवीत् ।।

अस्माद्देशाद्भवाञ्छीघ्रं दुष्टात्मन्गच्छ सांप्रतम् ।। ७४ ।।

यदि तिष्ठेस्त्वमत्रैव दण्डयेयं वधेन वै ।।

इति राज्ञा विनिर्भर्त्स्य दूतैर्निर्वासितः पुरात् ।। ७५ ।।

दुष्पण्यस्त्वथ तं देशं परित्यज्य भयान्वितः ।।

मुनिमंडलसंबाधं वनमेव ययौ तदा ।। ७६ ।।

तत्राप्येकं मुनिसुतं स तोयेषु न्यमज्जयत् ।।

केल्यर्थमागता दृष्ट्वा मुनिपुत्रा मृतं शिशुम् ।। ७७ ।।

तत्पित्रे कथयामासुरभ्येत्य भृशदुःखिताः ।।

तत उग्रश्रवाः श्रुत्वा तेभ्यः पुत्रं जले मृतम् ।। ७८ ।।

तपोमहिम्ना दुष्प ण्यचरितं तदमन्यत ।।

उग्रश्रवाः शशापैनं दुष्पण्यं वैश्यनंदनम् ।। ७९ ।।

।। उग्रश्रवा उवाच ।। ।।

मत्सुतं पयसि क्षिप्य यत्त्वं मारितवानसि ।।

तवापि मरणं भूयाज्जल एव निमज्जनात् ।। 3.1.22.८० ।।

मृतश्च सुचिरं कालं पिशाचस्त्वं भविष्यसि ।।

इति शापे श्रुते सद्यो दुष्पण्यः खिन्नमानसः ।। ८१ ।।

तद्वै वनं परित्यज्य घोरमन्यद्वनं ययौ ।।

सिंहादिक्रूरसत्वाढ्यं तस्मिन्प्राप्ते वनांतरम् ।। ८२ ।।

पांसुवर्षं मह्द्वर्षन्वृक्षानामोटय न्मुहुः ।।

वज्रघातसमस्पर्शो ववौ झंझानिलो महान् ।। ८३ ।।

वेगेन गात्रं भिंदन्ती वृष्टिश्चासीत्सुदुःसहा ।।

तद्दृष्ट्वा स तु दुष्पण्यश्चिंतयन्भृशदुः खितः ।। ८४ ।।

मृतं शुष्कं महाकायं गजमेकमपश्यत ।।

महावातं महावर्षं तदा सोढुमशक्नुवन् ।। ८५ ।।

गजास्यविवरेणैव विवेशोदरगह्वरम् ।।

तस्मिन्प्रविष्टमात्रे तु वृष्टिरासीत्सुभूयसी ।। ८६ ।।

ततो वर्षजलैः सर्वैः प्रवाहः सुमहानभूत् ।।

स प्रवाहो वने तस्मिन्नदी काचिदजायत ।। ८७ ।।

अथ तैर्वर्षसलिलैः स गजः पूरितोदरः ।।

प्लवमानो महापूरे नीरंध्रः समजायत ।। ८८ ।।

ततो निर्विवरस्यास्य जलपूर्णोदरस्य च ।।

गजस्य जठरात्सोऽयं निर्गंतु न शशाक ह ।। ८९ ।।

ततश्च वृष्टितोयानां प्रवाहो भीमवेगवान् ।।

उदरस्थितदुष्पण्यं समुद्रं प्रापयद्गजम् ।। 3.1.22.९० ।।

दुष्पण्यः सलिले मग्नः क्षणात्प्राणैर्व्ययुज्यत ।।

मृत एव स दुष्पण्यः पिशाचत्वमवाप्तवान् ।। ९१ ।।

पीडितः क्षुत्पिपासाभ्यां दुर्गमं वनमाश्रितः ।।

घोरेषु घर्मकालेषु समाक्रोशन्भयानकम् ।। ९२ ।।

अतिष्ठद्गहनेऽरण्ये दुःखान्यनुभवन्बहु ।।

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।। ९३ ।।

स पिशाचो महादुःखी न्यवसद्घोरकानने ।।

वनाद्वनांतरं धावन्देशाद्देशाद्देशांतरं तथा ।। ९४ ।।

सर्वत्रानुभवन्दुःखमाययौ दण्डकान्क्रमात् ।।

अगस्त्यादाश्रमात्पुण्यान्नातिदूरे स संचरन् ।। ९५ ।।

नदन्भैरवनादं च वाक्यमुच्चैरभाषत ।।

भोभोस्तपोधनाः सर्वे शृणुध्वं मामकं वचः ।। ९६ ।।

भवन्तो हि कृपावन्तः सर्वभूतहिते रताः ।।

कृपादृष्ट्यानुगृह्णीत मां दुःखैरतिपीडितम् ।। ९७ ।।

पुरा दुष्पण्यनामाहं वैश्यः पाटलिपुत्रके ।।

पुत्रः पशु मतश्चापि बहून्बालानमारयम् ।। ९८ ।।

ततो विवासितो राज्ञा तस्माद्देशाद्वनं गतः ।।

अमारयं जले पुत्रं तत्रोग्रश्रवसो मुनेः ।। ९९ ।।

स मुनिर्दत्त वाञ्छापं ममापि मरणं जले ।।

पिशाचतां च मे घोरां दत्तवान्दुःखभूयसीम् ।। 3.1.22.१०० ।।

कल्पकोटिसहस्राणि कल्पकोटिशतान्यपि ।।

पिशाच तानुभूतेयं शून्यकाननभूमिषु ।। १०१ ।।

नाहं सोढुं समर्थोऽस्मि पिपासां क्षुधमेव च ।।

रक्षध्वं कृपया यूयमतो मां बहुदुःखिनम् ।। १०२ ।।

यथा मुच्येय पैशाच्यात्तथा कुरुत तापसाः ।।

इति श्रुत्वा पिशाचस्य वचनं ते तपोधनाः ।।

लोपामुद्रासहचरमूचिरे कुम्भसंभवम् ।। ।। ।।

।। तापसा ऊचुः ।। ।।

पिशाचस्यास्य भगवन्ब्रूहि निष्कृतिमुत्तमाम् ।। ४ ।।

एवंविधानां पापानां त्वं समर्थो हि रक्षणे ।।

तेषामगस्त्यः श्रुतवान्कृपया परया युतः ।।

प्रियशिष्यं समाहूय सुतीक्ष्णं वाक्यमब्रवीत् ।। ५ ।।

।। अगस्त्य उवाच ।। ।।

सुतीक्ष्ण गच्छ त्वरितं पर्वतं गंधमादनम् ।। ६ ।।

तत्राग्नितीर्थं सुमहद्विद्यते पापनाशनम् ।।

पिशाचमोक्षणार्थाय तत्र स्नाहि महामते ।। ७ ।।

पिशाचार्थं त्वयि स्नाते तत्र संकल्पपूर्वकम् ।।

पिशाचभावमुन्मुच्य दिव्यतामेष यास्यति ।। ८ ।।

निष्कृतिं नास्य पश्यामि विना तत्तीर्थसेवनात ।।

अतः सुतीक्ष्णकृपया रक्षस्वैनं पिशाचकम् ।। ९ ।।

अगस्त्येनैवमुक्तस्तु सुतीक्ष्णो गन्धमादनम् ।।

प्राप्याग्नितीर्थे संकल्प्य पिशाचार्थं कृपानिधिः ।। 3.1.22.११० ।।

सस्नौ तत्र पिशाचार्थं नियमेन दिनत्रयम् ।।

रामनाथादिकं सेव्य तत्तीर्थं प्रतिगृह्य च ।। ११ ।।

स्वाश्रमं प्रति गत्वाथ सुतीक्ष्णो विप्रसत्तमः ।।

तत्तीर्थ प्रोक्षणात्सद्यः सवियुज्य पिशाचताम् ।। १२ ।।

वैभवात्तस्य तीर्थस्य सद्यो दिव्यत्वमाप्तवान् ।।

विमानवरमारूढो दिव्यस्त्रीपरिवारितः ।। १३ ।।

सुतीक्ष्णं चाप्यगस्त्यं च तथान्यांश्च तपोधनान् ।।

पुनःपुनर्नमस्कृत्य तांश्चामंत्र्य प्रहर्षितः ।। १४ ।।

स्वर्गमेवारुहत्तूर्णं देवैरपि स पूजितः ।।

अग्नितीर्थस्य माहात्म्याद्दुष्पण्यो वैश्यनंदनः ।। १५ ।।

पैशाच्यं शापजं त्यक्त्वा दिव्यतामित्थमाप्तवान् ।।

एवं वः कथितं विप्रा अग्नितीर्थस्य वैभवम् ।। १६ ।।

यः पठेदिममध्यायं शृणुयाद्वा सभक्तिकम् ।।

पिशाचमोक्षणाख्यानं मुच्यते सर्वपातकैः ।। १७ ।।

इह भुक्त्वा महाभोगान्परत्रापि सुखं लभेत् ।। ११९ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्येऽग्नितीर्थप्रशंसायां दुष्पण्यपैशाच्यमोक्षणंनाम द्वाविंशोऽध्यायः ।। २२ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 23

।। श्रीसूत उवाच ।। ।।

अग्नितीर्थाभिधे तीर्थे सर्वपातकनाशने ।।

स्नानं कृत्वा विशुद्धात्मा चक्रतीर्थं ततो व्रजेत् ।। १ ।।

यंयं कामं समुद्दिश्य चक्रतीर्थे द्विजोत्तमाः ।।

स्नानं समाचरेन्मर्त्यस्तंतं कामं समश्नुते ।। २ ।।

पुराहिर्बुध्न्यनामा तु महर्षिः संशित व्रतः ।।

सुदर्शनमुपास्तास्मिंस्तपस्वी गंधमादने ।। ३ ।।

तपस्यंतं मुनिं तत्र राक्षसा घोररूपिणः ।।

अबाधंत सदा विप्रास्तपोविघ्नैकतत्पराः ।। ।। ४ ।।

सुदर्शनं तदागत्य भक्तरक्षणवांछया ।।

यातुधानान्बाधमानान्न्यवधीर्लीलया पुरा ।। ५ ।।

तदाप्रभृति तच्चक्रं भक्तप्रार्थनया द्विजाः ।।

अहिर्बुध्न्यकृते तीर्थे सन्निधानं सदाऽकरोत् ।। ६ ।।

तदाप्रभृति तत्तीर्थं चक्रतीर्थमितीर्यते ।।

सुदर्शनप्रसादेन तत्र तीर्थे निमज्जनात् ।। ७ ।।

रक्षःपिशाचा दिकृता पीडा नास्त्येव कर्हिचित् ।।

स्नात्वास्मिन्पावने तीर्थे छिन्नपाणिः पुरा रविः ।।

स हिरण्यमयौ पाणी लब्धवांस्तीर्थवैभवात् ।। ८ ।। ।।

।। ऋषय ऊचुः ।। ।।

छिन्नपाणिः कथमभूदादित्यः सूतनंदन ।।

यथा च लब्धवान्पाणी सौवर्णौ तद्वदस्व नः ।। ९ ।।

।। श्रीसूत उवाच ।।

इंद्रादयः सुराः पूर्वं संततं दैत्यपीडिताः ।। 3.1.23.१० ।।

किं कुर्म इति संचित्य संभूय सममंत्रयन् ।।

बृहस्पतिं पुरस्कृत्य मंत्रयित्वा चिरं सुराः ।। ११ ।।

तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ।।

ते ब्रह्माणं समासाद्य दृष्ट्वा स्तुत्वा च भक्तितः ।। १२ ।।

ततो व्यजिज्ञपस्तस्मै स्वेषामागमकारणम् ।। ।।

।। सुरा ऊचुः ।। ।।

भगवन्भारतीनाथ दैत्या ह्यस्मान्बलोत्कटाः ।। १३ ।।

बाधंते सततं देव तत्र ब्रूहि प्रतिक्रियाम् ।।

इत्युक्तः स सुरैर्ब्रह्मा तानाह कृपया वचः ।। १४ ।।

।। ब्रह्मोवाच ।। ।।

मा भैष्ट यूयं विबुधास्तत्रोपायं ब्रवीम्यहम् ।।

माहेश्वरं महायज्ञमसुराणां विनाशनम् ।। ।। १५ ।।

प्रारभध्वं सुरा यूयं मुनिभिस्तत्त्वदर्शिभिः ।।

अयं च दैवतैः सर्वैर्विधिलोभं विना कृतः ।। १६ ।।

माहेश्वरो महायज्ञः क्रियतां गंधमादने ।।

यदि ह्यन्यत्र तं यज्ञं कुर्युस्तद्विबुधर्षभाः ।। १७ ।।

यज्ञविघ्नं तदा कुर्युर्दुरात्मानः सुरद्विषः ।।

क्रियते यद्ययं यज्ञो गंधमादनपर्वते ।। १८ ।।

सुदर्शनप्रसादेन नैव विघ्नो भवेत्तदा ।।

अहिर्बुध्न्याभिधानस्य महर्षेर्गंधमादने ।। १९ ।।

अनुग्रहाय तत्तीर्थे सन्निधत्ते सुदर्शनम् ।।

अतः कुरुध्वं भो यूयं तं यज्ञं गंधमादने ।। 3.1.23.२० ।।

नातिदूरे चक्रतीर्थादसुराणां विनाशकम् ।।

ततस्ते ब्रह्मवचसा सहसा गंधमादनम्।। २१ ।।

बृहस्पतिं पुरस्कृत्य जग्मुर्यज्ञचिकीर्षया।।

ते प्रणम्य महात्मानमहिर्बुध्न्यं मुनीश्वरम् ।।२२।।

अकल्पयन्यज्ञवाटन्नातिदूरे तदाश्रमात् ।।

यज्ञकर्मसु निष्णातैः सहितास्ते तपोधनैः ।। २३ ।।

इष्टिमारेभिरे देवा असुराणां विनाशिनीम् ।।

तस्मिन्कर्मणि होतासीत्स्वयमेव बृहस्पतिः ।। २४ ।।

बभूव मैत्रावरुणो जयंतः पाकशासनिः ।।

अच्छावाको बभूवात्र वसूनामष्टमो वसुः ।। २५ ।।

ग्रावस्तुदभवत्तत्र शक्तिपुत्रः पराशरः ।।

अष्टावक्रो महातेजा अध्वर्युधुरमूढवान्।। ।। २६ ।।

तत्र प्रतिप्रस्थाताभूद्विश्वामित्रो महामुनिः ।।

नेष्टा बभूव वरुण उन्नेता च धनेश्वरः ।। २७ ।।

ब्रह्मा बभूव सविता यज्ञस्यार्धधुरं वहन् ।।

बभूव ब्राह्मणाच्छंसी वसिष्ठो ब्रह्मणोत्तमः ।। २८ ।।

आग्नीध्रोऽभूच्छुनःशेपः पोता जातश्च पावकः ।।

उद्गाता वायुरभवत्प्रस्तोता च परेतराट् ।। ।। २९ ।।

प्रतिहर्ता तु तत्रासीदगस्त्यः कुंभसंभवः ।।

सुब्रह्मण्यो मधुच्छंदा विश्वामित्रात्मजो महान्।। 3.1.23.३० ।।

यजमानः स्वयमभूद्देवराजः पुरंदरः।।

उपद्रष्टा बभूवात्र व्यासपुत्रः शुको मुनिः ।। ३१ ।।

ततस्ते ऋत्विजः सर्वे देवराजं पुरंदरम् ।।

विधिवद्दीक्षयांचक्रुस्तत्र माहेश्वरे क्रतौ ।।३२।।

प्रावर्तत महायज्ञ एवं वै गंधमादने ।।

सुदर्शनप्रभावेन दुःसहेनातिपीडिताः ।। ३३ ।।

नाविंदन्नसुरास्तत्र रंध्रं यज्ञे प्रवर्तिते ।।

एवन्निरंतरायोऽसौ प्रावर्तत महा क्रतुः ।। ३४ ।।

भक्षयंश्च हरिस्तत्र जज्वाल हुतवाहनः ।।

विधिवत्कर्मजालानि कृत्वाध्वर्युरसंभ्रमात् ।। ३५ ।।

मंत्रपूतं पुरोडाशं जुहवामास पावके ।।

हुतशेषं पुरोडाशं विभज्याध्वर्युरादरात् ।। ३६ ।।

ऋत्विग्भ्यो होतृमुख्येभ्यः प्रददौ पापनाशनम् ।।

सवित्रे ब्रह्मणे चैकमत्युग्रतरतेजसम् ।। ।। ३७ ।।

ददौ तत्र पुरोडाशभागं प्राशित्रनामकम् ।।

प्रतिजग्राह पाणिभ्यां प्राशित्रं सविता तदा ।। ३८ ।।

सवित्रा स्पृष्टमात्रं सत्तत्प्राशित्रं दुरासदम् ।।

तस्य पाणी प्रचिच्छेद पश्यतां सर्वऋत्विजाम् ।। ३९ ।।

ततः संछिन्नपाणिः स प्राशित्रेणोग्रतेजसा ।।

किमेतदिति संत्रस्तो विषण्णवदनोऽभवत् ।। 3.1.23.४० ।।

सविता ऋत्विजः सर्वान्समाहूयेदमब्रवीत् ।।

सवितोवाच ।।

पुरोडाशस्य भागोऽयं मम प्राशित्रनामकः ।। ४१ ।।

दत्तश्चिच्छेद मत्पाणी मिषत्स्वेव भवत्स्वपि ।।

अतो भवंतः संभूय सर्व एव हि ऋत्विजः ।। ४२ ।।

कल्पयंतामिमौ पाणी नोचेद्यज्ञं निहन्म्यमुम् ।।

सवितुर्वाक्यमाकर्ण्य ते सर्वे समचिंतयन् ।। ४३ ।।

तत्र मध्ये मुनींद्राणां देवानां चैव सर्वशः ।।

अष्टावक्रो महातेजा ऋत्विजस्तानभाषत ।। ४४ ।।

।। अष्टावक्र उवाच ।। ।।

शृणुध्वमृत्विजः सर्वे मम वाक्यं समाहिताः ।।

मयि जीवति विप्रेंद्रा विरिंचानां शतं गतम् ।। ४५ ।।

जायंते च म्रियंते च चतुराननकोटयः ।।

पश्यन्नेव च तान्सर्वानहं प्राणानधारयम् ।। ४६ ।।

तत्र लोकेश्वराभिख्ये वर्तमाने प्रजापतौ ।।

विप्रो हरिहरोनाम निवसञ्छयामलापुरे ।। ४७ ।।

व्याधेनारण्यवासेन केल्यर्थं लक्ष्यवेधिना ।।

छिन्नपादोऽभवद्बाणैर्लक्ष्य मध्यं समागतः ।। ४८ ।।

स गंधमादनं प्राप्य मुनिभिः प्रेरितस्तदा ।।

स्नात्वा च मुनितीर्थेऽस्मिन्प्राप्तवांश्चरणौ पुरा ।। ४९ ।।

तदा पुण्यमिदं तीर्थं मुनितीर्थमितीरितम् ।।

इदानीं चक्रतीर्थाख्यं चक्रनाम त्वविंदत ।। 3.1.23.५० ।।

तदत्र क्रियतां स्नानं प्राशित्रच्छिन्नपाणिना ।।

मुनितीर्थे सवित्रापि युष्माकं यदि रोचते ।। ५१ ।।

ऋत्विजः कथितास्त्वेवमष्टावक्रमहर्षिणा ।।

सवितारमभाषंत सर्व एव प्रहर्षिताः ।। ५२ ।।

सवितः स्नाहि तीर्थेऽ स्मिंस्तव पाणी भविष्यतः ।।

अष्टावक्रो यथा प्राह तथा कुरु समाहितः ।। ५३ ।।

ततः स सविता गत्वा चक्रतीर्थं महत्तरम् ।।

सस्नौ पाण्योरवाप्त्यर्थमिष्टदायिनि तत्र सः ।। ५४ ।।

उत्तिष्ठन्नेव स तदा तत्र स्नात्वा सभक्तिकम् ।।

युक्तो हिरण्मयाभ्यां तु पाणिभ्यां समदृश्यत ।। ५५ ।।

हिरण्यपाणिं तं दृष्ट्वा जहृषुः सर्वऋत्विजः ।।

ततः समाप्य तं यज्ञं दैत्यसंघान्विजित्य च ।। ५६ ।।

इंद्रादयः सुराः सर्वे सुखिताः स्वर्गमाययुः ।।

तस्मादेतत्समागत्य तीर्थं सर्वैश्च मानवैः ।। ५७ ।।

सेवनीयं प्रयत्नेन स्वस्वाभीष्टस्य सिद्धये ।।

अंधैश्च कुणिभिर्मूकैर्बधिरैः कुब्जकैरपि ।। ५८ ।।।

खंजैः पंगुभिरप्येतदंगहीनैस्तथापरैः ।।

संछिन्नपाणिचरणैः संछिन्नान्यांगसंचयैः ।। ५९ ।।

मनुष्यैश्च तथान्यैश्च विकलांगस्य पूर्तये ।।

सेवनीयमिदं तीर्थं सर्वाभीष्टप्रदायकम् ।। 3.1.23.६० ।।

एवं वः कथितं विप्राश्चक्रतीर्थस्य वैभवम् ।।

यत्र स्नात्वा पुरा छिन्नौ पाणी प्राप प्रभाकरः ।। ६१ ।।

यः पठेदिममध्यायं शृणुयाद्वा समाहितः ।।

अंगानि विकलान्यस्य पूर्णानि स्युर्न संशयः ।। ६२ ।।

मोक्षकामस्य मर्त्यस्य मुक्तिः स्यान्नात्र संशयः ।। ६३ ।।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये चक्रतीर्थप्रशंसायामादित्यहिरण्मयपाण्यवाप्तिवर्णनंनाम त्रयोविंशोऽध्यायः ।। २३ ।। ।। छ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 24

।। श्रीसूत उवाच ।। ।।

चक्रतीर्थे नरः स्नात्वा शिवतीर्थं ततो व्रजेत् ।।

यत्र हि स्नानमात्रेण महापातककोटयः ।। १ ।।

तत्संसर्गाश्च नश्यंति तत्क्षणादेव तापसाः ।।

अत्र स्नात्वा ब्रह्महत्यां मुमुचे कालभैरवः ।। २ ।।

।। ऋषय ऊचुः ।। ।।

कालभैरवरुद्रस्य ब्रह्महत्या महामुने ।।

किमर्थमभवत्सूत तन्नो वक्तुमिहार्हसि ।। ३ ।।

।। श्रीसूत उवाच ।। ।।

वक्ष्यामि मुनयः सर्वे पुरावृत्तं विमुक्तिदम् ।।

यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ।। ४ ।।

प्रजापतेश्च विष्णोश्च बभूव कलहः पुरा ।।

किंचित्कारणमुद्दिश्य समस्तजनसन्निधौ ।। ५ ।।

अहमेव जगत्कर्ता नान्यः कर्तास्ति कश्चन ।।

अहं सर्वप्रपंचानां निग्रहानुग्रहप्रदः ।। ६ ।।

मत्तो नास्त्यधिकः कश्चिन्मत्समो वा सुरेष्वपि ।।

एवं स मनुते ब्रह्मा देवानां सन्निधौ पुरा ।। ७ ।।

तदा नारायणः प्राह प्रहसन्द्विजपुंगवाः ।।

किमर्थमेवं ब्रूषे त्वमहंकारेण सांप्रतम् ।। ८ ।।

वाक्यमेवंविधं भूयो वक्तुं नार्हसि वै विधे ।।

अहमेव जगत्कर्ता यज्ञो नारायणो विभुः ।। ९ ।।

मां विनास्य प्रपञ्चस्य जीवनं दुर्लभं भवेत् ।।

मत्प्रसादाज्जगत्सृष्टं त्वया स्थावरजंगमम् ।। 3.1.24.१० ।।

विवादं कुर्वतोरेवं ब्रह्मविष्ण्वोर्जयैषिणोः ।।

देवानां पुरतस्तत्र वेदाश्चत्वार आगताः ।।

प्रोचुर्वाक्यमिदं तथ्यं परमार्थप्रकाशकम् ।।१ १।।

।। वेदा ऊचुः ।। ।।

त्वं विष्णो न जगत्कर्ता न त्वं ब्रह्मन्प्रजापते ।। १२ ।।

किं त्वीश्वरो जगत्कर्ता परात्परतरो विभुः ।।

तन्मायाशक्तिसंक्लृप्तमिदं स्थावरजंगमम् ।। १३ ।।

सर्वदेवाभिवंद्यो हि सांबः सत्यादिलक्षणः ।।

स्रष्टा च पालको हर्ता स एव जगतां प्रभुः ।।१४।।

एवं समीरितं वेदैः श्रुत्वा वाक्यं शुभाक्षरम्।।

ब्रह्मा विष्णुस्तदा तत्र प्रोचतुर्द्विजपुंगवाः।।१५।।

।।ब्रह्मविष्णू ऊचतुः।। ।।

पार्वत्यालिंगितः शंभुर्मूर्तिमान्प्रमथाधिपः।।

कथं भवेत्परं ब्रह्म सर्वसंगविवर्जितम्।।१६।।

ताभ्यामितीरिते तत्र प्रणवः प्राह तौ तदा ।।

अरूपो रूपमादाय महता ध्वनिना द्विजाः ।।१७।। ।।

।। प्रणव उवाच ।। ।।

असौ शंभुर्महादेवः पार्वत्या स्वातिरिक्तया ।।

संक्रीडते कदाचिन्नो किं तु स्वात्मस्वरूपया ।। १८ ।।

असौ शंभुरनीशानः स्वप्रकाशो निरंजनः ।।

विश्वाधिको महादेवो विश्वाधिक इति श्रुतः ।। १९ ।।

सर्वात्मा सर्वकर्तासौ स्वतन्त्रः सर्वभावनः ।।

ब्रह्मन्नयं सृष्टिकाले त्वां नियुंक्ते रजोगुणैः ।। 3.1.24.२० ।।

सत्त्वेन रक्षणे शंभुस्त्वां प्रेषयति केशव ।।

तमसा कालरुद्राख्यं संप्रेरयति संहृतौ ।। २१ ।।

अतः स्वतन्त्रता विष्णो युवयोर्न कदाचन ।।

नापि प्रजापतेरस्ति किं तु शंभोः स्वतन्त्रता ।। २२ ।।

ब्रह्मन्विष्णो युवाभ्यां तु किमर्थं न महेश्वरः ।।

ज्ञायते सर्वलोकानां कर्ता विश्वाधिकस्तथा ।। २३ ।।

सापि शक्तिरुमा देवी न पृथक्छंकरात्सदा ।।

शंभोरानंदभूता सा देवी नागंतुकी स्मृता ।। ।। २४ ।।

अतो विश्वाधिको रुद्रः स्वतंत्रो निर्विकल्पकः ।।

सर्वदेवैरयं वन्द्यो युवाभ्यामपि शंकरः ।। २५ ।।

कर्ता नास्यास्ति रुद्रस्य नाधिकोऽस्माच्च विद्यते ।।

न तत्समोऽपि लोकेषु विद्यते शतशस्तथा ।। २६ ।।

अतो मोहं न कुरुतं ब्रह्मविष्णो युवां वृथा ।।

इत्युक्तं प्रणवेनाथ श्रुत्वा ब्रह्मा च केशवः ।। २७ ।।

मायया मोहितौ शंभोर्नैवाज्ञानममुंचताम् ।।

एतस्मिन्नंतरे ब्रह्मा प्रददर्श महाद्भुतम् ।। २८ ।।

व्याप्नुवद्गगनं सर्वमनंतादित्य सन्निभम् ।।

तेजोमण्डलमाकाशमध्यगं विश्वतोमुखम् ।। २९ ।।

तन्निरूपयितुं ब्रह्मा ससर्जोर्ध्वगतं मुखम् ।।

तपोबलविसृष्टेन पंचमेन मुखेन सः ।। ।। 3.1.24.३० ।।

निरूपयामास विभुस्तत्तेजोमण्डलं मुहुः ।।

तत्प्रजज्वाल कोपेन मुखं तेजोविलोकनात्।।३१।।

अनंतादित्यसंकाशं ज्वलत्तत्पंचमं शिरः ।।

दिधक्षुः प्रलये लोकान्वडवाग्निरिवाबभौ ।। ३२ ।।

व्यदृश्यत च तत्तेजः पुरुषो नीललोहितः ।।

दृष्ट्वा स्रष्टा तदा ब्रह्मा बभाषे परमेश्वरम् ।। ३३ ।।

वेदाहं त्वां महादेव ललाटान्मे पुरा भवान् ।।

विनिर्गतोऽसि शंभो त्वं रुद्रनामा ममात्मजः ।। ३४ ।।

इति गर्वेण संयुक्तं वचः श्रुत्वा महेश्वरः ।।

कालभैरवनामानं पुरुषं प्राहिणोत्तदा ।। ३५ ।।

अयुद्ध्यत चिरं कालं ब्रह्मणा कालभैरवः ।।

महादेवांशसंभूतः शूलटंकगदाधरः ।। ।। ३६ ।।

युद्ध्वा तु सुचिरं कालं ब्रह्मणा कालभैरवः ।।

वदनं ब्रह्मणः शुभ्रं व्यलोकयत पंचमम् ।। ३७ ।।

विलोक्योर्ध्वगतं वक्त्रं पञ्चमं भारतीपतेः ।।

गर्वेण महता युक्तं प्रजज्वालातिकोपितः ।। ३८ ।।

ततस्तत्पंचमं वक्त्रं भैरवः प्राच्छिनद्रुषा ।।

ततो ममार ब्रह्माऽसौ कालभैरवहिंसितः ।। ।। ३९ ।।

ईश्वरस्य प्रसादेन प्रपेदे जीवितं पुनः ।।

ततो विलोकयामास शंकरं शशिभूषणम् ।। 3.1.24.४० ।।

वासुक्याद्यष्टभोगींद्रविभूषणविभूषितम् ।।

दृष्ट्वा वेधा महादेवं पार्वत्या सह शंकरम् ।। ४१ ।।

लेभे माहेश्वरं ज्ञानं महादेवप्रसादतः ।।

ततस्तुष्टाव गिरिशं वरेण्यं वरदं शिवम् ।। ४२ ।। ।।

।। ब्रह्मोवाच ।। ।।

मह्यं प्रसीद गिरिश शशांककृतशेखर ।।

यन्मयापकृतं शंभो तत्क्षमस्व दयानिधे ।। ४३ ।।

क्षमस्व मम गर्वं त्वं शंकरेति पुनःपुनः ।।

नमश्चकार सोमं तं सोमार्धकृतशेखरम् ।। ४४ ।।

अथ देवः प्रसन्नोऽस्मै ब्रह्मणे स्वांशजाय तु ।।

मा भैरित्यब्रवीच्छंभुर्भैरवं चाभ्यभाषत ।। ४५ ।।

।। ईश्वर उवाच ।। ।।

एष सर्वस्य जगतः पूज्यो ब्रह्मा सनातनः ।।

हतस्यास्य विरिंचस्य धारय त्वं शिरोऽधुना ।। ४६ ।।

ब्रह्महत्याविशुद्ध्यर्थं लोकसंग्रहकाम्यया ।।

भिक्षामट कपालेन भैरव त्वं ममाज्ञया ।। ४७ ।।

उक्त्वैवं शंकरो विप्रास्तत्रैवांतरधीयत ।।

नीलकण्ठो महादेवो गिरिजार्द्धतनुस्ततः ।। ४८ ।।

भैरवं ग्राहयामास वदनं वेधसो द्विजाः ।।

चरस्व पापशुद्ध्यर्थं लोकसंग्रहणाय वै ।। ४९ ।।

कपालधारी हस्तेन भिक्षां गृह्णातु भैरवः ।।

इतीरयित्वा गिरिशः कन्यां कांचिद्भयंकरीम् ।। 3.1.24.५० ।।

ब्रह्महत्याभिधां क्रूरां वडवानलसन्निभाम् ।।

तां प्रेरयित्वा गिरिशो भैरवं पुनरब्रवीत् ।। ५१ ।।

।। ईश्वर उवाच ।। ।।

भैरवैतद्व्रतं त्वब्दं ब्रह्महत्याविशुद्धये ।।

चर त्वं सर्वतीर्थेषु स्नाहि शुद्ध्यर्थमात्मनः ।।५२।।

ततो वाराणसीं गच्छ ब्रह्महत्याप्रशांतये ।।

वाराणसीप्रवेशेन ब्रह्महत्या तवाधमा ।।५३।।

पादशेषा विनष्टा स्याच्चतुर्थांशो न नश्यति ।।

तस्य नाशं प्रवक्ष्यामि तव भैरव तच्छुणु ।।५४।।

दक्षिणांभोनिधेस्तीरे गन्धमादनपर्वते ।।

सर्वप्राण्युपकाराय कृतं तीर्थं मया शुभम् ।।५५।।

शिवसंज्ञं महापुण्यं तत्र याहि त्वमादरात्।।

तत्प्रवेशनमात्रेण ब्रह्महत्या तवाशुभा ।। ५६ ।।

शिवतीर्थस्य माहात्म्यान्निःशेषं नश्यति ध्रुवम् ।।

उक्त्वैवं भैरवं रुद्रः कैलासं प्रययौ क्षणात् ।। ५७ ।।

ततः कपालपाणिस्तु भैरवः शिवचोदितः ।।

देवदानवयक्षादिलोकेषु विचचार सः ।।५८।।

तं यांतमनुयाति स्म ब्रह्महत्यातिभीषणा ।।

भैरवः सर्वतीर्थानि पुण्यान्यायतनानि च ।। ५९ ।।

चरित्वा लीलया देवस्ततो वाराणसीं ययौ ।।

वाराणसीं प्रविष्टे तु भैरवे शंकरांशजे ।। 3.1.24.६० ।।

चतुर्थांशं विना नष्टा ब्रह्महत्यातिकुत्सिता ।।

चतुर्थांशेन दुद्राव भैरवं शंकरांशजम् ।।६१।।

ततः स भैरवो देवः शूलपाणिः कपालधृक् ।।

शिवाज्ञया ययौ पश्चाद्गंधमादनपर्वतम् ।। ६२ ।।

शिवतीर्थं ततो गत्वा भैरवः स्नातवान्द्विजाः ।।

स्नानमात्रेण तत्रास्य शिवतीर्थे महत्तरे ।। ६३ ।।

निःशेषं विलयं याता ब्रह्महत्यातिभीषणा ।।

अस्मिन्नवसरे शंभुः प्रादुरासीत्तदग्रतः ।।

प्रादुर्भूतो महादेवो भैरवं वाक्यमब्रवीत् ।।६४।।

।। ।। ईश्वर उवाच ।। ।।

निःशेषं ब्रह्महत्या ते शिवतीर्थे निमज्जनात् ।। ६५ ।।

नष्टा भैरव नास्त्यत्र संदेहस्तव सुव्रत ।।

इदं कपालं काश्यां त्वं स्थापयस्व क्वचित्स्थले ।। ६६ ।।

इत्युक्त्वा भगवाञ्छंभुस्तत्रैवांतरधीयत ।।

भैरवोऽपि तदा विप्रा ब्रह्महत्याविमोचितः ।। ६७ ।।

शिवतीर्थस्य माहात्म्याद्ययौ वाराणसीं पुरीम् ।।

कपालं स्थापयामास प्रदेशे कुत्रचिद्द्विजाः ।।

कपालतीर्थमित्याख्यामलभत्तत्स्थलं तदा ।। ६८ ।।

।। श्रीसूत उवाच ।। ।।

एवं प्रभावं तत्पुण्यं शिवतीर्थं विमुक्तिदम् ।। ६९ ।।

महादुःखप्रशमनं महापातकनाशनम् ।।

नरकक्लेशशमनं स्वर्गदं मोक्षदं तथा ।। ।। 3.1.24.७० ।।

शिवतीर्थस्य माहात्म्यं मया प्रोक्तं विमुक्तिदम् ।।

इदं पठन्सदा मर्त्यो दुःखग्रामाद्विमुच्यते ।। ७१ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये शिवतीर्थप्रशंसायां भैरवब्रह्महत्याविमोक्षणवर्णनंनाम चतुर्विंशोऽध्यायः ।। २४ ।। ।। छ ।। ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 25

।। श्रीसूत उवाच ।। ।।

शिवतीर्थे नरः स्नात्वा ब्रह्महत्याविमोक्षणे ।।

स्वपापजालशांत्यर्थं शंखतीर्थं ततो व्रजेत् ।। १ ।।

यत्र मज्जनमात्रेण कृतघ्नोऽपि विमुच्यते ।।

मातॄः पितॄन्गुरूंश्चापि ये न मन्यंति मोहिताः ।। २ ।।

ये चाप्यन्ये दुरात्मानः कृतघ्ना निरपत्रपाः ।।

ते सर्वे शंखतीर्थे स्मिञ्छुद्ध्यंति स्नानमात्रतः ।। ३ ।।

शंखनामा मुनिः पूर्वं गंधमादनपर्वते ।।

अवर्तत तपः कुर्वन्विष्णुं ध्यायन्समाहितः।। ४ ।।

स तत्र कल्पयामास स्नानार्थं तीर्थमुत्तमम् ।।

शंखेन निर्मितं तीर्थं शंखतीर्थमितीर्यते ।। ५ ।।

तत्र स्नात्वा सकृन्मर्त्यः कृतघ्नोऽपिविमुच्यते १।

अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम्।।६।।

यस्य श्रवणमात्रेण नरो मुक्तिमवाप्नुयात्।।

पुरा बभूव विप्रेंद्रो वत्सनाभो महामुनिः।।७।।

सत्यवाञ्छीलवान्वाग्मी सर्वभूतदयापरः।।

शत्रुमित्रसमो दांतस्तपस्वी विजितेंद्रियः।।८।।

परब्रह्मणि निष्णातस्तत्त्वब्रह्मैकसंश्रयः।।

एवं प्रभावः स मुनिस्तपस्तेपे निजाश्रमे ।। ९ ।।

स वै निश्चलसर्वांगस्तिष्ठंस्तत्रैव भूतले ।।

परमाण्वंतरं वापि न स्वस्थानाच्चचाल सः ।। 3.1.25.१० ।।

स्थित्वैकत्र तपस्यंतमनेकशतवत्सरान् ।।

तमाचकाम वल्मीकं छादितांगं चकार च ।। ११ ।।

वल्मीकाक्रांतदेहोपि वत्सनाभो महामुनिः ।।

अकरोत्तप एवासौ वल्मीकं न त्वबुद्ध्यत ।। ।। १२ ।।

तस्मिंश्च तप्यति तपो वासवो मुनिपुंगवाः ।१

विसृज्य मेघजालानि वर्षयामास वेगवान् ।। १३ ।।

एवं दिनानि सप्तायं स ववर्ष निरं तरम् ।।

आसारेणातिमहता वृष्यमाणोपि वै मुनिः ।। १४ ।।

तं वर्षं प्रतिजग्राह निमीलितविलोचनः ।।

महता स्तनितेनाशु तदा बधिरयञ्छ्रुती ।। ।। १५ ।।

वल्मीकस्योपरिष्टाद्वै निपपात महाशनिः ।।

तस्मिन्वर्षति पर्जन्ये शीतवातातिदुःसहे ।। १६ ।।

वल्मीकशिखरं ध्वस्तं बभूवाशनिताडि तम् ।।

विशीर्णशिखरे तस्मिन्वल्मीकेऽशनिताडिते ।। १७ ।।

सेहेतिदुःसहां वृष्टिं वत्सनाभो विचिंतयन् ।।

महर्षौ वर्षधाराभिः पीड्यमाने दिवानि शम् ।। १८ ।।

धर्मस्य चेतसि कृपा संबभूवातिभूयसी ।।

स धर्मश्चिंतयामास वत्सनाभे तपस्यति ।। १९ ।।

पतत्यप्यतिवर्षेऽयं तपसो न निवर्तते ।।

अहोऽस्य वत्सनाभस्य धर्मैकायत्तचित्तता ।। 3.1.25.२० ।।

इति चिंतयतस्तस्य मातिरेवमजायत ।।

अहं वै माहिषं रूपं सुमहांतं मनोहरम् ।। २१ ।।

वर्षधारानिपातानां सोढारं कठिनत्वचम् ।।

स्वीकृत्य माहिषं रूपं स्थास्याम्युपरि योगिनः ।। २२ ।।

न हि बाधिष्यते वर्षं महावेगयुतं त्वपि ।।

धर्म एवं विनिश्चित्य धाराः पृष्ठेन धारयन् ।। २३ ।।

वत्सनाभोपरि तदा गात्रमाच्छाद्य तस्थिवान् ।।

ततः सप्तदिनांते तु तद्वै वर्षमुपारमत् ।। २४ ।।

ततो महिषरूपी स धर्मोऽतिकृपया युतः ।।

तद्वै वल्मीकमुत्सृज्य नातिदूरे ह्यवर्त्तत ।।२५।।

ततो निवृते वर्षे तु वत्सनाभो महामुनिः।।

निवृत्तस्तपसस्तू र्णं दिशः सर्वा व्यलोकयन्।।२६।।

स्थितोऽहं वृष्टिसंपाते कुर्वन्नद्य महत्तपः।।

पृथिवी सलिलाक्लिन्ना दृश्यते सर्वतोदिशम्।।२७।।

शिखराणि गिरीणां च वना न्युपवनानि च ।।

आश्रमाणि महर्षीणामाप्लुतानि जलैर्नवैः ।। २८ ।।

एवमादीनि सर्वाणि दृष्ट्वा प्रमुदितोऽभवत् ।।

चिंतयामास धर्मात्मा वत्सना भो महामुनिः ।। २९ ।।

अहमस्मिन्महावर्षे नूनं केनापि रक्षितः ।।

वर्षत्यस्मिन्महावर्षे जीवितं त्वन्यथा कुतः ।। 3.1.25.३० ।।

विचिंत्यैवं मुनिश्रेष्ठः सर्वत्र समलोकयत् ।।

ततोऽपश्यन्महाकायमदूरादग्रतः स्थितम् ।। ३१ ।।

महिषं नीलवर्णं च वत्सनाभस्तपोधनः ।।

महिषं तं समुद्दिश्य मनसा समचिंतयत् ।। ३२ ।।

तिर्यग्योनिष्वपि कथं दृश्यते धर्मशीलता ।।

यतो ह्यहं महावर्षान्महिषेणाभिरक्षितः ।। ३३ ।।

दीर्घमायुरमुष्यास्तु यन्मां रक्षितवानिह ।।

इत्यादि स विचिंत्यैवं तपसे पुनरुद्ययौ ।। ३४ ।।

तं पुनश्च तपस्यंतं दृष्ट्वा महिषरूपधृक् ।।

रोमांचावृतसर्वांगः प्रमोदमगमद्भृशम् ।। ।। ३५ ।।

वत्सनाभस्य हि मुनेः पुनश्चैव तपस्यतः ।।

मनः पूर्ववदेकाग्रं परब्रह्मणि नाभवत् ।। ३६ ।।

स विषण्णमना भूत्वा वत्सनाभो व्यचिंतयत् ।।

न भवेद्यदि नैर्मल्यं तदा स्याच्चंचलं मनः ।। ३७ ।।

मनश्च पापबाहुल्ये निर्मलं नैव जायते ।।

पापलेशोपि मे नास्ति कथं लोला यते मनः ।। ३८ ।।

अचिंतयद्दोषहेतुं वत्सनाभः पुनःपुनः ।।

स विचिंत्य विनिश्चित्य निनिंदात्मानमंजसा ।। ३९ ।।

धिङ्मामद्य दुरात्मानमहो मूढोस्म्यहं भृशम् ।।

कृतघ्नता महादोषो मामद्य समुपागतः ।। 3.1.25.४० ।।

यदीदृशान्महावर्षात्त्रातारं महिषोत्तमम् ।।

तिष्ठाम्यपूजयन्नेव ततो मे भूत्कृतघ्नता ।। ४१ ।।

कृतघ्नता महान्दोषः कृतघ्ने नास्ति निष्कृतिः ।।

कृतघ्नस्य न वै लोकाः कृतघ्नस्य न बांधवाः ।। ४२ ।।

कृतघ्नतादोष वलान्मम चित्तं मलीमसम् ।।

कृतघ्ना नरकं यांति ये च विश्वस्तघातिनः ।। ४३ ।।

निष्कृतिं नैव पश्यामि कृतघ्नानां कथंचन ।।

ऋते प्राणपरित्यागाद्धर्मज्ञानां वचो यथा ।। ४४ ।।

पित्रोरभरणं कृत्वा ह्यदत्त्वा गुरुदक्षिणाम् ।।

कृतघ्नतां च संप्राप्य मरणांता हि निष्कृतिः ।। ४५ ।।

तस्मात्प्राणान्परित्यज्य प्रायश्चित्तं चराम्यहम् ।।

इति निश्चित्य मनसा वत्सनाभो महामुनिः ।। ४६ ।।

तृणीकृत्य निजान्प्राणान्निःसंगेनांतरा त्मना ।।

मेरोः शिखरमारूढः प्रायश्चित्तचिकीर्षया ।। ४७ ।।

सुमेरुशिखरात्तस्मादियेष पतितुं मुनिः ।।

तस्मिन्पतितुमारब्धे मा त्वरिष्ठा इति ब्रुवन् ।।

त्यक्तमाहिषरूपः सन्धर्म एव न्यवारयत् ।। ४८ ।।

।। धर्म उवाच ।। ।।

वत्सनाभ महाप्राज्ञ जीवस्व बहुवत्सरान् ।। ४९ ।।

परितुष्टोऽस्मि भद्रं ते देहत्यागचिकीर्षया ।।

न हि त्वद्धर्मकक्षायां लोके कश्चित्समोऽस्ति वै ।। 3.1.25.५० ।।

यद्यपि प्राणसंत्यागः कृतघ्ने निष्कृतिर्भवेत् ।।

तथापि धर्मशीलत्वात्तवान्यां निष्कृतिं वदे ।। ५१ ।।

शंखतीर्थाभिधं तीर्थमस्ति वै गंधमादने ।।

शांत्यर्थमस्य पापस्य तत्र स्नाहि समाहितः ।। ।। ५२ ।।

प्राप्स्यसे चित्तशुद्धिं त्वमतो विगतकल्मषः।।

ततश्च लब्धविज्ञानः प्राप्स्यसे शाश्वतं पदम् ।। ५३ ।।

अहं धर्मोस्मि योगीन्द्र सत्यमेव ब्रवीमि ते ।।

इति धर्मवचः श्रुत्वा वत्सनाभो महामुनिः ।। ५४ ।।

स्नातुकामः शंखतीर्थे गंधमादनमन्वगात् ।।

शंखतीर्थं च संप्राप्य तत्र सस्नौ महामुनिः ।। ५५ ।।

ततो विगतपापस्य मनो निर्मलतां गतम् ।।

ततोऽचिरेण कालेन ब्रह्मभूयमगान्मुनिः ।। ५६ ।।

एवं वः कथितं विप्राः शंखतीर्थस्य वैभवम्।।

यत्र हि स्नानमात्रेण कृतघ्नोऽपि विमुच्यते ।। ५७ ।।

मातृद्रोही पितृद्रोही गुरुद्रोही तथैव च ।।

अन्ये कृतघ्ननिवहा मुच्यंतेऽत्र निमज्जनात् ।। ५८ ।।

अतः कृतघ्नैर्मनुजैः सेवनीयमिदं सदा ।।

अहो तीर्थस्य माहात्म्यं यत्कृतघ्नोपि मुच्यते ।। ५९ ।।

अकृत्वा भरणं पित्रोरदत्त्वा गुरुदक्षिणाम्।।

कृतघ्नतां च संप्राप्य मरणांता हि निष्कृतिः ।। 3.1.25.६० ।।

इह तु स्नानमात्रेण कृतघ्नस्यापि निष्कृतिः ।।

कृतघ्नतापि तत्तीर्थे स्नानमात्राद्विनश्यति ।। ६१ ।।

अन्येषां तुच्छपापानां सर्वेषां किमुताधुना ।। ६२ ।।

अध्यायमेनं पठेद्भक्तियुक्तः कृतघ्नोपि मर्त्याः स पापाद्विमुक्तः ।।

विशुद्धांतरात्मा गतः सत्यलोकं समं ब्रह्मणा मोक्षमप्याशु गच्छेत्।। ६३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये शंखतीर्थप्रशंसायां वत्सनाभकृतघ्नदोषशांतिवर्णनंनाम पञ्चविंशोऽध्यायः ।। २५ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 26

।। श्रीसूत उवाच ।। ।।

विधायाभिषवं मर्त्याः शंखतीर्थे द्विजोत्तमाः ।।

यमुनां चैव गंगां च गयां चापि क्रमाद्व्रजेत् ।। १ ।।

यमुनाख्यं महातीर्थं गंगातीर्थमनुत्तमम् ।।

गयातीर्थं च मर्त्यानां महापातकनाशनम् ।। २ ।।

एतत्तीर्थत्रयं पुण्यं सर्वलोकेषु विश्रुतम् ।।

सर्वविघ्नप्रशमनं सर्वरोगनिबर्हणम् ।। ३ ।।

एतद्धि तीर्थत्रितयं सकलाज्ञाननाशनम् ।।

अविद्यायां विनष्टायां तथा ज्ञानप्रदं नृणाम् ।। ४ ।।

जानश्रुतिर्महाराज एषु तीर्थेषु वै पुरा ।।

स्नात्वा रैक्वाद्द्विजश्रेष्ठात्प्राप्तवाञ्ज्ञानमुत्तमम्।। ५ ।।

।। ऋषय ऊचुः ।। ।।

सूत सर्वार्थतत्त्वज्ञ व्यासशिष्य महामते ।।

यमुना चैव गंगा च गया चैवेति विश्रुतम् ।। ६ ।।

एतत्तीर्थत्रयं कस्मादागतं गंधमादने ।।

जानश्रुतेश्च राजर्षेः स्नानात्तीर्थत्रयेऽपि च ।।

ज्ञानावाप्तिः कथं रैक्वादस्माकं सूत तद्वद ।। ७ ।।

।। श्रीसूत उवाच ।। ।।

रैक्वनामा महर्षिस्तु पुरा वै गन्धमादने ।। ८ ।।

तपस्सुदुश्चरं कुर्वन्न्यवसत्तपसां निधिः ।।

दीर्घकालं तपः कुर्वन्स वै रैक्वो महामुनिः ।। ९ ।।

तपोबलेन महता दीर्घमायुरवाप्तवान् ।।

जन्मना पंगुरेवासीद्रैक्वनामा महामुनिः ।। 3.1.26.१० ।।

पंगुत्वादसमर्थोऽभूद्गंतुं तीर्थान्यसौ मुनिः ।।

संति यानि तु तीर्थानि गन्धमादनपर्वते ।। ११ ।।

तानि गच्छति सामीप्याच्छकटेनैव संचरन् ।।

स यद्रैक्वो मुनिवरो युग्वेन सह वर्तते ।। १२ ।।

तपस्वी वैदिकैर्लोके सयुग्वैत्यभिधीयते ।।

युग्वेति शकटं प्रोक्तं स तेन सह वर्तते ।। १३ ।।

स खल्वेवं मुनिश्रेष्ठः सयुग्वानाम वै मुनिः ।।

पूर्णज्ञानस्तपस्तेपे गन्धमादनपर्वते ।।१४।।

ग्रीष्मे पञ्चाग्निमध्यस्थः सोऽतप्यत महत्तपः ।।

वर्षायां कण्ठदघ्नेषु जलेषु समवर्तत ।। १५ ।।

तपसा शोषिते गात्रे पामा तस्य व्यजायत ।।

कण्डूयत स पामानं दिवारात्रं मुनीश्वरः ।। १६।।

कण्डूयमान एवायं पामानं न तपोऽत्यजत् ।।

अजायत मनस्त्वेवं तस्य सयुग्वनो मुनेः ।। १७ ।।

यमुनायां च गंगायां गयायां चाधुनैव हि ।।

अस्मिंस्तीर्थे त्रये पुण्ये स्नातव्यं हि मया त्विति ।। १८ ।।

एवं विचिंत्य स मुनिरन्यां चिंतामथाकरोत् ।।

अहं हि जन्मना पंगुरतः स्नानं हि दुर्लभम् ।। १९ ।।

अतिदूरं मया गन्तुं शकटेन न शक्यते ।।

किं करोम्यधुनेत्येवं स वितर्क्य महामतिः ।। 3.1.26.२० ।।

तीर्थत्रयेषु स्नानार्थं कर्तव्यं निश्चिकाय वै ।।

अप्रसह्यमनाधृष्यं विद्यते मे तपोबलम् ।। २१ ।।

तेनैवावाहयिष्यामि तद्धि तीर्थत्रयं त्विह ।।

इति निश्चित्य मनसा प्राङ्मुखो नियतेंद्रियः ।। २२ ।।

त्रिराचम्य च सयुग्वान्दध्यौ क्षणमतंद्रितः ।।

तस्य मंत्रप्रभावेन यमुना सा महानदी ।। २३ ।।

गंगा च जह्नुतनया गया सा पापनाशिनी ।।

भूमिं निर्भिद्य तिस्रोपि पातालात्सहसोत्थिताः ।। २४ ।।

मानुषं रूपमास्थाय सयुग्वानमुपेत्य च ।।

ऊचुः परमसंहृष्टा हर्षयंत्यश्च तं मुनिम् ।। २५ ।।

सयुग्वन्रैक्व भद्रं ते ध्यानादस्मादुपारम ।।

त्वन्मंत्रेण समाकृष्टा वयमत्र समागताः ।। २६ ।।

कि कर्तव्यं तवास्माभिस्तद्वदस्व मुनीश्वर ।।

इति तासां वचः श्रुत्वा सयुग्वान्हि महामुनिः ।। २७ ।।

ध्यानादुपारमत्तूर्णं ताश्चापश्यत्पुरः स्थिताः ।।

स ताः संपूज्य विधिवद्रैक्वो वाचमभाषत ।। २८ ।।

यमुने देवि हे गंगे हे गये पापनाशिनि ।।

सन्निधानं कुरुध्वं मे गन्धमादनपर्वते ।। २९ ।।

यत्र भूमिं विनिर्भिद्य भवत्य इह निर्गताः ।।

तानि पुण्यानि तीर्थानि भवेयुर्वोऽभिधानतः ।। 3.1.26.३० ।।

सहसांतरधीयंत तथास्त्वित्येव तत्र ताः ।।

तदाप्रभृति तीर्थानि तानि त्रीण्यपि भूतले ।। ३१ ।।

तेनतेनाभिधानेन गीयन्ते सर्वदा जनैः ।।

यत्र भूमिं विनिर्भिद्य यमुना निर्गता तदा ।। ३२ ।।

यमुनातीर्थमिति वै तज्जनैरभिधीयते ।।

यतो वै पृथिवीरंध्राज्जाह्नवी सहसोत्थिता ।। ३३ ।।

गंगातीर्थमिति ख्यातं तल्लोके पापनाशनम् ।।

गया हि मानुषं रूपं यत आस्थाय निर्ययौ ।। ३४ ।।

तदेव भूमिविवरं गयातीर्थं प्रचक्षते ।।

एवमेतन्महापुण्यं तीर्थत्रयमनुत्तमम् ।। ३५ ।।

रैक्वमंत्रप्रभावेण पृथिव्याः सहसोत्थितम् ।।

अत्र तीर्थत्रये स्नानं ये कुर्वंति नरोत्तमाः ।। ३६ ।।

तेषामज्ञाननाशः स्याज्ज्ञानमप्युदयं लभेत् ।।

स्वमंत्रेण समाकृष्टे तत्र तीर्थत्रये मुनिः ।। ३७ ।।

स्नानं समाचरन्नित्यं स कालानत्यवाहयत् ।।

एतस्मिन्नेव काले तु राजा जानश्रुतिर्महान् ।। ३८ ।।

पुत्रसंज्ञस्य राजर्षेः पौत्रो धर्मैकतत्परः ।।

देयमन्नादि स तदा ह्यर्थिभ्यः श्रद्धयैव यत् ।। ३९ ।।

तस्मादेनं नजालोके श्रद्धादेयं प्रचक्षते ।।

यतो बहुतरं वाक्यमन्नाद्यस्य महीपतेः ।।3.1.26.४० ।।

अर्थिनां क्षुधितानां तु तृप्त्यर्थं वर्तते गृहे ।।

अतोयमर्थिभिः सर्वैर्बहुवाक्य इतीर्यते ।।४१।।

स वै पौत्रायणो राजा जानश्रुतसुतो बली ।।

प्रियातिथिर्बभूवासौ बहुदायी तथाऽभवत् ।। ४२ ।।

नगरेषु च राष्ट्रेषु ग्रामेषु च वनेषु च ।।

चतुष्पथेषु सर्वेषु महामार्गेषु सर्वशः ।। ४३ ।।

बह्वन्नपान संयुक्तं सूपशाकादिसंयुतम् ।।

आतिथ्यं कल्पयामास तृप्तयेऽर्थिजनस्य वै ।।४४।।

अन्नपानादिकं सर्वमुपयुड्ध्वमिहार्थिनः ।।

इत्यसौ घोषयामास तत्र तत्र जनास्पदे ।।४५।।

तस्य प्रियातिथेरेव नृपस्य बहुदायिनः ।।

अर्थिभ्यो दानशौंडस्य गुणाः सर्वत्र विश्रुताः ।।४६।।

अथ पौत्रायणस्यास्य गुण ग्रामेण वर्ततः ।।

देवर्षयो महाभागास्तस्यानुग्रहकांक्षिणः ।। ४७ ।।

हंसरूपं समास्थाय निदाघसमये निशि ।।

रमणीयां विधायाशु श्रेणीमाकाशमागतः ।। ४९ ।।

सौधवातायनस्थस्य तस्योपरि महीपतेः ।।

उड्डीयोड्डीय वेगेन तरसा जग्मुरुच्चकैः ।। ४९ ।।

तरसा पततां तेषां हंसानां पृष्ठतो व्रजन् ।।

एको हंसस्तु संबोध्य हंसमग्रेसरं तदा ।। 3.1.26.५० ।।

सोपहासमिदं वाक्यं प्राह शृण्वति राजनि ।।

भोभो भल्लाक्ष भल्लाक्ष पुरो गच्छन्मरालक ।। ५१ ।।

सौधमध्ये पुरस्ताद्वै जानश्रुतसुतो नृपः ।।

वर्तते पूजनीयोऽयं न पश्यसि किमंधवत् ।। ५२ ।।

यस्य तेजो दुराधर्षमाब्रह्म भवनादिदम् ।।

अनंतादित्यसंकाशं ज्वलते पुरतो भृशम् ।। ५३ ।।

तमतिक्रम्य राजर्षिं मा गास्त्वमुपरि द्रुतम् ।।

यदि गच्छसि तत्तेजस्सांप्रतं त्वां प्रधक्ष्यति ।। ५४ ।।

इत्युक्तवंतं तं हंसमग्रतः प्रत्यभाषत ।।

अहो भवानभिज्ञोऽसि श्लाघनीयोऽसि सूरिभिः ।। ५५ ।।

अश्लाघनीयं कितवं यत्त्वमेनं प्रशंससे ।।

प्रशंससे किमर्थं त्वमल्पं संतमिमं जनम् ।। ५६ ।।

भस्रावत्पशुवच्चैव केवलं श्वासधारिणम् ।।

न ह्ययं वेत्ति धर्माणां रहस्यं पृथिवी पतिः ।। ५७ ।।

तत्त्वज्ञानी यथा रैक्वः सयुग्वान्ब्राह्मणोत्तमः ।।

रैक्वस्य हि महज्ज्योतीरहस्यं दैवतैरपि ।। ५८ ।।

न ह्यस्य प्राणमात्रस्य तेजस्तादृशमस्ति वै ।।

रैक्वस्य पुण्यराशीनामियत्ता नैव विद्यते ।। ५९ ।।

गण्यते पांसवो भूमेर्गण्यंते दिवि तारकाः ।।

रैक्वपुण्यमहामेरुसमूहो नैव गण्यते ।। ।। 3.1.26.६० ।।

किं च तिष्ठंत्विमे धर्मा नश्वरास्तस्य वै मुनेः ।।

ब्रह्मज्ञानमबाध्यं यत्तेन स श्लाघ्यते मुनिः ।। ६१ ।।

जानश्रुतेस्तु तादृक्षो धर्म एव न विद्यते ।।

दुर्लभं यत्तु योगीन्द्रैः कुतस्तज्ज्ञानवैभवम् ।। ०६२ ।।

परित्यज्य दुरात्मानं तद्वराकमिमं जनम् ।।

स एव रैक्वः सयुग्वाञ्छ्लाघ्यतां भवता मुनिः ।। ६३ ।।

जन्मना पंगुरपि यः स्वस्य स्नानचिकीर्षया ।।

गंगां च यमुनां चापि गयामपि मुनीश्वरः ।। ६४ ।।

आह्वयामास मन्त्रेण निजाश्रमसमीपतः ।।

तस्य ब्रह्मविदो रैक्वमहर्षेर्धर्मसंचये ।। ६५ ।।

अंतर्भवंति धर्मौघास्त्रैलोक्योदरवर्तिनाम् ।।

रैक्वस्य धर्मकक्षा तु न हि त्रैलोक्यवर्तिनाम् ।। ६६ ।।

प्राणिनां धर्मकक्षायामन्तर्भवति कर्हिचित ।।

एवमग्रेसरे हंसे कथित्वोपरते सति ।। ६७ ।।

हंसरूपा मुनींद्रास्ते ब्रह्मलोकं ययुः पुनः ।।

अथ पौत्रायणो राजा जानश्रुतिररिंदमः ।। ६८ ।।

रैक्वं चोत्कर्षकाष्ठायां निशम्य परमावधिम् ।।

विषण्णोऽभवदत्यर्थं वराकोऽक्षजितो यथा ।। ६९ ।।

चिंतयामास स नृपः पौनःपुन्येन निःश्वसन् ।।

हंस उत्कर्षयन्रैक्वं निकृष्टं मामिहाब्रवीत् ।। 3.1.26.७० ।।

अहो रैक्वस्य माहात्म्यं यं प्रशंसंति पक्षिणः ।।

तत्परित्यज्य संसारं सर्वं राज्यमिहाधुना ।। ७१ ।।

सयुग्वानं महात्मानं तमेव शरणं व्रजे ।।

कृपानिधिः स वै रैक्वः शरणं मामुपागतम् ।। ७२ ।।

प्रतिगृह्यात्मविज्ञानं मह्यं समुपदेक्ष्यति ।।

इत्यसौ चिंतयन्नेव कथंकथमपि द्विजाः ।। ७३ ।।

जाग्रन्नेवायमुद्वेलां रात्रिं तामत्यवाहयत् ।।

निशावसाने संप्राप्ते बंदिवृन्दप्रवर्तितम् ।। ७४ ।।

अशृणोन्मंगलरवं तूर्यघोषसमन्वितम् ।।

तदाकर्ण्य महाराजस्तदा तल्पस्थ एव सन् ।। ७५ ।।

सारथिं शीघ्रमाहूय बभाषे सादरं वचः ।।

सारथे सत्वरं गत्वा रथमारुह्य वेगवत् ।। ७६ ।।

आश्रमेषु महर्षीणां पुण्येषु विपिनेषु च ।।

विविक्तेषु प्रदेशेषु सतामावासभूमिषु ।। ७७ ।।

तीर्थानां च नदीनां च कूलेषु पुलिनेषु च ।।

अन्येषु च प्रदेशेषु यत्र संति मुनीश्वराः ।। ।। ७८ ।।

तेषु सर्वेषु योगींद्रं पंगुं शकटसंस्थितम् ।।

रैक्वाभिधानं सर्वेषां धर्माणामेकसंश्रयम् ।। ७९ ।।

ब्रह्मज्ञानैकनिलयं सयुग्वानं गवेषय ।।

अन्विष्य तूर्णं मत्प्रीत्यै पुनरागच्छ सारथे ।। 3.1.26.८० ।।

स तथेति विनिर्गत्य वेगवद्रथसंस्थितः ।।

सर्वत्रान्वेषयामास रैक्वं ब्रह्मविदं मुनिम् ।। ८१ ।।

गुहासु पर्वतानां च मुनीनामाश्रमेषु च ।।

संचचार महीं कृत्स्नां तत्र तत्र गवेषयन् ।। ८२ ।।

अन्विष्य विविधान्देशान्सारथिस्त्वरया सह ।।

क्रमान्महर्षिसंबाधं गंधमादनमन्वगात् ।। ८३ ।।

मार्गमाणः स तत्रापि तं ददर्श मुनीश्वरम् ।।

कंडूयमानं पामानं शकटीयस्थलस्थितम् ।। ८४ ।।

अद्वैतनिष्कलं ब्रह्म चिंतयंतं निरन्तरम् ।।

तं दृष्ट्वा सारथिस्तत्र सयुग्वानं महामुनिम् ।। ८५ ।।

रैक्वोऽयमिति संचिंत्य तमासाद्य प्रणम्य च ।।

विनयान्मुनिमप्राक्षीदुपविश्य तदन्तिके ।। ८६ ।।

सयुग्वान्रैक्वनामा च ब्रह्मन्किं वै भवानिति ।।

तस्य वाक्यं समाकर्ण्य स मुनिः प्रत्यभाषत ।। ८७ ।।

अहमेव सयुग्वान्वै रैक्वनामेति वै तदा ।।

इत्याकर्ण्य मुने र्वाक्यमिंगितैर्बहुभिस्तथा ।। ८८ ।।

कुटुम्बभरणार्थाय धनेच्छामवगम्य च ।।

सर्वं न्यवेदयद्राज्ञे निवृत्तो गंधमादनात् ।। ८९ ।।

जानश्रुतिर्निशम्याथ सारथेर्वाक्यमादरात् ।।

षट्शतानि गवां चापि निष्कभारं धनस्य च ।। 3.1.26.९० ।।

रथं चाश्वतरीयुक्तं समादाय त्वरान्वितः ।।

पौत्रायणः स राजर्षिस्तं रैक्वं प्रतिचक्रमे ।। ९१ ।।

गत्वा च वचनं प्राह तं रैक्वं स महीपतिः ।।

भगवन्रैक्व सयुग्वन्मद्दत्तं प्रतिगृह्यताम् ।। ९२ ।।

षट्शतानि गवां चापि निष्कभारं धनस्य च ।।

रथं चाश्वतरीयुक्तं प्रतिगृह्णीष्व मामकम् ।। ९३ ।।

गृहीत्वा सवमेतत्तु भो ब्रह्मन्ननुशाधि माम् ।।

अद्वैतब्रह्मविज्ञानं मह्यं समुपदिश्यताम् ।। ९४ ।।

इति तस्य वचः श्रुत्वा सस्पृहं च ससंभ्रम् ।।

रैक्वः प्रत्याह सयुग्वाञ्जानश्रुतिमरिंदमम् ।। ।। ९५ ।।

।। रैक्व उवाच ।। ।।

एता गावस्तवैवास्तु निष्कभारस्तथा रथः ।।

किमल्पेन ममानेन बहुकल्पेषु जीवतः ।। ९६ ।।

न मे कुटुंब निर्वाहे पर्याप्तमिदमंजसा ।।

एवं शतगुणं चापि यदि दत्तं त्वया मम ।। ९७ ।।

नालं तदपि राजेंद्र कुटुंबभरणाय वै ।।

इति रैक्ववचः श्रुत्वा जानश्रुतिरभाषत ।। ९८ ।।

।। जानश्रुतिरुवाच ।। ।।

त्वयोपदिश्यमानस्य ब्रह्मज्ञानस्य वै मुने ।।

न हि मूल्यमिदं ब्रह्मन्गोधनं रथ एव च ।। ।। ९९ ।।

प्रतिगृह्णीष्व वा मा वा ममैतत्तु गवादिकम् ।।

निष्कलाद्वैतविज्ञानं ब्रह्मन्नुपदिशस्व मे ।।

तदाकर्ण्य वचस्तस्य सयुग्वान्वाक्यमब्रवीत् ।। 3.1.26.१०० ।।

।। रैक्व उवाच ।। ।।

निर्वेदो यस्य संसारे तथा वै पुण्यपापयोः ।। १०१ ।।

प्रारब्धयोर्विनाशश्च स वै ज्ञानोपदेशभाक् ।।

तव यद्यपि संसारे निर्वेदः समजायत ।। २ ।।

तथापि पुण्यपापानां न हि नाशो व्याजयत ।।

पुण्यपापौघसंघाश्च पुनर्जन्मनि हेतवः ।। ३ ।।

न हि भोगं विना तेषां नाशो भवति भूपते ।।

तन्नाशोपायमद्याहं तथापि प्रब्रवीमि ते ।। ४ ।।

यतो मां शरणं प्राप्तस्तच्छृणुष्व समाहितः ।।

अत्र तीर्थत्रयं पुण्यं वर्ततेऽभीष्टदायकम् ।। ५ ।।

मुमुक्षूणां हि सर्वेषां सर्वप्रारब्धनाशनम् ।।

एतद्धि यमुनातीर्थं गंगातीर्थं तथैव च ।। ६ ।।

गयातीर्थमिदं चापि तदेषु स्नाहि मा चिरम् ।।

सर्वप्रारब्धनाशः स्यात्तदा नैवात्र संशयः ।। ७ ।।

ततस्ते शुद्धचित्तस्य ज्ञानं चैव दिशाम्यहम् ।।

इत्युक्ते रैक्वमुनिना हर्षसंफुल्ललोचनः ।। ८ ।।

ससंभ्रममुपागम्य सस्नौ तीर्थत्रयेऽपि सः ।।

तत्तीर्थस्नानमात्रेण शुद्धचित्तोऽभवन्नृपः ।। ९ ।।

उपातिष्ठत राजासौ सयुग्वानं गुरुं पुनः ।।

सयुग्वा स च रैक्वोऽपि मुनींद्रैरपि दुर्लभम् ।। 3.1.26.११० ।।

तज्जानश्रुतये ज्ञानं कृपया समुपादिशत् ।।

तेनोपदिष्टमात्रे तु विज्ञाने ब्रह्मरूपिणि ।। ११ ।।

अबाधितानुभववानभवद्राजसत्तमः ।।

ब्रह्मरूपं गतस्यास्य प्रसादाद्रैक्वयोगिनः ।। १२ ।।

घटकुड्यकुसूलात्मा न प्रपंचस्समस्फुरत् ।।

निर्भिद्य सहसा मायामभूद्ब्रह्मैव केवलम् ।। १३ ।।

इत्थं तीर्थत्रये स्नानाज्जानश्रुतिरहो नृपः ।।

दुर्लभं योगिवृंदैश्च ब्रह्मभूयत्वमाप्तवान् ।। १४ ।।

एवं वः कथितं विप्रास्तत्तीर्थत्रयवैभवम् ।।

यस्त्विमं पठतेऽध्यायं तीर्थत्रितयवैभवम् ।। १५ ।।

निर्भिद्याज्ञानतिमिरं ब्रह्मभूयाय कल्पते ।। ११६ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये यमुनागंगागयातीर्थप्रशंसायां जानश्रुति ज्ञानावाप्तिवर्णनंनाम षड्विंशोऽध्यायः ।। २६ ।। ।। ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 27

।। श्रीसूत उवाच ।। ।।

यमुनायां च गंगायां गयायां च नरो मुदा ।।

स्नानं विधाय विधिवत्कोटितीर्थं ततो व्रजेत् ।। १ ।।

कोटितीर्थं महापुण्यं सर्वलोकेषु विश्रुतम् ।।

सर्वसंपत्करं शुद्धं सर्वपापप्रणाशनम् ।। २ ।।

दुःस्वप्ननाशनं ह्येतन्महापातकनाशनम् ।।

महाविघ्नप्रशमनं महाशांतिकरं नृणाम् ।। ३ ।।

स्मृतिमात्रेण यत्पुंसां सर्वपापनिषूदनम् ।।

लीलया धनुषः कोट्या स्वयं रामेण निर्मितम् ।। ४ ।।

पुरा दाशरथी रामो निहत्य युधि रावणम् ।।

ब्रह्महत्याविमोक्षाय गंधमादनपर्वते ।। ५ ।।

प्रातिष्ठिपल्लिंगमेकं लोकानुग्रहकाम्यया ।।

लिंगस्यास्याभिषेकाय शुद्धं वारि गवेषयन् ।। ६ ।।

नाविंदत जलं तत्र पार्श्वे दशरथात्मजः ।।

लिंगाभिषेकयोग्यं च जलं किमिति चिंतयन् ।। ७ ।।

नवेन वारिणा लिंगं स्नापनीयं मयेति सः ।।

निश्चित्य मनसा तत्र धनुष्कोट्या रघूद्वहः ।। ८ ।।

बिभेद धरणीं शीघ्रं मनसा जाह्नवीं स्मरन् ।।

रामकार्मुककोटिः सा तदा प्राप रसातलम् ।। ९ ।।

तत उद्धारयामास तद्धनुर्धन्विनां वरः ।।

धनुष्युद्ध्रियमाणे तु राघवेण महीतलात् ।। 3.1.27.१० ।।

काकुत्स्थेन स्मृता गंगा निर्ययौ विवरात्ततः ।।

वारिणा तेन तल्लिंगमभ्यषिंचद्रघूद्वहः ।। ११ ।।

रामकार्मु ककोट्यैव यतस्तन्निर्मितं पुरा ।।

अतः कोटिरिति ख्यातं तत्तीर्थं भुवनत्रये ।। १२ ।।

यानि यानीह तीर्थानि संति वै गंधमादने ।।

प्रथमं तेषु तीर्थेषु स्नात्वा विगतकल्मषः ।। १३ ।।

शेषपापविमोक्षाय स्नायात्कोटौ नरस्ततः ।।

तीर्थांतरेषु स्नानेन यः पापौघो न नश्यति ।। १४ ।।

अनेकजन्मकोटीभिरर्जितो ह्यस्थिसंस्थितः ।।

विनश्यति स सर्वोऽपि कोटिस्नानान्न संशयः ।। १५ ।।

यदि हि प्रथमं स्नायादत्र कोटौ नरो द्विजाः ।।

तस्य मुक्तस्य तीर्थानि व्यर्थान्येवापराणि हि ।। १६ ।।

।। ऋषय ऊचुः ।। ।।

सूत सर्वार्थतत्त्वज्ञ व्यासशिष्य मुनीश्वर ।।

अस्माकं संशयं कंचिच्छिंधि पौराणिकोत्तम ।। १७ ।।

कोटौ स्नातस्य मर्त्यस्य यदि तीर्थांतरं वृथा ।।

किमर्थं धर्मतीर्थादि तीर्थेषु स्नांति मानवाः ।।१८।।

तीर्थानि तानि सर्वाणि समतिक्रम्य मानवाः।।

अत्रैव कोटौ किं स्नानं न कुर्वंति हि तद्वद ।। १९ ।।

।। श्रीसूत उवाच ।। ।।

अहो रहस्यं युष्माभिः पृष्टमेतन्मुनीश्वराः ।।

नारदाय पुरा शंभुः पृच्छते यत्किलाब्रवीत् ।। 3.1.27.२० ।।

तद्ब्रवीमि मुनिश्रेष्ठाः शृणुध्वं श्रद्धया सह ।।

गच्छन्यदृच्छया वापि तीर्थयात्रापरोऽपि वा ।। २१ ।।

मार्गमध्ये द्विजश्रेष्ठास्तीर्थं देवालयं तथा ।।

दृष्ट्वा श्रुत्वापि वा मोहान्न सेवेत नराधमः ।। २२ ।।

निष्कृतिस्तस्य नास्तीति प्राब्रुवन्परमर्षयः ।।

सेतुं गच्छंस्ततोऽन्येषु न स्नायाद्यदि मानवः ।। २३ ।।

तीर्थातिक्रमदोषैः स बहिष्कार्योऽत्यवद्द्विजैः ।।

अतः स्नातव्यमेवैषु चक्रतीर्थादिषु द्विजाः ।। २४ ।।

स्नात्वा चैतेषु तीर्थेषु शेषपापविमुक्तये ।।

प्रयतैर्मनुजैरत्र स्नातव्यं कोटितीर्थके ।। २५ ।।

कोटौ चाभि षवं कृत्वा न तिष्ठेद्गन्धमादने ।।

निवर्तेत्तत्क्षणादेव निष्पापो गंधमादनात् ।। २६ ।।

रामोऽपि हि पुरा कोटितीर्थसंभूतवारिणा ।।

रामनाथेऽभिषिक्ते तु स्वयं स्नात्वा च तत्र वै ।। २७ ।।

ब्रह्महत्याविमुक्तः संस्तत्क्षणादेव सानुजः ।।

आरूढपुष्पकोऽयोध्यां प्रययौ कपिभिर्वृतः ।। २८ ।।

अतः कोटौ नरः स्नात्वा पापशेषविमोचितः ।।

निवर्तेत्तत्क्षणादेव रामो दाशरथिर्यथा ।। २९ ।।

एतद्धि तीर्थप्रवरं सर्वलोकेषु विश्रुतम् ।।

रामनाथाभिषेकाय निर्मितं राघवेण यत् ।। 3.1.27.३० ।।

स्वयं भगवती यत्र सन्निधत्ते च जाह्नवी ।।

तारकब्रह्मणा यत्र रामेण स्नातमादरात् ।। ३१ ।।

तस्य वै कोटितीर्थस्य महिमा केन कथ्यताम् ।।

यत्र स्नात्वा पुरा कृष्णो लोकसंग्रहणेच्छया ।। ३२ ।।

मातुलस्य तु कंसस्य वधदोषाद्विमोचितः ।।

तस्य वै कोटितीर्थस्य महिमा केन कथ्यते ।। ३३ ।।

।। ऋषय ऊचुः ।। ।।

किमर्थमवधीत्कंसं मातुलं यदुनंदनः ।।

यद्दोषशांतये सूत सस्नौ कोटौ महा मनाः ।। ३४ ।।

।। श्रीसूत उवाच ।। ।।

वसुदेव इति ख्यातः शूरपुत्रो यदोः कुले ।।

आसीत्स देवकसुतां देवकीमिति विश्रुताम् ।। ३५ ।।

उद्वाह्य रथमारूढः स्वपुरं प्रस्थितः पुरा ।।

अथ सूतो बभूवाथ कंसो ह्यानकदुन्दुभेः ।। ३६ ।।

अशरीरा तदा वाणी कंसं सारथिमब्रवीत् ।।

भगिनीं च तथा भामं वाहयंतं रथोत्तमे ।। ३७ ।।

यामिमां वाहयस्यत्र रथेन त्वमरिंदम ।।

अस्यास्त्वामष्टमो गर्भो वधिष्यति न संशयः ।। ३८ ।।

इत्याकर्ण्य वचो दिव्यं कंसः खङ्गं प्रगृह्य च ।।

स्वसारं हंतुमुद्योगं चकार द्विजपुंगवाः ।। ३९ ।।

ततः प्रोवाच तं कंसं वसुदेवः स सांत्वयन् ।। ।।

।। वसुदेव उवाच ।। ।।

अस्यां प्रसूतान्दास्यामि तुभ्यं कंस सुतानहम् ।। 3.1.27.४० ।।

एनां स्वसारं मा हिंसीर्नास्यास्ते भीतिरस्ति हि ।।

श्रुत्वा तद्वचनं कंसो निवृत्तस्तद्वधात्तदा ।। ४१ ।।

देवकीवसुदेवाभ्यां सहितः स्वपुरं ययौ ।।

पादावसक्तनिगडौ देवकीवसुदेवकौ ।। ४२ ।।

स्थापयामास दुष्टात्मा कंसः कारागृहे तदा ।।

ततः कालेन महता वसुदेवाद्धि देवकी ।। ४३ ।।

षट्पुत्राञ्जनयामास क्रमेण मुनिपुंगवाः ।।

जातांस्तान्वसुदेवेन दत्तान्कंसोऽपि सोऽवधीत् ।। ४४ ।।

हतेषु षटसु पुत्रेषु देवक्युदरजन्मसु ।।

कंसेन क्रूरमतिना निष्कृपेण द्विजोत्तमाः ।। ४५ ।।

शेषोऽभूत्सप्तमो गर्भो देवक्या जठरे तदा ।।

मायादेवी ततो गर्भं तं वै विष्णुप्रचोदिता ।। ४६ ।।

नंदगोपगृहस्थायां रोहिण्यां समवेशयत् ।।

देवक्याः सप्तमो गर्भः पतितो जठरादिति ।। ४७ ।।

लोके प्रसिद्धिरभवन्महती विष्णुलीलया ।।

देवकीजठरे पश्चाद्विष्णुर्गर्भत्वमाप्तवान् ।। ४८ ।।

ततो दशसु मासेषु गतेषु हरिरव्ययः ।।

देवकीजठराज्जज्ञे कृष्ण इत्यभिविश्रुतः ।। ४९ ।।

शंखचक्रगदाखङ्गविराजितचतुर्भुजः ।।

किरीटी वनमाली च पित्रोः शोकविनाशनः ।। 3.1.27.५० ।।

तं दृष्ट्वा हरिमीशानं तुष्टावानकदुंदुभिः ।। ५१ ।।

।। वसुदेव उवाच ।। ।।

विश्वं भवा न्विश्वपतिस्त्वमेव विश्वस्य योनिस्त्वयि विश्वमास्ते ।।

महान्प्रधानश्च विराट स्वराड् च सम्राडसि त्वं भगवन्समस्तम् ।। ५२ ।।

एवं जगत्कारणभूतधाम्ने नारायणायामितविक्रमाय ।।

श्रीशार्ङ्गचक्रासिगदाधराय नमोनमः कृत्रिममानुषाय ।। ५३ ।।

स्तुवन्तमेवं शौरिं तं वसुदेवं हरिस्तदा ।।

अवोचत्प्रीणयंस्तं च देवकीं च द्विजोत्तमाः ।। ५४ ।।

।। हरिरुवाच ।। ।।

अहं कंसं वधिष्यामि मा भीर्वां पितराविति ।।

नन्दगोपस्य गृहिणी यशोदाऽजनयत्सुताम् ।।

मम मायां पूर्वदिने सर्वलोकविमोहिनीम् ।। ५५ ।।

मां तस्याः शयने न्यस्य यशोदायाः सुता तु ताम्।।

आदाय देवकीशय्यां प्रापयस्व यदूत्तम ।। ५६ ।।

एवमुक्तः स कृष्णेन तथैव ह्यकरोद्द्विजाः ।।

रुरोद माया तनया देवकीशयनेस्थिता ।। ५७ ।।

अथ बालध्वनिं श्रुत्वा कंसः संकुलमानसः ।।

सूतिकागृहमागम्य तामादाय च दारिकाम्।।५८।।

शिलायां पोथयामास निर्दयो निरपत्रपः ।।

अथ तद्धस्तमाच्छिद्य सायुधाष्टमहाभुजा ।।

महादेव्यब्रवीत्कंसं समाहूयातिकोपना ।। ५९ ।।

।। मायोवाच ।। ।।

अरे रे कंस पापात्मन्दुर्बुद्धे मूढचेतन ।। 3.1.27.६० ।।

यत्र कुत्रापि शत्रुस्ते वर्तते प्राणहारकः ।।

मार्गयस्वात्मनो मृत्युं तं शत्रुं कंस मा चिरम् ।। ६१ ।।

इतीरयित्वा सा देवी दिव्यस्थानान्यवाप्य च ।।

लब्धपूजा मनुष्येभ्यो बभूवाभीष्टदायिनी ।। ६२ ।।

श्रुत्वा स देवीवचनं कंसो ऽपि भृशमाकुलः ।।

बालग्रहान्पूतनादीन्स्वांतकं बाधितुं रिपुम् ।। ६३ ।।

प्रेषयामास देशेषु शिशूनन्यांश्च बाधितुम्।।

ते च बालग्रहाः सर्वे प्रययु र्नंदगोकुलम् ।। ६४ ।।

हताश्च कृष्णेन तदा प्रययुर्यमसादनम् ।।

ततः कतिपयाहस्सु गतेषु द्विजपुंगवाः ।। ६५ ।।

रामकृष्णौ व्यवर्द्धेतां गोकुले बालकौ तदा ।।

अनेकबालक्रीडाभिश्चिक्रीडतुररिंदमौ ।। ६६ ।।

कंचित्कालं वत्सपालौ वेणुनादमकुर्वताम् ।।

कंचित्कालं च गोपालौ गुंजातापि च्छभूषितौ ।। ६७ ।।

रेमाते बहुकालं तौ गोकुले रामकेशवौ ।।

कंसः कदाचिदक्रूरं गोकुले रामकेशवौ ।। ६८ ।।

प्रेषयामास विप्रेंद्राः समानयितुमं जसा ।।

आनयामास चाक्रूरो रामकृष्णौ स गोकुलात् ।। ६९ ।।

मथुरां कंसनिर्देशात्स्वर्णतोरणराजिताम् ।।3.1.27.७०।।

ततः समानीय स रामकेशवौ ययौ पुरीं गांदिनिजस्तदग्रे ।।

दृष्ट्वा च कंसं विनिवेद्य कार्यं तस्मै स्वगेहं प्रविवेश पश्चात् ।।७१।।

अथापराह्णे वसुदेवपुत्रावन्येद्युरिष्टैः सह गोपपुत्रैः ।।

उपेयतुः सालनिखातयुक्तां संगोपुराट्टां मधुरापुरीं तौ ।। ७२ ।।

स्तोत्राणि शृण्वन्पुरयौवतानां कृष्णस्तु रामेण सहैव गत्वा ।।

धनुर्निवेशं सह सैव तत्र ददर्श चापं च महदृढज्यम् ।। ७३ ।।

विद्राव्य सर्वानपि चापपालान्धनुः समादाय स लीलयाऽऽशु ।।

मौर्व्यां नियोक्तुं नमयांचकार तदं तरे भग्नमभूद्विधैव ।। ७४ ।।

कोदंडभंगोत्थितशब्दमाशु श्रुत्वाभियातान्बलिनो निहंतुम् ।।

निजघ्नतुस्तौ प्रतिगृह्य खंडौ चापस्य पालान्बलिनौ द्विजेंद्रा ।। ७५ ।।

ततः कुवलयापीडं गजं द्वारि स्थितं क्षणात् ।।

निहत्य रामकृष्णौ तौ महाबलपराक्रमौ ।। ७६ ।।

तस्य दंतौ समुत्पाट्य दधानौ करयोर्द्वयोः ।।

अंसे निधाय तौ दंतौ रंगं प्रययतुः क्षणात् ।। ७७ ।।

निहत्य मल्लं चाणूरं मुष्टिकं तोशलं तथा ।।

अन्यांश्च मल्लप्रवरान्निन्यतुर्यमसा दनम् ।।७८।।

समारुरुहतुस्तूर्णं तुंगं मंचं च तौ तदा ।।

तत्र तुंगे समासीनमासने कंसमेत्य तौ ।।

तस्थतुस्तं तृणीकृत्य सिंहौ क्षुद्रमृगं यथा ।।७९।।

ततः कंसं समाकृष्य कृष्णो मंचोपरि स्थितम् ।।

पादौ गृहीत्वा वेगेन भ्रामयामास चांबरे ।। 3.1.27.८० ।।

ततस्तं पोथयामास स भूमौ गत जीवितम् ।।

कंसभ्रातॄन्बलोऽप्यष्टौ निजघ्ने मुष्टिना द्विजाः ।। ८१ ।।

एवं निहत्य तं कंसं कृष्णः परबलार्दनः ।।

पितरौ मोचयामास निगडादति दुःखितौ ।। ८२ ।।

सर्वानास्थापयामास बलेन सह माधवः ।।

श्रीकृष्णेन हतं कंसं श्रुत्वा प्रापुः पुरीं तदा ।। ८३ ।।

बांधवा मथुरायां ये पूर्वं कंसे न बाधिताः ।।

उग्रसेनं तथा राज्ये स्थापयामास केशवः ।। ८४ ।।

असहिष्णुर्द्विजाः पित्रोरेवं कंसकृतागसम् ।।

जघान मातुलं कंसं देवब्राह्मणकंट कम् ।। ८५ ।।

ततः कदाचिकृष्णोऽयमात्मानं द्रष्टुमागतान् ।।

नारदादीन्मुनीन्सर्वानिदं पप्रच्छ सत्तमः ।। ८६ ।।

।। श्रीकृष्ण उवाच ।। ।।

मयाऽयं मातुलो विप्रा हतः कंसोऽतिपापकृत् ।।

मातुलस्य वधे दोषः प्रोच्यते शास्त्रवित्तमैः।। ८७ ।।

प्रायश्चित्तमतो ब्रूत तद्दोषविनिवृत्तये ।।

अवोचन्नारदस्तत्र कृष्णमद्भुतविक्रमम् ।।

वाचा मधुरया विप्रा भक्तिप्रणयपूर्वकम् ।। ८८ ।।

।। नारद उवाच ।। ।।

नित्यशुद्धश्च मुक्तश्च भद्रश्चैव भवा न्सदा ।। ८९ ।।

सच्चिदानंदरूपश्च परमात्मा सनातनः ।।

पुण्यं पापं च ते नास्ति कृष्ण यादवनंदन ।। 3.1.27.९० ।।

तथापि लोकशिक्षार्थं भवता गरु डध्वज ।।

प्रायश्चित्तं तु कर्तव्यं विधिनानेन माधव ।। ९१ ।।

लोकसंग्रहणं तावत्कर्तव्यं भवताधुना ।।

रामसेतौ महापुण्ये गंधमादनपर्वते ।। ९२ ।।

रामेण स्थापितं लिंगं रामनाथाभिधं पुरा ।।

तस्याभिषेकतोयार्थं धनुष्कोट्या रघूद्वहः ।। ९३ ।।

गां भित्त्वोत्पादयामास तीर्थं कोटीति विश्रुतम् ।।

तव पूर्वावतारेण रामेणाक्लिष्टकर्मणा ।। ९४ ।।

ब्रह्महत्याविशुद्ध्यर्थं निर्मितं स्वयमेव यत् ।।

तत्र स्नानं कुरुष्व त्वं धर्म्ये पापविनाशने ।। ९५ ।।

तेन ते मातुलवधाद्दोषः शीघ्रं विनंक्ष्यति ।।

कोटितीर्थे हरेः स्नानं ब्रह्महत्यादिशोधकम् ।। ९६ ।।

स्वर्गमोक्षप्रदं पुंसामायुरारोग्यवर्धनम् ।।

इति श्रुत्वा मुनेर्वाक्यं नारदस्य स माधवः ।। ९७ ।।

विसृज्य तानृषीन्सर्वांस्तस्मिन्नेव क्षणे द्विजाः ।।

रामसेतौ ययौ तूर्णं स्वदोषपरि शुद्धये ।। ९८ ।।

दिनैः कतिपयैर्गत्वा कोटितीर्थं यदूद्वहः ।।

स्नात्वा संकल्पपूर्वं च दत्त्वा दानान्यनेकशः ।। ९९ ।।

स मातुलवधोत्पन्नदोषेभ्यो मुमु चे क्षणात् ।।

निषेव्य रामनाथं च स्वपुरं मथुरां ययौ ।। 3.1.27.१०० ।।

।। श्रीसूत उवाच ।। ।।

एवं प्रभावं पुण्यं च कोटितीर्थं मुनीश्वराः ।।

ब्रह्महत्यादिभिः पापैः सद्यो मुच्येत मानवः ।।

नानेन सदृशं तीर्थमन्यदस्ति महीतले ।। १ ।।

अत्र स्नानात्त्रयो देवा ब्रह्मविष्णुशिवा द्विजाः ।।

प्रीताः स्युरन्ये देवाश्च नात्र कार्या विचारणा ।। २ ।।

एवं वः कथितं चित्रं कोटितीर्थस्य वैभवम् ।।

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ।। ३ ।।

श्रुत्वेमं पुण्यमध्यायं पठित्वा च मुनीश्वराः ।।

ब्रह्महत्यादिभिः सत्यं मुच्यते पातकैर्नरः ।। १०४ ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये कोटितीर्थप्रशंसायां कृष्णस्य मातुलवधदोषशांतिवर्णनंनाम सप्तविंशोऽध्यायः ।। २७ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 28

।। श्रीसूत उवाच ।। ।।

कोटितीर्थं महापुण्यं सेवित्वा केवलं नरः ।।

स्नातुं जितेंद्रियस्तीर्थं ततः साध्यामृतं व्रजेत् ।। १ ।।

साध्यामृतं महातीर्थ महापुण्यफलप्रदम् ।।

महादुःखप्रशमनं गन्धमादनपर्वते ।। २ ।।

अस्ति पापहरं पुंसां सर्वाभीष्टप्रदायकम् ।।

यत्र स्नात्वा नरो भक्त्या सर्वान्कामानवाप्नुयात् ।। ३ ।।

तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः ।।

गतिं तां न लभेन्मर्त्यो यां साध्यामृतमज्जनात् ।। ४ ।।

स्पृष्टानि येषामंगानि साध्यामृतजलैः शुभैः ।।

तेषां देहगतं पापं तत्क्षणादेव नश्यति ।। ५ ।।

साध्यामृतजले यस्तु साघमर्षणकृन्नरः ।।

स विधूयेह पापानि विष्णुलोके महीयते ।। ६ ।।

पूर्वे वयसि पापानि कृत्वा कर्माणि यो नरः ।।

पश्चात्साध्यामृतं सेवेत्पश्चात्तापसमन्वितः ।। ७ ।।

अन्ते वयसि मुक्तः स्यात्स नरो नात्र संशयः ।।

साध्यामृते नरः स्नात्वा देहबंधाद्विमुच्यते ।। ८ ।।

साध्यामृतजले स्नाता मनुष्याः पापक र्मिणः ।।

अनेकक्लेशघोराणि नरकाणि न यांति हि ।। ९ ।।

साध्यामृतजले स्नानात्पुंसां या स्याद्गतिर्द्विजाः ।।

न सा गतिर्भवेद्यज्ञैर्न वेदैः पुण्यकर्मभिः ।। 3.1.28.१० ।।

यावदस्थि मनुष्याणां साध्यामृतजले स्थितम् ।।

तावद्वर्षाणि तिष्ठंति शिवलोके सुपूजिताः ।। ११ ।।

अपहत्य तमस्तीव्रं यथा भात्युदये रविः ।।

तथा साध्यामृतस्नायी भित्त्वा पापानि राजते ।। १२ ।।

वांछिताँल्लभते कामानत्र स्नातो नरः सदा ।।

यत्र स्नात्वा महापुण्ये पुरा राजा पुरूरवाः ।।

विप्रयोगं सहोर्वश्या जहौ तुंबुरुशापजम् ।। १३ ।।

।। ऋषय ऊचुः ।। ।।

कथं सूत महाभाग सहोर्वश्यामरस्त्रिया ।। १४ ।।

प्रथमं लब्धवान्योगं मर्त्यो राजा पुरूरवाः ।।

विप्रयोगं सहोर्वश्या जहौ तुंबुरुशापजम् ।। १५ ।।

हेतुना केन राजानं शशाप तुंबुरुर्मुनिः ।।

एतत्सर्वं समाचक्ष्व विस्तरान्मुनिपुंगव ।। १६ ।।

।। सूत उवाच ।। ।।

आसीत्पुरूरवानाम शक्रतुल्यपराक्रमः ।।

राजराजसमो राजा पुरा ह्यमरपूजितः ।। १७ ।।

धर्मतः पालयामास मेदिनीं स नृपोत्तमः ।।

ईजे च बहुभिर्यज्ञैर्ददौ दानानि सर्वदा ।। १८ ।।

प्रशासति महीं सर्वां राज्ञि तस्मिन्महामतौ ।।

मित्रावरुणशापेन भुवं प्रापोर्वशी द्विजाः ।। १९ ।।

सा चचारोर्वशी तत्र राज्ञस्तस्य पुरांतिके ।।

कोकिलालापमधुरवीणयोपवने जगौ ।। 3.1.28.२० ।।

स राजोपवने रंतुं कदाचिद्धृतकौतुकः ।।

आरूढतुरगः प्रायाल्ललनाशतसंवृतः ।। २१ ।।

तादृशीमुर्वशीं तत्र करसम्मितमध्यमाम् ।।

उवाच चैनां राजासौ भार्या मम भवेति वै ।। २२ ।।

सापि कामातुरा तत्र राजानं प्रत्यभाषत ।।

भवत्वेवं नरश्रेष्ठ समयं यदि मे भवान् ।। २३ ।।

करिष्यति तवाभ्याशे वत्स्यामि धृतकौतुका ।।

करिष्ये समयं सुभ्रु तवाहमिति सोऽब्रवीत् ।। २४ ।।

अथोर्वशी बभाषे तं पुरूरवसमुत्सुका ।।

पुत्रभूतं मम यदि रक्षस्युरणकद्वयम् ।। २५ ।।

न नग्नो दृश्यसे राजन्कदापि यदि वै तथा ।।

नोच्छिष्टं मम दद्याश्चेत्तदा वत्स्ये तवांतिके ।। २६ ।।

घृतमात्राशना चाहं भविष्यामि नृपोत्तम ।।

एवमस्त्विति राजोक्तां तां निनाय निजं गृहम् ।। २७ ।।

अलकायां स भूपालस्तथा चैत्ररथे वने ।।

रेमे सरस्वतीतीरे पद्मखण्डमनोरमे ।। २८ ।।

एकषष्टिं स वर्षाणि रममाणस्तयानयत् ।।

तेनोर्वशी प्रतिदिनं वर्धमानानुरागिणी ।। २९ ।।

स्पृहां न देवलोकेऽपि चकार तनुमध्यमा ।।

नाभवद्रमणीयोऽसौ देवलोकस्तया विना ।। 3.1.28.३० ।।

अतस्तामानयिष्यामि देवलोकमिति द्विजाः ।।

विश्वावसुर्विचार्यैवं भूर्लोकमगमत्क्षणात् ।। ३१ ।।

उर्वश्याः समयं राज्ञा विश्वावसुरयं सह ।।

विदित्वा सह गन्धर्वैः समवेतो निशांतरे ।। ३२ ।।

उर्वश्याः शयनाभ्याशाज्जग्राहोरणकं जवात् ।।

आकाशे नीयमानस्य तस्य श्रुत्वोर्वशी पतिम् ।।३३।।

अब्रवीन्मत्सुतः केन गृह्यते त्यज्यतामयम् ।।

अनाथा शरणं यामि कं नरं गतचेतना।।३४।।

पुरूरवाः समाकर्ण्य वाक्यं तस्या निशांतरे ।।

मां न नग्नं निरीक्षेत देवीति न ययौ तदा ।। ३५ ।।

अथान्यमप्युरणकं गन्धर्वाः प्रतिगृह्य ते ।।

ययुस्तस्योरणस्यापि शब्दं शुश्राव चोर्वशी ।। ३६ ।।

अनाथाया मम सुतो गृह्यते तस्करैरिति ।।

चुक्रोश देवी परुषं कं यामि शरणं नरम् ।। ३७ ।।

अमर्षवशमापन्नः श्रुत्वा तद्वचनं नृपः ।।

तिमिरेणावृतं सर्वमिति मत्त्वा स खङ्गधृक् ।। ३८ ।।

दुष्टदुष्ट कुतो यासीत्यभ्यधावद्वचो वदन् ।।

तावत्सौदामिनी दीप्ता गन्ध र्वैर्जनिता भृशम् ।। ३९ ।।

तत्प्रभामंडलैर्देवी राजानं विगतांबरम् ।।

दृष्ट्वा निवृत्तसमया तत्क्षणादेव निर्ययौ ।। 3.1.28.४० ।।

त्यक्त्वा ह्युरणकौ तत्र गंधर्वा अपि निर्ययुः ।।

राजा मेषौ समादाय हृष्टः स्वशयनांतिकम् ।। ४१ ।।

आगतो नोर्वशीं तत्र ददर्शायतलोचनाम् ।।

तां चापश्यन्विवस्त्रश्च बभ्रामोन्मत्तवद्भुवि ।। ४२ ।।

कुरुक्षेत्रं गतो राजा तटाके पद्मसंकुले ।।

चतुर्भिरप्सरस्त्रीभिः क्रीडमाना ददर्श ताम्।। ४३ ।।

हे जाये तिष्ठ मनसा घोरेति व्याहरन्मुहुः ।।

एवं बहुप्रकारं वै स सूक्तं प्रालपन्नृपः ।। ४४ ।।

अब्रवीदुर्वशी तं च क्रीडती साप्सरोगणैः ।।

महाराजालमेतेन चेष्टितेन तवानघ ।। ४५ ।।

त्वत्तो गर्भिण्यहं पूर्वमब्दांते भवतात्र वै ।।

आगंतव्यं कुमारस्ते भविष्यत्यतिधार्मिकः ।। ४६ ।।

एकां विभावरीं राजंस्त्वया वत्स्यामि वै तदा ।।

इत्युक्तो नृपतिर्हृष्टः स्वपुरीं प्राविशद्द्विजाः ।। ४७।।

तासामप्सरसां सा तु कथयामास तं नृपम् ।।

अयं स पुरुषश्रेष्ठो येनाहं कामरूपिणा ।। ४८ ।।

एतावंतं महाकालमनुरागवशातुरा ।।

उषितास्मि सहानेन सख्यो नृपतिना चिरम् ।। ४९ ।।

एवमुक्तास्ततः सख्यस्तामूचुः साधुसाध्विति ।।

अनेन साकमास्यामः सर्वकालं वयं सखि ।। 3.1.28.५० ।।

इत्यूचुरुर्वशीं तत्र सखीमप्सरसस्तदा ।।

अब्देऽथ पूर्णे राजापि तटाकांति कमाययौ ।। ५१ ।।

आगतं नृपतिं दृष्ट्वा पुरूरवसमुर्वशी ।।

कुमारमायुषं तस्मै ददौ संप्रीतमानसा ।। ५२ ।।

तेन साकं निशामेकामुषिता सानु रागिणी ।।

पंचपुत्रप्रदं गर्भं तस्मादापाशु सोर्वशी ।। ५३ ।।

उवाच चैनं राजानमुर्वशी परमांगना ।।

वरं दास्यंति गन्धर्वा मत्प्रीत्या तव भूपते ।। ५४ ।।

भवतां प्रार्थ्यतां तेभ्यो वरो राजर्षिसत्तम ।।

इत्युक्तः स तया राजा प्राह गन्धर्वसत्तमान् ।। ५५ ।।

अहं संपूर्णकोशश्च विजिताराति मंडलः ।।

सलोकतां विनोर्वश्याः प्राप्तव्यं नान्यदस्ति मे ।। ५६ ।।

अतस्तया सहोर्वश्या कालं नेतुमहं वृणे ।।

एवमुक्ते नृपेणाथ गन्धर्वास्तुष्ट मानसाः ।।

अग्निस्थालीं प्रदायास्मै प्रोचुश्चैनं नृपं तदा ।। ५७ ।।

।। गन्धर्वा ऊचुः ।। ।।

अग्निं वेदानुसारी त्वं त्रिधा कृत्वा नृपोत्तम ।। ५८ ।।

इष्ट्वा यज्ञेन चोर्वश्याः सालोक्यं याहि भूपते ।।

इतीरितस्तैरादाय स्थालीमग्नेर्ययौ नृपः ।। ५९ ।।

अहो बतातिमूढोहमिति मध्ये वनं नृपः ।।

उर्वशी न मया लब्धा वह्निस्थाल्या तु किं फलम् ।। 3.1.28.६० ।।

निधायैव वने स्थालीं स्वपुरं प्रययौ नृपः ।।

अर्धरात्रे व्यतीतेऽसौ विनिद्रोऽचिंतयत्स्वयम् ।। ६१ ।।

उर्वशीलोकसिद्ध्यर्थं मम गन्धर्वपुंगवैः ।।

अग्निस्थाली संप्रदत्ता सा च त्यक्ता मया वने ।। ६२।।

आहरिष्ये पुनः स्थालीमित्युत्थाय ययौ वनम् ।।

नाग्निस्थालीं ददर्शासौ वने तत्र पुरूरवाः ।। ६३ ।।

thumb|400px|अरणिमन्थनम्

शमीगर्भमथाश्वत्थमग्निस्थाने विलोक्य सः ।।

व्यचिंतयन्मया स्थाली निक्षिप्तात्र वने पुरा ।। ६४ ।।

सा चाश्वत्थः शमीगर्भः समभूदधुना त्विह ।।

तस्मादेनं समादाय वह्निरूपमहं पुरम्।। ।। ६५ ।।

गत्वा कृत्वारणीं सम्यक्तदुत्पन्नाग्निमादरात् ।।

उपास्यामीति निश्चित्य स्वपुरं गतवान्नृपः ।। ६६ ।।

रमणीयारणीं चक्रे स्वांगुलैः प्रमिता मसौ ।।

निर्माणसमये राजा गायत्रीमजपद्द्विजाः ।। ६७ ।।

गायत्र्याः पठ्यमानाया यानि संत्यक्षराणि हि ।।

तावदंगुलिमर्यादामकरोदरणीं नृपः ।। ६८ ।।

तत्र निर्मथनादग्नित्रयमुत्पाद्य भूपतिः ।।

उर्वशीलोकसंप्राप्तिफलमुद्दिश्य कांक्षितम् ।। ६९ ।।

वेदानुसारी नृपतिर्जुहावाग्नित्रयं मुदा ।।

तेनैव चाग्निविधिना बहून्यज्ञानथातनोत्।।3.1.28.७०।।।

तेन गन्धर्वलोकांश्च संप्राप्य जगतीपतिः।।

सहोर्वश्या चिरं रेमे देवलोके द्विजोत्तमाः।।७१।।

अथ सर्वामरोपेतः कदाचिद्बलवृत्रहा।।

नृत्यं सुरांगनानां वै व्यलोकयत संसदि।।७२।।

पुरूरवा नृपोप्यायात्तदा देवेंद्रसंसदम् ।।

द्रष्टुं सुरांगनानृत्यं मनोहारि दिवौकसाम् ।। ७३ ।।

एकैकशस्ताः शक्रस्य ननृतुः पुरतोंऽगनाः ।।

अथोर्वशी समागत्य ननर्त पुरतो हरेः ।। ७४ ।।

नृत्ताभिनयसामर्थ्यगर्वयुक्ता तदोर्वशी ।।

तं पुरूरवसं दृष्ट्वा जहासातिमनोहरा ।। ७५ ।।

जहास तत्र राजापि तां विलोक्य तदोर्वशीम् ।।

हाससंकुपितस्तत्र नाट्याचार्योऽथ तुंबुरुः ।।

शशाप तावुभौ कोपादुर्वशीं च नृपोत्तमम् ।। ७६ ।। ।।

।। तुंबुरुरुवाच ।। ।।

अनेकदेवसंपूर्णसभायामत्र यत्कृतम् ।। ७७ ।।

युवाभ्यां हसितं नृत्तमध्ये निष्कारणं वृथा ।।

तस्माज्झटिति राजेंद्र वियोगो युवयोः क्षणात् ।। ७८ ।।

भूयादिति शशापैनं सर्वदैवतसंनिधौ ।।

अथ शप्तो नृपस्तत्र नाट्याचार्येण दुःखितः ।। ७९ ।।

जगाम शरणं तत्र पाहिपाहीति वज्रिणम् ।।

उवाच दीनया वाचा पुरुहूतं पुरूरवाः ।। 3.1.28.८० ।।

उर्वश्या सह सालोक्यसिद्ध्यर्थमहमिष्टवान् ।।

अतस्तस्मा वियोगो मेऽसह्यः स्यात्पाकशासन ।। ८१ ।।

इत्युक्तवंतं तं प्राह सहस्राक्षः शचीपतिः ।।

शापमोक्षं प्रवक्ष्यामि मा भैषीस्त्वं नृपोत्तम ।। ८२ ।।

दक्षिणांभोनिधौ पुण्ये गंधमादनपर्वते ।।

साध्यामृतमिति ख्यातं तीर्थमस्ति महत्तरम् ।। ८३ ।।

सेवितं सर्वदेवैश्च सिद्धचारणकिन्नरैः ।।

सनकादि महायोगिमुनिवृंदनिषेवितम् ।। ८४ ।।

भुक्तिमुक्तिप्रदं पुंसां सर्वशापविमोक्षदम् ।।

अस्ति तीर्थं भवांस्तत्र गच्छस्व त्वरया नृप ।। ८५ ।।

सर्वेषाममृतं स्नानादत्र साध्यं यतस्ततः ।।

साध्यामृतमिति ख्यातं सर्वलोकेषु विश्रुतम् ।। ८६ ।।

तत्र स्नानात्तवोर्वश्याः पुनर्योगो भविष्यति ।।

मम लोके निवासश्च भविष्यति न संशयः ।। ८७ ।।

इति प्रतिसमादिष्टो नृपः संप्रीतमानसः ।।

साध्यामृतं महातीर्थं समुद्दिश्य ययौ क्षणात् ।। ८८ ।।

सस्नौ साध्यामृते तत्र महापातकनाशने ।।

तत्र स्नानान्नृपो विप्राः सद्यः शापेन मोचितः ।। ८९ ।।

स्नानानंतरमेवासावुर्वश्या सह संगतः ।।

तया सह विमानस्थः प्रययावमरावतीम् ।। 3.1.28.९० ।।

रेमे पुनस्तया सार्धं देववद्देवमंदिरे ।।

एवंप्रभावं तत्तीर्थं साध्यामृतमनुत्तमम् ।। ९१ ।।

पुरूरवा सहोर्वश्या यत्र स्नानेन संगतः ।।

अतोऽत्र तीर्थे यः स्नायान्महापातकनाशने ।। ९२।।

वांछिताँल्लभते कामान्यास्यति स्वर्गमुत्तमम् ।।

निष्कामः स्नाति चेद्वि प्रा मोक्षमाप्नोति मानवः ।।९३।।

इमं पवित्रं पापघ्नमध्यायं पठते तु यः।।

शृणुयाद्वा मनुष्योऽसौ वैकुंठे लभते स्थितिम् ।।९४।।

एवं वः कथितं विप्रा वैभवं पापनाशनम् ।।

साध्यामृतस्य तीर्थस्य विस्तराच्छ्रद्धया मया ।। ९५ ।।

यत्पुरा सनकादिभ्यः प्रोक्तवांश्चतुराननः ।। ९६ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये साध्यामृततीर्थप्रशंसायां पुरूरवःशापविमोक्षणवर्णनंनामाष्टाविंशो अध्यायः ।। २८ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 29

।। श्रीसूत उवाच ।। ।।

स्नात्वा साध्यामृते तीर्थे नृपशापविमोक्षणे ।।

सर्वतीर्थं ततो गच्छेन्मनुजो नियमान्वितः ।। १ ।।

सर्वतीर्थं महापुण्यं महापातकनाशनम् ।।

महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।। २ ।।

शुद्ध्येत तत्क्षणादेव सवर्तीर्थनिमज्जनात् ।।

तावत्सर्वाणि पापानि देहे तिष्ठंति सुव्रताः ।। ३ ।।

न यावत्सर्वतीर्थेस्मिन्निमज्जेत्पापपूरुषः ।१

स्नानार्थं सर्वतीर्थेऽस्मिन्दृष्ट्वा यांतं द्विजा नरम्।। ४ ।।

वेपंते सर्वपापानि नाशोऽस्माकं भवेदिति ।।

गर्भवासादिदुःखानि तावद्याति नरो भुवि ।। ५ ।।

न स्नायात्सर्वतीर्थेऽस्मिन्यावद्ब्राह्मणपुंगवाः।।

अनुष्ठितैर्महायागैस्तथा तीर्थनिषेवणैः ।। ६ ।।

गायत्र्यादिमहामंत्रजपैर्नियमपूर्वकम् ।।

चतुर्णामपि वेदानामावृत्त्या शतसंख्यया ।। ७ ।।

शिवविष्ण्वादिदेवानां पूजया भक्ति पूर्वकम् ।।

एकादश्यादितिथिषु तथैवानशनेन च।।

यत्फलं लभते मर्त्यस्तल्लभेदत्र मज्जनात् ।। ८ ।।

।। ऋषय ऊचुः ।। ।।

सर्वतीर्थमिति ख्यातिः सूतास्य कथमागता ।।

ब्रूह्यस्माकमिदं पुण्यं विस्तराच्छृण्वतां मुने ।। ९ ।।

।। श्रीसूत उवाच ।। ।।

पुरा सुचरितोनाम मुनिर्नियमसंयुतः ।। ।। 3.1.29.१० ।।

भृगुवंशसमुद्भूतो जात्यंधो जरयातुरः ।।

अशक्तस्तीर्थयात्रायां नेत्राभावेन स द्विजाः ।। ११ ।।

सर्वेषामेव तीर्थानां स्नातुकामो महामु निः ।।

दक्षिणांबुनिधौ पुण्यं गंधमादनपर्वतम् ।। १२ ।।

गत्वा शंकरमुद्दिश्य तपस्तेपे सुदुष्करम् ।।

त्रिकालमर्चयञ्छंभुमुपवासी जितेंद्रियः ।।१३।।

तथा त्रिषवणस्नानात्तथैवातिथिपूजकः ।।

शिशिरे जलमध्यस्थो ग्रीष्मे पंचाग्निमध्यगः ।। १४ ।।

वर्षास्वासारसहन अब्भक्षो वायुभोजनः ।।

उद्धूलनं त्रिपुंड्रं च भस्मना धारयन्सदा ।। १५ ।।

जाबालोपनिषद्रीत्या तथा रुद्राक्षधारकः ।।

एवमुग्रं तपश्चक्रे दशसंवत्सरं द्विजः ।। १६ ।।

तपसा तस्य संतुष्टः शंकरश्चंद्रशेखरः ।।

प्रादुरासीन्मुनेस्तस्य द्विजाः सुचरितस्य वै ।। १७ ।।

समारुह्य महोक्षाणं भूतवृंदनिषेवितः ।।

गिरिजार्ध वपुः शूली सूर्यकोटिसमप्रभः ।। १८ ।।

स्वभासा भासयन्सर्वा दिशो वितिमिरास्तदा ।।

भस्मपांडुरसर्वांगो जटामंडलमंडितः ।। १९ ।।

अनंता दिमहानागविभूषणविभूषितः ।।

प्रादुर्भूतस्ततः शंभुः प्रादात्तस्य विलोचने ।। 3.1.29.२० ।।

आत्मावलोकनार्थाय शंकरो गिरिजापतिः ।।

ततः सुचरितो विप्राः शंभुना दत्तदृग्द्वयः ।।

आलोक्य परमेशानं प्रतुष्टाव प्रसन्नधीः ।। २१ ।।

।। सुचरित उवाच ।। ।।

जय देव महेशान जय शंकर धूर्जटे ।। २२ ।।

जय ब्रह्मादिपूज्य त्वं त्रिपुरघ्न यमांतक ।।

जयोमेश महादेव कामांतक जयामल ।। २३ ।।

जय संसारवैद्य त्वं भूतपाल शिवाव्य य ।।

त्रियंबक नमस्तुभ्यं भक्तरक्षणदीक्षित ।। २४ ।।

व्योमकेश नमस्तुभ्यं जय कारुण्यविग्रह ।।

नीलकण्ठ नमस्तुभ्यं जय संसारमोचक।।२५।।

महेश्वर नमस्तुभ्यं परमानंदविग्रह ।।

गंगाधर नमस्तुभ्यं विश्वेश्वर मृडाव्यय ।। २६ ।।

नमस्तुभ्यं भगवते वासुदेवाय शंभवे ।।

शर्वायोग्राय गर्भाय कैलासपतये नमः ।। २७ ।।

रक्ष मां करुणासिंधो कृपादष्ट्यवलोकनात् ।।

मम वृत्तमनालोच्य त्राहि मां कृपया हर।।२८।।

श्रीसूत उवाच।।

इति स्तुतो महादेवस्तमेनमिदमभ्यधात् ।।

मुनिं सुचरितं विप्रा दयोदन्वानुमापतिः ।। २९ ।।

।। महादेव उवाच ।। ।।

मुने सुचरिताद्य त्वं वरं वरय कांक्षितम् ।।

वरं दातुं तवायातः पुण्येस्मिन्नाश्रमे शुभे ।।

इतीरितो मुनिः प्राह महादेवं दयानिधिम् ।। 3.1.29.३० ।। ।।

।। सुचरित उवाच ।। ।।

भगवंस्त्वं प्रसन्नो मे यदि स्याश्चंद्रशेखर ।। ३१ ।।

तर्हि त्वां प्रवृणोम्यद्धा वरं मदभिकांक्षितम् ।।

जरापलितदेहोहं कुत्रचिद्गंतुमक्षमः ।। ३२ ।।

सर्वतीर्थेषु च स्नातुमाकांक्षा मम विद्यते ।।

तस्मात्सर्वेषु तीर्थेषु स्नानेन मनुजो हि यत् ।।

फलं प्राप्नोति मे ब्रूहि तत्फला वाप्तिसाधनम्।। ३३ ।।

।। महादेव उवाच ।। ।।

अहमावाहयिष्यामि तीर्थान्यत्रैव कृत्स्नशः ।। ३४ ।।

रामस्य सेतुना पूते नगेऽस्मिन्गंधमादने ।।

इत्युक्त्वा स महादेवः पर्वते गन्धमादने ।। ३५ ।।

तीर्थान्यावाहयामास मुनिप्रीत्यर्थमुत्तमः ।।

ततस्सुचरितं प्राह शंकरः करुणानिधिः ।। ३६ ।।

मुने सुचरितेदं तु महापातकनाशनम् ।।

सांनिध्यात्सर्वतीर्थानां सर्वतीर्थाभिधं स्मृतम् ।। ३७ ।।

मयात्र सर्वतीर्थानां मनसाकर्षणादिदम् ।।

मानसं तीर्थमित्याख्यां लप्स्यते भुक्तिमुक्तिदम् ।। ३८ ।।

अतः सुचरितात्र त्वं स्नाहि सद्यो विमुक्तये ।।

महापातकसंघानां दावानलसमद्युतौ ।। ।। ३९ ।।

काममोहभयक्रोधलोभरोगादिनाशने ।।

विना वेदांतविज्ञानं सद्योनिर्वाणकारणे ।। 3.1.29.४० ।।

जन्ममृत्य्वादिनक्रौघसंसारार्णवतारणे ।।

कुम्भीपाकादिसकलनरकाग्निविनाशने ।। ४१ ।।

इतीरितः सुचरितः शम्भुना मदनारिणा ।।

सस्नौ विप्राः सर्वतीर्थे महादेवस्य संनिधौ ।। ४२ ।।

स्नात्वोत्थितः सुचरितो ददृशेऽखिलमानवैः ।।

जरापलितनिर्मुक्तस्तरुणोऽतीव सुन्दरः ।। ४३ ।।

दृष्ट्वा स्वदेहसौंदर्यं ततः सुचरितो मुनिः ।।

श्लाघयामास तत्तीर्थं बहुधाऽन्ये च तापसाः ।। ४४ ।।

महादेवः सुचरितं बभाषे तदनंतरम् ।।

अस्य तीर्थस्य तीरे त्वं वसन्सुचरित द्विज ।। ।। ४५ ।।

स्नानं कुरुष्व सततं स्मरन्मां मुक्तिदायकम् ।।

देशांतरीयतीर्थेषु मा व्रज ब्राह्मणोत्तम ।। ४६ ।।

अस्य तीर्थस्य माहात्म्यान्मामंते प्राप्स्यसि ध्रुवम्।।

अन्येऽपि येऽत्र स्नास्यंति तेऽपि मां प्राप्नुयुर्द्विज ।। ४७ ।।

इत्युक्त्वा भगवानीशस्तत्रैवांतरधीयत ।।

तस्मिन्नंतर्हिते रुद्रे ततः सुचरितो मुनिः ।। ४८ ।।

अनेककालं निवसन्सर्वतीर्थस्य तीरतः ।।

स्नानं समाचरंस्तीर्थे मानसे नियमान्वितः ।। ४९ ।।

देहांते शंकरं प्राप सर्वबन्धविमोचितः ।।

सायुज्यं चापि संप्राप सर्वतीर्थस्य वैभवात् ।। 3.1.29.५० ।।

एवं वः कथितं विप्राः सर्वतीर्थस्य वैभवम् ।।

एतत्पठन्वा शृण्वन्वा मुच्यते सर्व पातकैः ।। ५१ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सर्वतीर्थप्रशंसायां सर्वतीर्थस्वरूप कथनंनामैकोनत्रिंशोऽध्यायः ।। २९ ।। ।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 30

।। श्रीसूत उवाच ।। ।।

विहिताभिषवो मर्त्यः सर्वतीर्थेऽतिपावने ।।

ब्रह्महत्यादिपापघ्नीं धनुष्कोटिं ततो व्रजेत् ।। १ ।।

यस्याः स्मरणमात्रेण मुक्तः स्यान्मानवो भुवि ।।

धनुष्कोटिं प्रपश्यंति स्नांति वा कथयंति ये ।। २ ।।

अष्टाविंशतिभेदांस्ते नरकान्नोपभुंजते ।।

तामिस्रमंधतामिस्रं महारौरवरौरवौ ।। ३ ।।

कुम्भीपाकं कालसूत्रमसिपत्रवनं तथा ।।

कृमिभक्षोंऽधकूपश्च संदंशं शाल्मली तथा ।। ४ ।।

सूर्मिर्वैतरणी प्राणरोधो विशसनं तथा ।।

लालाभक्षोऽप्यवीचिश्च सारमेयादनं तथा ।। ५ ।।

तथैव वज्रकणकं क्षारकर्दमपातनम् ।।

रक्षोगणाशनं चापि शूलप्रोतं वितोदनम् ।। ६ ।।

दंदशूकाशनं चापि पर्यावर्तनसंज्ञितम् ।।

तिरोधानाभिधं विप्रास्तथा सूचीमुखाभिधम् ।। ७ ।।

पूयशोणितभक्षं च विषाग्निपरिपीडनम् ।।

अष्टाविंशतिसंख्याकमेवं नरकसंचयम् ।। ८ ।।

न याति मनुजो विप्रा धनुष्कोटौ निमज्जनात् ।।

वित्तापत्यकलत्राणां योऽन्येषामपहारकः ।। ९ ।।

स कालपाशनिर्बद्धो यमदूतैर्भयानकैः ।।

तामिस्रनरके घोरे पात्यते बहुवत्सरम् ।। 3.1.30.१० ।।

स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।

यो निहत्य तु भर्तारं भुंक्ते तस्य धनादिकान् ।। ११ ।।

पात्यते सोंऽधतामिस्रे महादुःखसमाकुले ।।

स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। १२ ।।

भूतद्रोहेण यो मर्त्यः पुष्णाति स्वकुटुंबकम् ।।

स तानिह विहायाशु रौरवे पात्यते ध्रुवम् ।। १३ ।।

विषोल्बणमहासर्पसंकुले यमपूरुषैः ।।

स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। ।। १४ ।।

यः स्वदेहंभरो मर्त्यो भार्यापुत्रादिकं विना ।।

स महारौरवे घोरे पात्यते निजमांसभुक् ।। १५ ।।

स्नाति चेद्धनुषः कोटौ तस्मि न्नासौ निपात्यते ।।

यः पशून्पक्षिणो वापि सप्राणान्निरुणद्धि वै ।। १६ ।।

कृपालेशविहीनं तं क्रव्यादैरपि निंदितम् ।।

कुंभीपाके तप्ततैले पात यंति यमानुगाः ।। १७ ।।

स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।

मातरं पितरं विप्रान्यो द्वेष्टि पुरुषाधमः ।। १८ ।।

स कालसूत्र नरके विस्तृतायुतयोजने ।।

अधस्तादग्निसंतप्त उपर्यर्कमरीचिभिः ।। १९ ।।

खले ताम्रमये विप्राः पात्यते क्षुधयार्दितः ।।

स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। 3.1.30.२० ।।

यो वेदमार्गमुल्लंघ्य वर्तते कुपथे नरः ।।

सोऽसिपत्रवने घोरे पात्यते यमकिंकरैः ।। २१ ।।

स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।

यो राजा राजभृत्यो वा ह्यदंड्ये दंडमाचरेत् ।। २२ ।।

शरीरदंडं विप्रे वा स शूकरमुखे द्विजाः ।।

पात्यते नरके घोरे इक्षुवद्यंत्रपीडितः ।। ।। २३ ।।

स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।

ईश्वराधीनवृत्तीनां हिंसां यः प्राणिनां चरेत् ।। २४ ।।

तैरेव पीड्यमानोऽयं जंतुभिः स्वेन पीडितैः ।।

अंधकूपे महाभीमे पात्यते यमकिंकरैः ।। २५ ।।

तत्रांधकारबहुले विनिद्रो निर्वृतश्चरेत् ।।

चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। २६ ।।

योऽश्नाति पंक्तिभेदेन सस्यसूपादिकं नरः ।।

अकृत्वा पंचयज्ञं वा भुंक्ते मोहेन स द्विजाः ।। २७ ।।

प्रपात्यते यमभटैर्नरके कृमिभोजने ।।

भक्ष्यमाणः कृमिशतैर्भक्षयन्कृमिसंच यान् ।। २८ ।।

स्वयं च कृमिभूतः संस्तिष्ठेद्यावदघक्षयम्।।

स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। २९ ।।

यो हरेद्विप्रवित्तानि स्तेयेन बलतोऽपि वा ।।

अन्येषामपि वित्तानि राजा तत्पुरुषोऽपि वा ।। 3.1.30.३० ।।

अयस्मयाग्निकुंडेषु संदंशैः सोऽतिपीडितः ।।

संदंशे नरके घोरे पात्यते यमपूरुषैः ।। ३१ ।।

स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।

अगम्यां योभिगच्छेत स्त्रियं वै पुरुषाधमः ।। ३२ ।।

अगम्यं पुरुषं योषिदभिगच्छेत वा द्विजाः ।।

तावयस्मयनारीं च पुरुषं चाप्ययस्मयम् ।।३३ ।।

तप्तावालिंग्य तिष्ठंतौ यावच्चंद्रदिवाकरौ ।।

सूर्म्याख्ये नरके घोरे पात्येते बहुकंटके ।। ३४ ।।

स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।

बाधते सर्वजंतून्यो नानो पायैरुपद्रवैः ।।३५ ।।

शाल्मलीनरके घोरे पात्यते बहुकंटके ।।

स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। ३६ ।।

राजा वा राजभृत्यो वा यः पाषंडमनुव्रतः ।।

भेदको धर्मसेतूनां वैतरण्यां निपात्यते ।। ३७ ।।

स्नानि चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।

वृषलीसंगदुष्टो यः शौचाद्याचारवर्जितः ।। ३८ ।।

त्यक्तलज्जस्त्यक्तवेदः पशुचर्यारत स्तथा ।।

स पूयविष्ठामूत्रासृक्छ्लेष्मपित्तादिपूरिते ।। ३९ ।।

अतिबीभत्सनरके पात्यते यमकिंकरैः ।।

स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। 3.1.30.४० ।।

अश्मभिर्मृगयुर्हन्याद्बाणै र्वा बाधते मृगान्।।

स विध्यमानो बाणौघैः परत्र यमकिंकरैः ।। ४१ ।।

प्राणरोधाख्यनरके पात्यते यमकिंकरैः ।।

स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। ४२ ।।

दांभिको यः पशून्यज्ञे विध्यनुष्ठानवर्जितः ।।

हंत्यसौ परलोकेषु वैशसे नरके द्विजाः ।। ४३ ।।

कृन्त्यमानो यमभटैः पात्यते दुःखसंकुले ।।

स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।। ४४ ।।

आत्मभार्यां सवर्णां यो रेतः पाययते तु सः ।।

परत्र रेतःपायी सन्रेतःकुंडे निपात्यते ।। ४५ ।।

स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।

यो दस्युमार्ग माश्रित्य गरदो ग्रामदाहकः ।। ४६ ।।

वणिग्द्रव्यापहारी च स परत्र द्विजोत्तमाः ।।

वज्रदंष्ट्राहिकाभिख्ये नरके पात्यते चिरम् ।। ४७ ।।

स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ।।

विद्यंते यानि चान्यानि नरकाणि परत्र वै ।। ४८ ।।

तानि नाप्नोति मनुजो धनुष्कोटिनिमज्जनात् ।।

धनुष्कोटौ सकृत्स्ना नादश्वमेधफलं लभेत् ।। ४९ ।।

आत्मविद्या भवेत्साक्षान्मुक्तिश्चापि चतुर्विधा ।।

न पापे रमते बुद्धिर्न भवेद्दुःखमेव वा ।। 3.1.30.५० ।।

बुद्धेः प्रीति र्भवेत्सम्यग्धनुष्कोटौ निमज्जनात् ।।

तुलापुरुषदानेन यत्फलं लभ्यते नरैः ।। ५१ ।।

तत्फलं लभ्यते पुंभिर्धनुष्कोटौ निमज्जनात् ।।

गोसहस्र प्रदानेन यत्पुण्यं हि भवेन्नृणाम् ।। ५२ ।।

तत्पुण्यं लभते मर्त्यो धनष्कोटौ निमज्जनात् ।।

धर्मार्थकाममोक्षेषु यंयमिच्छति पूरुषः ।। ५३ ।।

तंतं सद्यः समाप्नोति धनुष्कोटौ निमज्जनात् ।।

महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।। ५४ ।।

सद्यः पूतो भवेद्विप्रा धनुष्कोटौ निमज्जनात् ।।

प्रज्ञालक्ष्मीर्यशः संपज्ज्ञानं धर्मो विरक्तता ।।५५।।

मनःशुद्धिर्भवेन्नॄणां धनुष्कोटिनिमज्जनात्।।

ब्रह्महत्यायुतं चापि सुरापानायुतं तथा।।५६।।

अयुतं गुरुदाराणां गमनं पापकारणम्।।

स्तेयायुतं सुवर्णानां तत्संसर्गश्च कोटिशः।।५७।।

शीघ्रं विलयमाप्नोति धनुष्कोटौ निमज्जनात्।।

ब्रह्महत्यासमानानि सुरापानसमानि च।।५८।।

गुरुस्त्रीगमनेनापि यानि तुल्यानि चास्तिकाः।।

सुवर्णस्तेयतुल्यानि तत्संसर्गसमानि च।।५९।।

तानि सर्वाणि नश्यंति धनुष्को टि निमज्जनात्।।

उक्तेष्वेतेषु संदेहो न कर्तव्यः कदाचन ।।3.1.30.६०।।।

जिह्वाग्रे परशुं तप्तं धारयामि न संशयः ।।

अर्थवादमिमं सर्वं ब्रुवन्वै नारकी भवेत् ।। ।। ६१ ।।

संकरः स हि विज्ञेयः सर्वकर्मबहिष्कृतः।।

अहो मौर्ख्यमहो मौर्ख्यमहो मौर्ख्यं द्विजोत्तमाः ।। ६२ ।।

धनुष्कोट्यभिधे तीर्थे सर्वपातकनाशने ।।

अद्वैतज्ञानदे पुंसां भुक्तिमुक्तिप्रदायिनि ।। ६३ ।।

इष्टकाम्यप्रदे नित्यं तथैवाज्ञाननाशने ।।

स्थितेऽपि तद्विहायायं रमतेऽन्यत्र वै जनः ।।६४।।

अहो मोहस्य माहात्म्यं मया वक्तुं न शक्यते ।।

स्नातस्य धनुषः कोटौ नांतकाद्भयमस्ति वै ।।६५।।

धनुष्कोटिं प्रपश्यंति तत्र स्नांति च ये नराः।।

स्तुवंति च प्रशंसंति स्पृशंति च नमंति च ।।

न पिबंति हि ते स्तन्यं मातॄणां द्विजपुंगवाः ।। ६६ ।।

।। ऋषय ऊचुः ।। ।।

धनुष्कोट्याभिधा तस्य कथं सूत समागता ।। ६७ ।।

तत्सर्वं ब्रूहि तत्त्वेन विस्तरान्मुनिपुंगव ।।

इति पृष्टो नैमिषीयैराह सूतः पुनश्च तान् ।। ६८ ।।

।। श्रीसूत उवाच ।। ।।

रामेण निहते युद्धे रावणे लोककण्टके ।।

बिभीषणे च लंकायां राजनि स्थापिते ततः ।। ६९ ।।

वैदेहीलक्ष्मणयुतो रामो दशरथा त्मजः ।।

सुग्रीवप्रमुखैर्वीरैर्वानरैरपि संवृतः ।। 3.1.30.७० ।।

सिद्धचारणगन्धर्वदेवविद्याधरर्षिभिः ।।

अप्सरोभिश्च सततं स्तूयमाननिजाद्भुतः ।। ७१ ।।

लीलाविधृतकोदण्डस्त्रिपुरघ्नो यथा शिवः ।।

सर्वैः परिवृतो रामो गंधमादनमन्वगात् ।। ७२ ।।

तत्र स्थितं महात्मानं राघवं रावणांतकम् ।।

प्रांजलिः प्रार्थयामास धर्मज्ञोऽथ विभीषणः ।। ७३ ।।

सेतुनानेन ते राम राजानः सर्व एव हि ।।

बलोद्रिक्ताः समभ्येत्य पीडयेयुः पुरीं मम ।। ।। ७४ ।।

अतः सेतुमिमं भिंधि धनुष्कोट्या रघूद्वह ।।

इति संप्रार्थितस्तेन पौलस्त्येन स राघवः ।। ७९ ।।

बिभेद धनुषः कोट्या स्वसेतुं रघुनं दनः ।।

अतो द्विजास्ततस्तीर्थं धनुष्कोटिरितिश्रुतम् ।। ७६ ।।

श्रीरामधनुषः कोट्या यो रेखां पश्यते कृताम्।।

अनेकक्लेशसंयुक्तं गर्भवासं न पश्यति ।। ७७ ।।

धनुष्कोट्यां कृता रेखा रामेण लवणांबुधौ ।।

तद्दर्शनाद्भवेन्मुक्तिर्न जाने स्नानजं फलम् ।। ७८ ।।

नर्मदारोधसि तपो महापातक नाशनम्।।

गंगातीरे तु मरणमपवर्गफलप्रदम्।। ७९ ।।

दानं द्विजाः कुरुक्षेत्रे ब्रह्महत्यादिशोधकम् ।।

तपश्च मरणं दानं धनुष्कोटौ कृतं नरैः ।।3.1.30.८०।।

महापातकनाशाय मुक्त्यै चाभीष्टसिद्धये ।।

भवेत्समर्थं विप्रेंद्रा नात्र कार्या विचारणा ।। ८१ ।।

तावत्संपीड्यते जंतुः पातकैश्चोपपा तकैः ।।

यावन्नालोक्यते राम धनुष्कोटिर्विमुक्तिदा ।। ८२ ।।

भिद्यते हृदयग्रंथिश्छिद्यंते सर्वसंशयाः ।।

क्षीयंते पापकर्माणि धनुष्कोट्यवलो किनः ।। ८३ ।।

दक्षिणांभोनिधौ सेतौ रामचन्द्रेण निर्मिता ।।

या रेखा धनुषः कोट्या विभीषणहिताय वै ।। ८४ ।।

सैव कैलासपदवीं वैकुण्ठब्र ह्मलोकयोः ।।

मार्गः स्वर्गस्य लोकस्य नात्र कार्या विचारणा ।। ८५ ।।

तुल्यं यज्ञफलैः पुण्यैर्धनुष्कोट्यवगाहनम् ।।

सर्वमंत्राधिकं पुण्यं सर्वदा नफलप्रदम् ।। ८६ ।।

कायकलेशकरैः पुंसां किं तपोभिः किमध्वरैः ।।

किं वेदैः किमु वा शास्त्रैर्धनुष्कोट्यवलोकिनः ।। ८७ ।।

रामचंद्रधनुष्कोटौ स्नानं चेल्लभ्यते नृणाम् ।।

सितासितसरित्पुण्यवारिभिः किं प्रयोजनम् ।। ८८ ।।

रामचंद्रधनुष्कोटिदर्शनं लभ्यते यदि ।।

काश्यां तु मरणान्मुक्तिः प्रार्थ्यते किं वृथा नरैः ।। ८९ ।।

अनिमज्ज्य धनुष्कोटावनुपोष्य दिनत्रयम् ।।

अदत्त्वा कांचनं गां च दरिद्रः स्यान्न संशयः ।। 3.1.30.९० ।।

धनुष्कोट्य वगाहेन यत्फलं लभते नरः ।।

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वापि बहुदक्षिणैः ।। ९१ ।।

न तत्फलमवाप्नोति सत्यंसत्यं वदाम्यहम् ।।

धनुष्कोट्यभिधं तीर्थं सर्वतीर्थाधिकं विदुः ।। ९२ ।।

दशकोटिसहस्राणि संति तीर्थानि भूतले ।।

तेषां सान्निध्यमस्त्यत्र धनुष्कोटौ द्विजोत्तमाः ।। ९३ ।।

अष्टौ वसव आदित्या रुद्राश्च मरुतस्तथा ।।

साध्याश्च सह गन्धर्वाः सिद्धविद्याधरास्तथा ।।९४।।

एते चान्ये च ये देवाः सान्निध्यं कुर्वते सदा ।।

तीर्थेऽत्र धनुषः कोटौ नित्यमेव पितामहः ।। ९५ ।।

सन्निधत्ते शिवो विष्णुरुमा मा च सरस्वती ।।

धनुष्कोटौ तपस्तप्त्वा देवाश्च ऋषयस्तथा ।। ९६ ।।

विपुलां सिद्धिमगमंस्तत्फलेन मुनीश्वराः ।।

स्नायात्तत्र नरो यस्तु पितृदेवांश्च तर्पयेत् ।।९७।।

सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।।

अत्रैकं भोजयेद्विप्रं यो नरो भक्तिसंयुतः।।९८।।

इह लोके परत्रापि सोनंतसुखमश्नुते।।

शाकमूलफले वृत्तिं यो न वर्तयते नरः।।९९।।

स नरो धनुषःकोटौ स्नायात्त त्फलसिद्धये ।।

अश्वमेधक्रतुं कर्तुं शक्तिर्यस्य न विद्यते ।।3.1.30.१००।।

धनुष्कोटौ स हि स्नायात्तेन तत्फलमश्नुते ।।

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वापि मुनी श्वराः।।१।।

निंद्ययोनौ न जायंते धनुष्कोट्वगाहनात्।।

मकरस्थे रवौ माघे धनुष्कोटौ तु यो नरः।।२।।

स्नायात्पुण्यं निगदितुं तस्याहं न क्षमो द्विजाः।।

माघमासे धनुष्कोटाववगाहेत यो नरः ।। ३ ।।

स स्नातः सर्वतीर्थेषु गंगादिषु मुनीश्वराः ।।

प्राप्नुयादक्षयाँल्लोकान्मोक्षं चापि लभेत सः ।। ४ ।।

जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा ।।

तत्सर्वं माघमासेऽत्र मज्जनाद्विलयं व्रजेत् ।। ५ ।।

यथा सुराणां सर्वेषामुत्तमो रघुनंदनः ।।

तथैव च धनुष्कोटिः सर्वतीर्थोत्तमा स्मृता ।। ६ ।।

तत्र स्नानं माघमासे सर्वाभीष्टप्रदायकम् ।।

त्रिंशद्दिनं माघमासे नियतोऽपि जितेंद्रियः ।। ७ ।।

धनुष्कोटौ नरः स्नायादपुनर्भवसिद्धये ।।

एकभुक्तो जितक्रोधो माघमासेऽत्र यो नरः ।। ८ ।।

स्नानं करोति विप्रेंद्रा मुच्यते ब्रह्महत्यया ।।

श्रीरामधनुषः कोटी माघमासे नरस्तु यः ।। ९ ।।

स्नात्वांते शिवरात्रौ च निराहारो जितेंद्रियः ।।

कृत्वा जागरणं रात्रौ प्रतियामं विशेषतः।। 3.1.30.११० ।।

राम नाथं महादेवमभ्यर्च्य विधिपूर्वकम् ।।

परेद्युरुदिते सूर्ये धनुष्कोटौ निमज्य च ।। ११ ।।

अन्येष्वपि च तीर्थेषु स्नात्वा नियतमानसः ।।

निर्वर्त्य नित्यकर्माणि रामनाथं निषेव्य च ।। १२ ।।

यथाशक्ति द्विजानन्नैर्भोजयित्वा द्विजोत्तमाः ।।

भूमिं गां च तिलान्धान्यं दत्त्वा वित्तं च शक्तितः ।। ।। १३ ।।

ब्राह्मणैरप्यनुज्ञातः स्वयं भुंजति वाग्यतः ।।

एवं कृतवतः पुंसो रामनाथो महेश्वरः ।। १४ ।।

विमोच्य सर्वपापानि भुक्तिं मुक्तिं प्रयच्छति ।।

अतः सर्वप्रयत्नेन माघमासे मुनीश्वराः ।। १५ ।।

स्नातव्यं हि धनुष्कोटौ नरैरत्र मुमुक्षुभिः ।।

धनुष्कोटौ नरः स्नानं सेतावर्धोदये तु यः। ।। १६ ।।

करोति तस्य पापानि नश्यंत्येव क्षणाद्द्विजाः ।।

स्नानं महोदये चात्र भुक्तिमुक्तिफलप्रदम्।। १७ ।।

यः स्नायाद्धनुषः कोटावर्द्धोदयमहो दये ।।

तस्य वश्यास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।। १८ ।।

धनुष्कोटौ द्विजाः स्नानमर्द्धोदयमहोदये।।

विनाप्यद्वैतविज्ञानं सायुज्यप्राप्तिकारणम्।।। ।। १९ ।।

तत्र स्नानं द्विजाः पुंसामर्द्धोदयमहोदये ।।

मन्वाद्युक्तं विना सत्यं प्रायश्चित्तं हि पापिनाम्।। 3.1.30.१२० ।।

अत्र सेतौ धनुष्कोटावर्धोदयमहो दये ।।

स्नाति चेन्मनुजो विप्राः सत्यं यज्ञं विनाप्ययम् ।। २१ ।।

यज्ञानां फलमाप्नोति संपूर्णं नात्र संशयः ।।

चंद्रसूर्योपरागेषु यः स्नायादत्र मानवः ।। २२ ।।

तस्य पुण्यफलं वक्तुं शेषेणापि न शक्यते ।।

चंद्रसूर्योपरागेषु धनुष्कोट्यवगाहनम् ।। २३ ।।

ब्रह्महत्यादिपापानां प्रायश्चित्त मुदीरितम् ।।

श्रीरामधनुषः कोटौ चंद्रसूर्योपरागयोः ।। २४ ।।

स्नानं सायुज्यदं प्रोक्तं सर्वतीर्थफलप्रदम् ।।

चंद्रसूर्योपरागेषु अर्धोदयमहोदये ।। '।। २५ ।।

स्नातव्यमत्र मनुजैर्भुक्तिमुक्तिफलेच्छुभिः ।।

अतः सर्वं परित्यज्य गच्छध्वं मुनिपुंगवाः ।। २६ ।।

धनुष्कोटिं महापुण्यां भुक्तिमुक्तिफल प्रदाम् ।।

तत्र गत्वा पितृभ्यश्च कुरुध्वं पिंडदापनम् ।। २७ ।।

आकल्पं पितृतृप्तिः स्यादत्र पिंडनिवापनात् ।।

पितॄणां तृप्तिदं स्थानत्रयं रामेण निर्मितम् ।। २८ ।।

सेतुमूले धनुष्कोट्यां गंधमादनपर्वते ।।

पिंडं दत्त्वा पितृभ्योऽत्र ऋणान्मुक्तो भविष्यति ।। २९ ।।

सेतुमूलं धनुष्कोटिं गंधमादनमेव च ।।

ऋणमोक्ष इति ख्यातं त्रिस्थानं देवनिर्मितम् ।। 3.1.30.१३० ।।

अतः सर्वप्रयत्नेन धनुष्कोटिर्निषेव्यताम् ।।

अत्रागत्य धनुष्कोटौ स्नात्वा नियमपूर्व कम् ।। ३१ ।।

द्रोणाचार्यसुतः श्रीमानश्वत्थामा मुनीश्वराः ।।

सुप्तमारणदोषेण घोरेण मुमुचे क्षणात् ।। ३२ ।।

एवं वः कथितं विप्रा धनुष्कोटेस्तु वैभवम् ।।

भुक्तिमुक्तिप्रदं नृणां सर्वपापनिबर्हणम् ।। १३३ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये धनुष्कोटिप्रशंसायां धनुष्कोटिवैभवकथनवर्णनंनाम त्रिंशोऽध्यायः ।। ३० ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 31

।। ऋषय ऊचुः ।। ।।

अश्वत्थामा कथं सूत सुप्तमारणमाचरत्।।

कथं च मुक्तस्तत्पापाद्धनुष्कोटौ निमज्जनात् ।। १ ।।

एतन्नः श्रद्दधानानां ब्रूहि पौराणिकोत्तम ।।

तृप्तिर्न जायतेऽ स्माकं त्वद्वचोमृतपायिनाम् ।। २ ।।

इति पृष्टस्तदा सूतो नैमिषारण्यवासिभिः ।।

वक्तुं प्रचक्रमे तत्र व्यासं नत्वा गुरुं मुदा ।। ।।

।। श्रीसूत उवाच ।। ।।

राज्यार्थं कलहे जाते पांडवानां पुरा द्विजाः ।।

धार्तराष्ट्रैर्महायुद्धे महदक्षौहिणीयुते ।। ४ ।।

युद्धं दशदिनं कृत्वा भीष्मे शांतनवे हते ।।

द्रोणे पंचदिनं कृत्वा कर्णे च द्विदिनं तथा ।। ५ ।।

तथैवैकदिनं युद्ध्वा शल्ये च निधनं गते ।।

अष्टादशदिने तत्र रणे दुर्योधने द्विजाः ।। ।। ६ ।।

भग्नोरौ भीमगदया पतिते राजसत्तमे ।।

सर्वे नृपतयो विप्रा निवेशाय कृतत्वराः ।। ७ ।।

ये जीवितास्तु राजानस्ते ययुर्हृष्टमानसाः ।।

धृष्टद्युम्नशिखंडयाद्याः सृञ्जयाः सर्व एव हि ।। ८ ।।

अन्ये चापि महीपाला जग्मुः स्वशिबिराण्यथ ।।

अथ पार्था महावीरा कृष्णसात्यकिसंयुताः ।। ९ ।।

दुर्योधनस्य शिबिरं प्राविशन्निर्जनं द्विजाः ।।

वृद्धैरमात्यैस्तत्रस्थैः षंढैः स्त्रीरक्षकैस्तथा ।। 3.1.31.१० ।।

कृतांजलिपुटैः प्रह्वैः काषायमलिनांबरैः ।।

प्रणम्यमानास्ते पार्थाः कुरुराजस्य वेश्मनि ।। ११ ।।

तत्रत्यद्रव्यजातानि समादाय महा बलाः ।।

सुयोधनस्य शिबिरे न्यवसंत सुखेन ते ।। १२ ।।

अथ तानब्रवीत्पार्थाञ्छ्रीकृष्णः प्रीणयन्निव ।।

मंगलार्थाय चास्माभिर्वस्तव्यं शिबिराद्बहिः ।। १३ ।।

इत्युक्ता वासुदेवेन तथेत्युक्त्वाथ पांडवाः ।।

कृष्णसात्यकिसंयुक्ताः प्रययुः शिबिराद्बहिः ।। १४ ।।

वासुदेवेन सहिता मंगलार्थं हि पांडवाः ।।

ओघवत्याः समासाद्य तीरं नद्या नरोत्तमाः ।। १५ ।।

ऊषुस्तां रजनीं तत्र हतशत्रुगणाः सुखम् ।।

कृतवर्मा कृपो द्रौणिस्तथा दुर्योधनांतिकम्।। १६ ।।

आदित्यास्तमयात्पूर्वमपराह्णे समाययुः ।।

सुयोधनं तदा दृष्ट्वा रणपांसुषु रूषितम् ।। १७ ।।

भग्नोरुदण्डं गदया भीमसेन स्य भीमया ।।

रुधिरासिक्तसर्वांगं चेष्टमानं महीतले ।। १८ ।।

अशोचंत तदा तत्र द्रोणपुत्रादयस्त्रयः ।।

शुशोच सोऽपि तान्दृष्ट्वा रणे दुर्योधनो नृपः ।। १९ ।।

दृष्ट्वा तथा तु राजानं बाष्पव्याकुललोचनम् ।।

अश्वत्थामा तदा कोपाज्ज्वलन्निव महानलः ।। 3.1.31.२० ।।

पाणौ पाणिं विनिष्पिष्य क्रोध विस्फारितेक्षणः ।।

अश्रुविक्लवया वाचा दुर्योधनमभाषत ।। २१ ।।

पिता मे पातितः क्षुद्रैश्छलेनैव रणाजिरे ।।

न तथा तेन शोचामि यथा निष्पातिते त्वयि ।। २२ ।।

शृणु वाक्यं ममाद्य त्वं यथार्थं वदतो नृप ।।

सुकृतेन शपे चाहं सुयोधन महामते ।। २३ ।।

अद्य रात्रौ हनिष्यामि पांडवा न्सह सृंजयैः ।।

पश्यतो वासुदेवस्य त्वमनुज्ञां प्रयच्छ मे ।। २४ ।।

तस्य तद्वचनं श्रुत्वा द्रौणिं राजा तदाऽब्रवीत् ।।

तथास्त्विति पुनः प्राह कृपं राजा द्विजोत्तमाः ।। २५ ।।

आचार्यैनं द्रोणपुत्रं कलशोत्थेन वारिणा ।।

सैनापत्येऽभिषिंचस्वेत्यथ सोपि तथाऽकरोत् ।। २६ ।।

सोभिषिक्तस्तदा द्रौणिः परिष्वज्य नृपोत्तमम् ।।

कृतवर्मकृपाभ्यां च सहितस्त्वरितं ययौ ।। २७ ।।

ततस्ते तु त्रयो वीराः प्रयाता दक्षिणोन्मुखाः ।।

आदित्यास्तमयात्पूर्वं शिबिरांतिकमासत ।। २८ ।।

पार्थानां भीषणं शब्दं श्रुत्वा तत्र जयैषिणः ।।

पांडवानुद्रुता भीतास्तदा द्रौण्यादयस्त्रयः ।। २९ ।।

प्राङ्मुखा दुद्रुवुर्भीत्या कियद्दूरं श्रमातुराः ।।

मुहुर्तं ते ततो गत्वा क्रोधामर्षवशानुगाः ।। 3.1.31.३० ।।

दुर्योधनवधार्तास्ते क्षणं तत्रावतस्थिरे ।।

ततोऽपश्यन्नरण्यं वै नानातरुलतावृतम् ।। ३१ ।।

अनेकमृगसंबाधं क्रूरपक्षिगणाकुलम् ।।

समृद्धजलसंपूर्णतटाकपरिशोभितम् ।। ३२ ।।

पद्मेंदीवरकह्लारसरसी शतसंकुलम् ।।

तत्र पीत्वा जलं ते तु पाययित्वा हयांस्तथा ।। ३३ ।।

अनेकशाखासंबाधन्यग्रोधं ददृशुस्ततः ।।

संप्राप्य तु महावृक्षं न्यग्रोधं ते त्रयस्तदा ।। ३४ ।।

अवतीर्य रथेभ्यश्च मोचयित्वा तुरंगमान् ।।

उपस्पृश्य जलं तत्र सायंसंध्यामुपासत ।। ३५ ।।

अथ चास्तगिरिं भानुः प्रपेदे च गतप्रभः ।।

ततश्च रजनी घोरा समभूत्तिमिराकुला ।। ३६ ।।

रात्रिचराणि सत्त्वानि संचरंति ततस्ततः ।।

दिवाचराणि सत्त्वानि निद्रावशमुपा ययुः ।। ३७ ।।

कृतवर्मा कृपो द्रौणिः प्रदोषसमये हि ते ।।

न्यग्रोधस्योपविविशुरंतिके शोककर्शिताः ।। ३८ ।।

कृपभोजौ तदा निद्रां भेजातेऽतिप याक्रमौ ।।

सुखोचितास्त्वदुःखार्हा निषेदुर्धरणीतले ।। ३९ ।।

द्रोणपुत्रस्तु कोपेन कलुषीकृतमानसः ।।

ययौ न निद्रां विप्रेंद्रा निश्वसन्नुरगो यथा ।। 3.1.31.४० ।।

ततोऽवलोकयांचक्रे तदरण्यं भयानकम् ।।

न्यग्रोधं च ततोऽपश्यद्बहुवायससंकुलम् ।। ४१ ।।

तत्र वायसवृन्दानि निशायां वासमाय युः ।।

सुखं भिन्नासु शाखासु सुषुपुस्ते पृथक्पृथक् ।। ४२ ।।

काकेषु तेषु सुप्तेषु विश्वस्तेषु समंततः ।।

ततोऽपश्यत्समायांतं भासं द्रौणिर्भयंकरम् ।। ।। ४३ ।।

कूरशब्दं क्रूरकायं बभ्रुपिंगकलेवरम् ।।

स भासोऽथ भृशं शब्दं कृत्वालीयत शाखिनि ।। ४४ ।।

उत्प्लुत्य तस्य शाखायां न्यग्रोधस्य विहंगमः ।।

सुप्तान्काकान्निजघ्नेऽसावनेकान्वायसांतकः ।। ४५ ।।

काकानामभिनत्पक्षान्स केषांचिद्विहंगमः ।।

इतरेषां च चरणाञ्छिरांसि चरणा युधः ।। ४६ ।।

विचकर्त क्षणेनासावुलूको वलवान्द्विजाः ।।

स भिन्नदेहावयवैः काकानां बहुभिस्तदा ।। ४७ ।।

समंतादावृतं सर्वं न्यग्रोधपरि मण्डलम् ।।

वायसांस्तान्निहत्यासावुलूको मुमुदे तदा ।। ४८ ।।

द्रौणिर्दृष्ट्वा तु तत्कर्म भासेनैवं कृतं निशि ।।

करिष्याम्यहमप्येवं शत्रूणां निधनं निशि ।। ४९ ।।

इत्यचिंतयदेकः सन्नुपदेशमिमं स्मरन् ।।

जेतुं न शक्याः पार्था हि ऋजुमार्गेण युद्ध्यता ।। 3.1.31.५० ।।

मया तच्छद्मना तेऽथ हंतव्या जितकाशिनः ।।

सुयोधनसकाशे च प्रतिज्ञातो मया वधः ।। ५१ ।।

ऋजुमार्गेण युद्धे मे प्राणनाशो भविष्यति ।।

छलेन युध्यमानस्य जयश्चास्य रिपुक्षयः ।। ५२ ।।

यच्च निंद्यं भवेत्कार्यं लोके सर्वजनैरपि ।।

कार्यमेव हि तत्कर्म क्षत्रधर्मानुवर्तिना ।। ५३ ।।

पार्थैरपि छलेनैव कृतं कर्म सुयोधने ।।

अस्मिन्नर्थे पुराविद्भिः प्रोक्ताः श्लोका भवंति हि ।। ५४ ।।

परिश्रांते विदीर्णे च भुंजाने च रिपोर्बले ।।

प्रस्थाने च प्रवेशे च प्रहर्तव्यं न संशयः ।। ५५ ।।

निद्रार्तमर्धरात्रे च तथा त्यक्तायुधं रणे ।।

भिन्नयोधं बलं सर्वं प्रहर्तव्यमरातिभिः ।। ५६ ।।

एवं स नियमं कृत्वा सुप्तमारणकर्मणि ।।

प्राबोधयद्भोजकृपौ सुप्तौ रात्रौ स साहसी ।।

द्रौणिर्ध्यात्वा मुहूर्तं तु तावुभावभ्यभाषत ।। ५७ ।। ।।

।। अश्वत्थामोवाच ।। ।।

मृतः सुयोधनो राजा महाबलपराक्रमः ।। ५८ ।।

शुद्धकर्मा हतः पार्थैर्बहुभिः क्षुद्रकर्मभिः ।।

भीमेनातिनृशंसेन शिरो राज्ञः पदा हतम् ।। ५९ ।।

ततोऽद्य रात्रौ पार्थानां समेत्य पटमण्डपम् ।।

सुखसुप्तान्हनिष्यामः शस्त्रैर्नानाविधैर्वयम् ।।

कृपः प्रोवाच तत्रैन मिति श्रुत्वा द्विजोत्तमाः ।। 3.1.31.६० ।।

।। कृप उवाच ।। ।।

सुप्तानां मारणं लोके न धर्मो न च पूज्यते ।। ६१ ।।

तथैव त्यक्तशस्त्राणां संत्यक्तरथवाजि नाम् ।।

शृणु मे वचनं वत्स मुच्यतां साहसं त्वया ।। ६२ ।।

वयं तु धृतराष्टं च गांधारीं च पतिव्रताम् ।।

पृच्छामो विदुरं चापि तदुक्तं करवा महे ।।

इत्युक्तः स तदा द्रौणिः कृपं प्रोवाच वै पुनः ।। ६३ ।।

।।अश्वत्थामोवाच ।। ।।

पांडवैश्च पुरा यन्मे छलाद्युद्धे पिता हतः ।। ६४ ।।

तन्मे सर्वाणि मर्माणि निकृन्तति हि मातुल ।।

द्रोणहंताहमित्येतद्धृष्टद्युमस्य यद्वचः ।। ६५ ।।

कथं जनसमक्षे तद्वचनं संशृणोम्यहम् ।।

तैरेव पांडवैः पूर्वं धर्मसेतुर्निराकृतः ।। ६६ ।।

समक्षमेव युष्माकं सर्वेषामेव भूभृताम् ।।

त्यक्तायुधो मम पिता धृष्टद्युम्नेन पातितः ।। ६७ ।।

तथा शांतनवो भीष्मस्त्यक्तचापो निरायुधः ।।

शिखंडिनं पुरोधाय निहतः सव्यसाचिना ।। ६८ ।।

एवमन्येऽपि भूपालाश्छलेनैव हतास्तु तैः ।।

तथैवाहं करिष्यामि सुप्तानां मारणं निशि ।। ६९ ।।

एवमुक्त्वा तदा द्रौणिः संयुक्ततुरगं रथम्।।

प्रायादभिमुखः शत्रून्समारुह्य क्रुधा ज्वलन् ।। 3.1.31.७०।।

तं यांतम न्वगातां तौ कृतवर्मकृपावुभौ ।।

ययुश्च शिबिरे तेषां संप्रसुप्तजनं तदा ।। ७१ ।।

शिबिरद्वारमासाद्य द्रोणपुत्रो व्यतिष्ठत ।।

रात्रौ तत्र समाराध्य महादेवं घृणानिधिम् ।। ७२ ।।

अवाप विमलं खङ्गं महादेवाद्वरप्रदात् ।।

ततो द्रौणिरवस्थाप्य कृतवर्मकृपावुभौ ।। ७३ ।।

द्वारदेशे महावीरः शिबि रांतः प्रविष्टवान् ।।

प्रविष्टे शिबिरे द्रौणौ कृतवर्मकृपावुभौ।। ७४ ।।

द्वारदेशे व्यतिष्ठेतां यत्तौ परमधन्विनौ ।।

अथ द्रौणिः सुसंक्रुद्धस्तेजसा प्रज्वलन्निव ।। ७५ ।।

खङ्गं विमलमादाय व्यचरच्छिबिरे निशि ।।

ततस्तु धृष्टद्युम्नस्य शिबिरं मंदमाययौ ।। ७६ ।।

धृष्टद्युम्नादयस्तत्र महायुद्धेन कर्शिताः ।।

सुषुपुर्निशि विश्वस्ताः स्वस्वसैन्यसमावृताः ।। ७७ ।।

धृष्टद्युम्नस्य शिबिरं प्रविश्य द्रौणिरस्त्रवित् ।।

तं सुप्तं शयने शुभ्रे ददर्शारान्महाबलम् ।। ७८ ।।

पादेनाघातयद्रोषात्स्वपंतं द्रोणनंदनः ।।

स बुद्धश्चरणाघातादुत्थाय शयनादथ ।। ७९ ।।

व्यलोकयत्तदा वीरो द्रोणपुत्रं पुरः स्थितम् ।।

तमुत्पतंतं शयनाद्द्रोणाचार्यसुतो बली ।। 3.1.31.८० ।।

केशेष्वाकृष्य बाहुभ्यां निष्पिपेष धरातले ।।

धृष्टद्युम्नस्तदा तेन निष्पिष्टः स भया तुरः ।। ८१ ।।

निद्रांधः पादघातातो न शशाक विचेष्टितुम् ।।

द्रौणिस्त्वाक्रम्य तस्योरः कण्ठं बद्ध्वा धनुर्गुणैः ।। ८२ ।।

नदंतं विस्फुरंतं तं पशुमारममारयत् ।।

तस्य सैन्यानि सर्वाणि न्यवधीच्च तथैव सः ।। ८३ ।।

युधामन्युं महावीर्यममुत्तमौजसमेव च ।।

तथैव द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ।। ८४ ।।

शिखंडिप्रमुखानन्यान्खङ्गेनामारयद्बहून् ।।

तद्भयाद्द्वारनिर्यातान्सर्वानेव च सैनिकान् ।। ८५ ।।

प्रापयामासतुर्मृत्युं कृतवर्मकृपा वुभौ ।।

एवं निहतसैन्यं तच्छिबिरं तैर्महाबलैः ।। ८६ ।।

तत्क्षणे शून्यमभवत्त्रिजगत्प्रलये यथा ।।

एवं हत्वा ततः सर्वान्द्रोणपुत्रादयस्त्रयः ।।८७।।

निरगुः शिबिरात्तस्मात्पार्थभीता भयातुराः ।।

सर्वे पृथक्पृथग्देशान्दुद्रुवुः शीघ्रगामिनः ।। ८८ ।।

अथ द्रौणिर्ययौ विप्रा रेवातीरं मनोरमम् ।।

तत्र ह्यनेकसाहस्रा ऋषयो वेदवादिनः ।। ८९ ।।

कथयंतः कथाः पुण्यास्तपश्चक्रुरनुत्तमम् ।।

तत्रायं प्रययौ द्रौणिर्ऋषीणामाश्रमेष्वथ ।। 3.1.31.९० ।।

प्रविष्टमात्रे तस्मिंस्तु मुनयो ब्रह्मवादिनः ।।

द्रौणेर्दुश्चरितं ज्ञात्वा प्राहुर्योगबलेन तम् ।। ९१ ।।

सुप्तमा रणकृत्पापी द्रौणे त्वं ब्राह्मणाधमः ।।

त्वद्दर्शनेन ह्यस्माकं पातित्यं भवति ध्रुवम् ।। ९२ ।।

त्वत्संभाषणमात्रेण ब्रह्महत्यायुतं भ वेत् ।।

अतोऽस्मदाश्रमेभ्यस्त्वं निर्गच्छ पुरुषाधम ।। ९३ ।।

इत्यब्रुवंस्तदा द्रौणिं तत्रत्या मुनयो द्विजाः ।।

इतीरितस्ततो द्रौणिर्मुनिभिर्ब्रह्म वादिभिः ।। ९४ ।।

लज्जितो निलात्तस्मादाश्रमान्मुनिसेवितात् ।।

एवं काश्यादितीर्थेषु पुण्येषु प्रययौ च सः ।। ९५ ।।

तत्रतत्र द्विजैः सर्वै र्निंदितोऽसौ महात्मभिः ।।

व्यासं शरणमापेदे प्रायश्चित्तचिकीर्षया ।। ९६ ।।

ततो बदरिकारण्ये समासीनं महामुनिम् ।।

द्वैपायनं समागम्य प्रणनाम सभक्तिकम् ।। ९७ ।।

ततो व्यासोऽब्रवीदेनं द्रोणाचार्यसुतं मुनिः ।।

त्वमस्मदाश्रमादद्रौणे निर्याहि त्वरया त्विति ।। ९८ ।।

सुप्तमारण दोषेण महापातकवान्भवान् ।।

अतो मे भवतालापान्महत्पापं भविष्यति ।।

इत्युक्तः स तदा द्रौणिः प्रोवाचेदं वचो मुनिः ।। ९९ ।।

।। अश्वत्थामोवाच ।। ।।

भगवन्निंदितः सर्वैस्त्वामस्मि शरणं गतः ।। 3.1.31.१०० ।।

ब्रवीषि चेत्त्वमप्येवं कोऽन्यो मे शरणं भवेत् ।।

कृपां कुरु मयि ब्रह्मन्साधवो दीनवत्सलाः ।। १ ।।

सुप्तमारणदोषस्य शांत्यर्थं भगवन्मम ।।

प्रायश्चित्तं विधेहि त्वं सर्वज्ञोऽसि भवान्यतः ।।

इत्युक्तो द्रौणिना व्यासश्चिरं ध्यात्वा तमब्रवीत् ।। २ ।।

।। व्यास उवाच ।। ।।

एतत्पापस्य शांत्यर्थं प्रायश्चित्तं स्मृतौ न हि ।। ३ ।।

तथाप्युपायं वक्ष्यामि तवैतद्दोष शांतये ।।

दक्षिणांबुनिधौ पुण्ये रामसेतौ विमुक्तिदे ।। ४ ।।

धनुष्कोटिरितिख्यातं तीर्थमस्ति महत्तरम् ।।

अस्ति पुण्यतमं द्रौणे महापात कनाशनम् ।। ५ ।।

स्वर्गमोक्षप्रदं पुंसां ब्रह्महत्यादिशोधकम् ।।

सर्वमंगलमांगल्यं सर्वाभीष्टप्रदायकम् ।। ६ ।।

पवित्राणां पवित्रं च तीर्थानां च तथोत्तमम् ।।

दुःस्वप्ननाशनं पुण्यं नरकक्लेशनाशनम् ।। ७ ।।

अकालमृत्युशमनं पुंसां विजयवर्द्धनम् ।।

दारिद्र्यनाशनं पुंसामायुर्वर्धनकार णम् ।। ८ ।।

चित्तशुद्धिप्रदं नृणां शांतिदांत्यादिकारणम् ।।

तत्र गत्वा धनुष्कोटौ रामसेतौ विमुक्तिदे ।। ९ ।।

स्नानं कुरुष्व द्रौणे त्वं मासमात्रं निरं तरम् ।।

सुप्तमारणदोषात्त्वं सद्यः पूतो भविष्यसि ।। 3.1.31.११० ।।

कुरुष्व वचनं शीघ्रं मम त्वं द्रोणनंदन ।।

एवमुक्तस्तदा द्रौणिर्व्यासेन परमर्षिणा ।। ११ ।।

रामसेतुं समासाद्य धनुष्कोटिं पवित्रदाम् ।।

सस्नौ संकल्पपूर्वं तु मासमेकं निरन्तरम् ।। १२ ।।

त्रिसंध्यं रामनाथं च सिषेवे स दिने दिने ।।

ततस्त्रिंशद्दिने तोयस्नानाद्द्रोणात्मजस्तदा ।। १३ ।।

जजाप च धनुष्कोट्यां मंत्रं पंचाक्षरं तदा ।।

अकार्षीदुपवासं च द्रोणपुत्रस्तु तद्दिने ।। १४ ।।

अकरोज्जागरं रात्रौ रामनाथस्य सन्निधौ ।।

अपरेद्युर्धनुष्कोटौ स्नात्वा संकल्पपूर्वकम् ।। १५ ।।

सिषेवे रामनाथं च स्तुत्वा भक्तिपुरःसरम् ।।

ननर्त पुरतः शंभोरानंदाश्रुपरिप्लुतः ।। १६ ।।

ततः प्रसन्नो भगवान्प्रादुरासीत्तदग्रतः ।।

दृष्ट्वा तत्र महादेवं तुष्टाव परमेश्वरम् ।। ।। १७ ।।

।। द्रौणिरुवाच ।। ।।

नमस्ते देवदेवेश करुणाकर शंकर ।।

आपदंबुधिमग्नानां पोतायितपदांबुज ।। १८ ।।

महादेव कृपामूर्ते धूर्जटे नीललोहित ।।

उमाकांत विरूपाक्ष चंद्रशेखर ते नमः ।। १९ ।।

मृत्युंजय त्रिनेत्र त्वं पाहि मां कृपया दृशा ।।

पार्वतीपतये तुभ्यं त्रिपुरघ्नाय शंभवे ।।3.1.31.१२।।।

पिनाकपाणये तुभ्यं त्र्यंबकाय नमोनमः ।।

अनंतादिमहानागहारभूषणभूषित ।। २१ ।।

शूलपाणे नमस्तुभ्यं गंगाधर मृडाव्यय ।।

रक्ष मां कृपया देव पापसंघातपंजरात् ।।

इति स्तुतो महादेवो द्रौणिं प्रोवाच हर्षितः ।। २२ ।।

।। महादेव उवाच ।। ।।

सुप्तमारणदोषस्ते धनुष्कोटौ निमज्जनात् ।। २३ ।।

अश्वत्थामन्विनष्टोऽभूद्वरं वरय सुव्रत ।।

मयि प्रसन्ने लोकेषु किमलभ्यं भवेन्नृणाम् ।। २४ ।।

अतोऽभीष्टं वृणीष्व त्वं मत्तो द्रोणात्मजाधुना ।।

इत्युक्तः शंभुना द्रौणिः प्राह तं परमेश्वरम् ।। २५ ।।

तवाद्य दर्शनेनाहं कृतार्थोस्मि महेश्वरम् ।।

त्वद्दर्शनमपुण्यानामलभ्यं जन्मकोटिभिः ।। २६ ।।

अतो युष्मत्पदांभोजे निश्चला भक्तिरस्तु मे ।।

इममेव वरं देहि मह्यं शंभो नमोऽस्तु ते ।।२७।।

उक्त्वा तथास्त्विति द्रौणिं देवदेवो महेश्वरः ।।

पश्यतो द्रोणपुत्रस्य तत्रैवांतरधीयत ।।२८।।

अश्वत्थामापि विप्रेंद्रा धूतपापो विनिर्मलः ।।

रामचंद्रधनुष्कोटौ स्नानमात्रेण तत्क्षणे ।।२९।।

धूतपापमिमं द्रौणिं सर्वे चापि महर्षयः ।।

शुद्धं प्रत्यग्रहीषुस्ते तदाप्रभृति निर्मलम् ।।3.1.31.१३।।।

एवं वः कथितं विप्रा द्रौणिपापविमोक्षणम् ।।

रामचंद्रधनुष्कोटिस्नानवैभवमात्रतः ।।३१।।

यः पठेदिममध्यायं शृणुयाद्वा समाहितः ।।

स विधूयेह पापानि शिवलोके महीयते ।। १३२ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहरूयां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायामश्वत्थामसुप्तमारणदो षशांतिवर्णनंनामैकत्रिंशोऽध्यायः ।।३१।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 32

श्रीसूत उवाच ।। ।।

भूयोऽपिसंप्रवक्ष्यामि धनुष्कोटेस्तु वैभवम् ।।

युष्माकमादरेणाहं नैमिषारण्यवा सिनः ।।१।।

नंदोनाम महाराजः सोमवंशसमुद्भवः ।।

धर्मेण पालयामास सागरांतां धरामिमाम् ।।२।।

तस्य पुत्रः समभवद्धर्मगुप्त इति श्रुतः ।।

राज्य रक्षाधुरं नंदो निजपुत्रे निधाय सः ।।३।।

जितेंद्रियो जिताहारः प्रविवेश तपोवनम् ।।

ताते तपोवनं याते धर्मगुप्ताभिधो नृपः ।।४।।

मेदिनीं पालया मास धर्मज्ञो नीतितत्परः ।।

ईजे बहुविधैर्यज्ञैर्देवानिंद्रपुरोगमान् ।। ५ ।।

ब्राह्मणेभ्यो ददौ वित्तं क्षेत्राणि च बहूनि सः ।।

सर्वे स्वधर्मनिरतास्तस्मिन्राजनि शासति ।। ६ ।।

बभूवुर्नाभवन्पीडास्तस्मिंश्चोरादिसंभवाः ।।

कदाचिद्धर्मगुप्तोऽयमारूढस्तुरगोत्तमम् ।। ७ ।।

वनं विवेश विप्रेंद्रा मृगयारसकौ तुकी ।।

तमालतालहिंतालकुरवाकुलदिङ्मुखे ।। ८ ।।

विचचार वने तस्मिन्सिंहव्याघ्रभयानके ।।

मत्तालिकुलसंनादसंमूर्छितदिगंतरे ।। ९ ।।

पद्म कल्हारकुमुदनीलोत्पलवनाकुलैः ।।

तटाकैरपि संपूर्णे तपस्विजनमंडिते ।।3.1.32.१०।।

तस्मिन्वने संचरतो धर्मगुप्तस्य भूपतेः ।।

अभूद्विभावरी विप्रास्त मसावृतदिङ्मुखा ।। ११ ।।

राजापि पश्चिमां संध्यामुपास्य नियमान्वितः ।।

जजाप तत्र च वने गायत्रीं वेदमातरम् ।। १२ ।।

सिंहव्याघ्रादिभीत्या स्मिन्वृक्षमेकं समास्थिते ।।

राजपुत्रे तदाभ्यागादृक्षः सिंहभयार्दितः ।। १३ ।।

अन्वधावतं तं ऋक्षमैकः सिंहो वनेचरः ।।

अनुद्रुतः स सिंहेन ऋक्षो वृक्षमुपारुहत् ।। १४ ।।

आरुह्य ऋक्षो वृक्षं तं ददर्श जगतीपतिम् ।।

वृक्षस्थितं महात्मानं महाबलपराक्रमम् ।। १५ ।।

उवाच भूपतिं दृष्ट्वा ऋक्षोयं वनगोचरः ।।

मा भीतिं कुरु राजेंद्र वत्स्यावो रजनीमिह ।। १६ ।।

महासत्त्वो महाकायो महादंष्ट्रासमाकुलः ।।

वृक्षमूलं समायातः सिंहो यमतिभीषणः ।। १७ ।।

रात्र्यर्धं भज निद्रा त्वं रक्ष्यमाणो मयादितः ।।

ततः प्रसुप्तं मां रक्ष शर्वर्यर्धं महामते ।। १८ ।।

इति तद्वाक्यमादाय सुप्ते नंदसुते हरिः ।।

प्रोवाच ऋक्षं सुप्तोऽयं नृपश्च त्यज्यतामिति ।। १९ ।।

तं सिंहमब्रवीदृक्षो धर्मज्ञो द्विजसत्तमाः।।

भवान्धर्मं न जानीषे मृगराज वनेचर ।। 3.1.32.२० ।।

विश्वासघातिनां लोके महाकष्टा भवंति हि ।।

न हि मित्रद्रुहां पापं नश्येयज्ञायुतैरपि ।। २१ ।।

ब्रह्महत्यादिपापानां कथंचिन्निष्कृतिर्भवेत् ।।

विश्वस्तघातिनां पापं न नश्येज्जन्मकोटिभिः ।। २२ ।।

नाहं मेरुं महाभारं मन्ये पंचास्य भूतले ।।

महाभारमिमं मन्ये लोके विश्वासघातकम् ।। २३ ।।

एवमुक्तेऽथ ऋक्षेण सिंहस्तूष्णीमभूत्तदा ।।

धर्मगुप्ते प्रबुद्धे तु ऋक्षः सुष्वाप भूरुहे ।।२४।।

ततः सिंहोऽब्रवीद्भूपमेनमृक्षं त्यजस्व मे ।।

एवमुक्तेऽथ सिंहेन राजा सुप्तमशंकितः ।।२५।।

स्वांकन्यस्तशिरस्कं तमृक्षं तत्याज भूतले ।।

पात्यमानस्ततो राज्ञा नखालंबितपादपः ।।२६।।

ऋक्षः पुण्यवशाद्वृक्षान्न पपात महीतले ।।

स ऋक्षो नृपमभ्येत्य कोपाद्वाक्यमभाषत।।२७।।

कामरूपधरो राजन्नहं भृगुकुलोद्भवः ।।

ध्यानकाष्ठाभिधो नाम्ना ऋक्षरूपमधारयम् ।। २८ ।।

यस्मादनागसं सुप्तमत्याक्षीन्मां भवान्नृप ।।

मच्छापात्त्वमतः शीघ्रमुन्मत्तश्चर भूपते ।। २९ ।।

इति शप्त्वा मुनिर्भूपं ततः सिंहमभाषत ।।

नृसिंहस्त्वं महायक्षः कुबेरसचिवः पुरा ।।3.1.32.३।।।

हिमवद्गिरिमासाद्य कदाचित्त्वं वधूसखः ।।

अज्ञानाद्गौतमाभ्याशे विहारमतनोर्मुदा ।। ।। ३१ ।।

गौतमोप्युटजाद्दैवात्समिदाहरणाय वै ।।

निर्गतस्त्वां विवसनं दृष्ट्वा शापमुदाहरत् ।। ३२ ।।

यस्मान्ममाश्रमेऽद्य त्वं विवस्त्रः स्थितवानसि ।।

अतः सिंहत्वमद्यैव भविता ते न संशयः ।। ३३ ।।

इति गौतमशापेन सिंहत्वमगमत्पुरा ।।

कुबेरसचिवो यक्षो भद्रनामा भवान्पुरा ।। ।। ३४ ।।

कुबेरो धर्मशीलो हि तद्भृत्याश्च तथैव हि ।।

अतः किमर्थं त्वं हंसि मामृषिं वनगोचरम् ।। ३५ ।।

एतत्सर्वमहं ध्याना ज्जानामीह मृगाधिप ।।

इत्युक्ते ध्यानकाष्ठेन त्यक्त्वा सिंहत्वमाशु सः ।। ३६ ।।

यक्षरूपं गतो दिव्यं कुबेरसचिवात्मकम् ।।

ध्यानकाष्ठमसावाह प्रांजलिः प्रणतो मुनिम् ।। ३७ ।।

अद्य ज्ञातं मया सर्वं पूर्ववृत्तं महामुने ।।

गौतमः शापकाले मे शापांतमपि चोक्तवान् ।। ३८ ।।

ध्यानकाष्ठे न संवाद ऋक्षरूपेण ते यदा ।।

तदा निर्धूय सिंहत्वं यक्षरूपमवाप्स्यसि ।। ३९ ।।

इति मामब्रवीद्ब्रह्मन्गौतमो मुनिपुंगवः ।।

अद्य सिंहत्वनाशान्मे जानामि त्वां महामुने ।। 3.1.32.४० ।।

ध्यानकाष्ठाभिधं शुद्धं कामरूपधरं सदा ।।

इत्युक्त्वा तं प्रणम्याथ ध्यानकाष्ठं स यक्षराट् ।। ४१ ।।

विमानवरमा रुह्य प्रययावलकापुरीम् ।।

तस्मिन्गते तु यक्षेशे ध्यानकाष्ठो महामुनिः ।। ४२ ।।

अव्याहतेष्टगमनो यथेष्ठः प्रययौ महीम् ।।

ध्यानकाष्ठे गते तस्मि न्कामरूपधरे मुनौ ।। ४३ ।।

धर्मगुप्तौ मुनेः शापादुन्मत्तः प्रययौ पुरीम् ।।

उन्मत्तरूपं तं दृष्ट्वा मंत्रिणस्तु नृपोत्तमम् ।। ४४ ।।

पितुः सकाशमा निन्यू रेवातीरे मनोरमे ।।

तस्मै निवेदयामासुर्मतिभ्रंशं सुतस्य ते ।। ४५ ।।

ज्ञात्वा तु पुत्रवृत्तांतं नन्दस्तस्य पिता तदा ।।

पुत्रमादाय तरसा जैमिनेरन्तिकं ययौ ।।

तस्मै निवेदयामास पुत्रवृत्तान्तमादितः ।। ४६ ।।

भगवञ्जैमिने पुत्रो ममाद्योन्मत्ततां गतः ।। ४७ ।।

अस्योन्मादविनाशाय ब्रूह्युपायं महामुने ।।

इति पृष्टश्चिरं दध्यौ जैमिनिर्मुनिपुंगवः ।। ४८ ।।

ध्यात्वा तु सुचिरं कालं नृपं नंदमथाब्रवीत् ।।

ध्यानकाष्ठस्य शापेन ह्युन्म त्तस्ते सुतोऽभवत् ।। ४९ ।।

तस्य शापस्य मोक्षार्थमुपायं प्रब्रवीमि ते ।।

दक्षिणांबुनिधौ सेतौ पुण्ये पापविनाशने ।। 3.1.32.५० ।।

धनुष्कोटिरिति ख्यातं तीर्थमस्ति महत्तरम् ।।

पवित्राणां पवित्रं च मंगलानां च मंगलम् ।। ५१ ।।

श्रुतिसिद्धं महापुण्यं ब्रह्महत्यादिशोधकम् ।।

नीत्वा तत्र सुतं तेऽद्य स्नापयस्व महीपते ।। ५२ ।।

उन्मादस्तत्क्षणादेव तस्य नश्येन्न संशयः ।।

इत्युक्तस्तं प्रणम्यासौ जैमिनिं मुनिपुंगवम् ।। ५३ ।।

नंदः पुत्रं समादाय धनुष्कोटिं ययौ तदा ।।

तत्र च स्नापयामास पुत्रं नियमपूर्वकम् ।। ५४ ।।

स्नानमात्रात्ततः सद्यो नष्टोन्मादोऽभवत्सुतः ।।

स्वयं सस्नौ स नन्दोपि धनुष्कोटौ सभक्तिकम् ।। ५५ ।।

उषित्वा दिनमेकं तु सपुत्रस्तु पिता तदा ।।

सेवित्वा रामनाथं च सांबमूर्तिं घृणानिधिम् ।। ५६ ।।

पुत्रमापृच्छय नंदस्तं प्रययौ तपसे वनम् ।।

गते पितरि पुत्रोऽपि धर्मगुप्तो नृपो द्विजाः ।। ५७ ।।

प्रददौ रामनाथाय बहुवित्तानि भक्तितः ।।

ब्राह्मणेभ्यो धनं धान्यं क्षेत्राणि च ददौ तदा ।। ५८ ।।

प्रययौ मंत्रिभिः सार्धं स्वां पुरीं तदनंतरम् ।।

धर्मेण पालयामास राज्यं निहतकण्टकम् ।।५९।।

पितृपैतामहं विप्रा धर्मगुप्तोऽतिधार्मिकः ।।

उन्मादैरप्यपस्मारैर्ग्रहैर्दुष्टैश्च ये नराः ।। 3.1.32.६० ।।

ग्रस्ता भवंति विप्रेंद्रास्तेऽपि चात्र निमज्जनात् ।।

धनुष्कोटौ विमुक्ताः स्युः सत्यं सत्यं वदाम्यहम् ।। ६१ ।।

परित्यज्य धनुष्कोटिं तीर्थमन्यद्व्रजेत्तु यः ।।

सिद्धं स गोपयस्त्यक्त्वा स्नुहीक्षीरं प्रयाचते ।। ।। ६२ ।।

धनुष्कोटिर्धनुष्कोटिर्धनुष्कोटिरिति द्विजाः ।।

त्रिः पठन्तो नरा ये तु यत्र क्वापि जलाशये ।। ६३ ।।

स्नांति सर्वे नरास्ते वै यास्यंति ब्रह्मणः पदम् ।।

एवं वः कथिता विप्रा धर्मगुप्तकथा शुभा ।। ६४ ।।

यस्याः श्रवणमात्रेण ब्रह्महत्या विनश्यति ।।

स्वर्णस्तेयादयश्चान्ये नश्येयुः पापसंचयाः ।। ६५ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायां धर्मगुप्तोन्मा दविमोक्षणवर्णनंनाम द्वात्रिंशोऽध्यायः ।। ३२ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 33

।। श्रीसूत उवाच ।।

भूयोऽप्यहं प्रवक्ष्यामि धनुष्कोटेस्तु वैभवम् ।।

अत्यद्भुततरं गुह्यं सर्वलोकैकपावनम् ।। १ ।।

पुरा परावसुर्नाम ब्राह्मणो वेदवित्तमः ।।

अज्ञानात्पितरं हत्वा ब्रह्महत्यामवाप्तवान् ।।

सोऽपि स्नात्वा धनुष्कोटौ तद्दोषा न्मुमुचे क्षणात् ।। २ ।।

।। ऋषय ऊचुः ।। ।।

पितरं हतवान्पूर्वं कथं सूत परावसुः ।। ३ ।।

कथं वा धनुषः कोटौ मुक्तिस्तस्याप्यभून्मुने ।।

एतन्नः श्रद्दधानानां विस्तराद्वक्तुमर्हसि ।। ४ ।।

।। श्रीसूत उवाच ।। ।।

आसीद्राजा बृहद्द्युम्नश्चक्रवर्ती महाबलः ।।

धर्मेण पालयामास सागरांतां वसुन्धराम् ।। ५ ।।

अयजत्सत्रयागेन देवानिंद्रपुरोगमान् ।।

याजकस्तस्य रैभ्योऽभूद्विद्वान्परमधार्मिकः ।। ६ ।।

आस्तां पुत्रावुभौ तस्याप्यर्वावसु परावसू ।।

षडंगवेदविदुषौ श्रौतस्मार्तेषु कोविदौ ।।७ ।।

काणादे जैमिनीये च सांख्ये वैयासिके तथा ।।

गौतमे योगशास्त्रे च पाणिनीये च कोवि दौ ।।८।।

मन्वादिस्मृतिनिष्णातौ सर्वशास्त्रविशारदौ ।।

सत्रयागे सहायार्थं बृहद्द्युम्नेन याचितौ ।।९।।

भ्रातरौ समनुज्ञातौ पित्रा रैभ्येण जग्मतुः ।।

बृहद्द्युम्नस्य सत्रं तावश्विनाविव रूपिणौ ।।3.1.33.१०।।

अतिष्ठदाश्रमे रैभ्यः स्नुषया ज्येष्ठया सह ।।

तौ गत्वा भ्रातरौ तत्र राज्ञः सत्रमनुत्तमम्।।११।।

याज यामासतुः सत्रे बृहद्द्युम्नं महीपतिम् ।।

नाभवत्स्खलनं भ्रात्रोः सत्रे सांगेषु कर्मसु ।। १२ ।।

सत्रे संतन्यमानेऽस्मिन्बृहद्द्युम्नस्य भूपतेः ।।

मुनयो भ्यागमन्सर्वे राज्ञाहूता निरीक्षितुम् ।।१३।।

वसिष्ठो गौतमश्चात्रिर्जाबालिरथ कश्यपः ।।

क्रतुर्दक्षः पुलस्त्यश्च पुलहो नारदो मुनिः ।। १४ ।।

मार्कंडेयः शतानंदो विश्वामित्रः पराशरः ।।

भृगुः कुत्सोऽथ वाल्मीकिर्व्यासधौम्यादयोऽपरे ।। १५ ।।

शिष्यैः प्रशिष्यैर्बहुभिरसंख्यातैः समावृताः ।।

तानागतान्समालोक्य बृहद्द्युम्नो महीपतिः ।। १६ ।।

अर्घ्यादिना मुनीन्सर्वान्पूजयामास सादरम् ।।

नाना दिग्भ्यः समायाताश्चतुरंगबलैर्युताः ।। १७ ।।

उपदासहिता भूपास्सत्रं वीक्षितुमादरात् ।।

वैश्याः शूद्रास्तथा वर्णाश्चत्वरोऽपि समागताः ।। १८ ।।

वर्णिनोऽथ गृहस्थाश्च वानप्रस्थाश्च भिक्षवः ।।

सत्रं निरीक्षितुं तस्य बृहद्द्युम्नस्य चाययुः ।। १९ ।।

तान्सर्वान्पूजयामास यथार्हं राजसत्तमः ।।

ददौ चान्नानि सर्वेभ्यो घृतसूपादिकांस्तथा ।। 3.1.33.२० ।।

वस्त्राणि च सुवर्णानि हाररत्नान्यनेकशः ।।

एवं सत्कारयामास राजा सत्रे समागतान् ।। २१ ।।

रैभ्यपुत्रो तदा विप्रा अर्वावसुपरावसू ।।

अध्वरादीनि कर्माणि चक्रतुः स्खलितं विना ।। २२ ।।

तद्दृष्ट्वा मुनयस्सर्वे कौशलं रैभ्यपुत्रयौः ।।

श्लाघंते सशिरःकम्पं वसिष्ठप्रमुखास्तदा ।। २३ ।।

कर्माणि कानि चित्तत्र कारयित्वा परावसुः ।।

तृतीयसवनस्यांते गृहकृत्यं निरीक्षितुम् ।। २४ ।।

प्रययौ स्वाश्रमं सायं विनैवार्वावसुं द्विजाः ।।

तस्मिन्नवसरे रैभ्यं कृष्णाजिनसमावृतम् ।। २५ ।।

वने चरंतं पितरं दृष्ट्वा स मृगशंकया ।।

निद्राकलुषितो रात्रावंधे तमसि संकुले ।। २६ ।।

आत्मानं हंतुमायाति मृगोऽयमिति चिंतयन् ।।

जघान पितरं सोऽयं महारण्ये परावसुः ।। २७ ।।

रिरक्षुणा शरीरं स्वं तेनाकामनया पिता ।।

रजन्यां हिंसितो विप्रा महापातककारिणा ।। २८ ।।

अंतिकं स समागत्य व्यलोकयत तं हतम् ।।

ज्ञात्वा स्वपितरं रात्रौ शुशोच व्यथितेंद्रियः ।। ।। २९ ।।

प्रेतकार्यं ततः कृत्वा पितुः सर्वं परावसुः ।।

भूयोपि नृपतेः सत्रं परावसुरुपाययौ ।। 3.1.33.३० ।।

स्वचेष्टितं तु तत्सर्वमनुजाय ततोऽब्रवीत् ।।

मृतं स्वपितरं श्रुत्वा सोऽपि शोकाकुलोऽभवत् ।। ३१ ।।

ज्येष्ठोऽनुजं ततः प्राह वचनं द्विजसत्तमाः ।।

महत्सत्रं समारब्धं बृहद्द्युम्नस्य भूपतेः ।। ।। ३२ ।।

वोढुत्वशक्तिर्नास्त्यस्य कर्मणो बालकस्य ते ।।

जनकश्च हतो रात्रौ मयापि मृगशंकया ।। ३३ ।।

प्रायश्चित्तं च कर्त्तव्यं ब्रह्महत्या विशुद्धये ।।

मदर्थं व्रतचर्यां त्वं चर तात कनिष्ठक ।। ३४ ।।

एकाकी धुरमुद्वोढुं शक्तोऽहं सत्रकर्मणः ।।

अर्वावसुरिति प्रोक्तो ज्येष्ठेन स तमभ्य धात् ।। ३५ ।।

तथा भवत्वहं ज्येष्ठ चरिष्ये व्रतमुत्तमम् ।।

ब्रह्महत्याविशुद्ध्यर्थं त्वं सत्रधुरमावह ।। ३६ ।।

इत्युक्त्वा सोनुऽजो ज्येष्ठं तस्मात्सत्राद्वि निर्ययौ ।।

कारयामास कर्माणि ज्येष्ठस्तस्मिन्गते कतौ ।। ३७ ।।

द्वादशाब्दं कनिष्ठोपि ब्रह्महत्याव्रतं द्विजाः ।।

चरित्वा सत्रयागेऽस्मिन्नाजगाम पुनर्मुदा ।। ३८ ।।

तं दृष्ट्वा भ्रातरं ज्येष्ठो बृहद्द्युम्नमुवाच ह ।।

अयं ते ब्रह्महा सत्रमर्वावसुरुपागतः ।। ३९ ।।

एनमुत्सारयाशु त्वमस्मात्सत्रान्नृपो त्तम ।।

अन्यथा सत्रयागस्य फलहानिर्भविष्यति ।। 3.1.33.४० ।।

इतीरितः स स्वप्रेष्यैर्यागात्तमुदवासयत् ।।

उद्वास्यमानो राजानमर्वावसुरथाब्रवीत् ।। ।। ४१ ।।

न मया ब्रह्महत्येयं बृहद्द्युम्न कृतानघ ।।

किन्तु ज्येष्ठेन मे सा हि ब्रह्महत्या कृता विभो ।। ४२ ।।

ब्रह्महत्याव्रतं चीर्णं तदर्थं च मया धुना ।।

एवमुक्तोपि राजासौ वचसा स परावसोः ।। ४३ ।।

अर्वावसुं निजात्सत्रादुदवासयदाशु वै ।।

धिक्कृतो ब्राह्मणैश्चायं ययौ तूष्णीं वनं तदा ।। ४४ ।।

मुनिवृन्दसमाकीर्णं तपोवनमुपेत्य सः ।।

अर्वावसुस्तपश्चक्रे देवैरपि सुदुष्करम् ।। ४५ ।।

तपः कुर्वंस्तथादित्यमुपतस्थे समा हितः ।।

मूर्तिमांस्तपसा तस्य महताऽदुष्टधीः स्वयम् ।। ४६ ।।

आविरासीत्स्वया दीप्त्या भासयञ्जगतीतलम् ।।

कर्मसाक्षी जगच्चक्षुर्भास्करो देवताग्रणीः ।। ४७ ।।

आविर्बभूवुर्देवाश्च पुरस्कृत्य शचीपतिम् ।।

इन्द्रादयस्ततो देवाः प्रोचुरर्वावसुं द्विजाः ।।४८।।

अर्वावसो त्वं प्रवरस्तपसा ब्रह्म चर्यतः ।।

आचारेण श्रुतेनापि वेदशास्त्रादिशिक्षया ।। ४९ ।।

निराकृतोवमानेन त्वं परावसुना बहु ।।

तथापि क्षमया युक्तो न कुप्यति भवान्यतः ।। 3.1.33.५० ।।

यस्माज्ज्येष्ठोऽवधीत्तातं न हिंसीस्त्वं महामते ।।

ब्रह्महत्याव्रतं यस्मात्तदर्थं चरितं त्वया ।। ५१ ।।

अतः स्वीकुर्म हे त्वां तु पराकुर्मः परावसुम् ।।

उक्त्वैवं बलभिन्मुख्याः सर्वे च त्रिदिवालयाः ।। ५२ ।।

तं ते प्रवरयामासुर्निरासुश्च परावसुम् ।।

पुनरिंद्रादयो देवाः पुरोधाय दिवाकरम् ।। ५३ ।।

अर्वावसुं प्रोचुरिदं वरं त्वं वरयेति वै ।।

स चापि प्रार्थयामास जनकस्योत्थितिं पुन. ।। ५४ ।।

वधे चास्मरणं देवानात्मनो जनकस्य वै ।।

तथास्त्विति सुराः प्रोचुः पुनरूचुरिदं वचः ।। ५५ ।।

वरं चान्यं प्रदास्यामो वरय त्वं महामते ।।

एवमुक्तः सुरैः सोयमर्वावसुरभाषत ।। ५६ ।।

मम भ्रातुरदुष्टत्वं भवतु त्रिदशालयाः ।।

अर्वावसोर्वचः श्रुत्वा त्रिदशाः पुनरब्रुवन् ।। ५७ ।।

ब्राह्मणस्य पितुर्घातान्महान्दोषः परावसोः ।।

न ह्यन्यकृतपापस्य परेणानुष्ठितेन वै ।।५८।।

प्रायश्चित्तेन शांतिः स्यान्महापातकपंचके ।।

पितुर्ब्राह्मणहंतुस्तु सुतरां नास्ति निष्कृतिः।।५९।।

आत्मनानुष्ठितेनापि व्रतेन न हि दुष्कृतिः।।

परावसोस्तव भ्रातुरतो नैवास्ति निष्कृतिः ।।3.1.33.६०।।

अतोऽस्माभिरदुष्टत्वमस्मै दातुं न शक्यते ।।

अर्वावसुः पुनःप्राह देवानिंद्रपुरोगमान्।।६१।।

तथापि युष्मन्माहात्म्यात्प्रसादाद्भवतां तथा।।

पितुर्ब्राह्मणहंतुर्मे भ्रातुस्त्रिदशसत्तमाः।।६२।।

यथा स्यान्निष्कृतिर्ब्रूत तथैव कृपया युताः ।।

एवमर्वावसोः श्रुत्वा वचस्ते त्रिदशालयाः ।। ६३ ।।

ध्यात्वा तु सुचिरं कालं विनिश्चित्येदमबुवन् ।।

उपायं ते प्रवक्ष्यामस्तत्पातकनिवारणम् ।।६४।।

दक्षिणांबुनिधौ पुण्ये रामसेतौ विमुक्तिदे ।।

धनुष्कोटिरिति ख्यातं तीर्थमस्ति विमुक्तिदम् ।। ६५ ।।

ब्रह्महत्यासुरापानस्वर्णस्तेयविनाशनम्।।

गुरुतल्पगसंसर्गदोषाणामपि नाशनम् ।। ६६ ।।

अकामेनापि यः स्नायादपवर्गफलप्रदम् ।।

दुःस्वप्ननाशनं धन्यं नरकक्लेशनाशनम् ।। ६७ ।।

कैलासादिपदप्राप्तिकारणं परमार्थदम् ।।

सर्वकाममिदं पुंसामृणदारिद्र्यनाशनम् ।। ६८ ।।

धनुष्कोटिर्धनु ष्कोटिर्धनुष्कोटिरितीरणात् ।।

स्वर्गापवर्गदं पुंसां महापुण्यफलप्रदम् ।। ६९ ।।

तत्र गत्वा तव भ्राता स्नायाद्यदि परावसुः ।।

तत्क्षणादेव ते ज्येष्ठो मुच्यते ब्रह्महत्यया ।। 3.1.33.७० ।।

इदं रहस्यं सुमहत्प्रायश्चित्तमुदीरितम् ।।

उक्त्वेत्यर्वावसुं देवाः प्रययुः स्वपुरीं प्रति ।। ७१ ।।

तत अर्वावसुर्ज्येष्ठं समादाय परावसुम् ।।

रामचन्द्रधनुष्कोटिं प्रययौ मुक्तिदायिनीम् ।। ७२ ।।

सेतौ संकल्पमुक्त्वा तु नियमेन परावसुः ।।

सह भ्रात्रा धनुष्कोटौ सस्नौ पातकशुद्धये ।। ७३ ।।

स्नात्वोत्थितं धनुष्कोटौ तं प्रोवाचाशरीरिणी ।।

परावसो विनष्टा ते पितुर्ब्राह्मणघातजा ।। ७४ ।।

ब्रह्महत्या महा घोरा नरकक्लेशकारिणी ।।

इत्युक्त्वा विररामाथ सापि वागशरीरिणी ।। ७५ ।।

परावसुस्तदा विप्राः कनिष्ठेन समन्वितः ।।

रामचन्द्रधनुष्कोटिं प्रणम्य च सभक्तिकम् ।। ७६ ।।

रामनाथं महादेवं नत्वा भक्तिपुरःसरम् ।।

विमुक्तपातको विप्राः प्रययौ पितुराश्रमम् ।। ७७ ।।

मृत्वोत्थितस्तदा रैभ्यो दृष्ट्वा पुत्रौ समागतौ ।।

संतुष्टहृदयो ह्यास्ते पुत्राभ्यां स्वाश्रमे तदा ।। ७८ ।।

रामचन्द्रधनुष्कोटौ स्नानेन हतपातकम् ।।

एनं परावसुं सर्वे स्वीचक्रुर्मुनयस्तदा ।। ७९ ।।

एवं परावसोरुक्तं ब्रह्महत्याविमोक्षणम् ।।

स्नानमात्राद्धनुष्कोटौ युष्माकं मुनिपुंगवाः ।। 3.1.33.८० ।।

सुरा पानादयो विप्रा नश्यंत्येवात्र मज्जनात् ।।

सत्यंसत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।। ९१ ।।

महापातकसंघाश्च नश्येयुर्मज्जनादिह ।।

य इमं पठतेऽध्यायं ब्रह्महत्याविमोक्षणम् ।। ८२ ।।

ब्रह्महत्या विनश्येत तत्क्षणान्नास्ति संशयः ।।

सुरापानादयोऽप्यस्य शांतिं गच्छेयुरंजसा ।। ८३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायां परावसोर्ब्रह्महत्याविमो क्षणंनाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 34

।। श्रीसूत उवाच ।। ।।

इतिहासं पुनर्वक्ष्ये धनुष्कोटिप्रशंसनम् ।।

सृगालस्य च संवादं वानरस्य च सत्तमाः।। ।।१।।

सृगालवानरौ पूर्वमास्तां जातिस्मरावुभौ।।

पुरापि मानुषे भावे सखायौ तौ बभूवतुः।।२।।

अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा ।।

सख्यं समीयतुरुभौ सृगालो वानरो द्विजाः ।। ३ ।।

कदाचिद्रुद्रभूमिष्ठं सृगालं वानरोऽब्रवीत् ।।

श्मशानमध्ये संप्रेक्ष्य पूर्वजातिमनुस्मरन् ।। ४ ।।

।। वानर उवाच ।। ।।

सृगाल पातकं पूर्वं किमकार्षीः सुदारुणम् ।।

यस्त्वं श्मशाने मृतकान्पूतिगंधांश्च कुत्सितान् ।।

अत्सीत्युक्तोऽथ कपिना सृगालस्तमभाषत ।। ५ ।।

।। सृगाल उवाच ।। ।।

अहं पूर्वभवे ह्यासं ब्राह्मणो वेदपारगः ।। ६ ।।

वेदशर्माभिधो विद्वान्सर्वकर्मकलापवित् ।।

ब्राह्मणाय प्रतिश्रुत्य न मया तत्र जन्मनि ।। ७ ।।

कपे धनं तदा दत्तं सृगालोऽहं ततोऽभवम्।।

तस्मादेवंविधं भक्ष्यं भक्षयाम्यतिकुत्सितम् ।। ८ ।।

प्रतिश्रुत्य दुरात्मानो न प्रयच्छंति ये नराः ।।

कपे सृगालयोनिं ते प्राप्नुवंत्यतिकुत्सिताम् ।। ९ ।।

यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु ।।

सर्वाशास्तस्य नष्टाः स्युः षंढस्येव प्रजोद्भवः ।। 3.1.34.१० ।।

प्रतिश्रुत्याप्रदाने तु ब्राह्मणाय प्लवंगम ।।

दशजन्मार्जितं पुण्यं तत्क्षणादेव नश्यति ।। ११ ।।

प्रतिश्रुत्याप्रदानेन यत्पापमुपजायते ।।

नाश्वमेधशतेनापितत्पापं परिशुध्यति ।। १२ ।।

न जानेहमिदं पापं कदा नष्टं भवेदिति ।।

तस्मात्प्रतिश्रुतं द्रव्यं दातव्यं विदुषा सदा ।। १३ ।।

प्रतिश्रुत्याप्रदानेन सृगालो भवति ध्रुवम् ।।

तस्मात्प्राज्ञेन विदुषा दातव्यं हि प्रतिश्रुतम् ।। १४ ।।

इत्युक्त्वा स सृगालस्तं वानरं पुनरब्रवीत् ।।

भवता किं कृतं पापं येन वानरतामगात् ।। १५ ।।

अनागसो वनचरान्पक्षिणो हिंसि वानर ।।

तत्पातकं वदस्वाद्य वानरत्वप्रदं मम ।।

इत्युक्तः स सृगालेन सृगालं वानरोऽब्रवीत् ।। १६ ।।

।। वानर उवाच ।। ।।

पुरा जन्मन्यहं विप्रो वेदनाथ इति स्मृतः ।। ।। १७ ।।

विश्वनाथो मम पिता ममांबा कमलालया ।।

सृगाल सख्यमभवदावयोः प्राग्भवेऽपि हि ।। १९ ।।

त्वं न जानासि तत्सर्वं वेद्म्यहं पुण्य गौरवात् ।।

तपसाराध्य गिरिशं तत्प्रसादात्पुरा मम ।। १९ ।।

अतीतभाविविज्ञानमस्ति जन्मांतरेऽपि च ।।

गोमायो तद्भवे शाकं ब्राह्मणस्य हृतं मया ।। 3.1.34.२० ।।

तत्पापाद्वानरो जातो नरकानुभवादनु ।।

नाहर्तव्यं विप्रधनं हरणान्नरकं भवेत् ।। २१ ।।

अनंतरं वानरत्वं भविष्यति न संशयः ।।

तस्मान्न ब्राह्मणस्वं तु हर्तव्यं विदुषा सदा ।। २२ ।।

ब्रह्मस्वहरणात्पापमधिकं नैव विद्यते ।।

पीतवंतं विषं हंति ब्रह्मस्वं सकुलं दहेत् ।। २३ ।।

ब्रह्मस्वहरणात्पापी कुंभीपाकेषु पच्यते ।।

पश्चान्नरकशेषेण वानरीं योनिमश्नुते ।। २४ ।।

विप्रद्रव्यं न हर्तव्यं क्षंतव्यं तेष्वतः सदा ।।

बाला दरिद्राः कृपणा वेदशास्त्रादिवर्जिताः ।। २५ ।।

ब्राह्मणा नावमंतव्याः क्रुद्धाश्चेदनलोपमाः ।।

अतीतानागतं ज्ञानं सृगालाखिलमस्ति मे ।। २६ ।।

ज्ञानमस्ति न मे त्वेकमेतत्पापविशोधनम्।।

जातिस्मरोऽपि हि भवान्भाविकार्यं न बुध्यते ।।२७ ।।

अतीतेष्वपि किंचिज्ज्ञः प्रतिबंधवशाद्भवान् ।।

अतो भवान्न जानीते भाव्यतीतं तथाखिलम् ।। २८ ।।

कियत्कालं सृगालातो भुक्ता व्यसनमीदृशम् ।।

आवयोरस्य पापस्य को वा मोचयिता भवेत् ।। ।। २९ ।।

एवं प्रब्रुवतोस्तत्र प्लवंगमसृगालयोः।।

यदृच्छया दैवयोगात्पूर्वपुण्यवशाद्द्विजाः ।।3.1.34.३०।।

आययौ स महातेजाः सिंधुद्वीपाह्वयो मुनिः।।

भस्मोद्धूलितसर्वांगस्त्रिपुंड्रांकितमस्तकः ।। ३१।।

रुद्राक्षमालाभरणः शिवनामानि कीर्तयन् ।।

सृगालवानरौ दृष्ट्वा सिंधुद्वीपाभिधं मुनिम् ।।

प्रणम्य मुदि तौ भूत्वा पप्रच्छतुरिदं तदा ।। ३२ ।।

।। सृगालवानरावूचतुः ।। ।।

भगवन्सर्वधर्मज्ञ सिंधुद्वीप महामुने ।। ३३ ।।

आवां रक्ष कृपादृष्ट्या विलोकय मुहुर्मुदा ।।

कपित्वं च सृगालत्वमावयोर्येन नश्यति ।। ३४ ।।

तमुपायं वदस्वाद्य त्वं हि पुण्यवतां वरः ।।

अनाथान्कृपणानज्ञान्बालान्रोगातुराञ्जनान् ।। ३५ ।।

रक्षंति साधवो नित्यं कृपया निरपेक्षकाः ।।

ताभ्यामितीरितः प्राज्ञः सिंधुद्वीपो महामुनिः ।।

प्राह तौ कपिगोमायू ध्यात्वा तु मनसा चिरम् ।। ३६ ।।

।। सिंधुद्वीप उवाच ।। ।।

जानाम्यहं युवां सम्यग्घे सृगालप्लवंगमौ ।। ३७ ।।

सृगाल प्राग्भवे त्वं वै वेदशर्माभिधो द्विजः ।।

ब्राह्मणाय प्रतिश्रुत्य धान्यानामाढकं त्वया ।। ३८ ।।

न दत्तं तेन पापेन सार्गालीं योनिमाप्तवान् ।।

त्वं च वानर पूर्वस्मिन्वेदनाथाभिधो द्विजः ।। ३९ ।।

ब्राह्मणस्य गृहाच्छाकं हृतं चौर्यात्त्वया तत ।।

प्राप्तोसि वानरीं योनिं सर्वपक्षिभयंकरीम् ।। 3.1.34.४० ।।

युवयोः पापशांत्यर्थमुपायं प्रवदाम्यहम् ।।

दक्षिणांबुनिधौ रामधनुष्कोटौ युवामरम् ।। ४१ ।।

गत्वात्र कुरुतं स्नानं तेन पापाद्विमोक्ष्यथः ।।

पुरा किरातीसंसर्गात्सुमतिर्ब्राह्मणः सुराम् ।।

पीतवान्त्स धनुष्कोटौ स्नात्वा पापाद्विमोचितः ।। ४२ ।।

।। सृगाल वानरावूचतुः ।। ।।

सुमतिः कस्य पुत्रोऽसौ कथं च स सुरां पपौ ।। ४३ ।।

कथं किरात्यां सक्तोऽभूत्सिंधुद्वीप महामते ।।

आवयोर्विस्तरादेतद्वद त्वं कृपायाधुना ।। ४४ ।।

।। सिंधुद्वीप उवाच ।। ।।

महाराष्ट्राभिधे देशे ब्राह्मणः कश्चिदास्तिकः ।।

यज्ञदेव इति ख्यातो वेदवेदांगपारगः ।। ४५ ।।

दयालुरातिथेयश्च शिवनारायणार्चकः ।।

सुमतिर्नाम पुत्रोऽभूद्यज्ञदेवस्य तस्य वै ।। ४६ ।।

पितरौ स परित्यज्य भार्यामपि पतिव्रताम् ।।

प्रययावुत्कले देशे विटगोष्ठीपरायणः ।। ४७ ।।

काचित्किराती तद्देशे वसन्ती युवमोहिनी ।।

यूनां समस्तद्रव्याणि प्रलोभ्य जगृहे चिरम् ।। ४८ ।।

तस्या गृहं स प्रययौ सुमतिर्ब्राह्मणाधमः ।।

सुमतिं सा न जग्राह किराती निर्धनं द्विजम् ।। ४९ ।।

तया त्यक्तोऽथ सुमतिस्तत्संयोगैकतत्परः ।।

इतस्ततश्चोरयित्वा बहुद्रव्याणि संततम् ।। 3.1.34.५० ।।

दत्त्वा तया चिरं रेमे तद्ग्रहे बुभुजे च सः ।।

एकेन चषकेणासौ तया सह सुरां पपौ ।। ५१ ।।

एवं स बहुकालं वै रममाणस्तया सह ।।

पितरौ निजपत्नीं च नास्मरद्विषयातुरः ।। ५२ ।।

स कदाचित्किरातैस्तु चौर्यं कर्तुं ययौ सह ।।

द्रव्यं हर्तुं किरातास्ते लाटानां विषयं ययुः ।।५३।।

विप्रस्य कस्यचिद्गेहे सोऽपि कैरातवेषधृक्।।

ययौ चोरयितुं द्रव्यं साहसी खङ्गहस्तवान् ।। ५४ ।।

तद्गृहस्वामिनं विप्रं हत्वा खड्गेन साहसी ।।

समादाय बहु द्रव्यं किरातीभवनं ययौ ।। ५५ ।।

तं यांतमनुयाति स्म ब्रह्महत्या भयंकरी ।।

नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा ।। ५६ ।।

गर्जंती साट्टहासं सा कंपयन्ती च रोदसी ।।

अनुद्रुतस्तया सोऽयं बभ्राम जगतीतले ।। ५७ ।।

एवं भ्रमन्भुवं सर्वां कदाचित्सुमतिः स्वयम् ।।

स्वं ग्रामं प्रययौ भीत्या हे सृगालप्लवंगमौ ।। ५८ ।।

अनुद्रुतस्तया भीतः प्रययौ स्वगृहं प्रति ।।

ब्रह्महत्याप्यनुद्रुत्य तेन साकं गृहं ययौ ।। ५९ ।।

पितरं रक्ष रक्षेति सुमतिः शरणं ययौ ।।

मा भैषीरिति तं प्रोच्य पिता रक्षितुमुद्यतः ।।

तदानीं ब्रह्महत्येयं तत्तातं प्रत्यभाषत ।। 3.1.34.६० ।। ।

। ब्रह्महत्योवाच ।। ।।

मैनं त्वं प्रतिगृह्णीष्व यज्ञदेव द्विजोत्तम ।। ६१ ।।

असौ सुरापी स्तेयी च ब्रह्महा चातिपातकी ।।

मातृद्रोही पितृद्रोही भार्यात्यागी च पापकृत् ।। ६२ ।।

किरातीसंगदुष्टश्च नैनं मुञ्चाम्यहं द्विज ।।

गृह्णासि चेदिमं विप्र महापातकिनं सुतम् ।। ६३ ।।

त्वद्भार्यामस्य भार्यां च त्वां च पुत्रमिमं द्विज ।।

भक्षयिष्यामि वंशं च तस्मान्मुञ्च सुतं त्विमम् ।। ।। ६४ ।।

इमं त्यजसि चेत्पुत्रं युष्मान्मोक्ष्यामि सांप्रतम् ।।

नैकस्यार्थे कुलं हन्तुमर्हसि त्वं महामते ।।

इत्युक्तः स तया तत्र यज्ञदेवोऽब्रवीच्च ताम् ।। ६५ ।।

।। यज्ञदेव उवाच ।। ।।

बाधते मां सुतस्नेहः कथमेनं परित्यजे ।।

ब्रह्महत्या तदाकर्ण्य द्विजोक्तं तमभाषत ।। ६६ ।।

।। ब्रह्महत्योवाच ।। ।।

अयं हि पतितोऽभूत्ते वर्णाश्रमबहिष्कृतः ।। ६७ ।।

पुत्रेस्मिन्मा कुरु स्नेहं निंदितं तस्य दर्शनम्।।

इत्युक्त्वा ब्रह्महत्या सा यज्ञदेवस्य पश्यतः ।। ६८ ।।

तलेन प्रजहारास्य पुत्रं सुमतिनामकम् ।।

रुरोद तात तातेति पितरं प्रब्रुवन्मुहुः ।। ६९ ।।

रुरुदुर्जनको माता भार्यापि सुमतेस्तदा ।।

एतस्मिन्नंतरे तत्र दुर्वासाः शंकरांशजः ।। 3.1.34.७० ।।

दिष्टवा समाययौ योगी हे सृगालप्लवंगमौ ।।

यज्ञदेवोऽथ तं दृष्ट्वा मुनिं रुद्रावतारकम्।।

श्रुत्वा प्रणम्य शरणं ययाचे पुत्रकारणात् ।। ७१ ।।

।। पितोवाच ।। ।।

दुर्वासस्त्वं महायोगी साक्षाद्वै शंकरांशजः ।। ७२ ।।

त्वद्दर्शनमपुण्यानां भविता न कदाचन ।।

ब्रह्महा च सुरापी च स्तेयी चाभूत्सुतो मम ।। ७३ ।।

एनं प्रहर्तुमायाता ब्रह्महत्या विवर्तते ।।

भूयाद्यथा मे पुत्रोऽयं महापातकमोचितः ।। ७४ ।।

घोरा च ब्रह्महत्येयं यथा शीघ्रं लयं व्रजेत् ।।

तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु ।। ७९ ।।

अयमेव हि पुत्रो मे नान्योऽस्ति तनयो मुने ।।

अस्मिन्मृते तु वंशो मे समुच्छिद्येत्समूलतः ।। ७६ ।।

ततः पितृभ्यः पिंडानां दातापि न भवेद्ध्रुवम् ।।

अतः कृपां कुरुष्व त्वमस्मासु भगवन्मुने ।। ७७ ।।

इत्युक्तः स तदोवाच दुर्वासाः शंकरांशजः ।।

ध्यात्वा तु सुचिरं कालं यज्ञदेवं द्विजोत्तमम् ।। ७८ ।।

।। दुर्वासा उवाच ।। ।।

य़ज्ञदेव कृतं पापमतिक्रूरं सुतेन ते ।।

नास्य पापस्य शांतिः स्यात्प्रायश्चित्तायुतैरपि ।। ७९ ।।

अथापि ते सुतस्याहमस्य पापस्य शांतये ।।

प्रायश्चित्तं वदिष्यामि शृणु नान्यमना द्विज ।। 3.1.34.८० ।।

श्रीरामधनुषः कोटौ दक्षिणे सलिलार्णवे ।।

स्नाति चेत्तव पुत्रोऽयं पातकान्मोक्ष्यते क्षणात् ।। ८१ ।।

दुर्विनीताभिधो विप्रो यत्र स्नानाद्द्विजोत्तम ।।

गुरुस्त्रीगम पापेभ्यस्तत्क्षणादेव मोचितः ।। ८२ ।।

सैषा श्रीधनुषः कोटी राघवस्य स्वयं हरेः ।।

स्नानमात्रेण पापौघं नाशयेत्त्वत्सुतस्य सा ।। ८३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायां सृगालवानरसंवादे सुमतिमहापातक विमोक्षोपायकथनंनाम चतुस्त्रिंशोऽध्यायः ।। ३४ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 35

।। यज्ञदेव उवाच ।। ।।

दुर्वासर्षे महाप्राज्ञ परापरविचक्षण ।।

दुर्विनीताभिधः कोऽयं योऽसौ गुर्वंगनामगात् ।। १ ।।

कस्य पुत्रो धनुष्कोटौ स्नानेन स कथं द्विजः ।।

तत्क्षणान्मुमुचे पापाद्गुरुस्त्रीगमसंभवात् ।।

एतन्मे श्रद्धधानस्य विस्तराद्वक्तुमर्हसि ।। २ ।।

।। दुर्वासा उवाच ।। ।।

पांड्यदेशे पुरा कश्चिद्ब्राह्मणोभूद्बहुश्रुतः ।। ३ ।।

इध्मवाहाभिधो नाम्ना तस्य भार्या रुचिंस्तथा ।।

बभूव तस्य तनयो दुर्विनीताभिधो द्विजः ।। ४ ।।

बाल्ये वयसि पुत्रस्य ममार जनकोऽस्य ३ ।।

दुर्विनीतः पितुस्तस्य स कृत्वा चौर्ध्वदैहिकम्।। ५ ।।

कंचित्कालं गृहेऽवात्सीन्मात्रा विधवया सह ।।

ततो दुर्भिक्षमभवद्वादशाब्दमवर्षणात् ।। ६ ।।

ततो देशांतरमगान्मात्रा साकं द्विजोत्तम ।।

गोकर्णं स समासाद्य सुभिक्षं धान्यसंचयैः ।। ७ ।।

उवास सुचिरं कालं मात्रा विधवया सह ।।

ततो बहुतिथे काले दुर्विनीतो गते सति ।। ८ ।।

पूर्वदुष्कर्मपाकेन मूढबुद्धिरहो बत ।।

अनंगशरविद्धांगो रागाद्विकृतमानसः ।।९।।

मामेति वादिनीमंबां बलादाकृष्य पातकी ।।

बुभुजे काममोहात्मा मैथुनेन द्विजोत्तम ।। 3.1.35.१० ।।

स खिन्नो दुर्विनीतोऽयं रेतःसेकादनंतरम् ।।

मनसा चिंतयन्पापं रुरोदभृशदुःखितः ।। ११ ।।

अहोतिपापकृदहं महापातकिनां वरः ।।

अगमं जननीं यस्मात्कामबाणवशानुगः ।। १२ ।।

इति संचित्य मनसा स तत्र मुनिसन्निधौ ।।

जुगुप्तमानश्चात्मानं तान्मुनीनिदमब्रवीत्।। १३ ।।

गुरुस्त्रीगमपापस्य प्रायश्चित्तं ममद्विजाः ।।

वदध्वं शास्त्रतत्त्वज्ञाः कृपया मयि केवलम् ।। १४ ।।

मरणान्निष्कृतिः स्याच्चेन्मरिष्यामि न संशयः ।।

भवद्भिरुच्यते यत्तु प्रायश्चित्तं ममाधुना ।। १५ ।।

करिष्ये तद्द्विजाः सत्यं मरणं वान्यदैव वा ।।

तच्छ्रुत्वा वचनं तस्य केचित्तत्रमुनीश्वराः ।। १६ ।।

अनेन साकं वार्ता तु दोषायेति विनिश्चिताः ।।

मौनित्वं भेजिरे केचिन्मुनयः केचिदा भृशम् ।। १७ ।।

दुष्टात्मा मातृगामी त्वं महापातकिनां वरः ।।

गच्छगच्छेतिबहुशो वाचमूचुर्द्विजोत्तमाः ।। १८ ।।

तान्निवार्य कृपाशीलः सर्वज्ञः करुणानिधिः ।।

कृष्णद्वैपायनस्तत्र दुर्विनीतमभाषत ।। १९ ।।

गच्छाशु रामसेतौ त्वं धनुष्कोटौ सहांबया ।।

मकरस्थे रवौ माघे मासमेकं निरंतरम्।। 3.1.35.२० ।।

जितेंद्रियो जितक्रोधः परद्रोहविवर्जितः ।।

एकमासं निराहारः कुरु स्नानं सहांबया ।। २१ ।।

पूतो भविष्यस्यद्धा गुरुस्त्री गमदोषतः ।।

यत्पातकं न नश्येत सेतुस्नानेन तन्नहि ।। २२ ।।

श्रुतिस्मृतिपुराणेषु धनुष्कोटिप्रशंसनम् ।।

बहुधा भण्यते पंचमहापातकनाशनम् ।। ।। २३ ।।

तस्मात्त्वं त्वरया गच्छ धनुष्कोटिं सहांबया ।।

प्रमाणं कुरु मद्वाक्यं वेदवाक्यमिव द्विज ।। २४ ।।

श्रीरामधनुषः कोटौ स्नातस्य द्विज पुत्रक ।।

महापातककोट्योपि नैव लक्ष्या इतीव हि ।। २५ ।।

प्रायश्चित्तांतरं प्रोक्तं मन्वादिस्मृतिभिः स्मृतौ ।।

तद्गच्छत्वं धनुष्कोटिं महापातक नाशिनीम् ।। २६ ।।

इतीरितोऽथ व्यासेन दुर्विनीतोद्विजोत्तमाः ।।

मात्रा साकं धनुष्कोटिं नत्वा व्यासं च निर्ययौ ।। २७ ।।

मकरस्थे रवौ माघे मासमात्रं निरंतरम् ।।

मात्रा सह निराहारो जितक्रोधो जितेंद्रियः ।। २८ ।।

श्रीरामधनुषः कोटौ सस्नौ संकल्पपूर्वकम् ।।

रामनाथं नमस्कुर्वं स्त्रिकालं भक्तिपूर्वकम् ।। २९ ।।

मासांते पारणां कृत्वा मात्रा सह विशुद्धधीः ।।

व्यासांतिकं पुनः प्रायात्तस्मै वृत्तं निवेदितुम् ।। 3.1.35.३० ।।

स प्रणम्य पुनर्व्यासं दुर्विनीतोऽब्रवीद्वचः ।। ३१ ।।

।। दुर्विनीत उवाच ।। ।।

भगवन्करुणासिंधो द्वैपायन महत्तम ।।

भवतः कृपया रामधनुष्कोटौ सहांबया ।।

माघमासे निराहारो मासमात्रमतंद्रितः ।। ३२ ।।

अहं त्वकरवं स्नानं नमस्कुर्वन्महेश्वरम् ।।

इतः परं मया व्यास भगवन्भक्तवत्सल ।। ३३ ।।

यत्कर्त्तव्यं मुने तत्त्वं ममोपदिश तत्त्वतः ।।

इति तस्य वचः श्रुत्वा दुर्विनीतस्य वै मुनिः ।।

बभाषे दुर्विनीतं तं व्यासो नारायणांशकः ।। ३४ ।।

।। व्यास उवाच ।। ।।

दुर्विनीत गतं तेऽद्य पातकं मातृसंगजम् ।। ३५ ।।

मातुश्च पातकं नष्टं त्वत्संगतिनिमि त्तजम् ।।

संदेहो नात्र कर्तव्यः सत्यमुक्तं मया तव ।। ३६ ।।

बांधवाः स्वजनाः सर्वे तथान्ये ब्राह्मणाश्च ये ।।

सर्वे त्वां संग्रहीष्यंति दुर्विनीतां बया सह ।। ३७ ।।

मत्प्रसादाद्धनुष्कोटौ विशुद्धस्त्वं निमज्जनात् ।।

दारसंग्रहणं कृत्वा गार्हस्थ्यं धर्ममाचर ।। ३८ ।।

त्यज त्वं प्राणिहिंसां च धर्मं भज सनातनम् ।।

सेवस्व सज्जनान्नित्यं भक्तियुक्तेन चेतसा ।। ३९ ।।

संध्योपासनमुख्यानि नित्यकर्माणि न त्यज ।।

निगृहीष्वेन्द्रियग्राममर्चयस्व हरं हरिम् ।। 3.1.35.४० ।।

परापवादं मा ब्रूया मासूयां भज कर्हिचित् ।।

अन्यस्याभ्युदयं दृष्ट्वा संतापं कृणु मा वृथा ।। ४१ ।।

मातृवत्परदा रांश्च त्वन्नित्यमवलोकय ।।

अधीतवेदानखिलान्माविस्मर कदाचन ।। ४२ ।।

अतिथीन्मावमन्यस्व श्राद्धं पितृदिने कुरु ।।

पैशून्यं मा वदस्व त्वं स्वप्नेऽप्यन्स्य कर्हिचित् ।। ४३ ।।

इतिहासपुराणानि धर्मशास्त्राणि संततम् ।।

अवलोकय वेदांतं वेदांगानि तथा पुनः ।। ४४ ।।

हरिशंकरना मानि मुक्तलज्जोऽनुकीर्त्तय ।।

जाबालोपनिषन्मंत्रैस्त्रिपुंड्रोद्धूलनं कुरु ।। ४५ ।।

रुद्राक्षान्धारय सदा शौचाचारपरो भव ।।

तुलस्या बिल्वपत्रैश्च नारायणहरावुभौ ।। ४६ ।।

एकं कालं द्विकालं वा त्रिकालं चार्चयस्य भोः ।।

तुलसीदलसंमिश्रं सिक्तं पादोदकेन च ।। ४७ ।।

नैवेद्यान्नं सदा भुंक्ष्व शंभुनारायणाग्रतः ।।

कुरु त्वं वैश्वदेवाख्यं बलिमन्नविशुद्धये ।। ४८ ।।

यतीश्वरान्ब्रह्मनिष्ठान्तर्पयान्नैर्गृहागतान् ।।

वृद्धानन्याननाथांश्च रोगिणो ब्रह्मचारिणः ।। ४९ ।।

कुरु त्वं मातृशुश्रूषामौपासनपरो भव ।।

पंचाक्षरं महामंत्रं प्रणवेन समन्वितम् ।। 3.1.35.५० ।।

तथैवाष्टाक्षरं मंत्रमन्यमंत्रानपि द्विज ।।

जप त्वं प्रयतो भूत्वा ध्यायन्मंत्राधिदेवताः ।। ५१ ।।

एवमन्यांस्तथा धर्मान्स्मृत्युक्तान्त्सर्वदा कुरु ।।

एवं कृतव्रतस्ते स्याद्देहांते मुक्तिरप्यलम् ।। ५२ ।।

इत्युक्तो व्यासमुनिना दुर्विनीतः प्रणम्य तम् ।।

तदुक्तमखिलं कृत्वा देहांते मुक्तिमाप्तवान् ।। ५३ ।।

तन्मातापि मृता काले धनुष्कोटिनिमज्जनात ।।

अवाप परमां मुक्तिमपुनर्भवदायिनीम् ।। ५४ ।।

।। दुर्वासा उवाच ।। ।।

एवं ते दुर्विनीतस्य तन्मातुश्च विमोक्षणम् ।।

धनुष्कोट्यभिषेकेण यज्ञदेव मयेरितम् ।। ५५ ।।

पुत्रमेनं त्वमप्याशु ब्रह्महत्याविशुद्धये ।।

समादाय व्रज ब्रह्मन्धनुष्कोटिं विमुक्तिदाम् ।। ५६ ।।

।। सिंधुद्वीप उवाच ।। ।।

इति दुर्वाससा प्रोक्तो यज्ञदेवो निजं सुतम् ।।

समादाय ययौ राम धनुष्कोटिं विमुक्तिदाम् ।। ५७।। ।।

गत्वा निवासमकरोत्षण्मासं तत्र स द्विजः ।।

पुत्रेण साकं नियतो हे सृगालप्लवंगमौ ।। ५८ ।।

स सस्नौ च धनुष्कोटौ षण्मासं वै स पुत्रकः ।।

षण्मासांते यज्ञदेवं प्राह वागशरीरिणी ।। ५९ ।।

विमुक्ता यज्ञदेवस्य ब्रह्महत्या सुतस्य ते ।।

स्वर्णस्तेयात्सुरापानात्किरातीसंगमात्तथा ।। 3.1.35.६० ।।

अन्येभ्योपि हि पापेभ्यो विमुक्तोयं सुतस्तव ।।

संशयं मा कुरुष्व त्वं यज्ञदेव द्विजोत्तम ।। ६१ ।।

इत्युक्त्वा विररामाथ सा तु वाग शरीरिणी ।।

तदाऽशरीरिणीवाक्यं यज्ञदेवः स शुश्रुवान् ।। ६२ ।।

संतुष्टः पुत्रसहितो रामनाथं निषेव्य च ।।

धनुष्कोटिं नमस्कृत्य पुत्रेण सहि तस्तदा ।। ६३ ।।

स्वदेशं प्रययौ हृष्टः स्वग्रामं स्वगृहं तथा ।।

सपुत्रदारः सुचिरं सुखमास्ते सुनिर्वृतः ।। ६४ ।।

।। सिन्धुद्वीप उवाच ।। ।।

गोमायुवानरावेवं युवयोः कथितं मया ।।

यज्ञदेवसुतस्यास्य सुमतेः परिमोक्षणम् ।।६५।।

पातकेभ्यो महद्भ्यश्च धनुष्कोटौ निमज्जनात् ।।

युवामतो धनुष्कोटिं गच्छतं पापशुद्धये ।।

नान्यथा पापशुद्धिः स्यात्प्रायश्चित्तायुतैरपि ।।६६।।

।। श्रीसूत उवाच ।। ।।

सिन्धुद्वीपस्य वचनमिति श्रुत्वा द्विजो त्तमाः।।६७।।

सृगालवानरावाशु विलंघितमहापथौ।।

धनुष्कोटिं प्रयासेन गत्वा स्नात्वा च तज्जले।।६८।।

विमुक्तौ सर्वपापेभ्यो विमानवरसंस्थितौ।।

देवैः कुसुमवर्षेण कीर्यमाणौ सुतेजसौ ।।६९।।

हारकेयूरमुकुटकटकादिविभूषितौ ।।

देवस्त्रीधूयमानाभ्यां चामराभ्यां विराजितौ ।।

गत्वा देवपुरीं रम्यामिंद्र स्यार्द्धासनं गतौ ।। 3.1.35.७० ।।

।। श्रीसूत उवाच ।। ।।

युष्माकमेवं कथितं सृगालस्य कपेरपि ।। ७१ ।।

पापाद्विमोक्षणं विप्रा धनुष्कोटौ निमजनात् ।।

भक्त्या य इममध्यायं शृणोति पठतेऽपि वा ।।७२।।

स्नानजं फलमाप्नोति धनुष्कोटौ स मानवः ।।

योगिवृंदैरसुलभां मुक्तिमप्याशु विंदति ।।७३।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायां सृगालवानरविमोक्षणवर्णनंनाम पंचत्रिंशोऽध्यायः ।। ३५ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 36

।। श्रीसूत उवाच ।। ।।

धनुष्कोटेस्तु माहात्म्यं भूयोऽपि प्रब्रवीम्यहम् ।।

दुराचाराभिधो यत्र स्नात्वा मुक्तो भवद्द्विजाः।। ।। १ ।।

।। मुनय ऊचुः ।। ।।

दुराचाराभिधः कोऽसौ सूत तत्त्वार्थकोविद ।।

किंच पापं कृतं तेन दुराचारेण वै मुने ।। २ ।।

कथं वा पातका न्मुक्तो धनुष्कोटौ निमज्जनात् ।।

एतच्छुश्रूषमाणानां विस्तराद्वद नो मुने ।। ३ ।।

।। श्रीसूत उवाच ।। ।।

मुनयः श्रूयतां तस्य दुराचारस्य पातकम् ।।

स्नानेन धनुषः कोटौ यथा मुक्तश्च पातकात् ।। ४ ।।

दुराचाराभिधो विप्रो गौतमीतीरमाश्रितः ।।

कश्चिदस्ति द्विजाः पापी क्रूरकर्मरतः सदा ।। ५ ।।

ब्रह्मघ्नैश्च सुरापैश्च स्तेयिभिर्गुरुतल्पगैः ।।

तदा संसर्गदुष्टोऽसौ तैः साकं न्यवसद्विजाः ।।६।।

महापातकिसंसर्गं दोषेणास्य द्विजस्य वै ।।

ब्राह्मण्यं सकलं नष्टं निःशेषेण द्विजोत्तमाः ।। ७ ।।

महापातकिभिः सार्द्धं दिनमेकं तु यो द्विजः ।।

निवसेत्सादरं तस्य तत्क्षणाद्वै द्विजन्मनः ।। । ८ ।।

ब्राह्मणस्य तुरीयांशो नश्यत्येव न संशयः ।।

द्विदिनं सेवनात्स्पर्शाद्दर्शनाच्छयनात्तथा ।। ९ ।।

भोजनात्सह पंक्तौ च महापातकिभिर्द्विजाः ।।

द्वितीयभागो नश्येत ब्राह्मणस्य न संशयः ।। 3.1.36.१० ।।

त्रिदिनाच्च तृतीयांशो नश्यत्येव न संशयः ।।

चतुर्दिनाच्चतुर्थांशो विलयं याति हि ध्रुवम् ।। ११ ।।

अतः परं तु तैः साकं शयनासनभोजनैः ।।

तत्तुल्यपातकी भूयान्महापातकसंभवात् ।। १२ ।।

तेन ब्राह्मण्यहीनोऽयं दुराचाराभिधो द्विजाः ।।

ग्रस्तोऽभवद्भीषणेन वेतालेन बलीयसा ।।१३।।

असौ परवशस्तेन वेतालेनातिपीडितः ।।

देशाद्देशं भ्रमन्विप्रा वनाच्चैव वनांतरम् ।।१४।।

पूर्वपुण्यविपाकेन दैवयोगेन स द्विजः ।।

रामचंद्रधनुष्कोटिं महापातकनाशनीम् ।। १५ ।।

अनुद्रुतः पिशाचेन तेनाविष्टो ययौ द्विजाः ।।

न्यमज्जयत्स वेतालो धनुष्कोटिजले त्वमुम् ।। १६ ।।

धनुष्कोटिजले सोऽयं वेतालेन प्रवेशितः ।।

उदतिष्ठत्क्षणादेव वेतालेन विमोचितः ।। १७ ।।

उत्थितोऽसौ द्विजो विप्रा धनुष्कोटिजलात्तदा ।।

स्वस्थो व्यचिंतयत्कोऽयं देशो जलधितीरतः ।। १८ ।।

कथं मयागतमिह गौतमीतीरवासिना ।।

इति चिंताकुलः सोऽयं धनुष्कोटिनिवासिनम् ।। १९ ।।

दत्तात्रेयं महात्मानं योगिप्रवरमुत्तमम् ।।

समागम्य प्रणम्यासौ दुराचारोऽभ्यभाषत ।। 3.1.36.२० ।।

न जाने भगवन्देशः कतमोऽयं वदाधुना ।।

गौतमीतीरनिलयो दुराचाराभिधो ह्यहम् ।। २१ ।।

कृपया ब्रूहि मे ब्रह्मन्मयात्र कथमागतम्।।

इति पृष्टो मुनिस्तेन दुराचारेण सुव्रतः ।। २२ ।।

ध्यात्वा मुहूर्तमवदद्दुराचारं घृणानिधिः ।।

महापातकिसंसर्गे दुराचार कृते पुरा ।। २३ ।।

ब्राह्मण्यं नष्टमभवद्वेतालस्त्वां ततोऽग्रहीत् ।।

तेनाविष्टस्त्वमायातो विवशोऽत्र विमूढधीः ।। २४ ।।

न्यमज्जयत्त्वां वेतालो धनुष्कोटिजलेऽत्र तु ।।

तत्र मज्जनमात्रेण विमुक्तः पातकाद्भवान् ।। २५ ।।

धनुष्कोटौ तु ये स्नानं पुण्ये कुर्वंति मानवाः ।।

तेषां नश्यंति वै सत्यं पंचपातकसंचयाः ।। २६ ।।

रामचंद्रधनुष्कोटावत्र मज्जनमात्रतः ।।

महापातकिसंसर्गदोषस्ते विलयं ययौ ।। २७ ।।

तन्नाशादेव वेतालस्त्वां मुक्त्वा विलयं गतः ।।

त्वामग्रहीद्यो वेतालः पुरायं ब्राह्मणोऽभवत् ।। २८ ।।

सोऽयं भाद्रपदे मासे कृष्णपक्षे महालयम् ।।

पार्वणेन विधानेन पितॄणां नाकरोन्मुदा ।। २९ ।।

तेन स्वपितृभिः शप्तो वेतालत्वमगादयम् ।।

सोपि चास्य धनुष्कोटेरवलोकनमात्रतः ।। 3.1.36.३० ।।

वेतालत्वं विहायेह विष्णुलोकम वाप्तवान् ।।

अतो भाद्रपदे मासे कृष्णपक्षे महालयम् ।। ३१ ।।

उद्दिश्य स्वपितॄन्ये तु न कुर्वन्त्यतिलोभतः ।।

महालोभयुतास्तेऽद्धा वेतालाः स्युर्न संशयः ।। ३२ ।।

तस्माद्भाद्रपदे मासे कृष्णपक्षे महालयम् ।।

पितॄनुद्दिश्य शक्त्या ये ब्राह्मणान्वेदपारगान् ।। ३३ ।।

भोजयेयुर्महान्नेन न ते विंदंति दुर्गतिम् ।।

यस्तु भाद्रपदे मासे कृष्णपक्षे महालयम् ।। ३४ ।।

स्वशक्त्यनुगुणं विप्रमेकं द्वौ त्रीनकिंचनः ।।

भोजयेन्नहि दौर्गत्यं भवेदस्य कदाचन ।। ३५ ।।

अयं भाद्रपदे मासे पितॄणामनुपासनात् ।।

ययौ वेतालतां विप्रो यस्त्वां जग्राह पापिनम् ।। ३६ ।।

कालो भाद्रपदमासमारभ्य वृश्चिकावधि ।।

महालयस्य कथितो मुनिभिस्तत्त्वदर्शिभिः ।। ३७ ।।

मासो भाद्रपदः कालस्तत्रापि हि विशिष्यते ।।

कृष्ण पक्षो विशिष्टः स्याद्दुराचारक तत्र वै ।। ३८ ।।

तस्मिञ्छुभे कृष्णपक्षे प्रथमायां तथा तिथौ ।।

श्राद्धं महालयं कुर्याद्यो नरो भक्तिपूर्वकम्।। ३९ ।।

तस्य प्रीणाति भगवान्पावकः सर्वपावनः ।।

स वह्निलोकमाप्नोति वह्निना सह मोदते ।। 3.1.36.४० ।।

तस्मै च ज्वलनो देवः सर्वैश्वर्यं ददात्यपि ।।

प्रथमायां तिथौ मर्त्यो यो न कुर्यान्महालयम्।। ४१ ।।

वह्निर्गृहं दहेत्तस्य श्रियं क्षेत्रादिकं तथा ।।

वेदज्ञे ब्राह्मणे भुक्ते प्रथमायां महालये ।। ४२ ।।

दश कल्पसहस्राणि पितरो यांति तृप्तताम् ।।

द्वितीयायां तु यो भक्त्या कुर्याच्छ्राद्धं महालयम् ।। ४३ ।।

तस्य प्रीणाति भगवान्भवानीपतिरीश्वरः ।।

स कैलासमवाप्नोति शिवेन सह मोदते।। ४४ ।।

विपुलां संपदं तस्मै प्रीतो दद्यान्महेश्वरः ।।

द्वितीयायां तिथौ मर्त्यो यो न कुर्यान्महालयम् ।। ४५ ।।

तस्य वै कुपितः शंभुर्नाशयेद्ब्रह्मवर्चसम् ।।

रौरवं कालसूत्राख्यं नरकं चास्य दास्यति ।। ४६।।

वेदज्ञे ब्राह्मणे भुक्ते द्वितीयायां महालये ।।

विंशत्कल्प सहस्राणि पितरो यांति तृप्तताम्।। ४७ ।।

अनुग्रहात्पितॄणां च संततिश्चास्य वर्द्धते ।।

तृतीयायां नरो भक्त्या कुर्याच्छ्राद्धं महालयम् ।। ४८ ।।

तस्य प्रीणाति भगवाँल्लोकपालो धनाधिपः ।।

महापद्मादिनिधयो वर्तंते तस्य वै वशे ।। ४९ ।।

तस्यानुगास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।।

तृतीयायां तिथौ मर्त्यो यो न कुर्यान्महालयम् ।। 3.1.36.५० ।।

धनदो भगवांस्तस्य संपदं हरति क्षणात् ।।

दारिद्यं च ददात्यस्मै बहुदुःखसमाकुलम् ।। ।। ५१ ।।

तृतीयायां तिथौ मर्त्यो यः करोति महालयम् ।।

तृप्यंति पितरस्तस्य त्रिंशत्कल्पसहस्रकम् ।। ५२ ।।

चतुर्थ्यां तु नरो भक्त्या श्राद्धं कुर्यान्महालयम् ।।

तस्य प्रीणाति भगवान्हेरंबः पार्वतीसुतः ।। ५३ ।।

तस्य विघ्नाश्च नश्यंति गजवक्त्रप्रसादतः ।।

चतुर्थ्यां तु तिथौ मर्त्यो यो न कुर्यान्महालयम् ।। ५४ ।।

विघ्नेशो भगवांस्तस्य सदा विघ्नं करोति हि ।।

चण्डकोलाहलाभिख्ये नरके च पतत्यथ ।। ५५ ।।

चतुर्थ्यां वै तिथौ मर्त्यो यः करोति महालयम् ।।

पितरः कल्पसाहस्रं चत्वारिंशत्प्रहर्षिताः ।। ५६ ।।

बहून्पुत्रान्प्रदास्यंति श्राद्धकर्तुर्निरंतरम् ।।

पंचम्यां तु तिथौ भक्त्या यो न कुर्यान्महालयम् ।। ५७ ।।

तस्य लक्ष्मीर्भगवती परित्यजति मंदिरम् ।।

अलक्ष्मीः कलहाधारा तस्य प्रादुर्भवेद्गृहे ।। ५८ ।।

पचम्यां तु तिथौ मर्त्यो यः करोति महालयम् ।।

तस्य तृप्यंति पितरः पंचकल्पसहस्रके ।। ५९ ।।

संततिं चाप्यविच्छिन्नामस्मै दास्यंति तर्पिताः ।।

पार्वती च प्रसन्ना स्यान्महदैश्वर्यदायिनी ।। 3.1.36.६० ।।

षष्ठ्यां तिथौ नरो भक्त्या श्राद्धं कुर्यान्महालयम् ।।

तस्य प्रीणाति भगवान्षण्मुखः पार्वती सुतः ।। ६१ ।।

तस्य पुत्राश्च पौत्राश्च षण्मुखस्य प्रसादतः ।।

ग्रहैर्वालग्रहैश्चैव न बाध्यंते कदाचन ।। ६२ ।।

षष्ठ्यां तिथौ नरो भक्त्या यो न कुर्यान्महालयम् ।।

तस्य स्कन्दो महासेनो विमुखः स्यान्न संशयः ।। ६३ ।।

गर्भान्निर्गतमात्रैव प्रजा तस्य विनश्यति ।।

पूतनादिग्रहकुलैर्बाध्यते च निरंतरम् ।। ६४ ।।

वह्निज्वालाप्रवेशाख्ये नरके च पतत्यधः ।।

षष्ठ्यां तिथौ यः श्रद्धावान्कुर्याच्छ्राद्धं महालयम् ।। ६५ ।।

षष्टिकल्पसहस्रं तु पितरो यामति तृप्तताम् ।।

पुत्रानपि प्रदास्यंति संपदं विपुलां तथा ।। ६६ ।।

सप्तम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम् ।।

हिरण्यपाणिर्भगवानादित्यस्तस्य तुष्यति ।। ६७ ।।

अरोगो दृढगात्रः स्याद्भास्करस्य प्रसादतः ।।

हिरण्यपाणिर्भगवान्हिरण्यं पाणिना स्वयम् ।। ६८ ।।

महालयश्राद्धकर्त्रे ददाति प्रीतमानसः ।।

सप्तम्यां तु तिथौ भक्त्या यो न कुर्यान्महालयम् ।। ६९ ।।

व्याधिभिः क्षयरोगाद्यै बाध्यते स दिवानिशम् ।।

तीक्ष्णधारास्त्रशय्याख्ये नरके च पतत्यधः ।। 3.1.36.७० ।।

सप्तम्यां यो नरो भक्त्या श्राद्धं कुर्यान्महालयम् ।।

सप्ततिं कल्पसाहस्रं प्रीणंति पितरोऽस्य वै ।। ७१ ।।

संततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ।।

अष्टम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महाल यम् ।। ७२ ।।

मृत्युंजयः कृत्तिवासास्तस्य प्रीणाति शंकरः ।।

करस्थं तस्य कैवल्यं शंकरस्य प्रसादतः ।। ७३ ।।

महालयेन श्राद्धेन तुष्टे साक्षात्त्रि यंबके ।।

चतुर्दशसु लोकेषु दुर्लभं तस्य किं भवेत् ।। ७४ ।।

महालयं न कुर्याद्वै योऽष्टम्यां मूढचेतनः ।।

संसारसागरे घोरे सदा मज्जति दुःखितः ।। ७५ ।।

कदाचिदपि तस्येष्टं नैव सिद्ध्यति भूतले ।।

वैतरिण्याख्यनरके पतत्याचंद्रतारकम् ।। ७६ ।।

योऽष्टम्यां श्रद्धया श्राद्धं नरः कुर्यान्महालयम् ।।

अशीतिकल्पसाहस्रं तृप्यंति पितरोऽस्य वै ।। ७७ ।।

आशीर्भिर्वर्द्धयंत्येनं विघ्नश्चास्य व्यपोहति ।।

संततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ।। ७८ ।।

नवम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम् ।।

दुर्गादेवी भगवती तस्य प्रीणाति शांभवी ।। ७९ ।।

क्षयापस्मारकुष्ठा दीन्क्षुद्रप्रेतपिशाचकान् ।।

नाशयेत्तस्य सन्तुष्टा दुर्गा महिषमर्दिनी ।।3.1.36.८० ।।

नवम्यां तु तिथौ मर्त्यो यो न कुर्यान्महालयम् ।।

अपस्मारेण पीड्येत तथैव ब्रह्मरक्षसा ।। ८१ ।।

अभिचारार्थकृत्याभिर्वाध्येत च निरन्तरम् ।।

नवम्यां यस्तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम्।। ८२ ।।

नवतिं कल्पसाहस्रं तृप्यन्ति पितरोऽस्य वै ।।

संततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ।। ८३ ।।

दशम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम् ।।

तस्यामृतकलश्चन्द्रः षोडशात्मा प्रसीदति ।। ८४ ।।

औषधीनामधीशेऽस्मिञ्छ्राद्धेनानेन तोषिते ।।

व्रीह्यादीनि तु धान्यानि दद्युरोषधयः सदा।। ।। ८५ ।।

यो न कुर्याद्दशम्यां तु महालयमनुत्तमम् ।।

ओषध्यो निष्फलास्तस्य कृषिश्चाप्यस्य निष्फला ।। ८६ ।।

दशम्यां यस्तिथौ मर्त्यः श्राद्धंकुर्यान्महालयम् ।।

शतकल्पसहस्राणि तृप्यंति पितरोऽस्य वै ।। ८७ ।।

संततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ।।

एकादश्यां नरो भक्त्या श्राद्धं कुर्यान्महालयम् ।। ८८ ।।

संहर्ता सर्वलोकस्य तस्य रुद्रः प्रसीदति ।।

रुद्रस्य सर्वसंहर्तुः प्रसादेन जगत्पतेः ।। ८९ ।।

शत्रून्पराजय त्येष श्राद्धकर्ता निरन्तरम् ।।

ब्रह्महत्यायुतं चापि तस्य नश्यति तत्क्षणात् ।। 3.1.36.९० ।।

अग्निष्टोमादियज्ञानां फलमाप्नोति पुष्कलम् ।।

एकादश्यां नरो भक्त्या यो न कुर्यान्महालयम् ।। ९१ ।।

तस्य वै विमुखो रुद्रो न प्रसीदति कर्हिचित् ।।

सर्वतो वर्धमानाश्च बाधन्ते शत्रवो ह्यमुम् ।। ९२ ।।

अग्निष्टोमादिका यज्ञाः कृताश्च बहुदक्षिणाः ।।

निष्फला एव तस्य स्युर्भस्मनि न्यस्तहव्यवत् ।। ९३ ।।

ब्रह्मवातकतुल्यः स्याच्छ्राद्धाकरणदोषतः ।।

एकादश्यां तिथौ यस्तु श्राद्धं कुर्यान्महालयम् ।। ९४ ।।

द्विशतं कल्पसाहस्रं तृप्यंति पितरोऽस्य वै ।।

संततिं चाप्यविच्छिन्नां दद्युः पितृ गणाः सदा ।। ९५ ।।

द्वादश्यां तु तिथौ मर्त्यः कुर्याच्छ्राद्धं महालयम् ।

तस्य लक्ष्मीपतिः साक्षात्प्रसीदति जनार्दनः ।। ९६ ।।

प्रसन्ने सति देवेशे देवदेवे जनार्दने ।।

चराचरं जगत्सर्वं प्रीतमेव न संशयः ।। ९७ ।।

भूमिर्हरिप्रिया चास्य सस्यं संवर्द्धयत्यपि ।।

लक्ष्मीश्च वर्द्धते तस्य मंदिरे हरिवल्लभा ।। ९८ ।।

गदा कौमोदकी नाम नारायणकरस्थिता ।।

अपस्मारादिभूतानि नाशयत्येव सर्वदा ।। ९९ ।।

तीक्ष्णधारं तथा चक्रं शत्रूनस्य दहत्यपि ।।

यातुधानपिशाचादीञ्छंखश्चास्य व्यपोहति ।।3.1.36.१००।।

एवं सर्वात्मना पीडां वारयत्यस्य केशवः ।।

महालयं न कुर्याद्यो द्वादश्यां मनुजा धम ।। १ ।।

तस्य क्षेत्राणि संपच्च विनश्यंति न संशयः ।।

अपस्मारादिभूतानि शत्रवश्च महाबलाः ।।२।।

यातुधानाश्च बाधन्ते तं वै विष्णुपराङ्मुखम्।।

पात्यते नरके चापि अस्थिभेदननामके।।३।।

द्वादश्यां भक्तियुक्तो यः श्राद्धं कुर्यान्महालयम् ।।

षट्शतं कल्पसाहस्रं प्रीणंति पितरोऽस्य वै ।।४।।

संततिं चाप्यविच्छिन्नां पितरोऽस्मै ददत्यपि।।

त्रयोदश्यां नरो भक्त्या श्राद्धं कुर्यान्महालयम्।।५।।

प्रसीदत्यस्य भगवान्कंदर्पो रतिनायकः ।।

स्रग्चंदनादयो भोगा ललनाश्च मनोरमाः ।।६।।

कामदेवप्रसादेन तस्य सिद्ध्यंति सर्वदा।।

आजन्ममरणांतं च सुखमेव स विंदते ।।७।।

यो न कुर्यात्त्रयोदश्यां न च श्राद्धं महालयम् ।।

कामदेवोऽस्य विमुखः स्त्रियो भोगांश्च नाशयेत् ।। ८ ।।

अंगारशय्याभ्रमणे नरके पातयत्यमुम् ।।

पितॄनुद्दिश्य यः कुर्यात्त्र योदश्यां महालयम् ।। ९ ।।

सहस्रकल्पसाहस्रं प्रीणंति पितरोऽस्य वै ।।

संततिं चाप्यविच्छिन्नां दद्युः पितॄगणास्तदा ।। 3.1.36.११० ।।

चतुर्दश्यां नरो भक्त्या श्राद्धं कुर्यान्महालयम् ।।

तस्याभीष्टप्रदानाय जागर्ति भगवाच्छिवः ।। ११ ।।

उपदिश्य शिवज्ञानं सायुज्यं च ददात्यपि ।।

सुरापानायुतं चापि स्वर्णस्तेयायुतं तथा ।। १२ ।।

नश्यंति तत्क्षणादेव चतुर्दश्यां महालयात् ।।

चण्डालवृषलस्त्रीणां संगदोषोऽपि नश्यति ।। १३ ।।

अश्वमेधसहस्रस्य पौंडरीकायुतस्य च ।।

पुष्कला फलसिद्धिः स्याच्चतुर्दश्यां महालयात् ।। १४ ।।

यो न कुर्याच्चतुर्दश्यां श्राद्धमेतन्महालयम् ।।

स कल्पकोटिसाहस्रं कल्पकोटिशतं तथा ।। १५ ।।

संसारांधमहाकूपे पतितः स्यादनिष्कृतिः ।।

अचोरयित्वा कनकमपीत्वापि सुरां तथा ।। १६ ।।

सुरापानादिभिर्दोषैर्लिप्यते स विमूढधीः ।।

कृता अपि विधानेन यज्ञाः स्युर्निष्फलास्तथा ।। १७ ।।

चतुर्दश्यां तिथौ यस्तु कुर्याच्छ्राद्धं महालयम् ।।

लक्षकोटिसहस्राणि लक्षकोटिशतानिच ।।१८।।

कल्पानि पितरस्तस्य तृप्यंत्येव न संशयः ।।

नरकस्थाश्च पितरः स्वर्गं यांति प्रहर्षिताः ।। १९ ।।

संततिं चाप्यविच्छिन्नां दद्युः पितृगणास्तदा ।।

अमायां तु नरो भक्त्या श्राद्धं कुर्यान्महालयम् ।। 3.1.36.१२० ।।

पितॄणां तस्य तृप्तिः स्यादनंता नात्र संशयः ।।

सुधामास्वाद्य या तृप्तिर्देवानां दिवि वै भवेत् ।। २१ ।।

अनंता तादृशी तृप्तिरमावास्यां महालयात् ।।

अमावास्या महापुण्या पितृदेवनमस्कृता ।। २२ ।।

शांता ह्येषा तु परमा शिवस्य च महाप्रिया ।।

तस्यां महालये श्राद्धे भोजयेद्वेदवित्तमान् ।। २३ ।।

तेन तृप्तिः पितॄणां स्यादनंता तुष्यते शिवः ।।

ब्रह्महत्यादयः पंच पातका नाशमाप्नुयुः ।। २४ ।।

कृताश्च स्युर्विधानेन सर्वे यज्ञाः सदक्षिणाः ।।

अनुष्ठिताः स्युर्विधिवत्सर्वे धर्माः सनातनाः ।। २५ ।।

अमावास्यादिने येन कृतं श्राद्धं महालयम् ।।

प्रत्यग्ब्रह्मैकतां ज्ञात्वा सायुज्यं यात्यसंशयम्।। ।। २६ ।।

यो न कुर्यादमावास्यां महालयमचेतनः ।।

ब्रह्मलोकगताश्चास्य पितरो यांति नारकम् ।। २७ ।।

संततिश्चास्य मूढस्य विच्छि द्येतैव तत्क्षणात् ।।

स एव हि महानर्थो यदमायां तिथौ नरैः ।। २८ ।।

महालयार्थो विप्रेंद्रा विधिवन्नैव भोजिताः ।।

मासि भाद्रपदे प्राप्ते नृत्यंति पितृदेवताः ।। २९ ।।

अस्मानुद्दिश्य मत्पुत्रा भोजयेयुर्द्विजोत्तमान् ।।

तेन नो नरकक्लेशो न भविष्यति दारुणः ।। 3.1.36.१३० ।।

वासश्च स्वर्गलोके स्याद्यावदाचन्द्रतारकम् ।।

मासि भाद्रपदे प्राप्ते पितॄणां तृदिदायिनी ।। ३१ ।।

एकैकं भोजयेद्विप्रं प्रत्यहं भक्तिपूर्वकम् ।।

पितृमातृकुलोद्भूताः पितरस्तृप्तिमाप्नुयुः ।। ३२ ।।

कृष्णपक्षे विशेषेण ब्राह्मणान्भोजयेत्सुधीः ।।

घृतसूपादिसस्यैश्च तैलाभ्यंगपुरःसरम् ।। ३३ ।।

सुधां पास्यंति पितरस्तस्याकल्पं प्रहर्षिताः ।।

सप्तमीं कृष्णपक्षस्य प्रारभ्य प्रत्यहं नराः ।। ३४ ।।

विप्रान्यावदमावास्या त्रींस्त्रीनभ्यर्च्य भोजयेत् ।।

आरभ्य द्वादशीं विप्रांस्त्रीनवश्यं तु भोजयेत् ।। ३५ ।।

अन्यथैश्वर्यहानिः स्यान्महादारिद्र्यभाग्भवेत् ।।

वित्तलोभं परित्यज्य विप्रान्सूपघृतादि भिः ।। ३६ ।।

पयसा पायसान्नेन दध्नापूपादिभिस्तथा ।।

पेयैर्लेह्यैश्च चोष्यैश्च भक्ष्यैश्च विविधैरपि ।। ३७ ।।

भोजयेद्वेदविन्मुख्यांस्तृप्तिस्तेषां यथा भवेत् ।।

तेन ब्रह्मा हरिः शंभुस्तृप्ताः स्युर्नात्र संशयः।।३८।।

अग्निष्वात्तादिपितरस्तथैवेंद्रादिदेवताः ।।

बहुनात्र किमुक्तेन तुष्टं तेन जगत्त्रयम् ।।३९।।

पार्वणेन विधानेन कुर्याच्छ्राद्धे महालयम्।।

नरो महालयश्राद्धे पितृवंश्यान्पितॄनिव ।।3.1.36.१४०।।

मातृवंश्यानपि पितॄन्भोजयेच्छ्रेयसे मुदा ।।

दक्षिणां च यथाशक्ति दद्याद्वित्तानुसारतः ।। ४१ ।।

तस्मिन्महालये श्राद्धे वित्तशाठ्यं न कारयेत् ।।

दक्षिणा खलु यज्ञानां कथितेयं पुरोगवा ।। ४२।।

अनः पुरोगवैर्हीनं करिष्यति यथाध्वनि ।।

अदक्षिणं तथा सोयं पितृयज्ञोऽपि रिष्यति।।४३।।

तस्माद्यज्ञेषु दातव्या दक्षिणाल्पा हि जानता।।

विधवाभिरपि स्त्रीभिरपुत्राभिर्महालयः ।। ४४ ।।

भर्त्तॄनुद्दिश्य कर्तव्यो भूरिभोजनकर्मणा ।।

अन्यथा धर्महानिः स्यान्नरकं च महद्भवेत् ।। ४५ ।।

मासि भाद्रपदे प्राप्ते यो न कुर्यान्महालयम् ।।

तत्कुलं नाशमाप्नोति ब्रह्महत्यां च विंदति ।। ४६ ।।

महालयं प्रकुर्वंति श्रद्धावंतः पितॄन्प्रति ।।

न तेषां संततिच्छेदो भवेत्संपदभंगुरा ।। ४७ ।।

आलयं ह्यास्पदं प्रोक्तं महः कल्याणमुच्यते ।।

कल्याणानामास्पदत्वान्महालयमुदीर्यते ।। ४८ ।।

तस्मान्महालयं मर्त्यः कुर्यात्कल्याणसिद्धये ।।

अमंगलं भवेत्तस्य न कुर्याच्चेन्महालयम् ।। ४९ ।।

नकुर्याद्यद्यपि श्राद्धं मातापित्रोर्मृतेऽहनि ।।

कुर्यान्महालयश्राद्धमस्मरन्नेव बुद्धिमान् ।।3.1.36.१५०।।

कर्तुं महालयश्राद्धं यदि शक्तिर्न विद्यते ।।

याचित्वापि नरः कुर्यात्पितृणां तन्महालयम् ।।५१।।

ब्राह्मणेभ्यो विशिष्टे भ्यो याचेत धनधान्यकम् ।।

पतितेभ्यो न गृह्णीयाद्धनधान्यं कदाचन ।।५२।।

ब्राह्मणेभ्यो न लभ्येत यदि धान्यधनादिकम् ।।

याचेत क्षत्रियश्रेष्ठा न्महालयचिकीर्षया ।। ५३ ।।

दातारश्चेन्न भूपाला वैश्येभ्योऽपि च याचयेत् ।।

वैश्या अपि हि दातारो यदि लोके न संति वै ।। ५४ ।।

दद्याद्भाद्रपदे मासे गोग्रासं पितृतृप्तये ।।

अथ वा रोदनं कुर्याद्बहिर्निर्गत्य कानने ।। ५५ ।।

पाणिभ्यामुदरं स्वीयमाहत्याश्रूणि वर्तयन् ।।

तेष्वरण्यप्रदेशेषु उच्चैरेवं वदेन्नरः ।। ५६ ।।

शृण्वंतु पितरः सर्वे मत्कुलीना वचो मम ।।

अहं दरिद्रः कृपणो निर्ल्लज्जः क्रूरकर्मकृत् ।। ५७ ।।

प्राप्तो भाद्रपदो मासः पितृणां प्रीतिवर्द्धनः ।।

कर्त्तुं महालयश्राद्धं न च मे शक्तिरस्ति वै ।। ५८ ।।

भ्रमित्वापि महीं कृत्स्नां न मे किंचन लभ्यते ।।

अतो महालयश्राद्धं न युष्माकं करोम्यहम् ।। ५९ ।।

क्षमध्वं मम तद्यूयं भवंतो हि दयापराः ।।

दरिद्रो रोदनं कुर्यादेवं काननभूमिषु ।। 3.1.36.१६० ।।

तस्य रोदनमाकर्ण्य पितरस्तत्कुलोद्भवाः ।।

हृष्टास्तृप्तिं प्रयांत्येव सुधां पीत्वैव निर्जराः ।। ६१ ।।

महालयार्थे विप्रौघे भुक्ते तृप्तिर्यथा भवेत् ।।

गोग्रासारण्यरुदितैः पितृ तृप्तिस्तथा भवेत्।। ६२ ।।

मासि भाद्रपदे विघ्नो यदि स्यात्सूतकादिना ।।

यातेषु सूतकाहःसु कुर्यादावृश्चिकावधि ।। ६३ ।।

बुधो महालय स्यार्थे ब्राह्मणान्वृणुयान्नव ।।

पित्रर्थमेकं वृणुयात्पितामहकृते तथा ।। ६४ ।।

प्रपितामहमुद्दिश्य तथैकं वृणुयाद्द्विजः ।।

तथा मातामहार्थं तु एकं वै वृणुयाद्द्विजम् ।। ६५ ।।

मातुःपितामहार्थं च वृणुयाद्द्विजमेककम् ।।

वृणुयादेकमुद्दिश्य मातुश्च प्रपितामहम् ।। ६६ ।।

तथैव विश्वेदेवार्थे वृणुयाद्द्वौद्वि जोत्तमौ ।।

विष्ण्वर्थं ब्राह्मणं त्वेकं वृणुयाद्वेदवित्तमम् ।।६७।।

एवं महालयश्राद्धे ब्राह्मणान्वृणुयान्नव ।।

अथवा पितृवर्गार्थं वरयेद्विप्रमेककम् ।। ६८ ।।

मातामहादीन्वोद्दिश्य वरयेद्विप्रमेककम् ।।

विश्वेदेवार्थमेकं च विष्ण्वर्थं च तथापरम् ।। ६९ ।।

एवं वै वरयेद्विप्राश्चतुरस्तु महालये ।।

ब्राह्मणान्वेदसंपन्नान्सुशीलान्वरयेत्सुधीः ।। 3.1.36.१७० ।।

दुःशीलान्वरयेद्यस्तु स वै श्राद्धस्य घातकः ।।

मासि भाद्रपदे प्राप्ते कृष्णपक्षे विशेषतः ।। ७१ ।।

कुर्या न्महालयश्राद्धं यो नरः श्रद्धया सह ।।

स स्नातः सर्वतीर्थेषु दुराचार महामते ।। ७२ ।।

अग्निष्टोमादयो यज्ञाः शतमप्यमुना कृताः ।।

तुलापुरुषमुख्यानि दानान्यपि कृतानि वै ।। ७३ ।।

चांद्रायणादिकृच्छ्राणि कृतान्येव न संशयः ।।

चतुर्णां सांगवेदानां पारायणफलं लभेत् ।। ।। ७४ ।।

गायत्र्यादिमहामंत्रजपपुण्यं लभेत्तथा ।।

इतिहासपुराणानां पारायणफलं लभेत् ।। ७५ ।।

महालयसमं पुण्यं वृत्तं नास्ति महीतले ।।

ब्रह्मविष्णुमहेशानलोकप्राप्तिर्महालयात् ।। ७६ ।।

महालयादिकं श्राद्धं नित्यं काम्यमपीष्यते ।।

तस्मादकरणे तस्य प्रत्यवायो महान्भवेत् ।। ७७ ।।

करणादिष्टसिद्धिश्च भविष्यति न संशयः ।।

महालयस्य करणाद्भूतवेतालकादयः ।। ७८ ।।

अपस्मारग्रहाश्चापि शाकिनीडाकिनीगणाः ।।

यातुधानाः पिशाचाश्च वेतालाश्च भयानकाः ।। ७९ ।।

नश्यंति तत्क्षणादेव भूतान्यन्यानि वै तथा ।।

महालयस्यकरणाद्विपुलां श्रियमश्नुते ।। 3.1.36.१८० ।।

पुरा दशरथो राजा वसिष्ठस्योपदेशतः ।।

मासि भाद्रपदे प्राप्ते कृत्वा श्राद्धं महालयम् ।। ८१ ।।

रामादींश्च तुरः पुत्रान्प्राप्तवांल्लोकसंमतान् ।।

विश्वातिशायिनीं लक्ष्मीं प्रपेदे कीर्तिमुत्तमाम् ।। ८२ ।।

महालयस्य करणाद्ययाती राजसत्तमः ।।

यदुमुख्यान्महापुत्रान्प्रपेदे वंशवर्द्धनान् ।। ८३ ।।

अनन्यदुर्लभं स्वर्गं प्रपेदे श्राद्धपुण्यतः ।।

दुष्यंतो भरतं लेभे महालयविधानतः ।। ८४ ।।

महालय विधानेन दमयंतीपतिर्नलः ।।

कृच्छ्रं महत्तरं तीर्त्वा पुनर्लेभे महीमिमाम् ।। ८५ ।।

निजग्राह कलिं घोरं पुष्करं चाप्यरातिनम् ।।

इन्द्रसेनाभिधानं च पुत्रं लेभेऽतिधार्मिकम् ।। ८६ ।।

हरिश्चंद्रो महाराजो महालयविधानतः ।।

विश्वामित्रकृताद्दुःखान्मुक्तः सत्यवतां वरः ।। ८७ ।।

लेभे चंद्रवतीं भार्यां लोहिताश्वं सुतं पुनः ।।

महालयविधानेन कृतवीर्यसुतो बली ।। ८८ ।।

अष्टादशानां द्वीपानामाधिपत्यमवाप्तवान् ।।

रामोऽपि दण्डकारण्ये महालयविधानतः ।। ८९ ।।

हत्वा तु रावणं संख्ये सीतां पुनरवाप्तवान् ।।

महालयस्य करणाद्धर्मपुत्रो युधिष्ठिरः ।। 3.1.36.१९० ।।

दुःखसागरमुत्तीर्य धार्तराष्ट्राञ्जघान च ।।

महालयस्यकरणाद्वसिष्ठो मुनिसत्तमः ।। ९१ ।।

अत्रिर्भृगुश्च कुत्सश्च गौतमश्चांगिरास्तथा ।।

कश्यपश्च भरद्वाजो विश्वा मित्रश्च कुम्भजः ।। ९२ ।।

पराशरो मृकण्डश्च ये चान्ये मुनिसत्तमाः ।।

विधाय विधिवच्छ्राद्धं महालयमनुत्तमम् ।। ९३ ।।

अणिमाद्यष्टसिद्धीनां व्रतानां तपसां तथा ।।

निवासभूता संजातास्तथा विश्वातिशायिनः ।। ९४ ।।

जीवन्मुक्ताश्च ते सर्वे ह्यभवन्मुनिसत्तमाः ।।

अतो महालयश्राद्धं कर्तव्यं भूतिमिच्छता ।। ९५ ।।

अतोऽद्यापि दुराचार न कुर्याद्यो महालयम् ।।

भूतवेतालकादिभ्यो भूयात्तस्य महद्भयम् ।। ९६ ।।

महालयस्या करणाद्वेतालत्वमवाप्नुयात् ।।

त्वयाविष्टमिदं भूतं विप्रः सन्पूर्वजन्मनि ।। ९७ ।।

नाम्ना वेदनिधिः पुण्यो भरद्वाजस्य चात्मनः ।।

कुशस्थल्यभिधाने च वसन्ग्रामे महामनाः ।। ९८ ।।

न चकार विधानेन श्राद्धमेतन्महालयम् ।।

ततोयं पितृणां शापाद्वेतालत्वमवाप्तवान् ।। ९९ ।।

तस्माद्भाद्र पदे मासे दुराचार पितॄन्प्रति ।।

ब्राह्मणान्भोजयान्नेन षड्रसेन सभक्तिकम् ।। 3.1.36.२०० ।।

दारिद्र्यं तेन ते न स्यात्सुखीचैव भवान्भवेत् ।।

महापातकि संसर्गं मा कुरु त्वमितः परम् ।। १ ।।

त्वयानुभूतं यद्दुःखं वेतालग्रहणोद्भवम् ।।

गच्छ त्वमनुजानामि स्वदेशं प्रति मा चिरम् ।। २ ।।

इतीरितः स मुनिना दत्तात्रेयेण योगिना ।।

तं प्रणम्य ययौ देशं कृतार्थेनांतरात्मना ।। ३ ।।

गत्वा च स्वगृहं विप्रो दुराचारो द्विजोत्तमाः ।।

विमुक्तवेताल भयो गतपातककंचुकः ।। ४ ।।

दत्तात्रेयेरितेनासौ मार्गेण प्रीतमानसः ।।

त्यक्तपातकिसंसर्गः स्वाश्रमाचारतत्परः ।। ५ ।।

रामचंद्रधनुष्कोटितीर्थ मज्जनगौरवात् ।।

देहांते परमां मुक्तिं दुराचारो ययौ तदा ।। ६ ।।

।। श्रीसूत उवाच ।। ।।

एवं वः कथितं पुण्यं दुराचरविमोक्षणम् ।।

सेयं पुण्या धनुष्कोटिर्महापातकनाशिनी ।। ७ ।।

यत्र हि स्नानमात्रेण दुराचारो विमोचितः ।।

अथवा धनुषः कोटेरियत्ता किं हि वै भवेत् ।। ८ ।।

या निष्कृतिविहीनानि पापान्यपि विनाशयेत् ।।

प्रायश्चित्तविहीनानि यानि पापानि संति वै ।। ९ ।।

तान्यप्यत्र विनश्यंति धनुष्कोटौ निमज्जनात् ।।

शूद्रेण पूजितं लिंगं विष्णुं वा यो नमेद्द्विजः ।। 3.1.36.२१० ।।

प्रायश्चित्तं न तस्योक्तं स्मृतिभिः परमर्षिभिः ।।

नश्येत्तस्यापि तत्पापं धनुष्कोटिनिमज्ज नात् ।। ११ ।।

विप्रनिंदाकृतां नृणां प्रायश्चित्तं न विद्यते ।।

विश्वासघातकानां च कृतघ्नानां न निष्कृतिः ।। १२ ।।

भ्रातृभार्यारतानां च प्रायश्चित्तं न विद्यते ।।

शूद्रान्ने नियतानां च श्रुतिनिंदारतात्मनाम् ।। १३ ।।

कन्याविक्रयिणां विप्रा हयविक्रयिणां तथा ।।

देवविक्रयिणां वेदविक्रये निर तात्मनाम्।।१४।।

धर्मविकयिणां पुंसां व्रतविक्रयिणां तथा ।।

तीर्थविक्रयिणां पुंसां प्रायश्चित्तं न विद्यते ।।१५।।

तेषां पापानि नश्यंति धनुष्कोटौ निम ज्जनात् ।।

मातृद्रोहपितृद्रोहयतिद्रोहरतात्मनाम् ।।१६।।

गुरुनिंदापराणां च शिवनिंदारतात्मनाम् ।।

विष्णुनिंदापराणां च यतिनिंदारतात्मनाम् ।। ।। १७ ।।

सत्कथादूषकाणां च प्रायश्चित्तं न विद्यते ।।

तेषां चात्र धनुष्कोटौ स्नानाच्छुद्धिर्भविष्यति ।। १८ ।।

एवं वः कथितं विप्रा धनुष्कोटेस्तु वैभवम् ।।

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ।। २१९ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये धनुष्कोटिप्रशंसायां दुराचारसंसर्गदोषशांतिवर्णनंनाम षट्त्रिंशोऽध्यायः ।। ३६ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 37

।। श्रीसूत उवाच ।। ।।

भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ।।

यावद्रामधनुष्कोटिचक्रतीर्थमुखानि वः ।। १ ।।

चतुर्विंशतितीर्थानि कथितानि मयाधुना ।।

इतोऽन्यदद्भुतं यूयं किं भूयः श्रोतुमिच्छथ ।। २ ।।

।। मुनय ऊचुः ।। ।।

क्षीरकुंडस्य माहात्म्यं श्रोतुमिच्छामहे मुने ।।

यत्समीपे त्वया चक्रतीर्थमित्युदितं पुरा ।। ३ ।।

क्षीरकुंडं च तत्कुत्र कीदृशं तस्य वैभवम् ।।

क्षीरकुण्डमिति ख्यातिः कथं वास्य समागता ।। ४ ।।

एतन्नः श्रद्दधानानां विस्तराद्वक्तुमर्हसि ।।

।। श्रीसूत उवाच ।। ।।

ब्रवीमि मुनयः सर्वे शृणुध्वं सुसमाहिताः ।। ५ ।।

देवीपुरान्महापुण्यात्प्रतीच्यां दिश्यदूरतः ।।

फुल्लग्राममिति ख्यातं स्थानमस्ति महत्तरम् ।। ६ ।।

यत आरभ्य रामेण सेतुबन्धो महार्णवे ।।

तद्धि पुण्यतमं क्षेत्रं फुल्लग्रामाभिधं पुरम् ।। ७ ।।

क्षीरकुण्डं तु तत्रैव महापातकनाशनम् ।।

दर्शनात्स्पर्शनाद्ध्यानात्कीर्तनाच्चापि मोक्षदम् ।। ८ ।।

तस्य तीर्थस्य पुण्यस्य क्षीरकुण्डमिति प्रथाम् ।।

भवतां सादरं वक्ष्ये शृणुध्वं श्रद्धया सह ।। ९ ।।

पुरा हि मुद्गलोनाम मुनिर्वेदोक्तमार्गकृत् ।।

दक्षिणांबुनिधेस्तीरे फुल्लग्रामेतिपावने ।। 3.1.37.१० ।।

नारायणप्रीतिकरम करोद्यज्ञमुत्तमम् ।।

तस्य विष्णुः प्रसन्नात्मा यागेन परितोषितः ।। ११ ।।

प्रादुर्बभूव पुरतो यज्ञवाटे द्विजोत्तमाः ।।

तं दृष्ट्वा मुद्गलो विष्णुं लक्ष्मीशोभितविग्रहम् ।। १२ ।।

कालमेघतनुं कांत्या पीतांबरविराजितम् ।।

विनतानंदनारूढं कौस्तुभालंकृतोरसम् ।। १३ ।।

शंखचक्रगदापद्मराजद्बाहुचतु ष्टयम् ।।

भक्त्या परवशो दृष्ट्वा पुलकांकुरमंडितः ।।

मुद्गलः परितुष्टाव शब्दैः श्रोत्रसुखावहैः ।। १४ ।।

।। मुद्गल उवाच ।। ।।

प्रथमं जगतः स्रष्ट्रे पालकाय ततः परम् ।। १५ ।।

संहर्त्रे च ततः पश्चान्नमो नारायणाय ते ।।

नमः शफररूपाय कमठाय चिदात्मने ।। १६ ।।

नमो वराहवपुषे नमः पंचास्यरूपिणे ।।

वामनाय नमस्तुभ्यं जमदग्निसुताय ते ।। १७ ।।

राघवाय नमस्तुभ्यं बलभद्राय ते नमः ।।

कृष्णाय कल्कये तुभ्यं नमो विज्ञानरूपिणे ।। १८ ।।

रक्ष मां करुणासिंधो नारायण जगत्पते ।।

निर्लज्जं कृपणं क्रूरं पिशुनं दांभिकं कृशम् ।। १९ ।।

परदारपरद्रव्यपरक्षेत्रैकलो लुपम् ।।

असूयाविष्टमनसं मां रक्ष कृपया हरे ।। 3.1.37.२० ।।

इति स्तुतो हरिः साक्षान्मुद्गलेन द्विजोत्तमाः ।।

तमाह मुद्गलमुनिं मेघगंभीरया गिरा ।। २१

।। श्रीहरिरुवाच ।। ।।

प्रीतोऽस्म्यनेन स्तोत्रेण मुद्गल क्रतुना च ते ।।

प्रत्यक्षेण हविर्भोक्तुमहं ते क्रतुमागतः ।। २२ ।।

इत्युक्तो हरिणा तत्र मुद्गलस्तुष्टमानसः ।।

उवाचाधोक्षजं विप्रो भक्त्या परमया युतः ।। २३ ।।

।। मुद्गल उवाच ।। ।।

कृतार्थोऽस्मि हृषीकेश पत्नी मे धन्यतां ययौ ।।

अद्य मे सफलं जन्म ह्यद्य मे सफलं तपः ।। २४ ।।

अदय मे सफलो वंशो ह्यद्य मे सफलाः सुताः ।।

आश्रमः सफलोऽद्यैव सर्वं सफलमद्य मे ।। २५ ।।

यद्भवान्यज्ञवाटं मे हविर्भोक्तुमिहागतः ।।

योगिनो योगनिरता हृदये मृगयंति यम् ।। २६ ।।

तमद्य साक्षात्त्वां पश्ये सफ लोऽयं मम क्रतुः ।।

इतीरयित्वा तं विष्णुमर्चयित्वाऽऽसनादिभिः ।।२७।।

चंदनैः कुसुमैरन्यैर्दत्त्वा चार्घ्यं स विष्णवे ।।

प्रददौ विष्णवे प्रीत्या पुरो डाशादिकं हविः ।। २८ ।।

स्वयमेव समादाय पाणिना लोकभावनः ।।

हविस्तद्बुभुजे विष्णुर्मुद्गलेन समर्पितम् ।। २९ ।।

तस्मिन्हविषि भुक्ते तु विष्णुना प्रभविष्णुना ।।

साग्नयस्त्रिदशाः सर्वे तृप्ताः समभवन्द्विजाः ।।3.1.37.३०।।

ऋत्विजो यजमानश्च तत्रत्या ब्राह्मणास्तथा ।।

यत्किंचित्प्राणिलोकेऽ स्मिंश्चरं वा यदि वाऽचरम् ।।३१।।

सर्वमेव जगत्तृप्तं भुक्ते हविषि विष्णुना ।।

ततो हरिः प्रसन्नात्मा मुद्गलं प्रत्यभाषत ।।३२।।

प्रीतोऽहं वरदोऽस्म्येष वरं वरय सुव्रत ।।

इत्युक्ते केशवेनाथ महर्षिस्तमभाषत ।। ३३ ।।

।। मुद्गल उवाच ।। ।।

यत्त्वया मे हविर्भुक्तं यागे प्रत्यक्षरूपिणा ।।

अनेनैव कृतार्थोऽस्मि किमस्मादधिकं वरम् ।। ३४ ।।

तथापि भगवन्विष्णो त्वयि मे निश्चला सदा ।।

भक्तिर्निष्कपटा भूयादिदं मे प्रथमं वरम् ।। ३५ ।।

माधवाहं प्रतिदिनं सायंप्रातरिहाग्नये ।।

त्वद्रूपाय तव प्रीत्यै सुरभेः पयसा हरे ।। ३६ ।।

होतुमिच्छामि वरद तन्मे देहि वरांतरम् ।।

पयसा नित्यहोमो हि द्विकालं श्रुतिचोदितः ।। ३७ ।।

न मे सुरभयः संति तापसस्याधनस्य च ।।

इत्युक्ते मुद्गलेनाथ देवो नारायणो हरिः ।। ३८ ।।

आहूय विश्वकर्माणं त्वष्टारममृताशिनम् ।।

एकं सरः कारयित्वा शिल्पिना तेन शोभनम् ।। ३९ ।।

स्फटिकादि शिलाभेदैस्तेनासौ विश्वकर्मणा ।।

समीचकार च पुनस्तत्प्राकाराद्यलंकृतम् ।।

तत आहूय भगवान्सुरभिं वाक्यमब्रवीत् ।। 3.1.37.४०

।। श्रीहरिरुवाच ।।

मुद्गलो मम भक्तोऽयं सुरभे प्रत्यहं मुदा ।। ४१ ।।

मत्प्रीत्यर्थं पयोहोमं कर्तुमिच्छति सांप्रतम् ।।

मत्प्रीत्यर्थमितो देवि त्वमतो मत्प्रचोदिता ।। ।। ४२ ।।

सायंप्रातरिहागत्य प्रत्यहं सुरभे शुभे ।।

पयसा त्वत्प्रसूतेन सर एतत्प्रपूरय ।। ४३ ।।

तेनासौ पयसा नित्यं सायंप्रातश्च होष्यति ।।

ओमित्युक्त्वाथ सुरभिरेवं नारयणेरिता ।। ४४ ।।

अथ नारायणो देवो मुद्गलं प्रत्यभाषत ।।

सुरभेः पयसा नित्यमस्मिन्सरसि तिष्ठता ।। ।। ४५ ।।

सायंप्रातः प्रतिदिनं मत्प्रीत्यर्थमिहाग्नये ।।

जुहुधि त्वं महाभाग तेन प्रीणाम्यहं तव ।। ४६ ।।

मत्प्रीत्या तेऽखिला सिद्धिर्भविष्यति च मुद्गल ।।

इदं क्षीरसरोनाम तीर्थं ख्यातं भविष्यति ।। ४७ ।।

अस्मिन्क्षीरसरस्तीर्थे स्नातानां पंचपातकम् ।।

अन्यान्यपि च पापानि नाशं यास्यंति तत्क्षणात् ।। ४८ ।।

मुद्गल त्वं च मां याहि देहांते मुक्तबंधनः ।।

इत्युक्त्वा भगवान्विष्णुस्तं समालिंग्य मुद्गलम् ।। ४९ ।।

नमस्कृतश्च तेनायं तत्रैवांतरधीयत ।।

मुद्गलोऽपि गते विष्णावनेकशतवत्सरम् ।। 3.1.37.५० ।।

सुरभेः पयसा जुह्वन्नग्नये हरितुष्टये ।।

उवास प्रयतो नित्यं फुल्ल ग्रामे विमुक्तिदे ।।

देहांते मुक्तिमगमद्विष्णुसायुज्यरूपिणीम् ।। ५१ ।।

।। श्रीसूत उवाच ।।

एवमेतद्द्विजवरा युष्माकं कथितं मया ।। ५२ ।।

यथा क्षीरसरो नाम तीर्थस्यास्य पुराऽभवत् ।।

इदं क्षीरसरः पुण्यं सर्वलोकेषु विश्रुतम् ।। ५३ ।।

काश्यपस्य मुनेः पत्नी कद्रूर्यत्र द्विजोत्तमाः ।।

स्नात्वा स्वभर्तृवाक्येन नोदिता नियमान्विता ।। ५४ ।।

छलेन मुमुचे सद्यः सपत्नीजयदोषतः ।।

अतोऽत्र तीर्थे ये स्नांति मानवाः शुदमानसाः ।। ५५ ।।

तेषां विमुक्तबंधानां मुक्तानां पुण्यकर्मिणाम् ।।

किं यागैः किमु वा वेदैः किं वा तीर्थनिषेवणैः ।। ५६ ।।

जपैर्वा नियमैर्वापि क्षीर कुंडविलोकिनाम् ।।

क्षीरकुंडस्य वातेन स्पृष्टदेहो नरो द्विजाः ।। ५७ ।।

ब्रह्मलोकमनुप्राप्य तत्रैव परिमुच्यते ।।

निमग्नाः क्षीरकुंडेऽस्मिन्नवमत्यापि भास्करिम् ।।५८।।

तस्य मूर्द्धनि तिष्ठेयुर्ज्वलतः पावकोपमाः ।।

मग्नानां क्षीरकुंडेस्मिञ्छीता वैतरणी नदी। ।।५९।।

सर्वाणि नरकाण्यद्धा व्यर्थानि च भवंति हि ।।

कामधेनुसमे तस्मिन्क्षीरकुंडे स्थितेप्यहो ।। 3.1.37.६० ।।

योन्यत्र भ्रमते स्नातुं स नरो विप्रसत्तमाः ।।

गोक्षीरे विद्यमानेऽपि ह्यर्कक्षीराय गच्छति ।। ६१ ।।

स्नातानां क्षीरकुंडेऽस्मिन्नालभ्यं किंचिदस्ति हि ।।

करप्राप्तैव मुक्तिः स्यात्किमन्यैर्बहुभाषणैः ।। ६२ ।।

ब्रवीमि भुजमुद्धत्य सत्यंसत्यं ब्रवीमि वः ।।

यः पठेदिममध्यायं शृणुयाद्वा समाहितः ।।

स क्षीरकुंडस्नानस्य लभते फलमुत्तमम् ।। ६३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये क्षीरकुंडप्रशंसायां क्षीरकुंडस्वरूपकथनं नाम सप्तत्रिंशोऽध्यायः ।। ३७ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 38

।। ऋषय ऊचुः ।। ।।

सूत कद्रुः कथं मुक्ता क्षीरकुंडनिमज्जनात् ।।

छलं कथं कृतवती सपत्न्यां पापनिश्चया ।। १ ।।

कस्य पुत्री च सा कद्रूः सपत्नीसा च कस्य वै ।।

किमर्थमजयत्कद्रूः स्वसपत्नीं छलेन तु ।।

एतन्नः श्रद्दधानानां ब्रूहि सूत कृपानिधे ।। २ ।।

।। श्रीसूत उवाच ।। ।।

शृणुध्वं मुनयः सर्वे इतिहासं महाफलम् ।।

पुरा कृतयुगे विप्राः प्रजापतिसुते उभे ।। ३ ।।

कद्रूश्च विनता चेति भगिन्यौ संबभूवतुः ।।

भार्ये ते कश्यपस्यास्तां कद्रूश्च विनता तथा ।। ४ ।।

विनता सुषुवे पुत्रावरुणं गरुडं तथा ।।

भर्त्तुः सकाशात्कद्रूश्च लेभे सर्पान्बहून्सुतान् ।। ।। ५ ।।

अनंतवासुकिमुखान्विषदर्पसमन्वितान् ।।

एकदा तु भगिन्यौ ते कद्रूश्च विनता तथा ।। ६ ।।

अपश्यतां समायांतमुच्चैःश्रवसमं तिकात् ।।

विलोक्य कद्रूस्तुरगं विनतामिदमब्रवीत् ।। ७ ।।

श्वेतोऽश्ववालो नीलो वा विनते ब्रूहि तत्त्वतः।।

इत्युक्त्वा विनता विप्राः कद्रूं तामिदमब्र वीत् ।।

तुरंगः श्वेतवालो मे प्रतिभाति सुमध्यमे ।।

किं वा त्वं मन्यसे कद्रूरिति तां विनताऽब्रवीत् ।। ९ ।।

पृष्ट्वैवं विनतां कद्रूर्बभाषे स्वमतं च सा ।।

कृष्णवालमहं मन्ये हयमेनमनिंदिते ।। 3.1.38.१० ।।

ततः पराजये कृत्वा दासीभावं पणं मिथः ।।

व्यतिष्ठेतां महाभागे सपत्न्यौ ते द्विजोत्तमाः ।। ।। ११ ।।

ततः कद्रूर्निजसुतान्वासुकिप्रमुखानहीन् ।।

तस्या नाहं यथा दासी तथा कुरुत पुत्रकाः ।। १२ ।।

तस्याभीप्सितसिद्ध्यर्थमित्यवोचद्भृशा तुरा ।।

युष्माभिरुच्चैःश्रवसो बालः प्रच्छाद्यतामिति ।। १३ ।।

नांगीचक्रुर्मतं तस्या नागाः कद्रू रुषा तदा।।

अशपत्कुपिता पुत्राञ्ज्वलंती रोषमूर्च्छिता ।। १४ ।।

पारीक्षितस्य सर्वेऽद्धा यूयं सत्रे मरिष्यथ ।।

इति शापे कृते मात्रा त्रस्तः कर्कोटकस्तदा ।। १५ ।।

प्रणम्य पादयोः कद्रूं दीनो वचनमब्रवीत् ।।

अहमुच्चैःश्रवोवालं विधास्याम्यंजनप्रभम् ।। १६ ।।

मा भीरंब त्वया कार्येत्यवादीच्छापविक्लवः ।।

श्वेतमुच्चैःश्रवोवालं ततः कर्कोटकोरगः ।। १७ ।।

छादयित्वा स्वभोगेन व्यतनोदंजनद्युतिम् ।।

अथ ते विनताकद्र्वौ दास्ये कृतपणे उभे ।। १८ ।।

देवराजहयं द्रष्टुं संरंभादभ्यगच्छ ताम् ।।

शशांकशंखमाणिक्यमुक्तैरावतकारणम् ।। १९ ।।

युगांतकालशयनं योगनिद्राकृतो हरेः ।।

अतीत्य कद्रूविनते समुद्रं सरितां पतिम् ।। 3.1.38.२० ।।

ददृशतुर्हयं गत्वा देवराजस्य वाहनम् ।।

कृष्णवालं हयं दृष्ट्वा विनता दुःखिताऽभवत् ।। २१ ।।

दुःखितां विनतां कद्रूर्दासीकृत्ये न्ययुंक्त सा ।।

एतस्मिन्नंतरे तार्क्ष्योऽप्यंडमुद्भिद्य वह्निवत् ।। २२ ।।

प्रादुर्बभूव विप्रेंद्रा गिरिमात्रशरीरवान् ।।

दृष्ट्वा तद्देहमाहात्म्यमभूत्त्रस्तं जगत्त्रयम् ।।२३।।

ततस्तं तुष्टुवुर्देवा गरुडं पक्षिणां वरम् ।।

दृष्ट्वा तद्देहमाहात्म्यं त्रस्तं स्याद्भुवनत्रयम् ।। २४ ।।

इत्यालोच्योपसंहृत्य देहमत्यंतभीषणम् ।।

अरुणं पृष्ठमारोप्य मातुरंतिकमभ्यगात् ।। २५ ।।

अथाह विनतां कद्रूः प्रणतामतिविह्वलाम् ।।

चेटि नागालयं गंतुमुद्योगो मम वर्तते ।। २६ ।।

त्वत्पुत्रो गरुडोतो मां मत्पुत्रांश्च वहत्विति ।।

ततश्च विनता पुत्रं गरुडं प्रत्यभाषत ।। २७ ।।

अहं कद्रूमिमां वक्ष्ये त्वं सर्पान्वह तत्सुतान् ।।

तथेति गरुडो मातुः प्रत्यगृह्णद्वचो द्विजाः ।। २८ ।।

अवहद्विनता कद्रूं सर्वांस्तान्गरुडोऽवहत् ।।

रविसामीप्यगाः सर्पास्तत्करैराहतास्तदा ।। २९ ।।

अस्तौषीद्वज्रिणं कद्रूः सुतानां तापशांतये ।।

सर्वतापं जलासारैर्देवराजोऽप्यशामयत ।। 3.1.38.३० ।।

नीयमानास्तदा सर्पा गरुडेन बलीयसा ।।

गत्वा तं देशमचिरादवदन्विनतासुतम् ।। ३१ ।।

वयं द्वीपांतरं गंतुं सर्वे द्रष्टुं कृतत्वराः ।।

वह त्वमस्मान्गरुड चेटीसुत ततः क्षणात् ।। ३२ ।।

ततो मातर मप्राक्षीद्विनतां गरुडो द्विजाः ।।

अहं कस्माद्वहामीमांस्त्वं चेमां वहसे सदा ।। ३३ ।।

चेटीपुत्रेति मामेते कि भणंति सरीसृपाः ।।

सर्वमेतद्वद त्वं मे मातस्तत्त्वेन पृच्छतः ।। ३४ ।।

पृष्टैवं जननी तेन गरुडं प्राब्रवीत्सुतम् ।।

भगिन्या क्रूरया पुत्र च्छलेनाहं पराजिता ।। ३५ ।।

तस्या दासी भवाम्यद्य चेटीपुत्रस्ततो भवान् ।।

अतस्त्वं वहसे सर्पान्वहाम्येनामहं सदा ।। ३६ ।।

इत्यादि सर्ववृत्तांतमादितोऽस्मै न्यवेदयत् ।।

अथ तां गरुडोऽवा दीन्मातरं विनतासुतः ।। ३७ ।।

अस्माद्दास्याद्विमोक्षार्थं किं कार्यं ते मयाधुना ।।

इति पृष्टा सुतेनाथ विनता तमभाषत ।। ३८ ।।

सर्पान्पृच्छस्व गरुड मम मातृविमोक्षणे ।।

युष्माकं मातुः किं कार्यं मयेति वदताधुना ।। ३९ ।।

इति मात्रा समुदितो गरुडः पन्नगान्प्रति ।।

गत्वाऽपृच्छद्विज श्रेष्ठास्तेऽप्येनमवदंस्तदा ।। 3.1.38.४० ।।

यदा हरिष्यसे शीघ्रं सुधां त्वममरालयात् ।।

दास्यान्मुक्ता भवेन्माता वैनतेय तवाद्य हि ।। ४१ ।।

ततो मातरमागम्य गरुडः प्रणतोऽब्रवीत् ।।

सुधामंब ममानेतुं गच्छतो भक्ष्यमर्पय ।। ४२ ।।

इतीरिता सुतं प्राह माता तं विनता सुतम् ।।

समुद्रमध्ये वर्तंते शबराः कतिचित्सुत ।। ४३ ।।

तान्भक्षयित्वा शबरानमृतं त्वमिहानय ।।

तत्र कश्चिद्द्विजः कामी शवरीसंगकौतुकी ।। ४४ ।।

त्यज तं ब्राह्मणं कंठं दहंतं ब्रह्मतेजसा ।।

पक्षादीनि तवांगानि पांतु देवा मरुन्मुखाः ।। ४५ ।।

इति स्वमातुराशीर्भिर्गरुडो वर्धितो ययौ ।।

शबरालयमभ्येत्य तस्य भक्षय तो मुखम् ।। ४६ ।।

आवृतं प्राविशन्व्याधा वयांसीव दरीं गिरेः ।।

अथ स ब्राह्मणोऽप्यागात्तत्कंठं मुनिपुंगवाः ।। ४७ ।।

कण्ठं दहन्तं विप्रं तमुवाच विनतासुतः ।।

विप्र पापोऽप्यवध्यो हि निर्याहि त्वमतो बहिः ।। ४८ ।।

एवमुक्तस्तदा विप्रो गरुडं प्रत्यभाषत ।।

किराती मम भार्यापि निर्गंतव्या मया सह ।। ४९ ।।

एवमस्त्विति तं विप्रमुवाच पतगेश्वरः ।।

ततः स गरुडो विप्रमुज्जगार सभार्यकम् ।। 3.1.38.५० ।।

विप्रोऽप्यभीप्सितान्देशान्निषाद्या सह निर्ययौ ।।

शबरान्भक्षयित्वाऽथ गरुडः पक्षिणां वरः ।। ५१ ।।

आत्मनः पितरं वेगात्कश्यपं समुपेयिवान् ।।

कुत्र यासीति तत्पृष्टो गरुडस्तम भाषत ।। ५२ ।।

मातुर्दास्यविमोक्षाय सुधामाहर्तुमागमम् ।।

बहून्किराताञ्जग्ध्वापि तृप्तिर्मम न जायते ।। ५३ ।।

अपर्यंतक्षुधा ब्रह्मन्बाधते मामह र्निशम् ।।

तन्निवृत्तिप्रदं भक्ष्यं ममार्पय तपोधन ।। ५४ ।।

येनाहं शक्नुयां तात सुधामाहर्तुमोजसा ।।

इतीरितः सुतं प्राह कश्यपो विनतोद्भवम् ।। ।। ५५ ।।

।।कश्यप उवाच ।। ।।

मुनिर्विभावसुर्नाम्ना पुरासीत्तस्य सानुजः ।।

सुप्रतीक इति भ्राता तावुभौ वंशवैरिणौ ।। ५६ ।।

अन्योन्यं शेपतुर्विप्रा महाक्रोधसमाकुलौ ।।

गजोऽभवत्सुप्रतीकः कूर्मोऽभूच्च विभावसुः ।। ५७ ।।

एवं वित्तविवादात्तौ शेपतुर्भ्रातरौ मिथः ।।

गजः षड्यो जनोच्छ्रायो द्विगुणायामसंयुतः ।। ५८ ।।

कूर्मस्त्रियोजनोच्छ्रयो दशयोजनविस्तृतः ।।

बद्धवैरावुभावेतौ सरस्यस्मिन्विहंगम ।। ५९ ।।

पूर्ववैरमनुस्मृत्य युध्येते जेतुमिच्छया ।।

उभौ तौ भक्षयित्वा त्वं सुधामाहर तृप्तिमान् ।। 3.1.38.६० ।।

एवं पित्रेरितः पक्षी गत्वा तद्गजकच्छपौ ।।

समुद्धत्य महाकायौ महाबलपराक्रमौ ।। ६१ ।।

वहन्नखाभ्यां संतीर्थं विळंबाभिधमभ्यगात् ।।

तत्रागतं समालोक्य पक्षिराजं द्विजोसमाः ।। ६२ ।।

तत्तीरजो महावृक्षो रोहिणाख्यो महोच्छ्रयः ।।

वैनतेयमिदं प्राह महाबलपराक्रमम् ।। ६३ ।।

एनामारुह मच्छाखां शतयोजनमायताम् ।।

स्थित्वात्र गजकूर्मौ त्वं भक्षयस्व खगोत्तम ।।६४ ।।

इत्युक्तस्तरुणा पक्षी स तत्रास्ते मनोजवः ।।

तद्भारात्सा तरोः शाखा भग्नाऽभूद्द्विजसत्तमाः ।। ६५ ।।

वालखिल्यमुनींस्तस्मिल्लँबमानानधोमुखान् ।।

दृष्ट्वा तत्पातशंकावाँस्तां शाखां गरुडोऽग्रहीत् ।। ६६ ।।

गजकूर्मो च तां शाखां गृहीत्वा यांतमं बरे ।।

पिता तस्याब्रवीत्तत्र गरुडं विनतासुतम् ।। ६७ ।।

त्यजेमां निर्जने शैले शाखां तं विनतोद्भव ।।

इत्युक्तः स तथा गत्वा शाखां निष्पुरुषे नगे ।। ६८ ।।

विन्यस्याभक्षयत्पक्षी तौ तदा गजकच्छपौ ।।

अथोत्पातः समभवत्तस्मिन्नवसरे दिवि ।। ६९ ।।

दृष्ट्वोत्पातं बलारातिः पप्रच्छ स्वपुरोहितम् ।।

उत्पातकारणं जीव किमत्रेति पुनःपुनः ।।

बृहस्पतिस्तदा शक्रं प्रोवाच द्विजसत्तमाः ।। 3.1.38.७० ।।

।। बृहस्पतिरुवाच ।। ।।

काश्यपो हि मुनिः पूर्वमयजत्क्रतुना हरे ।।७१।।

सर्वान्नृषीन्सुरान्सिद्धान्यक्षान्गंधर्वकिन्नरान् ।।

यज्ञसंभारसिद्ध्यर्थं प्रेषयामास स द्विजाः।। ७२ ।।

वालखिल्यान्ससंभारान्ह्रस्वानंगुष्ठमात्रकान् ।।

मज्जतो गोष्पदजले दृष्ट्वा हसितवान्भवान् ।। ७३ ।।

भवतावमताः क्रुद्धा वालखिल्यास्तदा हरे ।।

जुहुवुर्यज्ञवह्नौ ते क्रोधेन ज्वलिताननाः ।। ७४ ।।

देवेंद्रभयदः शत्रुः कश्यपस्य सुतोऽस्त्विति ।।

तस्य पुत्रोऽद्य गरुडः सुधाहरणकौतुकी ।। ७५ ।।

समागच्छति तद्धेतुरयमुत्पात आगतः ।।

इत्युक्तः सोऽब्रवीदिंद्रो देवानग्निपुरोगमान् ।। ७६ ।।

सुधामाहर्तुमायाति पक्षी सा रक्ष्यतामिति ।।

इतींद्रप्रेरिता देवा ररक्षुः सायुधाः सुधाम् ।। ७७ ।।

पक्षिराजस्तदाभ्यागाद्देवानायुधधारिणः ।।

महाबलं ते गरुडं दृष्ट्वाऽकम्पंत वै सुराः ।। ७८ ।।

गरुडस्य सुराणां च ततो युद्धमभून्महत् ।।

अखंडि पक्षितुण्डेन भौवनोऽमृतपालकः ।। ७९ ।।

तदा निजघ्नुगर्रुडं देवाः शस्त्रैरनेकशः ।।

अतीव गरुडो देवैर्बाधितः शस्त्रपाणिभिः ।। 3.1.38.८० ।।

पक्षाभ्यामाक्षिपद्दूरे देवानग्निपुरोगमान् ।।

तत्पक्षविक्षिता देवास्तदा परमकोपनाः ।। ८१ ।।

नाराचान्भिंदि पालांश्च नानाशस्त्राणि चाक्षिपन् ।।

ततस्तु गरुडो वेगाद्देवदृष्टिविलोपिनीम् ।। ८२ ।।

धूलिमुत्थापयामास पक्षाभ्यां विनतासुतः ।। वायुना

शमयामासुस्तान्पांसूंस्त्रिदशोत्तमाः ।। ८३ ।।

रुद्रान्वसूंस्तथादित्यान्मरुतोऽन्यान्सुरांस्तथा ।।

गरुडः पक्षतुंडाभ्यां व्यथितानकरोद्द्विजाः ।। ८४ ।।

पलायितेषु देवेषु सोऽद्राक्षीज्ज्वलनं पुरः ।।

ज्वलंतं परितस्त्वग्निं शमापयितुमुद्ययौ।। ८५ ।।

स सहस्रमुखो भूत्वा तैः पिबञ्छतशो नदीः ।।

तमग्निं नाशयामास तैः पयोभिस्त्वरान्वितः ।। ८६ ।।

सितधारं भ्रमच्चक्रं सुधारक्षकमंतिके ।।

दृष्ट्वा तदरिरंध्रेण संक्षिप्तांगोतराविशत् ।। ८७ ।।

ततो ददर्श द्वौ सर्पो व्यक्तास्यौ भीषणाकृती.।।

याभ्यां दृष्टोपि भस्म स्यात्तौ सर्पौ गरुडस्तदा ।। ८८ ।।

आच्छिद्य पक्षतुंडाभ्यां गृहीत्वाऽमृतमुद्ययौ ।।

यंत्रमुत्पाट्य चोद्यंतं गरुडं प्राह माधवः ।। ८९ ।।

तव तुष्टोऽस्मि पक्षीश वरं वरय सुव्रत ।।

अथ पक्षी तमाह स्म कमलानायकं हरिम् ।। ।। 3.1.38.९० ।।

तवोपरि स्थितिर्मे स्यान्मा भूतां च जरामृती ।।

तथास्त्विति हरिः प्राह वरं मद्व्रियतामिति ।। ९१ ।।

इत्युक्तस्तं हरिः प्राह मम त्वं वाहनं भव ।।

स्यंदनोपरि केतुश्च मम त्वं विनतासुत ।। ९२ ।।

तथास्त्विति खगोप्याह कमलापतिमच्युतम् ।।

हृतामृतं खगं श्रुत्वा तत आखंडलो जवात् ।। ९३ ।।

अभिद्रुत्याशु कुलिशं पक्षे चिक्षेप पक्षिणः ।।

ततो विहस्य गरुडः पाकशासनमब्रवीत् ।। ९४ ।।

कुलिशस्य निपातान्मे न हरे कापि वेदना ।।

सफलो वज्रपातस्ते भूयाच्च सुरनायक ।। ९५ ।।

इतीरयन्पत्रमेकं व्यसृजत्पक्षतस्तदा ।।

शोभनं पर्णमस्येति सुपर्ण इति सोभ वत् ।। ९६ ।।

तस्मिन्सुपर्णे हेमाभे सर्वे विस्मयमाययुः ।।

ततस्तु गरुडः शक्रमब्रवीद्द्विजपुंगवाः ।। ९७ ।।

भवता साकमखिलं जगदेतच्चराचरम् ।।

देवेंद्र सततं वोढुममोघा शक्तिरस्ति मे ।। ९८ ।।

नाखण्डलसहस्रं मे रणे लभ्यं हरे भवेत् ।।

इति ब्रुवाणं गरुडमब्रवीत्पाकशासनः ।।९९।।

किं तेऽमृतेन कार्यं स्याद्दीयताममृतं मम ।।

इमां सुधां भवान्दद्याद्येभ्यो हि विनतोद्भव ।। 3.1.38.१०० ।।

तेऽधुनाऽमृतपानेन जरामरणवर्जिताः ।।

अस्मद्भ्योऽधिकवीर्याः स्युर्बाधेरंस्त्रिदशांस्तथा ।। १ ।।

इति ब्रुवंतं देवेन्द्रं गरुडोऽप्यब्रवीद्द्विजाः ।।

यत्रैतत्स्थापयिष्यामि तत्रागत्य भवानिदम् ।। ।। २ ।।

गृह्णातु झटितीत्युक्तो गरुडं प्राह वृत्रहा ।।

प्रीतोऽहं तव दास्यामि वरं वृणु महामते ।। ३ ।।

इत्युक्तवन्तं गरुडः पाकशासनमब्रवीत् ।।

दास्ये छलप्रयोक्तारो मम मातुः सरीसृपाः ।। ४ ।।

भक्ष्या भवंतु नित्यं मे पाकशासन वृत्रहन् ।।

इति तेनेरितः शकस्तथास्त्वित्यवदच्च तम् ।। ५ ।।

अथायं गरुडो विप्रा धारयन्नमृतं ययौ ।।

यांतं तमनुयाति स्म गरुडं पाकशासनः ।। ६ ।।

वेगेन स द्विजश्रेष्ठाः सुधाहरणकौतुकी ।।

मातुरभ्याशमागत्य सर्पान्प्राह स पक्षिराट् ।। ७ ।।

कुशेषु न्यस्यते सर्पास्सुधैवमधुना मया ।।

स्नात्वा तद्भुङ्ध्वममृतं शुचयः सुसमाहिताः ।। ८ ।।

मोक्षोऽपि मम मातुः स्याद्दासीभावाद्धि पन्नगाः ।।

तथास्त्वित्यवदन्सर्पा गरुडं विनतासुतम् ।।९।।

मुक्ता तदैव विनता दासीभावाद्द्विजोत्तमाः ।।

सर्पास्तेऽमृतभक्षार्थं स्नातुं सर्वे ययुस्तदा ।।3.1.38.११०।।

तस्मिन्नवसरे शक्रस्तामादाय सुधां ययौ ।।

स्नात्वागत्य भुजंगास्ते तत्रादृष्ट्वा तदा सुधाम् ।। ११ ।।

जिह्वाभिर्लिलिहुर्द र्भानेषु न्यस्ता सुधेति हि ।।

तदाप्रभृति सर्पाणां जिह्वा दर्भाग्रपाटिताः ।।१२।।

द्विधाभवन्मुनिश्रेष्ठा द्विजिह्वास्तेन ते स्मृताः।।

सुधासंयोगतो दर्भाः प्रय युश्च पवित्रताम् ।।१३।।

मोचयित्वा च गरुडो दासीभावात्स्वमातरम् ।।

शशापकुपितः कद्रूं छद्मना जितमातरम् ।।१४।।

कद्रूस्त्वं जननीं यन्मे छलेन जितवत्यसि ।।

भर्तुस्त्वं परिचर्यायामतो नार्हा भविष्यसि ।।१५।।

शप्त्वैवं गरुडः कद्रूं प्रययौ स यथेच्छया ।।

कद्रूश्च विनता चोभे ययतुर्भर्तुरंतिकम् ।। १६ ।।

कश्यपो विमुखस्तत्र कद्रूं कोपादथाब्रवीत् ।।

यस्माच्छलेन विनतां कद्रूर्निर्जितवत्यसि ।। १७ ।।

अतो मत्परिचर्यायां न योग्यासि दुरात्मिके ।।

स्त्रियं वा पुरुषं वापि नारी वा पुरुषोऽपि वा ।। १८ ।।

छलाद्विजयते योऽसौ स महापातकी भवेत् ।।

छलाद्विजयिना सार्धं संभाष्य ब्रह्महा भवेत् ।। १९ ।।

स्तेयी सुरापी विज्ञेयो गुरुदाररतश्च सः ।।

संसर्गदोषदुष्टश्च मुनिभिः परिकीर्त्यते ।। 3.1.38.१२० ।।

त्वया संभाषणाद्दोषो मम स्यान्नरकप्रदः ।।

तस्मात्प्रयाहि कद्रूस्त्वं मत्समीपाद्धि दारुणे ।। २१ ।।

छलजेत्रा सपंक्तौ यो भुंजीत मनुजो भुवि ।।

तेन संभाषणात्सद्यः पतेद्धि नरकार्णवे ।। २२ ।।

विलोक्य च्छलजेतारं तस्य पापस्य शांतये ।।

आदित्यं वा जलं वापि पावकं वा विलोकयेत् ।। २३ ।।

छलजेता यत्र तिष्ठेदाश्रमेऽपि गृहेऽपिवा ।।

वस्तव्यं न हि तत्रान्यैर्वसन्नरकमश्नुते ।। २४ ।।

अतो निर्याहि निर्याहि मम त्वं दृष्टिमार्गतः ।।

स्वाश्रमात्सरलामेनां विनतां जितवत्यसि ।। २५ ।।

इति धिक्कृत्य सहसा कद्रूं तां कश्यपस्तदा ।।

विनतां स्वच्छशीलां तां स्वीचकार महामतिः ।।२६ ।।

कद्रूरित्थं सपरुषं कथिता कश्यपेन सा ।।

रुदंती भृशदुःखार्ता पादयोस्तस्य चापतत् ।। २७ ।।

पतितां पादयोर्दृष्ट्वा कश्यपो मुनिपुंगवः ।।

न जग्राहैव कद्रूं तां स्मरन्पापं तया कृतम् ।। २८ ।।

ततः प्रणम्य विनता कश्यपं वाक्यमब्रवीत् ।।

भगवन्भगिनीमेनां स्वीकुरुष्व कृपानिधे ।। २९ ।।

अज्ञानान्मुग्धया पापं कद्र्वा यदधुना कृतम्।।

क्षंतुमर्हसि तत्सर्वं दयाशीला हि साधवः ।। 3.1.38.१३० ।।

जनन्या गरुडस्यैव कथितः कश्यपो मुनिः ।।

उवाच विनते नैनां विना पापस्य निष्कृतिम् ।। ३१ ।।

ग्रहीष्यामि दुराचारां त्रिस्त्वां शपथयाम्यहम् ।।

कश्यपस्य वचः श्रुत्वा विनता पुनरब्रवीत् ।। ३२ ।।

भगिन्या मम पापस्य ब्रह्मंस्त्वं ब्रूहि निष्कृतिम् ।।

येनेयं परिचर्यायां तव योग्या भविष्यति ।। ३३ ।।

तयैवमुदितो विप्रा मारीचः कश्यपस्तदा ।।

ध्यात्वा मुहूर्तं मनसा पश्चादिदमभाषत ।। ३४ ।।

दक्षिणांबुनिधेस्तीरे फुल्लग्रामे विमुक्तिदे ।।

अस्ति क्षीरसरोनाम तीर्थं पापविनाशनम् ।। ६५ ।।

तत्तीर्थस्नानमात्रेण दोषश्चास्या विनश्यति ।।

प्रायश्चित्तायुतेनापि तत्तीर्थे मज्जनं विना ।। ३६ ।।

न नश्यत्येष दोषो ऽस्यास्तदेषा यातु तत्सरः ।।

भर्त्रैवमुदिते कद्रूस्तं प्रणम्य द्विजोत्तमम् ।। ३७ ।।

तत्क्षणात्प्रययौ क्षीरं सरः पुत्रसहायिनी ।।

सा कद्रूः पुत्र सहिता गत्वा कतिपयैर्दिनैः ।। ३८ ।।

प्राप्य क्षीरसरः पुण्यं प्रयता विजितेंद्रिया ।।

सस्नौ नियमपूर्वं च संकल्प्य क्षीरकुंडके ।। ३९ ।।

उपोष्य त्रिदिनं सस्नौ तस्मिन्क्षीरसरोजले ।।

चतुर्थे दिवसे तस्यां कुर्वत्यां स्नानमादरात् ।।

अदेहा व्योमगावाणी समुत्तस्थौ द्विजोत्तमाः ।। 3.1.38.१४० ।।

अशरीरिण्युवाच ।। ।।

कद्रूस्त्वं मज्जनादत्र च्छलजेतृत्वदोषतः ।। ४१ ।।

विमुक्ता भर्तृशुश्रूषायोग्या चासि न संशयः ।।

शापोपि गरुडोक्तस्ते लयं यातोऽत्र मज्जनात् ।। ४२ ।।

गच्छ भर्तृसकाशं त्वं सोऽपि त्वां स्वीकरिष्यति ।।

इत्युक्त्वा विररामाथ व्योमवागशरीरिणी ।। ४३ ।।

तस्यै वाचे नमस्कृत्य कद्रूः सा प्रीतमानसा ।।

तीर्थं प्रदक्षिणीकृत्य नत्वा पुत्रसमन्विता ।। ४४ ।।

प्रययौ भर्तुरभ्याशं तच्छुश्रूषणकौतुकात् ।।

आगतातां समालोक्य स्नातां क्षीरसरोजले ।। ४५ ।।

ज्ञात्वा विधूतपापां च कश्यपः स समाधिना ।।

अंगीचकार पत्नीं तामात्मशुश्रूषणोचि ताम् ।। ४६ ।।

एवं वः कथितं विप्राः कद्रूपापविमोक्षणम् ।।

मज्जनान्मुक्तिदं पुंसां पुण्ये क्षीरसरोजले ।। ४७ ।।

यः शृणोतीममध्यायं पठते वापि मानवः ।।

स क्षीरकुंडस्नानस्य लभते फलमुत्तमम्।। ४८ ।।

अश्वमेधादियज्ञानां समग्रं फलमश्नुते ।।

गंगादिसर्वतीर्थेषु स स्नातो भवति ध्रुवम्।। ।। ४९ ।।

यः पठेदिममध्यायं क्षीरकुंडप्रशंसनम् ।।

गोसहस्रप्रदातॄणां प्राप्नोत्यविकलं फलम् ।। 3.1.38.१५० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये क्षीरकुंडप्रशसायां कद्रूकृतच्छलदोषशांतिकथावर्णनं-नामाष्टत्रिंशोऽध्यायः ।। ३८ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 39

श्रीसूत उवाच ।। ।।

अथातः संप्रवक्ष्यामि कपितीर्थस्य वैभवम् ।।

तत्तीर्थं सकलैः पूर्वं गंधमादनपर्वते ।। १ ।।

सर्वेषामुपकाराय कपिभिर्निर्मितं द्विजाः ।।

रावणादिषु रक्षःसु हतेषु तदनंतरम् ।। २ ।।

तीर्थं निर्माय तत्रैव सस्नुस्ते कपयो मुदा ।।

तीर्थाय च वरं प्रादुः कपयः कामरूपिणः ।। ।। ३।।

अस्मिंस्तीर्थे निमग्ना ये भक्तिप्रवणचेतसः ।।

ते सर्वे मुक्तिभाजः स्युर्महापातकमोचिताः ।। ४ ।।

अत्र तीर्थे निमग्नानां न स्यान्नरकजं भयम् ।।

अत्र स्नाता नराः सर्वे दारिद्रयं नाप्नुवंति हि ।। ५ ।।

अत्र तीर्थे निमग्नानां यमपीडापि नो भवेत् ।।

कपितीर्थं प्रयास्येऽहमिति यः सततं ब्रुवन् ।। ६ ।।

व्रजेच्छतपदं विप्राः स यायात्परमं पदम् ।।

एतत्तीर्थसमं तीर्थं न भूतं न भविष्यति ।। ७ ।।

एवं वरं तु ते दत्त्वा तीर्थायास्मै कपीश्वराः ।।

रामं दाशरथिं सर्वे प्रणम्याथ ययाचिरे ।। ८ ।।

स्वामिंस्त्वयास्मै तीर्थाय दीयतां वरमद्भुतम्।।

कपिभिः प्रार्थितो विप्रा रामचंद्रोऽतिहर्षितः ।। ९।।

तत्तीर्थाय वरं प्रादात्कपीनां प्रीतिकारणात् ।।

अत्र तीर्थे निमग्नानां गंगास्नानफलं लभेत् ।। 3.1.39.१० ।।

प्रयागस्नानजं पुण्यं सर्वतीर्थफलं तथा ।।

अग्निष्टोमादियागानां फलं भूयादनुत्तमम् ।। ११ ।।

गायत्र्यादिमहामंत्रजपपुण्यं तथा भवेत् ।।

गोसहस्रप्रदनृणां प्राप्नोत्यविकलं फलम् ।। १२ ।।

चतुर्णामपि वेदानां पारायणफलं लभेत् ।।

ब्रह्मविष्णुमहेशादिदेवपूजाफलं लभेत् ।। १३ ।।

कपितीर्थाय रामोयं प्रादादेवं वरं द्विजाः ।।

एवं रामेण दत्ते तु वरे तत्र कुतूहलात् ।।१४।।

षडर्धनयनो ब्रह्मा सहस्राक्षो यमस्तथा ।।

वरुणोग्निस्तथा वायुः कुबेरश्चंद्रमा अपि ।।१५।।

आदित्यो निर्ऋतिश्चैव साध्याश्च वसवस्तथा ।।

अन्येऽपि त्रिदशाः सर्वे विश्वेदेवादयस्तथा ।। १६ ।।

अत्रिर्भृगुस्तथा कुत्सो गौतमश्च पराशरः ।।

कण्वोऽगस्त्यः सुतीक्ष्णश्च विश्वामित्रादयोऽपरे ।। १७ ।।

योगिनः सनकाद्याश्च नारदाद्याः सुरर्षयः ।।

रामदत्तवरं तीर्थं श्लाघंते बहुधा तदा ।। १८।।

सस्नुश्च तत्र तीर्थे ते सर्वाभीष्टप्रदायिनि ।।

कपिभिर्निर्मितं यस्मादेतत्तीर्थमनुत्तमम् ।। १९ ।।

कपितीर्थमिति ख्यातिमतो लोके प्रयास्यति।।

इत्यप्यवोचंस्ते सर्वे देवाश्च मुनयस्तथा ।। 3.1.39.२० ।।

तस्मादवश्यं गंतव्यं कपितीर्थं मुमुक्षुभिः ।।

रंभा कौशिकशापेन शिलाभूता पुरा द्विजाः ।। २१।।

तत्र स्नात्वा निजं रूपं प्रपेदे च दिवं ययौ ।।

अस्य तीर्थस्य माहात्म्यं मया वक्तुं न शक्यते ।। २२ ।।

।। मुनय ऊचुः ।। ।।

रंभां किमर्थमशपत्कौशिकः सूतनंदन ।।

कथं गता शिलाभूता कपितीर्थं सुरांगना ।।

एतन्नः सर्वमाचक्ष्व विस्तरान्मुनिसत्तम ।। २३ ।।

।। श्रीसूत उवाच ।। ।।

विश्वामित्राभिधो राजा प्रागभूत्कुशिकान्वये ।। २४ ।।

स कदाचिन्महाराजः सेनापरिवृतो बली ।।

मेदिनीं परिचक्राम राज्यवीक्षणकौतुकी ।। ।। २५ ।।

अटित्वा स बहून्देशान्वसिष्ठस्याश्रमं ययौ ।।

आतिथ्याय वृतः सोऽयं वसिष्ठेन महात्मना ।। २६ ।।

तथास्त्वित्यब्रवीत्सोयं दंडवत्प्रणतो नृपः ।।

कामधेनुप्रभावेन विश्वामित्राय भूभुजे ।। २७ ।।

आतिथ्यमकरोद्विप्रा वसिष्ठो ब्रह्मनंदनः ।।

कामधेनुप्रभावं वै ज्ञात्वा कुशिकनंदनः ।। ।। २८ ।।

वसिष्ठं प्रार्थयामास कामधेनुमभीष्टदाम् ।।

प्रत्याख्यातो वसिष्ठेन प्रचकर्ष च तां बलात् ।। २९ ।।

कामधेनुविसृष्टैस्तु म्लेच्छाद्यैः स पराजितः ।।

महादेवं समाराध्य तस्मादस्त्राण्यवाप्य च ।। 3.1.39.३० ।।

वसिष्ठस्याश्रमं गत्वा व्यसृजच्छरसंचयान् ।।

सर्वाण्यस्त्राणि मुमुचे ब्रह्मास्त्रं च नृपोत्तमः ।। ३१ ।।

तानि सर्वाणि चास्त्राणि वसिष्ठो ब्रह्मनंदनः ।।

एकेन ब्रह्मदंडेन निजघ्न स्वतपोबलात् ।। ३२ ।।

ततः पराजितो विप्रा विश्वामित्रोऽतिलज्जितः ।।

ब्राह्मण्यावाप्तये स्वस्य तपः कर्तुं वनं ययौ ।। ३३ ।।

पूर्वासु पश्चिमांतासु त्रिषु दिक्षु तपोऽचरत् ।।

प्रादुर्भूतमहा विघ्नस्तत्तद्दिक्षु स कौशिकः ।। ३४ ।।

उत्तरां दिशमासाद्य हिमवत्पर्वतेऽमले

कौशिक्यास्सरितस्तीरे पुण्ये पापविनाशिनि ।। ३५ ।।

दिव्यं वर्षसहस्रं तु निराहारो जितेंद्रियः ।।

निरालोको जितश्वासो जितक्रोधः सुनिश्चलः ।। ३६ ।।

ग्रीष्मे पंचाग्निमध्यस्थः शिशिरे वारिषु स्थितः ।।

वर्षास्वाकाशगो नित्यमूर्ध्वबाहुर्निराश्रयः ।। ३७ ।।

ब्राह्मण्यसिद्धयेऽत्युग्रं चचार सुमहत्तपः ।।

उद्विग्नमनसस्तस्य त्रिदशास्त्रिदिवालयाः ।।

जंभारिणा च सहिता रंभां प्रोचुरिदं वचः ।। ३९ ।।

।। देवा ऊचुः ।। ।।

रंभे त्वं हिमवच्छैले कौशिकीतीरगं मुनिम् ।। ३९ ।।

विश्वामित्रं तपस्यंतं विलोभय विचेष्टितैः ।।

यथा तत्तपसो विघ्नो भविष्यति तथा कुरु ।। 3.1.39.४० ।।

एवमुक्ता तदा रंभा देवैरिंद्रपुरोगमैः ।।

प्रत्युवाच सुरान्सर्वान्प्रांजलिः प्रणता तदा ।। ४१ ।।

।। रंभोवाच ।। ।।

अतिक्रूरो महाक्रोधो विश्वामित्रो महामुनिः ।।

स शप्स्यते मां क्रोधेन बिभेम्यस्मादहं सुराः ।। ४२ ।।

त्रायध्वं कृपया यूयं मां युष्मत्परिचारिकाम् ।।

इत्युक्तो रंभया तत्र जंभारिस्ताम भाषत ।। ४३ ।।

।। इन्द्र उवाच ।। ।।

रंभे त्वया न भीः कार्या विश्वामित्रात्तपोधनात् ।।

अहमप्यागमिष्यामि त्वत्सहायः समन्मथः ।। ४४ ।।

कोकिलालापमधुरो वसन्तोऽप्यागमिष्यति ।।

अतिसुंदररूपा त्वं प्रलोभय महामुनिम् ।। ४५ ।।

इतींद्रकथिता रंभा विश्वामित्राश्रमं ययौ ।।

तद्दृष्टिगोचरा स्थित्वा ललितं रूपमास्थिता ।। ४६ ।।

सा मुनिं लोभयामास मनोहरविचेष्टितः ।।

पिकोपि तस्मिन्समये चुकूजानंदयन्मनः ।। ४७ ।।

श्रुत्वा पिकस्वरं रंभां दृष्ट्वा च मुनिपुंगवः ।।

संशयाविष्टहृदयो विदित्वा शक्रकर्म तत् ।।

शशाप रंभां क्रोधेन विश्वामित्रस्तपोधनः ।। ४८ ।। ।।

।। विश्वामित्र उवाच ।। ।।

यस्मात्कोपयसे रंभे मां त्वं कोपजयैषिणम् ।। ४९ ।।

शिला भवात्र तस्मात्त्वं रंभे वर्षशतायुतम् ।।

तदंतरे ब्राह्मणेन रक्षिता मोक्षमाप्स्यसि ।। 3.1.39.५० ।।

विश्वामित्रस्य शापेन तदंते सा शिलाऽभवत् ।।

बहुकालं शिलाभूता तस्थौ तस्याश्रमे द्विजाः ।। ५१ ।।

विश्वामित्रोपि धर्मात्मा पुनस्तप्त्वा महत्तपः ।।

लेभे वसिष्ठवाक्येन ब्राह्मण्यं दुर्लभं नृपैः ।। ५२ ।।

बहुकालं शिलाभूता रंभाप्यासीत्तदाश्रमे ।।

तस्मिन्नेवाश्रमे पुण्ये शिष्योऽगस्त्यस्य संमतः ।। ५३ ।।

श्वेतोनाम मुनिश्चक्रे मुमुक्षुः परमं तपः ।।

चिरकालं तपस्तस्मिन्प्रकुर्वति महामुनौ ।।५४।।

अंगारकेति विख्याता राक्षसी काचिदागता ।।

तस्याश्रममतिक्रूरा मेघस्वनमहास्वना ।। ५५ ।।

मूत्ररक्तपुरीषाद्यैर्दूषयामास भीषणा ।।

उपद्रवैस्तथा चान्यैर्बाधयामास तं मुनिम् ।। ५६ ।।

अथ क्रुद्धो मुनिः श्वेतो वायव्यास्त्रेण योजयन् ।।

शप्तां कुशिकपुत्रेण राक्षस्यै प्राक्षिपच्छिलाम् ।। ५७ ।।

राक्षसी सा प्रदुद्राव वायव्यास्त्रेण योजिता ।।

वायव्यास्त्रप्रयुक्तेन दृषदानुद्रुता च सा ।। ५८ ।।

दक्षिणांबुनिधेस्तीरं धावति स्म भयार्दिता ।।

धावन्तीमनुधावन्ती सा शिलास्त्रप्रयोजिता ।। ५९ ।।

पपातोपरि राक्षस्या मज्जंत्याः कपितीर्थके ।।

मृता सा राक्षसी तत्र शिलापातात्स्वमूर्द्धनि ।। ।। 3.1.39.६० ।।

विश्वामित्रेण शप्ता सा कपितीर्थे निमज्जनात् ।।

शिलारूपं परित्यज्य रंभारूपमुपेयुषी ।। ६१ ।।

देवैः कुसुमधाराभिरभिवृष्टा मनोरमा ।।

दिव्यं विमानमारूढा दिव्यांबरविराजिता ।। ६२ ।।

हारकेयूरकटकनासाभरणभूषिता ।।

उर्वश्याद्यप्सरोभिश्च सखिभिः परिवारिता ।।६३।।

कपितीर्थस्य माहात्म्यं प्रशंसन्ती पुनःपुनः ।।

निषेव्य रामनाथं च शंकरं शशिभूषणम् ।। ६४ ।।

आखण्डलपुरीं रम्यां प्रययावमरावतीम् ।।

राक्षसी सापि शापेन कुम्भजस्य महौजसः ।। ६५ ।।

घृताची देववेश्या हि राक्षसीरूपमागता ।।

साप्यत्र कपितीर्थाप्सु स्नानात्स्वं रूपमाययौ ।। ६६ ।।

एवं रंभाघृताच्यौ ते कपितीर्थे निमज्जनात् ।।

अगस्त्यशिष्यश्वेतस्य प्रसादाद्द्विजसत्तमाः ।। ६७ ।।

राक्षसीत्वं शिलात्वं च हित्वा स्वं रूपमागते ।।

तस्मात्सर्वप्रयत्नेन स्नातव्यं कपितीर्थके ।। ६८ ।।

यः शृणोतीममध्यायं पठते वापि मानवः ।।

प्राप्नोति कपितीर्थस्य स्नानजं फलमुत्तमम् ।। ६९ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये कपितीर्थप्रशंसायां रंभाघृताचीशापविमोक्षणवर्णनं नामैकोनचत्वारिंशोऽध्यायः ।।३९।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 40

। श्रीसूत उवाच ।। ।।

अथातः संप्रवक्ष्यामि मुनयो लोकपावनम् ।।

गायत्र्या च सरस्वत्या माहात्म्यं मुक्तिदं नृणाम् ।। १ ।।

शृण्वतां पठतां चैव महापातकनाशनम् ।।

महापुण्यप्रदं पुंसा नरकक्लेशनाशनम् ।। २ ।।

गायत्र्यां च सरस्वत्यां ये स्नांति मनुजा मुदा ।।

न तेषां गर्भवासः स्यात्किं तु मुक्तिर्भवेद्ध्रुवम् ।। ३ ।।

सरस्वत्याश्च गायत्र्या गन्धमादनपर्वते ।।

ब्रह्मपत्न्योः सन्निधानात्तन्नाम्ना कथिते इमे ।। ४ ।।

।। ऋषय ऊचुः ।। ।।

गायत्र्याश्च सरस्वत्या गन्धमादनपर्वते ।।

किमर्थं संनिधानं वै सूताभूत्तद्वदस्व नः ।। ५ ।। ।।

।। सूत उवाच ।। ।।

प्रजापतिः पुरा विप्राः स्वां वै दुहितरं मुदा ।।

वाङ्नाम्नीं कामुको भूत्वा स्पृहयामास मोहनः ।। ६ ।।

अथ प्रजापतेः पुत्री स्वस्मिन्वै तस्य कामिताम्।।

विलोक्य लज्जिता भूत्वा रोहिद्रूप दधार सा ।। ७ ।।

ब्रह्मापि हरिणो भूत्वा तया रन्तुमनास्तदा ।।

गच्छतीमनुयातिस्म हरिणीरूपधारिणीम् ।। ८ ।।

तं दृष्ट्वा देवताः सर्वाः पुत्रीगमनसादरम् ।।

करोत्यकार्यं ब्रह्मायं पुत्रीगमनलक्षणम् ।। ९ ।।

इति निन्दंति तं विप्राः स्रष्टारं जगतां पतिम् ।।

निषिद्धकृत्यनिरतं तं दृष्ट्वा परमेष्ठिनम्।। 3.1.40.१० ।।

हरः पिनाकमादाय व्याधरूपधरः प्रभुः ।।

आकर्णपूर्ण कृष्टेन पिनाकधनुषा शरम् ।। ११ ।।

संयोज्य वेधसं तेन विव्याध निशितेन सः ।।

त्रिपुरांतक बाणेन विद्धोऽसौ न्यपतद्भुवि ।। १२ ।।

तस्य देहादथोत्थाय महज्ज्योतिर्महाप्रभम् ।।

आकाशे मृगशीर्षाख्यं नक्षत्रमभवत्तदा ।। १३ ।।

आर्द्रानक्षत्ररूपी सन्हरोऽप्यनुजगाम तम् ।।

पीडयन्मृगशीर्षाख्यं नक्षत्रं ब्रह्मरूपिणम् ।। १४ ।।

अधुनापि मृगव्याधरूपेण त्रिपुरांतकः ।।

अंबरे दृश्यते स्पष्टं मृगशीर्षांतिके द्विजाः ।। १५ ।।

एवं विनिहते तस्मिञ्च्छंभुना परमेष्ठिनि ।।

अनंतरं तु गायत्रीसरस्वत्यौ शुचार्पिते ।। १६ ।।

भर्तृहीने मुनिश्रेष्ठा भर्तृजीवनकांक्षया ।।

किं करिष्यावहे ह्यावामित्यन्योयं विचार्य तु ।। १७ ।।

स्वपतिप्राणसिद्ध्यर्थं गायत्री च सरस्वती ।।

सर्वोत्कृष्टं शिवस्थानं गन्धमादनपर्वतम् ।। १८ ।।

सर्वाभीष्टप्रदं पुंसां तपः कर्तुं समुद्यते ।।

जग्मतुर्नियमोपेतं तपः कर्तुं शिवं प्रति ।। १९ ।।

स्नानार्थमात्मनो विप्रा गायत्री च सरस्वती ।।

तीर्थद्वयं स्वनाम्ना वै चक्रतुः पापनाशनम् ।। 3.1.40.२० ।।

तत्र त्रिषवणस्नानं प्रत्यहं चक्रतुर्मुदा ।।

बहुकालमनाहारे कामक्रोधादिवर्जिते ।। २१ ।।

अत्युग्रनियमो पेते शिवध्यानपरायणे ।।

पंचाक्षरमहामन्त्रजपैकनियते शुभे ।। २२ ।।

स्वपतेर्जीवनार्थं वै गायत्री च सरस्वती ।।

महादेवं समुद्दिश्य तप एवं प्रचक्रतुः ।। २३ ।।

तयोरथ तपस्तुष्टो महादेवो महेश्वरः ।।

सन्निधत्ते महामूर्तिस्तपसां फलदित्सया ।। २४ ।।

ततः सन्निहितं शंभुं पार्वतीरमणं शिवम् ।।

गणेशकार्त्तिकेयाभ्यां पार्श्वयोः परिसेवितम ।। २५ ।।

दृष्ट्वा संतुष्टचित्ते ते गायत्री च सरस्वती ।।

स्तोत्रैस्तुष्टुवतुः स्तुत्यं महादेवं घृणा निधिम् ।। २६ ।। ।।

गायत्रीसरस्वत्यावूचतुः ।। ।।

नमो दुर्वारसंसारध्वांतध्वंसैकहेतवे ।।

ज्वलज्ज्वालावलीभीमकालकूटविषादिने ।। २७ ।।

जगन्मोहन पंचास्त्रदेहनाथैकहेतवे ।।

जगदंतकरक्रूर यमांतक नमोऽस्तु ते ।। २८ ।।

गंगातरंगसंपृक्तजटामण्डलधारिणे ।।

नमस्तेस्तु विरूपाक्ष बाल शीतांशुधारिणे ।। २९ ।।

पिनाकभीमटंकारत्रासितत्रिपुरौकसे ।।

नमस्ते विविधाकारजगत्स्रष्टृशिरश्छिदे ।। 3.1.40.३० ।।

शांतामलकृपादृष्टिसंरक्षितमृ कण्डुज ।।

नमस्ते गिरिजानाथ रक्षावां शरणागते ।। ३१ ।।

महादेव जगन्नाथ त्रिपुरांतक शंकर ।।

वामदेव महादेव रक्षावां शरणागते ।। ३२ ।।।

इति ताभ्यां स्तुतः शम्भुर्देवदेवो महेश्वरः ।।

अब्रवीत्प्रीतिसंयुक्तो गायत्रीं च सरस्वतीम् ।। ३३ ।।

।। महादेव उवाच ।। ।।

भोः सरस्वति गायत्रि प्रीतोऽस्मि युवयोरहम् ।।

वरं वरयतं मत्तो यद्वा मनसि वर्तते ।। ३४ ।।

इत्युक्ते ते तु गायत्रीसरस्वत्यौ हरेण वै ।।

अब्रूतां पार्वतीकांतं महादेवं घृणानिधिम् ।। ३५ ।।

।। गायत्रीसरस्वत्यावूचतुः ।। ।।

भगन्नावयोर्देव भर्त्तारं चतुराननम् ।।

सप्राणं कुरु सर्वेश कृपया करुणाकर ।। ३६ ।।

त्वमावयोः पिता देव तवाप्यावां सुते उभे ।।

रक्षावां पतिदानेन तस्मात्त्वं त्रिपुरांतक ।। ३७ ।।

स एवं प्रार्थितः शम्भुस्ताभ्यां ब्राह्मणपुंगवाः ।।

एवमस्त्विति संप्रोच्य गायत्रीं च सरस्वतीम् ।। ३८ ।।

तदेव वेधसः कायं शिरसा योक्तुमुत्सुकः ।।

तत्रैव वेधसः कायं शिरोभिः सहसुव्रताः ।। ३९ ।।

भूतैरानाययामास नंदिभृंगिमुखैस्तदा ।।

शिरांसि तान्यनेकानि कायेन सह शंकरः ।। 3.1.40.४० ।।

क्षणात्संधारयामास वाणीगायत्रिसंनिधौ ।।

संधितोऽथ हरेणासौ चतुर्वक्त्रो जगत्पतिः ।। ४१ ।।

उत्तस्थौ तत्क्षणादेव सुप्तोत्थित इव द्विजाः ।।

ततः प्रजापतिर्दृष्ट्वा शंकरं शशिभूषणम् ।।

तुष्टाव वाग्भिरग्र्याभिर्भार्याभ्यां च समन्वितः ।। ४२ ।।

।। ब्रह्मोवाच ।। ।।

नमस्ते देवदेवेश करुणाकर शंकर ।। ४३ ।।

पाहि मां करुणासिंधो निषिद्धाचरणात्प्रभो ।।

मम त्वत्कृपया शंभो निषिद्धाचरणे क्वचित् ।। ४४ ।।

मा प्रवृत्तिर्भवेद्भूयो रक्ष मां त्वं तथा सदा ।।

तथैवास्त्विति संप्राह ब्रह्माणं गिरिजापतिः ।। ४५ ।।

इतः परं प्रमादं त्वं मा कुरुष्व विधे पुनः ।।

उत्पथं प्रतिपन्नानां पुंसां शास्तास्मि सर्वदा ।। ४६ ।।

एवमुक्त्वा चतुर्वक्त्रं महादेवो द्विजोत्तमाः ।।

सरस्वतीं च गायत्रीं प्रोवाच प्रीणयन्गिरा ।। ४७ ।। ।।

।। महादेव उवाच ।। ।।

युवयोर्मत्प्रसादेन हे गायत्रि सरस्वति ।।

अयं भर्ता समायातः सप्राणश्चतुराननः ।। ४८ ।।

सहानेन ब्रह्मलोकं यातं मा भूद्विलंबता ।।

युवयोः संनिधानेन सदा कुंडद्वयेऽत्र वै ।। ४९ ।।

भविष्यति नृणां मुक्तिः स्नानात्सायुज्यरूपिणी ।।

युष्मन्नाम्ना च गायत्रीसर स्वत्याविति द्वयम् ।। 3.1.40.५० ।।

इदं तीर्थं सर्वलोके ख्यातिं यास्यति शाश्वतीम् ।।

सर्वेषामपि तीर्थानामिदं तीर्थद्वयं सदा ।। ५१ ।।

शुद्धिप्रदं तथा भूयान्महापातकनाशनम् ।।

महाशांतिकरं पुंसां सर्वाभीष्टप्रदायकम् ।। ५२ ।।

मम प्रसादजननं विष्णुप्रीतिकरं तथा ।।

एतत्तीर्थद्वयसमं न भूतं न भविष्यति ।। ५३ ।।

अत्र स्नानाद्धि सर्वेषां सर्वाभीष्टं भविष्यति ।।

इदं कुंडद्वयं लोके भवतीभ्यां कृतं महत् ।। ५४ ।।

युष्मन्नाम्ना प्रसिद्धं च भविष्यति विमुक्तिदम् ।।

गायत्र्युपास्तिरहिता वेदाभ्यासविवर्जिताः ।। ५५ ।।

औपासनविहीनाश्च पंचयज्ञविवर्जिताः ।।

युष्मत्कुंडद्वये स्नानात्तत्त त्फलमवाप्नुयुः ।। ५६ ।।

अन्ये च ये पातकिनो नित्यानुष्ठानवर्जिताः ।।

स्नात्वा कुंडद्वये तत्र शुद्धाः स्युर्द्विजसत्तमाः ।। ५७।।

सरस्वतीं च गाय त्रीमेवमुक्त्वा महेश्वरः ।।

क्षणादंतरधात्तत्र सर्वेषामेव पश्यताम् ।। ५८ ।।

पतिं लब्ध्वाऽथ गायत्रीसरस्वत्यौ मुदान्विते ।।

तेन साकं ब्रह्मलोकं जग्म तुर्द्विजसत्तमाः ।। ५९ ।।

।। श्रीसूत उवाच ।। ।।

एवं वः कथितं विप्रा गंधमादनपर्वते ।।

संनिधानं सरस्वत्या गायत्र्याश्च सहेतुकम् ।। 3.1.40.६० ।।

यः शृणोतीममध्यायं पठते वा सभक्तिकम् ।।

एतत्तीर्थद्वयस्नानफलमाप्नोत्यसंशयः ।। ६१ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहि तायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये गायत्रीसरस्वतीतीर्थप्रशंसायां गंधमादने गायत्रीसरस्वतीसन्निधानकथनं नाम चत्वारिंशोऽध्यायः ।। ४० ।। ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 41

।। श्रीसूत उवाच ।। ।।

अथातः संप्रवक्ष्यामि गायत्रीं च सरस्वतीम् ।।

लक्ष्यीकृत्य कथामेकां पवित्रां द्विजसत्तमाः ।। १ ।।

कश्यपाख्यो द्विजः पूर्वमस्मिंस्तीर्थद्वये शुभे ।।

स्नात्वातिमहतः पापाद्विमुक्तो नरकप्रदात् ।। २ ।।

।। ऋषय ऊचुः ।। ।।

मुने कश्यपनामासावकरोत्किं हि पातकम् ।।

स्नात्वा तीर्थद्वयेप्यत्र यस्मान्मुक्तोऽभवत्क्षणात् ।। ३ ।।

एतन्नः श्रद्दधानानां ब्रूहि सूत कृपाबलात् ।।

त्वद्वचोऽमृततृप्तानां न पिपासापि विद्यते ।। ४ ।।

।। श्रीसूत उवाच ।। ।।

गायत्र्याश्च सरस्वत्या माहात्म्यप्रतिपादकम् ।।

इतिहासं प्रवक्ष्यामि शृण्वतां पापनाशनम् ।। ५ ।।

अभिमन्युसुतो राजा परीक्षिन्नाम नामतः ।।

अध्यास्ते हास्तिनपुरं पालयन्धर्मतो महीम् ।। ६ ।।

स राजा जातु विपिने चचार मृगया रतः ।।

षष्टिवर्षवया भूपः क्षुत्तृष्णापरिपीडितः ।।७ ।।

नष्टमेकं स विपिने मार्गयन्मृगमादरात् ।।

ध्यानारूढं मुनिं दृष्ट्वा प्राह तं चीरवाससम् ।। ८ ।।।

मया बाणेन विपिने मृगो विद्धोऽधुना मुने ।।

दृष्टः स किं त्वया विद्वन्विद्रुतो भयकातरः ।। ९ ।।

समाधिनिष्ठो मौनित्वान्न किं चिदपि सोऽब्रवीत् ।।

ततो धनुरटन्याऽसौ स्कंधे तस्य महामुनेः। 3.1.41.१० ।।

निधाय मृतसर्पं तु कुपितः स्वपुरं ययौ।।

मुनेस्तस्य सुतः कश्चिच्छृंगीनाम बभूव वै ।। ११ ।।

सखा तस्य कृशाख्योऽभूच्छृंगिणो द्विजसत्तमाः ।।

सखायं शृङ्गिणं प्राह कृशाख्यः स सखा ततः ।। १२ ।।

पिता तव मृतं सर्पं स्कंधेन वहतेऽधुना ।।

मा भूद्दर्पस्तव सखे मा कृथास्त्वं मदं वृथा ।। १३ ।।

सोऽवदत्कुपितः शृंगी दित्सुश्शापं नृपाय वै ।।

मत्ताते शवसर्पं यो न्यस्तवान्मूढचेतनः ।। १४ ।।

स सप्तरात्रान्म्रियतां संदष्टस्तक्षकाहिना ।।

शशापैवं मुनिसुतः सौभद्रेयं परीक्षितम् ।। १५ ।।

शमीकाख्यः पिता तस्य श्रुत्वा शप्तं सुतेन तम् ।।

नृपं प्रोवाच तनयं शृंगिणं मुनिपुंगवः ।। १६ ।।

रक्षकं सर्वलोकानां नृपं किं शप्तवानसि ।।

अराजके वयं लोके स्थास्यामः कथमंजसा ।। १७ ।।

क्रोधेन पातकमभून्न त्वया प्राप्यते सुखम् ।।

यः समुत्पादितं कोपं क्षमयैव निरस्यति ।। १८ ।।

इह लोके परत्रासावत्यंतं सुखमेधते ।।

क्षमायुक्ता हि पुरुषा लभंते श्रेय उत्तमम् ।। १९ ।।

ततः शमीकः स्वं शिष्यं प्राह गौरमुखाभिधम् ।।

भो गौ मुख गत्वा त्वं वद भूपं परीक्षितम् ।। 3.1.41.२० ।।

इमं शापं मत्सुतोक्तं तक्षकाहिविदंशनम् ।।

पुनरायाहि शीघ्रं त्वं मत्समीपे महामते ।। २१ ।।

एवमुक्तः शमीकेन ययौ गौरमुखो नृपम् ।।

समेत्य चाब्रवीद्भूपं सौभद्रेयं परीक्षितम् ।। २२ ।।

दृष्ट्वा सर्पं पितुः स्कन्धे त्वया विनिहितं मृतम् ।।

शमीकस्य सुतः शृंगी शशाप त्वां रुषान्वितः ।। २३ ।।

एतद्दिनात्सप्तमेऽह्नि तक्षकेण महाहिना ।।

दष्टो विषाग्निना दग्धो भूयादाश्वभिमन्युजः ।। २४ ।।

एवं शशाप त्वां राजञ्छृंगी तस्य मुनेः सुतः ।।

एतद्वक्तुं पिता तस्य प्राहिणोन्मां त्वदंतिकम् ।। २५ ।।

इतीरयित्वा तं भूपमाशु गौरमुखो ययौ ।।

गते गौरमुखे पश्चाद्राजा शोकपरायणः ।। २६ ।।

अभ्रंलिहमथोत्तुंगमेकस्तंभं सुविस्तृतम् ।।

मध्येगंगं व्यतनुत मंडपं नृपपुंगवः ।। २७ ।।

महागारुडमंत्रज्ञैरौषधज्ञैश्चिकित्सकैः ।।

तक्षकस्य विषं हंतुं यत्नं कुर्वन्समाहितः ।। २८ ।।

अनेकदेवब्रह्मर्षिराजर्षिप्रवरान्वितः ।।

आस्ते तस्मिन्नृपस्तुंगे मंडपे विष्णुभक्तिमान् ।। २९ ।।

तस्मिन्नवसरे विप्रः काश्यपो मांत्रिकोत्तमः ।।

राजानं रक्षितुं प्रायात्तक्षकस्य महाविषात् ।। 3.1.41.३० ।।

सप्तमेऽहनि विप्रेंद्रो दरिद्रो धनकामुकः ।।

अत्रांतरे तक्षकोऽपि विप्ररूपी समाययौ ।। ३१ ।।

मध्येमार्गं विलोक्याथ कश्यपं प्रत्यभाषत ।।

ब्राह्मण त्वं कुत्र यासि वद मेऽद्य महामुने ।। ३२ ।।

इति पृष्टस्तदावादीत्काश्यपस्तक्षकं द्विजाः ।।

परीक्षितं महाराजं तक्षकोऽद्य विषाग्निना ।। ३३ ।।

दक्ष्यते तं शमयितुं तत्समीपमुपैम्यहम् ।।

इत्युक्तवंतं तं विप्रं तक्षकः पुनरब्रवीत् ।। ३४ ।।

तक्षकोहं द्विजश्रेष्ठ मया दष्टश्चिकित्सितुम् ।।

न शक्यो ऽब्दशतेनापि महामंत्रायुतैरपि ।। ३५ ।।

चिकित्सितुं चेन्मद्दष्टं शक्तिरस्ति तवाधुना ।।

अनेकयोजनोच्छ्रायमिमं वटतरुं त्वहम् ।। ३६ ।।

दशाम्युज्जीवयैनं त्वं समर्थोऽस्ति ततो भवान् ।।

इतीरयित्वा तं वृक्षमदशत्तक्षकस्तदा ।। ३७ ।।

अभवद्भस्मसात्सोऽपि वृक्षोऽत्यंतं समूर्च्छितः ।।

पूर्वमेव नरः कश्चित्तं वृक्षमधिरूढवान् ।। ३८ ।।

तक्षकस्य विषोल्काभिः सोऽपि दग्धोऽभवत्तदा ।।

तं नरं न विजिज्ञाते तौ च काश्यपतक्षकौ ।। ।। ३९ ।।

काश्यपः प्रतिजज्ञेऽथ तक्षकस्यापि शृण्वतः ।।

तन्मंत्रशक्तिं पश्यंतु सर्वे विप्रा हि नोऽधुना ।। 3.1.41.४० ।।

इतीरयित्वा तं वृक्षं भस्मीभूतं विषाग्निना ।।

अजीवयन्मन्त्रशक्त्या काश्यपो मांत्रिकोत्तमः ।। ४१ ।।

नरोऽपि तेन वृक्षेण साकमुज्जीवितोऽभवत् ।।

अथाब्रवीत्तक्षकस्तं काश्यपं मंत्रकोविदम् ।। ४२ ।।

यथा न मुनिवाङ्मिथ्या भवेदेवं कुरु द्विज ।।

यत्ते राजा धनं दद्यात्ततोपि द्विगुणं धनम् ।। ।। ४३ ।।

ददाम्यहं निवर्तस्व शीघ्रमेव द्विजोत्तम ।।

इत्युक्त्वानर्घ्यरत्नानि तस्मै दत्त्वा स तक्षकः ।। ४४ ।।

न्यवर्तयत्काश्यपं तं ब्राह्मणं मंत्रको विदम् ।।

अल्पायुषं नृपं मत्वा ज्ञानदृष्ट्या स काश्यपः ।। ४५ ।।

स्वाश्रमं प्रययौ तूष्णीं लब्धरत्नश्च तक्षकात् ।।

सोऽब्रवीत्तक्षकः सर्वान्सर्पानाहूय तत्क्षणे ।। ४६ ।।

यूयं तं नृपतिं प्राप्य मुनीनां वेषधारिणः ।।

उपहारफलान्याशु प्रयच्छत परीक्षिते ।। ४७ ।।

तथेत्युक्त्वा सर्वसर्पा ददू राज्ञे फलान्यमी ।।

तक्षकोपि तदा तत्र कस्मिंश्चिद्बदरीफले ।। ४८ ।।

कृमिवेषधरो भूत्वा व्यतिष्ठद्दंशितुं नृपम् ।।

अथ राजा प्रदत्तानि सर्पैर्ब्राह्मणरूपकैः ।। ४९ ।।

परीक्षिन्मंत्रवृद्धेभ्यो दत्त्वा सर्वफलान्यपि ।।

कौतूहलेन जग्राह स्थूलमेकं फलं करे ।। 3.1.41.५० ।।

अस्मिन्नवसरे सूर्योऽप्यस्ताचलमगाहत ।।

मिथ्या ऋषिवचो मा भूदिति तत्रत्यमानवाः ।। ५१ ।।

अन्योयमवदन्त्सर्वे ब्राह्मणाश्च नृपास्तथा ।।

एवं वदत्सु सर्वेषु फले तस्मिन्नदृश्यत ।। ५२ ।।

फले रक्तकृमिः सर्वे राज्ञा चापि परीक्षिता ।।

अयं किं मां दशेदद्य कृमिरित्युक्तवा न्नृपः ।। ५३ ।।

निदधे तत्फलं कर्णे सकृमि द्विजसत्तमाः ।।

तक्षकोऽस्मिन्स्थितः पूर्वं कृमिरूपी फले तदा ।। ५४ ।।

निर्गत्य तत्फलादाशु नृपदे हमवेष्टयत् ।।

तक्षकावेष्टिते भूपे पार्श्वस्था दुद्रुवुर्भयात् ।। ५५ ।।

अनंतरं नृपो विप्रास्तक्षकस्य विषाग्निना ।।

दग्धोऽभूद्भस्मसादाशु सप्रासादो बलीयसा ।। ५६ ।।

कृत्वोर्ध्वदैहिकं तस्य नृपस्य सपुरोहिताः ।।

मंत्रिणस्तत्सुतं राज्ये जनमेजयनामकम् ।। ५७ ।।

राजानमभ्यषिंचन्वै गजद्रक्ष णवांछया ।।

तक्षकाद्रक्षितुं भूपमायातः काश्यपाभिधः ।। ५८ ।।

यो ब्राह्मणो मुनिश्रेष्ठाः स सर्वैर्निंदितो जनैः ।।

बभ्राम सकलान्देशाञ्छिष्टैः सर्वैश्च दूषितः ।। ५९ ।।

अवस्थानं न लेभेऽसौ ग्रामे वाप्याश्रमेऽपि वा ।।

यान्यान्देशानसौ यातस्तत्रतत्रमहाजनैः ।। 3.1.41.६० ।।

तत्तद्देशान्निरस्तः स शाकल्यं शरणं ययौ ।।

प्रणम्य शाकल्यमुनिं काश्यपो निन्दितो जनैः ।।

इदं विज्ञापयामास शाकल्याय महात्मने ।। ६१ ।।

।। काश्यप उवाच ।। ।।

भगवन्सर्वधर्मज्ञ शाकल्य हरिवल्लभ ।। ६२ ।।

मुनयो ब्राह्मणाश्चान्ये मां निंदंति सुहृज्जनाः ।।

नास्याहं कारणं जाने किं मां निंदंति मानवाः ।। ६३ ।।

ब्रह्महत्या सुरापानं गुरुस्त्रीगमनं तथा ।।

स्तेयं संसर्गदोषो वा मया नाचरितः क्वचित् ।। ६४ ।।

अन्यान्यपि हि पापानि न कृतानि मया मुने ।।

तथापि निंदंति जना वृथा मां बांधवादयः ।। ६५ ।।

जानासि चेत्त्वं शाकल्य मया दोषं कृतं वद ।।

उक्तोऽथ काश्यपेनैवं शाकल्याख्यो महामुनिः ।।

क्षणं ध्यात्वा बभाषे तं काश्यपं द्विजसत्तमाः ।। ६६ ।।

।। शाकल्य उवाच ।। ।।

परीक्षितं महाराजं तक्षकाद्रक्षितुं भवान् ।। ६७ ।।

अयासीदर्धमार्गे तु तक्षकेण निवारितः ।।

चिकित्सितुं समर्थोऽपि विषरोगादिपीडितम् ।। ६८ ।।

यो न रक्षति लोभेन तमाहुर्ब्रह्मघातकम् ।।

क्रोधात्कामाद्भयाल्लोभान्मात्सर्यान्मोहतोऽपि वा ।। ६९ ।।

यो न रक्षति विप्रेंद्र विषरोगातुरं नरम् ।।

ब्रह्महा स सुरापी च स्तेयी च गुरुतल्पगः ।। 3.1.41.७० ।।

संसर्गदोषदुष्टश्च नापि तस्य हि निष्कृतिः ।।

कन्याविक्रयिणश्चापि हयविक्रयिणस्तथा ।। ७१ ।।

कृतघ्न स्यापि शास्त्रेषु प्रायश्चित्तं हि विद्यते ।।

विषरोगातुरं यस्तु समर्थोपि न रक्षति ।। ७२ ।।

न तस्य निष्कृतिः प्रोक्ता प्रायश्चित्तायुतैरपि ।।

न तेन सह पंक्तौ च भुंजीत सुकृती जनः ।। ७३ ।।

न तेन सह भाषेत न पश्येत्तं नरं क्वचित् ।।

तत्संभाषणमात्रेण महापातकभाग्भवेत् ।। ७४ ।।

परीक्षित्स महाराजः पुण्यश्लोकश्च धार्मिकः ।।

विष्णुभक्तो महायोगी चातुर्वर्ण्यस्य रक्षिता ।। ७५ ।।

व्यासपुत्राद्धरिकथां श्रुतवान्भक्तिपूर्वकम् ।।

अरक्षित्वा नृपं तं त्वं वचसा तक्षकस्य यत् ।। ७६ ।।

निवृत्तस्तेन विप्रेंद्रैर्बांधवैरपि दूष्यसे ।।

स परीक्षिन्महाराजो यद्यपि क्ष णजीवितः ।। ७७ ।।

तथापि यावन्मरणं बुधैः कार्यं चिकित्सनम् ।।

यावत्कण्ठगताः प्राणा मुमूर्षोर्मानवस्य हि ।। ७८ ।।

तावच्चिकित्सा कर्तव्या कालस्य कुटिला गतिः ।।

इति प्राहुः पुरा श्लोकं भिषग्वैद्याब्धिपारगाः ।। ७९ ।।

अतश्चिकित्साशक्तोऽपि यस्मादकृतभेषजः ।।

अर्धमार्गे निवृत्तस्त्वं तेन तं हतवानसि ।।

शाकल्येनैवमुदितः काश्यपः प्रत्यभाषत ।। 3.1.41.८० ।।

।। काश्यप उवाच ।। ।।

ममैतद्दोषशांत्यर्थमुपायं वद सुव्रत ।। ८१ ।।

येन मां प्रतिगृह्णीयुर्बांधवाः ससुहृज्जनाः ।। ८२ ।।

कृपां मयि कुरुष्व त्वं शाकल्य हरिवल्लभ ।।

काश्यपेनैवमुक्तस्तु शाकल्योपि मुनीश्वरः ।।

क्षणं ध्यात्वा जगादैवं काश्यपं कृपया तदा ।। ८३ ।।

।। शाकल्य उवाच ।। ।।

अस्य पापस्य शात्यर्थमुपायं प्रवदामि ते ।। ८४ ।।

तत्कर्त्तव्यं त्वया शीघ्रं विलंबं मा कृथा द्विज ।।

दक्षिणांबुनिधौ सेतौ गंधमादनपर्वते ।। ८५ ।।

अस्ति तीर्थद्वयं विप्रा गायत्री च सरस्वती ।।

तत्र त्वं स्नानमात्रेण शुद्धो भूयाश्च तत्क्षणे ।। ८६ ।।

गायत्र्या च सरस्वत्या जलवात स्पृशो नरः ।।

विधूय सर्वपापानि स्वर्गं यास्यंति निर्मलाः ।। ८७ ।।

तद्याहि शीघ्र विप्र त्वं गायत्रीं च सरस्वतीम् ।।

इत्युक्तः काश्यपस्तेन शाकल्येन द्विजोत्तमाः ।। ८८ ।।

नत्वा मुनिं च शाकल्यं तमापृच्छ्य मुनीश्वरम् ।।

तेन चैवाभ्यनुज्ञातः प्रययौ गन्धमादनम् ।। ८९ ।।

तत्र गत्वा च गायत्रीसरस्वत्यौ च काश्यपः ।।

नत्वा तीर्थद्वयं भक्त्या दण्डपाणिं च भैरवम् ।। 3.1.41.९० ।।

संकल्पपूर्वं तत्तीर्थे सस्नौ नियमसंयुतः ।।

तीर्थद्वये स्नानमात्रान्मुक्तपापोऽथ काश्यपः ।। ९१ ।।

तीर्थद्वयस्य तीरेऽसौ किंचित्कालं तु तस्थिवान् ।।

तस्मिन्काले च गायत्रीसरस्वत्यौ मुनीश्वराः ।। ।। ९२ ।।

प्रादुर्बभूवतुर्मूर्ते सर्वाभरणभूषिते ।।

देव्यौ ते स नमस्कृत्य काश्यपो भक्तिपूर्वकम् ।। ९३ ।।

के युवां रूपसंपन्ने सर्वालंकारसंयुते ।।

इति पप्रच्छ दृष्ट्वा ते काश्यपो हृष्टमानसः ।।

तेन पृष्टे च गायत्रीसरस्वत्यौ तमूचतुः ।। ९४ ।।

।। गायत्रीसरस्वत्यावूचतुः ।। ।।

काश्यपावां हि गायत्रीसरस्वत्यौ विधिप्रिये ।। ९५ ।।

एतत्तीर्थस्वरूपेण नित्यं वर्तावहे त्वतः ।।

अत्र तीर्थद्वये स्नानादावां तुष्टे तवाधुना ।। ९६ ।।

वरं मत्तो वृणीष्व त्वं यदिष्टं काश्यप द्विज ।।

स्नांति तीर्थद्वये येऽत्र दास्यावस्तदभीप्सितम् ।। ९७ ।।

श्रुत्वा वचस्तद्गायत्रीसरस्वत्योः स काश्यपः ।।

तुष्टाव वाग्भिरग्र्याभिस्ते देव्यौ वेधसः प्रिये ।। ९८ ।।

।। काश्यप उवाच ।। ।।

चतुराननगेहिन्यौ जगद्धात्र्यौ नमाम्यहम् ।।

विद्यास्वरूपे गायत्री सरस्वत्यौ शुभे उभे ।। ९९ ।।

सृष्टिस्थित्यंतकारिण्यौ जगतो वेदमातरौ ।।

हव्यकव्यस्वरूपे च चंद्रादित्यविलोचने ।। 3.1.41.१०० ।।

सर्वदेवाधिपे वाणी गायत्र्यौ सततं भजे ।।

गिरिजा कमला चापि युवामेव जगद्धिते ।। १ ।।

युष्मद्दर्शनमात्रेण जगत्सृष्ट्यादिकल्पनम् ।।

युष्मन्निमेषात्सततं जगतां प्रलयो भवेत् ।। २ ।।

उन्मेषात्सृष्टिरभवद्भोगायत्रि सरस्वति ।।

युवयोर्दर्शनादद्य कृतार्थोऽभवमाशु वै ।। ३ ।।

मामद्य पातकान्मुक्तं स्नानात्तीर्थ द्वयेऽत्र तु ।।

स्वीकुर्वंतु मुनिश्रेष्ठा ब्राह्मणा बांधवास्तथा ।। ४ ।।

इतः परं पापकृत्ये मा मे बुद्धिः प्रवर्तताम् ।।

धर्मे प्रवर्ततां नित्यमयमेव वरो मम ।। ५ ।।

दीयतां भो महादेव्यौ नान्यमिच्छाम्यहं वरम् ।।

इति ते प्रार्थिते तेन काश्यपेन द्विजोत्तमाः ।। ६ ।।

सरस्वती च गायत्री द्वे देव्यौ ब्रह्मणः प्रिये ।।

काश्यपं प्रोचतुः प्रीते जनन्यौ जगतां सदा ।। ७ ।।

काश्यपैतद्वरं सर्वं प्रार्थितं यत्त्वयाऽधुना ।।

अनुग्रहादावयोस्तदचिरेण तवास्तु हि ।। ८ ।।

इत्युक्त्वा तं तु गायत्रीसरस्वत्यौ क्षणेन वै ।।

तिरोधानं गते विप्रास्तस्मिंस्तीर्थद्वये तदा ।। ९ ।।

काश्यपोऽपि कृतार्थः सन्स्व देशं प्रति निर्ययौ ।।

बांधवा ब्राह्मणाः सर्वे काश्यपं गतकिल्बिषम् ।। 3.1.41.११० ।।

प्रत्यगृह्णंश्च गायत्रीसरस्वत्योर्निमज्जनात् ।।

एवं वः कथितं विप्रा काश्यपस्य विमोक्षणम्।। ११ ।।

पातकेभ्यो हि गायत्रीसरस्त्योर्निमजनात् ।।

पठते त्विममध्यायं शृणुते वा समाहितः ।। १२ ।।

यो गायत्र्यां सरस्वत्यां स स्नातफलमश्नुते ।। ११३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये गायत्रीसरस्वतीतीर्थप्रशंसायां काश्यपपापशांतिवर्णनंनामैकचत्वारिंशोऽध्यायः ।। ४१ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 42

।। श्रीसूत उवाच ।। ।।

अथातः सर्वतीर्थानां वैभवं प्रवदाम्यहम् ।।

सेतुमध्यनिविष्टानामनुक्तानां मुनीश्वराः ।। १ ।।

अस्ति तीर्थं महापुण्यं नाम्ना तु ऋणमोचनम् ।।

ऋणानि त्रीणि नश्यंति नराणामत्र मज्जनात् ।। ।। २ ।।

द्विजस्य जायमानस्य ऋणानि त्रीणि संति हि ।।

ऋषीणां देवतानां च पितॄणां च द्विजोत्तमाः ।। ३।।

ब्रह्मचर्याननुष्ठानादृषीणामृणवान्भवेत् ।।

यज्ञादीनामकरणाद्देवानां च ऋणी भवेत् ।। ४ ।।

पुत्रानुत्पादनाच्चैव पितृणामृणवान्भवेत् ।।

विनापि ब्रह्मचर्येण विना यागं विना सुतम् ।। ५ ।।

ऋणमोक्षाभिधे तीर्थे स्नानमात्रेण मानवाः ।।

ऋषिदेवपितॄणां तु ऋणेभ्यो मुक्तिमाप्नुयुः ।। ६ ।।

ब्रह्मचर्येण यज्ञेन तथा पुत्रोद्भवेन च ।।

नैव तुष्यन्ति ऋषयो देवाः पितृगणास्तथा ।। ७ ।।

ऋणमोक्षे यथा स्नानादतुलां तुष्टिमाप्नुयुः ।।

किं चात्र मज्जनात्तीर्थे दरिद्रा अधमर्णिनः ।। ८ ।।

मुक्ता ऋणेभ्यः सर्वेभ्यो धनिनः स्युर्न संशयः ।।

यदत्र मज्जनात्पुंसामृणमुक्तिः प्रजायते ।। ९ ।।

तस्मादुक्तमिदं तीर्थमृणमोचनसंज्ञया ।।

अतोऽत्र ऋणिभिः सर्वैः स्नातव्यं तद्विमुक्तये ।। 3.1.42.१० ।।

एतत्तीर्थसमं तीर्थं न भूतं न भविष्यति ।।

पांडवैः कृतमप्यत्र तीर्थमस्त्यपरं महत् ।। ११ ।।

यत्रेष्टं धर्मपुत्राद्यैः पांडवैः पंचभिः पुरा ।।

तदेतत्तीर्थमुद्दिश्य भुक्तिमुक्ति फलप्रदम् ।। १२ ।।

दशकोटिसहस्राणि तीर्थान्यनुत्तमानि हि ।।

पंचपांडवतीर्थेस्मिन्सान्निध्यं कुर्वते सदा ।। १३ ।।

आदित्पा वसवो रुद्राः साध्याश्च समरुद्गणाः ।।

पांडवानां महातीर्थे नित्यं सन्निहितास्तथा ।। १४ ।।

अत्राभिषेकं यः कुर्यात्पितृदेवांश्च तर्पयेत् ।।

सर्वपापविनिर्मुक्तो ब्रह्म लोके स पूज्यते ।। १५ ।।

अप्येकं भोजयेद्विप्रमेतत्तीर्थतटेऽमले ।।

तेनासौ कर्मणा त्वत्र परत्रापि च मोदते ।। १६ ।।

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यन्य एव वा ।।

अस्मिंस्तीर्थवरे स्नात्वा वियोनिं न प्रयाति वै ।। १७ ।।

पांडवानां महातीर्थे पुण्ययोगेषु यो नरः ।।

स्नायात्स मनुज श्रेष्ठो नरकं नैव पश्यति ।। १८ ।।

पांडवानां महातीर्थं सायं प्रातश्च यः स्मरेत्।।

स स्नातः सर्वतीर्थेषु गंगादिषु न संशयः ।। १९ ।।

इंद्रादिदेवता भिश्च यत्रेष्टं दैत्यशांतये ।।

तदन्यद्देवतीर्थाख्यं विद्यते गंधमादने ।। 3.1.42.२० ।।

देवतीर्थे नरः स्नात्वा सर्वपापविमोचितः ।।

प्राप्नुयादक्षयाँल्लोकान्सर्व कामसमन्वितान् ।। २१ ।।

जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषेण वा ।।

कृतं तद्देवकुंडेस्मिन्स्नानात्सद्यो विनश्यति ।। २२ ।।

यथा सुराणां सर्वेषा मादिर्वै मधुसूदनः ।।

तथादिः सर्वतीर्थानां देवकुंडमनुत्तमम् ।। २३ ।।

यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते ।।

यस्त्वेको देवकुंडेस्मिन्कदाचित्स्नान माचरेत् ।। २४ ।।

सममेव तयोः पुण्यं नात्र संदेहकारणम् ।।

दुर्लभं देवतीर्थेस्मिन्दानं वासश्च दुर्लभः ।। २५ ।।

देवतीर्थाभिगमनं स्नानं चाप्य तिदुर्लभम्।।

देवतीर्थं समासाद्य देवर्षिपितृसेवितम् ।। २६ ।।

अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ।।

द्विदिनं त्रिदिनं चापि पंच वाथ षडेव वा ।। २७ ।।

उषित्वा देवकुंडस्थतीरे नरकनाशने ।।

न मातृयोनिमाप्नोति सिद्धिं चाप्नोत्यनुत्तमाम् ।। २८ ।।

त्रिरात्रस्नानतो ह्यत्र वाजपेयफलं भवेत् ।।

देवतीर्थस्मृतेः सद्यः पापेभ्यो मुच्यते नरः ।। २९ ।।

अर्चयित्वा पितॄन्देवानेतत्तीर्थतटे नरः ।।

सर्वकामसमृद्धिः स्यात्सर्वयज्ञफलं लभेत् ।। 3.1.42.३० ।।

एतत्तीर्थसमं पुण्यं न भूतं न भविष्यति ।।

तस्मादवश्यं स्नातव्यं देवतीर्थे मुमुक्षुभिः ।। ३१ ।।

ऐहिकामुष्मिकफलप्राप्तिकामैश्च मानवैः ।।

देवतीर्थस्य माहात्म्यं संक्षिप्य कथितं द्विजाः ।। ३२ ।।

विस्तरेणास्य माहात्म्यं मया वक्तुं न पार्य्यते ।।

सुग्रीवतीर्थं वक्ष्यामि रामसेतौ विमुक्तिदे ।। ३३ ।।

अत्र स्नात्वा नरो भक्त्या सूर्यलोकं समश्नुते ।।

सुग्रीवतीर्थे स्नानेन हयमेधफलं भवेत् ।। ३४ ।।

ब्रह्महत्यादि पापानां निष्कृतिश्चापि जायते ।।

सुग्रीवतीर्थगमनाद्गोसहस्रफलं लभेत् ।। ३५ ।।

स्मरणात्तस्य वेदानां पारायणफलं लभेत् ।।

दिनोपवासमात्रेण तस्य तीर्थस्य तीरतः.।। ३६ ।।

महापात कनाशः स्यात्प्रायश्चित्तं विना द्विजाः ।।

तत्राभिषेकं कुर्वाणः पितृदेवांश्च तर्पयेत् ।। ३७ ।।

आप्तोर्यामस्य यज्ञस्य फलमष्टगुणं भवेत् ।।

सुग्रीवतीर्थस्नानेन नरमेधफलं लभेत ।। ३९ ।।

सुग्रीवतीर्थस्नानेन नरो जातिस्मरो भवेत् ।।

सुग्रीवतीर्थं भो विप्राः प्रयाताभीष्टसिद्धये ।। ३९ ।।

सुग्रीवतीर्थमा हात्म्यमेवं वः कथितं द्विजाः ।।।

वैभवं नलतीर्थस्य त्विदानीं प्रब्रवीमि वः ।। 3.1.42.४० ।।।

नलतीर्थे नरः स्नानात्स्वर्गलोकं समश्नुते।।

नलतीर्थे सकृत्सनानात्सर्वपापाविमोचितः।।४१।।

अग्निष्टोमातिरात्रादिफलमाप्नोत्यनुत्तमम्।।

त्रिरात्रमुषितस्तस्मिंस्तर्पयन्पितृदेवताः।।४२।।

सूर्यवद्भासते विप्रा वाजिमेधफलं लभेत् ।।

नीलतीर्थं प्रवक्ष्यामि महापातकनाशनम् ।। ४३ ।।

अग्निपुत्रेण नीलेन कृतं सेतौ विमुक्तिदम् ।।

नीलतीर्थे नरः स्नानात्सर्वपापविमोचितः ।। ४४ ।।

बहुवर्ण्यस्य यागस्य फलं शतगुणं लभेत् ।।

नीलतीर्थे नरः स्नात्वा सर्वा भीष्टप्रदायिनि ।। ४५ ।।

अग्निलोकमवाप्नोति सर्वकामसमृद्धिमान् ।।

गवाक्षेण कृतं तीर्थं गंधमादनपर्वते ।। ४६ ।।

विद्यते स्नानमात्रेण नरकं नैव याति सः ।।

अगदेन कृतं तीर्थमस्ति सेतौ विमुक्तिदे ।। ४७ ।।

अत्र स्नानेन मनुजो देवेंद्रत्वं समश्नुते ।।।

गजेन गवयेनात्र शरभेण महौजसा ।। ४८ ।।

कुमुदेन हरेणापि पनसेन बलीयसा ।।

कृतानि यानि तीर्थानि तथाऽन्यैः सर्ववानरैः ।। ४९ ।।।

रामसेतौ महापुण्ये गन्धमादनपर्वते ।।

तेषु तीर्थेषु यः स्नाति सोऽमृतत्वं समश्नुते ।। 3.1.42.५० ।।

विभीषणकृतं तीर्थमस्ति पापविमोचनम् ।।

महादुःखप्रशमनं महारोगनिबर्हणम् ।। ५१ ।।

महापातकसंघानामनलोपममुत्तमम् ।।

कुंभीपाकादिनरकक्लेशनाशनकारणम् ।। ५२ ।।

दुःस्वप्र नाशनं धन्यं महादारिद्र्यबाधनम्।।

तत्र यो मनुजः स्नायात्तस्य नास्तीह पातकम् ।। ५३ ।।

स वैकुंठमवाप्नोति पुनरावृत्तिवर्जितम् ।।

विभीषणस्य सचिवैः कृतं तीर्थचतुष्टयम् ।। ५४ ।।

तत्र स्नानेन मनुजः सर्वपापैः प्रमुच्यते ।।

सरयूश्च नदी विप्रा गंधमादनपर्वते ।। ५५ ।।

रामनाथं महादेवं सेवितुं वर्तते सदा ।।

तत्र स्नात्वा नराः सर्वे सर्वपातकवर्जिताः ।। ५६ ।।

सर्वयज्ञतपस्तीर्थसेवाफलमवाप्नुयुः ।।

दशकोटिसहस्राणि तीर्थानि द्विजसत्तमाः ।। ५७ ।।

वसंत्यस्मिन्महापुण्ये गन्धमादनपर्वते ।।

गंगाद्याः सरितः सर्वास्तथा वै सप्तसागराः ।। ५८ ।।

ऋष्याश्रमाणि पुण्यानि तथा पुण्यवनानि च ।।

अनुत्तमानि क्षेत्राणि हीरशंकरयोस्तथा ।। ५९ ।।

सान्निध्यं कुर्वते नित्यं गन्धमादनपर्वते ।।

उपवीतांतरं तीर्थं प्रोक्तवांश्चतुराननः ।। 3.1.42.६० ।।

त्रयस्त्रिंशत्कोट्योऽत्र देवाः पितृगणैः सह ।।

सर्वैश्च मुनिभिः सार्द्धं यक्षैः सिद्धैश्च किन्नरैः ।।

वसंति सेतौ देवस्य रामच न्द्रस्य चाज्ञया ।। ६१ ।।

।। श्रीसूत उवाच ।। ।।

एवमुक्तं द्विजश्रेष्ठा तीर्थानां वैभवं मया ।। ६२ ।।

इदं पठन्वा शृण्वन्वा दुःखसंघाद्विमुच्यते ।।

कैवल्यं च समाप्नोति पुनरावृत्तिवर्जितम् ।। ६३ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सकलतीर्थप्रशंसायामृणमोचनादितीर्थमाहात्म्यवर्णनं नाम द्विचत्वारिंशोऽध्यायः।।४२।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 43

श्रीसूत उवाच।।

अथेदानीं प्रवक्ष्यामि रामनाथस्य वैभवम्।।

यच्छ्रुत्वा सर्वपापेभ्यो मु्च्यते मानवो भुवि।।१।।

रामप्रतिष्ठितं लिंगं यः पश्यति नरः सकृत् ।।

स नरो मुक्तिमाप्नोति शिवसायुज्यरूपिणीम् ।। २ ।।

दशवर्षैस्तु यत्पुण्यं क्रियते तु कृते युगे ।।

त्रेतायामेकवर्षेण तत्पुण्यं साध्यते नृभिः ।। ३ ।।

द्वापरे तच्च मासेन तद्दिनेन कलौ युगे ।।

तत्फलं कोटिगुणितं निमिषे निमिषे नृणाम् ।। ४ ।।

निःसंदेहं भवेदेवं रामनाथविलोकिनाम् ।।

रामेश्वर महालिंगे तीर्थानि सकलान्यपि ।।५।।

विद्यंते सर्वदेवाश्च मुनयः पितरस्तथा ।।

एककालद्विकालं वा त्रिकालं सर्वदैव वा ।।६।।

ये स्मरंति महादेवं रामनाथं विमुक्तिदम् ।।

कीर्तयंत्यथवा विप्रास्ते विमुक्ताघपंजराः।।७।।

सच्चिदानंदमद्वैतं सांबं रुद्रं प्रयांति वै ।।

रामेश्वराख्यं यल्लिंगं रामचन्द्रेण पूजि तम् ।।८।।

यस्य स्मरणमात्रेण यमपीडापि नो भवेत् ।।

रामेश्वरमहालिंगं येऽर्चयंति सकृन्नराः ।।९।।

न मानुषास्ते विज्ञेयाः किं तु रुद्रा न संशयः ।।

रामेश्वरमहालिंगं नार्चितं येन भक्तितः ।। 3.1.43.१० ।।

चिरकालं स संसारे संसरेद्दुःखसंकुले ।।

रामेश्वरमहालिंगं ये पश्यंति सकृन्नराः ।। ११ ।।।

किं दानैः किं व्रतैस्तेषां किं तपोभिः किमध्वरैः ।।

रामेश्वरमहालिंगं यो न चिंतयति क्षणम् ।।१२।।

अज्ञानी स च पापी स्यात्स मूको बधिरस्तथा ।।

स जडोंऽधश्च विज्ञेयश्छिद्रं तस्य सदा भवेत् ।। १३ ।।

धनक्षेत्रसुतादीनां तस्य हानिस्तथा भवेत् ।।

रामेश्वरमहालिंगे सकृद्दृष्टे मुनीश्वराः ।। १४ ।।

किं काश्या गयया किं वा प्रयागेणापि किं फलम् ।।

दुर्लभं प्राप्य मानुष्यं मानवा यत्र भूतले ।। १५ ।।

रामनाथमहालिंगं नमस्यंत्यर्चयंति च ।।।

जन्म तेषां हि सफलं ते कृतार्थाश्च नेतरे ।।१६।।

रामेश्वरमहालिंगे पूजिते वा स्मृतेपि वा ।।

विष्णुना ब्रह्मणा किं वा शक्रेणाप्यखिलामरैः ।।१७।।

रामनाथमहालिंगं भक्तियुक्ताश्च ये नराः ।।

तेषां प्रणामस्मरणपूजायुक्तास्तु ये नराः ।। १८ ।।

न ते पश्यंति दुःखानि नैव यांति यमालयम् ।।

ब्रह्महत्यासहस्राणि सुरापानायुतानि च ।।१९।।

दृष्टे रामेश्वरे देवे विलयं यांति कृत्स्नशः ।।

ये वांछंति सदा भोगं राज्यं च त्रिदशालये ।।3.1.43.२०।।

रामे श्वरमहालिंगं ते नमंतु सकृन्मुदा ।।

यानि कानि च पापानि जन्मकोटिकृतान्यपि ।। २१ ।।

तानि रामेश्वरे दृष्टे विलयं यांति सर्वदा ।।

संपर्कात्कौतुकाल्लोभाद्भयाद्वापि च संस्मरन् ।। २२ ।।

रामेश्वरमहालिंगं नेहामुत्र च दुःखभाक् ।।

रामेश्वरमहालिंगं कीर्तयन्नर्चयन्नपि ।। २३ ।।

अवश्यं रुद्रसारूप्यं लभते नात्र संशयः ।।

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुते क्षणात् ।। २४ ।।

तथा पापानि सर्वाणि रामेश्वरविलोकनात् ।।

रामेश्वरमहालिंगभक्तिरष्टविधा स्मृता ।। २५ ।।

तद्भक्तजनवात्सल्यं तत्पूजापरितोषणम् ।।

स्वयं तत्पूजनं भक्त्या तदर्थे देहचेष्टितम् ।। २६ ।।

तन्माहात्म्यकथानां च श्रवणेष्वादरस्तथा ।।

स्वरनेत्रशरीरेषु विकारस्फुरणं तथा ।। २७ ।।

रामेश्वरमहालिंगस्मरणं संततं तथा ।।

रामेश्वरमहालिंगमाश्रित्यैवोपजीवनम् ।। २८ ।।

एवमष्टविधा भक्तिर्यस्मिन्म्लेच्छेऽपिविद्यते ।।

स एव मुक्तिक्षेत्राणां दायभाक्परिकीर्त्यते ।। २९ ।।

भक्त्या त्वनन्यया मुक्तिर्ब्रह्मज्ञानेन निश्चिता ।।

वेदांतशास्त्रश्रवणाद्यतीनामूर्ध्वरेतसाम् ।। 3.1.43.३० ।।

सा च मुक्तिर्विना ज्ञानदर्शनश्रवणोद्भवम् ।।

यत्राश्रमं विना विप्रा विरक्तिं च विना तथा ।। ३१ ।।

सर्वेषां चैव वर्णानामखिलाश्रमिणामपि ।।

रामेश्वरमहालिंगदर्शनादेव केवलात् ।। ३२ ।।

अपुनर्भवदा मुक्तिर्भ विष्यत्यविलंबिता ।।

कृमिकीटाश्च देवाश्च मुनयश्च तपोधनाः ।। ३३ ।।

तुल्या रामेश्वरक्षेत्रे रामनाथप्रसादतः ।।

पापं कृतं मयानेकमिति मा क्रियतां भयम् ।। ३४ ।।

मा गर्वः क्रियतां पुण्यं मयाकारीति वा जनैः ।।

रामेश्वरमहालिंगे सांबरुद्रे विलोकिते ।। ३५ ।।

न न्यूना नाधिकाश्च स्युः किं तु सर्वे जनाः समाः ।।

रामेश्वरमहालिंगं यः पश्यति सभक्तिकम् ।। ३६ ।।

न तेन तुल्यतामेति चतुर्वेद्यपि भूतले ।।

रामेश्वरमहालिंगे भक्तो यः श्वपचोऽपि सन् ।। ३७ ।।

तस्मै दानानि देयानि नान्यस्मै च त्रयीविदे ।।

या गतिर्योगयुक्तानां मुनीनामूर्ध्वरेतसाम् ।। ३८ ।।

सा गतिः सर्वजंतूनां रामेश्वरविलोकिनाम् ।।

रामनाथशिवक्षेत्रे ये वसंति नरा द्विजाः ।। ३९ ।।

ते सर्वे पञ्चवक्त्राः स्युश्चंद्रालंकृतमस्तकाः ।।

नागाभरणसंयुक्तास्तथैव वृषभध्वजाः ।। 3.1.43.४० ।।

त्रिनेत्रा भस्मदिग्धांगाः कपालाकृतिशेखराः ।।

साक्षात्सांबा महादेवा भवेयुर्नात्र संशयः ।।४१ ।।

रामनाथशिवक्षेत्रं ये व्रजंति नरा मुदा ।।

पदेपदेऽश्वमेधानां प्राप्नुयुः सुकृतानि ते ।। ४२ ।।

रामसेतुं समाश्रित्य रामनाथस्य तुष्टये।।

ददाति ग्राममेकं यो ब्राह्मणाय सभक्तिकम् ।।४३।।

तेन भूः सकला दत्ता सशैलवनकानना ।।

पत्रं पुष्पं फलं तोयं रामनाथाय यो नरः ।। ४४ ।।

भक्त्या ददाति तं रक्षेद्रामनाथो ह्यहर्निशम्।।

रामनाथमहालिंगे सांबे कारुणिके शिवे ।। ४५ ।।

अत्यंतदुर्लभा भक्तिस्तत्पूजाप्यतिदुर्लभा ।।

स्तोत्रं च दुर्लभं प्रोक्तं स्मरणं चातिदुर्लभम् ।। ४६ ।।

रामनाथेश्वरं लिंगं महादेवं त्रिलोचनम् ।।

शरणं ये प्रपद्यंते भक्तियुक्तेन चेतसा ।। ४७ ।।

लाभस्तेषां जयस्तेषा मिह लोके परत्र च ।।

रामनाथमहालिंगविषया यस्य शेमुषी ।। ४८ ।।

दिवारात्रं च भवति स वै धन्यतरो भुवि ।।

रामनाथेश्वरं लिंगं यो न पूजयते शिवम्।। ४९ ।।

नायं भुक्तेश्च मुक्तेश्च राज्यानामपि भाजनम् ।।

रामेश्वरमहालिंगं यः पूजयति भक्तितः ।। 3.1.43.५० ।।

भुक्तिमुक्त्योश्च राज्यानामसौ परमभाजनम् ।।

रामनाथार्चनसमं नाधिकं पुण्यमस्ति वै ।। ५१ ।।

रामनाथेश्वरं लिंगं द्वेष्टि यो मोहमास्थितः ।।

ब्रह्महत्यायुतं तेन कृतं नरककारणम् ।। ५२ ।।

तत्संभाषणमात्रेण मानवो नरकं व्रजेत् ।।

रामनाथपरा देवा रामनाथपरा मखाः ।। ५३ ।।

रामनाथपराः सर्वे तस्माद न्यन्न विद्यते ।।

अतः सर्वं परित्यज्य रामनाथं समाश्रयेत् ।। ५४ ।।

रामनाथमहालिंगं शरणं याति चेन्नरः ।।

दौर्मत्यं तस्य नास्त्येव शिवलोकं च यास्यति ।। ५५ ।।

सर्वयज्ञतपोदानतीर्थस्नानेषु यत्फलम् ।।

तत्फलं कोटिगुणितं रामनाथस्य सेवया।।५६।।

रामनाथेश्वरं लिंगं चिंतयन्घटिका द्वयम् ।।

कुलैकवंशमुद्धृत्य शिवलोके महीयते ।। ५७ ।।

दिनमेकं तु यः पश्येद्रामनाथं महेश्वरम् ।।

इहैव धनवान्भूत्वा सोंऽते रुद्रश्च जायते ।। ५८ ।।

यः स्मरेत्प्रातरुत्थाय रामनाथं महेश्वरम् ।।

अनेनैव शरीरेण स शिवो वर्तते भुवि ।। ५९ ।।

रामनाथमहालिंगद्रष्टुर्दर्शनमात्रतः ।।

अन्येषां प्राणिनां पापं तत्क्षणादेव नश्यति ।। 3.1.43.६० ।।

रामनाथेश्वरं लिंगं मध्याह्ने यस्तु पश्यति ।।

सुरापानसहस्राणि तस्य नश्यंति तत्क्षणात् ।। ।। ६१ ।।

सायंकाले पश्यति यो रामनाथं सभक्तिकम् ।।

गुरुस्त्रीगमनोत्पन्नपातकं तस्य नश्यति ।। ६२ ।।

सायंकाले महास्तोत्रैः स्तौति रामेश्वरं तु यः ।।

स्वर्णस्तेयसहस्राणि तस्य नश्यंति तत्क्षणात् ।। ६३ ।।

स्नानं च धनुषः कोटौ रामनाथस्य दर्शनम् ।।

इति लभ्येत वै पुंसां किं गंगाजलसेवया ।। ६४ ।।

रामनाथमहालिंगसेवया यन्न लभ्यते ।।

तदन्यद्धर्मजालेन नैव लभ्येत कर्हिचित् ।। ६५ ।।

रामनाथं महालिगं यः कदापि न पश्यति ।।

संकरः स तु विज्ञेयो न पितुर्बीजसंभवः ।। ६६ ।।

रामनाथेतिशब्दं यस्त्रिः पठेत्प्रातरुत्थितः ।।

तस्य पूर्वदिनोत्पन्नपातकं नश्यति क्षणात् ।। ६७ ।।

रामनाथे महालिंगे भक्तरक्षणदीक्षिते ।।

भोजने विद्यमानेऽपि याचनाः किं प्रयास्यथ ।। ६८ ।।

रामनाथमहालिंगे प्रसन्ने करुणानिधौ ।।

नश्यंति सकलाः क्लेशा यथा सूर्योदये हिमम् ।। ६९ ।।

प्राणोत्क्रमणवेलायां रामनाथं स्मरेद्यदि ।।

जन्मनेऽसौ न कल्पेत भूयः शंकरतामियात् ।। 3.1.43.७० ।।

रामनाथ महादेव मां रक्ष करुणानिधे ।।

इति यः सततं ब्रूयात्कलिनासौ न बाध्यते ।। ७१ ।।

रामनाथ जगन्नाथ धूर्जटे नीललोहित ।।

इति यः सततं ब्रूयाद्बाध्यतेऽसौ न मायया ।। ७२ ।।

नीलकण्ठ महादेव रामेश्वरसदाशिव ।।

इति ब्रुवन्सदा जंतुर्नैव कामेन बाध्यते ।। ७३ ।।

रामेश्वर यमाराते कालकूटविषादन ।।

इतीरयञ्जनो नित्यं न क्रोधेन प्रपीड्यते ।। ७४ ।।

रामनाथालयं यस्तु दारुभिः कुरुते नरः ।।

स पुमान्स्वर्गमाप्नोति त्रिकोटिकुलसंयुतः ।। ७५ ।।

इष्टकाभिस्तु यः कुर्यात्स वैकुण्ठमवाप्नुयात् ।।

शिलाभिः कुरुते यस्तु स गच्छेद्ब्रह्मणः पदम् ।। ७६ ।।

स्फटिकादिशिलाभेदैः कुर्वन्नस्यालयं जनः ।।

शिवलोकमवाप्नोति विमानवरमास्थितः ।। ७७ ।।

रामनाथालयं ताम्रैः कुर्वन्भक्तिपुरःसरम् ।।

शिवसामीप्यमाप्नोति शिवस्यार्द्धासनस्थितः ।। ७८ ।।

रामेश्वरालयं रूप्यैः कुर्वन्वै मानवो मुदा ।।

शिवसारूप्यमाप्नोति शिववन्मोदते सदा ।। ७९ ।।

रामनाथालयं हेम्ना यः करोति सभक्तिकम् ।।

स नरो मुक्तिमाप्नोति शिवसायुज्यरूपिणीम् ।। 3.1.43.८० ।।

रामनाथालयं हेम्ना धनाढ्यः कुरुते नरः ।।

मृदा दरिद्रः कुरुते तयोः पुण्यं समं स्मृतम् ।। ८१ ।।

रामनाथमहालिंगस्नानकाले द्विजोत्तमाः ।।

त्रिसंध्यं गेयनृत्ते च मुखवाद्यैश्च काहलम् ।। ८२ ।।

वाद्यान्यन्यानि कुरुते यः पुमान्भक्तिपूर्वकम् ।।

स महापातकैर्मुक्तो रुद्रलोके महीयते ।। ।। ८३ ।।

योभिषेकस्य समये रामनाथस्य शूलिनः ।।

रुद्राध्यायं च चमकं तथा पुरुषसूक्तकम् ।। ८४ ।।

त्रिसुपर्णं पंचशांतिं पावमान्यादिकं तथा ।।

जपेत्प्रीतियुतो विप्रा नरकं न समश्नुते ।। ८५ ।।

गवां क्षीरेण दध्ना च पंचगव्यैर्घृतैस्तथा ।।

रामनाथमहालिंगस्नानं नरकनाशनम् ।। ।। ८६ ।।

रामनाथमहालिंगं घृतेन स्नापयेच्च यः ।।

कल्पजन्मार्जितं पापं तत्क्षणादेव नश्यति ।। ८७ ।।

रामनाथमहालिंगं गोक्षीरैः स्नापयन्नरः ।।

कुलैकविंशमुत्तार्य शिवलोके महीयते ।। ८८ ।।

रामनाथमहालिंगं दध्ना संस्नापयन्नरः ।।

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ।। ८९ ।।

अभ्यंगं तिलतैलेन रामेश्वरशिवस्य यः ।।

करोति हि सकृद्भक्त्या स कुबेरगृहे वसेत् ।। 3.1.43.९० ।।

रामनाथमहालिंगे स्नानमिक्षुरसेन यः ।।

सकृदप्याचरेद्भ क्त्या चन्द्रलोकं समश्नुते ।। ९१ ।।

लिकुचाम्ररसोत्पन्नसारेण स्नापयन्नरः ।।

रामनाथमहालिंगं पितृलोकं समश्नुते ।। ९२ ।।

नालिकेरजलैः स्नानं रामनाथमहेश्वरे ।।

ब्रह्महत्यादिपापानां नाशनं परिकीर्तितम् ।। ९३ ।।

रामनाथमहालिंगं रंभापक्वैर्विमर्दयन् ।।

विनाश्य सकलं पापं वायुलोके मही यते। ९४ ।।

वस्त्रपूतेन तोयेन रामनाथं महेश्वरम् ।।

स्नापयन्वारुणं लोकमाप्नोति द्विजसत्तमाः ।। ९५ ।।

चंदनोदकधाराभी रामनाथं महेश्वरम् ।।

स्नापयेत्पुरुषो विप्रा गांधर्वं लोकमाप्नुयात् ।। ९६ ।।

पुष्पवासिततोयेन हेमसंपृक्तवारिणा ।।

पद्मवासिततोयेन स्नानाद्रामेश्वरस्य तु ।। ९७ ।।

महेंद्रासनमारुह्य तेनैव सह मोदते।।

पाटलोत्पलकल्हारपुन्नागकरवीरकैः ९८ ।।

वासितैर्वारिभिर्विप्रा रामेश्वरमहेश्वरम् ।।

अभिषिच्य महद्भिश्च पातकैः स विमुच्यते ।। ९९ ।।

यानि चान्यानि पुष्पाणि सुरभीणि महांति च ।।

तद्गंधवासितैस्तोयैरभिषिच्य दयानिधिम् ।। 3.1.43.१०० ।।

रामेश्वरमहालिंगं शिवलोके महीयते ।।

एलाकर्पूरलामज्जवासितैः शुद्धवारिभिः ।। १ ।।

रामेश्वरमहालिंगमभिषिच्य विशुद्धधीः ।।

आग्नेयं लोकमासाद्य सर्वाकामा न्समश्नुते ।। २ ।।

रामनाथाभिषेकार्थं मृद्धटान्यः प्रयच्छति ।।

इह लोके शतायुः स्यात्सर्वकाम समृद्धिमान् ।। ३ ।।

ताम्रकुंभप्रदानेन देवेंद्रत्वमवा प्नुयात् ।।

रौप्यकुंभप्रदानेन ब्रह्मलोकं समश्नुते ।। ४ ।।

हेमकुंभप्रदानेन शिवलोके महीयते ।।

रत्नकुंभप्रदानेन शिवसामीप्यमश्नुते ।।५।।

रामनाथाभिषेकार्थं नैवेद्यार्थमपि द्विजाः ।।

यो गां पयस्विनीं दद्यात्सोऽश्वमेधफलं लभेत् ।। ६ ।।

प्राप्नोति शिववेषं च देहांते शिवलोकभाक्।।

रामसेतौ धनुष्कोटौ रामनाथेत्युदीर्य यः ।। ७ ।।

यत्र क्वाप्याचरेत्स्नानं सेतुस्नानफलं लभेत्।।

सुधाप्रलिप्तं यः कुर्याद्रामनाथशिवालयम् ।। ८ ।।

तत्पुण्यं गदितुं नाहं शक्तो वर्षशतादपि ।।

नवीकरोति यो मर्त्यो रामनाथशिवालयम् ।। ९ ।।

कर्तुः शतगुणं ज्ञेयं तस्य पुण्यफलं द्विजाः ।।

छिन्नं भिन्नं च यः सम्यग्रामनाथशिवालयम् ।। 3.1.43.११० ।।

करोति भक्त्या पुरुषो ब्रह्महत्यायुतं दहेत् ।।

रामनाथस्य पुरतो दीपानारोपयन्मुदा ।। ११ ।।

अविद्यापटलं भित्त्वा याति ब्रह्म सनातनम् ।।

घृतं तैलं तथा मुद्गाञ्छर्करास्तंडुलान्गुडान् ।। १२ ।।

प्रयच्छन्रामनाथाय देवेंद्रपदमश्नुते ।।

रामनाथमहालिंगदर्शनादर्चनात्स्मृतेः ।। १३ ।।

स्पर्शनादपि पापानि विलयं यांति तत्क्षणात्।।

रामनाथाय यो दद्यान्महाघंटां च दर्पणम् ।।१४।।

विमानशतसं भोगैश्चिरं शिवपुरे वसेत् ।।

भेरीमृदंगपटह निःसाणमुरजादिकम् ।। १५ ।।

वंशकांस्यादिवादित्रं तथा वाद्यांतराणि च ।।

प्रयच्छन्रामनाथाय महादे वाय सादरम् ।। १६ ।।

स विमानैर्महाभोगैर्वाद्यघोषसमन्वितैः ।।

अनेकयुगपर्यंतं शिवलोके महीयते ।। १७ ।।

रामनाथं समुद्दिश्य यद्दत्तं स्वल्प मादरात् ।।

तदनंतफलं दातुः परत्र भवति ध्रुवम् ।। १८ ।।

रामेश्वरे महाक्षेत्रे रामनाथस्य सन्निधौ ।।

वसन्मुक्तिमवाप्नोति पुनरावृत्तिवर्जिताम् ।। ।। १९ ।।

आयुः प्रयाति त्वरितं त्वरितं याति यौवनम् ।।

त्वरितं संपदो यांति दारपुत्रादयस्तथा ।। 3.1.43.१२० ।।

राजादिभिर्धनं बाध्यं गृहक्षेत्रादिकं तथा ।।

सर्वं च क्षणिकं विप्रा गृहोपकरणादिकम् ।। २१ ।।

तस्मात्सर्वं परित्यज्य संसारस्योपलालनम् ।।

रामेश्वरमहालिंगमापन्नार्तिहरं नृणाम् ।। ।। २२ ।।

श्रोतव्यं कीर्तितव्यं च स्मर्तव्यं च मनीषिभिः ।।

रामेश्वराय देवाय यो वै ग्रामान्प्रयच्छति ।। २३ ।।

स हि प्रारब्धदेहांते शिव एव प्रजा यते ।।

पात्राणामुत्तमं पात्रं रामनाथो महेश्वरः ।। २४ ।।

तस्मै दत्त्वा द्विजाः सत्यमनंतं सुखमश्नुते ।।

रामनाथमहालिंगदर्शनावधि पातकम् ।। ।। २५ ।।

दत्त्वा तस्मै जनः किंचित्सार्वभौमो भवेद्ध्रुवम् ।।

तालवृंतं ध्वजं छत्रं चंदनं गुग्गुलुं तथा ।। २६ ।।

ताम्रकांस्यादिरजतहेमरत्नमयान्ध टान् ।।

प्रयच्छंत्यभिषेकार्थं रामनाथस्य ये नराः ।। २७ ।।

भूमंडलाधिपतयो जायंते ते भवांतरे ।।

रामनाथस्य पूजार्थं पुष्पाण्युत्पादयंति ये ।। ।। २८ ।।

अश्वमेधादियागानां फलान्यद्धाप्नुवंति ते ।।

रामेश्वरे महालिंगे पूजिते नमिते स्मृते ।। २९ ।।

श्रुते दृष्टे च विप्रेंद्रा दुर्लभं नास्ति किंचन।।

रामनाथमहालिंगं सेवितुं यः पुमान्व्रजेत् ।। 3.1.43.१३० ।।

तं दृष्ट्वा भयमाप्नोति तस्य पापौघ आशु वै ।।

रामनाथो महादेवो दृष्टो यदि भवेन्नृभिः ।। ।।३१।।

किंवेदैः किमु वा शास्त्रैः किं वा तीर्थनिषेवणैः।।

चंदनं कुंकुमं कोष्ठं कस्तूरीं गुग्गुलुं तथा ।। ३२ ।।

मृगनाभिं च सरलं दद्याद्रामेश्वराय यः ।।

स भूमाविह जायेत धनाढ्यो वेदपारगः ।। ३३ ।।

मुक्ताभरणवस्त्राणि महार्हाणि ददाति यः ।।

रामनाथाय देवाय नासौ दौर्गत्यमाप्नुयात् ।। ३४ ।।

रामनाथमहालिंगं गंगातोयैः समाहृतैः ।।

योऽभिषिंचत्यसौ पूज्यः शिवस्यापि न संशयः ।। ३५ ।।

यावन्न याति मरणं यावन्नाक्रमते जरा ।।

यावन्नेंद्रियवैकल्यं तावदेव द्विजोत्तमाः ।।३६।।

तावदेव महादेवो रामनाथो मुमुक्षुभिः ।।

वन्द्यः पूज्यश्च मंतव्यः स्तुत्यश्च सततं शिवः ।। ३७ ।।

रामेश्वरमहालिंगपूजातुल्यो न विद्यते ।।

धर्मः सर्वपुराणेषु सर्वशास्त्रेषु वै तथा ।। ३८ ।।

रामनाथेश्वरं देवं महाकारुणिकं प्रभुम् ।।

भक्त्या भजंति ये नित्यं ते भूलोके सुखान्विताः ।। ३९ ।।

भुक्त्वा भोगान्बहुसुखान्पुत्रदारयुता भृशम् ।।

एतच्छरीरपातांते मुक्तिं यास्यंति शाश्वतीम् ।। 3.1.43.१४० ।।

।। श्रीसूत उवाच ।। ।।

एवं वः कथितं विप्रा रामनाथस्य वै भवम् ।।

यस्त्वेतच्छृणुयान्नित्यं पठते च सभक्तिकम् ।। ४१ ।।

स रामनाथसेवायाः फलमाप्नोत्यनुत्तमम् ।।

धनुष्कोटिमहातीर्थस्नानपुण्यं च यास्यति ।। ४२ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथप्रशंसावर्णनंनाम त्रिचत्वारिंशोऽध्यायः ।। ४३ ।। ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 44

।। ऋषय ऊचुः ।। ।।

सर्ववेदार्थतत्त्वज्ञ पुराणार्णवपारग ।।

व्यासपादांबुजद्वंद्वनमस्कारहृताशुभ ।। १ ।।

पुराणार्थोपदेशेन सर्वप्राण्युपका रक ।।

त्वया ह्यनुगृहीताः स्म पुराणकथनाद्वयम् ।। २ ।।

अधुना सेतुमाहात्म्यकथनात्सुतरां मुने ।।

वयं कृतार्थाः संजाता व्यासशिष्य महामते ।। ।। ३ ।।

यथा प्रातिष्ठिपल्लिंगं रामो दशरथात्मजः ।।

तच्छ्रोतुं वयमिच्छामस्त्वमिदानीं वदस्व नः ।। ४ ।।

।। श्रीसूत उवाच ।। ।।

यदर्थं स्थापितं लिंगं गन्धमादनपर्वते ।।

रामचन्द्रेण विप्रेंद्र तदिदानीं ब्रवीमि वः ।। ५ ।।

हृतभार्यो वनाद्रामो रावणेन बलीयसा ।।

कपिसेनायुतो धीरः ससौमि त्रिर्महाबलः ।।६।।

महेंद्रं गिरिमासाद्य व्यलोकयत वारिधिम् ।।

तस्मिन्नपारे जलधौ कृत्वा सेतुं रघूद्वहः ।।७।।

तेन गत्वा पुरीं लंकां रावणेनाभिरक्षि ताम् ।।

अस्तंगते सहस्रांशौ पौर्णमास्यां निशामुखे।।८।।

रामः ससैनिको विप्राः सुवेलगिरिमारुहत् ।।

ततः सौधस्थितं रात्रौ दृष्ट्वा लंकेश्वरं बली। ।। ।। ९ ।।

सूर्यपुत्रोऽस्य मुकुटं पातयास भूतले ।।

राक्षसो भग्नमुकुटः प्रविवेश गृहोदरम् ।। 3.1.44.१० ।।

गृहं प्रविष्टे लंकेशे रामः सुग्रीवसंयुतः ।।

सानुजः सेनया सार्द्धमवरुह्य गिरेस्तटात् ।।११।।

सेनां न्यवेशयद्वीरो रामो लंकासमीपतः ।।

ततो निवेशमानांस्तान्वानरान्रावणानुगाः ।। १२।।

अभिजग्मुर्महाकायाः सायुधाः सहसैनिकाः ।।

पर्वणः पूतनो जृंभः खरः क्रोधवशो हरिः ।।१३।।

प्रारुजश्चारुजश्चैव प्रहस्तश्चेतरे तथा ।।

ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम् ।। १४ ।।

अन्तर्धानवधं तत्र चकार स्म विभीषणः ।।

ते दृश्यमाना बलिभिर्हरिभिर्दूरपातिभिः ।। १५ ।।

निहताः सर्वतश्चैते न्यपतन्वै गतासवः ।।

अमृष्यमाणः सबलो रावणो निर्ययावथ ।। १६ ।।

व्यूह्य तान्वानरान्सर्वान्न्यवारयत सायकैः ।।

राघवस्त्वथ निर्याय व्यूढानीको दशाननम् ।। १७ ।।

प्रत्ययुध्यत वेगेन द्वंद्वयुद्धमभूत्तदा ।।

युयुधे लक्ष्मणेनाथ इंद्रजिद्रावणात्मजः ।। १८ ।।

विरूपाक्षेण सुग्रीवस्तारेयेणापि खर्वटः ।।

पौंड्रेण च नलस्तत्र पुटेशः पनसेन च ।। १९ ।।

अन्येपि कपयो वीरा राक्षसैर्द्वंद्वमेत्य तु ।।

चक्रुर्युद्धं सुतुमुलं भीरूणां भयवर्द्धनम् ।। 3.1.44.२० ।।

अथ रक्षांसि भिन्नानि वानरैर्भीमविक्रमैः ।।

प्रदुद्रुवू रणादाशु लंकां रावणपालिताम् ।। २१ ।।

भग्नेषु सर्वसैन्येषु रावणप्रेरितेन वै ।।

पुत्रेणेंद्रजिता युद्धे नागास्त्रैरतिदारुणैः ।। २२ ।।

विद्धौ दाशरथी विप्रा उभौ तौ रामलक्ष्मणौ ।।

मोचितौ वैनतेयेन गरुडेन महात्मना ।। २३ ।।

तत्र प्रहस्तस्तरसा समभ्येत्य विभीषणम् ।।

गदया ताडयामास विनद्य रणकर्कशः ।। २४ ।।

स तयाभिहतो धीमान्गदया भामिवेगया ।।

नाकंपत महाबाहुर्हिमवानिव सुस्थितः ।। २५ ।।

ततः प्रगृह्य विपुलामष्टघंटां विभीषणः ।।

अभिमंत्र्य महाशक्तिं चिक्षे पास्य शिरः प्रति।।२६।।

पतंत्या स तया वेगाद्राक्षसोऽशनिना यथा।

हृतोत्तमांगो ददृशे वातरुग्ण इव द्रुमः।।२७।।

तं दृष्ट्वा निहतं संख्ये प्रहस्तं क्षणदाचरम्।।

अभिदुद्राव धूम्राक्षो वेगेन महता कपीन्।।२८।।

कपिसैन्यं समालोक्य विद्रुतं पवनात्मजः।।

धूम्राक्षमाजघानाशु शरेण रणमूर्धनि।।२९।।

धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः ।।

सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् ।।3.1.44.३०।।

ततः शयानं लंकेशः कुम्भकर्णमबोधयत् ।।

प्रबुद्धं प्रेषयामास युद्धाय स च रावणः ।। ३१ ।।

आगतं कुम्भकर्णं तं ब्रह्मास्त्रेण तु लक्ष्मणः ।।

जघान समरे क्रुद्धो गतासुर्न्यपतच्च सः ।। ३२ ।।

दूषणस्यानुजौ तत्र वत्रवेगप्रमाथिनौ ।।

हनुमन्नीलनिहतौ रावणप्रतिमौ रणे ।। ३३ ।।

वज्रदंष्ट्रं समवधीद्विश्वकर्मसुतो नलः ।।

अकंपनं च न्यहनत्कुमुदो वानरर्षभः ।। ३४ ।।

षष्ठ्यां पराजितो राजा प्राविशच्च पुरीं ततः ।।

अतिकायो लक्ष्मणेन हतश्च त्रिशिरास्तथा ।। ३५ ।।

सुग्रीवेण हतौ युद्धे देवांत कनरांतकौ ।।

हनूमता हतौ युद्धे कुम्भकर्णसुतावुभौ ।। ३६ ।।

विभीषणेन निहतो मकराक्षः खरात्मजः ।।

तत इन्द्रजितं पुत्रं चोदयामास रावणः।।३७।।

इन्द्रजिन्मोहयित्वा तौ भ्रातरौ रामलक्षमणौ।।

घोरैः शरैरंगदेन हतवाहो दिवि स्थितः।।३८।।

कुमुदांगदसुग्रीवनलजांबवदादिभिः।।

सहिता वानराः सर्वे न्यपतंस्तेन घातिताः।।३९।।

एवं निहत्य समरे ससैन्यौ रामलक्ष्मणौ।।

अंतर्दधे तदा व्योम्नि मेघनादो महाबलः ।। 3.1.44.४० ।।

ततो विभीषणो राममिक्ष्वाकुकुलभूषणम् ।।

उवाच प्रांजलिर्वाक्यं प्रणम्य च पुनःपुनः ।। ४१ ।।

अयमंभो गृहीत्वा तु राजराजस्य शासनात् ।।

गुह्यकोऽभ्यागतो राम त्वत्सकाशमरिंदम ।। ४२ ।।

इदमंभः कुबेरस्ते महाराज प्रयच्छति ।।

अंतर्हितानां भूतानां दर्शनार्थं परं तप ।। ४३ ।।

अनेन स्पृष्टनयनो भूतान्यंतर्हितान्यपि ।।

भवान्द्रक्ष्यति यस्मै वा भवानेतत्प्रदास्यति ।। ४४ ।।

सोऽपि द्रक्ष्यति भूतानि वियत्त्यंतर्हितानि वै ।।

तथेति रामस्तद्वारि प्रतिगृह्याथ सत्कृतम् ।। ४५ ।।

चकार नेत्रयोः शौचं लक्ष्मणश्च महाबलः ।

सुग्रीवजांबवन्तौ च हनुमानंगदस्तथा ।। ४६ ।।

मैंदद्विविदनीलाश्च ये चान्ये वानरास्तथा ।।

ते सर्वे रामदत्तेन वारिणा शुद्धचक्षुषः ।। ४७ ।।

आकाशेंतर्हितं वीरमपश्यन्रावणा त्मजम् ।।

ततस्तमभिदुद्राव सौमित्रिर्दृष्टिगोचरम् ।। ४८ ।।

ततो जघान संकुद्धो लक्ष्मणः कृतलक्षणः ।।

कुवेरप्रेषितजलैः पवित्रीकृतलोचनः ।। ।। ४९ ।।

ततः समभवद्युद्धं लक्ष्मणेंद्रजितोर्महत् ।।

अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव ।। 3.1.44.५० ।।

ततस्तृतीयदिवसे यत्नेन महता द्विजाः ।।

इंद्रजिन्निहतो युद्धे लक्ष्मणेन बलीयसा ।। ५१ ।।

ततो मूलबलं सर्वं हतं रामेण धीमता ।।

अथ क्रुद्धो दशग्रीवः प्रियपुत्रे निपातिते ।। ५२ ।।

निर्ययौ रथमास्थाय नगराद्बहुसैनिकः ।।

रावणो जानकीं हन्तुमुद्युक्तो विंध्यवारितः ।। ५३ ।।

ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा ।।

उपतस्थे रणे रामं मातलिः शक्रसारथिः ।। ५४ ।।

ऐन्द्रं रथं समारुह्य रामो धर्मभृतां वरः ।।

शिरांसि राक्षसेन्द्रस्य ब्रह्मास्त्रेणावधीद्रणे ।। ५५ ।।

ततो हतदशग्रीवं रामं दशरथात्मजम् ।।

आशीर्भिर्जययुक्ताभिर्देवाः सर्षिपुरोगमाः ।। ५६ ।।

तुष्टुवुः परिसंतुष्टाः सिद्धविद्याधरास्तथा ।।

रामं कमलपत्राक्षं पुष्प वर्षेरवाकिरन् ।। ५७ ।।

रामस्तैः सुरसंघातैः सहितः सैनिकैर्वृतः ।।

सीतासौमित्रिसहितः समारुह्य च पुष्पकम् ।। ५८ ।।

तथाभिषिच्य राजानं लंकायां च विभीषणम् ।।

कपिसेनावृतो रामो गन्धमादनमन्वगात् ।।५९।।

परिशोध्य च वैदेहीं गंधमादनपर्वते ।।

रामं कमलपत्राक्षं स्थितवानर संवृतम् ।। 3.1.44.६० ।।

हतलंकेश्वरं वीरं सानुजं सविभीषणम् ।।

सभार्यं देववृंदैश्च सेवितं मुनिपुंगवैः ।। ६१ ।।

मुनयोऽभ्यागता द्रष्टुं दंडकारण्य वासिनः ।।

अगस्त्यं ते पुरस्कृत्य तुष्टुवुर्मैथिलीपतिम् ।। ६२ ।।

।। मुनय ऊचुः ।। ।।

नमस्ते रामचंद्राय लोकानुग्रहकारिणे ।।

अरावणं जगत्कर्तुमवतीर्णाय भूतले ।। ६३ ।।

ताटिकादेहसंहर्त्रे गाधिजाध्वररक्षिणे ।।

नमस्ते जितमारीच सुवाहुप्राणहारिणे ।। ६४ ।।

अहल्यामुक्तिसंदायिपादपंकजरेणवे ।।

नमस्ते हरकोदण्डलीलाभञ्जनकारिणे ।। ६५ ।।

नमस्ते मैथिलीपाणिग्रहणोत्सवशालिने ।।

नमस्ते रेणुकापुत्रपराजयविधायिने ।। ६६ ।।

सहलक्ष्मणसीताभ्यां कैकेय्यास्तु वरद्वयात् ।।

सत्यं पितृवचः कर्तुं नमो वनमुपे युषे ।। ६७ ।।

भरतप्रार्थनादत्तपादुकायुगुलाय ते ।।

नमस्ते शरभंगस्य स्वर्गप्राप्त्यैकहेतवे ।। ६८ ।।

नमो विराधसंहर्त्रे गृधराजस खाय ते ।।

मायामृगमहाक्रूरमारीचांगविदारिणे ।। ६९ ।।

सीतापहारिलोकेशयुद्धत्यक्तकलेवरम् ।।

जटायुषं तु संदह्य तत्कैवल्यप्रदायिने ।। ।। 3.1.44.७० ।।

नमः कबंधसंहर्त्रे शवरीपूजितांघ्रये ।।

प्राप्तसुग्रीवसख्याय कृतवालिवधाय ते ।। ७१ ।।

नमः कृतवते सेतुं समुद्रे वरुणालये ।।

सर्वराक्षससंहर्त्रे रावणप्राणहारिणे ।। ७२ ।।

संसारांबुधिसंतारपोतपादांबुजाय ते ।।

नमो भक्तार्तिसंहर्त्रे सच्चिदानंदरूपिणे ।। ७३ ।।

नमस्ते राम भद्राय जगतामृद्धिहेतवे ।।

रामादिपुण्यनामानि जपतां पापहारिणे ।। ७४ ।।

नमस्ते सर्वलोकानां सृष्टिस्थित्यंतकारिणे ।।

नमस्ते करुणामूर्ते भक्तरक्षणदीक्षित ।। ७८५ ।।

ससीताय नमस्तुभ्यं विभीषणसुखप्रद ।।

लंकेश्वरवधाद्राम पालितं हि जगत्त्वया ।। ७६ ।।

रक्षरक्ष जगन्नाथ पाह्य स्माञ्जानकीपते ।।

स्तुत्वैवं मुनयः सर्वे तूष्णीं तस्थुर्द्विजोत्तमाः ।। ७७ ।।

।। श्रीसूत उवाच ।। ।।

य इदं रामचन्द्रस्य स्तोत्रं मुनिभिरीरितम् ।।

त्रिसंध्यं पठते भक्त्या भुक्तिं मुक्तिं च विंदति ।। ७८ ।।

प्रयाणकाले पठतो न् भीतिरुपजायते ।।

एतत्स्तोत्रस्य पठनाद्भूतवेतालकादयः ।। ।। ७९ ।।

नश्यंति रोगा नश्यंति नश्यते पापसंचयः ।।

पुत्रकामो लभेत्पुत्रं कन्या विंदति सत्पतिम् ।। 3.1.44.८० ।।

मोक्षकामो लभेन्मोक्षं धनकामो धनं लभेत्।।

सर्वान्कामानवाप्नोति पठन्भक्त्या त्विमं स्तवम् ।। ८१ ।।

ततो रामो मुनीन्प्राह प्रणम्य च कृतांजलिः ।।

अहं विशुद्धये प्राप्यः सकलैरपि मानवैः ।। ८२ ।।

मद्दृष्टिगोचरो जन्तुर्नित्यमोक्षस्य भाजनम् ।।

तथापि मुनयो नित्यं भक्तियुक्तेन चेतसा ।। ८३ ।।

स्वात्मलाभेन संतुष्टान्साधून्भूतसुहृत्तमान् ।।

निरहंकारिणः शांतान्नमस्याम्यूर्ध्वरेतसः ।। ८४ ।।

यस्माद्ब्रह्मण्यदेवोऽहमतो विप्रान्भजे सदा ।।

युष्मान्पृच्छाम्यहं किंचित्तद्वदध्वं विचार्य तु ।। ८५ ।।

रावणस्य वधाद्विप्रा यत्पापं मम वर्तते ।।

तस्य मे निष्कृतिं ब्रूत पौलस्त्यवधजस्य हि ।।

यत्कृत्वा तेन पापे न मुच्येऽहं मुनिपुंगवाः ।। ८६ ।।

।। मुनय ऊचुः ।। ।।

सत्यव्रत जगन्नाथ जगद्रक्षाधुरंधर ।। ८७ ।।

सर्वलोकोपकारार्थं कुरु राम शिवार्चनम् ।।

गन्धमादनशृंगेऽस्मिन्महापुण्ये विमुक्तिदे ।। ८८ ।।

शिवलिंगप्रतिष्ठां त्वं लोकसंग्रहकाम्यया ।।

कुरु राम दशग्रीववधदोषापनुत्तये ।। ।।८९।।

लिंगस्थापनजं पुण्यं चतुर्वक्त्रोऽपि भाषितुम्।।

न शक्नोति ततो वक्तुं किं पुनर्मनुजेश्वर।।3.1.44.९।।।

यत्त्वया स्थाप्यते लिगं गन्धमादनपर्वते ।।

अस्य संदर्शनं पुंसां काशीलिंगावलोकनात् ।। ९१ ।।

अधिकं कोटिगुणितं फलवत्स्यान्न संशयः ।।

तव नाम्ना त्विदं लिंगं लोके ख्यातिं समश्नुताम् ।। ९२ ।।

नाशकं पुण्यपापाख्यकाष्ठानां दहनोपमम् ।।

इदं रामेश्वरं लिंगं ख्यातं लोके भविष्यति ।। ९३ ।।

मा विलंबं कुरुष्वातो लिंगस्थापनकर्मणि ।।

रामचंद्र महाभाग करुणापूर्णविग्रह ।। ९४ ।।

।। श्रीसूत उवाच ।। ।।

इति श्रुत्वा वचो रामो मुनीनां तं मुनीश्वराः ।।

पुण्यकालं विचार्याथ द्विमुहूर्तं जगत्पतिः ।। ९५ ।।

कैलासं प्रेषयामास हनुमन्तं शिवालयम् ।।

शिवलिंगं समानेतुं स्थापनार्थं रघूद्वहः ।। ९६ ।।

।। राम उवाच ।। ।।

हनूमन्नंजनीसूनो वायुपुत्र महाबल ।।

कैलासं त्वरितो गत्वा लिंगमानय मा चिरम् ।। ९७ ।।

इत्याज्ञप्तस्स रामेण भुजावास्फाल्य वीर्यवान् ।।

मुहूर्तद्वितयं ज्ञात्वा पुण्यकालं कपीश्वरः ।। ९८ ।।

पश्यतां सर्वदेवानामृषीणां च महात्मनाम् ।।

उत्पपात महावेगश्चालयन्गंधमादनम् ।।९९।।

लंघयन्स वियन्मार्गं कैलासं पर्वतं ययौ ।।

न ददर्श महादेवं लिंगरूपधरं कपिः।।3.1.44.१००।।

कैलासे पर्वते तस्मिन्पुण्ये शंकरपालिते ।।

आंजनेयस्तपस्तेपे लिंगप्राप्त्यर्थमादरात् ।। १ ।।

प्रागग्रेषु समासीनः कुशेषु मुनिपुंगवाः ।।

ऊर्ध्वबाहुर्निरालम्बो निरुच्छ्वासो जितेंद्रियः ।। २ ।।

प्रसादयन्महादेवं लिंगं लेभे स मारुतिः ।।

एतस्मिन्नंतरे विप्रा मुनिभिस्तत्त्वदर्शिभिः ।। ३ ।।

अनागतं हनूमंतं कालं स्वल्पावशेषितम् ।।

ज्ञात्वा प्रकथितं तत्र रामं प्रति महामतिम् ।। ४ ।।

रामराम महाबाहो कालो ह्यत्येति सांप्रतम् ।।

जानक्या यत्कृतं लिंगं सैकतं लीलया विभो ।। ५ ।।

तल्लिंगं स्थापयस्वाद्य महालिंगमनुत्तमम् ।।

श्रुत्वैतद्वचनं रामो जानक्या सह सत्वरम् ।। ६ ।।

मुनिभिः सहितः प्रीत्या कृतकौतुकमंगलः ।।

ज्येष्ठे मासे सिते पक्षे दशम्यां बुधहस्तयोः ।। ७ ।।

गरानंदे व्यतीपाते कन्या चन्द्रे वृषे रवौ ।।

दशयोगे महापुण्ये गन्धमादनपर्वते ।। ८ ।।

सेतुमध्ये महादेवं लिंगरूपधरं हरम् ।।

ईशानं कृत्तिवसनं गंगाचंद्रकलाधरम् ।। ९ ।।

रामो वै स्थापयामास शिवलिंगमनुत्तमम् ।।

लिंगस्थं पूजयामास राघवः सांबमीश्वरम् ।। 3.1.44.११० ।।

लिंगस्थः स महादेवः पार्वत्या सह शंकरः ।।

प्रत्यक्षमेव भगवान्दत्तवान्वरमुत्तमम् ।। ११ ।।

सर्वलोकशरण्याय राघवाय महात्मने ।।

त्वयात्र स्थापितं लिंगं ये पश्यंति रघूद्वह ।। १२ ।।

महापातकयुक्ताश्च तेषां पापं प्रणश्यति ।।

सर्वाण्यपि हि पापानि धनुष्कोटौ निमज्जनात् ।। १३ ।।

दर्शनाद्रामलिंगस्य पातकानि महांत्यपि ।।

विलयं यांति राजेंद्र रामचन्द्र न संशयः ।। १४ ।।

प्रादादेवं हि रामाय वरं देवोंऽबिकापतिः ।।

तदग्रे नंदिकेशं च स्थापयामास राघवः ।। ।। १५ ।।

ईश्वरस्याभिषेकार्थं धनुष्कोट्याथ राघवः ।।

एकं कूपं धरां भित्त्वा जनयामास वै द्विजाः ।। १६ ।।

तस्माज्जलमुपादाय स्नापयामास शंकरम् ।।

कोटितीर्थमिति प्रोक्तं तत्तीर्थं पुण्यमुत्तमम् ।। १७ ।।

उक्तं तद्वैभवं पूर्वमस्माभिर्मुनिपुंगवाः ।।

देवाश्च मुनयो नागा गन्धर्वाप्स रसां गणाः ।।

सर्वेपि वानरा लिंगमेकैकं चक्रुरादरात् ।। १८ ।।

।। श्रीसूत उवाच ।। ।।

एवं वः कथितं विप्रा यथा रामेण धीमत ।।५९ ।।।।

स्थापितं शिवलिंगं वै भुक्तिमुक्तिप्रदायकम् ।।

इमां लिंगप्रतिष्ठां यः शृणोति पठतेऽथवा ।। 3.1.44.१२० ।।

स रामेश्वरलिंगस्य सेवाफलमवाप्नुयात् ।।।।

सायुज्यं च समाप्नोति रामनाथस्य वैभवात् ।। १२१ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथलिंगप्रतिष्ठाविधिवर्णनंनाम चतुश्चत्वारिंशोऽध्यायः ।। ४४ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 45

।। श्रीसूत उवाच ।। ।।

एवं प्रतिष्ठिते लिंगे रामेणाक्लिष्टकारिणा ।।

लिंगं वरं समादाय मारुतिः सहसाऽऽययौ ।। १ ।।

रामं दाशरथिं वीरमभिवाद्य स मारुतिः ।।

वैदेहीलक्ष्मणौ पश्चात्सुग्रीवं प्रणनाम च ।। २ ।।

सीता सैकतलिंगं तत्पूजयंतं रघूद्वहम् ।।

दृष्ट्वाथ मुनिभिः सार्द्धं चुकोप पवनात्मजः ।। ३ ।।

अत्यंतं खेदखिन्नः सन्वृथाकृतपरिश्रमः ।।

उवाच रामं धर्मज्ञं हनूमानंजनात्मजः ।। ४ ।।

।। हनूमानुवाच ।। ।।

दुर्जातोऽहं वृथा राम लोके क्लेशाय केवलम् ।।

खिन्नोऽस्मि बहुशो देव राक्षसैः क्रूरकर्मभिः ।। ५ ।।

मा स्म सीमंतिनी काचिज्जनयेन्मादृशं सुतम् ।।

यतोऽनुभूयते दुःखमनंतं भवसागरे ।। ६ ।।

खिन्नोऽस्मि सेवया पूर्वं युद्धेनापि ततोधिकम्।।

अनन्तं दुःखमधुना यतो मामवमन्यसे ।। ७ ।।

सुग्रीवेण च भार्यार्थं राज्यार्थं राक्षसेन च ।।

रावणावरजेन त्वं सेवितो ऽसि रघूद्वह ।। ८ ।।

मया निर्हेतुकं राम सेवितोऽसि महामते ।।

वानराणामनेकेषु त्वयाज्ञप्तोऽहमद्य वै ।। ९ ।।

शिवलिंगं समानेतुं कैलासात्पर्वतो त्तमात् ।।

कैलासं त्वरितो गत्वा न चापश्यं पिनाकिनम् ।। 3.1.45.१० ।।

तपसा प्रीणयित्वा तं सांबं वृषभवाहनम् ।।

प्राप्तलिंगो रघुपते त्वरितः समु पागतः ।। ११ ।।

अन्यलिंगं त्वमधुना प्रतिष्ठाप्य तु सैकतम् ।।

मुनिभिर्देवगन्धर्वैः साकं पूजयसे विभो ।। १२ ।।

मयानीतमिदं लिंगं कैलासा त्पर्वताद्वृथा ।।

अहो भाराय मे देहो मन्दभाग्यस्यजायते ।। १३ ।।

भूतलस्य महाराज जानकीरमण प्रभो ।।

इदं दुःखमहं सोढुं न शक्नोमि रघूद्वह ।। १४

किं करिष्यामि कुत्राहं गमिष्यामि न मे गतिः ।।

अतः शरीरं त्यक्ष्यामि त्वयाहमवमानितः ।। १५ ।।

।। श्रीसूत उवाच ।।

एवं स बहुशो विप्राः क्रुशित्वा पवनात्मजः ।।

दण्डवत्प्रणतो भूमौ क्रोधशोकाकुलोऽभवत् ।। १६ ।।

तं दृष्ट्वा रघुनाथोऽपि प्रहसन्निदमब्रवीत् ।।

पश्यतां सवदेवानां मुनीनां कपिरक्षसाम् ।।

सांत्वयन्मारुतिं तत्र दुःखं चास्य प्रमार्जयन् ।। १७ ।।

।। श्रीराम उवाच ।।

सर्वं जानाम्यहं कार्यमात्मनोऽपि परस्य च ।। १८ ।।

जातस्य जायमानस्य मृतस्यापि सदा कपे ।।

जायते म्रियते जन्तुरेक एव स्वकर्मणा १९ ।।

प्रयाति नरकं चापि परमात्मा तु निर्गुणः ।।

एवं तत्त्वं विनिश्चित्य शोकं मा कुरु वानर ।। 3.1.45.२० ।।

लिंगत्रयविनिर्मुक्तं ज्योतिरेकं निरंजनम् ।।

निराश्रयं निर्विकारमात्मानं पश्य नित्यशः ।। २१ ।।

किमर्थं कुरुषे शोकं तत्त्वज्ञानस्य बाधकम् ।।

तत्त्वज्ञाने सदा निष्ठां कुरु वानरसत्तम ।। २२ ।।

स्वयंप्रकाशमात्मानं ध्यायस्व सततं कपे ।।

देहादौ ममतां मुंच तत्त्वज्ञानविरोधिनीम् ।। २३ ।।

धर्मं भजस्व सततं प्राणिहिंसां परित्यज ।।

सेवस्व साधुपुरुषाञ्जहि सर्वेंद्रियाणि च ।। २४ ।।

परित्यजस्व सततमन्येषां दोषकीर्तनम् ।।

शिवविष्ण्वादिदेवानामर्चां कुरु सदा कपे ।। २५ ।।

सत्यं वदस्व सततं परित्यज शुचं कपे ।।

प्रत्यग्ब्रह्मैकताज्ञानं मोहवस्तुसमुद्गतम् ।। २६ ।।

शोभनाशोभना भ्रांतिः कल्पि तास्मिन्यथार्थवत् ।।

अध्यास्ते शोभनत्वेन पदार्थे मोहवैभवात् ।। २७ ।।

रोगो विजायते नृणां भ्रांतानां कपिसत्तम ।।

रागद्वेषबलाद्बद्धा धर्मा धर्मवशंगताः ।। २८ ।।

देवतिर्यङ्मनुष्याद्या निरयं यांति मानवाः ।।

चंदनागरुकर्पूरप्रमुखा अतिशोभनाः ।। २९ ।।

मलं भवंति यत्स्पर्शात्तच्छरीरं कथं सुखम्।।

भक्ष्यभोज्यादयः सर्वे पदार्था अतिशोभनाः ।।3.1.45.३०।।

विष्ठा भवंति यत्संगात्तच्छरीरं कथं सुखम्।।

सुगंधि शीतलं तोयं मूत्रं यत्संगमाद्भवेत् ।।३१।।

तत्कथं शोभनं पिंडं भवेद्ब्रूहि कपेऽधुना ।।

अतीव धवलाः शुद्धाः पटा यत्संगमेनहि ।।३२।।

भवंति मलिनाः स्वेदात्तत्कथं शोभनं भवेत ।।

श्रूयतां परमार्थो मे हनूमन्वायुनंदन ।। ३३ ।।

अस्मिन्संसारगर्ते तु किंचित्सौख्यं न विद्यते ।।

प्रथमं जंतुराप्नोति जन्म बाल्यं ततः परम् ।। ।।३४।।

पश्चाद्यौवनमाप्नोति ततो वार्धक्यमश्नुते ।।

पश्चान्मृत्युमवाप्नोति पुनर्जन्म तदश्नुते ।।३५।।

अज्ञानवैभवादेव दुःखमाप्नोति मानवः ।।

तदज्ञान निवृत्तौ तु प्राप्नोति सुखमुत्तमम् ।।३६।।

अज्ञानस्य निवृत्तिस्तु ज्ञानादेव न कर्मणा ।।

ज्ञानं नाम परं ब्रह्म ज्ञानं वेदांतवाक्यजम् ।।३७।।

तज्ज्ञानं च विरक्तस्य जायते नेतरस्य हि ।।

मुख्याधिकारिणः सत्यमाचार्यस्य प्रसादतः ।।३९।।

यदा सर्वे प्रमुच्यंते कामा येऽस्य हृदि स्थिताः ।।

तदा मर्त्योऽमृतोऽत्रैव परं ब्रह्म समश्नुते ।। ३९ ।।

जाग्रतं च स्वपंतं च भुंजंतं च स्थितं तथा ।।

इमं जनं सदा क्रूरः कृतांतः परिकर्षति ।। 3.1.45.४० ।।

सर्वे क्षयांता निचयाः पतनांताः समुच्छ्रयाः ।।

संयोगा विप्रयोगांता मरणांतं च जीवितम् ।। ४१ ।।

यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ।।

यथा नराणां जातानां नान्यत्र पतनाद्भयम् ।। ४२ ।।

यथा गृहं दृढस्तंभं जीर्णं काले विनश्यति ।।

एवं विनश्यंति नरा जरामृत्युवशंगताः ।। ४३ ।।

अहोरात्रस्य गमनान्नृणामायुर्विनश्यति ।।

आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।। ४४ ।।

नश्यत्यायुः स्थितस्यापि धावतोऽपि कपीश्वर ।।

सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।। ४५ ।।

चरित्वा दूरदेशं च सह मृत्युर्निवर्तते ।।

शरीरे वलयः प्राप्ताः श्वेता जाताः शिरोरुहाः ।। ४६ ।।

जीर्यते जरया देहः श्वासकासादिना तथा ।।

यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।। ४७ ।।

समेत्य च व्यपेयातां कालयोगेन वानर ।।

एवं भार्या च पुत्रश्च वधुक्षेत्रधनानि च ।। ४८ ।।

क्वचित्संभूय गच्छंति पुनरन्यत्र वानर ।।

यथा हि पांथं गच्छंतं पथि कश्चित्पथि स्थितः।। ४९ ।।

अहमप्या गमिष्यामि भवद्भिः साकमित्यथ ।।

कंचित्कालं समेतौ तौ पुनरन्यत्र गच्छतः ।। 3.1.45.५० ।।

एवं भार्यासुतादीनां संगमो नश्वरः कपे ।।

शरीरजन्मना साकं मृत्युः संजायते ध्रुवम् ।। ५१ ।।

अवश्यंभाविमरणे न हि जातु प्रतिक्रिया ।।

एतच्छरीरपाते तु देही कर्मगतिं गतः ।। ५२ ।।

प्राप्य पिंडांतरं वत्स पूर्वपिंडं त्यजत्यसौ ।।

प्राणिनां न सदैकत्र वासो भवति वानर ।। ५३ ।।

स्वस्वकर्मवशात्सर्वे वियुज्यंते पृथक्पृथक् ।।

यथा प्राणिशरीराणि नश्यंति च भवंति च ।। ५४ ।।

आत्मनो जन्ममरणे नैव स्तः कपिसत्तम ।।

अतस्त्वमंजनासूनो विशोकं ज्ञानमद्वयं ।।। ।। ५५ ।।

सद्रूपममलं ब्रह्म चिंतयस्व दिवानिशम् ।।

त्वत्कृतं मत्कृतं कर्म मत्कृतं त्वाकृतं तथा ।। ५६ ।।

मल्लिंगस्थापनं तस्मात्त्वल्लिंग स्थापनं कपे ।।

मुहूर्तातिक्रमाल्लिंगं सैकतं सीतया कृतम् ।। ५७ ।।

मयात्र स्थापितं तस्मात्कोपं दुःखं च मा कुरु ।।

कैलासादागतं लिंगं स्थापयास्मिच्छुभे दिने ।। ५८ ।।

तव नाम्ना त्विदं लिंगं यातु लोकत्रये प्रथाम् ।।

हनूमदीश्वरं दृष्ट्वा द्रष्टव्यो राघवेश्वरः ।। ५९ ।।

ब्रह्मराक्षसयूथानि हतानि भवता कपे ।।

अतः स्वनाम्ना लिंगस्य स्थापनात्त्वं प्रमोक्ष्यसे ।। 3.1.45.६० ।।

स्वयं हरेण दत्तं तु हनूमन्नामकं शिवम् ।।

संपश्यन्रामनाथं च कृतकृत्यो भवेन्नरः ।। ६१ ।।

योजनानां सहस्रेऽपि स्मृत्वा लिंगं हनूमतः ।।

रामनाथेश्वरं चापि स्मृत्वा सायुज्यमाप्नुयात् ।। ६२ ।।

तेनेष्टं सर्वयज्ञैश्च तपश्चाकारि कृत्स्नशः ।।

येन दृष्टौ महादेवौ हनूमद्राघवेश्वरौ ।। ६३ ।।

हनूमता कृतं लिंगं यच्च लिंगं मया कृतम् ।।

जानकीयं च यल्लिंगं यल्लिंगं लक्ष्मणेश्वरम् ।। ६४ ।।

सुग्रीवेण कृतं यच्च सेतुकर्त्रा नलेन च ।।

अंगदेन च नीलेन तथा जांबवता कृतम् ।। ६५ ।।

विभीषणेन यच्चापि रत्नलिंगं प्रतिष्ठितम् ।।

इन्द्राद्यैश्च कृतं लिंगं यच्छेषाद्यैः प्रतिष्ठितम् ।। ६६ ।।

इत्येकादशरूपोऽयं शिवः साक्षाद्विभासते ।।

सदा ह्येतेषु लिंगेषु संनिधत्ते महेश्वरः ।। ६७ ।।

तत्स्वपापौघशुद्ध्यर्थं स्थापयस्व महेश्वरम् ।।

अथ चेत्त्वं महाभाग लिंगमुत्सादयिष्यसि ।। ६८ ।।

मयात्र स्थापितं वत्स सीतया सैकतं कृतम् ।।

स्थापयिष्यामि च ततो लिंगमेतत्त्वया कृतम् ।। ६९ ।।

पातालं सुतलं प्राप्य वितलं च रसातलम् ।।

तलातलं च तदिदं भेदयित्वा तु तिष्ठति ।। 3.1.45.७० ।।

प्रतिष्ठितं मया लिंगं भेत्तुं कस्य बलं भवेत् ।।

उत्तिष्ठ लिंगमुद्वास्य मयैतत्स्थापितं कपे ।। ।। ७१ ।।

त्वया समाहृतं लिंगं स्थापयस्वाशु मा शुचः ।।

इत्युक्तस्तं प्रणम्याथाज्ञातसत्त्वोऽथ वानरः ।। ७२ ।।

उद्वासयामि वेगेन सैकतं लिंगमुत्त मम्।।

संस्थापयामि कैलासादानीतं लिंगमादरात् ।। ७३ ।।

उद्वासने सैकतस्य कियान्भारो भवेन्मम ।।

चेतसैवं विचार्यायं हनूमान्मारुता त्मजः ।। ७४ ।।

पश्यतां सर्वदेवानां मुनीनां कपिरक्षसाम् ।।

पश्यतो रामचन्द्रस्य लक्ष्मणस्यापि पश्यतः ।। ७५ ।।

पश्यंत्या अपि वैदेह्या लिंगं तत्सैकतं बलात् ।।

पाणिना सर्वयत्नेन जग्राह तरसा बली ।। ७६ ।।

यत्नेन महता चायं चालयन्नपि मारुतिः ।।

नालं चालयितुं ह्यासीत्सैकतं लिंगमोजसा ।। ७७ ।।

ततः किलकिलाशब्दं कुर्वन्वानरपुंगवः ।।

पुच्छमुद्यम्य पाणिभ्यां निरास्थत्तन्निजौजसा ।। ७८ ।।

इत्यनेकप्रकारेण चाल यन्नपि वानरः ।।

नैव चालयितुं शक्तो बभूव पवनात्मजः ।। ७९ ।।

तद्वेष्टयित्वा पुच्छेन पाणिभ्यां धरणीं स्पृशन् ।।

उत्पपाताथ तरसा व्योम्नि वायुसुतः कपिः ।। 3.1.45.८० ।।

कंपयन्स धरां सर्वां सप्तद्वीपां सपर्वतम् ।।

लिंगस्य क्रोशमात्रे तु मूर्च्छितो रुधिरं वमन् ।। ८१ ।।

पपात हनुमान्विप्राः कंपितांगो धरातले ।।

पततो वायुपुत्रस्य वक्त्राच्च नयनद्वयात् ।। ८२ ।।

नासापुटाच्छ्रोत्ररंध्रादपानाच्च द्विजोत्तमाः ।।

रुधिरौघः प्रसुस्राव रक्तकुण्ड मभूच्च तत्।। ८३ ।।

ततो हाहाकृतं सर्वं सदेवासुरमानुषम् ।।

धावंतौ कपिभिः सार्द्धमुभौ तौ रामलक्ष्मणौ ।। ८४ ।।

जानकीसहितौ विप्रा ह्यास्तां शोकाकुलौ तदा ।।

सीतया सहितौ वीरौ वानरैश्च महाबलौ ।। ८५ ।।

रुरुचाते तदा विप्रा गन्धमादनपर्वते ।।

यथा तारागणयुतौ रजन्यां शशि भास्करौ ।। ८६ ।।

ददर्शतुर्हनूमंतं चूर्णीकृतकलेवरम्।।

मूर्च्छितं पतितं भूमौ वमन्तं रुधिरं मुखात्।। ८७ ।।

विलोक्य कपयः सर्वे हाहाकृत्वाऽपतन्भुवि ।।

कराभ्यां सदयं सीता हनूमंतं मरुत्सुतम्।। ८८ ।।

ताततातेति पस्पर्श पतितं धरणीतले ।।

रामोऽपि दृष्ट्वा पतितं हनूमंतं कपीश्वरम् ।। । ८९ ।।

आरोप्यांकं स्वपाणिभ्यामाममर्श कलेवरम् ।।

विमुंचन्नेत्रजं वारि वायुजं चाव्रवीद्द्विजाः ।। 3.1.45.९० ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामचन्द्रतत्त्वज्ञानोपदेशवर्णनंनाम पंचचत्वारिंशोऽध्यायः ।। ४५ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 46

।। श्रीराम उवाच।।

पंपारण्ये वयं दीनास्त्वया वानरपुंगव।।

आश्वासिताः कारयित्वा सख्यमादित्यसूनुना।।१।।

त्वां दृष्ट्वा पितरं बन्धून्कौसल्यां जननीमपि ।।

न स्मरामो वयं सर्वान्मे त्वयोपकृतं बहु।। २ ।।

मदर्थं सागरस्तीर्णो भवता बहु योजनः ।।

तलप्रहाराभिहतो मैनाकोऽपि नगोत्तमः ।। ३ ।।

नागमाता च सुरसा मदर्थं भवता जिता ।।

छायाग्रहां महाक्रूराम वधीद्राक्षसीं भवान् ।। ४ ।।

सायं सुवेलमासाद्य लंकामाहत्य पाणिना ।।

अयासी रावणगृहं मदर्थं त्वं महाकपे ।। ५ ।।

सीतामन्विष्य लंकायां रात्रौ गतभयो भवान्।।

अदृष्ट्वा जानकीं पश्चादशोकवनिकां ययौ ।। ६ ।।

नमस्कृत्य च वैदेहीमभिज्ञानं प्रदाय च ।।

चूडामणिं समादाय मदर्थं जानकीकरात् ।। ७ ।।

अशोकवनिकावृक्षानभांक्षीस्त्वं महाकपे ।।

ततस्त्वशीतिसाहस्रान्किंकरान्नाम राक्षसान् ।। ८ ।।

रावणप्रतिमान्युद्धे पत्यश्वेभरथाकुलान् ।।

अवधीस्त्वं मदर्थे वै महाबलपराक्रमान् ।। ९ ।।

ततः प्रहस्ततनयं जंबुमालिनमागतम् ।।

अवधीन्मंत्रितनयान्सप्त सप्तार्चिवर्चसः ।। 3.1.46.१० ।।

पंच सेनापतीन्पश्चादनयस्त्वं यमालयम् ।।

कुमारमक्षमवधीस्ततस्त्वं रणमूर्धनि ।। ११ ।।

तत इन्द्रजिता नीतो राक्षसेंद्र सभां शुभाम् ।।

तत्र लंकेश्वरं वाचा तृणीकृत्यावमन्य च ।। १२ ।।

अभांक्षीस्त्वं पुरीं लंकां मदर्थं वायुनंदन ।।

पुनः प्रतिनिवृत्तस्त्वमृष्यमूकं महागिरिम् ।। १३ ।।

एवमादि महादुःखं मदर्थं प्राप्तवानसि ।।

त्वमत्र भूतले शेषे मम शोकमुदीरयन् ।। १४ ।।

अहं प्राणान्परित्यक्ष्ये मृतोऽसि यदि वायुज ।।

सीतया मम किं कार्यं लक्ष्मणेनानुजेन वा ।। १५ ।।

भरतेनापि किं कार्यं शत्रुघ्नेन श्रियापि वा ।।

राज्येनापि न मे कार्यं परेतस्त्वं कपे यदि ।। १६ ।।

उत्तिष्ठ हनुमन्वत्स किं शेषेऽद्य महीतले ।।

शय्यां कुरु महाबाहो निद्रार्थं मम वानर ।। १७ ।।

कन्दमूलफलानि त्वमाहारार्थं ममाहर ।।

स्नातुमद्य गमिष्यामि शीघ्रं कलशमानय ।। १८ ।।

अजिनानि च वासांसि दर्भांश्च समुपाहर ।।

ब्रह्मास्त्रेणावबद्धोऽहं मोचितश्च त्वया हरे ।। १९ ।।

लक्ष्मणेन सह भ्रात्रा ह्यौषधानयनेन वै ।।

लक्ष्मणप्राणदाता त्वं पौलस्त्यमदनाशनः ।। 3.1.46.२० ।।

सहायेन त्वया युद्धे राक्षसा न्रावणादिकान् ।।

निहत्यातिबलान्वीरानवापं मैथिलीमहम् ।। २१ ।।

हनूमन्नंजनासूनो सीताशोकविनाशन ।।

कथमेवं परित्यज्य लक्ष्मणं मां च जानकीम् ।। २२ ।।

अप्रापयित्वायोध्यां त्वं किमर्थं गतवानसि ।।

क्व गतोसि महावीर महाराक्षसकण्टक ।। २३ ।।

इति पश्यन्मुखं तस्य निर्वाक्यं रघुनंदनः ।।

प्ररुदन्नश्रुजालेन सेचयामास वायुजम् ।। २४ ।।

वायुपुत्रस्ततो मूर्च्छामपहाय शनैर्द्विजाः ।।

पौलस्त्यभयसंत्रस्तलोकरक्षार्थमागतम्।।२५।।

आश्रित्य मानुषं भावं नारायणमजं विभुम्।।

जानकीलक्ष्मणयुतं कपिभिः परिवारितम्।।२६।।

कालांभोधरसंकाशं रणधूलिसमुक्षितम् ।।

जटामण्डलशोभाढ्यं पुण्डरीकायतेक्षणम् ।। २७ ।।

खिन्नं च बहुशो युद्धे ददर्श रघुनंदनम् ।।

स्तूयमानममित्रघ्नं देवर्षिपितृकिन्नरैः ।। २८ ।।

दृष्ट्वा दाशरथिं रामं कृपाबहुलचेतसम् ।।

रघुनाथकरस्पर्शपूर्णगात्रः स वानरः ।। २९ ।।

पतित्वा दण्डवद्भूमौ कृतांजलिपुटो द्विजाः ।।

अस्तौषीज्जानकीनाथं स्तोत्रैः श्रुतिमनोहरैः ।। 3.1.46.३० ।।

।। हनूमानुवाच ।। ।।

नमो रामाय हरये विष्णवे प्रभविष्णवे ।।

आदिदेवाय देवाय पुराणाय गदाभृते ।। ३१ ।।

विष्टरे पुष्पकं नित्यं निविष्टाय महात्मने ।।

प्रहृष्टवानरानीकजुष्टपादांबुजाय ते ।। ३२ ।।

निष्पिष्ट राक्षसेंद्राय जगदिष्टविधायिने ।।

नमः सहस्रशिरसे सहस्रचरणाय च ।। ३३ ।।

सहस्राक्षाय शुद्धाय राघवाय च विष्णवे ।।

भक्तार्तिहारिणे तुभ्यं सीतायाः पतये नमः ।। ३४ ।।

हरये नारसिंहाय दैत्यराजविदारिणे ।।

नमस्तुभ्यं वराहाय दंष्ट्रोद्धृतवसुन्धर ।। ३५ ।।

त्रिविक्रमाय भवते बलियज्ञ विभेदिने ।।

नमो वामनरूपाय नमो मंदरधारिणे ।। ३६ ।।

नमस्ते मत्स्यरूपाय त्रयीपालनकारिणे ।।

नमः परशुरामाय क्षत्रियांतकराय ते ।।३७।।

नमस्ते राक्षसघ्नाय नमो राघवरूपिणे ।।

महादेव महाभीम महाकोदण्डभेदिने ।। ३८ ।।

क्षत्रियांतकरक्रूरभार्गवत्रासकारिणे ।।

नमोऽस्त्वहिल्या संतापहारिणे चापहारिणे ।। ३९ ।।

नागायुतवलोपेतताटकादेहहारिणे ।।

शिलाकठिनविस्तारवालिवक्षोविभेदिने ।। 3.1.46.४० ।।

नमो माया मृगोन्माथकारिणेऽज्ञानहारिणे ।।

दशस्यंदनदुःखाब्धिशोषणागस्त्यरूपिणे ।। ४१ ।।

अनेकोर्मिसमाधूतसमुद्रमदहारिणे ।।

मैथिलीमानसां भोजभानवे लोकसाक्षिणे ।। ४२ ।।

राजेंद्राय नमस्तुभ्यं जानकीपतये हरे ।।

तारकब्रह्मणे तुभ्यं नमो राजीवलोचन ।। ४३ ।।

रामाय रामचन्द्राय वरेण्याय सुखात्मने ।।

विश्वामित्रप्रियायेदं नमः खरविदारिणे ।। ४४ ।।

प्रसीद देवदेवेश भक्तानामभयप्रद ।।

रक्ष मां करु णासिंधो रामचन्द्र नमोऽस्तु ते ।। ४५ ।।

रक्ष मां वेदवचसामप्यगोचर राघव ।।

पाहि मां कृपया राम शरणं त्वामुपैम्यहम् ।। ४६ ।।

रघुवीर महामोहमपाकुरु ममाधुना ।।

स्नाने चाचमने भुक्तो जाग्रत्स्वप्नसुषुप्तिषु ।। ४७ ।।

सर्वावस्थासु सर्वत्र पाहि मां रघुनंदन ।।

महिमानं तव स्तोतुं कः समर्थो जगत्त्रये ।। ४८ ।।

त्वमेव त्वन्महत्त्वं वै जानासि रघुनंदन ।।

इति स्तुत्वा वायुपुत्रो रामचंद्रं घृणानिधिम् ।। ४९ ।।

सीतामप्यभितुष्टाव भक्तियुक्तेन चेतसा ।।

जानकि त्वां नमस्यामि सर्वपापप्रणाशिनीम् ।। 3.1.46.५० ।।

दारिद्र्यरणसंहर्त्रीं भक्तानामिष्टदायिनीम् ।।

विदेहराजतनयां राघवानंदकारिणीम् ।। ५१ ।।

भूमेर्दुहितरं विद्यां नमामि प्रकृतिं शिवाम् ।।

पौलस्त्यैश्वर्यसंहर्त्रीं भक्ताभीष्टां सरस्वतीम् ।। ५२ ।।

पतिव्रताधुरीणां त्वां नमामि जनकात्मजाम् ।।

अनुग्रहपरामृद्धिमनघां हरिवल्लभाम् ।। ५३ ।।

आत्मविद्यां त्रयीरूपामुमारूपां नमाम्य हम् ।।

प्रसादाभिमुखीं लक्ष्मीं क्षीराब्धितनयां शुभाम् ।। ५४ ।।

नमामि चन्द्रभगिनीं सीतां सर्वांगसुंदरीम् ।।

नमामि धर्मनिलयां करुणां वेदमातरम् ।। ५५ ।।

पद्मालयां पद्महस्तां विष्णुवक्षस्थलालयाम् ।।

नमामि चन्द्रनिलयां सीतां चन्द्रनिभाननाम् ।। ५६ ।।

आह्लादरूपिणीं सिद्धिं शिवां शिवकरीं सतीम् ।।

नमामि विश्वजननीं रामचन्द्रेष्टवल्लभाम् ।।

सीतां सर्वानवद्यांगीं भजामि सततं हृदा ।। ५७ ।।

।। श्रीसूत उवाच ।। ।।

स्तुत्वैवं हनुमान्सीतारामचन्द्रौ सभक्तिकम् ।। ५८ ।।

आनंदाश्रुपरिक्लिन्नस्तूष्णीमास्ते द्विजोत्तमाः ।।

य इदं वायुपुत्रेण कथितं पापनाशनम् ।। ५९ ।।

स्तोत्रं श्रीरामचंद्रस्य सीतायाः पठतेऽन्वहम् ।।

स नरो महदैश्वर्यमश्नुते वांछितं स दा ।। 3.1.46.६० ।।

अनेकक्षेत्रधान्यानि गाश्च दोग्ध्रीः पयस्विनीः ।।

आयुर्विद्याश्च पुत्रांश्च भार्यामपि मनोरमाम् ।। ६१ ।।

एतत्स्तोत्रं सकृ द्विप्राः पठन्नाप्नोत्यसंशयः ।।

एतत्स्तोत्रस्य पाठेन नरकं नैव यास्यति ।। ६२ ।।

ब्रह्महत्यादिपापानि नश्यंति सुमहांत्यपि ।।

सर्वपापविनिर्मुक्तो देहांते मुक्तिमाप्नुयात् ।। ६३ ।।

इति स्तुतो जगन्नाथो वायुपुत्रेण राघवः ।।

सीतया सहितो विप्रा हनूमंतमथाब्रवीत् ।। ६४ ।।

।। श्रीराम उवाच ।। ।।

अज्ञानाद्वा नरश्रेष्ठ त्वयेदं साहसं कृतम् ।।

ब्रह्मणा विष्णुना वापि शक्रादित्रिदशैरपि ।। ६५ ।।

नेदं लिंगं समुद्धर्तुं शक्यते स्थापितं मया ।।

महादेवापराधेन पतितोऽस्यद्य मूर्च्छितः ।। ६६ ।।

इतः परं मा क्रियतां द्रोहः सांबस्य शूलिनः ।।

अद्यारभ्य त्विदं कुंडं तव नाम्ना जगत्त्रये ।। ६७ ।।

ख्यातिं प्रयातु यत्र त्वं पतितो वानरोत्तम ।।

महापातकसंघानां नाशः स्यादत्र मज्जनात् ।। ६८ ।।

महादेवजटाजाता गौतमी सरितां वरा ।।

अश्वमेधसहस्रस्य फलदा स्नायिनां नृणाम् ।। ६९ ।।

ततः शतगुणा गंगा यमुना च सरस्वती ।।

एतन्नदीत्रयं यत्र स्थले प्रवहते कपे ।। 3.1.46.७० ।।

मिलित्वा तत्र तु स्नानं सहस्रगुणितं स्मृतम् ।।

नदीष्वेतासु यत्स्नानात्फलं पुंसां भवेत्कपे ।। ७१ ।।

तत्फलं तव कुंडेऽस्मिन्स्नानात्प्राप्नोत्यसंशयम् ।।

दुर्लभं प्राप्य मानुष्यं हनूमत्कुंडतीरतः ।। ७२ ।।

श्राद्धं न कुरुते यस्तु भक्तियुक्तेन चेतसा ।।

निराशास्तस्य पितरः प्रयांति कुपिताः कपे ।। ७३ ।।

कुप्यंति मुनयोऽप्यस्मै देवाः सेंद्राः सचारणाः ।।

न दत्तं न हुतं येन हनूमत्कुंडतीरतः ।। ७४ ।।

वृथाजीवित एवासाविहामुत्र च दुःखभाक् ।।

हनूमत्कुंडसविधे येन दत्तं तिलोदकम् ।।

मोदंते पितरस्तस्य घृतकुल्याः पिबंति च ।। ७५ ।।

।। श्रीसूत उवाच ।। ।।

श्रुत्वैतद्वचनं विप्रा रामेणोक्तं स वायुजः ।। ७६ ।।

उत्तरे रामनाथस्य लिंगं स्वेनाहृतं मुदा ।।

आज्ञया रामचन्द्रस्य स्थापयामास वायुजः ।। ७७ ।।

प्रत्यक्षमेव सर्वेषां कपिलांगूलवेष्टितम् ।।

हरोपि तत्पुच्छजा तं बिभर्ति च वलित्रयम् ।।

तदुत्तरायां ककुभि गौरीं संस्थापयन्मुदा ।। ७८ ।।

।। श्रीसूत उवाच ।।

एवं वः कथितं विप्रा यदर्थं राघवेण तु ।।।

लिंगं प्रतिष्ठितं सेतौ भुक्तिमुक्तिप्रदं नृणाम् ।। ७९ ।।

यः पठेदिममध्यायं शृणुयाद्वा समाहितः ।।

स विधूयेह पापानि शिवलोके महीयते ।। 3.1.46.८० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथलिंगप्रतिष्ठाकारणवर्णनंनाम षट्चत्वारिंशोऽध्यायः ।। ४६ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 47

।। ऋषय ऊचुः ।। ।।

राक्षसस्य वधात्सूत रावणस्य महामुने ।।

ब्रह्महत्या कथमभूद्राघवस्य महात्मनः ।। ।। १ ।।

ब्राह्मणस्य वधात्सूत ब्रह्महत्याभिजायते ।।

न ब्राह्मणो दशग्रीवः कथं तद्वद नो मुने ।। २ ।।

ब्रह्महत्या भवेत्क्रूरा रामचंद्रस्य धीमतः ।।

एतन्नः श्रद्दधानानां वद कारुण्यतोऽधुना ।। ३ ।।

इति पृष्टस्ततः सूतो नैमिषारण्यवासिभिः ।।

वक्तुं प्रचक्रमे तेषां प्रश्नस्योत्तरमुत्तमम्।। ४ ।। ।। ।

। श्रीसूत उवाच ।। ।।

ब्रह्मपुत्रो महातेजाः पुलस्त्योनाम वै द्विजाः ।।

बभूव तस्य पुत्रोऽभूद्विश्रवा इति विश्रुतः ।। ५ ।।

तस्य पुत्रः पुलस्त्य स्य विश्रवा मुनिपुंगवाः ।।

चिरकालं तपस्तेपे देवैरपि सुदुष्करम् ।। ६ ।।

तपः कुर्वति तस्मिंस्तु सुमाली नाम राक्षसः ।।

पाताललोकाद्भूलोकं सर्वं वै विचचार ह ।। ७ ।।

हेमनिष्कांगदधरः कालमेघनिभच्छविः ।।

समादाय सुतां कन्यां पद्महीनामिव श्रियम् ।। ८ ।।

विचरन्स महीपृष्ठे कदाचित्पुष्पकस्थितम् ।।

दृष्ट्वा विश्रवसः पुत्रं कुबेरं वै धनेश्वरम् ।। ९ ।।

चिंतयामास विप्रेंद्राः सुमाली स तु राक्षसः ।।

कुबेरसदृशः पुत्रो यद्यस्माकं भविष्यति ।। 3.1.47.१० ।।

वयं वर्द्धामहे सर्वे राक्षसा ह्यकुतोभयाः ।।

विचार्यैवं निजसुतामब्रवीद्राक्षसेश्वरः ।। ११ ।।

सुते प्रदानकालोऽद्य तव कैकसि शोभने ।।

अद्य ते यौवनं प्राप्तं तद्देया त्वं वराय हि ।। १२ ।।

अप्रदानेन पुत्रीणां पितरो दुःखमाप्नुयुः ।।

किं च सर्वगुणोत्कृष्टा लक्ष्मीरिव सुते शुभे ।। १३ ।।

प्रत्याख्यानभयात्पुंभिर्न च त्वं प्रार्थ्यसे शुभे ।।

कन्यापितृत्वं दुःखाय सर्वेषां मानकांक्षिणाम् ।।१४ ।।

न जानेऽहं वरः को वा वरयेदिति कन्यके ।।

सा त्वं पुलस्त्यतनयं मुनिं विश्रवसं द्विजम् ।। १५ ।।

पितामहकुलोद्भूतं वरयस्व स्वयंगता ।।

कुबेरतुल्यास्तनया भवेयुस्ते न संशयः ।। १६ ।।

कैकसी तद्वचः श्रुत्वा सा कन्या पितृगौरवात् ।।

अंगीचकार तद्वाक्यं तथास्त्विति शुचिस्मिता ।। १७ ।।

पर्णशालां मुनिश्रेष्ठा गत्वा विश्रवसो मुनेः ।।

अतिष्ठदंतिके तस्य लज्जमाना ह्यधोमुखी ।। १८ ।।

तस्मिन्नवसरे विप्राः पुलस्त्यतनयः सुधीः ।।

अग्निहोत्रमुपास्ते स्म ज्वलत्पावकसन्निभः ।। १९ ।।

संध्याकालमतिक्रूरमविचिंत्य तु कैकसी ।।

अभ्येत्य तं मुनिं सुभ्रूः पितुर्वचनगौरवात् ।। 3.1.47.२० ।।

तस्थावधोमुखी भूमिं लिखत्यंगुष्ठकोटिना ।।

विश्रवास्तां विलोक्याथ कैकसीं तनुमध्यमाम् ।।

उवाच सस्मितो विप्राः पूर्णचंद्रनिभाननाम् ।। २१ ।। ।।

।। विश्रवा उवाच ।। ।।

शोभने कस्य पुत्री त्वं कुतो वा त्वमिहागता ।।२२।।

कार्यं किं वा त्वमुद्दिश्य वर्तसेऽत्र शुचिस्मिते ।।

यथार्थतो वदस्वाद्य मम सर्वमनिंदिते ।। २३ ।।

इतीरिता कैकसी सा कन्या बद्धांजलिर्द्विजाः ।।

उवाच तं मुनिं प्रह्वा विनयेन समन्विता ।। २४ ।।

तपः प्रभावेन मुने मदभिप्रायमद्य तु ।।

वेत्तुमर्हसि सम्यक्त्वं पुलस्त्यकुलदीपन ।।२५।।

अहं तु कैकसी नाम सुमालिदुहिता मुने ।।

मत्तातस्याज्ञया ब्रह्मंस्तवांतिकमुपागता ।।२६।।

शेष त्वं ज्ञानदृष्ट्याद्य ज्ञातुमर्हस्यसंशयः।।

क्षणं ध्यात्वा मुनिः प्राह विश्रवाः स तु कैकसीम् ।।२७।।

मया ते विदितं सुभ्रूर्मनोगतमभीप्सितम्।।

पुत्राभिलाषिणी सा त्वं मामगाः सांप्रतं शुभे ।।२८।।

सायंकालेऽधुना क्रूरे यस्मान्मां त्वमुपागता ।।

पुत्राभिलाषिणी भूत्वा तस्मात्त्वां प्रब्रवीम्यहम्।।२९।।

शृणुष्वावहिता रामे कैकसी त्वमनिंदिते ।।

दारुणान्दारुणाकारान्दारुणाभिजनप्रियान्।।3.1.47.३० ।।

जनयिष्यसि पुत्रांस्त्वं राक्षसान्क्रूरकर्मणः ।।

श्रुत्वा तद्वचनं सा तु कैकसी प्रणिपत्य तम् ।। ३१ ।।

पुलस्त्यतनयं प्राह कृतांजलिपुटा द्विजाः ।।

भगवदीदृशाः पुत्रास्त्वत्तः प्राप्तुं न युज्यते ।। ३२ ।।

इत्युक्तः स मुनिः प्राह कैकसीं तां सुमध्यमाम् ।।

मद्वंशानुगुणः पुत्रः पश्चिमस्ते भविष्यति ।। ३३ ।।

धार्मिकः शास्त्रविच्छांतो न तु राक्षसचेष्टितः ।।

इत्युक्ता कैकसी विप्राः काले कतिपये गते ।। ३४ ।।

सुषुवे तनयं क्रूरं रक्षोरूपं भयंकरम् ।।

द्विपंचशीर्षं कुमतिं विंशद्बाहुं भयानकम्।। ३५ ।।

ताम्रोष्ठं कृष्णवदनं रक्तश्मश्रु शिरोरुहम् ।।

महादंष्ट्रं महाकायं लोकत्रासकरं सदा ।। ३६ ।।

दशग्रीवाभिधः सोऽभूत्तथा रावण नामवान्।।

रावणानंतरं जातः कुम्भकर्णाभिधः सुतः ।। ३७ ।।

ततः शूर्पणखा नाम्ना क्रूरा जज्ञे च राक्षसी ।।

ततो बभूव कैकस्या विभीषण इति श्रुतः ।। ३८ ।।

पश्चिमस्तनयो धीमान्धार्मिको वेदशास्त्रवित् ।।

एते विश्रवसः पुत्रा दशग्रीवादयो द्विजाः ।। ३९ ।।

अतो दशग्रीववधात्कुम्भकर्णवधादपि ।।

ब्रह्महत्या समभवद्रामस्याक्लिष्टकर्मणः ।। 3.1.47.४० ।।

अतस्तच्छांतये रामो लिंगं रामेश्वराभिधम् ।।

स्थापयामास विधिना वैदिकेन द्विजोत्तमाः ।। ४१ ।।

एवं रावणघातेन ब्रह्महत्यासमुद्भवः ।।

समभूद्रामचंद्रस्य लोककांतस्य धीमतः ।। ४२ ।।

तत्सहैतुकमाख्यातं भवतां ब्रह्मघातजम्।।

पापं यच्छांतये रामो लिंगं प्रातिष्ठिपत्स्वयम् ।। ४३ ।।

एवं लिंगं प्रतिष्ठाप्य रामचन्द्रोऽतिधार्मिकः ।।

मेने कृतार्थमात्मानं ससीता वरजो द्विजाः ।। ४४ ।।

ब्रह्महत्या गता यत्र रामचंद्रस्य भूपतेः ।।

तत्र तीर्थमभूत्किंचिद्ब्रह्महत्याविमोचनम् ।। ४५ ।।

तत्र स्नानं महापुण्यं ब्रह्महत्याविनाशनम् ।।

दृश्यते रावणोऽद्यापि छायारूपेण तत्र वै ।। ४६ ।।

तदग्रे नागलोकस्य बिलमस्ति महत्तरम् ।।

दशग्रीववधोत्पन्नां ब्रह्महत्यां बलीयसीम् ।। ४७ ।।

तद्बिलं प्रापयामास जानकीरमणो द्विजाः ।।

तस्योपरि बिलस्याथ कृत्वा मण्डपमुत्तमम् ।। ४८ ।।

भैरवं स्थापयामास रक्षार्थं तत्र राघवः ।।

भैरवाज्ञापरित्रस्ता ब्रह्महत्या भयंकरी ।। ४९ ।।

नाशक्नोत्तद्बिलादूर्ध्वं निर्गंतुं द्विजसत्तमाः ।।

तस्मिन्नेव बिले तस्थौ ब्रह्महत्या निरुद्यमा ।। 3.1.47.५० ।।

रामनाथमहालिंगं दक्षिणे गिरिजा मुदा ।।

वर्तते परमानंदशिवस्यार्धशरीरिणी ।। ५१ ।।

आदित्यसोमौ वर्तेते पार्श्वयोस्तत्र शूलिनः ।।

देवस्य पुरतो वह्नी रामनाथस्य वर्तते ।। ५२ ।।

आस्ते शतक्रतुः प्राच्यामाग्नेयां च तथाऽनलः ।।

आस्ते यमो दक्षिणस्यां रामनाथस्य सेवकः ।। ५३ ।।

नैर्ऋते निर्ऋतिर्विप्रा वर्तते शंकरस्य तु ।।

वारुण्यां वरुणो भक्त्या सेवते राघवेश्वरम् ।। ५४ ।।

वायव्ये तु दिशो भागे वायुरास्ते शिवस्य तु ।।

उत्तरस्यां च धनदो रामनाथस्य वर्तते ।। ५५ ।।

ईशान्येऽस्य च दिग्भागे महेशो वर्तते द्विजाः ।।

विनायक कुमारौ च महादेवसुतावुभौ ।। ५६ ।।

यथाप्रदेशं वर्तेते रामनाथालयेऽधुना ।।

वीरभद्रादयः सर्वे महेश्वरगणेश्वराः ।। ५७ ।।

यथाप्रदेशं वर्तंते रामनाथालये सदा ।।

मुनयः पन्नगाः सिद्धा गन्धर्वाप्सरसां गणाः ।। ५८ ।।

संतुष्यमाणहृदया यथेष्टं शिवसन्निधौ ।।

वर्तंते रामनाथस्य सेवार्थं भक्तिपूर्वकम् ।। ५९ ।।

रामनाथस्य पूजार्थं श्रोत्रियान्ब्राह्मणान्बहून् ।।

रामेश्वरे रघुपतिः स्थापयामास पूजकान् ।। 3.1.47.६० ।।

रामप्रतिष्ठितान्विप्रान्हव्यकव्यादिनार्चयेत् ।।

तुष्टास्ते तोषिताः सर्वा पितृभिः सहदेवताः ।। ६१ ।।

तेभ्यो बहुधनान्ग्रामान्प्रददौ जानकीपतिः ।।

रामनाथमहादेव नैवेद्यार्थमपि द्विजाः ।। ६२ ।।

बहून्ग्रामान्बहुधनं प्रददौ लक्ष्मणाग्रजः ।।

हारकेयूरकटकनिष्काद्याभरणानि च ।। ६३ ।।

अनेकपट्ट वस्त्राणि क्षौमाणि विविधानि च ।।

रामनाथाय देवाय ददौ दशरथात्मजः ।। ६४ ।।

गंगा च यमुना पुण्या सरयूश्च सरस्वती ।।

सेतौ रामेश्वरं देवं भजंते स्वाघशांतये ।। ६५ ।।

एतदध्यायपठनाच्छ्रवणादपि मानवः ।।

विमुक्तः सर्वपापेभ्यः सायुज्यं लभते हरेः ।। ६६ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामस्य ब्रह्महत्योत्पत्तिहेतुनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः ।। ४७ ।। ।। ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 48

।। श्रीसूत उवाच ।। ।।

रामनाथं समुद्दिश्य कथां पापविनाशिनीम् ।।

प्रवक्ष्यामि मुनिश्रेष्ठाः शृणुध्वं सुसमाहिताः ।। १ ।।

पांड्यदेशाधिपो राजा पुरासीच्छंकराभिधः ।।

ब्रह्मण्यः सत्यसंधश्च यायजूकश्च धार्मिकः ।। २ ।।

वेदवेदांगतत्त्वज्ञः परसैन्यविदारणः ।।

चतुरोऽप्याश्रमान्वर्णान्धर्मतः परिपालयन्।। ३ ।।

वैदिकाचारनिरतः पुराणस्मृतिपारगः ।।

शिवविष्ण्वर्चको नित्यमन्यदैवतपूजकः ।। ४ ।।

महादानप्रदो नित्यं ब्राह्मणानां महात्मनाम् ।।

मृगयार्थं ययौ धीमान्स कदाचित्तपोवनम् ।। ५ ।।

सिंहव्याघ्रेभमहिष क्रूरसत्वभयंकरम्।।

झिल्लिकाभीषणरवं सरीसृपसमाकुलम्।। ६ ।।

भीमश्वापदसंपूर्णं दावानलभयंकरम् ।।

महारण्यं प्रविश्याथ शंकरो राजशेखरः ।। ।। ७ ।।

अनेकसैनिकोपेत आखेटिकुलसंकुलः ।।

पादुकागूढचरणो रक्तोष्णीषो हरिच्छदः ।। ८ ।।

बद्धगोधांगुलित्राणो धृतकोदण्डसायकः ।।

कक्ष्याबद्धमहाखङ्गः श्वेताश्ववरमास्थितः ।। ९ ।।

सुवेषधारी सन्नद्धः पत्तिसंघसमावृतः ।।

कांतारेषु च सर्वेषु पर्वतेषु गुहासु च ।। 3.1.48.१० ।।

समुत्तीर्ण महास्रोता युवा सिंहपराक्रमः ।।

विचचार बलैः साकं दरीषु मृगयन्मृगान् ।। ११ ।।

बध्यतां वध्यतामेष याति वेगान्मृगो वने ।।

एवं वदत्सु सैन्येषु स्वयमुत्प्लुत्य शंकरः ।। १२ ।।

मृगं हंति महाराजो विगाह्य विपिनस्थलीम् ।।

सिंहान्वराहान्महिषान्कुञ्जराच्छरभांस्तथा ।। १३ ।।

विनिघ्नन्स मृगानन्यान्वन्याञ्छंकरभूपतिः ।।

कुत्रचिद्विपिनोद्देशे दरीमध्यनिवासिनम् ।। १४ ।।

व्याघ्रचर्मधरं शांतं मुनिं नियतमानसम् ।।

व्याघ्रबुद्ध्या जघानाशु शरेणानतपर्वणा ।। १५ ।।

अतिवेगेन विप्रेंद्रास्तत्पत्नीं च ससायकः ।।

निजघान पतिप्राणां निविष्टां पत्युरंतिके ।।१६।।

विलोक्य मातापितरौ तत्पुत्रो निहतौ वने ।।

रुरोद भृशदुःखार्तो विललाप च कातरः ।।१७।।

भोस्तात मातर्मां हित्वा युवां यातौ क्व वाधुना ।।

अहं कुत्र गमिष्यामि को वा मे शरणं भवेत् ।। १८ ।।

को मामध्यापयेद्वेदाञ्छास्त्रं वा पाठयेत्पितः ।।

अंब मे भोजनं का वा दास्यते सोपदेशकम् ।। १९ ।।

आचाराञ्च्छिक्षयेत्को वा तात त्वयि मृतेऽधुना ।।

अंब बालं प्रकुपितं का वा मामुपलाप()येत् ।। 3.1.48.२० ।।

युवां निरागसावद्य केन पापेन सायकैः ।।

निहतौ वै तपोनिष्ठौ मत्प्राणौ मद्गुरू वने ।। २१ ।।

एवं तयोः सुतो विप्रा मुक्तकण्ठं रुरोद वै ।।

अथ प्रलपितं श्रुत्वा शंकरो विपिने चरन् ।। २२ ।।

तच्छब्दाभिमुखः सद्यः प्रययौ स दरीमुखम् ।।

तत्रत्या मुनयोऽप्याशु समागच्छंस्तमाश्रमम् ।। २३ ।।

ते दृष्ट्वा मुनयः सर्वे शरेण निहतं मुनिम्।।

तत्पत्नीं च हतां विप्रा राजानं च धनुर्धरम् ।। २४ ।।

विलपंतं सुतं चापि विलोक्य भृशविह्वलाः ।।

पुत्रमाश्वासयामासुर्मा रोदीरिति कातरम् ।। २५ ।।

।। मुनय ऊचुः ।। ।।

आढ्ये वापि दरिद्रे वा मूर्खे वा पंडितेऽपि वा ।।

पीने वाथ कृशे वापि समवर्ती परेतराट् ।। २६ ।।

वने वा नगरे ग्रामे पर्वते वा स्थलांतरे ।।

मृत्योर्वशे प्रयातव्यं सर्वैरपि हि जंतुभिः ।। २७ ।।

वत्स नित्यं च गर्भस्थैर्जातैरपि च जंतुभिः ।।

युवभिः स्थविरैः सर्वैर्यातव्यं यमपत्तनम् ।। २८ ।।

वर्णिभिश्च गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ।।

काले प्राप्ते त्वयं देहस्त्यक्तव्यो द्विजपुत्रक ।। २९ ।।

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरपि च संकरैः ।।

यातव्यं प्रेतनिलये द्विजपुत्र महामते ।। 3.1.48.३० ।।

देवाश्च मुनयो यक्षा गंधर्वोरगराक्षसाः ।।

अन्ये च जंतवः सर्वे ब्रह्मविष्णुहरादयः ।। ३१ ।।

सर्वे यास्यंति विलयं न त्वं शोचितुमर्हसि ।।

अद्वयं सच्चिदानंदं यद्ब्रह्मोपनिषद्गतम् ।। ३२ ।।

न तस्य विलयो जन्म वर्धनं चापि सत्तम ।।

मलभांडे नवद्वारे पूयासृक्छोणितालये ।। ३३ ।।

देहेऽस्मिन्बुद्बुदाकारे कृमियूथसमाकुले ।।

कामक्रोधभयद्रोहमोहमात्सर्यकारिणि ।। ३४ ।।

परदारपरक्षेत्रपरद्रव्यैकलोलुपे ।।

हिंसासूयाशुचिव्याप्ते विष्ठामूत्रैकभाजने ।। ३५ ।।

यः कुर्याच्छोभनधियं स मूढः स च दुर्मतिः ।।

बहुच्छिद्रघटाकारे देहेऽस्मिन्नशुचौ सदा ।। ३६ ।।

वायोरवस्थितिः किं स्यात्प्राणाख्यस्य चिरं द्विज ।।

अतो मा कुरु शोकं त्वं जननीं पितरं प्रति ।। ३७ ।।

तौ स्वकर्मवशाद्यातौ गृहं त्यक्त्वा त्विदं क्वचित्।।

तव कर्मवशात्त्वं च तिष्ठस्यस्मिन्महीतले ।। ३८ ।।

यदा कर्मक्षयस्ते स्यात्तदा त्वं च मरिष्यसि ।।

मरिष्यमाणप्रेतो हि मृतप्रेतस्य शोचति ।। ३९ ।।

यस्मिन्काले समुत्पन्नौ तव माता पिता तथा ।।

न तस्मिंस्त्वं समुत्पन्नस्ततो भिन्ना गतिर्हि वः ।। 3.1.48.४० ।।

यदि तुल्या गतिस्ते स्यात्ताभ्यां सह महामते ।।।

तर्हि त्वयापि यातव्यं मृतौ यत्र हि तौ गतौ ।।४१।।

मृतानां बांधवा ये तु मुंचंत्यश्रूणि भूतले ।।

पिबंत्यश्रूणि तान्यद्धा मृताः प्रेताः परत्र वै ।। ४२।।

अतः शोकं परित्यज्य धृतिं कृत्वा समाहितः ।।

अनयोः प्रेतकार्याणि कुरु त्वं वैदिकानि तु ।। ४३ ।।

शरघातान्मृतावेतौ यस्मात्ते जननी पिता ।।

अतस्तद्दोषशांत्यर्थमस्थीन्यादाय वै तयोः ।। ४४ ।।

रामनाथशिवक्षेत्रे रामसेतौ विमुक्तिदे ।।

स्थापयस्व तथा श्राद्धं सपिंडीकरणादिकम् ।। ४५ ।।

तत्रैव कुरु शुद्ध्यर्थं तयोर्बाह्मणपुत्रक ।।

तेन दुर्मृत्युदोषस्य शांतिर्भवति नान्यथा ।। ४६ ।।

।। श्रीसूत उवाच ।। ।।

एवमुक्तः स मुनिभिः शाकल्यस्य सुतो द्विजाः ।।

जांगलाख्यस्तयोः सर्वं पितृमेधं चकार वै ।। ४७ ।।

अन्येद्युरस्थीन्यादाय हालास्यं प्रययौ च सः ।।

तस्माद्रामेश्वरं सद्यो गत्वाऽयं जांगलो द्विजः।।४८।।

मुनिप्रोक्तप्रकारेण तस्मिन्रामेश्वरस्थले।।

निधाय पित्रोरस्थीनि श्राद्धादीन्यकरोत्तथा।।४९।।

प्रथमाब्दिकपर्यंतं कार्यं तत्राकरोच्च सः।।

स्थित्वाब्दं स मुनेः पुत्र एको जांगलसंज्ञकः।।3.1.48.५।।।

आब्दिकांते दिने विप्रो रात्रौ स्वप्ने विलोक्य तु।।

स्वमातरं च पितरं शंखचक्रगदाधरौ।।५१।।

गरुडोपरि संविष्टौ पद्ममालाविभूषितौ।।

शोभितौ तुलसीदाम्ना स्फुरन्मकरकुंडलौ।।५२।।

कौस्तुभालंकृतोरस्कौ पीतांबरविराजितौ ।।

एवं दृष्ट्वा मुनिसुतो जांगलः सुप्रसन्नधीः ।। ५३ ।।

स्वाश्रमं पुनरागत्य सुखेन न्यवसद्द्विजाः ।।

स्वप्नदृष्टं च वृत्तांतं मातापित्रोः स जांगलः ।। ५४ ।।

तेभ्यो न्यवेदयत्सर्वं ब्राह्मणेभ्योऽतिहर्षितः ।।

श्रुत्वा ते मुनयो वृत्तमासन्संप्रीतमानसाः ।। ५५ ।।

अथ राजानमालोक्य सर्वे तेऽपि महर्षयः ।।

अवदन्कुपिता विप्राः शपंतः शंकरं नृपम् ।। ५६ ।।

पांड्यभूप महामूर्ख क्रौर्याद्ब्राह्मणघातक ।।

स्त्रीहत्या ब्रह्महत्या च कृता यस्मात्त्वयाधुना ।। ५७ ।।

अतः शरीरसंत्यागं कुरु त्वं हव्यवाहने ।।

नोचेत्तव न शुद्धिः स्यात्प्रायश्चित्तशतैरपि ।। ५८ ।।

त्वत्संभाषणमात्रेण ब्रह्महत्यायुतं भवेत् ।।

अस्मत्सकाशाद्गच्छ त्वं पांड्यानां कुलपांसन ।। ५९ ।।

इत्युक्तो मुनिभिः पांड्यः शंकरो द्विजपुंगवाः ।।

तथास्तु देहसंत्यागं करिष्ये हव्यवाहने ।। 3.1.48.६० ।।

ब्रह्महत्याविशुद्ध्यर्थं भवतां सन्निधावहम् ।।

अनुग्रहं मे कुर्वंतु भवंतो मुनिसत्तमाः ।। ६१ ।।

तथा शरीर संत्यागात्पातकं मे लयं व्रजेत् ।।

एवमुक्त्वा मुनीन्सर्वाञ्च्छंकरः पांड्यभूपतिः ।। ६२ ।।

स्वान्मंत्रिणः समाहूय बभाषे वचनं त्विदम् ।।

भो मंत्रिणो ब्रह्महत्या मयाऽकार्यविचारतः ।। ६३ ।।

स्त्रीहत्या च तथा क्रूरा महानरकदायिनी ।।

एतत्पातकशुद्ध्यर्थं मुनीनां वचनादहम् ।। ६४ ।।

प्रदीप्ते ऽग्नौ महाज्वाले परित्यक्ष्ये कलेवरम् ।।

काष्ठान्यानयत क्षिप्रं तैरग्निश्च समिध्यताम् ।। ६५ ।।

मम पुत्रं च सुरुचिं राज्ये स्थापयताचिरात् ।।

मा शोकं कुरुतामात्या दैवतं दुरतिक्रमम् ।। ६६ ।।

इतीरिता नृपतिना मंत्रिणो रुरुदुस्तदा ।।

पांड्यनाथ महाराज रिपूणामपि वत्सल ।। ६७ ।।

वयं हि भवता नित्यं पुत्रवत्परिपालिताः ।।

त्वां विना न प्रवेक्ष्याम पुरीं देवपुरोपमाम् ।। ६८ ।।

हव्यवाहं प्रवेक्ष्यामो महा काष्ठसमेधितम् ।।

तेषां प्रलपितं श्रुत्वा पांड्य शंकरभूपतिः ।।

प्रोवाच मंत्रिणः सर्वान्वचनं सांत्वपूर्वकम् ।। ६९ ।।

।। शंकर उवाच ।।

किं करिष्यथ भोऽमात्या महापातकिना मया ।। 3.1.48.७० ।।

सिंहासनं समारुह्य न कर्तुं युज्यते बत ।।

चतुरर्णवपर्यंतधरापालनमंजसा ।। ७१ ।।

मत्पुत्रं सुरुचिं शीघ्रमतः स्थापयतासने ।।

काष्ठान्यानयत क्षिप्रं प्रवेष्टुं हव्यवाहनम् ।। ७२ ।।

मम मंत्रिवरा यूयं विलंबं त्यजताधुना ।।

इत्युक्ता मंत्रिणः काष्ठं समानिन्युः क्षणेन ते ।। ७३ ।।

अग्निं प्रज्वलितं काष्ठैर्दृष्ट्वा शंकरभूपतिः ।।

स्नात्वाचम्य विशुद्धात्मा मुनीनां संनिधौ तदा ।। ७४ ।।

अग्निं प्रदक्षिणीकृत्य तान्मुनीनपि सत्वरम्।।

अग्निं मुनीन्नमस्कृत्य ध्यात्वा देवमुमापतिम्।।७५।।

अग्नौ पतितुमारेभे धैर्यमालंब्य भूपतिः।।

तस्मिन्नवसरे विप्रा मुनीनामपि शृण्वताम्।।७६।।

अशरीरा समुदभूद्वाणी भैरवनादिनी।।

भोः शंकर महीपाल मानलं प्रविशाधुना।।७७।।

ब्रह्महत्यानिमित्तं ते भयं मा भून्महामते ।।

तवोपदेशं वक्ष्यामि रहस्यं वेदसंमितम् ।। ७८ ।।

शृणुष्वावहितो राजन्मदुक्तं क्रियतां त्वया ।।

दक्षिणांबुनिधेस्तीरे गंधमादनपर्वते ।। ७९ ।।

रामसेतौ महापुण्ये महापातकनाशने ।।

रामप्रतिष्ठितं लिगं रामनाथं महेश्वरम् ।। 3.1.48.८० ।।

सेवस्व वर्षमेकं त्वं त्रिकालं भक्तिपूर्वकम् ।।

प्रदक्षिणप्रक्रमणं नमस्कारं च वै कुरु ।। ८१ ।।

महाभिषेकः क्रियतां रामनाथस्य वै त्वया ।।

नैवेद्यं विविधं राजन्क्रियतां च दिनेदिने ।। ८२ ।।

चन्दनागरुकर्पूरै रामलिंगं प्रपूजय ।।

भारद्वयेन गव्येन ह्याज्येन त्वभिषेचय ।। ८३ ।।

प्रत्यहं च गवां क्षीरैर्द्विभारपरिसंमितैः ।।

मधुद्रोणेन तल्लिंगं प्रत्यहं स्नापय प्रभोः ।। ८४ ।।

प्रत्यहं पायसान्नेन नैवेद्यं कुरु भूपते ।।

प्रत्यहं तिलतैलेन दीपाराधनमाचर ।। ८५ ।।

एतेन तव राजेंद्र रामनाथस्य शूलिनः ।।

स्त्रीहत्य्रा ब्रह्महत्या च तत्क्षणादेव नश्यतः ।। ८६ ।।

दर्शनाद्रामनाथस्य भ्रूणहत्याशतानि च ।।

अयुतं ब्रह्महत्यानां सुरापानायुतं तथा ।। ८७ ।।

स्वर्णस्तेयायुतं राजन्गुरुस्त्रीगमनायुतम् ।।

एतत्संसर्गदोषाश्च विनश्यंति क्षणाद्विभो।।८८।।

महापातकतुल्यानि यानि पापानि संति वै ।।

तानि सर्वाणि नश्यंति रामनाथस्य सेवया ।। ८९ ।।

महती रामनाथस्य सेवा लभ्येत चेन्नृणाम् ।।।

किं गंगया च गयया प्रयागेणाध्वरेण वा ।। 3.1.48.९० ।।

तद्गच्छ रामसेतुं त्वं रामनाथं भजानिशम् ।।

विलंबं मा कुरु विभो गमने च त्वरां कुरु ।।९१।।।

इत्युक्त्वा विररामाथ सापि वागशरीरिणी ।।

तच्छ्रुत्वा मुनयः सर्वे त्वरयंति स्म भूपतिम् ।। ९२ ।।

गच्छ शीघं महाराज रामसेतुं विमुक्तिदम् ।।।

रामनाथस्य माहात्म्यमज्ञात्वास्माभिरीरितम् ।। ९३ ।।

देहत्यागं कुरुष्वेति वह्नौ प्रज्वलितेऽधुना ।।

अनुज्ञातो मुनिवरैरिति राजा स शंकरः ।।।। ।। ९४ ।।

चतुरंगबलं पुर्यां प्रापयित्वा त्वरान्वितः ।।

नमस्कृत्य मुनीन्सर्वान्प्रहृष्टेनांतरात्मना ।। ९५ ।।

वृतः कतिपयैः सैन्यैः समादाय धनं बहु ।।

रामनाथस्य सेवार्थमयासीद्गंधमादनम् ।। ९६ ।।

उवास वर्षमेकं च रामसेतौ विशुद्धिदे ।।

एकभुक्तो जितक्रोधो विजितेंद्रियसंचयः ।। ।। ९७ ।।

त्रिसंध्यं रामनाथं च सेवमानः सभक्तिकम् ।।

प्रददौ रामनाथाय दशभारं धनं मुदा ।। ९८ ।।

प्रत्यहं रामनाथस्य महापूजामकारयत् ।।

अकरोच्च धनुष्कोटौ प्रत्यहं भक्तिपूर्वकम् ।। ९९ ।।

स्नानं प्रतिदिनं चान्नं ब्राह्मणेभ्य ददौ मुदा ।।

अशरीरावचःप्रोक्तमखिलं पूजनं तथा ।। 3.1.48.१०० ।।

एवं कृतवतस्तस्य वर्षमेकं गतं द्विजाः ।।

वर्षांते स शुचिर्भूत्वा शंकरस्तुष्टमानसः ।।

तुष्टाव परमेशानं रामनाथं घृणानिधिम् ।। १ ।।

।।शंकर उवाच ।। ।।

नमामि रुद्रमीशानं रामनाथमुमापतिम् ।। २ ।।

पाहि मां कृपया देव ब्रह्महत्यां दहाशु मे ।।

त्रिपुरघ्न महादेव कालकूटविषादन ।। ३ ।।

रक्ष मां त्वं दयासिंधो स्त्रीहत्यां मे विमोचय ।।

गंगाधर विरूपाक्ष रामनाथ त्रिलोचन ।। ४ ।।

मां पालय कृपादृष्ट्या छिन्धि मत्पातकं विभो ।।

कामारे कामसंदायिन्भक्तानां राघवेश्वर ।। ।। ।। ५ ।।

कटाक्षं पातय मयि शुद्धं मां कुरु धूर्जटे ।।

मार्कंडेयभयत्राण मृत्युंजय शिवाव्यय ।। ६ ।।

नमस्ते गिरिजार्धाय निष्पापं कुरु मां सदा ।।

रुद्राक्षमालाभरण चन्द्रशेखर शंकर ।। ७ ।।

वेदोक्तसम्यगाचारयोग्यं मां कुरु ते नमः ।।

सूर्यदंतभिदे तुभ्यं भारतीनासिकाच्छिदे ।। ८ ।।

रामेश्वराय देवाय नमो मे शुद्धिदो भव ।।

आनंदं सच्चिदानंदं रामनाथं वृषध्वजम् ।। ९ ।।

भूयोभूयो नमस्यामि पातकं मे विनश्यतु ।।

भक्त्यैवं स्तुवतस्तस्य रामनाथं महेश्वरम् ।। 3.1.48.११० ।।

निर्जगाम मुखाद्राज्ञो ब्रह्महत्यातिभीषणा ।।

नीलवस्त्रधरा क्रूरा महारक्तशिरोरुहा ।। ११ ।।

तां ब्रह्महत्यां बीभत्सां नृपवक्त्राद्विनिर्गताम् ।।

निजघान त्रिशूलेन भैरवो रुद्रशासनात् ।। १२ ।।

हतायां ब्रह्महत्यायां भैरवेण शिवाज्ञया ।।

रामनाथो नृपं प्राह स्तुत्या तस्य प्रसन्नधीः ।। १३ ।।

।। श्रीरामनाथ उवाच ।। ।।

पांड्यभूप महाराज स्तोत्रेणानेन तेऽनघ ।।

प्रसन्नोऽहं वरं दास्ये तुभ्यं वरय चेप्सितम् ।। १४ ।।

स्त्रीहत्याब्रह्महत्याभ्यां यस्ते दोषः स निर्गतः ।।

शुद्धो विधूतपापोऽसि राज्यं पालय पूर्ववत् ।। १५ ।।

ये मामत्र निषेवंते भक्तियुक्तेन चेतसा ।।

नाशयामि नृणां तेषां ब्रह्महत्यायुतान्यपि ।। १६ ।।

सुरापानायुतं भूप गुरुस्त्रीगमनायुतम् ।।

स्वर्णस्तेयायुतमपि तत्संसर्गायुतं तथा ।। १७ ।।

अन्यान्यपि च पापानि नाशयामि न संशयः ।।

मत्सेविनो नरा राजन्न भूयः संसरंति ते ।। १८ ।।

किं तु सायुज्यरूपां मे मुक्तिं यास्यन्त्यसंशयम् ।।

स्तुवंत्यनेन स्तोत्रेण ये मां भक्तिपुरःसरम् ।। १९ ।।

नाशयाम्यहमेतेषां महापातकसंचयम् ।।

प्रीतोऽहं तव भक्त्या च स्तोत्रेण मनुजेश्वर ।। 3.1.48.१२० ।।

यथेष्टं प्रार्थय वरं मत्तस्त्वं वरदान्नृप ।।

एवमुक्तः शिवेनाथ शंकरो नृपपुंगवः ।।

रामनाथं बभाषे तं शंकरं करुणानिधिम् ।। २१ ।।

।। नृप उवाच ।। ।।

तव संदर्शनेनाहं कृतार्थोऽस्मि महेश्वर ।। २२ ।।

इतः परं प्रार्थनीयं मम नास्त्यधुनाधिकम् ।।

मृकण्डुसुतसंतापहारि पादयुगं तव ।। २३ ।।

दृष्टं मया महादेव नातः प्रार्थ्यं विभोस्ति वै ।।

त्वत्पादपद्मयुगुले निश्चला भक्तिरस्तु मे ।। २४ ।।

न पुनर्जन्म मे भूयान्मातॄणामुदरेऽशुचौ ।।

ये मत्कृतमिदं स्तोत्रं कीर्तयंति तव प्रभो ।।

ते नराः पापनिर्मुक्तास्त्वत्सेवाफलमाप्नुयुः ।।२५।। ।।

।। श्रीसूत उवाच ।। ।।

तथास्त्वित्यनुगृह्यैनं रामनाथो द्विजोत्तमाः ।। २६ ।।

नीलकण्ठो विरूपाक्षो लिंगरूपे तिरोहितः ।।

राजापि रामनाथेन विहितानुग्रहस्ततः ।। २७ ।।

रामनाथं नमस्कृत्य कृतार्थेनांतरात्मना ।।

स सेनासंवृतः प्रीतः प्रययावात्मनः पुरीम् ।। २८ ।।

वृत्तांतमेतमवदन्मुनीनां वनवासिनाम् ।।

तेभ्यषिंचन्नृपं राज्ये मुनयः प्रीतमानसाः ।। २९ ।।

पुत्रदारयुतो राजा प्राप्य राज्यमकण्टकम् ।।

मंत्रिभिः सहितो विप्रा ररक्ष पृथिवीं चिरम् ।। 3.1.48.१३० ।।

ततोंतकाले संप्राप्ते ध्यायन्रामेश्वरं शिवम् ।।

देहांते रामनाथस्य सायुज्यं प्रययौ शुभम् ।। ३१ ।।

एवं वः कथितं विप्रा रामनाथस्य वैभवम् ।।

चरितं पुण्यमाख्यानं शंकराख्य नृपस्य च ।। ३२ ।।

शृण्वन्पठन्वा मनुजस्त्विममध्यायमादरात् ।।

सर्वपापविनिर्मुक्तो रामनाथं समश्नुते ।। १३३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथप्रशंसायां शाकल्यदुर्मरणदोषशांतिपूर्वक शंकरस्त्रीहत्याब्रह्महत्यादोषशांतिवर्णनंनामाष्टचत्वारिंशोऽध्यायः ।। ४८ ।। ।। छ ।। ।। ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 49

।। श्रीसूत उवाच ।। ।।

अथातः संप्रवक्ष्यामि रामनाथस्य शूलिनः ।।

स्तोत्राध्यायं महापुण्यं शृणुत श्रद्धया द्विजाः ।। ।। १ ।।

रामः प्रतिष्ठिते लिंगे तुष्टाव परमेश्वरम् ।।

लक्ष्मणो जानकी सीता सुग्रीवाद्याः कपीश्वराः ।। २ ।।

ब्रह्मप्रभृतयो देवाः कुम्भजाद्या महर्षयः ।।

अस्तुवन्भक्तिसंयुक्ताः प्रत्येकं राघवेश्वरम् ।। ३ ।।

तद्वक्ष्याम्यानुपूर्व्येण शृणुतादरपूर्वकम् ।।

एतच्छ्रवणमात्रेण मुक्तः स्या न्मानवो द्विजाः ।। ४ ।।

।। श्रीराम उवाच ।। ।।

नमो महात्मने तुभ्यं महामायाय शूलिने ।।

स्वपदांबुजभक्तार्तिहारिणे सर्प हारिणे ।। ५ ।।

नमो देवाधिदेवाय रामनाथाय साक्षिणे ।।

नमो वेदांतवेद्याय योगिनां तत्त्वदायिने ।। ६ ।।

सर्वदानंदपूर्णाय विश्वनाथाय शंभवे ।।

नमो भक्तभयच्छेदहेतुपादाब्जरेणवे ।। ७ ।।

नमस्तेऽखिलनाथाय नमः साक्षात्परात्मने ।।

नमस्तेऽद्भुतवीर्याय महापातकनाशिने ।। ।। ८ ।।

कालकालाय कालाय कालातीताय ते नमः ।।

नमोऽविद्यानिहंत्रे ते नमः पापहराय च ।। ९ ।।

नमः संसारतप्तानां तापनाशैकहेतवे ।।

नमो मद्ब्रह्महत्याविनाशिने च विषाशिने ।। 3.1.49.१० ।।

नमस्ते पार्वतीनाथ कैलासनिलयाव्यय ।।

गंगाधर विरूपाक्ष मां रक्ष सकलापदः ।। ११ ।।

तुभ्यं पिनाकहस्ताय नमो मदनहारिणे ।।

भूयोभूयो नमस्तुभ्यं सर्वावस्थासु सर्वदा ।। १२ ।।

।। लक्ष्मण उवाच ।। ।।

नमस्ते रामनाथाय त्रिपुरघ्नाय शंभवे ।।

पार्वतीजीवितेशाय गणेशस्कन्दसूनवे ।। १३ ।।

नमस्ते सूर्यचद्राग्निलोचनाय कपर्दिने ।।

नमः शिवाय सोमाय मार्कंडेय भयच्छिदे ।। १४ ।।

नमः सर्वप्रपंचस्य सृष्टिस्थित्यंतहेतवे ।।

नम उग्राय भीमाय महादेवाय साक्षिणे ।। १५ ।।

सर्वज्ञाय वरेण्याय वरदाय वराय ते ।।

श्रीकण्ठाय नमस्तुभ्यं पंचपातकभेदिने ।। १६ ।।

नमस्तेऽस्तु परानंदसत्यविज्ञानरूपिणे ।।

नमस्ते भवरोगघ्न स्नायूनां पतये नमः ।। ।। १७ ।।

पतये तस्कराणां ते वनानां पतये नमः ।।

गणानां पतये तुभ्यं विश्वरूपायसाक्षिणे ।।१८ ।।

कर्मणा प्रेरितः शम्भो जनिष्ये यत्रयत्र तु ।।

तत्रतत्र पदद्वंद्वे भवतो भक्तिरस्तु मे ।। १९ ।।

असन्मार्गे रतिर्मा भूद्भवतः कृपया मम ।।

वैदिकाचारमार्गे च रतिः स्याद्भवते नमः ।। 3.1.49.२० ।। ।।

।। सीतोवाच ।। ।।

परमकारण शंकर धूर्जटे गिरिसुतास्तनकुंकुमशोभित ।।

मम पतौ परिदेहि मतिं सदा न विषमां परपूरुषगोचराम् ।। ।। २१ ।।

गंगाधर विरूपाक्ष नीललोहित शंकर ।।

रामनाथ नमस्तुभ्यं रक्ष मा करुणाकर ।। २२ ।।

नमस्ते देवदेवेश नमस्ते करुणालय ।।।

नमस्ते भवभीतानां भवभीतिविमर्दन ।। २३ ।।

नाथ त्वदीयचरणांबुजचिंतनेन निर्द्धूय भास्करसुताद्भयमाशु शम्भो ।।

नित्यत्वमाशु गतवान्स मृकंडुपुत्रः किं वा न सिध्यति तवाश्रयणात्परेश ।। २४ ।।

परेशपरमानंद शरणागतपालक ।।

पातिव्रत्यं मम सदा देहि तुभ्यं नमोनमः ।। ।। २५ ।।

।। हनूमानुवाच ।। ।।

देवदेव जगन्नाथ रामनाथ कृपानिधे ।।

त्वत्पादांभोरुहगता निश्चला भक्तिरस्तु मे ।। २६ ।।

यं विना न जगत्सत्ता तद्भानमपि नो भवेत्।।

नमः सद्भानरूपाय रामनाथाय शंभवे ।। २७ ।।

अंगद उवाच ।। ।।

यस्य भासा जगद्भानं यत्प्रकाशं विना जगत् ।।

न भासते नमस्तस्मै रामनाथाय शंभवे ।। २८ ।।

।। जांबुवानुवाच ।। ।।

सर्वानंदो यदानंदो भासते परमार्थतः ।।

नमो रामेश्वरायास्मै परमानंदरूपिणे ।। २९ ।।

।। नील उवाच ।। ।।

यद्देशकालदिग्भेदैरभिन्नं सर्वदा द्वयम् ।।

तस्मै रामेश्वरायास्मै नमोऽभिन्नस्व रूपिणे ।। 3.1.49.३० ।।

।। नल उवाच ।। ।।

ब्रह्मविष्णुमहेशाना यदविद्याविजृंभिताः ।।

नमोऽविद्याविहीनाय तस्मै रामेश्वराय ते ।। ३१ ।।

।। कुमुद उवाच ।। ।।

यस्त्वरूपापरिज्ञानात्प्रधानं कारणत्वतः ।।

कल्पितं कारणायास्मै रामनाथाय शंभवे ।। ३२ ।।

।। पनस उवाच ।। ।।

जाग्रत्स्वप्नसुषुप्त्यादियदविद्याविजृंभितम् ।।

जाग्रदादिविहीनाय नमोऽस्मै ज्ञानरूपिणे ।। ३३ ।।

।। गज उवाच ।। ।।

यत्स्वरूपापरिज्ञानात्कार्याणां परमा णवः ।।

कल्पिताः कारणत्वेन तार्किकापसदैर्वृथा ।। ३४ ।।

तमहं परमानंदं रामनाथं महेश्वरम् ।।

आत्मरूपतया नित्यमुपासे सर्वसाक्षिणम् ।। ।। ३५ ।।

।। गवाक्ष उवाच ।। ।।

अज्ञानपाशबद्धानां पशूनां पाशमोचकम् ।।

रामेश्वरं शिवं शांतमुपैमि शरणं सदा ।। ३६ ।। ।।

।। गवय उवाच ।। ।।

साध्वस्तजगदाधारं चंद्रचूडमुमापतिम् ।।

रामनाथं शिवं वन्दे संसारामयभेषजम् ।। ३७ ।। ।।

शरभ उवाच ।। ।।

अंतःकरणमात्मेति यदज्ञानाद्विमोहितैः ।।

भण्यते रामनाथं तमात्मानं प्रणमाम्यहम् ।। ३८ ।।

।। गन्धमादन उवाच ।। ।।

रामनाथमुमानाथं गणनाथं च त्र्यंबकम् ।।

सर्वपातकशुद्ध्यर्थमुपासे जगदीश्वरम् ।।३९ ।।

।। सुग्रीव उवाच ।। ।।

संसारांभोधि मध्ये मां जन्ममृत्युजले भये ।।

पुत्रदारधनक्षेत्रवीचिमालासमाकुले ।। 3.1.49.४० ।।

मज्जद्ब्रह्मांडखंडे च पतितं नाप्तपारकम् ।।

क्रोशंतमवशं दीनं विषयव्या लकातरम् ।। ४१ ।।

व्याधिनक्रसमुद्विग्नं तापत्रयझषार्तिदम् ।।

मां रक्ष गिरिजानाथ रामनाथ नमोऽस्तु ते ।। ४२ ।।

।। विभीषण उवाच ।। ।।

संसारवनमध्ये मां विनष्टनिजमार्गके ।।

व्याधिचौरे क्रोधसिंहे जन्मव्याघ्रे लयोरगे ।। ४३ ।।

बाल्ययौवनवार्धक्यमहाभीमांधकूपके ।।

क्रोधेर्ष्या लोभवह्नौ च विषयक्रूरपर्वते ।। ४४ ।।

त्रासभूकंटकाढ्ये च सीदंतमधुनांधकम् ।।

शोभनां पदवीं शंभो नय रामेश्वराधुना ।। ४५ ।।

।। सर्वे वानरा ऊचुः ।। ।।

निंद्यानिंद्येषु सर्वत्र जनित्वा योनिषु प्रभो ।।

कुंभीपाकादिनरके पतित्वा च पुनस्तथा ।। ४६ ।।

जनित्वा च पुनर्योनौ कर्मशेषेण कुत्सिते ।।

संसारे पतितानस्मान्रामनाथ दयानिधे ।। ४७ ।।

अनाथान्विवशान्दीनान्क्रोशतः पाहि शंकर ।।

नमस्तेस्तु दयासिंधो रामनाथ महेश्वर ।। ४८ ।।

।। ब्रह्मोवाच ।। ।।

नमस्ते लोकनाथाय रामनाथाय शंभवे ।।

प्रसीद मम सर्वेश मदविद्यां विनाशय ।। ४९ ।। ।।

।। इंद्र उवाच ।। ।।

यस्य शक्तिरुमा देवी जगन्माता त्रयीमयी ।।

तमहं शंकरं वंदे रामनाथमुमापतिम् ।। 3.1.49.५० ।।

।। यम उवाच ।। ।।

पुत्रौ गणेश्वरस्कंदौ वृषो यस्य च वाहनम् ।।

तं वै रामेश्वरं सेवे सर्वाज्ञाननिवृत्तये ।। ५१ ।।

।। वरुण उवाच ।। ।।

यस्य पूजाप्रभावेन जित मृत्युर्मृकंडुजः।।

मृत्युंजयमुपासेऽहं रामनाथं हृदा तु तम् ।। ५२ ।।

।। कुबेर उवाच ।। ।।

ईश्वराय लसत्कर्णकुंडलाभरणाय ते ।।

लाक्षारुणशरीराय नमो रामेश्वराय वै ।। ५३ ।।

।। आदित्य उवाच ।। ।।

नमस्तेऽस्तु महादेव रामनाथ त्रियंबक ।।

दक्षाध्वरविनाशाय नमस्ते पाहि मां शिव ।। ५४ ।।

।। सोम उवाच ।। ।।

नमस्ते भस्मदिग्धाय शूलिने सर्पमालिने ।।

रामनाथ दयांभोधे स्मशाननिलयाय ते ।। ५५ ।।

।। अग्निरुवाच ।। ।।

इन्द्राद्यखिलदिक्पालसंसेवितपदांबुज ।।

रामनाथाय शुद्धाय नमो दिग्वाससे सदा ।। ५६ ।।

।। वायुरुवाच ।। ।।

हराय हरिरूपाय व्याघ्रचर्मांबराय च ।।

रामनाथ नमस्तुभ्यं ममाभीष्टप्रदो भव ।। ५७ ।।

।। बृहस्पतिरुवाच ।। ।।

अहंतासाक्षिणे नित्यं प्रत्यगद्वयवस्तुने ।।

रामनाथ ममाज्ञानमाशु नाशय ते नमः ।। ५८ ।। ।।

।। शुक्र उवाच ।। ।।

वंचकानामलभ्याय महामंत्रार्थरूपिणे ।।

नमो द्वैतविहीनाय रामनाथाय शंभवे ।। ५९ ।।

।। अश्विनावूचतुः ।। ।।

आत्मरूपतया नित्यं योगिनां भासते हृदि ।।

अनन्य भानवेद्याय नमस्ते राघवेश्वर ।। 3.1.49.६० ।।

।। अगस्त्य उवाच ।। ।।

आदिदेव महादेव विश्वेश्वर शिवाव्यय ।।

रामनाथांबिकानाथ प्रसीद वृष भध्वज ।। ६१ ।।

अपराधसहस्रं मे क्षमस्व विधुशेखर ।।

ममाहमिति पुत्रादावहंतां मम मोचय ।। ६२ ।।

।। सुतीक्ष्ण उवाच ।। ।।

क्षेत्राणि रत्नानि धनानि दारा मित्राणि वस्त्राणि गवाश्वपुत्राः ।।

नैवोपकाराय हि रामनाथ मह्यं प्रयच्छ त्वमतो विरक्तिम् ।। ६३ ।।

।। विश्वामित्र उवाच ।। ।।

श्रुतानि शास्त्राण्यपि निष्फलानि त्रय्यप्यधीता विफलैव नूनम् ।।

त्वयीश्वरे चेन्न भवेद्धि भक्तिः श्रीरामनाथे शिव मानुषस्य ।।६४।। ।।

।। गालव उवाच ।। ।।

दानानि यज्ञा नियमास्तपांसि गंगादितीर्थेषु निमज्जनानि ।।

रामेश्वरं त्वां न नमंति ये तु व्यर्थानि तेषामिति निश्चयोऽत्र ।। ६५ ।।

।। वसिष्ठ उवाच ।। ।।

कृत्वापि पापान्यखिलानि लोकस्त्वामेत्य रामेश्वर भक्तियुक्तः ।।

नमेत चेत्तानि लयं व्रजेयुर्यथांधकारो रवितेजसाऽद्धा ।। ६६ ।।

।। अत्रिरुवाच ।। ।।

दृष्ट्वा तु रामेश्वरमेकदापि स्पृष्ट्वा नमस्कृत्य भवंतमीशम् ।।

पुनर्न गर्भं स नरः प्रयायात्किं त्वद्वयं ते लभतं स्वरूपम् ।। ६७ ।।

अंगिरा उवाच ।।

यो रामनाथं मनुजो भवंतमुपेत्य बंधून्प्रणमन्स्मरेत ।।

संतारयेत्तानपि सर्वपापात्किम द्भुतं तस्य कृतार्थतायाम्।। ६८ ।।

।। गौतम उवाच ।। ।।

श्रीरामनाथेश्वर गूढमेत्तद्रहस्यभूतं परमं विशोकम् ।।

त्वत्पादमूलं भजतां नृणां ये सेवां प्रकुर्वंति हि तेऽपि धन्याः ।। ६९ ।।

।। शतानंद उवाच ।। ।।

वेदांतविज्ञानरहस्यविद्भिर्विज्ञेयमेतद्धि मुमुक्षुभिस्तु ।।

शास्त्राणि सर्वाणि विहाय देव त्वत्सेवनं यद्रघुवीरनाथ ।। 3.1.49.७० ।।

।। भृगुरुवाच ।। ।।

रामनाथ तव पादपंकजं द्वंद्वचिंतनविधूतकल्मषः ।।

निर्भयं व्रजति सत्सुखाद्वयं सुप्रभं त्वथ अमोघचिद्धनम् ।। ७१ ।।

।। कुत्स उवाच ।। ।।

रामनाथ तव पादसेवनं भोगमोक्षवरदं नृणां सदा ।।

रौरवादिनरकप्रणाशनं कः पुमान्न भजते रसग्रहः ।। ७२ ।।

।। काश्यप उवाच ।। ।।

रामनाथ तव पादसेविनां किं व्रतैरुत तपोभिरध्वरैः ।।

वेदशास्त्र जपचिन्तया च किं स्वर्गसिन्धुपयसापि किं फलम् ।। ७३ ।।

श्रीरामनाथ त्वमागत्य शीघ्रं ममोत्क्रांतिकाले भवान्या च साकम् ।।

मां प्रापय स्वात्मपादारविन्दं विशोकं विमोहं सुखं चित्स्वरूपम् ।। ७४ ।।

।। गन्धर्वा ऊचुः ।। ।।

रामनाथ त्वमस्माकं भजतां भवसागरे ।।

अपारे दुःखकल्लोले न त्वत्तोन्या गतिर्हि नः ।। ७५ ।।

।। किन्नरा ऊचुः ।। ।।

रामनाथ भवारण्ये व्याधिव्याघ्रभयानके ।।

त्वामंतरेण नास्माकं पदवीदर्शको भवेत् ।। ७६ ।।

।। यक्षा ऊचुः ।। ।।

रामनाथेंद्रियारातिबाधा नो दुःसहा सदा ।।

तान्विजेतुं सहायस्त्वमस्माकं भव धूर्जटे ।। ७७ ।।

।। नागा ऊचुः ।। ।।

अचिन्त्यमहिमानं त्वा रामनाथ वयं कथम्।।

स्तोतुमल्पधियः शक्ता भविष्यामोंऽबिकापते ।। ।। ७८ ।।

।। किंपुरुषा ऊचुः ।। ।।

नानायोनौ च जननं मरणं चाप्यनेकशः ।।

विनाशय तथाऽज्ञानं रामनाथ नमोऽस्तु ते ।। ७९ ।।

।। विद्याधरा ऊचुः ।। ।।

अंबिकापतये तुभ्यमसंगाय महात्मने।।

नमस्ते रामनाथाय प्रसीद वृषभध्वज ।। 3.1.49.८० ।।

।। वसव ऊचुः ।। ।।

रामनाथगणेशाय गणवृंदार्चितांघ्रये ।।

गंगाधराय गुह्याय नमस्ते पाहि नः सदा ।। ८१ ।।

।। विश्वेदेवा ऊचुः ।। ।।

ज्ञप्तिमात्रैकनिष्ठानां मुक्तिदाय सुयोगिनाम् ।।

रामनाथाय सांबाय नमोऽस्मान्रक्ष शंकर ।। ८२ ।।

।। मरुत ऊचुः ।। ।।

परतत्त्वाय तत्त्वानां तत्त्वभूताय वस्तुतः ।।

नमस्ते रामनाथाय स्वयंभानाय शंभवे ।। ८३ ।।

।। साध्या ऊचुः ।। ।।

स्वातिरिक्तविहीनाय जगत्सत्ताप्रदायिने ।।

रामेश्वराय देवाय नमोऽविद्या विभेदिने ।। ८४ ।।

।। सर्वे देवा ऊचुः ।। ।।

सच्चिदानंदसंपूर्णं द्वैतवस्तुविवर्जितम् ।।

ब्रह्मात्मानं स्वयंभानमादिमध्यांतवर्जितम् ।। ८५ ।।

अविक्रियमसंगं च परिशुद्धं सनातनम् ।।

आकाशादिप्रपंचानां साक्षिभूतं परामृतम्।।८६।।

प्रमातीतं प्रमाणानामपि बोधप्रदायिनम्।।

आविर्भावतिरोभाव संकोचरहितं सदा ।। ८७ ।।

स्वस्मिन्नध्यस्तरूपस्य प्रपंचस्यास्य साक्षिणम् ।।

निर्लेपं परमानंदं निरस्तसकलक्रियम्।। ८८ ।।

भूमानंदं महात्मानं चिद्रूपं भोगवर्जितम् ।।

रामनाथं वयं सर्वे स्वपातकविशुद्धये ।। ८९ ।।

चिन्तयामः सदा चित्ते स्वात्मानंदबुभुत्सवः ।।

रक्षास्मान्करुणासिन्धो राम नाथ नमोऽस्तु ते ।।3.1.49.९।।।

रामनाथाय रुद्राय नमः संसारहारिणे ।।

ब्रह्मविष्ण्वादिरूपेण विभिन्नाय स्वमायया ।। ९१ ।।

विभीषणसचिवा ऊचुः ।।

वरदाय वरेण्याय त्रिनेत्राय त्रिशूलिने ।।

योगिध्येयाय नित्याय रामनाथाय ते नमः ।। ९२ ।।

।। सूत उवाच ।। ।।

इति रामादिभिः सर्वैः स्तुतो रामेश्वरः शिवः ।।

प्राह सर्वान्समाहूय रामादीन्द्विजसत्तमाः ।। ९३ ।।

रामराम महाभाग जानकीरमण प्रभो ।।

सौमित्रे जानकि शुभे हे सुग्रीव मुखास्तथा ।। ९४ ।।

अन्ये ब्रह्ममुखा यूयं शृणुध्वं सुसमास्थिताः ।।

स्तोत्राध्यायमिमं पुण्यं युष्माभिः कृतमादरात् ।। ९५ ।।

ये पठंति च शृण्वंति श्रावयंति च मानवाः ।। ।।

मदर्चनफलं तेषां भविष्यति न संशयः ।। ९६ ।।

रामचंद्रधनुष्कोटिस्नानपुण्यं च वै भवेत् ।।

वर्षमेकं रामसेतौ वासपुण्यं भविष्यति ।। ९७ ।।

गन्धमादनमध्यस्थसर्वर्तीर्थाभिमज्जनात् ।।

यत्पुण्यं तद्भवेत्तेन नात्र संशयकारणम् ।। ९८ ।।

उक्त्वैवं रामनाथोऽपि स्वात्मलिंगे तिरोदधे ।।

स्तोत्राध्यायमिमं पुण्यं नित्यं संकीर्तयन्नरः ।। ९९ ।।

जरामरणनिर्मुक्तो जन्मदुःखविवर्जितः ।।

रामनाथस्य सायुज्यमुक्तिं प्राप्नोत्यसंशयः ।। 3.1.49.१०० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामादिभी रामनाथस्तोत्रकथनंनामैकोनपंचाशत्तमोऽध्यायः ।। ४९ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 50

।। श्रीसूत उवाच ।। ।।

अथातः संप्रवक्ष्यामि सेतुमाधववैभवम्।।

शृणुध्वं मुनयो भक्त्या पुण्यं पापहरं परम्।। १ ।।

पुरा पुण्यनिधिर्नाम राजा सोमकुलोद्भवः ।।

मधुरां पालयामास हालास्येश्वरभूषिताम् ।। २ ।।

कदाचित्स महीपालश्चतुरंगबलान्वितः ।।

सांऽतःपुरपरीवारो मधुरायां निजं सुतम् ।। ३ ।।

स्थापयित्वा रामसेतुं प्रययौ स्नानकौतुकी ।।

तत्र गत्वा धनुष्कोटौ स्नात्वा संकल्पपूर्वकम् ।। ४ ।।

अन्येष्वपि च तीर्थेषु तत्रत्येषु नृपोत्तमः ।।

सस्नौ रामेश्वरं देवं सिषेवे च सभक्तिकम् ।। ।। ५ ।।

एवं स बहुकालं वै तत्रैव न्यवसत्सुखम् ।।

रामसेतौ वसन्पुण्ये गन्धमादनपर्वते ।। ६ ।।

विष्णुप्रीतिकरं यज्ञं कदाचिदकरोन्नृपः ।।

यज्ञावसाने राजासौ मुदावभृथकौतुकी ।। ७ ।।

सस्नौ रामधनुष्कोटौ सदारः सपरिच्छदः ।।

सेवित्वा रामनाथं च स वेश्म प्रययौ द्विजाः ।। ८ ।।

एवं निवसमानेऽस्मिन्राज्ञि पुण्यनिधौ तदा ।।

कदाचिद्धरिणा लक्ष्मीर्विनोदकलहाकुला ।। ९ ।।

हरिणा समयं कृत्वा नृपभक्तिं परीक्षितुम् ।।

विष्णुना प्रेषिता लक्ष्मीर्वैकुंठात्कमलालया ।। 3.1.50.१० ।।

अष्टवर्षवयोरूपा प्रययौ गंधमादने ।।

तत्रागत्य धनुष्कोटौ तस्थौ सा कमलालया ।। ११ ।।

तस्मिन्नवसरे राजा ययौ गुणनिधिर्द्विजाः ।।

स्नातुं रामधनुष्कोटौ सदारः सहसैनिकः ।। १२ ।।

तत्र गत्वा स राजाऽयं स्नात्वा नियमपूर्वकम्।।

तुलापुरुषमुख्यानि कृत्वा दानानि कृत्स्नशः ।। १३ ।।

प्रयातुकामो भवनं कन्यां कांचिद्ददर्श सः ।।

अतीवरूपसंपन्नामष्टवर्षां शुचिस्मिताम्।। ।। १४ ।।

दृष्ट्वा नृपस्तां पप्रच्छ कन्यां चारुविलोचनाम् ।।

चारुस्मितां चारुदतीं बिंबोष्ठीं तनुमध्यमाम् ।। १५ ।।

।। पुण्यनिधिरुवाच ।। ।।

का त्वं कन्ये सुता कस्य कुतो वा त्वमिहागता ।।

अत्रागमेन किं कार्यं तव वत्से शुचिस्मिते ।। १६ ।।

एवं नृपस्तां पप्रच्छ कन्यामुत्पललोच नाम्।।

एवं पृष्टा तदा कन्या नृपं तमवदद्विजाः ।। १७ ।।

न मे माता पिता नास्ति न च मे बांधवास्तथा ।।

अनाथाहं महाराज भविष्यामि च ते सुता ।। १८ ।।

त्वद्गृहेऽहं निवत्स्यामि तात त्वां पश्यतीसदा ।।

हठात्कृष्यति यो वा मां ग्रहीष्यति करेण तम् ।। १९ ।।

यदि शासिष्यसे भूप तदाहं तव मंदिरे ।।

वत्स्यामि ते सुता भूत्वा पितर्गुणनिधे चिरम् ।। 3.1.50.२० ।।

एवमुक्तस्तदा प्राह कन्यां गुणनिधिर्नृपः ।।

अहं सर्वं करिष्यामि त्वदुक्तं कन्यके शुभे ।। २१ ।।

ममापि दुहिता नास्ति पुत्रोऽस्त्येकः कुलोद्वहः ।।

तव यस्मिन्रुचिर्भद्रे त्वां तस्मै प्रददाम्यहम् ।। २२ ।।

आगच्छ मद्गृहं कन्ये मम चांतःपुरे वस ।।

मद्भार्यायाः सुता भूत्वा यथाकाममनिंदिते ।। २३ ।।

इत्युक्ता सा नृपेणाथ कन्या कमललोचना ।।।

तथा स्त्विति नृपं प्रोच्य तेन साकं ययौ गृहम् ।। २४ ।।

राजा स्वभार्याहस्ते तां प्रददौ कन्यकां शुभाम् ।।

अब्रवीच्च स्वकां भार्यां राजा विन्ध्यावलिं तदा ।। २५ ।।

आवयोः कन्यका चेयं राज्ञि विंध्यावले शुभे ।।

रक्षेमां सर्वथा त्वं वै पुरुषांतरतः प्रिये ।। २६ ।।

इतीरिता नृपेणासौ भार्या विंध्या वलिस्तदा ।।

ओमित्युक्त्वाथ तां कन्यां पुत्रीं जग्राह पाणिना ।। २७ ।।

पोषिता पालिता राज्ञा सुतवत्कन्यका च सा ।।

न्यवात्सीत्सुसुखं राज्ञो भवने लालिता सदा ।।२८।।

अथ विष्णुर्जगन्नाथो लक्ष्मीमन्वेष्टुमादरात् ।।

आरूढविनतानन्दो वैकुंठान्निर्ययौ द्विजाः ।।२९।।

विनिर्गत्य स वैकुंठा द्विलंघितवियत्पथः ।।

बभ्राम च बहून्देशाल्लँक्ष्मीं तत्र न दृष्टवान्।।3.1.50.३०।।

रामसेतुमथागच्छद्गंधमादनपर्वते ।।

अन्विष्य सर्वतो रामसेतुं बभ्राम चेंदि राम्।। ३१ ।।

एतस्मिन्नेव काले सा पुष्पावचयकौतुकात् ।।

सखीभिः कन्यकायासीद्भवनोद्यानपादपान् ।। ३२ ।।

पुष्पाण्यवचिनोति स्म सखीभिः सह कानने ।।

तत्रागत्य ततो विष्णुर्विप्ररूपधरो द्विजाः ।। ३३ ।।

गंगांभो विदधत्स्कंधे वहञ्छत्रं करंण च ।।

गंगास्नायिद्विजस्येव रचयन्वेषमात्मनः ।। ३४ ।।

धारयन्दक्षिणे पाणौ कुशाग्रंथिपवित्रकम् ।।

भस्मोद्धूलितसर्वांगस्त्रिपुण्ड्रावलिशोभितः ।। ३५ ।।

प्रजपञ्छिवनामानि धृतरुद्राक्ष मालिकः ।।

सोत्तरीयः शुचिर्विप्राः समायातो जनार्दनः ।। ३६ ।।

तमागतं द्विजं दृष्ट्वा स्तब्धाऽतिष्ठत कन्यका ।।

अपश्यदष्टवर्षां तां वल्लभां पुष्प हारिणीम् ।। ३७ ।।

दृष्ट्वा स त्वरया विप्रः कन्यां मधुरभाषिणीम् ।।

हठात्कृत्य करेणासौ जग्राह गरुडध्वजः ।। ३८ ।।

तदा चुक्रोश सा कन्या सखीभिः सह कानने ।।

तमाक्रोशं समाकर्ण्य राजा स तु समागतः ।। ३९ ।।

प्रययौ भवनोद्यानं वृतः कतिपयैर्भटैः ।।

गत्वा पप्रच्छ तां कन्यां तत्सखीरपि भूपतिः ।। 3.1.50.४० ।।

किमर्थमधुना क्रुष्टं सखीभिः सह कन्यके ।।

त्वया तु भवनोद्याने तत्र कारणमुच्यताम् ।। ४१ ।।

केन त्वं परिभूतासि हठात्कृष्य सुते मम ।।

इति पृष्टा तमाचष्ट कन्या गुणनिधिं नृपम् ।।

बाष्पपूर्णानना खिन्ना रुषिता भृशकातरा ।। ४२ ।।

।। कन्योवाच ।। ।।

अयं विप्रो हठात्कृत्य जगृहे पांड्यनाथ माम् ।। ४३ ।।

तातात्र वृक्षमूलेऽसौ स तिष्ठत्यकुतोभयः ।।

तदाकर्ण्य वचस्तस्या राजा गुणनिधिः सुधीः ।। ४४ ।।

जग्राह तरसा विप्रमविद्वांस्तद्बलं हठात् ।।

रामनाथालयं नीत्वा निगृह्य च हठात्तदा ।। ४५ ।।

बद्ध्वा निगडपाशाभ्या मानयन्मंडपं च तम् ।।

आत्मपुत्रीं समाश्वास्य शुद्धांतमनयन्नृपः ।। ४६ ।।

स्वयं च प्रययौ रम्यं भवनं नृपपुंगवः ।।

ततो रात्रौ स्वपन्राजा स्वप्ने विप्रं ददर्श तम् ।। ४७ ।।

शंखचक्रगदापद्मवनमालाविभूषितम् ।।

कौस्तुभालंकृतोरस्कं पीतांबरधरं हरिम् ।। ४८ ।।

कालमेघच्छविं कांतं गरुडोपरि संस्थितम् ।।

चारुस्मितं चारुदंतं लसन्मकरकुण्डलम् ।। ४९ ।।

विष्वक्सेनप्रभृतिभिः किंकरैरुपसेवितम् ।।

शेषपर्यंकशयनं नारदादि मुनिस्तुतम् ।। 3.1.50.५० ।।

ददर्श च स्वकां कन्यां विकासिकमलस्थिताम् ।।

धृतपंकजहस्तां तां नीलकुञ्चितमूर्धजाम् ।। ५१ ।।

विष्णुवक्षस्थल्रावासां समुन्नतपयोधराम् ।।

दिग्गजैरभिषिक्तांगीं श्यामां पीतांबरावृताम् ।। ५२ ।।

स्वर्णपंकजसंक्लृप्तमालालंकृतमूर्धजाम् ।।

दिव्याभरणशोभाढ्यां चारुहा रविभूषिताम् ।। ५३ ।।

अनर्घरत्नसंक्लृप्तनासाभरणशोभिताम् ।।

सुवर्णनिष्काभरणां कांचीनूपुरराजिताम् ।। ५४ ।।

महालक्ष्मीं ददर्शासौ राजा रात्रौ स्वकां सुताम् ।।

एवं दृष्ट्वा नृपः स्वप्ने विप्रं तं स्वसुतामपि ।। ५५ ।।

उत्थितः सहसा तल्पात्कन्यागृहमवाप च ।।

तथैव दृष्टवान्कन्यां यथा स्वप्ने ददर्श ताम् ।। ५६ ।।

अथोदिते सवितरि कन्यामादाय भूमिपः ।।

रामनाथालयं प्राप ब्राह्मणं न्यस्तवान्यतः ।। ५७ ।।

स मंडपवरे विप्रं ददर्श हरिरूपिणम् ।।

यथा ददर्श स्वप्ने तं वनमालादिचिह्नितम् ।।

विष्णुं विज्ञाय तुष्टाव नृपतिर्हरिमीश्वरम् ।। ५८ ।।

।। पुण्यनिधिरुवाच ।। ।।

नमस्ते कमलाकांत प्रसीद गरुडध्वज ।। ५९ ।।

शार्ङ्गपाणे नमस्तुभ्यमपराधं क्षमस्व मे ।।

नमस्ते पुण्डरीकाक्ष चक्रपाणे श्रियःपते ।। 3.1.50.६० ।।

कौस्तुभालंकृतांकाय नमः श्रीवत्सलक्ष्मणे ।।

नमस्ते ब्रह्मपुत्राय दैत्यसंघविदारिणे ।। ६१ ।।

अशेषभुवनावासनाभिपंकजशालिने ।।

मधुकैटभसंहर्त्रे रावणांतकराय ते ।।६२।।

प्रह्रादरक्षिणे तुभ्यं धरित्रीपतये नमः ।।

निर्गुणायाप्रमेयाय विष्णवे बुद्धिसाक्षिणे ।।६३।।

नमस्ते श्रीनिवासाय जग द्धात्रे परात्मने।।

नारायणाय देवाय कृष्णाय मधुविद्विषे।।६४।।

नमः पंकजनाभाय नमः पंकजचक्षुषे।।

नमः पंकजहस्तायाः पतये पंकजांघ्रये ।।६५।।

भूयोभूयो जगन्नाथ नमः पंकजमालिने ।।

दयामूर्त्ते नमस्तुभ्यमपराधं क्षमस्व मे ।। ६६ ।।

मया निगडपाशाभ्यां यः कृतो मधुसूदन ।।

अनयस्त्वत्स्वरूपमविदित्वा कृतः प्रभो ।। ६७ ।।

अतो मदपराधोऽयं क्षंतव्यो मधुसूदन ।।

एवं स्तुत्वा महाविष्णुं राजा पुण्यनिधिर्द्विजाः ।। ६८ ।।

लक्ष्मीं तुष्टाव जननीं सर्वेषां प्राणिनां मुदा ।।

नमो देवि जगद्धात्रि विष्णुवक्षस्थलालये ।। ६९ ।।

नमोब्धिसंभवे तुभ्यं महालक्ष्मि हरिप्रिये ।।

सिद्ध्यै पुष्ट्यै स्वधायै च स्वाहायै सततं नमः ।। 3.1.50.७० ।।

संध्यायै च प्रभायै च धात्र्यै भूत्यै नमोनमः ।।

श्रद्धायै चैव मेधायै सरस्वत्यै नमोनमः ।। ७१ ।।

यज्ञविद्ये महाविद्ये गुह्यविद्येतिशोभने ।।

आत्मविद्ये च देवेशि मुक्तिदे सर्वदेहिनाम् ।। ७२ ।।

त्रयीरूपे जगन्मातर्जगद्रक्षाविधायिनि ।।

रक्ष मां त्वं कृपादृष्ट्या सृष्टिस्थित्यंतकारिणि ।। ७३ ।।

भूयोभूयो नमस्तुभ्यं ब्रह्ममात्रे महेश्वरि ।।

इति स्तुत्वा महालक्ष्मीं प्रार्थयामास माधवम् ।। ७४।।

यदज्ञानान्मया विष्णो त्वयि दोषः कृतोऽधुना ।।

पादे निगडबंधेन स द्रोहः क्षम्यतां त्वया ।। ७६ ।।

लोकास्ते शिशवः सर्वे त्वं पिता जगतां हरे।।

सुताऽपराधः पितृभिः क्षंतव्यो मधुसूदन ।। ७६ ।।

अपराधिनां च दैत्यानां स्वरूपमपि दत्तवान् ।।

भवान्विष्णो ममापीममपराधं क्षमस्व वै ।। ।। ७७ ।।

जिघांसयापि भगवन्नागतां पूतनां पुरा ।।

अनयस्त्वत्पदांभोजं तन्मां रक्ष कृपानिधे ।।

लक्ष्मीकांत कृपादृष्टिं मयि पातय केशव ।। ७८ ।। ।।

।। श्रीसूत उवाच ।। ।।

इति संप्रार्थितो विष्णु राज्ञा तेन द्विजोत्तमाः ।।

प्राह गंभीरया वाचा नृपं पुण्यनिधिं ततः ।। ७९ ।।

।। विष्णुरुवाच ।। ।।

राजन्न भीस्त्वया कार्या मद्बंधननिमित्तजा ।। 3.1.50.८० ।।

भक्तवश्यत्वमधुना तव प्रतिहितं मया ।।

मम प्रीतिकरं यज्ञमकरोद्यद्भवानिह ।। ।। ९१ ।।

अतस्त्वं मम भक्तोसि राजन्पुण्यनिधेऽधुना ।।

तेनाहं तव वश्योऽस्मि भक्तिपाशेन यंत्रितः ।। ८२ ।।

भक्तापराधं सततं क्षमाम्यहमरिं दम ।।

त्वद्भक्तिं ज्ञातुकामेन मया संप्रेरिता त्वियम् ।। ८३ ।।

लक्ष्मीर्मम प्रिया राजंस्त्वयासंरक्षिताऽधुना ।।

तेनाहं तव तुष्टोऽस्मि मत्स्वरूपा त्वियं सदा ।। ८४ ।।

अस्यां यो भक्तिमांल्लोके स मद्भक्तोऽभिधीयते ।।

अस्यां यो विमुखो राजन्स मद्द्वेषी स्मृतः सदा ।। ८५ ।।

त्वमिमां भक्तिसं युक्तो यस्मात्पूजितवानसि ।।

मत्पूजापि कृता तस्मान्मदभिन्ना त्वियं यतः ।। ८६ ।।

अतस्त्वया नापराधः कृतो मयि नरेश्वर ।।

किं तु पूजैव विहिता तां त्वयार्चयता मम ।। ९७ ।।

त्वया मद्भार्यया साकं संकेतोऽकारि यत्पुरा ।।

तत्संकेताभिगुत्यर्थं मां यद्बंधितवानसि ।। ८८ ।।

तेन प्रीतोस्मि ते राजँल्लक्ष्मीः संरक्षिताऽधुना ।।

मत्स्वरूपा च सा लक्ष्मीर्जगन्माता त्रयीमयी ।। ८९ ।।

तद्रक्षां कुर्वता भूप त्वया यद्बंधनं मम ।।

तत्प्रियं मम राजेंद्र मा भयं क्रियतां त्वया ।। 3.1.50.९० ।।

इयं लक्ष्मीस्तव सुता सत्यमेव न संशयः ।।

इतीरितेऽथ हरिणा लक्ष्मीः प्रोवाच भूपतिम् ।। ।। ९१ ।।

।। लक्ष्मीरुवाच ।। ।।

राजन्प्रीतास्मि ते चाहं रक्षिता यद्गृहे त्वया ।।

त्वद्भक्तिशोधनार्थं वा अहं विष्णुरुभावपि ।। ९२ ।।

विनोद कलहव्याजादागताविह भूपते ।।

तव योगेन भक्त्या च तुष्टावावां परंतप ।। ९३ ।।

आवयोः कृपया राजन्सुखं ते भवतात्सदा ।।

सर्वभूमंडलैश्वर्यं सदा ते भवतु ध्रुवम् ।। ९४ ।।

आवयोः पादयुगले भक्तिर्भवतु ते ध्रुवा ।।

देहांते मम सायुज्यं पुनरावृत्तिवर्जितम् ।। ९५ ।।

नित्यं भवतु ते राजन्मा भूत्ते पापधीस्तथा ।।

सदा धर्मे भव धीर्विष्णुभक्तियुता तव ।।९६।।

एवमुक्त्वा नृपं लक्ष्मीर्विष्णोर्वक्षस्थलं ययौ ।।

अथ विष्णुरुवाचेदं राजानं द्विज पुंगवाः ।। ९७ ।।

यथा त्वयात्र बद्धोहं निगडेन नृपोतम ।।

तद्रूपेणैव वत्स्यामि सेतुमाधवसंज्ञितः ।। ९८ ।।

मयैव कारितः सेतुस्तद्रक्षार्थमहं नृप ।।

भूतराक्षससंघेभ्यो भयानामुपशांतये ।।९९।।

ब्रह्मापि सेतुरक्षार्थं वसत्यत्रदिवानिशम्।।

शंकरो रामनाथाख्यो नित्यं सेतौ वसत्यथ।।3.1.50.१००।।

इंद्रादिलोकपालाश्च वसंत्यत्रमुदान्विताः ।।

अतोऽहमत्रवत्स्यामि सेतुमाधवसंज्ञया ।।१।।

सेतुसंरक्षणार्थं वै सर्वोपद्रवशांतये ।।

सर्वेषामिष्टसिद्ध्यर्थं सर्वपापोपशांतये ।। २ ।।

त्वया निगडबद्धं मां सेवते येऽत्र मानवाः ।।

ते यांति मम सायुज्यं सर्वाभीष्टं तथा नृप ।। ३ ।।

मम लक्ष्म्यास्तव तथा चरितं ये पठंति वै।।

न ते यास्यंति दारिद्र्यं किं त्वैश्वर्यं व्रजंति ते ।।४।।

त्वत्कृतं यदिदं स्तोत्रं मम लक्ष्म्या विशांपते ।।

ये पठंति च शृण्वंति लिखंति च मुदान्विताः ।। ५ ।।

न तेषां पुनरावृत्तिर्मम लोकात्कदाचन ।।

इत्युक्त्वा स हरिस्तत्र नृपं पुण्यनिधिं तदा ।। ६ ।।

तत्रैव पूर्णरूपेण संनि धत्ते स्म सर्वदा ।।

नृपः पुण्यनिधिर्विप्राः सेतुमाधवरूपिणम्।। ७ ।।

विष्णुं प्रणम्य भक्त्या तु महापूजां विधाय च ।।

सेवित्वा रामनाथं च स्वमेव भवनं ययौ ।। ८ ।।

यावज्जीवमसौ तत्र सेतौ न्यवसदुत्तमे ।।

मधुरायां निजं पुत्रं स्थापयामास पालकम् ।। ९ ।।

तत्रैव निवसन्राजा देहांते मुक्तिमाप्तवान् ।।

विंध्यावलिश्च तत्पत्नी तमेवानुममार सा ।।

पतिव्रता पतिप्राणा प्रययौ सापि सद्गतिम्।।3.1.50.११०।।।

।। श्रीसूत उवाच ।। ।।

येत्र भक्तियुता नित्यं सेवंते सेतुमाधवम् ।। ११ ।।

न तेषां पुनरावृत्तिः कैलासाज्जातु जायते ।।

सेतुमाधवसेवा ये न कुर्वंत्यत्र मानवाः ।। ।। १२ ।।

न तेषां रामनाथस्य सेवा फलवती भवेत् ।।

गृहीत्वा सैकतं सेतोर्गंगायां निक्षिपेद्यदि ।। १३ ।।

विभज्य माधवपुरे वैकुंठे स वसेन्नरः ।।

गंगां जिगमिषुर्विप्राः सेतुमाधवसन्निधौ ।। १४ ।।

संकल्प्य गंगां निर्गच्छेत्सा यात्रा सफला भवेत्।।

आनीय गंगासलिलं रामेशमभि षिच्य च ।। १५ ।।

सेतौ निक्षिप्य तद्भारं ब्रह्म प्राप्नोत्यसंशयः ।।

इति वः कथितं विप्राः सेतुमाधववैभवम् ।। १६ ।।

एतत्पठन्वा शृण्वन्वा वैकुंठे लभते गतिम् ।। ११७ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीय ब्रह्मखण्डे सेतुमाहात्म्ये सेतुमाधवप्रशंसायां पुण्य निधिचरितकथनंनाम पंचाशत्तमोऽध्यायः ।। ५० ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 51

।। सूत उवाच ।। ।।

अथातः संप्रवक्ष्यामि सेतुयात्राक्रमं द्विजाः ।।

यं श्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात् ।। १ ।।

स्नात्वाचम्य विशुद्धात्मा कृतनित्यविधिः सुधीः ।।

रामनाथस्य तुष्ट्यर्थं प्रीत्यर्थं राघवस्य च ।। २ ।।

भोजयित्वा यथाशक्ति ब्राह्मणान्वेदपारगान् ।।

भस्मोद्धूलितसर्वांगस्त्रिपुंड्रांकितमस्तकः ।। ३ ।।

गोपीचन्दनलिप्तो वा स्वभालेऽप्यूर्ध्वपुंड्रकः ।।

रुद्राक्ष मालाभरणः सपवित्रकरः शुचिः ।। ४ ।।

सेतुयात्रां करिष्येऽहमिति संकल्प्य भक्तितः ।।

स्वगृहात्प्रव्रजेन्मौनी जपन्नष्टाक्षरं मनुम् ।। ५ ।।

पंचाक्षरं नाममंत्रं जपेन्नियतमानसः ।।

एकवारं हविष्याशी जितक्रोधो जितेंद्रियः ।। ६ ।।

पादुकाछत्ररहितस्तांबूलपरिवर्जितः ।।

तैलाभ्यंगविहीनश्च स्त्रीसंगादिविवर्जितः ।।७।।

शौचाद्याचारसंयुक्तः सन्ध्योपास्तिपरायणः ।।

गायत्र्युपास्ति कुर्वाणस्त्रिसंध्यं रामचिंतकः ।। ८ ।।

मध्येमार्गं पठन्नित्यं सेतुमाहात्म्यमादरात् ।।

पठन्रामायणं वापि पुराणांतरमेव वा ।। ९ ।।

व्यर्थवाक्यानि संत्यज्य सेतुं गच्छेद्विशुद्धये ।।

प्रतिग्रहं न गृह्णीयान्नाचारांश्च परित्यजेत् ।। 3.1.51.१० ।।

कुर्यान्मार्गे यथाशक्ति शिवविष्ण्वादिपूजनम् ।।

वैश्वदेवादिकर्माणि यथाशक्ति समाचरेत् ।। ११ ।।

ब्रह्मयज्ञमुखान्धर्मा न्प्रकुर्याच्चाग्निपूजनम् ।।

अतिथिभ्योऽन्नपानादि संप्रदद्याद्यथाबलम् ।। १२ ।।

दद्याद्भिक्षां यतिभ्योऽपि वित्तशाठ्यं परित्यजन् ।।

शिवविष्ण्वादि नामानि स्तोत्राणि च पठेत्पथि ।। १३ ।।

धर्ममेव सदा कुर्यान्निषिद्धानि परित्यजेत् ।।

इत्यादिनियमोपेतः सेतुमूलं ततो व्रजेत् ।। १४ ।।

पाषाणं प्रथमं दद्यात्तत्र गत्वा समाहितः ।।

तत्रावाह्य समुद्रं च प्रणमेत्तदनंतरम् ।। १५ ।।

अर्घ्यं दद्यात्समुद्राय प्रार्थयेत्तदनंतरम्।।

अनुज्ञां च ततः कुर्यात्ततः स्नायान्महोदधौ ।। १६ ।।

मुनीनामथ देवानां कपीनां पितृणां तथा ।।

प्रकुर्यात्तर्पणं विप्रा मनसा संस्मरन्हरिम् ।। १७ ।। ।।

।। पाषाणसंख्या ।। ।।

पाषाणसप्तकं दद्यादेकं वा विप्रपुंगवाः ।।

पाषाणदानात्सफलं स्नानं भवति नान्यथा ।। १८ ।।

।। पाषाणदानमंत्रः ।। ।।

पिप्पलादसमुत्पन्ने कृत्ये लोकभयंकरे ।।

पाषाणं ते मया दत्तमाहारार्थं प्रकल्प्यताम् ।। १९ ।।

।। सान्निध्यप्रार्थनामन्त्रः ।। ।।

विश्वार्चि त्वं घृताचि त्वं विश्वयाने विशांपते ।।

सान्निध्यं कुरु मे देव सागरे लवणांभसि ।। 3.1.51.२० ।।

।। नमस्कारमन्त्रः ।। ।।

नमस्ते विश्वगुप्ताय नमो विष्णो ह्यपांपते ।।

नमो हिरण्यशृंगाय नदीनां पतये नमः ।।

समुद्राय वयूनाय प्रोच्चार्य प्रणमेत्तथा ।। २१ ।।

।। अर्घ्यमन्त्रः ।। ।।

सर्वरत्नमय श्रीमन्सर्वरत्नाकराकर ।।

सर्वरत्नप्रधानस्त्वं गृहाणार्घ्यं महोदधे ।। २२ ।।

।। अनुज्ञापनमंत्रः ।। ।।

अशेषजगदाधार शंखचक्रगदा धर ।।

देहि देव ममानुज्ञां युष्मत्तीर्थनिषेवणे ।। २३ ।।

।। प्रार्थनामंत्रः ।। ।।

प्राच्यां दिशि च सुग्रीवं दक्षिणस्यां नलं स्मरेत् ।। २४ ।।

प्रतीच्यां मैंदनामानमुदीच्यां द्विविदं तथा ।।

रामं च लक्ष्मणं चैव सीतामपि यशस्विनीम् ।। २५ ।।

अंगदं वायुतनयं स्मरेन्मध्ये विभीषणम् ।।

पृथिव्यां यानि तीर्थानि प्राविशंस्त्वा महोदधे ।। २६ ।।

स्नानस्य मे फलं देहि सर्वस्मात्त्राहि मांहसः ।।

हिरण्यशृंगमित्याभ्यां नाभ्यां नारायणं स्मरेत् ।। २७ ।।

ध्यायन्नारायणं देवं स्नानादिषु च कर्मसु ।।

ब्रह्मलोकमवाप्नोति जायते नेह वै पुनः ।। २८ ।।

सर्वेषामपि पापानां प्रायश्चित्तं भवेत्ततः ।।

प्रह्लादं नारदं व्यासमंबरीषं शुकं तथा ।।

अन्यांश्च भगवद्भक्तांश्चिंतयेदेकमानसः ।। २९ ।।

।। स्नानमन्त्रः ।। ।।

वेदादिर्यो वेदवसिष्ठयोनिः सरित्पतिः सागररत्नयोनिः ।।

अग्निश्च तेजश्च इलां च तेजो रेतोधा विष्णुरमृतस्य नाभिः ।। 3.1.51.३० ।।

इदं ते अन्याभिरसमानमद्भिर्याः काश्च सिंधुं प्रविशंत्यापः ।।

सर्पो जीर्णामिव त्वचं जहामि पापं शरीरात्सशिरस्कोऽभ्युपेत्य ।।३१।।

समुद्राय वयूनाय नमस्कुर्यात्पुनर्द्विजाः ।।

सर्वतीर्थमयं शुद्धं नदीनां पतिमंबुधिम् ।। ३२।।

द्वौ समुद्राविति पुनः प्रोच्चार्य स्नानमाचरेत् ।।

ब्रह्मांडोदरतीर्थानि करस्पृष्टानि ते रवे ।। ३३ ।।

तेन सत्येन मे सेतौ तीर्थं देहि दिवाकर ।।

प्राच्यां दिशि च सुग्रीवमित्यादिक्रमयोगतः ।।३४।।

स्मृत्वा भूयो द्विजाः सेतौ तृतीयं स्नानमाचरेत् ।।

देवीपत्तनमारभ्य प्रव्रजेद्यदि मानवः ।। ३५ ।।

तदा तु नवपाषाणमध्ये सेतौ विमुक्तिदे ।।

स्नानमंबुनिधौ कुर्यात्स्वपापौघापनुत्तये ।। ३६ ।।

दर्भशय्यापदव्या चेद्गच्छे त्सेतुं विमुक्तिदम् ।।

तदा तत्रोदधावेव स्नानं कुर्याद्विमुक्तये ।। ३७ ।।

।। तर्पणविधिः ।। ।।

पिप्पलादं कविं कण्वं कृतांतं जीवितेश्वरम् ।।

मन्युं च कालरात्रिं च विद्यां चाहर्गणेश्वरम् ।। ३८ ।।

वसिष्ठं वामदेवं च पराशरमुमापतिम् ।।

वाल्मिकिं नारदं चैव वालखिल्यान्मुनींस्तथा ।। ३९ ।।

नलं नीलं गवाक्षं च गवयं गन्धमादनम् ।।

मैंदं च द्विविदं चैव शरभं चर्षभं तथा ।। 3.1.51.४० ।।

सुग्रीवं च हनूमंतं वेगदर्शनमेव च ।।

रामं च लक्ष्मणं सीतां महाभागां यशस्विनीम् ।। ४१ ।।

त्रिः कृत्वा तर्पयेदेतान्मंत्रानुक्त्वा यथाक्रमम् ।।

विभोश्च तत्तन्नामानि चतुर्थ्यंतानि वै द्विजाः ।।४२।।

देवा नृषीन्पितॄंश्चैव विधिवच्च तिलोदकैः।।

द्वितीयांतानि नामानि चोक्त्वा तर्पयेद्द्विजाः ।। ४३।।

तर्पयेत्सपवित्रस्तु जले स्थित्वा प्रसन्नधीः ।।

तर्पणात्सर्वतीर्थेषु स्नानस्य फलमाप्नुयात् ।। ४४ ।।

एवमेतांस्तर्पयित्वा नमस्कृत्योत्तरेज्जलात् ।।

आर्द्रवस्त्रं परित्यज्य शुष्कवासःसमावृतः ।। ४५ ।।

आचम्य सपवित्रश्च विधिवच्छ्राद्धमाचरेत् ।।

पिंडान्पितृभ्यो दद्याच्च तिलतण्डुलकैस्तथा ।। ४६ ।।

एतच्छ्राद्धमशक्तस्य मया प्रोक्तं द्विजोत्तमाः ।।

धनाढ्योऽन्नेन वै श्राद्धं षड्रसेन समाचरेत् ।। ४७ ।।

गोभूतिलहिरण्यादिदानं कुर्यात्समृद्धिमान् ।।

रामचन्द्रधनुष्कोटावेवमेव समाचरेत् ।। ४८ ।।

पाषाणदानपूर्वाणि तर्पणांतानि वै द्विजाः ।।

सेतुमूले यथैतानि विधिवद्व्यतनोद्द्विजाः ।। ४९ ।।

चक्रतीर्थं ततो गत्वा तत्रापि स्नानमाचरेत् ।।

पश्येच्च सेत्वधिपतिं देवं नारायणं हरिम् ।। 3.1.51.५० ।।

गच्छन्पश्चिममार्गेण तत्रत्ये चक्रतीर्थके ।।

स्नात्वा दर्भशयं देवं प्रपश्येद्भक्तिपूर्वकम् ।। ५१ ।।

कपितीर्थं ततः प्राप्य तत्रापि स्नानमाचरेत् ।।

सीताकुंडं ततः प्राप्य तत्रापि स्नानमाचरेत् ।। ५२ ।।

ऋणमोचनतीर्थं तु ततः प्राप्य महाफलम् ।।

स्नात्वा प्रणम्य रामं च जानकीरमणं प्रभुम् ।। ५३ ।।

गच्छेल्लक्ष्मणतीर्थं तु कण्ठादुपरि वापनम् ।।

कृत्वा स्नायाच्च तत्रापि दुष्कृतान्यपि चिन्तयन् ।। ५४ ।।

ततः स्नात्वा रामतीर्थे ततो देवालयं व्रजेत् ।।

स्नात्वा पापविनाशने च गंगायमुनयोस्तथा ।। ५५ ।।

सावित्र्यां च सरस्वत्यां गायत्र्यां च द्विजोत्तमाः ।।

स्नात्वा च हनुमत्कुण्डे ततः स्नायान्महाफले ।।

ब्रह्मकुण्डं ततः प्राप्य स्नायाद्विधिपुरःसरम् ।। ५६ ।।

नागकुण्डं ततः प्राप्य सर्वपापविनाशनम् ।।

स्नानं कुर्यान्नरो विप्रा नरकक्लेशनाशनम् ।।

गंगाद्याः सरितः सर्वास्तीर्थानि सकलान्यपि ।। ५७ ।।

सर्वदा नागकुंडे तु वसंति स्वाघशांतये ।।

अनंतादिमहानागैरष्टाभिरिदमुत्तमम् ।। ५८ ।।

कल्पितं मुक्तिदं तीर्थं रामसेतौ शिवंकरम् ।।

अगस्त्यकुण्डं संप्राप्य ततः स्नायादनुत्तमम् ।। ५९ ।।

अथाग्नितीर्थमासाद्य सर्वदुष्कर्मनाशनम् ।।

स्नात्वा संतर्प्य विधिवच्छ्राद्धं कुर्यात्पितॄन्स्मरन् ।। 3.1.51.६० ।।

गोभूहिरण्य धान्यादि ब्राह्मणेभ्यः स्वशक्तितः ।।

दत्त्वाग्नितीर्थतीरे तु सर्वपापैः प्रमुच्यते ।। ६१ ।।

अथवा यानि तीर्थानि चक्रतीर्थमुखानि वै ।।

अनुक्रांतानि विप्रेंद्राः सर्वपापहराणि तु ।। ६२ ।।

स्नायात्तदनुपूर्वेण स्नायाद्वापि यथारुचि ।।

स्नात्वैवं सर्वतीर्थेषु श्राद्धादीनि समाचरेत् ।। ६३ ।।

पश्चाद्रामेश्वरं प्राप्य निषेव्य परमेश्वरम् ।।

सेतुमाधवमागत्य तथा रामं च लक्ष्मणम् ।। ६४ ।।

सीतां प्रभंजनसुतं तथान्यान्कपिसत्तमान् ।।

तत्रत्य सर्वतीर्थेषु स्नात्वा नियमपूर्वकम् ।। ६५ ।।

प्रणम्य रामनाथं च रामचंद्रं तथापरान् ।।

नमस्कृत्य धनुष्कोटिं ततः स्नातुं व्रजेन्नरः ।। ६६ ।।

तत्र पाषाण दानादिपूर्वोक्तनियमं चरेत् ।।

धनुष्कोटौ च दानानि दद्याद्वित्तानुसारतः ।। ६७ ।।

क्षत्रं गाश्च तथान्यानि वस्त्राण्यन्यानि चादरात् ।।

ब्राह्मणेभ्यो वेदविद्भ्यो दद्याद्वित्तानुसारतः ।। ६८ ।।

कोटितीर्थं ततः प्राप्य स्नायान्नियमपूर्वकम् ।।

ततो रामेश्वरं देवं प्रणमेद्वृषभध्वजम् ।। ६९ ।।

विभवे सति विप्रेभ्यो दद्यात्सौवर्णदक्षिणाम्।।

तिलान्धान्यं च गां क्षेत्रं वस्त्राण्यन्यानि तंडुलान् ।। 3.1.51.७० ।।

दद्याद्वित्तानुसारेण वित्तलोभविवर्जितः ।।

धूपं दीपं च नैवेद्यं पूजोपकरणानिच ।। ७१ ।।

रामेश्वराय देवाय दद्याद्वित्तानुसारतः ।।

स्तुत्वा रामेश्वरं देवं प्रणम्य च सभक्तिकम् ।। ७२ ।।

अनुज्ञाप्य ततो गच्छत्सेतुमाधवसंनिधिम् ।।

तस्मै दत्त्वा च धूपादीननुज्ञाप्य च माधवम् ।। ७३ ।।

पूर्वोक्तनियमोपेतः पुनरायात्स्वकं गृहम् ।।

ब्राह्मणान्भोजयेदन्नैः षड्रसैः परिपूरितैः ।। ७४ ।।

तेनैव रामनाथोऽस्मै प्रीतोऽभीष्टं प्रयच्छति ।।

नारकं चास्य नास्त्येव दारिद्र्यं च विनश्यति ।। ।। ७५ ।।

संततिर्वर्धते तस्य पुरुषस्य द्विजोत्तमाः ।।

संसारमवधूयाशु सायुज्यमपि यास्यति ।। ७६ ।।

अत्रागन्तुमशक्तश्चेच्छ्रुतिस्मृत्यागमेषु यत् ।।

ग्रंथजातं महापुण्यं सेतुमाहात्म्यसूचकम् ।। ७७ ।।

तं ग्रंथं पाठयेद्विप्रा महापातकनाशनम् ।।

इदं वा सेतुमाहात्म्यं पठेद्भक्तिपुरःसरम् ।। ७८ ।।

सेतुस्नानफलं पुण्यं तेनाप्नोति न संशयः ।।

अंधपंग्वादिविषयमेतत्प्रोक्तं मनीषिभिः ।। ७९ ।।

।। श्रीसूत उवाच ।। ।।

एवं वः कथितो विप्राः सेतुयात्राक्रमो द्विजाः ।।

एतत्पठन्वा शृण्वन्वा सर्वदुःखाद्विमुच्यते ।। 3.1.51.८० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये यात्राक्रमवर्णनंनामैकपंचाशत्तमोऽध्यायः ।। ५१ ।।

खण्डः ३ (ब्रह्मखण्डः) · सेतुखण्डः — Adhyāya 52

।। श्रीसूत उवाच ।। ।।

भूयोऽप्यहं प्रवक्ष्यामि सेतुमुद्दिश्य वैभवम् ।।

युष्माकमादरेणाहं शृणुध्वं मुनिपुंगवाः ।। १ ।।

स्थानानामपि सर्वेषामेतत्स्थानं महत्तरम् ।।

अत्र जप्तं हुतं तप्तं दत्तं चाक्षय मुच्यते ।। २ ।।

अस्मिन्नेव महास्थाने धनुष्कोटौ निमज्जनात्।।

वाराणस्यां दशसमावासपुण्यफलं भवेत् ।। ३ ।।

तस्मिंस्थले धनुष्कोटौ स्नात्वा रामेश्वरं शिवम् ।।

दृष्ट्वा नरो भक्तियुक्तस्त्रिदिनानि वसेद्द्विजाः ।। ४ ।।

पुण्डरीकपुरे तेन दशवत्सरवासजम् ।।

पुण्यं भवति विप्रेंद्रा महापातकनाश नम् ।।५।।

अष्टोत्तरसहस्रं तु मंत्रमाद्यं षडक्षरम् ।।

अत्र जप्त्वा नरो भक्त्या शिवसायुज्यमाप्नुयात् ।। ६ ।।

मध्यार्जुने कुंभकोणे मायूरे श्वेतकानने ।।

हालास्ये च गजारण्ये वेदारण्ये च नैमिषे ।। ७ ।।

श्रीपर्वते च श्रीरंगे श्रीमद्वृद्धगिरौ तथा ।।

चिदंबरे च वल्मीके शेषाद्रावरुणाचले ।। ८ ।।

श्रीमद्दक्षिणकैलासे वेंकटाद्रौ हरिस्थले ।।

कांचीपुरे ब्रह्मपुरे वैद्येश्वरपुरे तथा ।। ९ ।।

अन्यत्रापि शिवस्थाने विष्णुस्थाने च सत्तमाः ।।

वर्षवासभवं पुण्यं धनुष्कोटौ नरो मुदा ।।3.1.52.१०।।।

माघमासे यदि स्नायादाप्नोत्येव न संशयः ।।

इमं सेतुं समुद्दिश्य द्वौ समुद्राविति श्रुतिः ।।११।।

विद्यते ब्राह्मणश्रेष्ठा मातृभूता सनातनी ।।

अदो यद्दारुरित्यन्या यत्रास्ति मुनिपुंगवाः ।। १२ ।।

विष्णोः कर्माणि पश्यंती सेतुवैभवशंसिनी ।।

श्रुतिरस्ति तथान्यापि तद्विष्णोरिति चापरा ।। १३ ।।

इतिहासपुराणानि स्मृतयश्च तपोधनाः ।।

एकवाक्यतया सेतुमाहात्म्यं प्रबुवंति हि ।। १४ ।।

चंद्रसूर्योपरागेषु कुर्व न्सेत्ववगाहनम् ।।

अविमुक्ते दशाब्दं तु गंगास्नानफलं लभेत् ।। १५ ।।

कोटिजन्मकृतं पापं तत्क्षणेनैव नश्यति ।।

अश्वमेधसहस्रस्य फलमाप्नोत्य नुत्तमम् ।।१६।।

विषुवायनसंक्रांतौ शशिवारे च पर्वणि ।।

सेतुदर्शनमात्रेण सप्तजन्मार्जिताशुभम् ।।१७।।

नश्यते स्वर्गतिं चैव प्रयांति द्विजपुंगवाः ।।

मकरस्थे रवौ माघे किंचिदभ्युदिते रवौ ।। १८ ।।

स्नात्वा दिनत्रयं मर्त्यो धनुष्कोटौ विपातकः ।।

गंगादिसर्वतीर्थेषु स्नानपुण्यमवाप्नुयात् ।। ।। १९ ।।

धनुष्कौटौ नरः कुर्यात्स्नानं पंचदिनेषु यः ।।

अश्वमेधादिपुण्यं च प्राप्नुयाद्ब्राह्मणोत्तमाः ।। 3.1.52.२० ।।

चांद्रायणादिकृच्छ्राणामनुष्ठानफलं लभेत् ।।

चतुर्णामपि वेदानां पारायणफलं तथा ।। २१ ।।

माघमासे दशाहःसु धनुष्कोटौ निमज्जनात् ।।

ब्रह्महत्यायुतं नश्येन्नात्र कार्या विचारणा ।। २२ ।।

माघमासे धनुष्कोटौ दशपंचदिनानि यः ।।

स्नानं करोति मनुजः स वैकुंठमवाप्नुयात् ।। २३ ।।

माघमासे रामसैतौ स्नानं विंशद्दि नं चरन् ।।

शिवसामीप्यमाप्नोति शिवेन सह मोदते ।। २४ ।।

पंचविंशद्दिनं स्नानं कुर्वन्सारूप्यमाप्नुयात् ।।

स्नानं त्रिंशद्दिनं कुर्वन्सायुज्यं लभते ध्रुवम् ।। २५ ।।

अतोऽवश्यं रामसेतौ माघमासे द्विजोत्तमाः ।।

स्नानं समाचरेद्विद्वान्किंचिदभ्युदिते रवौ ।। २६ ।।

चंद्रसूर्योपरागे च तथैवार्द्धोदये द्विजाः ।।

महोदये रामसेतौ स्नानं कुर्वन्द्विजोत्तमाः ।। २७ ।।

अनेकक्लेशसंयुक्तं गर्भवासं न पश्यति।।

ब्रह्महत्यादिपापानां नाशकं च प्रकीर्तितम् ।। ।। २८ ।।

सर्वेषां नरकाणां च बाधकं परिकीर्तितम् ।।

संपदामपि सर्वासां निदानं परिकीर्तितम् ।। २९ ।।

इन्द्रादिसर्वलोकानां सालोक्यादिप्रदं तथा ।।

चंद्रसूर्योपरागे च तथैवार्द्धोदये द्विजाः ।। 3.1.52.३० ।।

महोदये धनुष्कोटौ मज्जनं त्वतिनिश्चितम् ।।

रावणस्य विनाशार्थं पुरा रामेण निर्मि तम् ।। ३१ ।।

सिद्धचारणगंधर्वकिन्नरोरगसेवितम् ।।

ब्रह्मदेवर्षिराजर्षिपितृसंघनिषेवितम् ।। ३२ ।।

ब्रह्मादिदेवतावृंदैस्सेवितं भक्तिपूर्वकम् ।।

पुण्यं यो रामसेतुं वै संस्मरन्पुरुषो द्विजाः ।। ३३ ।।

स्नायाच्च यत्र कुत्रापि तटाकादौ जलाशये ।।

न तस्य दुष्कृतं किंचिद्भविष्यति कदाचन ।। ३४ ।।

सेतुमध्यस्थतीर्थेषु मुष्टिमात्रप्रदानतः ।।

नश्यंति सकला रोगा भ्रूणहत्यादयस्तथा ।। ३५ ।।

रामेण धनुषः पुण्यां यो रेखां पश्यते कृताम् ।।

न तस्य पुनरावृत्तिर्वैकुंठात्स्यात्कदाचन ।। ३६ ।।

धनुष्कोटिरिति ख्याता या लोके पापनाशिनी ।।

विभीषणप्रार्थनया कृता रामेण धीमता ।। ।। ३७ ।।

धनुष्कोटिर्महापुण्या तस्यां स्नात्वा सभक्तिकम् ।।

दद्याद्दानानि वित्तानां क्षेत्राणां च गवां तथा ।।३८।।

तिलानां तंडुलानां च धान्यानां पयसां तथा ।।

वस्त्राणां भूषणानां च माषाणामोदनस्य च।।३९।।

दध्नां घृतानां वारीणां शाकानामप्युदश्विताम् ।।

शुद्धानां शर्कराणां च सस्यानां मधुनां तथा ।। 3.1.52.४० ।।

मोदकानामपूपानामन्येषां दानमेवच ।।

रामसेतौ द्विजाः प्रोक्तं सर्वाभीष्टप्रदायकम् ।। ४१ ।।

अतो दद्याद्रामसेतौ वित्तलोभ विवर्जितः ।।

दत्तं हुतं च तप्तं च जपश्च नियमादिकम् ।। ४२ ।।

श्रीरामधनुषः कोटावनंतफलदं भवेत् ।।

तेन वेदाश्च तुष्यंति तुष्यंति पितरस्तथा ।। ।। ४३ ।।

तुष्यंति मुनयः सर्वे ब्रह्माविष्णुः शिवस्तथा ।।

नागाः किंपुरुषा यक्षाः सर्वे तुष्यंति निश्चितम् ।।४४।।

स्वयं च पूतो भवति धनुष्कोट्यवलो कनात्।।

स्ववंशजान्नरान्सर्वान्पावयेच्च पितामहान् ।। ४५ ।।

तारयेच्च कुलं सर्वं धनुष्कोट्यवलोकनात् ।।

रामस्य धनुषः कोट्या कृतरेवावगाहनात् ।। ४६ ।।

पंचपातककोटीनां नाशः स्यात्तत्क्षणे ध्रुवम् ।।

श्रीरामधनुषः कोट्या रेखां यः पश्यते कृताम् ।। ४७ ।।

अनेकक्लेशसंपूर्णं गर्भवासं न पश्यति ।।

यत्र सीताऽनलं प्राप्ता तस्मिन्कुंडे निमज्जनात् ।। ४८ ।।

भ्रूणहत्याशतं विप्रा नश्यति क्षणमात्रतः ।।

यथा रामस्तथा सेतुर्यथा गंगा तथा हरिः ।। ४९ ।।

गंगे हरे रामसेतो त्विति संकीर्तयन्नरः ।।

यत्र क्वापि बहिः स्नायात्तेन याति परां गतिम् ।। 3.1.52.५० ।।

सेतावर्धोदये स्नात्वा गन्धमादनपर्वते ।।

पितॄनुद्दिश्य यः पिंडान्दद्यात्सर्षपमात्रकान् ।। ५१ ।।

पितरस्तृप्तिमायांति यावच्चंद्रदिवाकरौ ।।

शमीपत्रप्रमाणं तु पितॄनुद्दिश्य भक्तितः ।। ५२ ।।

द्विजेन पिण्डं दत्तं चेत्सर्वपापविमोचितः ।।

स्वर्गस्थो मुक्तिमायाति नरकस्थो दिवं व्रजेत् ।। ५३ ।।

सेतौ च पद्मनाभे च गोकर्णे पुरुषोत्तमे ।।

उदन्वदंभसि स्नानं सार्वकालिकमीप्सितम् ।। ५४ ।।

शुक्रांगारकसौरीणां वारेषु लवणांभसि ।।

संतानकामी न स्नाया त्सेतोरन्यत्र कर्हिचित् ।। ५५ ।।

अकृतप्रेतकार्यो वा गर्भिणीपतिरेव वा ।।

न स्नायादुदधौ विद्वान्सेतोरन्यत्र कर्हिचित् ।। ५६ ।।

न कालापेक्षणं सेतोर्नित्यस्नानं प्रशस्यते ।।

वारतिथ्यृक्षनियमाः सेतोरन्यत्र हि द्विजाः ।। ५७ ।।

उद्दिश्य जीवतः स्नायान्न तु स्नायान्मृतान्प्रति ।।

कुशैः प्रतिकृतिं कृत्वा स्नापयेत्तीर्थवारिभिः ।। ५८ ।।

इमं मंत्रं समुच्चार्य प्रसन्नेंद्रियमानसः ।।

कुशोऽसि त्वं पवित्रोऽसि विष्णुना विधृतः पुरा ।। ५९ ।।

त्वयि स्नाते स च स्नातो यस्यैतद्ग्रंधिवन्धनम् ।।

सर्वत्र सागरः पुण्यः सदा पर्वणि पर्वणि ।। 3.1.52.६० ।।

सेतौ सिन्ध्वब्धिसंयोगे गंगासागर संगमे ।।

नित्यस्नानं हि निर्दिष्टं गोकर्णे पुरुषोत्तमे ।। ६१ ।।

नापर्वणि सरिन्नाथं स्पृशेदन्यत्र कर्हिचित् ।।

पितॄणां सर्वदेवानां मुनीनामपि शृण्वताम् ।। ६२ ।।

प्रतिज्ञामकरोद्रामः सीतालक्ष्मणसंयुतः ।।

मया ह्यत्र कृते सेतौ स्नानं कुर्वंति ये नराः ।। ६३ ।।

मत्प्रसादेन ते सर्वे यास्यंति पुनर्भवम् ।।

नश्यंति सर्वपापानि मत्सेतोरवलोकनात् ।। ६४ ।।

रामनाथस्य माहात्म्यं मत्सेतोरपि वैभवम् ।।

नाहं वर्णयितुं शक्तो वर्षकोटिशतैरपि ।। ६५ ।।

इति रामस्य वचनं श्रुत्वा देवमहर्षयः ।।

साधुसाध्विति संतुष्टाः प्रशशंसुश्च तद्वचः ।। ६६ ।।

सेतुमध्ये चतुर्वक्त्रः सर्वदेवसमन्वितः ।।

अध्यास्ते तस्य रक्षार्थमीश्वरस्याज्ञया सदा ।। ६७ ।।

रक्षार्थं रामसेतौ हि सेतुमाधवसंज्ञया ।।

महाविष्णुः समध्यास्ते निबद्धो निगडेन वै ।। ६८ ।।

महर्षयश्च पितरो धर्मशास्त्रप्रवर्तकाः ।।

देवाश्च सहगन्धर्वाः सकिन्नरमहोरगाः ।। ६९ ।।

विद्याधराश्चारणाश्च यक्षाः किंपुरुषास्तथा ।।

अन्यानि सर्वभूताति वसंत्यस्मिन्नहर्निशम् ।। 3.1.52.७० ।।

सोऽहं दृष्टः श्रुतो वापि स्मृतः स्पृष्टोऽवगाहितः ।।

सर्वस्माद्दुरिता त्पाति रामसेतुर्द्विजोत्तमाः ।। ७१ ।।

सेतावर्धोदये स्नानमानंदप्राप्तिकारणम् ।।

मुक्तिप्रदं महापुण्यं महानरकनाशनम् ।। ७२ ।।

पौषे मासे विष्णुभस्थे दिनेशे भानोर्वारे किंचिदुद्यद्दिनेशे ।।

युक्ताऽमा चेन्नागहीना तु पाते विष्णोर्ऋक्षे पुण्यमर्धोदयं स्यात् ।। ७३ ।।

तस्मिन्नर्धोदये सेतौ स्नानं सायुज्यकारणम्।।

व्यतीपातसहस्रेण दर्शमेकं समं स्मृतम् ।। ७४ ।।

दर्शायुतसमं पुण्यं भानुवारो भवेद्यदि ।।

श्रवणर्क्ष यदि भवे द्भानुवारेण संयुतम् ।। ७५ ।।

पुण्यमेव तु विज्ञेयमन्योन्यस्यैव योगतः ।।

एकैकमप्यमृतदं स्नानदानजपार्चनात् ।। ७६ ।।

पंचस्वपि च युक्तेषु किमु वक्तव्यमत्र हि ।।

श्रवणं ज्योतिषां श्रेष्ठममा श्रेष्ठा तिथिष्वपि ।। ७७ ।।

व्यतीपात तु योगानां वारं वारेषु वै रवेः ।।

चतुर्णामपि यो योगो मकरस्थे रवौ भवेत्।। ७८ ।।

तस्मिन्काले रामसेतौ यदि स्नायात्तु मानवः ।।

गर्भं न मातुराप्नोति किन्तु सायुज्यमाप्नुयात् ।। ७९ ।।

अर्धोदयसमः कालो न भूतो न भविष्यति ।।

एवं महोदयः कालो धर्मकालः प्रकीर्तितः ।। 3.1.52.८० ।।

एतेषु पुण्यकालेषु सेतौ दानं प्रकीर्तितम् ।।

आचारश्च तपो वेदो वेदांतश्रवणं तथा ।। ८१ ।।

शिवविष्ण्वादिपूजापि पुराणार्थप्रवक्तृता ।।

यस्मिन्विप्रे तु विद्यंते दानपात्रं तदुच्यते ।। ८२ ।।

पात्राय तस्मै दानानि सेतौ दद्याद्द्विजातये ।।

यदि पात्रं न लभ्येत सेतावाचारसंयुतम् ।। ८३ ।।

संकल्प्योद्दिश्य सत्पात्रं प्रदद्याद्ग्राममागतः ।।

अतो नाधमपात्राय दातव्यं फलकांक्षिभिः ।।

उत्तमं सेतुमाहात्म्यं वक्तुर्देयं न चान्यतः ।। ८४ ।।

अत्रेतिहासं वक्ष्यामि वसिष्ठोक्तमनुत्तमम् ।।

दिलीपाय महाराज्ञे दानपात्रवि वित्सवे ।। ८५ ।।

।। दिलीप उवाच ।। ।।

दानानि कस्मै देयानि ब्रह्मपुत्र पुरोहित ।।

एतन्मे तत्त्वतो ब्रूहि त्वच्छिष्यस्य महामुने ।। ८६ ।। ।।

।। वसिष्ठ उवाच ।। ।।

पात्राणामुत्तमं पात्रं वेदाचारपरायणम् ।।

तस्मादप्यधिकं पात्रं शूद्रान्नं यस्य नोदरे ।। ८७ ।।

वेदाः पुराणमंत्राश्च शिवविष्ण्वादिपूजनम् ।।

वर्णाश्रमाद्यनुष्ठानं वर्तते यस्य संततम् ।। ८८ ।।

दरिद्रश्च कुटुंबी च तत्पात्रं श्रेष्ठमुच्यते ।।

तस्मिन्पात्रे प्रदत्तं वै धर्म कामार्थमोक्षदम् ।। ८९ ।।

पुण्यस्थले विशेषेण दानं सत्पात्रगर्हितम् ।।

अन्यथा दशजन्मानि कृकलासो भविष्यति ।। 3.1.52.९० ।।

जन्मत्रयं रासभः स्यान्मंडूकश्च द्विजन्मनि ।।

एकजन्मनि चाण्डालस्ततः शूद्रो भविष्यति ।। ९१ ।।

ततश्च क्षत्रियो वैश्यः क्रमाद्विप्रश्च जायते ।।

दरिद्रश्च भवेत्तत्र बहुरोगसमन्वितः ।। ९२ ।।

एवं बहुविधा दोषा दुष्टपात्रप्रदानतः ।।

तस्मात्सर्वप्रयत्नेन सत्पात्रेषु प्रदापयेत् ।। ९३ ।।

न लभ्यते चेत्तत्पात्रं तदा संकल्पपूर्वकम् ।।

एकं सत्पात्रमुद्दिश्य प्रक्षिपेदुदकं भुवि ।। ९४ ।।

उद्दिष्टपात्रस्य मृतौ तत्पुत्राय समर्पयेत् ।।

तस्यापि मरणे प्राप्ते महादेवे समर्प येत्।।

अतोनाधमपात्राय दद्यात्तीर्थे विशेषतः ।। ९५ ।।

।। श्रीसूत उवाच ।। ।।

एवमुक्तो वसिष्ठेन दिलीपः स द्विजोत्तमाः ।। ९६ ।।

तदा प्रभृति सत्पात्रे प्रायच्छद्दानमुत्तमम् ।।

अतः पुण्यस्थले सेतावत्रापि मुनिपुंगवाः ।। ९७ ।।

यदि लभ्येत सत्पात्रं तदा दद्याद्धनादिकम् ।।

नो चेत्संकल्पपूर्वं तु विशिष्टं पात्रमुत्तमम्।। ९८ ।।

समुद्दिश्य जलं भूमौ प्रक्षिपेद्भक्तिसंयुतः ।।

स्वग्राममागतः पश्चात्तस्मिन्पात्रे समर्पयेत् ।। ९९ ।।

पूर्वंसंकल्पितं वित्तं धर्मलोपोऽन्यथा भवेत् ।।

न दुःखं पुनराप्नोति किं तु सायुज्यमाप्नुयात् ।। 3.1.52.१०० ।।

अर्धोदयसमः कालो न भूतो न भवि ष्यति ।।

कुम्भकोणं सेतुमूलं गोकर्णं नैमिषे तथा ।। १ ।।

अयोध्या दंडकारण्यं विरूपाक्षं च वेंकटम् ।।

शालिग्रामं प्रयागं च कांची द्वारावती तथा ।। २ ।।

मधुरा पद्मनाभं च काशी विश्वेश्वरालया ।।

नद्यः सर्वाः समुद्राश्च पर्वतं भास्करं स्मृतम् ।। ३ ।।

मुंडनं चोपवासश्च क्षेत्रेष्वेषु प्रकीर्तितम् ।।

लोभान्मोहादकृत्वा यः स्वगृहं याति मानवः ।। ४ ।।

सहैव यांति तद्गेहे पातकानि च तेन वै ।।

चतुर्विंशतितीर्थानि पर्वते गन्ध मादने ।। ५ ।।

तत्र लक्ष्मणतीर्थे तु वपनं मुनिभिः स्मृतम् ।।

तीरे लक्ष्मणतीर्थस्य लोमवर्ज्यं शिवाज्ञया ।। ६ ।।

शिरोमात्रस्य वपनं कृत्वा दत्त्वा च दक्षिणाम् ।।

स्नात्वा लक्ष्मणतीर्थे च दृष्ट्वा लक्ष्मणशंकरम् ।। ७ ।।

सर्वपापविनिर्मुक्तः शंकरं याति मानवः ।।

अर्धोदये सदा स्नानं सेतावेवं समाचरेत् ।। ८ ।।

नास्ति सेतुसमं तीर्थं नास्ति सेतुसमं तपः ।।

नास्ति सेतुसमं पुण्यं नास्ति सेतुसमा गतिः ।। ९ ।।

उपरागसहस्रेण सममर्धोददयं स्मृतम् ।।

अर्धोदयसमः कालो नास्ति संसारमोचकः ।। 3.1.52.११० ।।

तस्मिन्नर्धोदये रामसेतौ स्नानं तु यद्भवेत् ।।

न तत्तुल्यं भवेत्पुण्यं सर्वशास्त्रेषु सर्वदा ।। ११ ।।

षष्टिवर्षसहस्राणि भागीरथ्यवगाहनात् ।।

यत्पुण्यमृषिनिर्दिष्टं तत्पुण्यं मुनिपुंगवाः ।। १२ ।।

एकवारं रामसेतौ स्नानात्सिध्यति निश्चितम् ।।

अर्द्धोदये विशेषेण तथैव च महोदये ।। १३ ।।

मकरस्थे रवौ माघे प्रयागे पापमोचने ।।

माघस्नानसहस्रेण यत्पुण्यं लभते नरः ।। १४ ।।

तस्मिन्नर्धोदये विप्रा रामसेतौ निमज्जनात् ।।

एकवारेण तत्पुण्यं लभते नात्र संशयः ।। १५ ।।

त्रैलोक्यस्थेषु तीर्थेषु स्नातानां यत्फलं भवेत् ।।

सकृदर्द्धोदये सेतौ स्नात्वा तत्पुण्यभाग्भवेत् ।। १६ ।।

ब्रह्मज्ञानविहीनानां कृतघ्नानां दुरा त्मनाम् ।।

पापिनामितरेषां च महापातकिनां तथा ।। १७ ।।

सेतावर्द्धोदये स्नानाद्विशुद्धिरिति निश्चिता ।।

स्थलांतरे कृतघ्नानां निष्कृतिर्नास्ति कर्हिचित् ।। १८ ।।

सेतावर्धोदये स्नानात्तेषामपि हि निष्कृतिः ।।

सेतावर्द्धोदये स्नानं ये न कुर्वंति मोहतः ।। १९ ।।

संसारेषु निमज्जंति ते यथांधाः पतंत्यधः ।।

सेतावर्धोदये स्नात्वा भित्त्वा भास्करमण्डलम् ।। 3.1.52.१२० ।।

ब्रह्मलोकं प्रयास्यंति नात्र कार्या विचारणा ।।

अर्द्धोदये तु संप्राप्ते स्नात्वा सेतौ विमुक्तिदे ।। २१ ।।

स्नात्वा सम्यग्जगन्नाथं राघवं सीतया सह ।।

रामेश्वरं महादेवं सुग्रीवादिमुखान्कपीन् ।। २२ ।।

ध्यात्वा देवानृषींश्चापि तथा पितृगणानपि ।।

तर्पयेदपि तान्सर्वान्स्वदारिद्र्यविमुक्तये ।। २३ ।।

अर्द्धोदयाख्यममलं जगन्नाथं समर्चयेत् ।।

सेतावर्द्धोदये काले तेन प्रीणाति केशवः ।। २४ ।।

दिवाकर नमस्तेऽस्तु तेजोराशे जगत्पते ।।

अत्रिगोत्रसमुत्पन्न लक्ष्मी देव्याः सहोदर ।। २५ ।।

अर्घं गृहाण भगवन्सुधाकुम्भ नमोस्तु ते ।।

व्यतीपातमहायोगिन्महापातकनाशन ।। २६ ।।

सहस्रबाहो सर्वात्म न्गृहाणार्घ्यं नमोऽस्तु ते ।।

तिथिनक्षत्रवाराणामधीश परमेश्वर ।। २७।।

मासरूप गृहणार्घ्यं कालरूप नमोऽस्तु ते ।।

इति दत्त्वा पृथङ्मंत्रैरर्घ्यमर्द्धोदये नरः ।। २८ ।।

उपायनानि विप्रेभ्यो दद्याद्वित्तानुसारतः ।।

चतुर्दश द्वादशाष्टौ सप्त षट् पंच वा द्विजान् ।। २९ ।।

यथाशक्त्यन्नपानाद्यैः पृथङ्मंत्रैः समर्चयेत् ।।

कांस्यपात्रं समादाय नूतनं दारवं तु वा ।। 3.1.52.१३० ।।

विप्राणां पुरतः स्थाप्य पयसा परिपूरितम् ।।

सफलं सगुडं साज्यं सतांबूलं सदक्षिणम् ।। ३१ ।।

दद्याद्यज्ञोपवीतं च गां सवत्सां पयस्विनीम् ।।

अलंकृतेभ्यो विप्रेभ्यो यथाशक्ति वदेदिदम् ।। ३२ ।।

श्रवणर्क्षे जग न्नाथ जन्मर्क्षे तव केशव ।।

यन्मया दत्तमर्थिभ्यस्तदक्षयमिहास्तु मे ।। ३३ ।।

नक्षत्राणामधिपते देवानाममृतप्रद ।।

त्राहि मां रौहिणीकांत कला शेषनमोऽस्तु ते ।। ३४ ।।

दीननाथ जगन्नाथ कलानाथ कृपाकर ।।

त्वत्पादपद्मयुगलभक्तिरस्त्वचला मम ।। ३५ ।।

व्यतीपात नमस्तेऽस्तु सोम सूर्योग्निसंनिभ ।।

यद्दानादिकृतं किचित्तदक्षयमिहास्तु ते ।। ३६ ।।

अर्थिनां कल्पवृक्षोऽसि वासुदेव जनार्दन ।।

मासर्त्वयनकालेश पापं शमय मे हरे ।। ३७ ।।

इत्यर्चयित्वा विप्रेंद्रास्ततः श्राद्धं समाचरेत् ।।

हिरण्यश्राद्धमामं वा पाकश्राद्धमथापि वा ।। ३८ ।।

पार्वणं च ततः कुर्याद्वित्त शाठयं न कारयेत् ।।

आचार्यं पूजयेत्पश्चाद्वस्त्रभूषणकुण्डलैः ।। ३९ ।।

प्रतिमामर्पयेत्तस्मै गां च छत्रमुपानहम् ।।

एवमर्द्धोदये सेतौ व्रतं कुर्याद्द्वि जोत्तमाः ।। 3.1.52.१४० ।।

तेनैव कृतकृत्यः स्यात्कर्तव्यं नास्ति किंचन ।।

स्थलांतरेऽप्येवमेतद्व्रतमर्धोदये चरेत् ।। ४१ ।।

सेतुः समुद्रे रामेण निर्मितो गन्धमादने ।।

सेतुः सेतुरिति प्राज्ञास्तस्य नात्र प्रकीर्तनात् ।। ४२ ।।

स्नानकाले मनुष्याणां पातकानां तु कोटयः ।।

तत्क्षणादेव नश्यंति यास्यंत्यप्यत्युतं पदम् ।। ४३ ।।

निमिषं निमिषार्द्धं वा सेतौ तिष्ठति यो नरः ।।

तद्दृष्टिगोचरं गंतुं न शक्ता यमकिंकराः ।। ४४ ।।

रामसेतुं धनु ष्कोटिं रामं सीतां च लक्ष्मणम् ।।

रामनाथं हनूमंतं सुग्रीवादिमुखान्कपीन् ।। ४५ ।।

विभीषणं नारदं च विश्वामित्रं घटोद्भवम् ।।

वसिष्ठं वामदेवं च जाबालिमथ काश्यपम्।। ४६।।

रामभक्तास्तथा चान्यांश्चिंतयन्मनसा तदा ।।

सर्वदुःखाद्विमुच्येत प्रयाति परमं पदम् ।। ४७ ।।

सत्य क्षेत्रे हरिक्षेत्रे कृष्णक्षेत्रे च नैमिषे ।।

शालग्रामे बदर्य्यां च हस्तिशैले वृषाचले ।। ४८ ।।

शेषाद्रौ चित्रकूटे च लक्ष्मीक्षेत्रे कुरंगके ।।

कांचिके कुम्भकोणे च मोहिनीपुर एव च ।। ४९ ।।

ऐन्द्रे श्वेताचले पुण्ये पद्मनाभे महास्थले ।।

फुल्लाख्ये घटिकाद्रौ च सारक्षेत्रे हरि स्थले ।।। 3.1.52.१५० ।।

श्रीनिवासे महाक्षेत्रे भक्तनाथमहास्थले ।।

अलिंदाख्ये महाक्षेत्रे शुकक्षेत्रे च वारुणे ।। ५१ ।।

मधुरायां हरिक्षेत्रे श्रीगोष्ठ्यां पुरुषोत्तमे ।।

श्रीरंगे पुण्डरीकाक्षे तथान्यत्र हरिस्थले ।। ५२ ।।

स्नानेन यानि पापानि विनश्यन्ति द्विजोत्तमाः ।।

तानि सर्वाणि नश्यंति सेतुस्नानेन निश्चितम् ।। ५३ ।।

रघुनाथकृते सेतौ महामुनिनिषेविते ।।

न स्नांति ये नरास्तेषां न संसारनिवर्तनम् ।।। ।। ५४ ।।

ये वा नमः शिवायेति मन्त्रं पञ्चाक्षरं शुभम् ।।

न वदन्ति न शृण्वन्ति न स्मरन्ति मुनीश्वराः ।। ५५ ।।

नमो नाराय णायेति प्रणवेन समन्वितम् ।।

मंत्रमष्टाक्षरं वापि न जपंति स्मरंति वा ।। ५६ ।।

एवं श्रीरामचंद्रस्य षडक्षरमनु तथा ।।

न जपंति न शृण्वंति न स्मरंति च सत्तमाः ।। ५७ ।।

तेषां पापानि नश्यंति रामसेतौ निमज्जनात् ।।

उपोषणं न कुर्वंति ये वा हरिदिने शुभे ।। ५८ ।।

न धारयंति ये भस्म त्रिपुंड्रोद्धूलनादिना ।।

जाबालोपनिषन्मंत्रैस्सप्तभिर्मस्तकादिके ।। ५९ ।।

शिवं वा केशवं वापि तथान्यानपि वै सुरान् ।1

न पूजयंति वेदोक्त मार्गेण द्विजपुंगवाः ।। 3.1.52.१६० ।।

तेषां पापानि नश्यंति रामसेतौ निम्जनात् ।।

शिवविष्ण्वादिदेवेभ्यो धूपं दीपं च चंदनम् ।। ६१ ।।

पुष्पाणि न प्र यच्छंति भक्तिपूर्वं द्विजोत्तमाः ।।

शिवविष्ण्वादिदेवानां श्रीरुद्रैश्चमकैस्तथा ।। ६२ ।।

श्रीमत्पुरुषसूक्तेन पावमायादि सूक्तकैः ।।

त्रिमधु त्रिसुपर्णैश्च पंच शांत्यादिना तथा ।। ६३ ।।

नाभिषेकं प्रकुर्वंति ये नराः पापचेतसः ।।

तेषां पापानि नश्यंति धनुष्कोटौ निमज्जनात् ।। ६४ ।।

शिवविष्ण्वादि देवानां नमस्कारप्रदक्षिणे ।।

न प्रकुर्वंति भक्त्या ये पापोपहतबुद्धयः ।। ६५ ।।

धनुर्मासेऽप्युषःकाले न पूजां च प्रकुर्वते ।।

शिवविष्ण्वादिदेवानां महानैवेद्यपूर्वकम् ।। ६६ ।।

तेषां पापानि नश्यंति रामसेतौ निमज्जनात् ।।

कीर्तयंति न ये विष्णोर्नामानि तु हरस्य वा ।। ६७ ।।

शालिग्रामशिला चक्रं शिवनाभं च ये नराः ।।

न पूजयंति मोहेन द्वारकाचक्रमेव वा ।। ६८ ।।

गंगामृदं च तुलसीमृत्तिकां गोपिचंदनम् ।।

न धारयंति ये मूढा ललाटे चोरसि द्विजाः ।। ६९ ।।

दोर्द्वंद्वे च गले सम्यक्सर्वपापौघशांतये ।।

रुद्राक्षं तुलसीकाष्ठं यो न धारयते नरः ।।3.1.52.१७०।।।

तस्य पापानि नश्यंति धनुष्कोटौ निमज्जनात् ।।

ब्राह्मे मुहूर्ते संप्राप्ते निद्रां त्यक्त्वा प्रसन्नधीः ।। ७१ ।।

हरिशंकरनामानि तत्स्तोत्राण्यथ वा द्विजाः ।।

यो हि चिंतयते नित्यं विशिष्टं मंत्रमेव वा ।। ७२ ।।

तस्य पापानि नश्यंति धनुष्कोटौ निमज्जनात्।।

प्रातर्जलाशये गत्वा स्नात्वाऽऽचम्य विशुद्धधीः ।। ७३ ।।

प्रसन्नात्मा मुनिश्रेष्ठाः संध्योपासनपूर्वकम् ।।

नोपास्ते च नरो यस्तु गायत्रीं वेदमातरम् ।। ७४ ।।

नौपासनं वा कुर्वंति सायंप्रातरतंद्रिताः ।।

माध्याह्निकं न कुर्वंति ये वा पापहताशयाः ।। ७५ ।।

ब्रह्मयज्ञं वैश्वदेवं मध्याह्नेऽतिथिपूजनम् ।।

नाचरंति च सायं ये पूजामतिथिसंमताम् ।। ७६ ।।

तेषां पापानि नश्यंति धनुष्कोटौ निमज्जनात् ।।

भिक्षां यतीनां मध्याह्ने न प्रयच्छंति ये नराः ।। ७७ ।।

येऽप्यधीतां त्रयीं विप्रा विस्मरंति कुबुद्धयः ।।

नाधीयते त्रयीं वापि वेदांगानि तथा पुनः ।। ७८ ।।

प्रत्याब्दिकं मातृपित्रोः श्राद्धं ये नाचरंति वै ।।

श्राद्धं महालयं नित्यमष्टकाश्राद्ध मेव वा ।। ७९ ।।

अन्यन्नैमित्तिकं श्राद्धं ये न कुर्वंति लोभतः ।।

ये चैत्रे तु पौर्णमास्यां चित्रगुप्तस्य तुष्टये ।। 3.1.52.१८० ।।

पानकं कदलीपक्वं पायसान्नं सशर्करम् ।।

सगुडं साम्रफलकं पनसादिफलैर्युतम् ।। ८१ ।।

तांबूलं पादुके छत्रं वस्त्रपुष्पाणि चंदनम् ।।

विप्रेभ्यो न प्रयच्छंति लोभोपहतबुद्धयः।। ।। ८२ ।।

तेषां पापानि नश्यंति धनुष्कोटौ निमज्जनात् ।।

दुर्वृत्तो वा सुवृत्तो वा यो धनुष्कोटिसेवकः ।।८३ ।।

तस्य संसारविच्छित्तिः पुन र्जन्म विना भवेत् ।।

संसारसागरं तर्तुं य इच्छेन्मुनिपुंगवाः ।। ८४ ।।

रामचन्द्रधनुष्कोटिं स गच्छेदविलंबितम् ।।

सत्यं वच्मि हितं वच्मि सारं वच्मि हितं पुनः ।। ८५ ।।

रामचन्द्रधनुष्कोटिं गच्छध्वं मुक्तिसिद्धये ।।

रामचन्द्रधनुष्कोटौ कुर्यात्स्नानं विमुक्तये ।। ८६ ।।

नास्त्युपायांतरं विप्रा भूयोभूयो वदाम्यहम् ।।

रामचंद्रधनुष्कोटौ स्नानं कुर्वंति ये नराः ।। ८७ ।।

तेषामयत्नतः सिध्येत्संसारभय नाशनम् ।।

सत्यं ज्ञानमनंतं यत्पूर्णं ब्रह्म सनातनम् ।। ८८ ।।

तत्प्राप्तिः स्याद्धनुष्कोटौ मज्जनान्नात्र संशयः ।।

।। श्रीसूत उवाच ।। ।।

एवं वः कथितं विप्राः सेतुमाहात्म्यमुत्तमम् ।। ८९ ।।

महादुःखप्रशमनं महारोगनिबर्हणम् ।।

दुःस्वप्ननाशनं पुण्यमपमृ त्युनिवारणम् ]। 3.1.52.१९० ।।

महाशांतिकरं पुंसां पठतां शृण्वतामपि ।।

स्वर्गापवर्गदं पुण्यं सर्वतीर्थफलप्रदम् ।। ९१ ।।

कीर्तयेद्य इदं पुण्यं शृणु याद्वा समाहितः ।।

सोऽग्निष्टोमादियज्ञानां फलमाप्नोति पुष्कलम् ।। ९२ ।।

चतुर्णां सांगवेदानां शतावृत्या तु यत्फलम् ।।

तत्फलं समवाप्नोति ह्येतन्माहात्म्यकीर्तनात् ।। ९३ ।।

अत्रैकाध्यायपठनाच्छ्रवणाद्वा मुनीश्वराः ।।

अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ।। ९४ ।।

अध्यायद्वयपाठेन श्रवणेन तथैव च ।।

गोमेधाख्यस्य यज्ञस्य फलमाप्नोत्यनुत्तमम् ।। ९५ ।।

दशाध्यायान्पठेद्यस्तु शृणुयाद्वा सभक्तिकम् ।।

स्वर्गलोकमवाप्नोति शक्रेण सह मोदते ।। ९६ ।।

विंशत्यध्यायपठनाच्छ्रवणाच्च मुनीश्वराः ।।

ब्रह्मलोकमवाप्नोति ब्रह्मणा सह मोदते ।। ९७ ।।

त्रिंशदध्यायपठनाच्छ्रवणाच्च मुनीश्वराः ।।

विष्णुलोकमवाप्नोति विष्णुना सह मोदते ।। ९८ ।।

चत्वारिंशत्तमाध्यायान्पठेद्वा शृषुयादपि ।।

रुद्रलोकमवाप्नोति रुद्रेण सह मोदते ।। ९९ ।।

यः पंचाशत्तमाध्यायान्पठते शृणुतेऽपि वा ।।

स सांबं हरमाप्नोति शिवं चन्द्रार्धशेखरम् ।। 3.1.52.२०० ।।

यः पठेच्छ्रणुयाच्चेदं कृत्स्नं माहात्म्यमुत्तमम् ।।

स सांबशिवसालोक्यमाप्नोत्येव न संशयः ।। १ ।।

यः पठेच्छ्रणुयाच्चेदं द्विवारं मुनिसतमाः ।।

स याति शिवसामीप्यं विमानवरसंस्थितः ।। २ ।।

यस्त्रिवारं पठेदेतच्छृणुयाद्वा समाहितः ।।

शिवसारूप्यमाप्नोति शिवस्य प्रीतिमावहन् ।।३।।

चतुर्वारं पठेद्यस्तु शृणुयाद्वेदमुत्तमम् ।।

स सायुज्यमवाप्नोति शिवस्य गिरिजापतेः ।। ४ ।।

दिनेदिने पठेन्मर्त्यः श्लोकं श्लोकार्धमेव वा ।।

पादं वा पादमात्रं वा अक्षरं वर्णमेव वा ।। ५ ।।

तत्तद्दिनकृतं पापं तत्क्षणादेव नश्यति ।।

कृत्स्नेऽस्मिन्सेतुमाहात्म्ये पठितेऽपि श्रुतेऽपि वा ।। ।। ६ ।।

श्लोकेष्वत्रैव वर्तंते वर्णा यावंत एव हि ।।

तावत्यो ब्रह्महत्याश्च तावन्मद्यनिषेवणम् ।। ७ ।।

तावत्सुवर्णस्तेयं च तावान्गुर्वंगनागमः ।।

तावत्संसर्गदोषाश्च नश्यंत्येवं हि तत्क्षणात् ।। ८ ।।

यावतोऽस्मिन्महापुण्ये वर्तंते वर्णराशयः ।।

तावत्कृत्वश्चतुर्विंशत्तीर्थेषु स्नानजं फलम् ।। ९ ।।

तथान्येष्वपि तीर्थेषु सेतुमध्यगतेषु वै ।।

तत्फलं समवाप्नोति पाठेन श्रवणेन वा ।। 3.1.52.२१० ।।

येनेदं लिखितं भक्त्या सेतुमाहात्म्यमुत्तमम् ।।

विनष्टाज्ञानसंतानः शिवसायुज्यमाप्नुयात् ।। ११ ।।

यस्येदं वर्तते गेहे माहात्म्यं लिखितं शुभम् ।।

भूतवेतालकादिभ्यो भीतिस्तत्र न विद्यते ।। १२ ।।

व्याधिपीडा न तत्रास्ति नास्ति चोरभयंतथा ।।

शन्यंगारकमुख्यानां ग्रहाणां नास्ति पीडनम् ।। १३ ।।

यद्गृहे वर्तते पुण्यमिदं माहा त्म्यमुत्तमम् ।।

रामसेतुं विजानीत तद्गृहं मुनिपुंगवाः ।। १४ ।।

चतुर्विंशति तीर्थानि तत्रैव निवसंति हि ।।

तत्रैव वर्तते पुण्यो गन्धमादनपर्वतः ।। ।। १५ ।।

ब्रह्मविष्णुमहेशाश्च वर्तंते तत्र सादरम् ।।

लिखित्वा सेतुमाहात्म्यं ब्राह्मणाय निवेदयेत् ।।

चतुःसागरपर्यंता तेन दत्ता वसुंधरा ।। १६ ।। ।।

।। सेतुमाहात्म्यदानमन्त्रः ।। ।।

सेतुमाहात्म्यदानस्य कला नार्हंति षोडशीम् ।।

दानान्यन्यानि सर्वाणि ह्यतः शान्तिं प्रयच्छ मे ।।

किं पुनर्बहु नोक्तेन वसत्यत्र जगत्त्रयम् ।। १७ ।।

श्रावयेच्छ्राद्धकाले यो ह्येकमध्यायमत्र वै ।।

नश्येच्छ्राद्धस्य वैकल्यं पितरोऽप्यतिहर्षिताः ।। १८ ।।

यः पर्वकाले संप्राप्ते ब्राह्मणाञ्छ्रावयेदिदम् ।।

अध्यायमेकं श्लोकं वा गावोस्य निरुपद्रवाः ।।

बहुक्षीरा सवत्साश्च महिष्योऽस्य भवंति हि ।। १९ ।।

पठनीयमिदं पुण्यं मठे देवालयेऽपि वा ।।

नदीतटाकतीरेषु पुण्ये वारण्यभूतले ।।

श्रोत्रियाणां गृहे वापि नैवान्यत्र तु कर्हिचित् ।। 3.1.52.२२० ।।

विषुवायन कालेषु पुण्ये च हरिवासरे ।।

अष्टम्यां च चतुर्दश्यां पठनीयं विशेषतः ।। २१ ।।

इदं हि पाठ्यं श्रावण्यां मासि भाद्रपदे तथा ।।

धनुर्मासे च पाठ्यं स्यात्पाठ्यं चैवोत्तरायणे ।। २२ ।।

नियमेनैव माहात्म्यं पठनीयमिदं द्विजाः ।।

श्रोतारो नियमैर्युक्ताः शृणुयुश्चेदमुत्तमम् ।। २३ ।।

कीर्त्यंते पुण्यतीर्थानि माहात्म्येऽस्मिन्बहूनि वै ।।

कीर्त्यंते पुण्यशीलाश्च तथा राजर्षिसत्तमाः ।। २४ ।।

ऋषयश्च महाभागाः कीर्त्यंतेऽस्मिन्ननुत्तमे ।।

धर्माधर्मौ च कीर्त्येते पुण्येस्मिन्द्विजपुंगवाः ।। २५ ।।

ब्रह्मा विष्णुश्च रुद्रश्च कीर्त्यंतेऽत्र त्रिमूर्तयः ।।

इदं पवित्रं पापघ्नं श्रुत्यर्थैरुपबृंहि तम् ।। २६ ।।

संमतं स्मृतिकर्तॄणां द्वैपायनमुनिप्रियम् ।।

श्रोतव्यं पठितव्यं च आत्मनः श्रेय इच्छता ।। २७ ।।

श्रावकाय च दातव्यं यत्किंचित्कांचनादिकम् ।।

स्वस्वशक्त्यनुरोधेन वित्तशाठ्यं न कारयेत् ।। २८ ।।

वस्त्रं हिरण्यं धान्यं वा भूमिं गां च यथाबलम् ।।

दत्त्वा संभावनीयोऽयं श्रावकः श्रोतृभिर्जनैः ।। २९ ।।

पूजिते श्रावके तस्मिन्पूजिताः स्युस्त्रिमूर्तयः ।।

जगत्त्रयं पूजितं स्यात्पूजितासु त्रिमूर्तिषु ।। 3.1.52.२३० ।।

अवतीर्णो महीं साक्षाद्रामो दाशरथिर्हरिः ।।

ससीतालक्ष्मणो नित्यं श्रोतृभ्यः श्रावकाय च ।। ३१ ।।

दत्त्वेह लोके भोगांश्च मुक्तिं चांते प्रयच्छति ।।

द्वैपायनमुखांभोजान्निःसृतं शुभदं परम् ।। ३२ ।।

इदं वै सेतुमाहात्म्यं धर्मराजो युधिष्ठिरः ।।

भीमसेनादिभिः सर्वैरनुजैरपि संवृतः ।। ३३ ।।

नियमाचारसंयुक्तः ससैन्यश्च दिनेदिने ।।

शृणोति पठतो धौम्यमहर्षेः स्वपुरोधसः ।। ३४ ।।

।। श्रीसूत उवाच ।। ।।

भोभो स्तपोधनाः सर्वे नैमिषारण्यवासिनः ।।

मत्सकाशादिदं गुह्यं माहात्म्यं श्रुतिसंमितम् ।। ३५ ।।

श्रुतं भवद्भिर्नियतैर्नित्यं पठत सादरम् ।।

पाठयध्वं स्वशिष्येभ्यो नियतेभ्यो निरन्तरम् ।। ३६ ।।

इत्युक्त्वा तान्मुनीन्सूतो रोमांचितकलेवरः ।।

गुरुं हृदा स्मरन्व्यासं ननर्ताश्रूणि वर्तयन् ।। ३७ ।।

अत्रांतरे महाविद्वान्पाराशर्यो महामुनिः ।।

आशु प्रादुरभूत्तत्र शिष्यानुग्रहकांक्षया ।। ३८ ।।

तमागतं विलोक्याथ मुनिं सत्यवतीसुतम् ।।

सूतः सर्वैश्च सहितो नैमिषारण्यवासिभिः ।। ३९ ।।

व्यासस्य चरणांभोजे दंडवत्प्रणिपत्य तु ।।

जलमानंदजं तत्र नेत्राभ्यांपर्यवर्तयत् ।। 3.1.52.२४० ।।

प्रणतं प्रियशिष्यं तं दोर्भ्यामुत्थाप्य वै मुनिः ।।

आशीर्भिरभिनंद्यैनमालिंग्य च मुहुर्मुहुः ।। ४१ ।।

नैमिषारण्यमुनिभिरानीते परमासने ।।

द्वैपायनो महातेजा निषसाद तपोधनः ।। ४२ ।।

मुनिष्वप्युपविष्टेषु सूतेऽपि च निजाज्ञया ।।

शौनकादीन्मुनीन्सर्वाञ्छक्तेः पौत्रोऽभ्यभाषत ।। ४३ ।।

मया ज्ञातमिदं सर्वं नैमिषारण्यवासिनः ।।

मम शिष्येण सूतेन सेतुमाहात्म्यमुत्तमम् ।।

कथितं भवतामद्य महापातकनाशनम् ।। ४४ ।।

श्रुतीनां च स्मृतीनां च पुराणानां तथैव च ।।

शास्त्राणां चेतिहासानामन्येषामपि कृत्स्नशः ।। ४५ ।।

एष पर्यवसन्नोऽर्थो माहात्म्यं यत्त्विदं महत् ।।

सर्वेष्वपि पुराणेषु इदं बहुमतं मम ।। ४६ ।।

शृणोति धर्मजो धौम्यादिदं नित्यं ममाज्ञया ।।

अतो भवंतोऽपि सदा सेतुमाहात्म्यमुत्तमम् ।। ४७ ।।

पठंतु शृण्वंतु तथा शिष्याणां पाठयंतु च ।।

तच्छ्रुत्वा वचनं तस्य ते प्राहुर्बाढमित्यपि ।। ४८ ।।

ततो व्यासोऽपि सूतेन शिष्येण च समन्वितः ।।

अनुज्ञाप्य मुनीन्त्सर्वान्कैलासं पर्वतं ययौ ।। ४९ ।।

ऋषयो नैमिषारण्यनिलयास्तुष्टिमागताः ।।

प्रत्यहं सेतुमाहात्म्यं शृण्वंति च पठंति च ।। ।। 3.1.52.२५० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये द्विपंचाशत्तमोऽध्यायः ।। ५२ ।।

इदं स्कांदमहापुराणान्तर्गतब्रह्मखण्डान्तर्गतसेतुमाहात्म्यं समाप्तम् ।।

स्कन्द पुराणे तृतीये ब्रह्मखण्डे सेतुमाहात्म्यस्य देवनागरी युनिकोड रूपान्तरणम् उन्नत डिक्शनरी फाईल ग्रथित Ind Senz सांफ्टेवेयर द्वारा 8-11-2014ई.(मार्गशीर्ष कृष्ण द्वितीया, विक्रम संवत् 2071) को पूर्णं कृतम्। अस्य हेतोः खेमराज श्रीकृष्णदास द्वारा संपादितं, श्री वेंकटेश्वर स्टीम मुद्रणालय द्वारा प्रकाशितं एवं नाग प्रकाशक, दिल्ली द्वारा वर्ष 1986 ई. मध्ये पुनर्मुद्रितं संस्करणस्य उपयोगं कृतं भवति।।

खण्डः ४ (काशीखण्डः) — Adhyāya 1

श्रीगणेशाय नमः ।। ।।

तं मन्महे महेशानं महेशानप्रियार्भकम् ।।

गणेशानं करिगणेशानाननमनामयम् ।। १ ।।

भूमिष्ठापि न यात्रभूस्त्रिदिवतोप्युच्चैरधःस्थापि या या बद्धा भुवि मुक्तिदास्युरमृतं यस्यां मृता जंतवः ।।

या नित्यं त्रिजगत्पवित्रतटिनी तीरे सुरैः सेव्यते सा काशी त्रिपुरारिराजनगरी पायादपायाज्जगत् ।। २ ।।

नमस्तस्मै महेशाय यस्य संध्यात्त्रयच्छलात् ।।

यातायातं प्रकुर्वंति त्रिजगत्पतयोऽनिशम् ।। ३ ।।

अष्टादशपुराणानां कर्त्ता सत्यवतीसुतः ।।

सूताग्रे कथयामास कथां पापापनोदिनीम् ।। ४ ।।

श्रीव्यास उवाच ।। ।।

कदाचिन्नारदः श्रीमान्स्नात्वा श्रीनर्मदांभसि ।।

श्रीमदोंकारमभ्यर्च्य सर्वदं सर्वदेहिनाम् ।। ५ ।।

व्रजन्विलोकयांचक्रे पुरोविंध्यं धराधरम् ।।

संसारतापसंहारि रेवावारिपरिष्कृतम् ।। ६ ।।

द्वैरूप्येणापि कुर्वंतं स्थावरेण चरेण च ।।

साभिख्येन यथार्थाख्यामुच्चैर्वसु मतीमिमाम् ।। ७ ।।

रसालयं रसालैस्तैरशोकैः शोकहारिणाम् ।।

तालैस्तमालेर्हिंतालैः सालैः सर्वत्रशालितम् ।। ८।।

खपुरैः खपुराकारं श्रीफलं श्रीफलैः किल ।।

गुरुश्रियंत्वगुरुभिः कपिपिंगं कपित्थकैः ।। ९ ।।

वनश्रियः कुचाकारैर्लकुचैश्च मनोहरम् ।।

सुधाफलसमारंभि रंभाभिः परिभासितम् ।।4.1.1.१०।।

सुरंगैश्चापि नारंगैरंगमंडपवच्छियः ।।

वानीरैश्चापि जंबीरैर्बीजपूरैः प्रपूरितम् ।। ११ ।।

अनिलालोल कंकोल वल्लीहल्ली सकायितम् ।।

लवलीलवलीलाभिर्लास्यलीलालयं किल ।। १२ ।।

मंदांदोलितकर्पूर कदलीदल संज्ञया ।।

विश्रमाय श्रमापन्नानाहूयंतमिवाध्वगान् ।। १३ ।।

पुन्नागमिव पुन्नागपल्लवैःकरपल्लवैः ।।

कलयंतमिवाऽलोलैर्मल्लिकास्तबकस्तनम् ।। १४ ।।

विदीर्णदाडिमैः स्वांतं दर्शयंतं तु रागवत् ।।

माधवीं धवरूपेण श्लिष्यंतमिव कानने ।। १५ ।।

उदुंबरैरंबरगैरनंतफलमालितैः ।।

ब्रह्मांडकोटीर्बिभ्रंतमनंतमिव सर्वतः ।। १६ ।।

पनसैर्वनासाभैः शुकनासैः पलाशकैः।।

पलाशनाद्विरहिणां पत्रत्यक्तैरिवावृतम्।।१७।।

कदंबवादिनो नीपान्दृष्ट्वा कंटकितैरिव।।

समंततो भ्राजमानं कदंबककदंबकैः ।। १८ ।।

नमेरुभिश्च मेरूच्चशिखरैरिव राजितम् ।।

राजादनैश्च मदनैः सदनैरिव कामिनाम् ।। १९ ।।

तटेतटेपटुवटैरुच्चैःपटकुटी वृतम् ।।

कुटजस्तबकैर्भांतमधिष्ठितबकैरिव ।। 4.1.1.२० ।।

करमर्दैः करीरैश्च करजैश्चकरंबकैः ।।

सहस्रकरवद्भांतमर्थिप्रत्युद्गतैः करैः ।। २१ ।।

नीराजितमिवोद्दीपैराजचंपककोरकैः ।।

सपुष्पशाल्मलीभिश्च जितपद्माकरश्रियम् ।। २२ ।।

क्वचिच्चलदलैरुच्चैः क्वचित्कांचनकेतकैः ।।

कृतमालैर्न क्तमालैः शोभमानं क्वचित्क्वचित् ।। २३ ।।

कर्कंधु बंधुजीवैश्च पुत्रजीवैर्विराजितम् ।।

सतिंदुकेंगुदीभिश्च करुणैःकरुणालयम् ।। २४ !।

गलन्मधू ककुसुमैर्धरारूपधरंहरम् ।।

स्वहस्तमुक्तमुक्ताभिरर्चयंतमिवानिशम् ।। २५ ।।

सर्जार्जुनांजनैर्बीजैर्व्यजनैर्वीज्यमानवत् ।।

नारिकेलैः सखर्जूरैर्धृतच्छत्रमिवांबरे ।। २६ ।।

अमंदैः पिचुमंदैश्च मंदारैः कोविदारकैः ।।

पाटलातिंतिणीघोंटाशाखोटैः करहाटकैः ।। २७ ।।

उद्दंडैश्चापि शेहुंडैरेरंडैर्गुडपुष्पकैः ।।

बकुलैस्तिलकैश्चैव तिलकांकितमस्तकम् ।। २८ ।।

अक्षैः प्लक्षैः शल्लकीभिर्देवदारुहरिद्रुमैः ।।

सदाफलसदापुष्प वृक्षवल्लीविराजितम् ।। २९ ।।

एलालवंग मरिचकुलुं जनवनावृतम् ।।

जंब्वाम्रातकभल्लातशेलुश्रीपर्णिवर्णितम् ।। 4.1.1.३० ।।

शाकशंखवनैरम्यं चदनैरक्तचंदनैः ।।

हरीतकीकर्णिकार धात्रीवनविभूषणम् ।। ३१ ।।

द्राक्षावल्लीनागवल्लीकणावल्लीशतावृतम् ।।

मल्लिकायूथिकाकुंदम दयंती सुगंधिनम् ।।३२।।

भ्रमद्भ्रमरमालाभिर्मालतीभिरलंकृतम् ।।

अलिच्छलागतंकृष्णं गोपीरंतुमनेकशः ।।३३।।

नानामृगगणाकीर्णं नानापक्षिविनादितम् ।।

नानासरित्सरः स्रोतः पल्वलैः परितो वृतम् ।।३४।।

तुच्छश्रियः स्वर्गभूमीः परिहायागतैरिव ।।

नानासुरनिकायैश्च विष्वग्भोगेच्छयोषितम् ।।३५।।

उत्सृजंतमिवार्घ्यं वै पत्रपुष्पैरितस्ततः ।।

केकिकेकारवैर्दूरात्कुर्वंतं स्वागतं किल ।। ३६ ।।

अथ सूर्यशताभासं नभसि द्योतितांबरम् ।।

नारदं दृष्टवाञ्छैलो दूरात्प्रत्युज्जगाम तम् ।। ३७ ।।

ब्रह्मसूनुवपुस्तेजो दूरीकृतदरीतमाः ।।

तमागच्छंतमालोक्य मानसं तम उज्जहौ ।। ३८ ।।

ब्रह्मतेजःसमुद्भूत साध्वसः साधुस त्क्रियः ।।

कठिनोपि परित्यज्य धत्ते मृदुलतां किल ।। ३९ ।।

दृष्ट्वा मृदुलतां तस्य द्वैरूप्येपि स नारदः ।।

मुमुदे सुतरां संतः प्रश्रयग्राह्यमानसाः ।। 4.1.1.४० ।।

गृहानायांतमालोक्य गुरुंवाऽगुरुमेव वा ।।

योऽगुरुर्नम्रतां धत्ते स गुरुर्न गुरुर्गुरुः ।। ४१ ।।

तं प्रत्युच्चैः शिराःसोपि विनम्रतरकंधरः ।।

शैलस्त्विलामिलन्मौलिः प्रणनाम महामुनिम्।।४२।।

तमुत्थाप्य कराग्राभ्यामाशीर्भिरभिनंद्य च ।।

तदुद्दिष्टासनं भेजे मनसोपि समुच्छ्रितम् ।।४३।।

स दध्नामधुनाज्येन नीरार्द्राक्षतदूर्व या ।।

तिलैः कुशैः प्रसूनैस्तमष्टांगार्घ्यैरपूजयत् ।। ४४ ।।

गृहीतार्घ्यंकिल श्रांतं पादसंवाहनादिभिः ।।

गतश्रममथालोक्य बभाषे ऽवनतो गिरिः ।। ४५ ।।

अद्य सद्यः परिहृतं त्वदंघ्रिरजसारजः ।।

त्वदंगसंगिमहसा सहसाऽप्यांतरंतमः ।। ४६ ।।

सफलर्धिरहं चाद्य सुदिवाद्यच मे मुने ।।

प्राक्कृतैः सुकृतैरद्य फलितं मे चिरार्जितैः ।। ४७ ।।

धराधरत्वं कुलिषुमान्यं मेऽद्य भविष्यति ।।

इति श्रुत्वा तदा किंचिदुच्छुस्य स्थितवान्मुनिः ।। ४८ ।।

पुनरूचे कुलिवरः संभ्रमाप न्नमानसः ।।

उच्छ्वासकारणं ब्रह्मन्ब्रूहि सर्वार्थकोविद ।। ४९ ।।

अदृष्टं तव नोदृष्टं यदिष्टंविष्टपत्रये ।।

अनुक्रोशोत्र मयिचेदुच्यतां प्रणतोस्म्यहम् ।। 4.1.1.५० ।।

त्वदागमनजानन्दसंदोहैर्मे दुरारवः ।।

अलं न वक्तुमसकृत्तथाप्येकं वदाम्यहम् ।। ५१ ।।

धराधरणसामर्थ्यं मेर्वादौ पूर्वपूरुषैः ।।

वर्ण्यते समुदायात्तदहमेको दधे धराम् ।। ५२ ।।

गौरीगुरुत्वाद्धिमवानादिपत्याच्च भूभृताम् ।।

संबंधित्वात्पशुपतेः स एको मान्यभृत्सताम्।। ५३ ।।

नमेरुः स्वर्णपूर्णत्वाद्रत्नसानुतयाथवा ।।

सुरसद्मतयावापि क्वापि मान्यो मतो मम ।। ५४ ।।

परं शतं न किंशैला इलाकलनकेलयः ।।

इह संति सतां मान्या मान्यास्ते तु स्वभूमिषु ।। ।।५५ ।।

मन्देहदेहसंदेहादुदयैकदयाश्रितः ।।

निषधो नौषधिधरोऽप्यस्तोप्यस्तमितप्रभः ।। ५६ ।।

नीलश्च नीलीनिलयो मन्दरो मन्दलोचनः ।।

सर्पालयः समलयो रायं नावैति रैवतः ।। ५७ ।।

हेमकूटत्रिकूटाद्याः कूटोत्तरपदास्तुते ।।

किष्किंधक्रौंचसह्याद्या भारसह्या न ते भुवः ।। ५८ ।।

इति विंध्यवचः श्रुत्वा नारदोऽचिन्तयद्धृदि ।।

अखर्वगर्वसंसर्गो न महत्त्वाय कल्पते ।। ५९ ।।

श्रीशैलमुख्याः किंशैलानेह संत्यमलश्रियः ।।

येषां शिखरमात्रादि दर्शनं मुक्तये सताम् ।। 4.1.1.६० ।।

अद्यास्य बलमालोक्यमिति ध्यात्वाब्रवीन्मुनिः ।।

सत्यमुक्तं हि भवता गि रिसारंविवृण्वता ।। ६१ ।।

परं शैलेषु शैलेंद्रो मेरुस्त्वामवमन्यते ।।

मया निःश्वसितं चैतत्त्वयि चापि निवेदितम् ।। ६२ ।।

अथवा मद्विधानां हि केयं चिंता महात्मनाम् ।।

स्वस्त्यस्तु तुभ्यमित्युक्त्वा ययौ स व्योमवर्त्मनि ।। ६३ ।।

गते मुनौ निनिंदस्वमतीवोद्विग्नमानसः ।।

चिन्तामवाप महतीं विंध्यो र्वंध्यमनोरथः ।। ६४ ।।

विंध्य उवाच ।। ।।

धिग्जीवितंशास्त्रकलोज्झितस्य धिग्जीवितं चोद्यमवर्जितस्य ।।

धिग्जीवितं ज्ञातिपराजितस्य धिग्जीवितं व्यथर्मनोरथस्य ।। ६५ ।।

कथं भुनक्ति स दिवा कथं रात्रौ स्वपित्यहो ।।

रहः शर्म कथं तस्य यस्याभिभवनं रिपोः ।। ६६ ।।

अहोदवाग्निदवथुस्तथामां न स बाधते ।।

बाधते तु यथा चित्ते चिन्तासंतापसंततिः ।। ६७ ।।

युक्तमुक्तं पुराविद्भिश्चिन्तामूर्तिः सुदारुणा ।।

न भेषजैर्लंघनैर्वा न चान्यैरुपशाम्यति ।।६८।।

चिन्ताज्वरो मनुष्याणां क्षुधांनिद्रांबलं हरेत् ।।

रूपमुत्साहबुद्धिं श्री जीवितं च न संशयः ।। ६९ ।।

ज्वरो व्यतीते षडहे जीर्णज्वर इहोच्यते ।।

असौ चिन्ताज्वरस्तीव्रः प्रत्यहं नवतां व्रजेत् ।। 4.1.1.७० ।।

धन्यो धन्वतरिर्नात्र चरकश्चरतीह न ।।

नासत्यावपिनाऽ सत्यावत्र चिन्ताज्वरे किल ।। ७१ ।।

किं करोमि क्व गच्छामि कथं मेरुं जयाम्यहम् ।।

उत्प्लुत्य तस्य शिरसि पतामि न पताम्यतः ।। ७२ ।।

शक्रं कोपयता पूर्वमस्मद्गोत्रेण केनचित् ।।

पक्षहीनः कृतो यत्र धिगपक्षस्यचेष्टितम् ।। ७३ ।।

अथवा स कथं मेरुस्तथोच्चैः स्पर्द्धते मया ।।

भूमेर्भारभृतःप्रायो भवंति भ्रांति भूमयः ।। ७४ ।।

अलीकवाक्त्वमथवा संभाव्यं नारदे कथम् ।।

ब्रह्मचारिणि वेदज्ञे सत्यलोकनिवासिनि ।। ७५।।

युक्तायुक्तविचारोथ मादृशेनोपयुज्यते ।।

पराक्रमेष्वशक्तानां विचारं गाहते मनः ।। ७६ ।।

अथवा चिन्तनैरेतैः किंव्यर्थैर्विश्वकारकम् ।।

विश्वेशं शरणं यायां समे बुद्धिं प्रदास्यति ।। ७७।।

अनाथनाथः सर्वेषां विश्वनाथो हि गीयते ।।

क्षणं मनसि संचित्य भवेदित्थमसंशयम् ।। ७८ ।।

एतदेव करिष्यामि नेष्टं कालविलंबनम् ।।

विचक्षणैरुपेक्ष्यौ न वर्द्धमानौ परामयौ ।।७९।।

मेरुं प्रदक्षिणीकुर्यान्नित्यमेव दिवाकरः ।।

सग्रहर्क्षगणो नूनं मन्यमानो बलाधिकम् ।। 4.1.1.८० ।।

इति निश्चित्य विन्ध्याद्रिर्ववृधे स मृधेक्षणः ।।

अनंतगगनस्यांतं कुर्वद्भिः शिखरैरिव ।। ८१ ।।

कैश्चित्सार्द्धं विरोधो न कर्तव्यः केनचित्क्वचित् ।।

कर्तव्यश्चेत्प्रयत्नेन यथा नोपहसेज्जनः ।। ८२ ।।

निरुध्य ब्राध्नमध्वानं कृतकृत्य इवाद्रिराट् ।।

स्वस्थोऽभवद्भवाधीना प्राणिनां हि भविष्यता ।। ८३ ।।

यमद्ययमकर्तासौ दक्षिणं प्रक्रमिष्यति ।।

सकुलीनः स च श्रीमान्समहान्महितः स च ।। ८४ ।।

यावत्स्वश क्तिं शक्तोपि न दर्शयति कर्हिचित् ।।

तावत्स लंघ्यः सर्वेषां ज्वलनो दारुगो यथा ।। ८५ ।।

इति चिंतामहाभारं त्यक्त्वा तस्थौ स्थिरोद्यमः ।।

आकांक्षमाणस्तरणे रुदयं ब्राह्मणो यथा ।। ८६ ।।

इति श्रीस्कान्देमहापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्धे विन्ध्यवर्धनंनाम प्रथमोऽध्यायः ।। १ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 2

व्यास उवाच ।।

सूर्य आत्मास्य जगतस्तस्थुषस्तमसोरिपुः ।।

उदियायोदयगिरौ शुचिप्रसृमरैः करैः ।। १ ।।

संवर्धयन्सतां धर्मान्त्यक्कुर्वंस्तामसीं स्थितिम् ।।

पद्मिनीं बोधयंस्त्विष्टां रात्रौ मुकुलिताननाम् ।। २ ।।

हव्यं कव्यं भूतबलिं देवादीनां प्रवर्तयन् ।।

प्राह्णापराह्णमध्याह्न क्रियाकालं विजृंभयन् ।। ३ ।।

असतां हृदि वक्त्रेषु निर्दिशंस्तमसः स्थितिम् ।।

यामिनीकालकलितं जगदुज्जीवयन्पुनः ।। ४ ।।

यस्मिन्नभ्युदिते जातः सम्यक्पुण्यजनोदयः ।।

अहो परोपकरणं सद्यः फलति नेति चेत् ।। ५ ।।

सायमस्तमितः प्रातः कथं जीवेद्रविः पुनः ।।

सानुरागकरस्पर्शैः प्राचीमाश्वास्य खंडिताम् ।। ६ ।।

यामं भुक्त्वा तथाग्नेयीं ज्वलंतीं विरहादिव ।।

लवंगैलामृगमदचंद्रचंदनचर्चिताम ।। ७ ।।

तांबूलीरागरक्तौष्ठीं द्राक्षास्तबकसुस्तनीम् ।।

लवलीवल्लिदोर्वल्ली कंको ली पल्लवांगुलिम् ।। ८ ।।

मलयानिल निःश्वासां क्षीरोदकवरांबराम् ।।

त्रिकूटस्वर्णरत्नांगीं सुवेलाद्रि नितंबिनीम ।। ९ ।।

कावेरीगौतमीजंघां चोलचोलां शुकावृताम् ।।

सह्यदर्दुरवक्षोजां कांतीकांचीविभूषणाम ।। 4.1.2.१० ।।

सुकोमलमहाराष्ट्रीवाग्विलासमनोहराम् ।।

अद्यापि न महालक्ष्मीर्या विमुंचति सद्गुणाम् ।।११।।

सुदक्षदक्षिणामाशामाशानाथः प्रतस्थिवान् ।।

क्रमतः सर्वमर्वन्तो हेलया हेलिकस्य खम् ।।१२।।

न शेकुरग्रतो गंतुं ततोऽनूरुर्व्यजिज्ञपत् ।।१३।।

अनूरुरुवाच ।। ।।

भानो मानोन्नतो विन्ध्यो निद्ध्यय गगनं स्थितः ।।

स्पर्धते मेरुणाप्रेप्सु स्त्वद्दत्तां तु प्रदक्षिणाम् ।।१४।।

अन्रूरुवाक्यमाकर्ण्य सविता हृद्यचिन्तयत् ।।

अहो गगनमार्गोपि रुध्यते चातिविस्मयः ।। १५ ।।

व्यास उवाच ।। ।।

सूरः शूरोपि किं कुर्यात्प्रांतरे वर्त्मनिस्थितः ।।

त्वरावानपि को रुद्धं मागर्मेको विलंघयेत् ।। १६ ।।

गृह्यत्राप्रत्यूष्टेः क्षणं नावतिष्ठति ।।

शून्यमार्गे निरुद्धः स किंकरोतु विधिर्बली ।। १७ ।।

योजनानां सहस्रे द्वे द्वे शते द्वे च योजने ।।

योजनस्य निमेषार्धाद्याति सोपि चिरं स्थितः ।। १८ ।।

गते बहुतिथेकाले प्राच्यौदीच्यां भृशार्दिताः ।।

चण्डरश्मेः करव्रातपातसन्तापतापिताः ।। १९ ।।

पाश्चात्या दक्षिणात्याश्च निद्रामुद्रितलोचनाः ।।

शयिता एव वीक्षन्ते सतारग्रहमंबरम् ।।4.1.2.२०।।

अहोनाहस्कराभावान्निशानैवाऽनिशाकरात्।।

अस्तंगतर्क्षान्नभसः कः कालस्त्वेप नेक्ष्यते ।।२१।।

ब्रह्मांडं किमकांडे वै लयमेष्यति तत्कथम् ।।

परापतंति नाद्यापि पारावारा इतस्ततः ।। २२ ।।

स्वाहास्वधावषट्कारवर्जिते जगतीतले ।।

पंचयज्ञक्रियालोपाच्चकंपे भुवनत्रयम् ।। २३ ।।

सूर्योदयात्प्रवर्तंते यज्ञाद्याः सकलाः क्रियाः ।।

ताभिर्यज्ञभुजांतृप्तिः सविता तत्र कारणम् ।। २४ ।।

चित्रगुप्तादयः सर्वे कालं जानंति सूर्यतः ।।

स्थितिसर्गविसर्गाणां कारणं केवलं रविः ।। २५ ।।

तत्सूर्यस्य गतिस्तंभात्स्तंभितं भुवनत्रयम् ।।

यद्यत्रतत्स्थितं तत्र चित्रन्यस्तमिवा खिलम् ।। २६ ।।

एकतस्तिमिरान्नैशादेकतस्तु दिवातपात् ।।

बहूनां प्रलयो जातः कांदिशीकमभूज्जगत् ।। २७ ।।

इति व्याकुलिते लोके सुरासुरनरोरगे ।।

आःकिमेतदकांडेभूद्रुरुदुर्दुद्रुवुः प्रजाः ।।२८।।

ततः सर्वे समालोक्य ब्रह्माणं शरणं ययुः ।।

स्तुवंतो विविधैः स्तोत्रै रक्षरक्षेति चाब्रुवन् ।।२९।।

।। देवा ऊचुः।।

नमो हिरण्यरूपाय ब्रह्मणे ब्रह्मरूपिणे ।।

अविज्ञातस्वरूपाय कैवल्यायामृताय च ।। 4.1.2.३० ।।

यन्न देवा विजानंति मनो यत्रापि कुंठितम्।।

न यत्र वाक्प्रसरति नमस्तस्मै चिदात्मने ।। ३१ ।।

योगिनो यं हृदाकाशे प्रणिधानेन निश्चलाः ।।

ज्योतीरूपं प्रपश्यंति तस्मै श्रीब्रह्मणे नमः ।। ३२ ।।

कालात्पराय कालाय स्वेच्छयापुरुषाय च ।।

गुणत्रय स्वरूपाय नमः प्रकृतिरूपिणे ।। ३३ ।।

विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे ।।

तमसे रुद्ररूपाय स्थितिसर्गांतकारिणे ।। ३४ ।।

नमो बुद्धिस्वरूपाय त्रिधाहंकृतये नमः ।।

पंचतन्मात्र रूपाय पंचकर्मेद्रियात्मने ।। ३५ ।।

नमो मनःस्वरूपाय पंचबुद्धींद्रियात्मने ।।

क्षित्यादि पंचरूपाय नमस्ते विषयात्मने ।। ३५ ।।

नमो ब्रह्मांडरूपाय तदंतर्वर्तिने नमः ।।

अर्वाचीनपराची न विश्वरूपाय ते नमः ।। ३७ ।।

अनित्यनित्यरूपाय सदसत्पतये नमः ।।

समस्तभक्तकृपया स्वेच्छाविष्कृतविग्रह ।। ३६ ।।

तव निःश्वसितं वेदास्तव स्वे दोखिलं जगत् ।।

विश्वा भूतानि ते पादः शीर्ष्णो द्यौः समवर्तत ।। ३९ ।।

नाभ्या आसीदंतरिक्षं लोमानि च वनस्पतिः ।।

चन्द्रमा मनसो जातश्चक्षोः सूर्यस्तव प्रभो ।। 4.1.2.४० ।।

त्वमेव सर्वं त्वयि देव सर्वं स्तोता स्तुतिः स्तव्य इह त्वमेव ।।

ईश त्वयाऽवास्यमिदं हि सर्वं नमोस्तु भूयोपि नमो नमस्ते ।। ४१ ।।

इति स्तुत्वा विधिं देवा निपेतुर्दंडवत्क्षितौ ।।

परितुष्टस्तदा ब्रह्मा प्रत्युवाच दिवौकसः ।। ४२ ।।

।। ब्रह्मोवाच ।। ।।

यथार्थयाऽनया स्तुत्या तुष्टोस्मि प्रणताः सुराः ।।

उत्तिष्ठत प्रसन्नोस्मि वृणुध्वं वरमुत्तमम् ।। ४३ ।।

यः स्तोष्यत्यनया स्तुत्या श्रद्धावान्प्रत्यहं शुचिः ।।

मां वा हरं वा विष्णुं वा तस्य तुष्टाः सदा वयम् ।। ४४ ।।

दास्यामः सकलान्कामान्पुत्रान्पौत्रान्पशून्वसु ।।

सौभाग्यमायुरारोग्यं निर्भयत्वं रणे जयम् ।। ४५ ।।

ऐहिकामुष्मिकान्भोगानपवर्गं तथाऽक्षयम् ।।

यद्यदिष्टतमं तस्य तत्तत्सर्वं भविष्यति ।।४६।।

तस्मात्सर्वप्रयत्नेन पठितव्यः स्तवोत्तमः ।।

अभीष्टद इति ख्यातः स्तवोयं सर्वसिद्धिदः।।४७।।

पुनः प्रोवाच तान्वेधाः प्रणिपत्योत्थितान्सुरान् ।।

स्वस्थास्तिष्ठत भो यूयं किमत्रापि समाकुलाः ।। ४८ ।।

एते वेदा मूर्तिधरा इमा विद्यास्तथाखिलाः ।।

सदक्षिणा अमी यज्ञाः सत्यं धर्मस्तपो दमः ।। ४९ ।।

ब्रह्मचर्यमिदं चैषा करुणा भारतीत्वियम् ।।

श्रुतिस्मृतीतिहासार्थ चरितार्था अमीजनाः ।। 4.1.2.५० ।।

नेह क्रोधो न मात्सर्यं लोभः कामोऽधृतिर्भयम् ।।

हिंसा कुटिलता गर्वो निंदासूयाऽशुचिः क्वचित् ।। ५१ ।।

ये ब्राह्मणा ब्रह्मरतास्तपोनिष्ठास्तपोधनाः ।।

मासोपवासषण्मासचातुर्मास्यादि सद्व्रताः ।। ५२ ।।

पातिव्रत्यरता नार्यो ये चान्ये ब्रह्मचारिणः ।।

ते चामीपश्यत सुरा ये षंढाः परयोषिति ।। ५३ ।।

मातापित्रोरमी भक्ता अमी गोग्रहणे हताः ।।

व्रते दाने जपे यज्ञे स्वाध्याये द्विजतर्पणे ।। ५४ ।।

तीर्थे तपस्युपकृतौ सदाचारादिकर्मणि ।।

फलाभिलाषिणीबुद्धिर्न येषां ते जना अमी ।। ५५ ।।

गायत्री जाप्यनिरता अग्निहोत्र परायणाः ।।

द्विमुखी गो प्रदातारः कपिलादान तत्पराः ।। ५६ ।।

निस्पृहाः सोमपा ये वै द्विजपादोदपाश्च ये ।।

मृताः सारस्वते तीर्थे द्विजशुश्रूषकाश्च ये ।। ५७ ।।

प्रतिग्रहे समर्था हि ये प्रतिग्रहवर्जिताः ।।

त एते मत्प्रिया विप्रास्त्यक्ततीर्थ प्रतिग्रहाः ।। ५८ ।।

प्रयागे माघ मासो यैरुषः स्नातोऽमलात्मभिः ।।

मकरस्थे रवौ शुद्धास्त इमे सूर्यवर्चसः ।। ५९ ।।

वाराणस्यां पांचनदे त्र्यहं स्नातास्तु कार्तिके ।।

अमी ते शुद्धवपुषः पुण्यभाजोतिनिर्मलाः ।। 4.1.2.६० ।।

स्नात्वा तु मणिकर्णिक्यां प्रीणिता ब्राह्मणा धनैः ।।

त एते सर्वभोगाढ्याः कल्पं स्थास्यंति मत्पुरे ।। ६१ ।।

ततः काशीं समासाद्य तेन पुण्येन नोदिताः ।।

विश्वेश्वरप्रसादेन मोक्षमेष्यंत्यसंशयम् ।। ६२ ।।

अविमुक्ते कृतं कर्म यदल्पमपि मानवैः ।।

श्रेयोरूपं तद्विपाको मोक्षो जन्मांतरेष्वपि ।। ६३ ।।

अहो वैश्वेश्वरे क्षेत्रे मरणादपिनोभयम् ।।

यत्र सर्वे प्रतीक्षंते मृत्युं प्रियमिवाति थिम् ।। ६४ ।।

ब्राह्मणेभ्यः कुरुक्षेत्रे यैर्दत्तं वसु निर्मलम् ।।

निर्मलांगास्त एते वै तिष्ठंति मम संनिधा ।।६५ ।।

पितामहं समासाद्य गयायां यैः पितामहाः ।।

तर्पिता ब्राह्मणमुखे तेषामेते पितामहाः ।।६६।।

न स्नानेन न दानेन न जपेन न पूजया ।।

मल्लोकः प्राप्यते देवाः प्राप्यते द्विज तर्पणात् ।।६७।।

सोपस्कराणिवेश्मानिमु सलोलूखलादिभिः ।।

यैर्दत्तानि सशय्यानि तेषां हर्म्याण्यमूनि वै ।। ६८ ।।

ब्रह्मशालां कारयंति वेदमध्यापयंति च ।।

विद्यादानं च ये कुर्युः पुराणं श्रावयंति च ।। ६९ ।।

पुराणानि च ये दद्युः पुस्तकानि ददत्यपि ।।

धर्मशास्त्राणि ये दद्युस्तेषां वासोत्र मे पुरे ।। 4.1.2.७० ।।

यज्ञार्थं च विवाहार्थं व्रतार्थं ब्राह्मणाय वै ।।

अखंडं वसु ये दद्युस्तेत्र स्युर्वसुवर्चसः ।। ७१ ।।

आरोग्यशालां यः कुर्याद्वैद्यपोषणतत्परः ।।

आकल्पमत्र वसति सर्वभोग समन्वितः ।। ७२ ।।

मुक्ती कुर्वंति तीर्थानि ये च दुष्टावरोधतः ।।

ममावरोधे ते मान्या औरसास्तनया इव ।। ७३ ।।

विष्णोर्वाममवाशंभोर्ब्राह्मणा एव सुप्रियाः ।।

तेषां मूर्त्या वयं साक्षाद्विचरामो महीतले ।। ७४ ।।

ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधाकृतम् ।।

एकत्र मंत्रास्तिष्ठंति हविरेकत्र तिष्ठति ।। ७५ ।।

ब्राह्मणा जंगमं तीर्थं निर्मितं सार्वभौमिकम् ।।

येषां वाक्योदकेनैव शुद्ध्यंति मलिना जनाः ।। ७६ ।।

गावः पवित्रमतुलं गावो मंगलमुत्तमम् ।।

यासां खुरोत्थितो रेणुर्गंगावारिसमो भवेत् ।। ७७ ।।

शृंगाग्रे सर्वतीर्थानि खुराग्रे सर्व पर्वताः ।।

शृंगयोरंतरे यस्याः साक्षाद्गौरीमहेश्वरी ।। ७८ ।।

दीयमानां च गां दृष्ट्वा नृत्यंति प्रपितामहाः ।।

प्रीयंते ऋषयः सर्वे तुष्यामो दैवतैः सह ।। ७९ ।।

रोरूयंते च पापानि दारिद्र्यं व्याधिभिः सह ।।

धात्र्यः सर्वस्य लोकस्य गावो मातेव सर्वथा ।। 4.1.2.८० ।।

गवां स्तुत्वा नमस्कृत्य कृत्वा चैव प्र दक्षिणाम्।।

प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ।। ८१ ।।

या लक्ष्मीः सवर्भूतानां या देवेषु व्यवस्थिता ।।

धेनुरूपेण सा देवी मम पापं व्यपोहतु ।। ८२ ।।

विष्णोर्वक्षसि या लक्ष्मीः स्वाहा चैव विभावसोः ।।

स्वधा या पितृमुख्यानां सा धेनुर्वरदा सदा ।। ८३ ।।

गोमयं यमुना साक्षाद्गोमूत्रं नर्मदा शुभा ।।

गंगा क्षीरं तु यासां वै किं पवित्रमतः परम् ।। ८४ ।।

गवामंगेषु तिष्ठंति भुवनानि चतुर्दश ।।

यस्मात्तस्माच्छिवं मे स्यादिहलोके परत्र च ।। ८५ ।।

इति मंत्रं समुच्चार्य धेनूर्वाधेनुमेव वा ।।

यो दद्याद्द्विजवर्याय स सर्वेभ्यो विशिष्यते ।। ८६ ।।

मया च विष्णुना सार्धं शिवेन च महर्षिभिः ।

विचार्य गोगुणान्नित्यं प्रार्थनेति विधीयते ।। ८७ ।।

गावो मे पुरतः संतु गावो मे संतु पृष्ठतः ।।

गावो मे हृदये संतु गवां मध्ये वसाम्यहम् ।। ८८ ।।

नीराजयति योंगानि गवां पुच्छेन भाग्यवान् ।।

अलक्ष्मीः कलहो रोगास्तस्यांगाद्यांति दूरतः।।८९।।

गोभिर्विप्रश्च वेदैश्च सतीभिः सत्यवादिभिः।।

अलुब्धैर्दा नशीलैश्च सप्तभिर्धार्यते मही।।4.1.2.९०।

मम लोकात्परोलोको वैकुंठ इति गीयते।।

तस्योपरिष्टात्कौमार उमालोकस्ततः परम्।।९१।।

शिवलोकस्तदुपरि गोलो कस्तत्समीपतः ।।

गोमातरः सुशीलाद्यास्तत्र संति शिवप्रियाः ।। ९२ ।।

गवां शुश्रूरूषकाये च गोप्रदाये च मानवाः ।।

एषामन्यतमे लोके ते स्युः सर्वसमृद्धयः ।। ९३ ।।

यत्र क्षीरवहा नद्यो यत्र पायस कर्दमाः ।।

न जरा बाधते यत्र तत्र गच्छंति गोप्रदाः ।। ९४ ।।

श्रुतिस्मृतिपुराणज्ञा ब्राह्मणाः परिकीर्तिताः।।

तदुक्ताचारचरणा इतरे नामधारकाः।।९५।।

श्रुतिस्मृती तु नेत्रे द्वे पुराणं हृदयं स्मृतम् ।।

श्रुतिस्मृतिभ्यां हीनोंधः काणः स्यादेकया विना।।

पुराणहीनाद्धृच्छून्यात्काणांधावपि तौ वरौ ।।

श्रुतिस्मृत्युदितोधर्मः पुराणे परिगीयते।।९७।।

तद्बाह्मणाय गोर्देया सर्वत्र सुखमिच्छता ।।

न देया द्विजमात्राय दातारं सोप्यधो नयेत्।।९८।।

यस्य धर्मेऽस्ति जिज्ञासा यस्य पापाद्भयं महत्।।

श्रोतव्यानि पुराणानि धमर्मूलानि तेन वै।।९९।।

चतुर्दशसु विद्यासु पुराणं दीप उत्तमः।।

अंधोपि न तदा लोकात्संसाराब्धौ क्वचित्पतेत् ।।4.1.2.१००।।

श्रोतव्यानि पुराणानि वस्तव्यं जाह्नवी तटे ।।

तर्पणीया द्विजा नित्यं ममलोकेप्सुभिः सदा ।। १ ।।

इत्युद्देशान्मयाख्याता सत्यलोकव्यवस्थितिः ।।

अभयं यद्भयार्तानां न भेतव्यं च हे सुराः ।।२।।

स्पर्धते मेरुणा विंध्यो ब्रध्नाध्व परिरोधकृत ।।

तदर्थमागता यूयं तदुपायं दिशामि वः।।३।।

अस्त्यगस्त्यस्तप्यमानस्तप उग्रं महातपाः ।।

मैत्रावरुणिराधाय चित्तं विश्वेश्वरे विभौ ।। ४ ।।

अविमुक्तमहाक्षेत्रे सर्वेषां मुक्तिहेतुके ।।

तारकस्योपदेशार्थं विश्वेशाऽधिष्ठिते स्वयम् ।। ५ ।।

याचध्वं तत्र गत्वा तं स वः कार्यं विधास्यति ।।

तेनैकदाविता लोका वातापील्वलभक्षणात् ।। ६ ।।

अतिमित्रं तत्र तेजो मित्रावरुणजे मुनौ।।

तदाप्रभृति लोकेषु कोगस्त्यान्नैव बिभ्यति ।।७।।

इत्युक्त्वांतर्दधे वेधास्तेपि प्रमुदिताननाः ।।

देवाः परस्परं प्रोचुरहोधन्य तमा वयम् ।। ८ ।।

प्रसंगतोपि द्रष्टव्यौ काशीकाशीपती शिवौ।।।

अहो अहोभिर्बहुभिः फलितो नो मनोरथः।। ९ ।।

उत्फुल्लपद्मनयना निर्मिताः सुकृतार्थिनः।।

तावेव चरणौ धन्यौ काशीमभिप्रयायिनौ ।। 4.1.2.११० ।।

येयं कथा श्रुतास्माभिर्वेधसा समुदीरिता ।।

तस्याः श्रवणजात्पुण्यात्प्राप्नुमस्त्वद्य काशिकाम्।। ११ ।।

एका क्रिया द्व्यर्थकरी प्राप्यते पुण्यगौरवात् ।।

एवं वदंतो हृष्टास्याः सुराः काशीं समाययुः ।।१२।।

व्यास उवाच ।।

इदं पुण्यतमाख्यानं ये श्रोष्यंतीह मानवाः ।।

विधूय सर्वपापानि पुत्रदारसमन्विताः ।। १३ ।।

इह वंशं परिस्थाप्य भुक्त्वा सर्व सुखानि च ।।

सत्यलोके चिरं स्थित्वा ततो यास्यंति शाश्वतम् ।। ११४ ।।

इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूर्वार्धे सत्यलोकवर्णनंनाम द्वितीयोऽध्यायः ।।२ ।। ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 3

सूत उवाच ।।

भगवन्भूतभव्येश सर्वज्ञानमहानिधे ।।

अवाप्य काशीं गीर्वाणैः किमकारि वदाच्युत ।। १ ।।

अधीत्येमां कथां दिव्यां न तृप्तिमधियाम्यहम् ।।

शेवधिस्तपसां देवैरगस्तिः प्रार्थितः कथम् ।। २ ।।

कथं विंध्योप्यवाप स्वां प्रकृतिं तादृगुन्नतः ।।

तववागमृतांभोधौ मनो मे स्नातुमुत्सुकम् ।। ३ ।।

इति कृत्स्नं समाकर्ण्य व्यासः पाराशरो मुनिः ।।

श्रद्धावते स्वशिष्याय वक्तुं समुपचक्रमे ।। ४ ।।

पाराशर उवाच ।।

शृणु सूत महाबुद्धे भक्तिश्रद्धासमन्वितः ।।

शुकवैशंपायनाद्याः शृण्वंत्वेते च बालकाः ।।५ ।।

ततो वाराणसीं प्राप्य गीर्वाणाः समहर्षयः ।।

अविलंबं प्रथमतो म णिकर्ण्यां विधानतः ।। ६ ।।

सचैलमभिमज्ज्याथ कृतसंध्यादिसत्क्रियाः ।।

संतर्प्य तर्प्यादिपितॄन्कुशगंधतिलोदकैः ।। ७ ।।

तीर्थवासार्थिनः सर्वान्संतर्प्य च पृथक्पृथक् ।।

रत्नैर्हिरण्यवासोभिरश्वाभरणधेनुभिः ।। ८ ।।

विचित्रैश्च तथा पात्रैः स्वर्णरौप्यादि निर्मितैः ।।

अमृतस्वादुपक्वान्नैः पायसै श्च सशर्करैः ।। ९ ।।

सगोरसैरन्नदानैर्धान्यदानैरनेकधा ।।

गंधचंदनकर्पूरैस्तांबूलैश्चारुचामरैः ।। ।। 4.1.3.१० ।।

सतूलैर्मृदुपर्यंकैर्दीपिकादर्पणासनैः ।।

शिबिकादासदासीभिर्विमानैःपशुभिर्गृहैः ।। ११ ।।

चित्रध्वजपताकाभिरुल्लोचैश्चंद्रचारुभिः ।।

वर्षाशनप्रदानैश्च गृहोपस्करसंयुतैः ।। १२ ।।

उपानत्पादुकाभिश्च यतिनश्च तपस्विनः ।।

योग्यैः पट्टदुकूलैश्च विविधैश्चित्ररल्लकैः ।। १३ ।।

दंडैः कमंडलुयुतैरजिनैर्मृगसंभवैः ।।

कौपीनैरुच्चमंचैश्च परिचारककांचनैः ।। १४ ।।

मठैर्विद्यार्थिनामन्नैरतिथ्यर्थं महाधनैः ।।

महापुस्तकसंभारैर्लेखकानां च जीवनैः।।१५।।

बहुधौषधदानैश्च सत्रदानैरनेकशः ।।

ग्रीष्मे प्रपार्थद्रविणैर्हेमंतेग्निष्टिकेंधनैः।।१६।।

छत्राच्छादनिकाद्यर्थे वर्षाकालोचितैर्बहु।।

रात्रौ पाठप्रदीपैश्च पादाभ्यंजनकादिभिः ।।१७।।

पुराणपाठकांश्चापि प्रतिदेवालयं धनैः ।।

देवालये नृत्यगीतकरणार्थैरनेकशः।।१८।।

देवालय सुधाकार्यैर्जीर्णोद्धारैरनेकधा ।।

चित्रलेखनमूल्यैश्च रंगमालादिमंडनैः ।। १९ ।।

नीराजनैर्गुग्गुलुभिर्दशां गादि सुधूपकैः ।।

कर्पूरवर्तिकाद्यैश्च देवार्चार्थैरनेकशः ।। 4.1.3.२० ।।

पंचामृतानां स्नपनैः सुगंध स्नपनैरपि ।।

देवार्थं मुखवासैश्च देवोद्यानैरनेकशः ।। २१ ।।

महापूजार्थमाल्यादि गुंफनार्थैस्त्रिकालतः ।।

शंखभेरीमृदंगादिवाद्यनादैः शिवालये ।। २२ ।।

घंटागुडुककुंभादि स्नानोपस्करभाजनैः ।।

श्वेतैर्मार्जनवस्त्रैश्च सुगंधैर्यक्षकर्दमैः ।। २३ ।।

जपहोमैः स्तोत्रपाठैः शिवनामोच्चभाषणैः ।।

रासक्रीडादिसंयुक्तैश्चलनैः सप्रदक्षिणैः ।। २४ ।।

एवमादिभिरुद्दंडैः क्रियाकांडैरनेकशः ।।

पंचरात्रमुषित्वा तु कृत्वा तीर्थान्यनेकशः ।। २५ ।।

दीनानाथांश्च संतर्प्य नत्वा विश्वेश्वरं विभुम् ।।

ब्रह्मचर्यादिनियमैस्तीर्थमेवं प्रसाध्य च ।। २६ ।।

पुनः पुनर्विश्वनाथं दृष्ट्वा स्तुत्वा प्रणम्य च ।।

जग्मुः परोपकारार्थमगस्तिर्यत्र तिष्ठति ।। २७ ।।

स्वनाम्ना लिंगमास्थाप्य कुंडं कृत्वा तदग्रतः ।।

शतरुद्रियसूक्तेन जपन्निश्चलमानसः ।। २८ ।।

तं दृष्ट्वा दूरतो देवा द्वितीयमिव भास्करम् ।।

ज्वलज्ज्वलनसंकाशैरंगैः सर्वत्रसोज्ज्वलम् ।। २९ ।।

साक्षात्किंवाडवाग्निर्वा मूर्त्या वै तप्यते तपः ।।

स्थाणुवन्निश्चलतरं निर्मलं सन्मनो यथा ।। 4.1.3.३० ।।

अथवा सर्व तेजांसि श्रित्वेमां ब्राह्मणीं तनुम् ।।

शीलयंति परं धाम शातंशांत पदाप्तये ।। ३१ ।।

तपनस्तप्यतेऽत्यर्थं दहनोपि हि दह्यते ।।

यत्तीव्रतपसाद्यापि चपलाऽचपलाभवत् ।। ३२ ।।

यस्याश्रमे ऽत्र दृश्यंते हिंस्रा अपि समंततः ।।

सत्त्वरूपा अमी सत्त्वास्त्यक्त्वा वैरं स्वभावजम् ।। ३३ ।।

शुंडादंडेन करटिः सिंहं कंडूयतेऽभयः ।।

अष्टापदांके स्वपिति केसरी केसरोद्भटः ।। ३४ ।।

सूकरः स्तब्धरोमापि विहाय निजयूथकम् ।।

चरेद्वनशुनां मध्ये मुस्तान्यस्तेक्षणोबली ।। ३५ ।।

भूदारोपि न भूदारं तथाकुर्याद्यथाऽन्यतः ।।

सर्वा लिंगमयी काशी यतस्तद्भीतियंत्रितः ।। ३६ ।।

क्रोडीकृत्य क्रोडपोतं तरक्षुः क्रीडयत्यहो ।।

शार्दूलबालानुत्सार्य शार्दूलीमेणपोतकः ।। ३७ ।।

चलत्पुच्छोथ पिबति फेनिलेनाननेन वै ।।

स्वपंतं लोमशं भल्लं वानरश्चलदंगुलिः।।३८।।

यूका संवीक्ष्यवीक्ष्यैव भक्षयेद्दंतकोटिभिः ।।

गोलांगूलारक्तमुखानीलां गा यूथथनायकाः।।३९।।

जातिस्वभावमात्सर्यं त्यक्त्वैकत्र रमंति च ।।

शशाः क्रीडंति च वृकैस्तैः पृष्ठलुंठनैर्मुहुः।।4.1.3.४०।।

आखुश्चाखुभुजः कर्णं कंडूयेत चलाननः ।।

मयूरपुच्छपुटगो निद्रात्योतुः सुखाधिकम् ।। ४१ ।।

स्वकंठं घर्षयत्येव केकिकंठे भुजंगमः ।।

भुजंगमफणापृष्ठे नकुलः स्वकुलोचितम् ।। ४२ ।।

वैरं परित्यज्य लुठेदुत्प्लुत्योत्प्लुत्य लीलया ।।

आलोक्य मूषकं सर्पश्चरंतं वदनाग्रतः ।। ४३ ।।

क्षुधांधोपि न गृह्णाति सोपि तस्माद्बिभेति नो ।।

प्रसूयमानां हरिणीं दृष्ट्वा कारुण्यपूर्णदृक् ।। ४४ ।।

तद्दृष्टिपातं मुंचन्वै व्याघ्रो दूरं व्रजत्यहो ।।

व्याघ्री व्याघ्रस्य चरितं मृगी मृगविचेष्टितम् ।।

उभे कथयतो ऽन्योन्यं सख्याविवमुदान्विते ।।४५।।

दृष्ट्वाप्युद्दंडकोदंडं शबरं शंबरोमृगः ।।

धृष्टो न वर्त्म त्यजति सोपि कंडूयतेपि तम् ।। ४६ ।।

रोहितोऽरण्यमहिषमुद्धर्षति निराकुलः।।

चमरीशबरीकेशैः संमिमीते स्ववालधिम् ।।४७।।

गवयः शल्यकश्चाऽयमुभावेकत्रतिष्ठतः ।।

तीव्रमात्सर्यमुत्सृज्य मुनितेजोनियंत्रितौ ।। ४५ ।।

हुंडौ च मुंड युद्धाय न सज्जेते जयैषिणौ ।।

एणशावं सृगालोपि मृदुस्पृशति पाणिना।।४९।।

तृण्वंति तृणगुल्मादीन्श्वापदास्त्वापदास्पदम्।।

लोकद्वये दुःखहंहि धिक्तन्मांसस्य भक्षणम्।। 4.1.3.५० ।।

यः स्वार्थं मांसपचनं कुरुते पापमोहितः ।।

यावंत्यस्य तु रोमाणि तावत्स नरके वसेत् ।।५१।।

परप्राणैस्तु ये प्राणान्स्वान्पुष्णं ति हि दुर्धियः ।।

आकल्पं नरकान्भुक्त्वा ते भुज्यंतेत्र तैः पुनः।।५२ ।।

जातुमांसं न भोक्तव्यं प्राणैः कंठगतैरपि ।।

भोक्तव्यं तर्हि भोक्तव्यं स्वमांसं नेतरस्य च ।। ५३ ।।

वरमेतेश्वापदा वै मैत्रावरुणि सेवया ।।

येषां न हिंसने बुद्धिर्नतु हिंसापरा नराः ।।५४ ।।

बकोपि पल्वले मत्स्यान्नाश्नात्यग्रेचरानपि ।।

न महांतोप्यमहतो मत्स्या मत्स्यानदंति वै ।। ५५ ।।

एकतः सर्वमांसानि मत्स्यमांसं तथकैतः।।

स्मृतिः स्मृतेति किंत्वेभिरतोमत्स्याञ्जहत्यमी ।। ५६ ।।

श्येनोपि वर्तिकां दृष्ट्वा भवत्येष पराङ्मुखः ।।

चित्रमत्रापि मधुपा भ्रमंति मलिनाशयाः ।। ५७ ।।

सुचिरं नरकान्भुक्त्वा मदिरापानलंपटाः ।।

मधुपा एव गायंते भ्रांतिभाजः पुनः पुनः ।। ५८ ।।

अतएव पुराणेषु गाथेति परिगीयते ।।

स्फुटार्थात्र पुराणज्ञैर्ज्ञात्वा तत्त्वं पिनाकिनः ।। ५९ ।।

क्व मांसं क्व शिवे भक्तिः क्व मद्यं क्व शिवार्चनम् ।।

मद्यमांसरतानां च दूरे तिष्ठति शंकरः ।। 4.1.3.६० ।।

विना शिवप्रसादं हि भ्रांतिः क्वापि न नश्यति ।।

अतएव भ्रमंत्येते भ्रमराः शिववर्जिताः ।। ६१ ।।

इत्याश्रमचरान्दृष्ट्वा तिर्यञ्चोपि मुनीनिव ।।

अबोधिविबुधैरित्थं प्रभावः क्षेत्रजस्त्वयम् ।। ६२ ।।

यतो विश्वेश्वरेणैते तिर्यञ्चोप्यत्रवासिनः ।।

निधनावसरे मोच्यास्तारक स्योपदेशतः ।। ६३ ।।

ज्ञात्वा क्षेत्रस्य माहात्म्यं यो वसेत्कृतनिश्चयः ।।

तं तारयति विश्वेशो जीवंतमथवा मृतम् ।। ६४ ।।

अविमुक्तरहस्यज्ञा मुच्यंते ज्ञानि नो नराः।।

अज्ञानिनोपि तिर्यञ्चो मुच्यंते गतकिल्बिषाः ।। ६५ ।।

इत्याश्चर्यपरा देवा यावद्यांत्याश्रमं मुनेः ।।

तावत्पक्षिकुलं दृष्ट्वा भृशं मुमुदिरे पुनः ।। ६६ ।।

सारसो लक्ष्मणाकंठे कंठमाधाय निश्चलः ।।

मन्यामहे न निद्रातिध्यायेद्विश्वेश्वरं किल ।। ६७

कंडूयमाना वरटा स्वचंचुपुटकोटिभिः ।।

हंसं कामयमानं तु वारयेत्पक्षधूननैः ।। ६८ ।।

निरुद्ध्यमान चक्रेण चक्रीक्रेंकितभाषणैः।।

वदतीति किमत्रापि कामिता कामिनां वर ।। ६९ ।।

कलकंठः किलोत्कंठं मंजुगुंजति कुंजगः।।

ध्यानस्थः श्रोष्यति मुनिः पारावत्येति वार्यते।।4.1.3.७०।।

केकीकेकां परित्यज्य मौनं तिष्ठति तद्भयात्।।

चकोरश्चंद्रिका भोक्ता नक्तव्रतमिवास्थितः।।७१।।

पठंती सारिकासारं शुकंसंबोधयत्यहो ।।

अपारावारसंसारसिंधुपारप्रदः शिवः ।। ७२ ।।

कोकिलः कोमलालापैः कलयन्किलकाकलीम् ।।

कलिकालौ कलयतः काशीस्थान्नेतिभाषते ।। ७३ ।।

मृगाणां पक्षिणामित्थं दृष्ट्वा चेष्टां त्रिविष्टपम् ।।

अकांडपातसंकष्टं निनिंदुस्त्रिदशा बहु ।। ।। ७४ ।।

वरमेतेपक्षिमृगाः पशवः काशिवासिनः ।।

येषां न पुनरावृत्तिर्नदेवानपुनर्भवाः ।। ७५ ।।

काशीस्थैः पतितैस्तुल्या न वयं स्वर्गिणः क्वचित् ।।

काश्यां पाताद्भयं नास्ति स्वर्गेपाताद्भयं महत् ।। ७६ ।।

वरं काशीपुरी वासो मासोपवसनादिभिः ।।

विचित्रच्छत्रसंछायं राज्यं नान्यत्र नीरिपु ।। ७७ ।।

शशकैर्मशकैः काश्यां यत्पदं हेलयाप्यते ।।

तत्पदं नाप्यतेऽन्यत्र योगयुक्त्यापि योगिभिः ।। ७८ ।।

वरं वाराणसीरंको निःशंकोयो यमादपि ।।

न वयं त्रिदशायेषां गिरितोपीदृशी दशा ।। ७९ ।।

ब्रह्मणो दिवसाष्टांशेषपदमैंद्रं विनश्यति ।।

सलोकपाल सार्कं च सचंद्रग्रहतारकम् ।। 4.1.3.८० ।।

परार्धद्वयनाशेपि काशीस्थो यो न नश्यति ।।

तस्मात्सर्वप्रयत्नेन काश्यां श्रेयः समाचरेत् ।। ८१ ।।

यत्सुखं काशिवासेत्र न तद्ब्रह्मांडमंडपे ।।

अस्ति चेत्तत्कथं सर्वे काशीवासाभिलाषुकाः ।। ८२ ।।

जन्मांतरसहस्रेषु यत्पुण्यं समुपार्जितम् ।।

तत्पुण्यपरिवर्तेन काश्यां वासोऽत्र लभ्यते ।। ८३ ।।

लब्धोपि सिद्धिं नो यायाद्यदि कुद्ध्येत्त्रिलोचनः ।।

तस्माद्विश्वेश्वरं नित्यं शरण्यं शरणं व्रजेत् ।। ८४ ।।

धर्मार्थकाममोक्षाख्यं पुरुषार्थचतुष्टयम् ।।

अखंडं हि यथा काश्यां न तथा न्यत्र कुत्रचित् ।। ८५।।

आलस्येनापि यो यायाद्गृहाद्विश्वेश्वरालयम् ।।

अश्वमेधाधिको धर्मस्तस्य स्याच्च पदेपदे ।। ८६ ।।

यः स्नात्वोत्तरवाहिन्यां याति विश्वे शदर्शने ।।

श्रद्धया परया तस्य श्रेयसोंतो न विद्यते ।। ८७ ।।

स्वर्धुनी दर्शनात्स्पर्शात्स्नानादाचमनादपि ।।

संध्योपासनतो जप्यात्तर्पणाद्देवपूजनात् ।।८८।।

पंचतीर्थावलोकाच्च ततो विश्वेश्वरेक्षणात् ।।

श्रद्धास्पर्शनपूजाभ्यां धूपदीपादिदानतः ।। ८९ ।।

प्रदक्षिणैः स्तोत्रजपैर्नमस्कारैस्तु नर्त्तनैः ।।

देवदेवमहादेव शंभो शिवशिवेति च ।। 4.1.3.९० ।।

धूर्जटे नीलकंठेश पिनाकिञ्शशिशेखर ।।

त्रिशूलपाणे विश्वेश रक्षरक्षेतिभाषणैः ।। ९१ ।।

मुक्तिमंडपिकायां च निमेषार्धो पवेशनात् ।।

तत्र धर्मकथालापात्पुराणश्रवणादपि ।। ९२ ।।

नित्यादिकर्मकरणात्तथातिथिसमर्चनैः ।।

परोपकरणाद्यैश्च धर्मस्स्यादुत्तरोत्तरः ।। ९३ ।।

शुक्लपक्षे यथा चंद्रः कलया कलयैधते ।।

एवं काश्यां निवसतां धर्मराशिः पदेपदे ।। ९४ ।।

श्रद्धाबीजो विप्रपादांबुसिक्तः शाखाविद्यास्ताश्चतस्रो दशापि ।।

पुष्पाण्यर्था द्वे फले स्थूलसूक्ष्मे मोक्षःकामो धर्मवृक्षोयमीड्यः ।। ९५ ।।

सर्वार्थानामत्रदात्री भवानी सर्वान्कामान्पूरयेदत्र ढुंढिः ।।

सर्वाञ्जंतून्मोचयेदंतकाले विश्वेशोत्रश्रोत्रमंत्रोपदेशात् ।। ९६ ।।

काश्यां धर्मस्तच्चतुष्पादरूपः काश्यामर्थः सोप्यने कप्रकारः ।।

काश्यां कामः सर्वसौख्यैकभूमिः काश्यां श्रेयस्तत्तु किंनात्र यच्च ।। ९७ ।।

विश्वेश्वरो यत्र न तत्र चित्रं धर्मार्थकामामृतरूपरूपः ।।

स्वरूपरूपः स हि विश्वरूपस्तस्मान्न काशी सदृशी त्रिलोकी ।। ९८ ।।

इति ब्रुवाणा गीर्वाणा ददृशुस्तूटजं मुनेः ।।

होमधूमसुगंधाढ्यं बटुभिर्बहुभिर्वृतम् ।। ९९ ।।

श्यामाकांजलियाञ्चार्थमृषिकन्यानुयायिभिः ।।

धृतोपग्रहदर्भास्यैर्मृगशावैरलंकृतम् ।। 4.1.3.१०० ।।

सार्द्रवल्कलकौपीनैर्वृक्षशाखावलंबिभिः ।।

बद्धुं विघ्नमृगान्दिक्षु वागुराभिरिवावृतम् ।। १ ।।

पतिव्रता शिरोरत्नलोपामुद्रांघ्रिमुद्रया ।।

मुद्रितं वीक्ष्य सन्नेमुः पर्णशालांऽगणं सुराः ।। २ ।।

विसर्जितसमाधिं च धृतकर्णाक्षमालिकम् ।।

अधिष्ठितं बृसीपृष्ठं परमेष्ठिवदुत्कटम् ।। ३ ।।

पुरोगस्त्यं समालोक्य सर्वे देवाः सवासवाः ।।

प्रहृष्टवदनाः प्रोचुः प्रोच्चैर्जयजयेति च ।। ४ ।।

मुनिरुत्थाय तान्सर्वानुपावेश्य यथोचितम् ।।

आशीर्भिरभिनंद्याथ पप्रच्छागमकारणम् ।। ५ ।।

व्यास उवाच ।।

इदं पुण्यतमाख्यानं श्रुत्वा भक्तिसमन्वितः ।।

पठित्वा पाठयित्वा च व्रतश्रद्धावतां पुरः ।। ६ ।।

विधूय सर्व पापानि ज्ञात्वाऽज्ञात्वा कृतान्यपि ।।

हंसवर्णेन यानेन गच्छेच्छिवपुरं ध्रुवम् ।। १०७ ।।

इति श्रीस्कान्दे महापुराण एकाशीति साहरुयां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे अगस्त्याश्रमवर्णनंनाम तृतीयोऽध्यायः ।। ३ ।। ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 4

।। सूत उवाच ।। ।।

मुनिपृष्टास्तदा देवा भगवंस्ते किमब्रुवन्।।

सर्वलोकहितार्थाय तदाख्याहि महामुने ।।१।।

।। श्रीव्यास उवाच ।। ।।

अगस्तिवचनं श्रुत्वा बहुमानपुरस्सरम् ।।

धिषणाधिपतेरास्यं विबुधा व्यालुलोकिरे ।। २ ।।

वाक्पतिरुवाच ।।

शृण्वगस्ते महाभाग देवागमनकारणम् ।।

धन्योसि कृतकृत्योसि मान्योसि महता मपि ।। ३ ।।

प्रत्याश्रमं प्रतिनगं प्रत्यरण्यं तपोधनाः ।।

किं न संति मुनिश्रेष्ठ काचिदन्यैव ते स्थितिः ।।४।।

तपोलक्ष्मीस्त्वयीहास्ति ब्राह्मतेजस्त्वयि स्थिरम्।।

पुण्यलक्ष्मीस्त्वयि परा त्वय्यौदार्यं मनस्त्वयि ।। ५ ।।

पतिव्रतेयं कल्याणी लोपामुद्रा सधर्मिणी।।

तवांगच्छायया तुल्या यत्कथापुण्यकारिणी ।। ६ ।।

पतिव्रतास्वरुंधत्या सावित्र्याप्यनसूयया ।।

शांडिल्यया च सत्या च लक्ष्म्या च शतरूपया ।। ७ ।।

मेनया च सुनीत्या च संज्ञया स्वाहया तथा ।।

यथैषा वर्ण्यते श्रेष्ठा न तथान्येति निश्चितम ।। ८ ।।

भुंक्ते भुक्ते त्वयि मुने तिष्ठति त्वयि तिष्ठति ।।

विनिद्रिते च निद्राति प्रथमं प्रतिबुध्यते ।। ९।।

अनलंकृतमात्मानं तव नो दर्शयेत्क्वचित्।।

कार्यार्थं प्रोषिते क्वापि सर्वमंडनवर्जिता ।।4.1.4.१०।।

न च ते नाम गृह्णीयात्तवायुष्यविवृद्धये ।।

पुरुषांतरनामापि न गृह्णाति कदाचन ।। ११ ।।

आक्रुष्टापि न चाक्रोशेत्ताडितापि प्रसीदति ।।

इदं कुरु कृतं स्वामिन्मन्यतामिति वक्ति च ।। १२ ।।

आहूता गृहकार्याणि त्यक्त्वा गच्छति सत्वरम् ।।

किमर्थं व्याहृता नाथ सप्रसादो विधीयताम् ।। १३ ।।

न चिरं तिष्ठति द्वारि न द्वारमुपसेवते ।।

अदापितं त्वया किंचित्कस्मैचिन्न ददात्यपि ।। १४ ।।

पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् ।।

नियमोदकबर्हींषि पत्रपुप्पाक्षतादिकम् ।। १५ ।।

प्रतीक्षमाणावसरं यथाकालोचितं हि यत् ।।

तदुपस्थापयेत्सर्वमनुद्विग्नातिहृष्टवत् ।। १६ ।।

सेवते भर्त्तुरुच्छिष्टमिष्टमन्नं फलादिकम् ।।

महाप्रसाद इत्युक्त्वा परिदत्तं प्रतीच्छति ।। १७ ।।

अविभज्य न चाश्नीयाद्देवपित्रतिथिष्वपि ।।

परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ।। १८ ।।

संयतोपस्करादक्षा हृष्टा व्यय पराङ्मुखी ।।

कुर्यात्त्वयाननुज्ञाता नोपवासव्रतादिकम् ।। १९ ।।

दूरतो वर्जयेदेषा समाजोत्सवदर्शनम् ।।

न गच्छेत्तीर्थयात्रादि विवाहप्रेक्षणादिषु ।।4.1.4.२० ।।

सुखसुप्तं सुखासीनं रममाणं यदृच्छया ।।

आंतरेष्वपि कार्येषु पतिं नोत्थापयेत्क्वचित्।।२१ ।।

स्त्रीधर्मिणी त्रिरात्रं तु स्वमुखं नैव दर्श येत् ।।

स्ववाक्यं श्रावयेन्नापि यावत्स्नाता न शुद्धितः ।।२२।।

सुस्नाता भर्तृवदनमीहतेन्यस्य न क्वचित् ।।

अथवा मनसि ध्यात्वा पतिं भानुं विलोकयेत्।।२३।।

हरिद्रां कुंकुमं चैव सिंदूर कज्जलं तथा ।।

कूर्पासकं च तांबूलं मांगल्याभरणं शुभम् ।।२४।।

केशसंस्कारकबरी करकर्णादिभूषणम् ।।

भर्त्तुरायुष्यमिच्छंती दूरये न्न पतिव्रता।। २५ ।।

न रजक्या न हैतुक्या तथा श्रमणया न च ।।

न च दुर्भगया क्वापि सखित्वं कुरुते सती ।। २६ ।।

भर्तृविद्वेषिणीं नारीं नैषा संभाषते क्वचित् ।।

नैकाकिनी क्वचिद्भूयान्न नग्ना स्नाति च क्वचित् ।। २७ ।।

नोलूखले न मुसले न वर्द्धन्यां दृषद्यपि ।।

न यंत्रकेन देहल्यां सती चोपविशेत्क्वचित् ।।२८।।

विना व्यवायसमयं प्रागल्भ्यं न क्वचिच्चरेत् ।।

यत्रयत्ररुचिर्भर्त्तुस्तत्र प्रेमवती सदा ।। २९ ।।

इदमेव व्रतं स्त्रीणामयमेवपरो वृषः ।।

इयमेको देवपूजा भर्त्तुर्वाक्यं न लंघयेत ।। 4.1.4.३० ।।

क्लीबं वा दुरवस्थंवा व्याधितं वृद्धमेव वा ।।

सुस्थितं दुःस्थितं वापि पतिमेकं न लंघयेत ।। ३१ ।।

हृष्टाहृष्टेविषण्णास्या विषण्णास्ये प्रिये सदा ।।

एकरूपा भवेत्पुण्या संपत्सु च विपत्सु च ।। ३२ ।।

सर्पिर्लवणतैलादि क्षयेपि च पतिव्रता ।।

पतिं नास्तीति न ब्रूयादायासेषु न योजयेत्।।३३।।

तीर्थस्नानार्थिनी नारी पतिपादोदकं पिबेत् ।।

शंकरादपि विष्णोर्वा पतिरेकोधिकः स्त्रियाः ।। ३४ ।।

व्रतोपवासनियमं पतिमुल्लंघ्य या चरेत् ।।

आयुष्यं हरते भर्त्तुर्मृता निरयमृच्छति।।३५।।

उक्ता प्रत्युत्तरं दद्याद्या नारी क्रोधतत्परा ।।

सरमा जायते ग्रामे सृगाली निर्जने वने।।३६।।

स्त्रीणां हि परमश्चैको नियमः समुदाहृतः ।।ऽ

अभ्यर्च्य चरणौ भर्त्तुर्भोक्तव्यं कृतनिश्चयम् ।।३७।।

उच्चासनं न सेवेत न व्रजेत्परवेश्मसु ।।

न त्रपाकर वाक्यानि वक्तव्यानि कदाचन ।। ३८ ।।

अपवादो न वक्तव्यः कलहं दूरतस्त्यजेत् ।।

गुरूणां सन्निधौ क्वापि नोच्चैर्ब्रूयान्न वा हसेत् ।। ३९ ।।

या भर्तारं परित्यज्य रहश्चरति दुर्मतिः ।।

उलूकी जायते क्रूरा वृक्षकोटरशायिनी ।। 4.1.4.४० ।।

ताडिता ताडितुं चेच्छेत्सा व्याघ्री वृषदंशिका ।।

कटाक्षयतियाऽन्यं वै केकराक्षी तु सा भवेत ।। ४१ ।।

या भर्तारं परित्यज्य मिष्टमऽश्नाति केवलम् ।।

ग्रामे वासकरी भूयाद्वल्गुर्वापि श्वविट्भुजा ।। ४२ ।।

या त्वं(हुं) कृत्याऽप्रियं ब्रूते मूका सा जायते खलु ।।

या सपत्नीं सदेर्ष्येत दुर्भगा सा पुनःपुन्ः ।। ४३ ।।

दृष्टिं विलुप्य भर्तुर्या कंचिदन्यं समीक्षते ।।

काणा च विमुखी चापि कुरूपा चापि जायते ।। ४४ ।।

बाह्यादायांतमालोक्य त्वरिता च जलाशनैः ।।

तांबूलैर्व्यजनैश्चैव पादसंवाहनादिभिः ।। ४५ ।।

तथैव चाटुवचनैः खेदसंनोदनैः परैः ।।

या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणिता तया ।। ४६ ।।

मितं ददाति हि पिता मितं भ्राता मितं सुतः ।।

अमितस्य हि दातारं भर्त्तारं पूजये त्सदा ।। ४७ ।।

भर्ता देवो गुरुर्भर्ता धर्म तीर्थ व्रतानि च ।।

तस्मात्सर्वं परित्यज्य पतिमेकं समर्चयेत ।। ४८ ।।

जीवहीनो यथा देहः क्षणादशुचितां व्रजेत् ।।

भर्तृहीना तथा योषित्सुस्नाताप्यशुचिः सदा ।। ४९ ।।

अमंगलेभ्यः सर्वेभ्यो विधवा त्यक्तमंगला ।।

विधवा दर्शनात्सिद्धिः क्वापि जातु न जायते ।। 4.1.4.५० ।।

विहाय मातरं चैकां सर्वमंगलवर्जिताम ।।

तदाशिषमपि प्राज्ञस्त्यजेदाशीविषोपमाम ।। ५१ ।।

कन्याविवाहसमये वाचयेयुरिति द्विजाः ।।

भर्तुः सहचरी भूयाज्जीवतोऽजीवतोपिवा ।। ५२ ।।

भर्ता सदानुयातव्यो देहवच्छायया स्त्रिया ।।

चंद्रमा ज्योत्स्नया यद्वद्विद्युत्वान्विद्युता यथा ।। ५३ ।।

अनुव्रजति भर्तारं गृहात्पितृवनं मुदा ।।

पदेपदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम ।। ५४ ।।

व्यालग्राही यथा व्यालं बलादुद्धरते बिलात ।।

एवमुत्क्रम्य दूतेभ्यः पतिं स्वर्गं नयेत्सती ।। ५५ ।।

यमदूताः पलायंते सतीमालोक्य दूरतः ।।

अपि दुष्कृतकर्माणं समुत्सृज्य च तत्पतिम् । । ५६ ।।

न तथा बिभीमो वह्नेर्नतथा विद्युतो यथा ।।

आपतंतीं समालोक्य वयं दूताः पतिव्रताम् ।। ५७ ।।

तपनस्तप्यतेत्यंतं दहनोपि च दह्यते ।।

कंपंते सर्व तेजांसि दृष्ट्वा पातिव्रतं महः ।। ५८ । ।

यावत्स्वलोमसंख्यास्ति तावत्कोट्ययुतानि च ।।

भर्त्रा स्वर्गसुखं भुंक्ते रममाणा पतिव्रता ।। ५९ । ।

धन्या सा जननी लोके धन्योसौ जनकः पुनः ।।

धन्यः स च पतिः श्रीमान्येषां गेहे पतिव्रता ।। 4.1.4.६० ।।

पितृवंश्यामातृवंश्याःपतिवंश्यास्त्रयस्त्रयः ।।

पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुंजते ।। ६१ ।।

शीलभंगेन दुर्वृत्ताः पातयंति कुलत्रयम् ।।

पितुर्मातुस्तथापत्युरिहामुत्र च दुःखिताः ।। ६२ ।।

पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भुवम् ।।

तत्रेति भूमिर्मन्येत नात्र भारोस्तिपावनी ।। ६३ ।।

बिभ्यत्पतिव्रतास्पर्शं कुरुते भानुमानपि ।।

सोमो गंधवहश्चापि स्वपावित्र्याय नान्यथा ।। ६४ ।।

आपः पतिव्रता स्पर्शमभिलष्यंति सर्वदा ।।

अद्य जाड्यविनाशो नो जातास्त्वद्याऽन्यपावनाः ।। ६५ ।।

गृहेगृहे न किं नार्यो रूपलावण्यगर्विताः ।।

परं विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता ।। ६६ ।।

भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च ।।

भार्या धर्मफला भार्या सं तानवृद्धये ।। ६७ ।।

परलोकस्त्वयं लोको जीयते भार्यया द्वयम् ।।

देवपित्रतिथीज्यादि नाभार्यः कर्म चार्हति ।। ६८ ।।

गृहस्थः स हि विज्ञेयो यस्य गेहे पतिव्रता ।।

ग्रसतेऽन्या प्रतिपदं राक्षस्या जरयाथवा ।। ६९ ।।

यथा गंगाऽवगाहेन शरीरं पावनं भवेत् ।।

तथा पतिव्रता दृष्ट्या शुभया पावनं भवेत् ।। 4.1.4.७० ।।

अनुयाति न भर्तारं यदि दैवात्कथंचन ।।

तत्रापि शीलं संरक्ष्यं शीलभंगात्पतत्यधः ।। ७१ ।।

तद्वैगुण्यादपिस्वर्गात्पतिः पतति नान्यथा ।।

तस्याः पिता च माता च भ्रातृवर्गस्तथैव च ।। ७२ ।।

पत्यौ मृते च यायोषिद्वैधव्यं पालयेत्क्वचित् ।।

सा पुनः प्राप्य भर्तारं स्वर्गभोगान्समश्नुते ।। ७३ ।। ।

विधवा कबरीबंधो भर्तृबंधाय जायते ।।

शिरसो वपनं तस्मात्कार्यं विधवया सदा ।। ७४ ।।

एकाहारः सदा कार्यो न द्वितीयं कदाचन ।।

त्रिरात्रं पंचरात्रं वा पक्षव्रतमथापि वा ।। ७५ ।।

मासोपवासं वा कुर्याच्चांद्रायणमथापि वा ।।

कृच्छ्रं वराकं वा कुर्यात्तप्तकृच्छ्रमथापि वा ।। ७६ ।।

यवान्नैर्वा फलाहारैः शाकाहारैः पयोव्रतैः ।।

प्राणयात्रां प्रकुर्वीत यावत्प्राणः स्वयं व्रजेत् ।। ७७ ।।

पर्यंकशायिनी नारी वि धवा पातयेत्पतिम् ।।

तस्माद्भूशयनं कार्यं पतिसौख्यसमीहया ।। ७८ ।।

न चांगोद्वर्तनं कार्यं स्त्रिया विधवया क्वचित् ।।

गंधद्रव्यस्य संयोगो नैव कार्यस्तया पुनः ।। ७९ ।।

तर्पणं प्रत्यहं कार्यं भर्तुः कुशतिलोदकैः ।।

तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम ।। 4.1.4.८० ।।

विष्णोस्तु पूजनं कार्यं पति बुद्ध्या न चान्यथा ।।

पतिमेव सदा ध्यायेद्विष्णुरूपधरं हरिम् ।। ८१ ।।

यद्यदिष्टतमं लोके यच्च पत्युः समीहितम् ।।

तत्तद्गुणवते देयं पतिप्रीणनकाम्यया ।। ८२ ।।

वैशाखे कार्तिके माघे विशेषनियमांश्चरेत् ।।

स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः ।। ८३ ।।

वैशाखे जलकुंभांश्च कार्तिके घृतदीपकाः ।।

माघे धान्य तिलोत्सर्गः स्वर्गलोके विशिष्यते ।। ८४ ।।

प्रपा कार्या च वैशाखे देवे देया गलंतिका ।।

उपानद्व्यजनं छत्रं सूक्ष्मवासांसि चन्दनम् ।। ८५ ।।

सकर्पूरं च तांबूलं पुष्पदानं तथैव च ।।

जलपात्राण्यनेकानि तथा पुष्प गृहाणि च ।। ८६ ।।

पानानि च विचित्राणि द्राक्षा रंभा फलानि च ।।

देयानि द्विजमुख्येभ्यः पतिर्मे प्रीयतामिति ।। ८७ ।।

ऊर्जे यवान्नमश्नीयादेकान्नमथवा पुनः ।।

वृंताकं सूरणं चैव शूकशिंबिं च वर्जयेत् ।। ८८ ।।

कार्तिके वर्जयेत्तैलं कार्तिके वर्जये न्मधु ।।

कार्तिके वर्जयेत्कांस्यं कार्तिके चापिसंधितम् ।। ८९ ।।

कार्तिके मौननियमे घंटां चारु प्रदापयेत ।।

पत्रभोजी कांस्यपात्रं घृतपूर्णं प्रयच्छति ।।4.1.4.९०।।

भूमिशय्याव्रते देया शय्या श्लक्ष्णा सतूलिका ।।

फलत्यागे फलं देयं रसत्यागे च तद्रसम् ।। ९१ ।।

धान्यत्यागे च तद्धान्यमथवा शालयः स्मृताः ।।

धेनूर्दद्यात्प्रयत्नेन सालंकाराः सकांचनाः ।। ९२ ।।

एकतः सर्वदानानि दीपदानं तथैकतः ।।

कार्तिके दीपदानस्य कलां नार्हंति षोडशीम् ।। ९३ ।।

किंचिदभ्युदिते सूर्ये माघस्नानं समाचरेत् ।।

यथाशक्त्या च नियमान्माघस्नायी समाचरेत् ।। ९४ ।।

पक्वान्नैर्भो जयेद्विप्रान्यतिनोपि तपस्विनः ।।

लड्डुकैः फेणिकाभिश्च वटकेंडरिकादिभिः ।। ९५ ।।

घृतपक्वैः समीरचैः शुचिकर्पूरवासितैः ।।

गर्भे शर्करया पूर्णैर्नेत्रानं दैः सुगंधिभिः ।। ९६ ।।

शुष्केंधनानां भारांश्च दद्याच्छीतापनुत्तये ।।

कंचुकं तूलगर्भं च तूलिकां सूपवीतिकाम् ।। ९७ ।।

मंजिष्ठा रक्तवासांसि तथा तूलवतीं पटीम् ।।

जातीफल लवंगैश्च तांबूलानि बहून्यपि ।। ९८ ।।

कंबलानि विचित्राणि निर्वातानि गृहाणि च ।।

मृदुलाः पादरक्षाश्च सुगंध्युद्वर्त्तनानि च।।९९।।

घृतकंबलपूजाभिर्महास्नानपुरःसरम् ।।

कृष्णागुरुप्रभृतिभिर्गर्भागारे प्रधूपनैः ।। 4.1.4.१०० ।।

स्थूलवर्तिप्रदीपैश्च नैवेद्यैर्विविधैस्तथा ।।

भर्तृस्वरूपो भगवान्प्रीयतामिति चोच्चरेत् ।। १ ।।

एवंविधैश्च विधवा विविधैर्नियमैर्व्रतैः ।।

वैशाखान्कार्तिकान्माघानेवमेवातिवाहयेत् ।। २ ।।

नाधिरोहेदनड्वाहं प्राणैः कंठगतैरपि ।।

कंचुकं न परीदध्याद्वासो न विकृतं न्यसेत्।।३।।

अपृष्ट्वा तु सुतान्किंचिन्न कुर्याद्भर्तृतत्परा ।।

एवं चर्यापरा नित्यं विधवापि शुभा मता ।। ४ ।।

एवं धर्मसमायुक्ता विधवापि पतिव्रता ।।

पतिलोकानवाप्नोति नभवेत्क्वापि दुःखभाक् ।।५।।

न गंगया तया भेदो या नारी पतिदेवता ।।

उमाशिवसमा साक्षात्त स्मात्तां पूजयेद्बुधः ।।६।।

बृहस्पतिरुवाच ।।

गंगास्नानफलं त्वेतद्यज्जातं तव दर्शनम् ।।

लोपामुद्रे महामातर्भर्तृपादांबुजेक्षणे ।। ७ ।।

इति स्तुत्वा महाभागां राजपुत्रीं पतिव्रताम् ।।

प्रणम्य च गुरुः प्राह मुनिं सर्वार्थकोविदः ।। ८. ।।

प्रणवस्त्वं श्रुतिरियं क्षमैषा त्वं स्वयं तपः ।।

सत्क्रियेयं फलं त्वं हि धन्योसीति महामुने ।। ९ ।।

इदं पातिव्रतं तेजो ब्रह्मतेजो भवान्परम् ।।

तत्राप्येतत्तपस्तेजः किमसाध्यतमं तव ।। 4.1.4.११० ।।

तव नाविदितं किंचित्तथापि च वदाम्यहम् ।।

यदर्थमागता देवास्तन्मुनेत्र निशामय ।। ११ ।।

अयं शतमखः श्रीमान्वृत्रहा कुलिशायुधः ।।

सिद्ध्यष्टकं हि यद्द्वारि दृक्प्रसादं समीक्षते ।। १२ ।।

यस्यपुर्याः परिसरे कामधेनु व्रजश्चरेत् ।।

यत्पौराः कल्पवृक्षाणां नित्यं छायासु शेरते ।। १३ ।।

यद्रथ्यासु च तिष्ठंति ते चिंतामणिकर्कराः ।।

अयमग्निर्जगद्योनिर्धर्मराजस्त्वयं पुनः ।। १४ ।।

निर्ऋतिर्वरुणोवायुःश्रीदरुद्रादयस्त्वमी ।।

आराध्यंते च चारित्रैः सर्वकामार्थ मीश्वराः ।। १५ ।।

ममभ्यर्थयितारोमी त्वं याच्यस्तु जगत्कृते ।।

वाङ्मात्रोद्यमसाध्यं तत्तवविश्वोपकारकम् । १६ ।

कश्चिच्छैलो विंध्यनामा भानुमार्गावरोधकः ।।

वर्धितः स्पर्धया मेरोस्तद्वृद्धिं त्वं निवारय ।।१७।।

ये च स्वभावकठिना ये च मार्गावरोधकाः ।।

ये स्पर्द्धया वृद्धिमंतस्तद्वृद्धिर्वर्धिताऽशुभा ।। १८।।

इति श्रुत्वा गुरोर्वाक्यमविचार्य महामुनिः ।।

क्षणं मुनिःसमाधाय तथेति प्रत्युवाच ह ।। १९ ।।

साधयिष्यामि वः कार्यं विसर्ज्येति दिवौकसः ।।

पुनश्चिंतापरो भूत्वाऽगस्तिर्ध्यानपरोभवत् ।। 4.1.4.१२० ।।

वेदव्यास उवाच ।। ।।

इमं पतिव्रताध्यायं श्रुत्वा स्त्रीपुरुषोपिवा ।।

पापकंचुकमुत्सृज्य शक्रलोकं प्रयास्यति ।। १२१ ।।

इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थै काशीखंडे पूर्वार्द्धे पतिव्रताख्यानंनाम चतुर्थोऽध्यायः ।। ४ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 5

पराशर उवाच ।। ।।

ततो ध्यानेन विश्वेशमालोक्य स मुनीश्वरः ।।

सूत प्रोवाच तां पुण्यां लोपामुद्रामिदं वचः ।। १ ।।

अयि पश्य वरारोहे किमेतत्समुपस्थितम् ।।

क्व तत्कार्यं क्व च वयं मुनिमार्गानुसारिणः ।। २ ।।

येन गोत्रभिदा गोत्रा विपक्षा हेलया कृताः ।।

भवेत्कुंठितसामर्थ्यः स कथं गिरिमात्रके ।। ३ ।।

कल्पवृक्षोंऽगणे यस्य कुलिशं यस्य चायुधम् ।।

सिद्ध्यष्टकं हि यद्द्वारि स सिद्ध्यै प्रार्थयेद्द्विजम्।। ४ ।।

क्रियंते व्याकुलाः शैला अहो दावाग्निना प्रिये ।।

तद्वृद्धिस्तंभने शक्तिः क्व गतासाऽऽशुशुक्षणेः ।।५।।

नियन्ता सर्वभूतानां योसौ दण्डधरः प्रभुः ।।

स किं दंडयितुं नालमेकं तं ग्रावमात्रकम् ।। ६ ।।

आदित्या वसवो रुद्रास्तुषिताः स मरुद्गणाः ।।

विश्वेदेवास्तथा दस्रौ ये चान्येपि दिवौकसः ।। ७ ।।

येषां दृक्पातमात्रेण पतंति भुवनान्यपि।।

ते किं समर्था नो कांते नगवृद्धिनिषेधने ।।८।।

आज्ञातं कारणं तच्च स्मृतं वाक्यं सुभाषितम्।।

काशीमुद्दिश्य यद्गीतं मुनिभिस्तत्त्वदर्शिभिः ।।९।।

अविमुक्तं न मोक्तव्यं सर्वथैव मुमुक्षुभिः ।।

किंतु विघ्ना भविष्यंति काश्यां निवसतां सताम् ।। 4.1.5.१० ।।

उपस्थितोयं कल्याणि सोंऽतरायो महानिह ।।

न शक्यतेऽन्यथाकर्तुं विश्वेशो विमुखो यतः ।। ११ ।।

काशीद्विजाशीर्भिरहो यदाप्ता कस्तां मुमुक्षुर्यदिवामुमुक्षुः ।।

ग्रासं करस्थं स विसृज्य हृद्यं स्वकूर्परं लेढि विमूढचेताः ।। १२ ।।

अहो जना बालिशवत्किमेतां काशीं त्यजेयुः सुकृतैकराशिम् ।।

शालूककंदः प्रतिमज्जनं किं लभेत तद्वत्सुलभा किमेषा ।। १३ ।।

भवांतरा वर्जित पुण्यराशिं कृच्छैर्महद्भिर्ह्यवगम् यकाशीम् ।।

प्राप्यापि किं मूढधियोन्यतो वै यियासवो दुर्गतिमुद्यियासवः ।। १४ ।।

क्व काशिका विश्वपदप्रकाशिका क्व कार्यमन्यत्परितोतिदुःखम् ।।

तत्पंडितोन्यत्र कुतः प्रयाति किं याति कूष्मांडफलं ह्यजास्ये ।। १५ ।।

काशीं प्रकाशीं कृतपुण्यराशिं हा शीघ्रनाशी विसृजेन्नरः किम् ।।

नूनं स्वनूनं सुकृतं तदीयं मदीयमेवं विवृणोति चेतः ।। १६ ।।

नरो न रोगी यदिहाविहाय सहायभूतां सकलस्य जंतोः।।।

काशीमनाशी सुकृतैकराशिमन्यत्र यातुं यततां न चान्यः ।। १७ ।।

वित्रस्तपापां त्रिदशैर्दुरापां गंगां सदापां भवपाशशापाम् ।।

शिवाविमुक्ताममृतैकशुक्तिं भुक्ताविमुक्तानपरित्यजन्ति ।। १८ ।।

हंहो किमंहो निचिताः प्रलब्धा बंहीयसायास भरेण काशीम् ।।

प्रभूतपुण्यद्रविणैकपण्यां प्राप्यापि हित्वा क्व च गंतुमुद्यताः ।। १९ ।।

अहो जनानां जडता विहाय काशीं यदन्यत्र न यंति चेतः ।।

परिस्फुरद्गांगजलाभिरामां कामारिशूलाग्रधृतां लयेपि ।। 4.1.5.२० ।।

रेरे भवे शोकजलैकपूर्णे पापेस्मलोकाः पतिताब्धिमध्ये।।

विद्राणनिद्राणविरोधिपापां काशीं परित्यज्यतरिं किमर्थम्।।२१।।

न सत्पथेनापि न योगयुक्त्या दानैर्नवा नैव तपोभिरुग्रैः ।।

काशी द्विजाशीर्भिरहो सुलभ्या किंवा प्रसादेन च विश्वभर्तुः ।।२२।।

धर्मस्तु संपत्तिभरैः किलोह्यतेप्यर्थो हि कामैर्बहुदानभोगकैः।।

अन्यत्रसर्वं स च मोक्ष एकः काश्यां न चान्यत्र तथायथात्र।।२३।।

क्षेत्रं पवित्रं हि यथाऽविमुक्तं नान्यत्तथायच्छ्रुतिभिः प्रयुक्तम्।।

न धर्मशास्त्रैर्न च तैःपुराणैस्तस्माच्छरण्यं हि सदाऽविमुक्तम्।।२४।।

सहोवाचेति जाबालिरारुणेसिरिडामता।।

वरणापिंगला नाडी तदंतस्त्वविमुक्तकम्।।२५।।

सा सुषुम्णा परानाडी त्रयं वाराणसीत्वसौ।।

तदत्रोत्क्रमणे सर्वजंतूनां हि श्रुतौ हरः।।२६।।

तारकं ब्रह्मव्याचष्टे तेन ब्रह्म भवंति हि।।

एवं श्लोको भवत्येष आहुर्वै वेदवादिनः।।२७।।

भगवानंतकालेऽत्र तारकस्योपदेशतः।।

अविमुक्तेस्थिताञ्जन्तून्मोचयेन्नात्र संशयः।।२८।।

नाविमुक्तसमंक्षेत्रं नाविमुक्तसमा गतिः ।।

नाविमुक्तसमं लिंगं सत्यं सत्यं पुनःपुनः ।। २९ ।।

अविमुक्तं परित्यज्य योन्यत्र कुरुते रतिम् ।।

मुक्तिं करतलान्मुक्त्वा सोन्यां सिद्धिं गवेषयेत् ।।4.1.5.३०।।

इत्थं सुनिश्चित्य मुनिर्महात्मा क्षेत्रप्रभावं श्रुतितः पुराणात्।।

श्रीविश्वनाथेन समं न लिंगं पुरी न काशी सदृशी त्रिकोट्याम्।।३१।।

श्रीकालराजं च ततः प्रणम्य विज्ञापयामास मुनीशवर्यः ।।

आपृच्छनायाहमिहागतोस्मि श्रीकाशिपुर्यास्तु यतः प्रभुस्त्वम् ।।३२ ।।

हा कालराजप्रति भूतमत्र प्रत्यष्टमिप्रत्यवनीसुतार्कम् ।।

नाराधये मूलफलप्रसूनैः किं मय्यनागस्यपराधदृक्स्याः ।। ३३ ।।

हा कालभैरव भवानभितो भयार्तान्माभैष्ट चे तिभणनैः स्वकरं प्रसार्य ।।

मूर्तिं विधाय विकटां कटुपापभोक्त्रीं वाराणसीस्थितजनान्परिपाति किं न ।।३४ ।।

हे यक्षराज रजनीकर चारुमूर्ते श्रीपूर्णभद्रसुतनायक दंडपाणे ।।

त्वं वै तपोजनितदुःखमवैपि सर्वं किं मां बहिर्नयसि काशिनिवासिरक्षिन् ।। ३५ ।।

त्वमन्नदस्त्वं किल जीवदाता त्वं ज्ञानदस्त्वं किल मोक्षदोपि ।।

त्वमंत्यभूषां कुरुषे जनानां जटाकलापैरुरगेंद्रहारैः ।। ३६ ।।

गणौ त्वदीयौ किल संभ्रमोद्भ्रमावत्रस्थवृत्तांत विचारकोविदौ ।।

संभ्रांतिमुत्पाद्यपरामसाधून्क्षेत्रात्क्षणं दूरयतस्त्वमुष्मात् ।। ३७ ।।

शृणु प्रभो ढुंढिविनायक त्वं वाचं मदीयां तुरटाम्यनाथवत् ।।

त्वत्स्थाः समस्ताः किल विघ्नपूगाः किमत्र दुर्वृत्तवदास्थितोहम् । ३८ ।।

शृण्वंत्वमी पंच विनायकाश्च चिंतामणिश्चापि कपर्दिनामा ।।

आशागजाख्यौ च विनायकौ तौ शृणोत्वसौ सिद्धिविनायकश्च।।३९।।

परापवादो न मया किलोक्तः परापकारोपि मया कृतो न ।।

परस्वबुद्धिः परदारबुद्धिः कृता मया नात्र क एष पाकः ।।4.1.5.४०।।

गंगा त्रिकालं परिसेविता मया श्रीविश्वनाथोपि सदा विलोकितः ।।

यात्राः कृतास्ताः प्रतिपर्वसर्वतः कोयंविपाको मम विघ्नहेतुः ।। ४१ ।।

मातर्विशालाक्षि भवानिमंगले ज्येष्ठेशिसौभाग्यविधानसुंदरि।।

विश्वेविधे विश्वभुजे नमोस्तु ते श्रीचित्रघंटे विकटे च दुर्गिके ।। ४२ ।।

साक्षिण्य एता किलकाशिदेवताः शृण्वंतु न स्वार्थमहं व्रजाम्यतः ।।

अभ्यर्थितो देवगणैः करो मि किं परोपकाराय न किं विधीयते ।। ४३ ।।

दधीचिरस्थीनि न किं पुरा ददौ जगत्त्रयं किं न ददेऽर्थिने बलिः ।।

दत्तः स्म किं नो मधुकैटभौ शिरो बभूव तार्क्ष्योपि च विष्णुवाहनम् ।। ४४ ।।

आपृच्छ्य सर्वान्समुनीन्मुनीश्वरः सबालवृद्धानपि तत्रवासिनः ।।

तृणानि वृक्षांश्चलताः समस्ताः पुरीं परिक्रम्य च निर्ययौ च।।४५।।

प्रोषितस्य परितोपि लक्षणैर्नीचवर्त्मपरिवर्तिनोपि वा ।।

चंद्रमौलिमवलोक्य यास्यतः कस्य सिद्धिरिह नो परिस्फुरेत् ।।४६।।

वरं हि काश्यां तृणवृक्षगुल्मकाश्चरंति पापं न चरंति नान्यतः ।।

वयं चराणां प्रथमा धिगस्तु नो वाराणसींहाद्य विहाय गच्छतः ।। ४७ ।।

असिं ह्युपस्पृश्य पुनःपुनर्मुनिः प्रासादमालाः परितो विलोकयन् ।।

उवाच नेत्रे सरले प्रपश्यतं काशीं युवां क्वक्व पुरी त्वियं बत ।। ४८ ।।

स्वैरं हसंत्वद्य विधाय तालिकां मिथःकरेणापि करं प्रगृह्य ।।

सीमाचरा भूतगणा व्रजाम्यहं विहाय काशीं सुकृतैकराशिम् ।। ४९ ।।

इत्थं विलप्य बहुशः स मुनिस्त्वगस्त्यस्तत्क्रौंचयुग्मवदहो अबलासहायः ।।

मूर्च्छामवाप महतीं विरही वजल्पन्हाकाशिकाशि पुनरेहि च देहि दृष्टिम्।। 4.1.5.५० ।।

स्थित्वा क्षणं शिवशिवेति शिवेति चोक्त्वा यावःप्रियेति कठिनाहि दिवौकसस्ते।।

किं न स्मरेस्त्रिजगती सुखदानदक्षं त्र्यक्षं प्रहित्यमदनं यदकारितैस्तु ।। ५१ ।।

यावद्व्रजेत्त्रिचतुराणि पदानि खेदात्स्वेदोदबिंदुकणिकांचितभालदेशः ।।

प्रत्युद्गमाऽकरणतः किल मे विनाशस्तावद्धराभयवरादिव संचुकोच ।। ५२ ।।

तपोयानमिवारुह्य निमेषार्धेन वै मुनिः ।।

अग्रे ददर्श तं विंध्यं रुद्धांबरमथोन्नतम् ।। ५३।।

चकंपे चाचलस्तूर्णं दृष्ट्वैवाग्रस्थितम मुनिम् ।।

तमगस्त्यं सपत्नीकं वातापील्वल वैरिणम् ।। ५४ ।।

तपःक्रोधसमुत्थाभ्यां काशीविरहजन्मना ।।

प्रलयानलवत्तीव्रं ज्वलंतं त्रिभिरग्निभिः ।।५५ ।।

गिरिः खर्वतरो भूत्वा विविक्षुरवनीमिव ।।

आज्ञाप्रसादः क्रियतां किंकरोस्मीति चाब्रवीत।। ५६ ।।

।। अगस्त्य उवाच ।। ।।

विंध्य साधुरसि प्राज्ञ मां च जानासि तत्त्वतः ।।

पुनरागमनं चेन्मे तावत्खर्वतरो भव ।। ५७ ।।

इत्युक्त्वा दक्षिणामाशां सनाथामकरोन्मुनिः ।।

निजैश्चरणविन्यासैस्तया साध्व्या तपोनिधिः ।। ५८ ।।

गते तस्मिन्मुनिवरे वेपमानस्तदा गिरिः ।।

पश्यत्युत्कंठमिव च गतश्चेत्साध्वभूत्ततः ।। ५९ ।।

अद्याजातः पुनरहं न शप्तो यदगस्तिना ।।

न मया सदृशो धन्य इति मेने स वै गिरिः ।। 4.1.5.६० ।।

अरुणोपि च तत्काले कालज्ञो ऽश्वानकालयत् ।।

जगत्स्वास्थ्यमवापोच्चैः पूर्ववद्भानुसंचरैः ।। ६१ ।।

अद्य श्वो वा परश्वो वाप्यागमिप्यति वै मुनिः ।।

इति चिंतामहाभारैर्गिरिराक्रांतवत्स्थितः ।। ६२ ।।

नाद्यापि मुनिरायाति नाद्यापिगिरिरेधते ।।

यथा खलजनानां हि मनोरथमहीरुहः ।। ६३ ।।

विवर्धिषति यो नीचः परासूयां समुद्वहन् ।।

दूरे तद्वृद्धिवार्ताऽस्तां प्राग्वृद्धेरपि संशयः ।। ६४ ।।

मनोरथा न सिद्ध्येयुः सिद्धा नश्यंत्यपि ध्रुवम् ।।

खलानां तेन कुशलि विश्वं विश्वेशरक्षितम् ।। ६५ ।।

विधवानां स्तना यद्वद्धृद्येव विलयंति च ।।

उन्नम्योन्नम्य तत्रोच्चैस्तद्वत्खलमनोरथाः ।। ६६ ।।

भवेत्कूलंकपा यद्वदल्पवर्षेणकन्नदी ।।

खलर्धिरल्पवर्षेण तद्वत्स्यात्स्वकुलंकपा ।। ६७ ।।

अविज्ञायान्य सामर्थ्यं स्वसामर्थ्यं प्रदर्शयेत ।।

उपहासमवाप्नोति तथैवायमिहाचलः ।। ६८ ।।

।। व्यास उवाच ।। ।।

गोदावरीतटं रम्यं विचरन्नपि वै मुनिः ।।

न तत्याज च तं तापं काशीविरहजं परम् ।। ६९ ।।

उदीची दिक्स्पृशमपि स मुनिर्मातरिश्वनम् ।।

प्रसार्य बाहू संश्लिष्य काश्याः पृच्छेदनामयम् ।। 4.1.5.७० ।।

लोपामुद्रे न सा मुद्रा कापीह जगतीतले ।।

वाराणस्याः प्रदृश्येत तत्कर्ता न यतो विधिः ।। ७१ ।।

क्वचित्तिष्ठन्क्वचिज्जल्पन्क्वचिद्धावन्क्वचित्स्खलन् ।।

क्वच्चिचोपविशंश्चेति बभ्रामेतस्ततो मुनिः ।।७२ ।।

ततो व्रजन्ददर्शाग्रे पुण्यराशिस्तपोधनः।।

चंचच्चंद्रगताभासां भाग्यवानिव सुश्रियम् ।। ७३ ।।

विजित्यभानु नाभानुं दिवापि समुदित्वराम् ।।

निर्वापयंतीमिव तां स्वचेतस्तापसंततिम् ।। ७४ ।।

तत्रागस्त्यो महालक्ष्मीं ददृशे सुचिरं स्थिताम्।। ७५।।

रात्रावब्जेषु संकोचो दर्शेष्वब्जः क्वचिद्व्रजेत्।।

क्षीरोदे मंदरत्रासात्तदत्राध्युषितामिव।। ७६।।

यदारभ्य दधारैनां माधवो मानतः किल ।।

तदारभ्य स्थितां नूनं सपत्नीर्ष्यावशादिव ।।७७।।

त्रैलोक्यं कोलरूपेण त्रासयंतं महासुरम्।।

विनिहत्य स्थितां तत्र रम्ये कोलापुरे पुरे ।।७८।।

संप्राप्याथ महालक्ष्मीं मुनिवर्यः प्रणम्य च।।

तुष्टाव वाग्भिरिष्टाभिरिष्टदां हृष्टमानसः ।। ७९ ।।

अगस्तिरुवाच।।

मातर्नमामि कमले कमलायताक्षि श्रीविष्णुहृत्कमलवासिनि विश्वमातः ।।

क्षीरोदजे कमलकोमलगर्भ गौरि लक्ष्मि प्रसीद सततं नमतां शरण्ये ।। 4.1.5.८० ।।

त्वं श्रीरुपेंद्रसदने मदनैकमातर्ज्योत्स्नासि चंद्रमसि चंद्रमनोहरास्ये।

सूर्ये प्रभासि च जगत्त्रितये प्रभासि लक्ष्मि प्रसीद सततं नमतां शरण्ये।। ८१ ।।

त्वं जातवेदसि सदा दह्नात्मशक्तिर्वेधास्त्वया जगदिदं विविधं विदध्यात् ।।

विश्वंभरोपि बिभृयादखिलं भवत्या लक्ष्मि प्रसीद सततं नमतां शरण्ये ।। ८२ ।।

त्वत्त्यक्तमेतदमले हरते हरोपि त्वं पासि हंसि विदधासि परावरासि ।।

ईड्यो बभूव हरिरप्यमले त्वदाप्त्या लक्ष्मि प्रसीद सततं नमतां शरण्ये ।। ८३ ।।

शूरः स एव स गुणी , बुधः धन्यो मान्यः स एव कुलशील कलाकलापैः ।।

एकः शुचिः स हि पुमान्सकलेपि लोके यत्रापतेत्तव शुभे करुणाकटाक्षः ।। ८४ ।।

यस्मिन्वसेः क्षणमहोपुरुषे गजेऽश्वे स्त्रैणे तृणे सरसि देवकुले गृहेऽन्ने।।

रत्ने पतत्त्रिणि पशौ शयने धरायां सश्रीकमेव सकले तदिहास्तिनान्यत् ।। ८५ ।।

त्वत्स्पृष्टमेव सकलं शुचितां लभेत त्वत्त्यक्तमेव सकलं त्वशुचीह लक्ष्मि ।।

त्वन्नाम यत्र च सुमंगलमेव तत्र श्रीविष्णुपत्नि कमले कमलालयेऽपि ।। ८६ ।।

लक्ष्मीं श्रियं च कमलां कमलालयां च पद्मां रमां नलिनयुग्मकरां च मां च।

क्षीरोदजाममृतकुंभकरामिरां च विष्णुप्रियामिति सदाजपतां क्व दुःखम् ।। ८७ ।।

इति स्तुत्वा भगवतीं महालक्ष्मीं हरिप्रियाम् ।।

प्रणनाम सपत्नीकः साष्टांगं दंडवन्मुनिः।।८८।।

श्रीरुवाच।।

उत्तिष्ठोत्तिष्ठ भद्रं ते मित्रावरुणसंभव ।।

पतिव्रते त्वमुत्तिष्ठ लोपामुद्रे शुभव्रते ।। ८९ ।।

स्तुत्यानया प्रसन्नोहं व्रियतां यद्धृदीप्सितम् ।।

राजपुत्रि महाभागे त्वमिहोपविशामले ।। 4.1.5.९० ।।

त्वदंगलक्षणैरेभिः सुपवित्रैश्च ते व्रतैः।।

निर्वापयितुमिच्छामि दैत्यास्त्रैस्तापितां तनुम्।।९१।।

इत्युक्त्वा मुनिपत्नीं तां समालिंग्य हरिप्रिया।।

अलंचकार च प्रीत्या बहुसौभाग्यमंडनैः ।। ९२ ।।

पुनराह मुने जाने तव हृत्तापकारणम् ।।

सचेतनं दुनोत्येव काशीविश्लेषजोऽनलः ।। ९३ ।।

यदा स देवो विश्वेशो मंदरं गतवान्पुरा।।

तदा काशीवियोगेन जाता तस्येदृशी दशा।।९४।।

तत्प्रवृत्तिं पुनर्ज्ञातुं ब्रह्माणं केशवं गणान्।।

गणेश्वरं च देवांश्च प्रेषयामास शूलधृक्।।९५।।

ते च काशीगुणान्सर्वे विचार्य च पुनःपुनः।।

व्रजंत्यद्यापि न क्वापि तादृगस्ति क्व वा पुरी।।९६।।

इति श्रुत्वाथ स मुनिः प्रत्युवाच श्रियं ततः।।

प्रणिपत्य महाभागो भक्तिगर्भमिदं वचः ।। ९७ ।।

यदि देयो वरो मह्यं वरयोग्योस्म्यहं यदि ।।

तदा वाराणसी प्राप्तिः पुनरस्त्वेष मे वरः ।। ९८ ।।

ये पठिष्यंति च स्तोत्रं त्वद्भक्त्या मत्कृतं सदा।।

तेषां कदाचित्संतापो मास्तु मास्तु दरिद्रता।।९९।।

मास्तु चेष्टवियोगश्च मास्तु संपत्ति संक्षयः।।

सर्वत्र विजयश्चास्तु विच्छेदो मास्तु संततेः ।। 4.1.5.१०० ।।

।। श्रीरुवाच ।। ।।

एवमस्तु मुने सर्वं यत्त्वया परिभाषितम् ।।

एतत्स्तोत्रस्य पठनं मम सान्निध्य कारणम् ।। १ ।।

अलक्ष्मीः कालकर्णी च तद्गेहे न विशेत्क्वचित् ।।

गजाश्वपशुशांत्यर्थमेतत्स्तोत्रं सदा जपेत् ।। २ ।।

बालग्रहाभिभूतानां वालानांशांतिकृत्परम् ।।

भूर्जपत्रे लिखित्वा तु बध्नीयात्कंठदेशतः ।।३।।

इदं बीजरहस्यं मे रक्षणीयं प्रयत्नतः ।।

श्रद्धाहीने न दातव्यं न देयं चाशुचौ क्वचित् ।। ४ ।।

अन्यच्च शृणु विप्रेंद्र भविष्ये द्वापरे भवान् ।।

एकोनत्रिंशके ब्रह्मन्सत्यव्यासो भविष्यति ।। ५ ।।

तदा वाराणसीं प्राप्य सिद्धिं प्राप्स्यस्यभीप्सिताम् ।।

व्यस्य वेदान्पुराणानि धर्मा न्समुपदिश्य च ।। ६ ।।

हितं च ते वदाम्येकं सांप्रतं तत्समाचर ।।

पश्य किंचिदितो गत्वा स्कंदमग्रे स्थितं प्रभुम् ।। ७ ।।

वाराणस्या रहस्यं च यथाव च्छिवभाषितम् ।।

तव तुष्टिकरं ब्रह्मन्कथयिष्यति षण्मुखः ।। ८ ।।

इति लब्ध्वा वरं सोथ महालक्ष्मीं प्रणम्य च ।।

ययावगस्तिर्यत्रास्ति कुमारशिखिवाहनः ।। १०९ ।। ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहरुयां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे अगस्त्यप्रस्थानं नाम पंचमो ऽध्यायः ।। ५ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 6

पाराशर्य उवाच ।।

शृणु सूत महाभाग कथां श्रुतिसहोदराम् ।।

यां वै हृदि निधायेह पुरुषः पुरुषार्थभाक् ।। १ ।।

ततः श्रीदर्श नानंद सुधाधाराधुनीं मुनिः ।।

अवगाह्य सपत्नीकः परां मुदमवाप सः ।। २ ।।

वह्निकुंडसमुद्भूत सूतनिर्मलमानस ।।

शृणुष्वैकं पुरा विद्भिर्भाषितं यत्सुभा षितम् ।। ३ ।।

परोपकरणं येषां जागर्ति हृदये सताम्।।

नश्यंति विपदस्तेषां संपदः स्युः पदेपदे ।। ४ ।।

तीर्थस्नानैर्न सा शुद्धिर्बहुदानैर्न तत्फलम् ।।

तपोभिरुग्रैस्तन्नाप्यमुपकृत्याय दाप्यते ।। ५ ।।

परोपकृत्या यो धर्मो धर्मो दानादिसंभवः ।।

एकत्र तुलितौ धात्रा तत्र पूर्वो भवद्गुरुः ।। ६ ।।

परिनिर्मथ्य वाग्जालं निर्णीतमिदमेव हि ।।

नोपकारात्परो धर्मो नापकारादवं परम् ।। ७ ।।

उपकर्तुरगस्त्यस्य जातमेतन्निदर्शनम् ।।

क्व तादृक्काशिजं दुःखं क्व तादृक्श्रीमुखेक्षणम् ।। ८ ।।

करिकर्णाग्रचपलं जीवितं विविधं वसु ।।

तस्मात्परोपकरणं कार्यमेकं विपश्चिता ।। ९ ।।

यल्लक्ष्मीनाममात्राप्त्या नरो नो माति कुत्रचित् ।।

साक्षात्समीक्ष्यतां लक्ष्मीं कृतकृत्यो भवन्मुनिः ।। 4.1.6.१० ।।

गच्छन्यदृच्छयासोथ दूराच्छ्रीशैलमैक्षत ।।

यत्र साक्षान्निवसति देवः श्रीत्रिपुरांतकः ।।११।।

उवाच वचनं पत्नीं तदा प्रीतमना मुनिः। ।।

इहस्थितैव पश्य त्वं कांते कांततरं परम्।। १२ ।।

श्रीशैल शिखरं श्रीमदिदंतद्यद्विलोकनात् ।।

पुनर्भवो मनुष्याणां भवेत्र नभवेत्क्वचित् ।। १३ ।।

गिरि श्चतुरशीत्यायं योजनानां हि विस्मृतः ।।

सर्वलिंगमयो यस्मादतः कुर्यात्प्रदक्षिणम् ।। १४ ।।

।। लोपामुद्रोवाच ।। ।।

किंचिद्विज्ञप्तुमिच्छामि यद्याज्ञा स्वामिनो भवेत् ।।

ब्रूते हि याऽनुज्ञाता पत्या सा पतिता भवेत् ।। १५ ।।

अगस्त्य उवाच ।। ।।

किं वक्तुकामा देवि त्वं ब्रूहि तत्त्वमशंकिता।।

न त्वादृशीनां वाक्यं हि पत्युः खेदाय जायते ।। १६ ।।

ततः पप्रच्छ सा देवी प्रणम्य मुनिमानता ।।

सर्वेषां च हितार्थाय स्वसंदेहापनुत्तये ।। १७ ।।

लोपामुद्रोवाच ।।

श्रीशैलशिखरं दृष्ट्वा पुनर्जन्म न विद्यते ।।

इदमेव हि सत्यं चेत्किमर्थं काशिरिष्यते ।। १८ ।।

अगस्तिरुवाच ।। ।।

आकर्णय वरारोहे सत्यं पृष्टं त्वयामले ।।

निर्णीतमसकृच्चैतन्मुनिभिस्तत्त्वचिंतकैः ।। १९ ।।

मुक्तिस्थानान्यनेकानि कृतस्तत्रापिनिर्णयः ।।

तानि ते कथयाम्यत्र दत्तचित्ता भव क्षणम् ।। 4.1.6.२० ।।

प्रथमं तीर्थराजं तु प्रयागाख्यं सुविश्रुतम् ।।

कामिकं सर्वतीर्थानां धर्मकामार्थमोक्षदम् ।। २१ ।।

नैमिषं च कुरुक्षेत्रं गंगाद्वारमवंतिका ।।

अयोध्या मथुरा चैव द्वारकाप्यमरावती ।। २२ ।।

सरस्वती सिंधुसंगो गंगासागरसंगमः ।।

कांती च त्र्यंबकं चापि सप्तगोदावरीतटम् ।। २३ ।।

कालंजरं प्रभासश्च तथा बद रिकाश्रमः ।।

महालयस्तथोंकारक्षेत्रं वै पौरुषोत्तमम् ।। २४ ।।

गोकर्णो भृगुकच्छश्च भृगुतुंगश्च पुष्करम् ।।

श्रीपर्वतादि तीर्थानि धारातीर्थं तथैव च ।। २५ ।।

मानसान्यपि तीर्थानि सत्यादीनि च वै प्रिये ।।

एतानि मुक्तिदान्येव नात्र कार्या विचारणा ।। २६ ।।

गया तीर्थं च यत्प्रोक्तं पितॄणां हि मुक्तिदम् ।।

पितामहानामृणतो मुक्तास्तत्तनया अपि ।। २७ ।।

सधर्मिण्युवाच ।। ।।

मानसान्यपि तीर्थानि यान्युक्तानि महामते ।।

कानि कानि च तानीह ह्येतदाख्यातुमर्हसि ।। २८ ।।

।। अगस्त्य उवाच ।। ।।

शृणु तीर्थानि गदतो मानसानि ममानघे ।।

येषु सम्यङ्नरः स्नात्वा प्रयाति परमां गतिम् ।। २९ ।।

सत्यं तीर्थं क्षमा तीर्थं तीर्थमिन्द्रियनिग्रहः ।।

सर्वभूतदयातीर्थं तीर्थमार्जवमेव च ।। 4.1.6.३० ।।

दानं तीर्थं दमस्तीर्थं संतोषस्तीर्थमुच्यते ।।

ब्रह्मचर्यं परं तीर्थं तीर्थं च प्रियवादिता ।। ३१ ।।

ज्ञानं तीर्थं धृतिस्तीर्थं तपस्तीर्थमुदाहृतम् ।।

तीर्थानामपि तत्तीर्थं विशुद्धिर्मनसः परा ।। ३२ ।।

न जलाप्लुतदेहस्य स्नानमित्यभिधीयते ।।

स स्नातो यो दमस्नातः शुचिः शुद्धमनोमलः ।।३३।।

यो लुब्धः पिशुनः क्रूरो दांभिको विषयात्मकः।।

सर्वतीर्थेष्वपि स्नातः पापो मलिन एव सः ।। ३४ ।।

न शरीर मल त्यागान्नरो भवति निर्मलः ।।

मानसे तु मले त्यक्ते भवत्यंतः सुनिर्मलः।।३५।।

जायंते च म्रियंते च जलेष्वेव जलौकसः ।।

न च गच्छंति ते स्वर्गमविशुद्धमनोमलाः ।। ३६ ।।

विषयेष्वति संरागो मानसो मल उच्यते ।।

तेष्वेव हि विरागो स्य नैर्मल्यं समुदाहृतम् ।। ३७ ।।

चित्तमंतर्गतं दुष्टं तीर्थस्नानान्न शुद्ध्यति ।।

शतशोथ जलैर्धौतं सुराभांडमिवाशुचि ।। ३८ ।।

दानमिज्यातपःशौचं तीर्थसेवा श्रुतं तथा ।।

सर्वाण्येतान्यतीर्थानि यदि भावो न निर्मलः ।। ३९ ।।

निगृहीतेंद्रियग्रामो यत्रैव च वसेन्नरः ।।

तत्र तस्य कुरुक्षेत्रं नैमिषं पुष्कराणि च ।। 4.1.6.४० ।।

ज्ञानपूते ज्ञानजले रागद्वेषमलापहे ।।

यः स्नाति मानसे तीर्थे स याति परमां गतिम् ।। ४१ ।।

एतत्ते कथितं देवि मानसं तीर्थलक्षणम् ।।

भौमानामपि तीर्थानां पुण्यत्वे कारणं शृणु ।। ४२ ।।

यथा शरीरस्योद्देशाः केचिन्मेध्यतमाः स्मृताः ।।

तथा पृथिव्यामुद्देशाः केचित्पुण्यतमाः स्मृताः ।।४३।।

प्रभावादद्भुताद्भूमेः सलिलस्य च तेजसः ।।

परिग्रहान्मुनीनां च तीर्थानां पुण्यता स्मृता ।। ४४ ।।

तस्माद्भौमेषु तीर्थेषु मानसेषु च नित्यशः ।।

उभयेष्वपि यः स्नाति स याति परमां गतिम ।। ४५ ।।

अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च।।

अदत्त्वा कांचनं गाश्च दरिद्रो नाम जायते।। ४६।।

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः।।

न तत्फलमवाप्नोति तीर्थभिगमनेन यत् ।। ४७ ।।

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।।

विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।। ४८ ।।

प्रतिग्रहादुपावृत्तः संतुष्टो येनकेनचित् ।।

अहंकार विमुक्तश्च स तीर्थफलमश्नुते ।। ४९ ।।

अदंभको निरारंभो लघ्वाहारो जितेंद्रियः ।।

विमुक्तसर्वसंगैर्यः स तीर्थफलमश्नुते ।। 4.1.6.५०।।

अकोपनोऽमलमतिः सत्यवादी दृढव्रतः।।

आत्मोपमश्च भूतेषु सतीर्थफलमश्नुते।।

तीर्थान्यनुसरन्धीरः श्रद्दधानः समाहितः।।

कृतपापो विशुद्ध्येत किं पुनः शुद्धकर्मकृत् ।। ५२ ।।

तिर्यग्योनि न वै गच्छेत्कुदेशे नैव जायते ।।

न दुःखी स्यात्स्वर्गभाक्च मोक्षोपायं च विंदति ।। ५३ ।।

अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः।।

हेतुनिष्ठश्च पंचैते न तीर्थफलभागिनः।।५४।।

तीर्थानि च यथोक्तेन विधिना संचरंति ये।।

सर्वद्वंद्वसहा धीरास्ते नराः स्वर्गभागिनः ।। ५५ ।।

तीर्थयात्रां चिकीर्षुः प्राग्विधायोपोषणं गृहे ।।

गणेशं च पितॄन्विप्रान्साधूञ्छक्त्या प्रपूज्य च ।। ५६ ।।

कृतपारणको हृष्टो गच्छेन्नियमधृक्पुनः।।

आगत्याभ्यर्च्य पितॄन्यथोक्तफलभाग्भवेत्।।५७।।

न परीक्ष्यो द्विजस्तीर्थेष्वन्नार्थी भोज्य एव च।।

सक्तुभिः पिंडदानं च चरुणा पायसेन च।।५८।।

कर्तव्यमृषिभिर्दृष्टं पिण्याकेन गुडेन च।।

श्राद्धं तत्र प्रकर्तव्यमर्घ्यावाहनवर्जितम्।।५९।।

अकालेप्यथवा काले तीर्थे श्राद्धं च तर्पणम्।।

अविलंबेन कर्तव्यं नैव विघ्नं समाचरेत्।।4.1.6.६०।।

तीर्थं प्राप्य प्रसंगेन स्नानं तीर्थे समाचरेत्।।

स्नानजं फलमाप्नोति तीर्थयात्राश्रितं स च ।।६१।।

नृणां पापकृतां तीर्थे पापस्य शमनं भवेत्।।

यथोक्तं फलदं तीर्थं भवेच्छ्रद्धात्मनां नृणाम्।।६२।।

षोडशांशं स लभते यः पराथं च गच्छति।।

अर्धं तीर्थफलं तस्य यः प्रसंगेन गच्छति।।६३।।

कुश प्रतिकृतिं कृत्वा तीर्थवारिणि मज्जयेत्।

मज्जयेच्च यमुद्दिश्य सोष्टमांशं लभेत वै।।६४।।

तीर्थोपवासः कर्तव्यः शिरसो मुंडनं तथा।

शिरोगतानि पापानि यांति मुंडनतो यतः।।६५।।

यदह्नि तीर्थप्राप्तिः स्यात्ततोह्नः पूर्ववासरे।।

उपवासस्तु कर्तव्यः प्राप्ताह्नि श्राद्धदो भवेत्।।६६।।

तीर्थप्रसंगात्तीर्थांगमप्युक्तं त्वत्पुरोमया।।

स्वर्गसाधनमेवैतन्मोक्षोपायश्च वै भवेत्।।६७।।

काशीकांती च मायाख्या त्वयोध्याद्वारवत्यपि।।

मथुरावंतिका चैताः सप्त पुर्योत्र मोक्षदाः।। ६८।।

श्रीशैलो मोक्षदः सर्वः केदारोपि ततोऽधिकः।।

श्रीशैलाच्चापि केदारात्प्रयागं मोक्षदं परम्।।६९।।

प्रयागादपि तीर्थाग्र्यादविमुक्तं विशिष्यते।।

यथाविमुक्ते निर्वाणं न तथाक्वाप्यसंशयम्।।4.1.6.७०।।

अन्यानि मुक्तिक्षेत्राणि काशीप्राप्तिकराणि च।।

काशीं ध्यायमिमं श्रुत्वा नरो नियतमानसः।।

श्रावयित्वा द्विजांश्चापि श्रद्धाभक्तिसमन्वितान्।। ७३।।

क्षत्रियान्धर्मनिरतान्वैश्यान्सन्मार्गवर्तिनः।।

शूद्रान्द्विजेषु भक्तांश्च निष्पापो जायते द्विजः।। ७४।।

इति श्रीस्कान्देमहापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे तीर्थाध्यायोनाम षष्ठोऽध्यायः।।६।।

खण्डः ४ (काशीखण्डः) — Adhyāya 7

अगस्तिरुवाच।।

मथुरायां द्विजः कश्चिदभूद्भूदेवसत्तमः।।

तस्य पुत्रो महातेजाः शिवशर्मेति विश्रुतः।। १ ।।

अधीत्यवेदान्विधिवदर्थं विज्ञाय तत्त्वतः।.

पठित्वा धर्मशास्त्राणि पुराणान्यधिगम्य च।।२।।

अंगान्यभ्यस्य तर्कांश्च परिलोड्य समंततः।।

मीमांसाद्वयमालोक्य धनुर्वेदं विगाह्य च।।३।।

आयुर्वेदं विचार्यापि नाट्यवेदे कृतश्रमः ।।

अर्थशास्त्राण्यनेकानि प्राप्याश्वगजचेष्टितम् ।। ४ ।।

कलासु च कृताभ्यासो मन्त्रशास्त्रविचक्षणः ।।

भाषाश्च नाना देशानां लिपीर्ज्ञात्वा विदेशजाः ।। ५ ।।

अर्थानुपार्ज्य धर्मेण भुक्त्वा भोगान्यदृच्छया ।।

उत्पाद्य पुत्रान्सुगुणांस्तेभ्यो ह्यर्थं विभज्य च ।। ६ ।।

यौवनं गत्वरं ज्ञात्वा जरां दृष्ट्वाश्रितां श्रुतिम् ।।

चिन्तामवाप महती शिवशर्मा द्विजोत्तमः ।। ७ ।।

पठतो मे गतः कालस्तथोपार्जयतो धनम् ।।

नाराधितो महेशानः कर्मनिर्मूलनक्षमः ।। ८ ।।

न मया तोषितो विष्णुः सर्वपापहरो हरिः ।।

सर्वकामप्रदो नृणां गणेशो नार्चितो मया ।। ९ ।।

तमस्तोमहरः सूर्यो नार्चि तो वै मया क्वचित् ।।

महामाया जगद्धात्री न ध्याता भवबंधहृत् ।। 4.1.7.१० ।।

न प्रीणिता मया देवा यज्ञैः सर्वैः समृद्धिदाः ।।

तुलसीवन शुश्रूषा न कृता पापशांतये ।। ११ ।।

न मया तर्पिता विप्रा मृष्टान्नैर्मधुरै रसैः ।।

इहापि च परत्रापि विपदामनुतारकाः ।। १२ ।।

बहुपुष्पफलोपेताः सुच्छायाः स्निग्धपल्लवाः ।।

पथि नारोपिता वृक्षा इहामुत्रफलप्रदाः ।। १३ ।।

दुकूलैः स्वानुकूलैश्च चोलैः प्रत्यंगभूषणैः ।।

नालंकृताः सुवासिन्य इहामुत्रसुवासदाः ।। १४ ।।

द्विजाय नोर्वरा दत्ता यमलोकनिवारिणी ।।

सुवर्णं न सुवर्णाय दत्तं दुरितहृत्परम्।।१५।।

नालंकृता सवत्सा गौः पात्राय प्रतिपादिता ।।

इह पापापहंत्र्याशु सप्तजन्मसुखावहा ।। १६ ।।

ऋणापनुत्तये मातुः कारितो न जलाशयः ।।

नातिथिस्तोषितः क्वापि स्वर्गमार्गप्रदर्शकः ।। १७ ।।

छत्रोपानत्कुंडिकाश्च नाध्वगाय समर्पिताः ।।

यास्यतः संयमिन्यां हि स्वर्गमार्गसुखप्रदाः ।। १८ ।।

न च कन्याविवाहार्थं वसु क्वापि मयार्पितम् ।।

इह सौख्यसमृद्ध्यर्थं दिव्यकन्यार्पकं दिवि ।। १९ ।।

न वाजपेयावभृथे स्नातो लोभवशादहम् ।।

इह जन्मनि चान्यस्मिन्बहुमृष्टान्नपानदे ।। 4.1.7.२० ।।

न मया स्थापितं लिंगं कृत्वा देवालयं शुभम ।।

यस्मिन्संस्थापिते लिंगो विश्वं संस्थापितं भवेत् ।। २१ ।।

विष्णोरायतनं नैव कृतं सर्वसमृद्धिदम् ।।

न च सूर्यगणेशानां प्रतिमाः कारिता मया ।। २२ ।।

न गौरी न महालक्ष्मीश्चित्रेपि परिलेखिते ।।

प्रतिमाकरणे चैषां न कुरूपो न दुर्भगः ।। २३ ।।

सुसूक्ष्माणि विचित्राणि नोज्ज्वलान्यंबराण्यपि ।।

समर्पितानि विप्रेभ्यो दिव्यांबर समृद्धये ।। २४ ।।

न तिलाश्च घृतेनाक्ताः सुसमिद्धे हुताशने ।।

हुता वै मन्त्रपूताश्च सर्वपापापनुत्तये ।।२५।।

श्रीसूक्तं पावमानी च ब्राह्मणो मंडलानि च।।

जप्तं पुरुषसूक्तं न पापारि शतरुद्रियम्।।२६।।

अश्वत्थ सेवा न कृता त्यक्त्वा चार्कं त्रयोदशीम्।।

सद्यः पापहरा सा हि न रात्रौ न भृगोर्दिने ।। २७ ।।

शयनीयं न चोत्सृष्टं मृदुला च प्रतूलिका ।।

दीपीदर्पणसंयु्क्तं सर्वभोगसमृद्धिदम् ।। २८ ।।

अजाश्वमहिषी मेषी दासी कृष्णाजिनं तिलाः ।।

सकरंभास्तोयकुंभा नासनं मृदुपादुके ।। २९ ।।

पादाभ्यंगं दीपदानं प्रपादानं विशेषतः ।।

व्यजनं वस्त्रतांबूलं तथान्यन्मुखवासकृत ।। 4.1.7.३० ।।

नित्यश्राद्धं भूतबलिं तथाऽतिथि समर्चनम् ।।

विशन्त्यन्यानि दत्त्वा च प्रशस्यानि यमालये ।। ३१ ।।

न यमं यमदूतांश्च नयामीरपि यातनाः।।

पश्यन्ति ते पुणयभाजो नैतच्चापि कृतं मया।।३२।।

कृच्छ्रचांद्रायणादीनि तथा नक्तव्रतानि च।।

शरीरशुद्धिकारीणि न कृतानि क्वचिन्मया।।३३।।

गवाह्निकं च नोदत्तं कोकंडूतिर्न वै कृता।।

नोद्धृता पंकमग्ना गौर्गोलोकसुखदायिनी।। ३४।।

नार्थिनः प्रार्थितैरर्थैः कृतार्था हि मया कृताः।।

देहिदेहीति जल्पाको भविष्याम्यन्यजन्मनि।। ३५।।

न वेदा न च शास्त्राणि नार्धो दारा न नो सुतः।।

न क्षेत्रं न च हर्म्यादि मायांतमनुयास्यति।।३६।।

शिवशर्मेति संचिंत्य बुद्धिं संधाय सर्वतः।।

निश्चिकाय मनस्येवं भवेत्क्षेमतरं मम ।।३७।।

यावत्स्वस्थोस्ति मे देहो यावन्नेंद्रियविक्लवः।।

तावत्स्वश्रेयसां हेतुं तीर्थयात्रां करोम्यहम्।। ३८।।

दिनानि पंचपाण्येवमतिवाह्य गृहो द्विजः।।

शुभे तिथौ शुभे वारे शुभलग्नबले द्विजः।।३९।।

उपोष्य रजनीमेकां प्रातः श्राद्धं विधाय च।।

गणेशान्ब्राह्मणान्नत्वा भुक्त्वा प्रस्थितवान्सुधीः।।4.1.7.४०।।

इति निश्चित्य निर्वाणपदनिःश्रेणिकां पराम्।।

सर्वेषामेव जंतूनां तत्र संस्थितिकारिणाम्।।४१।।

अथ पंथानमाक्रम्य कियंतमपि स द्विजः।।

मुहूर्तं पथि विश्रम्याचिंतयत्प्राक्क्व याम्यहम्।।४२।।

भुवि तीर्थान्यनेकानि लोलमायुश्चलं मनः।।

ततः सप्तपुरीर्यायां सर्वतीर्थानि तत्र यत्।। ४३।।

अयोध्यां च पुरीं गत्वा सरयूमवगाह्य च ।।

तत्तत्तीर्थेषु संतर्प्य पितॄन्पिंडप्रदानतः।।४४।।

पंचरात्रमुषित्वा तु ब्राह्मणान्परिभोज्य च ।।

प्रयागमगमद्विप्रस्तीर्थराजं सुहृष्टवत् ।। ४५ ।।

सिताऽसिते सरिच्छ्रेष्ठे यत्रास्तां सुरदुर्लभे ।।

यत्राप्लुतो नरः पापः परं ब्रह्माधिगच्छति ।। ४६ ।।

क्षेत्रं प्रजापतेः पुण्यं सर्वेषामेव दुर्लभम् ।।

लभ्यते पुण्यसंभारैर्नान्यथार्थस्य राशिभिः ।। ४७ ।।

दमयंतीं कलिं कालं कलिंदतनयां शुभाम् ।।

आगत्य मिलिता यत्र पुण्या स्वर्गतरंगिणी ।। ४८ ।।

प्रकृष्टं सर्वयागेभ्यः प्रयागमिति गीयते ।।

यज्वनां पुनरावृत्तिर्न प्रयागार्द्रवर्ष्मणाम्।।४९।।

यत्र स्थितः स्वयं साक्षाच्छूलटंको महेश्वरः ।।

तत्राप्लुतानां जंतूनां मोक्षवर्त्मोपदेशकः।।4.1.7.५०।।

तत्राऽक्षय्यवटोऽप्यस्ति सप्तपातालमूलवान्।।

प्रलयेपि यमारुह्य मृकंडतनयोऽवसत् ।। ५१ ।।

हिरण्यगर्भो विज्ञेयः स साक्षाद्वटरूपधृक् ।।

तत्समीपे द्विजान्भक्त्या संभोज्याक्षय पुण्यभाक् ।। ५२ ।।

यत्र लक्ष्मीपतिः साक्षाद्वैकुंठादेत्य मानवान्।।

श्रीमाधवस्वरूपेण नयेद्विष्णोः परं पदम्।।५३।।

श्रुतिभिः परिपठ्येते सिताऽसित सरिद्वरे।।

तत्राप्लुतां गाह्यमृतं भवंतीति विनिश्चितम्।। ५४।।

शिवलोकाद्ब्रह्मलोकादुमालोकवरात्पुनः।।

कुमारलोकाद्वैकुंठात्सत्यलोकात्समंततः।।

तपोजनमहर्भ्यश्च सर्वे स्वर्लोकवासिनः।।

भुवोलोकाच्च भूर्लोकान्नागलोकात्तथाऽखिलात्।।५६।।

अचला हिमवन्मुख्याः कल्पवृक्षादयो नगाः।।

स्नातुं माघे समायांति प्रयागमरुणोदये ।। ५७ ।।

दिगंगनाः प्रार्थयंति यत्प्रयागानिलानपि ।।

तेपि नः पावयिष्यंति किं कुर्मः पंगवो वयम् ।। ५८ ।।

अश्वमेधादियागाश्च प्रयागस्य रजः पुनः ।।

तुलितं ब्रह्मणा पूर्वं न ते तद्रजसा समाः ।। ५९ ।।

मज्जागतानि पापानि बहुजन्मार्जितान्यपि ।।

प्रयागनामश्रवणात्क्षीयंतेऽतीव विह्वलम् ।। 4.1.7.६० ।।

धर्मतीर्थमिदं सम्यगर्थतीर्थमिदं परम् ।।

कामिकं तीर्थमेतच्च मोक्षतीर्थमिदं ध्रुवम् ।। ६१ ।।

ब्रह्महत्यादि पापानि तावद्गर्जंति देहिषु ।।

यावन्मज्जंति नो माघे प्रयागे पापहारिणि ।। ६२ ।।

तद्विष्णोः परमं पदं सदा पश्यंति सूरयः।।

एतद्यत्पठ्यते वेदे तत्प्रयागं पुनः पुनः।।६३।।

सरस्वती रजो रूपा तमोरूपा कलिंदजा।।

सत्त्वरूपा च गंगात्र नयंति ब्रह्मनिर्गुणम्।।६४।।

इयं वेणीहि निःश्रेणी ब्रह्मणो वर्त्मयास्यतः।।

जंतोर्विशुद्धदेहस्य श्रद्धाऽश्रद्धाप्लुतस्य च ।।६५।।

काशीति काचिदबला भुवनेषु रूढा लोलार्क केशवविलोलविलोचना । ।।

तद्दोर्युगं च वरणासिरियं तदीया वेणीति याऽत्र गदिताऽक्षयशर्मभूमिः।। ६६।।

अगस्तिरुवाच।।

सुधर्मिणि गुणांस्तस्य कोत्र वर्णयितुं क्षमः।।

तीर्थराजप्रयागस्य तीर्थैः संसेवितस्य च ।।६७।।

पापिनां यानि पापानि प्रसह्य क्षालितान्यहो।।

तच्छुद्ध्यै सेव्यते तीर्थैः प्रयागमधिकं ततः।। ६८।।

प्रयागस्य गुणान्ज्ञात्वा शिवशर्मा द्विजः सुधीः।।

तत्र माघमुष्त्वाऽथ प्राप वाराणसीं पुरीम्।।६९।।

प्रवेश एव संवीक्ष्य स देहलिविनायकम्।।

अन्वलिंपत्ततो भक्त्या साज्यसिंदूरकर्दमैः।। 4.1.7.७०।।

निवेद्यमोदकान्पंच वंचयंतं निजं जनम्।।

महोपसर्गवर्गेभ्यस्ततोंऽतः क्षेत्रमाविशत्।।७१।।

आगत्य दृष्ट्वा मणिकर्णिकायामुदग्वहां स्वर्गतरंगिणीं सः।।

संक्षीणपुण्येतरपुण्यकर्मणां नृणां गणैः स्थाणुगणैरिवावृताम्।।७२।।

सचैलमाप्लुत्य जलेऽमलेऽमलेऽविलंबमालंबित शुद्धबुद्धिः ।।

संतर्प्य देर्वीषमनुष्यदिव्यपितॄन्पितॄन्स्वान्सहि कर्मकांडवित् ।। ७३ ।।

विधाय च द्राक्स हि पंचतीर्थिकां विश्वेशमाराध्य ततो यथास्वम् ।।

पुनःपुनर्वीक्ष्यपुरीं पुरारेरिदं मयालोकिनवेति विस्मितः ।।७४ ।

न स्वः पुरी सा त्वनया पुरासमं समंजसापि प्रतिसाम्यमावहेत ।।

प्रबंधभेदाद्व्यतिरिक्तपुस्तकप्रतिर्यथा सल्लिपिभेदभंगतः।। ७५ ।।

पयोपि यत्रत्यमचिंत्यवैभवं दिविस्थिता साधुसुधाप्यतोमुधा।।

तथा प्रसूतेस्तु पयोधरे पयो न पीयते पीतमिदं यदि क्वचित्।। ७६ ।।

अनामयाश्चिंतनया न येशितुर्जनामनाग्यत्र विना पिनाकिना ।।

न कर्मसत्कर्मकृतोपि कुर्वतेऽनुकुर्वते शर्वगणांश्च सर्वतः।।७७।

न वर्ण्यते कैः किल काशिकेयं जंतोः स्थितस्यात्र यतोंतकाले ।।

पचेलिमैः प्राक्कृतपुण्यभारैरोंकारमोंकारयतींदुमौलिः।। ७८।।

संसारिचिंतामणिरत्र यस्मात्तं तारकं सज्जनकर्णिकायाम्।।

शिवोभिधत्ते सहसांऽतकाले तद्गीयतेसौ मणि कर्णिकेति ।। ७९ ।।

मुक्तिलक्ष्मी महापीठ मणिस्तच्चरणाब्जयोः ।।

कर्णिकेयं ततः प्राहुर्यां जना मणिकर्णिकाम् ।। 4.1.7.८० ।।

जरायुजांडजोद्भिज्जाः स्वेदजाह्यत्र वासिनः ।।

न समा मोक्षभाजस्ते त्रिदशैर्मुक्तिदुर्दशैः ।। ८१ ।।

मम जन्म वृथाजातं दुर्वृत्तस्य जडात्मनः ।।

नाद्ययावन्मयै क्षिष्ट काशिका मुक्तिकाशिका ।। ८२ ।।

पुनःपुनश्च तत्क्षेत्रमतिथीकृत्यनेत्रयोः ।।

विचित्रं च पवित्रं च तृप्तिं नाधिजगाम ह ।। ८३ ।।

सप्तानां च पुरीणां हि धुरी णामवयाम्यहम् ।।

वाराणसीं सुनिर्वाणविश्राणनविचक्षणाम्।। ८४ ।।

तथापि न चतस्रोन्या मया दृग्गोचरीकृताः ।।

तासां प्रभावं विज्ञायाप्यागमिष्याम्य हं पुनः ।। ८५ ।।

तीर्थयात्रां प्रतिदिनं कुर्वन्नूनं सवत्सरम् ।।

न प्राप सर्वतीर्थानि तीर्थं काश्यां तिलेतिले ।। ८६ ।।

।। अगस्तिरुवाच ।। ।।

जानन्न पि गुणान्देवि क्षेत्रस्यास्य परान्द्विजः ।।

नाना प्रमाणैः प्रवणो निरगात्स तथाप्यहो ।। ८७ ।।

किं कुर्वंति हि शास्त्राणि सप्रमाणानि सुंदरि ।।

महामायां भवित्री तां को निवारयितुं क्षमः ।। ८८ ।।

कः समुच्चलितं चेतस्तोयंवा संप्रतीपयेत् ।।

प्रोच्चथानस्थितमपि स्वभावोयच्चलस्तयोः ।। ८९ ।।

शिवशर्मा व्रजन्सोथ देशाद्देशांतरं क्रमात् ।।

महाकाल पुरीं प्राप कलिकालविवर्जिताम् ।। 4.1.7.९० ।।

कल्पेकल्पेखिलंविश्वं कालयेद्यः स्वलीलया ।।

तं कालं कलयित्वा यो महाकालो भवत्किल ।। ९१ ।।

पापादवंती सा विश्वमवंतीति निगद्यते ।।

युगेयुगेन्यनाम्नी सा कलावुज्जयिनीति च ।। ९२ ।।

विपन्नो यत्र वै जंतुः प्राप्यापि शवतां स्फुटम् ।।

न पूतिगंधमाप्नो ति समुच्छ्रयति न क्वचित् ।। ९३ ।।

यमदूता न यस्यां हि प्रविशंति कदाचन ।।

परःकोटीनि लिंगानि तस्यां संति पदेपदे ।। ९४ ।।

हाटकेशो महाकालस्तारके शस्तथैव च ।।

एकलिंगं त्रिधा भूत्वा त्रिलोकीं व्याप्य संस्थितम् ।। ९५ ।।

ज्योतिः सिद्धवटे ज्योतिस्ते पश्यंतीह ये द्विजाः ।।

अथवाश्रीमहाकालद्रष्टारः पुण्यराशयः ।। ९६ ।।

महाकालस्य तल्लिंगं यैर्दृष्टं कष्टिभिः क्वचित ।।

न स्पृष्टास्ते महापापैर्न दृष्टास्ते यमोद्भटैः ।। ९७।।

महाकालपताकाग्रैः स्पृष्टपृष्ठास्तुरंगमाः ।।

अरुणस्य कशाघातं क्षणं विश्रमयंति खे ।। ९८ ।।

महाकालमहाकालमहाकालेतिसंततम् ।।

स्मरतःस्मरतो नित्यं स्मरकर्तृस्मरांतकौ ।। ९९ ।।

एवमाराध्य भूतेशं महाकालं ततो द्विजः ।।

जगाम नगरीं कांतीं कांतां त्रिभुवनादपि ।। 4.1.7.१०० ।।

लक्ष्मीकांतः स्वयं साक्षाज्जंतूंस्तत्रनिवासिनः ।।

श्रीकांतानेव कुरुते परत्रेह च निश्चितम् ।। १ ।।

दृष्ट्वा कांतीं कांतिमतीं कांतिमद्भिर्निषेविताम् ।।

कांतिमानभवत्सोपि नाकांतिस्तत्र कस्यचित्।।२।।

तत्र कृत्यं च यत्कृत्यं तत्कृत्वा सर्वकृत्यवित् ।।

सप्तरात्रमुषित्वा तु ययौ द्वारवतीं पुरीम् ।। ३ ।।

चतुर्णामपि वर्गाणां यत्र द्वाराणि सर्वतः ।।

अतो द्वारवतीत्युक्ता विद्वद्भिस्तत्त्ववेदिभिः ।। ४ ।।

अस्थीन्यपि च जंतूनां यत्र चक्रांकितान्यहो ।।

किं चित्रं तत्र यत्र स्युः शंखचक्रांकितैः करैः ।। ५ ।।

अंतकः शिक्षयत्येव निजदूतान्मुहुर्मुहुः ।।

ते त्याज्या यैर्द्वारवत्या नामापि परिगृह्यते ।। ६ ।।

श्रीखंडे क्व स आमोदः स्वर्णे वर्णः क्व तादृशः ।।

तत्पावित्र्यं क्व वै तीर्थे तद्गोपीचंदने यथा ।। ७ ।।

दूताः शृण्वंतु यद्भालं गोपचंदनलांछितम् ।।

ज्वलदिंगलवत्सोपि दूरे त्याज्यः प्रयत्नतः ।। ८ ।।

तुलस्यलंकृता ये ये तुलसी नामजापकाः ।।

तुलसीवनपाला ये ते त्याज्या दूरतो भटाः ।। ९ ।।

युगेयुगे द्वारवत्या रत्नानि परितो मुषन् ।।

अब्धीरत्नाकरोद्यापि लोकेषु परिगीयते ।। 4.1.7.११० ।।

द्वारवत्यां म्रियंते ये जंतवः कालनोदिताः ।।

चतुर्भुजाः स्युर्वैकुंठे ते पीतांबरधारिणः।।११।।

तत्रापि संतर्प्य पितॄन्ससदेवर्षिमानवान्।।

तत्र तेषु च तीर्थेषु सस्नौ सर्वेष्वतंद्रितः।।१२।।

ततो मायापुरीं प्राप्तो दुष्प्रापां पापकारिभिः।।

यत्र सा वैष्णवी माया मायापाशैर्नपाशयेत्।।१३।।

केचिदूचुर्हरिद्वारं मोक्षद्वारं ततः परे ।।

गंगाद्वारं च केप्याहुः केचिन्मायापुरं पुनः।।१४।।

यतो विनिर्गता गंगा ख्याता भागीरथी भुवि।।

यन्नामोच्चारणात्पुंसां पापं या ति सहस्रधा ।।१५।।

वैकुंठस्यैकसोपानं हरिद्वारं जगुर्जनाः ।।

अत्राप्लुता नरा यांति तद्विष्णोःपरमं पदम् ।। १६ ।।

तीर्थोपवासकं कृत्वा निशाजागरणं तथा ।।

प्रातः स्नात्वा च गंगायां तर्प्यान्संतर्पप्य सर्वतः ।। १७ ।।

यावत्स पारणं कर्तुमियेष द्विजसत्तमः ।।

तावच्छीतज्वराक्रांतश्चकंपेऽत्यर्थमातुरः ।। १८।।।

वैदेशिकस्तथैकाकी तथाऽतिज्वरपीडितः ।।

चिंतामवाप महती किमेतत्समुपस्थितम् ।। १९ ।।

चिंतार्णवे निमग्नोभूत्त्यक्ताशो जीविते धने ।।

सांयात्रिक इवागाधे भिन्नपोतो महार्णवे ।। 4.1.7.१२० ।।

क्वक्षेत्रं क्व कलत्रं मे क्व पुत्राः क्व च तद्वसु ।।

क्व तद्विचित्रं वै हर्म्यं क्व सा पुस्तकसंभृतिः ।। २१ ।।

अद्यापि नायुः पर्याप्तं प लितं न तथा मयि ।।

ज्वरोयं दारुणः प्राप्तः कालज्ञश्चातिदारुणः।।२२।।

मृत्युर्मूर्ध्निकृतावासो वासो दूरे व्यवस्थितः ।।

अग्नौ गृहोपरि प्राप्ते कूपं तु खनयेदिह।।२३।।

किमेभिश्चिंतनैर्व्यर्थैरतितापकरैर्मम ।।

चिंतयामि हृषीकेशं शिवदं शिवमेव च ।। २४ ।।

अथवा मुक्त्युपायो वै मयैकः सदनुष्ठितः ।।

मुक्तिपुर्यस्तु सप्तैताः स्वनेत्रविषयीकृताः ।। २५ ।।

स्वर्गापवर्गयोरेकः साध्यो हि विदुषा ध्रुवम् ।।

तयोरसाधने पश्चात्संतापेन च तप्यते ।। २६ ।।

अथवा चिंतया किं मे त्वनया दुरवस्थया ।।

रणे वा मरणं श्रेयस्तीर्थेवात्र यथा मम ।। २७ ।।

किमहं मंदभागीव रथ्यां क्वापि म्रियेधुना ।।

भागीरथ्यां म्रिये चाद्य का चिंता मम मूढवत् ।। २८ ।।

चर्मास्थि संचयेनाहमनेन वपुषा ध्रुवम् ।।

प्राप्स्यामि निधनादत्र सिद्धिं नैःश्रेयसीं ध्रुवम् ।। २९ ।।

एवं चिंतयतस्तस्य पीडासीदतिदारुणा ।।

कोटि वृश्चिकदष्टस्य यावस्था तामवाप सः ।। 4.1.7.१३० ।।

स्मर्तव्यं विस्मृतं सर्वं क्वाहं कोहं न वेत्ति च ।।

दिनानि सप्तसप्तेति स्थित्वा पंचत्वमागतः ।। ३१ ।।

तावद्वैकुठभुवनाद् विमानं समुपस्थितम् ।।

तार्क्ष्योपलक्षितो यत्र ध्वजश्चातिसमुच्छ्रितः ।। ३२ ।।

अधिष्ठितं सुकन्यानां स्वर्णकौशेयवाससाम् ।।

चामरव्यग्रहस्तानां सहस्रेणातिविस्तृतम् ।।३३।।

पुण्यशीलसुशीलाभ्यां गणाभ्यां च विराजितम् ।।

चतुर्भुजाभ्यां स्वास्याभ्यां किंकिणीजालमालितम् ।।३४।।

तद्विमानमथारुह्य पीतवासाश्चतुर्भुजः ।।

अलंचक्रे नभोवर्त्म स द्विजो दिव्यभूषणः ।। १३५ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां सहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सप्तपुरीवर्णनं नाम सप्तमोऽध्यायः ।। ७ ।। ।। छ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 8

।। लोपामुद्रोवाच ।। ।।

जीवितेश कथामेतां पुण्यां पुण्यपुरीश्रिताम् ।।

न तृप्तिमधिगच्छामि श्रुत्वा त्वच्छ्रीमुखेरिताम् ।। १ ।।

मायापुर्यां मुक्तिपुर्यां शिवशर्मा द्विजोत्तमः ।।

मृतोपि मोक्षं नैवाप ब्रूहि तत्कारणं विभो ।। २ ।।

।। अगस्त्य उवाच ।। ।।

साक्षन्मोक्षो न चैतासु पुरीषु प्रियभाषिणि ।।

पुरोद्दिश्यामुमेवार्थमितिहासो मयाश्रुतः ।। ३ ।।

शृणु कांते विचित्रार्थां कथां पापप्रणाशिनीम् ।।

पुण्यशीलसुशीलाभ्यां कथितां शिवशर्मणे ।।४।।

शिवशर्मोवाच ।।

अयि विष्णुगणौ पुण्यौ पुंडरीकदलेक्षणौ ।।

किंचिद्विज्ञप्तुकामोहं प्रवृद्धकरसंपुटः ।। ५ ।।

न नाम युवयोर्वेद्मि वेद्म्याकृत्या च किंचन ।।

पुण्यशीलसुशीलाख्यौ युवां भवितुमर्हथः ।। ६ ।।

।। गणा वूचतुः ।। ।।

भगवद्भक्तियुक्तानां किमज्ञातं भवादृशाम् ।।

एतदेव हि नौ नाम यदुक्तं श्रीमता त्वया ।। ७ ।।

यदन्यदपि ते चित्ते प्रष्टव्यं तदशंकितम् ।।

संपृच्छस्व महाप्राज्ञ प्रीत्या तत्प्रब्रवावहे ।। ८ ।।

इति श्रुत्वा स वचनं भगवद्गणभाषितम् ।।

अतिप्रीतिकरं हृद्यं ततस्तौ प्रत्युवाच ह ।। ९ ।।

।। दिव्य द्विज उवाच ।। ।।

क एष लोको ऽल्पश्रीकः स्वल्पपुण्यजनाकृतिः ।।

क इमे विकृताकारा ब्रूतमेतन्ममाग्रतः ।। 4.1.8.१० ।। ।।

।। गणावूचतुः ।। ।।

अयं पिशाचलोकोत्र वसंति पिशिताशनाः ।।

दत्त्वानुतापभाजो ये नोनो कृत्वा ददत्यपि ।।११।।

शिवं प्रसंगतोभ्यर्च्य सकृत्त्वशुचिचेतसः ।।

अल्पपुण्याल्पलक्ष्मी काः पिशाचास्त इमे सखे ।। १२ ।।

ततो गच्छन्ददर्शाग्रे हृष्टपुष्टजनावृतम् ।।

पिचंडिलैः स्थूलवक्त्रैर्मेघगंभीरनिःस्वनैः ।। १३ ।।

लोकैरप्युषितं लोकं श्यामलांगैश्च लोमशैः ।।

गणौ कथयतां केमी को लोकः पुण्यतः कुतः ।। १४ ।। ।।

।। गणावूचतुः ।। ।।

गुह्यकानामयं लोकस्त्वेते वै गुह्यकाः स्मृताः ।।

न्यायेनोपार्ज्य वित्तानि गूहयंति च ये भुवि ।। १५ ।।

स्वमार्गगाधनाढ्याश्च शूद्रप्रायाः कुटुंबिनः ।।

संविभज्य च भोक्तारः क्रोधासूयाविवर्जिताः ।। १६ ।।

न तिथिं नैव वारं च संक्रात्यादि न पर्व च ।।

नाधर्मं न च धर्मं च विदंत्येते सदा सुखाः ।।१७।।

एकमेव हि जानंति कुलपूज्यो हि यो द्विजः ।।

तस्मै गाः संप्रयच्छंति मन्यंते तद्वचःस्फुटम् ।।१८ ।।

समृद्धिभाजोह्यत्रापि तेन पुण्येन गुह्यकाः ।।

भुंजते स्वर्गसौख्यानि देववच्चाकुतोभयाः ।। १९ ।।

ततो विलोकयामास लोकं लोचनशर्मदम् ।।

केऽमी जनास्त्वसौ लोकः किंनामा वदतां गणौ ।। 4.1.8.२० ।।

।। गणावूचतुः ।। ।।

गांधर्वस्त्वेषलोकोऽमी गंधर्वाश्च शुभव्रताः।।

देवानां गायनाद्येते चारणाः स्तुतिपाठकाः ।। २१ ।।

गीतज्ञा अतिगीतेन तोषयंति नराधिपान् ।।

स्तुवंति च धनाढ्यांश्च धनलोभेन मोहिता. ।। २२ ।।

राज्ञां प्रसादलब्धानि सुवासांसि धनान्यपि।।

द्रव्याण्यपि सुगंधीनि कर्पूरादीन्यनेकशः ।। २३ ।।

ब्राह्मणेभ्यः प्रयच्छंति गीतं गायंत्यहर्निशम् ।।

श्रुतावेव मनस्तेषां नाट्यशास्त्रकृतश्रमाः ।। २४ ।।

तेन पुण्येन गांधर्वो लोकस्त्वेषां विशिष्यते ।।

ब्राह्मणास्तोषिता यद्वै गीतविद्यार्जितैर्धनैः ।। २५ ।।

गीतविद्याप्रभावेन देवर्षिर्नारदो महान् ।।

मान्यो वैष्णवलोके वै श्रीशंभोश्चातिवल्लभः ।। २६ ।।

तुंबुरुर्नारदश्चोभौ देवानामतिदुर्लभौ ।।

नादरूपी शिवः साक्षान्नादतत्त्वविदौ हि तौ ।। २७ ।।

यदि गीतं क्वचिद्गीतं श्रीमद्धरिहरांतिके ।।

मोक्षस्तु तत्फलं प्राहुः सान्निध्यमथवा तयोः ।। २८ ।।

गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् ।।

रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ।। २९ ।।

अस्मिँल्लोके सदा कालं स्मृतिरेषा प्रगीयते ।।

तद्गीतमालया पूज्यौ देवौ हरिहरौ सदा ।। 4.1.8.३० ।।

इति शृण्वन्क्षणात्प्राप पुनरन्यन्मनोहरम् ।।

शिवशर्माथ पप्रच्छ किं संज्ञं नगरं त्विदम् ।। ३१ ।।

गणावूचतुः ।। ।।

असौ वैद्याधरो लोको नाना विद्या विशारदाः ।।

एते विद्यार्थिनामन्नमुपानद्वस्त्रकंबलम् ।। ३२ ।।

औषधान्यपि यच्छंति तत्पीडाशमनानि हि ।।

नानाकलाः शिक्षयंति विद्यागर्वविवर्जिताः ।। ३३ ।।

शिष्यं पुत्रेण पश्यंति वस्त्र तांबूल भोजनैः ।।

अलंकृताश्च सत्कन्या धर्मादुद्वाहयंति च ।। ३४ ।।

अभिलाषधिया नित्यं पूजयंतीष्टदेवताः ।।

एतः पुण्यैर्वसंतीह विद्याधर वरा इमे ।।३५।।

यावदित्थं कथां चक्रुस्तावत्संयमिनीपतिः ।।

धर्मराजोभिसंप्राप्तो देवदुंदुभि निःस्वनैः ।।३६।।

सोम्यमूर्तिर्विमानस्थो धर्मज्ञैः परिवारितः ।।

सेवाकर्मसु चतुरैर्भृत्यैस्त्रिचतुरैः सह ।।३७।।

धर्मराज उवाच ।।

साधुसाधु महाबुद्धे शिवशर्मन्द्विजोत्तम ।।

कुलोचितं ब्राह्मणानां भवता प्रतिपादितम् ।। ३८ ।।

वेदाभ्यासः कृतः पूर्वं गुरवश्चापि तोषिताः ।।

धर्मशास्त्रपुराणे षु दृष्टो धर्मस्त्वयाऽऽदृतः ।। ३९ ।।

क्षालितं मुक्तिपुर्यद्भिराशुगंतृशरीरकम् ।।

कोविदोऽस्ति भवानेव जीविते जीवितेतरे ।। 4.1.8.४० ।।

कलेवरं पूतिगंधि सदैवाशुचिभाजनम् ।।

सुतीर्थपुण्य पण्येन सम्यग्विनिमितं त्वया ।। ४१ ।।

अतएवाहि पांडित्यमाद्रिंयते विचक्षणाः ।।

अहःक्षेपं न क्षिपंति क्षणमेकं हि ते बुधाः ।। ४२ ।।

निमेषान्पंचपान्मर्त्ये प्राणंति प्राणिनो ध्रुवम् ।।

तत्रापि न प्रवर्तेयुरघकर्मणि गर्हिते ।। ४३ ।।

स्थिरापायः सदा कायो न धनं निधनेऽवति ।।

तन्मूढः प्रौढकार्ये किं न यतेत भवानिव ।।४४।।

सत्वरं गत्वरं चायुर्लोकः शोकसमाकुलः ।।

तस्माद्धर्मे मतिः कार्या भवतेव सुधार्मिकैः।।४५।।

सत्कर्मणो विपाकोऽयं तव वंद्यौ ममाप्यहो ।।

यदेतौ भगवद्भक्तौ सखित्वं भवतो गतौ ।। ४६ ।।

ममाज्ञा दीयतां तस्मात्साहाय्यं करवाणि किम् ।।

यत्कर्तव्यं मादृशैस्ते तत्कृतं भवतैवहि ।। ४७ ।।

अद्य धन्यतरोस्मीह यद्दृष्टौ भगवद्गणौ ।।

सेवा सदैव मे ज्ञाप्या श्रीमच्चरणसन्निधौ ।। ४८ ।।

ततः प्रस्थापितस्ताभ्यां प्राविशत्स्वपुरीं यमः ।।

अप्राक्षीच्च ततो विप्रस्तौ गणौ प्रस्थिते यमे ।।४९ ।।

।। शिवशर्मोवाच ।। ।।

साक्षादयं धर्मराजो ननु सौम्यतराकृतिः ।।

धर्म्याण्येव वचांस्यस्य मनः प्रीतिकराणि च ।। 4.1.8.५० ।।

पुरी संयमनी सेयमतीव शुभलक्षणा ।।

आकर्ण्य यस्य नामापि पापिनोऽतीव बिभ्यति ।। ५१ ।।

यमरूपं वर्णयंति मर्त्यलोकेऽन्यथा जनाः ।।

अन्यथाऽयं मया दृष्टो ब्रूतं तत्कारणं गणौ ।। ५२ ।।

केन पश्यंत्यमुं लोकं निवसंति तथात्र के ।।

इदमेवास्य किं रूपं किं चान्यच्च निवेद्यताम् ।।५३।।

।। गणावूचतुः ।। ।।

शृणु सौम्य सुसौम्योऽसौ दृश्यतेत्र भवादृशैः।।

धर्ममूर्तिः प्रकृत्यैव निःशंकैः पुण्यराशिभिः ।।५४।।

अयमेव हि पिंगाक्षः क्रोधरक्तांतलोचनः ।।

दंष्ट्राकरालवदनो विद्युल्ललनभीषणः ।। ५५ ।।

ऊर्ध्वकेशोऽतिकृष्णांगः प्रलयांबुदनिःस्वनः ।।

कालदंडोद्यतकरो भुकुटी कुटिलाननः ।। ५६ ।।

आनयैनं पातयैनं बधानामुंच दुर्दम ।।

घातयैनं सुदुर्वृत्तं मूर्ध्नि तीव्रमयोघनैः ।। ५७ ।।

आताडयैनं दुर्वृत्तं धृत्वा पादौ शिलातले ।।

उत्पाटयास्य नेत्रे त्वं निधाय चरणं गले ।। ५८ ।।

एतस्य गल्लावुत्फुल्लौ क्षुरेणाशुवि पाटय ।।

पाशेन कंठं बद्धास्य समुल्लंबय भूरुहे ।। ५९ ।।

विदारयास्य मूर्धानं करपत्रेण दारुवत् ।।

पार्ष्णिघातैर्घ्नतास्यास्यं समुच्चूर्णय दारुणैः ।। 4.1.8.६० ।।

परदारप्रसृमरं करं छिंध्यस्य पापिनः ।।

परदारगृहं यातुः पादौ चास्य विखंडय ।। ६१ ।।

सूचीभी रोमकूपेषु तनुं व्यधिहि सर्वतः ।।

दातुः परकलत्रांगे नखपंक्ती दुरात्मनः ।। ६२ ।।

परदारमुखाघ्रातुर्मुखे निष्ठीवयास्य हि ।।

वक्तुः परापवादस्य कीलं तीक्ष्णं मुखे क्षिप ।। ६३ ।।

भर्जयैनं चणकवत्तप्तवालुक कर्परैः ।।

भ्राष्ट्रे विकटवक्त्रत्वं परसंतापकारिणम् ।। ६४ ।।

दोषारोपं सदाकर्तुरदोषे क्रूरलोचन ।।

निमज्जयास्य वदनं पूयशोणितकर्दमे ।। ६५ ।।

अदत्तपरवस्तूनां गृह्णतः करपल्लवम् ।।

आप्लुत्याप्लुत्य तैलेन तप्तांगारे पचोत्कट ।। ६६ ।।

अपवादं गुरोर्वक्तुर्निंदाकर्तुः सुपर्वणाम् ।।

तप्तलोहशलाकाश्च मुखे भीषण निक्षिप ।।६७।।

परमर्म स्पृशश्चास्य परच्छिद्रप्रकाशितुः।।

सुतप्तायोमयाञ्च्छंकून्सर्वसंधिषु रोपय ।। ६८ ।।

अन्ये न दीयमाने स्वे निषेद्धुःपापकारिणः ।।

आच्छेत्तुः परवृत्तीनां जिह्वां छिंध्यस्य दुर्मुख ।।६९।।

देवस्वभोक्तुः क्रोडास्य ब्राह्मणस्वस्यभोजिनः ।।

विदार्योदरमस्याशु विट्कीटैः परिपूरय ।। 4.1.8.७० ।।

न देवार्थे न विप्रार्थे नातिथ्यर्थे पचेत्क्वचित् ।।

तममुं स्वार्थपक्तारं कुंभीपाके पचांधक ।। ७१ ।।

उग्रास्य शिशुहंतारममुं विश्रंभघातिनम् ।।

कृतघ्नं नय वेगेन महारौरव रौरवम् ।। ७२ ।।

ब्रह्मघ्नं चांधतामिस्रे सुरापं पूयशोणिते ।।

कालसूत्रे हेमचौरमवीचौ गुरुतल्पगम् ।।७३।।

तत्संसर्गिणमावर्षमसिपत्रवने तथा ।।

एतान्महापातकिनस्तप्ततैलकटाहके ।। ७४ ।।

आप्लुत्याप्लुत्य दुर्दंष्ट्रकाकोलैर्लोहतुंडकैः ।।

संतोद्यमानान्पापिष्ठान्नित्यं कल्पं निवासय ।। ७५ ।।

स्त्रीघ्नं गोघ्नं च मित्रघ्नं कूटशाल्मलिपादपे।।

उल्लंबय चिरंकालमूर्ध्वपादमधोमुखम् ।।७६।।

त्वचमस्य च संदंशैस्त्रोटय त्वं महाभुज।।

आश्लेषितुर्मित्रपत्न्या भुजावुत्पाटया शुच ।।७७।।

ज्वालाकीले महाघोरे नरकेऽमुं नि पातय ।।

यो वह्निना दाहयति परक्षेत्रं परालयम् ।। ७८ ।।

कालकूटे च गरदं कूटसाक्ष्याभिवादिनम्।।

मानकूटं तुलाकूटं कंठमोटे निपातय ।। ७९ ।।

लालापिबेच दुष्प्रेक्ष्य तीर्थासुष्ठीविनं(?) नय ।।

आमपाके च गर्भघ्नं शूलपाकेऽन्यतापिनम् ।। 4.1.8.८० ।।

रसविक्रयिणं विप्रमिक्षुयंत्रे प्रपीडय ।।

प्रजापीडाकरं भूपमंधकूपे निपातय ।। ८१ ।।

गोतिलांश्च तुरंगांश्च विक्रेतारं द्विजाधमम् ।।

मातुलान्याः सुरायाश्च विक्रेतारं हलायुध ।। ८२ ।।

मुसलोलूखले वैश्यं कंडयैनं पुनःपुनः ।।

शूद्रं द्विजावमंतारं द्विजाग्रे मंचसेविनम् ।। ८३ ।।

अधोमुखे च नरके दीर्घग्रीवप्रपीड्य ।।८४।।

शूद्रं ब्राह्मणजेतारं वैश्यं बाह्मणमानिनम् ।।

क्षत्रियं याजकं चापि विप्रं वेदविवर्जितम् ।। ८५ ।।

लाक्षालवणमांसानां सतैलविषसर्पिषाम् ।।

आयुधेक्षुविकाराणां विक्रेतारं द्विजाधमम् ।। ८६ ।।

पाशपाणेकशापाणे बद्ध्वैतांश्चरणेदृढम् ।।

घातयंतौ कशाघातैर्नयतं तप्तकर्दमे ।। ८७ ।।

इमां स्त्रियं श्लेषयाशु पुंश्चलीं कुलकल्मषाम् ।।

तेनोपपतिना सार्धं तप्तायसमयेन च ।। ८८ ।।

स्वयं गृहीत्वा नियमं यस्त्यजेदजितेंद्रियः ।।

तं प्रापय दुराधर्षं बहुभ्रमरदंशके ।। ८९ ।।

इत्यादिजल्पन्दुर्वृत्तैः श्रूयते दूरतो यमः ।।

स्वकर्मशंकितैः पापै र्दृश्यतेति भयंकरः ।। 4.1.8.९० ।।

ये प्रजाः पालयंतीह पुत्रानेव निजौरसान् ।।

दंडयंति च धर्मेण भूपास्तेऽस्य सभासदः ।। ९१ ।।

वर्णाश्रमाश्च यद्राष्ट्रे ऽनुतिष्ठंति निजां क्रियाम् ।।

कालेनापन्ननिधना भूपास्तेऽस्य सभासदः ।। ९२ ।।

नैव दीनो न दुर्वृत्तो नापद्ग्रस्तो न शोकभाक् ।।

येषां राष्ट्रे प्रदृश्यंते भूपास्तेऽस्य सभासदः ।। ९३ ।।

ब्राह्मणाः क्षत्रिया वैश्याः स्वधर्म निरताः सदा ।।

अन्येपि ये संयमिनः संयमिन्यां वसंति ते ।। ९४ ।।

उशीनरः सुधन्वा च वृषपर्वा जयद्रथः ।।

रजिः सहस्रजित्कुक्षिर्दृढधन्वा रिपुंजयः ।। ९५ ।।

युवनाश्वो दंतवक्त्रो नाभागो रिपुमंगलः ।।

करंधमो धर्मसेनः परमर्दः परांतकः ।। ९६ ।।

एते चान्ये च बहवो राजानो नीतिवर्तिनः ।।

धर्माधर्मविचारज्ञाः सुधर्मायां समासते ।। ९७ ।।

अन्यच्च ते प्रवक्ष्यावो येन पश्यंति भास्करिम् ।।

दंडपाशोद्यतकरान्दूतानुग्राननान्क्वचित् ।।९।।।।

गोविंदमाधवमुकुंद हरेमुरारे शंभो शिवेश शशिशेखर शूलपाणे ।।

दामोदराच्युत जनार्दन वासुदेव त्याज्या भटाय इति संततमामनंति।।९९।।

गंगाधरांधकरिपो हरनीलकंठ वैकुंठ कैटभरिपो कमठाब्जपाणे।।

भूतेशखंडपरशोमृडचंडिकेश त्याज्या भटाय इति संततमामनंति।। 4.1.8.१००।।

विष्णोनृसिंहमधुसूदनचक्रपाणे गौरीपते गिरिश शंकर चंद्रचूड ।।

नारायणासुरनिबर्हणशार्ङ्गपाणे त्याज्या भटाय इति संततमामनंति ।। १ ।।

मृत्युंजयोग्रविषमेक्षणकामशत्रो श्रीकांतपीतवसनांबुद नीलशौरे ।।

ईशानकृत्तिवसनत्रिदशैकनाथ त्याज्या भटाय इति संततमामनंति ।। २ ।।

लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्यश्रीकंठदिग्वसन शांतपिनाकपाणे ।।

आनंदकंद धरणीधर पद्मनाभ त्याज्या भटाय इति संततमामनति ।। ३ ।।

सर्वेश्वर त्रिपुरसूदन देवदेव ब्रह्मण्यदेवगरुडध्वज शंखपाणे ।।

त्र्यक्षोरगाभरणबालमृगांकमौले त्यज्या भटाय इति संततमामनंति ।। ४ ।।

श्रीरामराघवरमेश्वररावणारे भूतेशमन्मथरिपो प्रमथाधिनाथ ।।

चाणूरमर्दनहृषीकपतेमुरारे त्याज्या भटाय इति संततमामनति ।। ५ ।।

शूलिन्गिरीश रजनीश कलावतं सकंसप्रणाशन सनातनकेशिनाश ।।

भर्गत्रिनेत्रभवभूतपते पुरारे त्याज्या भटाय इति संततमामनंति ।। ६ ।।

गोपीपते यदुपते वसुदेवसूनो कर्पूरगौरवृषभध्वजभालनेत्र ।।

गोवर्धनोद्धरणधर्मधुरीणगोप त्याज्या भटाय इति संततमामनंति ।। ७ ।।

स्थाणो त्रिलोचन पिनाकधरस्मरारे कृष्णानिरुद्धकमलाकरकल्मषारे ।।

विश्वेश्वर त्रिपथगार्द्रजटाकलाप त्याज्या भटाय इति संततमामनंति ।। ८ ।।

अष्टोत्तराधिकशतेनसुचारुनाम्नां संदर्भितां ललितरत्नकदंबकेन ।।

सन्नायकां दृढगुणां द्धिजकंठगां यः कुर्यादिमां स्रजमहो स यमं न पश्येत् ।। ९ ।।

इत्थं द्विजेंद्र निजभृत्यगणान्सदैव संशिक्षयेदवनिगान्स हि धर्मराजः ।।

अन्येपि ये हरिहरांकधरा धरायां ते दूरतः पुनरहो परिवर्जनीयाः ।। 4.1.8.११० ।।

अगस्तिरुवाच ।।

यो धर्मराजरचितां ललितप्रबंधां नामावलिं सकलकल्मषबीजहंत्रीम् ।।

धीरोत्र कौस्तुभभृतः शशिभूषणस्य नित्यं जपेत्स्तनरसं स पिबेन्न मातुः ।। ११ ।।

इति शृण्वन्कथां रम्यां शिवशर्माप्रियेऽनघाम ।।

प्रहृष्टवक्त्रः पुरतो ददर्शाप्सरसापुरीम् ।। ११२ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे यमलोकवर्णनंनामाऽष्टमोऽध्यायः ।। ८ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 9

।। शिवशर्मोवाच ।।

का इमा रूपलावण्य सौभाग्यनिधयः स्त्रियः ।।

दिव्यालंकारधारिण्यो दिव्यभोगसमन्विताः ।। १ ।।

।। गणावूचतुः ।। ।।

एता वारविलासिन्यो यज्ञभाजां प्रियंकराः ।।

गीतज्ञा नृत्यकुशला वाद्यविद्या विचक्षणाः ।।२।।

कामकेलिकलाभिज्ञा द्यूतविद्याविशारदाः ।।

रसज्ञा भाववेदिन्यश्चतुराश्चोचितोक्तिषु ।। ३ ।।

नानादेश विशेषज्ञा नानाभाषा सुकोविदाः ।।

संकेतोदंतनिपुणा नैकास्वैरचरा मुदा ।। ४ ।।

लीलानर्मसुसाभिज्ञाः सुप्रलापेषु पंडिताः ।।

यूनां मनांसि सततं स्वैर्हावै रमयंत्यमूः ।।५।।

निर्मथ्यमानात्क्षीरोदात्पूर्वमप्सरसस्त्वमूः ।।

निःसृतास्त्रिजगज्जेतुर्मोहनास्त्रमनोभुवः ।। ६ ।।

उर्वशी मेनका रंभा चंद्रलेखा तिलोत्तमा ।।

वपुष्मतीकांतिमती लीलावत्युत्पलावती ।। ७ ।।

अलंबुषा गुणवती स्थूलकेशी कलावती ।।

कलानिधिर्गुणनिधिः कर्पूरतिलकोर्वरा ।। ८ ।।

अनंगलतिका चापि तथा मदनमोहिनी ।।

चकोराक्षी चंद्रकला तथा मुनिमनोहरा ।। ९ ।।

ग्रावद्रावा तपोद्वेष्टी चारुनासा सुकर्णिका ।।

दारुसंजीविनी सुश्रीः क्रतुशुल्का शुभानना ।। 4.1.9.१० ।।

तपःशुल्का तीर्थशुल्का दानशुल्का हिमावती ।।

पंचाश्वमेधिका चैव राजसूयार्थिनी तथा ।। ११ ।।

अष्टाग्निहोमिका तद्वद्वाजपेयशतोद्भवा ।।

इत्याद्यप्सरसां श्रेष्ठं सहस्रं षष्टिसंमितम् ।। १२ ।।

एतस्मिन्नप्सरोलोके वसंत्यन्या अपिस्त्रियः ।।

सदा स्खलितलावण्याः सदास्खलितयौवनाः ।। १३ ।।

दिव्यांबरा दिव्यमाल्या दिव्यगंधानुलेपनाः ।।

दिव्यभोगैः सुसंपन्नाः स्वेच्छाविधृतविग्रहाः ।।१४।।

कृत्वा मासोपवासानि स्खलंति ब्रह्मचर्यतः ।।

सकृदेव द्विकृत्वो वा त्रिःकृत्वो दैवयोगतः ।।१५।।

ता इमा दिव्यभोगिन्यो रूपलावण्यसंपदः।।

निवसंत्यप्सरोलोके सर्वकामसमन्विताः ।।१६।।

कृत्वा व्रतानि सांगानि कामिकानि विधानतः ।।

भवंति स्वैरचारिण्यो देवभोग्या इहागताः ।। १७ ।।

पतिव्रतधृता नार्यो बलेन बलिना धृताः ।।

भर्तबुद्ध्यारमंतेतं(?) कदाचित्ता इमा द्विज ।।१८ ।।

भर्तरि प्रोषिते याश्च ब्रह्मचर्यव्रताः सदा ।।

विप्लवं ते सकृद्दैवात्ता एता वामलोचनाः।।१९।।

कुसुमानि सुगंधीनि सुवासं चंदनं तथा ।।

सुगौरं चापि कर्पूरं सुसूक्ष्माण्यंबराणि च ।। 4.1.9.२० ।।

पर्णानि ऋजुताराणि जीर्णानि कठिनानि च ।।

साग्राणि स्वर्णवर्णानि स्थूलनीलशिराणि च ।। २१ ।।

सुवासोपस्कराढ्यानि नागवल्ल्या द्विजोत्तम ।।

शय्याविचित्राभरणा रतिशालोचितानि च ।। २२ ।।

बहुकौतुकवस्तूनि समर्च्यद्विजदंपती ।।

भोगदानमिदं काम्यं प्रतिसंक्रमणं रवेः ।। २३ ।।

किंवा प्रतिव्यतीपातमेकसंवत्सरावधि।।

कोदादिति च मंत्रेण या दद्याद्वरवर्णिनी।।२४।।

कामरूपधरो देवः प्रीयतामिति वादिनी ।।

सा श्रेष्ठाऽप्सरसां मध्ये वसेत्कल्पमिहांगना ।।२५।।

कन्यारूपधराकाचिद्याभुक्ता केनचित्क्वचित् ।।

देवरूपेण तं कालमारभ्य ब्रह्मचारिणी ।। २६ ।।

तदेव वृत्तं ध्यायंती निधनं याति कालतः ।।

दिव्यरूपधरा सेह जायते दिव्य भोगभाक् ।। २७ ।।

निदानमप्सरोलोकस्येतिशृण्वन्द्विजाग्रणीः ।।

सौरं लोकमथ प्राप्य क्षणेन स विमानगः ।। २८ ।।

यथा कदंबकुसुमं किंजल्कैः सर्वतोवृतम् ।।

देदीप्यमानं हि तथा समंताद्भानुभानुभिः ।। २९ ।।

दूराद्रविं स विज्ञाय धृततामरसद्वयम् ।।

नवभिर्योजनानां च सहस्रैः संमितेन ह ।। 4.1.9.३० ।।

विचित्रेणैकचक्रेण सप्तसप्तियुतेन च ।।

अनूरुणाधिष्ठितेन पुरतोधृतरश्मिना ।। ३१ ।।

अप्सरोमुनिगंधर्व सर्पग्रामणि नैर्ऋतैः ।।

स्यंदनेनातिजविना प्रणनाम कृतांजलिः ।। ३२ ।।

तस्य प्रणामंदेवोपि भ्रूभंगेनानुमन्य च।।

अतिदूरं नभोवर्त्म व्यतिचक्राम सक्षणात् ।। ३३ ।।

प्रक्रांते द्युमणौ दूरं शिवशर्मातिशर्मवान् ।।

प्रोवाच भगवद्भक्तौ कथं लभ्यं रवेः पदम् ।। ३४ ।।

एतदिच्छाम्यहं श्रोतुमाचक्षाथां ममाग्रतः ।।

सतां साप्तपदी मैत्री तन्मे मैत्र्या प्रणोदितौ ।। ३५ ।।

।। गणावूचतुः ।।

शृणु द्विज महाप्राज्ञ त्वय्यकथ्यं न किंचन ।।

सत्संगादेव साधूनां सत्कथा संप्रवर्तते ।। ३६ ।।

नियंता सर्वभूतानां य एकःकारणं परम् ।।

अनामा गोत्ररहितो रूपादि परिवर्जितः ।। ३७ ।।

आविर्भाव तिरोभावौ यद्भूनर्तनवर्तिनौ ।।

स एव वक्ति सततं सर्वात्मा वेदपूरुषः ।। ३८ ।।

योसावादित्यपुरुषः सोसावहमिति स्फुटम् ।।

अंधतमः प्रविशंति ये चैवान्यमुपासते ।। ३९ ।।

निश्चितार्थां श्रुतिमिमां ब्राह्मणासो द्विजोत्तम ।।

तमेकमुपतिष्ठंते निश्चित्येति पुनःपुनः ।। 4.1.9.४० ।।

उपलभ्य च सावित्रीं नोपतिष्ठेत यः पराम् ।।

काले त्रिकालं सप्ताहात्स पतेन्नात्र संशयः ।।४१।।

तावत्प्रातर्जपंस्तिष्ठेद्यावदर्धोदयो रवेः ।।

आसनस्थो जपेन्मौनी प्रत्यगातारकोदयात् ।। ४२ ।।

सादित्यां मध्यमां संध्यां जपेदादित्यसंमुखः ।।

काललोपो न कर्तव्यस्ततः कालं प्रतीक्षयेत् ।। ४३ ।।

काले फलंत्योषधयः काले पुष्पंति पादपाः ।।

वर्षंति तोयदाः काले तस्मात्कालं न लंघयेत् ।। ४४ ।।

मंदेहदेहनाशार्थमुदयास्तमये रविः ।।

समीहते द्विजोत्सृष्टं मंत्रतोयांजलित्रयम् ।। ४५ ।।

गायत्रीमंत्रतोयाढ्यं दत्तं येनांजलित्रयम् ।।

काले सवित्रे किं न स्यात्तेन दत्तं जगत्त्रयम् ।। ४६ ।।

किं किं न सविता सूते काले सम्यगुपासितः ।।

आयुरारोग्यमैश्वर्यं वसूनि सपशूनि च ।। ४७ ।।

मित्रपुत्र कलत्राणि क्षेत्राणि विविधानि च ।।

भोगानष्टविधांश्चापि स्वर्गं चाप्यपवर्गकम् ।। ४८ ।।

अष्टादश सुविद्यासु मीमांसातिगरीयसी ।।

ततोपि तर्कशास्त्राणि पुराणं तेभ्य एव च ।। ४९ ।।

ततोपि धर्मशास्त्राणि तेभ्यो गुर्वी श्रुतिर्द्विज ।।

ततोप्युपनिषच्छ्रेष्ठा गायत्री च ततोधिका ।। 4.1.9.५० ।।

दुर्लभा सर्वमंत्रेषु गायत्री प्रणवान्विता ।।

न गायत्र्याधिकं किंचित्त्रयीषु परिगीयते ।। ५१ ।।

न गायत्री समो मंत्रो न काशी सदृशी पुरी ।।

न विश्वेश समं लिंगं सत्यंसत्यं पुनःपुनः ।। ५२ ।।

गायत्री वेदजननी गायत्री ब्राह्मणप्रसूः ।।

गातारं त्रायते यस्माद्गायत्री तेन गीयते ।। ५३ ।।

वाच्यवाचकसंबंधो गायत्र्याः सवितुर्द्वयोः ।।

वाच्योसौ सविता साक्षाद्गायत्रीवाचिकापरा ।। ५४ ।।

प्रभावेणैव गायत्र्याः क्षत्रियः कौशिको वशी ।।

राजर्षित्वं परित्यज्य ब्रह्मर्षिपदमीयिवान्।।५५।।

सामर्थ्यं प्राप चात्युच्चैरन्यद्भुवनसर्जने ।।

किं किं न दद्याद्गायत्री सम्यगेवमुपासिता ।। ५६ ।।

न ब्राह्मणो वेदपाठान्न शास्त्रपठनादपि ।।

देव्यास्त्रिकालमभ्यासाद्बाह्मणः स्याद्धि नान्यथा ।। ५७ ।।

गायत्र्येव परं विष्णुर्गायत्र्येव परःशिवः ।।

गायत्र्येव परोब्रह्मा गायत्र्येव त्रयी ततः ।। ५८ ।।

देवत्रयं स भगवानंशुमाली दिवाकरः ।।

सर्वेषां महसां राशिः कालकालप्रवर्तकः ।। ५९ ।।

अर्कमुद्दिश्य सततमस्मल्लोकनिवासिनः ।।

श्रुतिं ह्युदाहरंतीमां सारासारविवेकिनः ।।4.1.9.६०।।

एषो ह देवः प्रदिशोनु सर्वाः पूर्वो ह जातः स उ गर्भे अंतः ।।

स एव जातः स जनिष्यमाणः प्रत्यङ्जानास्तिष्ठति सर्वतोमुखः ।। ६१ ।।

सदैवमुपतिष्ठेरन्सौरसूक्तैरतंद्रिताः ।।

ये नमंत्यत्र ते विप्रा विप्रा भास्करसन्निभाः ।। ६२ ।।

पुष्यार्केप्यथ हस्तार्के मूलार्केप्यथवा द्विज ।।

उत्तरार्केऽथ यत्कार्यं तत्फलत्येव नान्यथा ।। ६३ ।।

पौषे मास्यर्कदिवसे यः स्नात्वा भास्करोदये ।।

दानहोमंजपंकुर्यादर्चामर्कस्य सुव्रत ।। ६४ ।।

श्रद्धावानेकभक्तश्च कामक्रोधविवर्जितः ।।

सहाप्सरोभिर्द्युतिमान्स वसेदत्र भोगवान् ।। ६५ ।।

अयने विषुवे चापि षडशीतिमुखेषु वा ।।

विष्णुपद्यां च ये दद्युर्महादानानि सुव्रताः ।। ६६ ।।

तिलाञ्जुह्वति साज्यांश्च ब्राह्मणान्भोजयंति च ।।

पितॄनुद्दिश्य च श्राद्धं ये कुर्वंति विपश्चितः ।। ६७ ।।

महापूजां च ये कुर्युर्महामंत्राञ्जपंति च ।।

तेऽत्र वैकर्तने लोके विकर्तनसमप्रभा ।।६८।।

न दरिद्रा न च दुःखार्ता न व्याधि परिपीडिताः ।।

संक्रमेष्वर्कभक्ता ये न विरूपा न दुर्भगाः ।।६९।।

संक्रमेषु न यैर्दत्तं न स्नातं तीर्थवारिषु।।

विशेषहोमो न कृतः कपिलाज्याप्लुतैस्तिलैः ।। 4.1.9.७० ।।

ते दृश्यंते प्रतिद्वारं विहीन नयनाननाः ।।

देहिदेहीति जल्पंतो देहिनः सपटच्चराः ।। ७१ ।।

समं कृष्णलकेनापि यो दद्यात्कांचनं कृती ।।

सूर्यग्रहे कुरुक्षेत्रे स वसेदत्र पुण्यभाक् ।। ७२ ।।

सर्वं गंगासमं तोयं सर्वे ब्रह्मसमा द्विजाः ।।

सर्वं देयं स्वर्णसमं राहुग्रस्ते दिवाकरे ।। ७३ ।।

दत्तं जप्तं हुतं स्नातं यत्किंचित्सदनुष्ठितम्।।

भानूपरागे श्राद्धादि तद्धेतुर्ब्रध्न संनिधे ।।७४।।

रविवारे संक्रमश्चेदुपरागोऽथवाभवेत् ।।

तदा यदर्जितं पुण्यं तदिहाक्षयमाप्यते ।। ७५ ।।

भानुवारो यदा षष्ठ्यां सप्तम्यामथ जायते ।।

तदा यत्सुकृतं कर्म कृतं तदिह भुज्यते ।। ७६ ।।

हंसो भानुः सहस्रांशुस्तपनस्तापनो रवि ।।

विकर्तनो विवस्वांश्च विश्वकर्मा विभावसुः ।। ७७ ।।

विश्वरूपो विश्वकर्ता मार्तंडो मिहिरोंऽशुमान् ।।

आदित्यश्चोष्णगुः सूर्योऽर्यमा ब्रध्नो दिवाकरः ।। ७८ ।।

द्वादशात्मा सप्तहयो भास्करो हस्करः खगः ।।

सुरः प्रभाकरः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः ।। ७९ ।।

त्रिलोकेशो लोकसाक्षीतमोरिः शाश्वतः शुचिः ।।

गभस्तिहस्तस्तीव्रांशुस्तरणिः सुमहोरणिः ।।4.1.9.८०।।

द्युमणिर्हरिदश्वोर्को भानुमान्भयनाशनः।।

छन्दोश्वो वेदवेद्यश्च भास्वान्पूषा वृषाकपिः ।। ८१ ।।

एकचक्ररथो मित्रो मंदेहारिस्तमिस्रहा ।।

दैत्यहा पापहर्ता च धर्मोधर्म प्रकाशकः ।। ८२ ।।

हेलिकश्चित्रभानुश्च कलिघ्नस्तार्क्ष्यवाहनः ।।

दिक्पतिः पद्मिनीनाथः कुशेशयकरो हरिः ।। ८३ ।।

घर्मरश्मिर्दुर्निरीक्ष्यश्चंडांशुः कश्यपात्मजः ।।

एभिः सप्ततिसंख्याकैः पुण्यैः सूर्यस्य नामभिः ।। ८४ ।।

प्रणवादि चतुर्थ्यंतैर्नमस्कार समन्वितैः ।।

प्रत्येकमुच्चरन्नाम दृष्ट्वादृष्ट्वा दिवाकरम्।। ८५ ।।

विगृह्य पाणियुग्मेन ताम्रपात्रं सुनिर्मलम् ।।

जानुभ्यामवनिं गत्वा परिपूर्य जलेन च ।। ८६ ।।

करवीरादि कुसुमै रक्तचंदनमिश्रितैः ।।

दूर्वांकुरैरक्षतैश्च निक्षिप्तैः पात्रमध्यतः ।। ८७ ।।

दद्यादर्घ्यमनर्घ्याय सवित्रे ध्यानपूर्वकम् ।।

उपमौलि समानीय तत्पात्रं नान्यदृङ्मनाः ।। ८८ ।।

प्रतिमंत्रं नमस्कुर्यादुदयास्तमये रविम् ।।

अनया नामसप्तत्या महामंत्ररहस्यया ।। ८९ ।।

एवं कुर्वन्नरो जातु न दरिद्रो न दुःखभाक् ।।

व्याधिभिर्मुच्यते घोरैरपिजन्मांतरार्जितैः ।। 4.1.9.९० ।।

विनौषधैर्विना वैद्यैर्विनापथ्यपरिग्रहैः ।।

कालेन निधनं प्राप्तः सूर्यलोके महीयते ।। ९१ ।।

इत्येकदेशः कथितो भानुलोकस्य सत्तम ।।

महातेजोनिधेरस्य कोविशेषमवैत्यहो ।। ९२ ।।

स्वकर्णविषयीकुर्वन्नितिपुण्यकथामिमाम् ।।

क्षणादालोकयांचक्रे महेंद्रस्य महापुरीम् ।। ९३ ।।

।। अगस्तिरुवाच ।। ।।

श्रुत्वा सौरीं कथमेतामप्सरोलोकसंयुताम् ।।

न दरिद्रो भवेत्क्वापि नाधर्मेषु प्रवर्तते ।। ९४ ।।

ब्राह्मणैः सततं श्राव्यमिदमाख्यानमुत्तमम् ।।

वेदपाठेन यत्पुण्यं तत्पुण्यफलदायकम् ।। ९५ ।।

ब्राह्मणाः क्षत्रिया वैश्याः शृण्वंतोऽध्यायमुत्तमम् ।।

पातकानि विसृज्येह गतिं यास्यंत्यनुत्तमाम् ।। ९६ ।।

इति श्रीस्कांदमहापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्धे अप्सरःसूर्यलोकवर्णनंनामनवमोऽध्यायः ।। ।।।९।।

खण्डः ४ (काशीखण्डः) — Adhyāya 10

।। शिवशर्मोवाच ।। ।।

रमयंती मनोतीव केयं कस्येयमीशितुः ।।

नयनानंदसंदोहदायिनीपूरनुत्तमा ।। १ ।।

गणावूचतुः ।। ।।

शिवशर्मन्महाभागसुतीर्थफलितद्रुम ।।

लोकोऽत्र रमते विप्र सहसाक्षपुरी त्वियम् ।। २ ।।

तपोबलेन महता विहिता विश्वकमर्णा ।।

दिवापि कौमुदी यस्याः सौधश्रेणीश्रियं श्रयेत् ।। ३ ।।

यदाकलानिधिः क्वापि दर्शे ऽदृश्यत्वमावहेत् ।।

तदा स्वप्रेयसीं ज्योत्स्नां सौधेष्वेषु निगूहयेत् ।। ४ ।।

यदच्छभित्तौ वीक्ष्य स्वमन्ययोपिद्विशंकिता ।।

मुग्धानाशुविशेच्चित्रमपिस्वांचित्रशालिकाम् ।। ५ ।।

हर्म्येषु नीलमणिभिर्निर्मितेष्वत्रनिर्भयम् ।।

स्वनीलिमानमाधाय तमोहःस्वपि तिष्ठति ।। ६ ।।

चंद्रकांतशिलाजालस्रुतमात्रामलंजलम् ।।

तत्र चादाय कलशैर्नेच्छंत्यन्यज्जलं जनाः ।। ७ ।।

कुविंदा न च संत्यत्र न च ते पश्यतो हराः ।।

चैलान्यलंकृतीरत्र यतः कल्पद्रुमोर्पयेत् ।। ८ ।।

गणका नात्र विद्यंते चिंताविद्याविशारदाः ।।

यतश्चिकेति सर्वेषां चिंता चिंतामणिर्द्रुतम् ।। ९ ।।

सूपकारा न संत्यत्र रसकर्म विचक्षणाः।।

दुग्धे सर्वरसानेका कामधेनुरतोयतः ।। 4.1.10.१० ।।

कीर्तिरुच्चैःश्रवा यस्य सर्वतो वाजिराजिषु ।।

रत्नमुच्चैःश्रवाः सोत्र हयानां पौरुषाधिकः ।। ११ ।।

ऐरावतो दंतिवरश्चतुर्दंतोत्र राजते ।।

द्वितीय इव कैलासो जंगमस्फटिकोज्ज्वलः ।। १२ ।।

तरुरत्नंपारिजातः स्त्रीरत्नं सोर्वशी त्विह ।।

नंदनं वनरत्नं च रत्नं मंदाकिनी ह्यपाम् ।। १३ ।।

त्रयस्त्रिंशत्सुराणां या कोटिः श्रुति समीरिता ।।

प्रतीक्षते साऽवसरं सेवायै प्रत्यहंत्विह ।। १४ ।।

स्वर्गेष्विंद्रपदादन्यन्न विशिष्येत किंचन ।।

यद्यत्त्रिलोक्यामैश्वर्यं न तत्तुल्यमनेन हि ।। १५ ।।

अश्वमेधसहस्रस्य लभ्यं विनिमयेन यत् ।।

किं तेन तुल्यमन्यत्स्यात्पवित्रमथवा महत ।। १६ ।।

अर्चिष्मती संयमिनी पुण्यवत्यमलावती ।।

गंधवत्यलकेशी च नैतत्तुल्या महर्धिभिः ।। १७।।

अयमेव सहस्राक्षस्त्वयमेव दिवस्पतिः ।।

शतमन्युरयं देवो नामान्येतानि नामतः ।। १८ ।।

सप्तापि लोकपाला ये त एनं समुपासते ।।

नारदाद्यैर्मुनिवरैरयमाशीर्भिरीड्यते ।। १९ ।।

एतत्स्थैर्येण सर्वेषां लोकानां स्थैर्यमिष्यते ।।

पराजयान्महेंद्रस्य त्रैलोक्यं स्यात्पराजितम् ।। 4.1.10.२० ।।

दनुजा मनुजा दैत्यास्तपस्यंत्युग्रसंयमाः ।।

गंधर्व यक्षरक्षांसि महेंद्रपदलिप्सवः ।। २१ ।।

सगराद्या महीपाला वाजिमेधविधायकाः ।।

कृतवंतो महायत्नं शक्रैश्वर्यजिघृक्षवः ।। २२ ।।

निष्प्रत्यूहं क्रतुशतं यः कश्चित्कुरुतेऽवनौ ।।

जितेंद्रियोमरावत्यां स प्राप्नोति पुलोमजाम् ।। २३ ।।

असमाप्तक्रतुशता वसंत्यत्र महीभुजः ।।

ज्योतिष्टोमादिभिर्यागैर्ये यजंत्यपि ते द्विजाः ।।२४।।

तुलापुरुषदानादि महादानानि षोडश ।।

ये यच्छंत्यमलात्मानस्ते लभंतेऽमरावतीम् ।। २५ ।।

अक्लीबवादिनो धीराः संग्रामेष्वपराङ्मुखाः ।।

विक्रांता वीरशयने तेऽत्र तिष्ठंति भूभुजः ।।२६।।

इत्युद्देशात्समाख्याता महेंद्रनगरी स्थितिः ।।

यायजूका वसंत्यत्र यज्ञविद्याविशारदाः ।। २७ ।।

इमामर्चिष्मतीं पश्य वीतिहोत्रपुरीं शुभाम् ।।

जातवेदसि ये भक्तास्ते वसंत्यत्र सुव्रताः ।। २८ ।।

अग्निप्रवेशं ये कुर्युर्दृढसत्त्वा जितेंद्रियाः ।।

स्त्रियो वा सत्त्वसंपन्नास्ते सर्वे अग्नितेजसः ।। २९ ।।

अग्निहोत्ररता विप्रास्तथाग्निब्रह्मचारिणः ।।

पंचाग्निव्रतिनो ये वै तेऽग्निलोकेग्नितेजसः ।। 4.1.10.३० ।।

शीते शीतापनुत्यै यस्त्विध्मभारान्प्रयच्छति ।।

कुर्यादग्निष्टिकां वाऽथ स वसेदग्निसन्निधौ ।। ३१ ।।

अनाथस्याग्निसंस्कारं यः कुर्याच्छ्रद्धयान्वितः ।।

अशक्तः प्रेरयेदन्यं सोग्निलोके महीयते ।।३२।।

जठराग्निविवृद्ध्यै यो दद्यादाग्नेयमौषधम् ।।

मंदाग्नये स पुण्यात्मा वह्निलोके वसेच्चिरम् ।। ३३ ।।

यज्ञोपस्कर वस्तूनि यज्ञार्थं द्रविणं तु वा ।।

यथाशक्ति प्रदद्याद्यो ह्यर्चिष्मत्यांवसेत्स वै ।। ३४ ।।

अग्निरेको द्विजातीनां निःश्रेयसकरः परः ।।

गुरुर्देवो व्रतं तीर्थं सर्वमग्निर्विनिश्चितम् ।। ३५ ।।

अपावनानि सर्वाणि वह्निसंसर्गतः क्षणात् ।।

पावनानि भवंत्येव तस्माद्यः पावकः स्मृतः ।। ३६ ।।

अपि वेदं विदित्वा यस्त्यक्त्वा वै जातवेदसम् ।।

अन्यत्र बध्नाति रतिं ब्राह्मणो न स वेदवित् ।।३७।।

अंतरात्मा ह्ययं साक्षान्निश्चितो ह्याशुशुक्षणिः ।।

मांसग्रासान्पचेत्कुक्षौ स्त्रीणां नो मांसपेशिकाम् ।।३८।।

तैजसी शांभवी मूर्तिः प्रत्यक्षा दहनात्मिका ।।

कर्त्री हंत्री पालयित्री विनैनां किं विलोक्यते ।। ३९ ।।

चित्रभानुरयं साक्षान्नेत्रं त्रिभुवनेशितुः ।।

अंधं तमोमये लोके विनैनं कः प्रकाशकः ।। 4.1.10.४० ।।

धूपप्रदीपनैवेद्य पयो दधि घृतैक्षवम् ।।

एतद्भुक्तं निषेवंते सर्वे दिवि दिवौकसः ।। ४१ ।।

शिवशर्मोवाच ।। ।।

कोयं कृशानुः कस्यायं सूनुः कथमिदं पदम् ।।

आग्नेयं लब्धमेतेन ब्रूतमेतन्ममाग्रतः ।। ४२ ।।

।। गणावूचतुः ।। ।।

आकर्णय महाप्राज्ञ वर्णयावो यथातथम् ।।

योयं यस्य यथाऽनेन प्रापि ज्योतिष्मतीपुरी ।। ४३ ।।

नर्मदायास्तटे रम्ये पुरे नर्मपुरे पुरा ।।

पुरारिभक्तः पुण्यात्माऽभवद्विश्वानरो मुनिः ।।४४।।

ब्रह्मचर्याश्रमे निष्ठो ब्रह्मयज्ञरतःसदा ।।

शांडिल्यगोत्रः शुचिमान्ब्रह्मतेजो निधिर्वशी ।। ४५ ।।

विज्ञाताखिलशास्त्रार्थो लौकिकाचारचंचुरः ।।

कदाचिच्चिंतयामास हृदि ध्यात्वा महेश्वरम् ।। ४६ ।।

चतुर्णामप्याश्रमाणां कोतीव श्रेयसे सताम् ।।

यस्मिन्प्राप्नोति संक्षुण्णे परत्रेह च वा सुखम् ।।४७।।

इदं श्रेयस्त्विदं श्रेयस्त्विदं तु सुकरं भवेत् ।।

इत्थं सर्वं समालोड्य गार्हस्थ्यं प्रशशंस ह ।। ४८ ।।

ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः ।।

एषामाधारभूतोसौ गृहस्थो नान्यथेति च ।। ४९ ।।

देवैर्मनुष्यैः पितृभिस्तिर्यग्भिश्चोपजीव्यते ।।

गृहस्थः प्रत्यहं यस्मात्तस्माच्छ्रेष्ठो गृहाश्रमी ।।4.1.10.५० ।।

अस्नात्वा चाप्यहुत्वा वाऽदत्त्वा वाश्नाति यो गृही ।।

देवादीनामृणी भूत्वा नरकं प्रतिपद्यते ।। ५१ ।।

अस्नाताशी मलं भुंक्ते त्वजपी पूयशोणितम् ।।

अहुताशी कृमीन्भुंक्तेप्यदत्त्वाविड्विभोजनः ।। ५२ ।।

ब्रह्मचर्यं हि गार्हस्थ्ये यादृक्कल्पनयोज्झितम् ।।

स्वभावचपले चित्ते क्व तादृग्ब्रह्मचारिणि ।। ५३ ।।

हठाद्वा लोकभीत्या वा स्वार्थाद्वा ब्रह्मचर्यभाक् ।।

संकल्पयति चित्ते चेत्कृतमप्यकृतं तदा ।। ५४ ।।

परदारपरित्यागात्स्वदारपरितुष्टितः ।।

ऋतुकालाभिगामित्वाद्ब्रह्मचारी गृहीरितः ।। ५५ ।।

विमुक्तरागद्वेषो यः कामक्रोधविवर्जितः ।।

साग्निः सदारः स गृही वानप्रस्थाद्विशिष्यते ।। ५६ ।।

वैराग्याद्गृहमुत्सृज्य गृहधर्मान्हृदि स्मरेत् ।।

स भवेदुभयभ्रष्टो वानप्रस्थो न वा गृही ।। ५७ ।।

अयाचितोपस्थितया यो वृत्त्या वर्तते गृही ।।

येन केनापि संतुष्टो भिक्षुकात्स विशिष्यते ।। ५८ ।।

प्राथयेद्यत्क्वचित्किंचिद्दुष्प्रापं वा भविष्यति ।।

अशनेषु न संतुष्टः स यतिः पतितो भवेत् ।। ५९ ।।

गुणागुणविचार्येत्थं स वै विश्वानरो द्विजः ।।

उद्ववाह विधानेन स्वोचितां कुलकन्यकाम् ।। 4.1.10.६० ।।

अग्निशुश्रूषणरतः पंचयज्ञपरायणः ।।

षट्कर्मनिरतो नित्यं देवपित्रतिथिप्रियः ।। ६१ ।।

धर्मार्थकामान्युक्तात्मा सोर्जयन्स्वस्वकालतः ।।

परस्परमसंकोचं दंपत्योरानुकूल्यतः ।। ६२ ।।

पूर्वाह्णे दैविकं कर्म सोकरोत्कर्मकांडवित् ।।

मध्यंदिने मनुष्याणां पितॄणामपराह्नके ।।६३।।

एवं बहुतिथे काले गते तस्याग्रजन्मनः ।।

भार्या शुचिष्मती नाम कामपत्नी वसुव्रता ।। ६४ ।।

अपश्यंत्यंकुरमपि संततेः स्वर्गसाधनम् ।।

विज्ञाय शंकंरं कांतं प्रणिपत्य व्यजिज्ञपत् ।। ६५ ।।

शुचिष्मत्युवाच।।

आर्यपुत्रार्यधिषण प्राणनाथ प्रियव्रत ।।

न दुर्लभं ममास्तीह किंचित्त्वच्चरणार्चनात् ।। ६६ ।।

ये वै भोगाः समुचिताः स्त्रीणां ते त्वत्प्रसादतः ।।

अलंकृत्य मया भुक्ताः प्रसंगाद्वच्मि तान्यपि ।।६७।।

सुवासांसि सुवासाश्च सुशय्या सुनितंबिनी।।

स्रक्तांबूलान्नपानाश्च अष्टौ भोगाः स्वधर्मिणाम् ।। ६८ ।।

एकं मे प्रार्थितं नाथ चिराय हृदिसंस्थितम् ।।

गृहस्थानां समुचितं तत्त्वं दातुमिहार्हसि ।। ६९ ।।

विश्वानर उवाच ।।

किमदेयं हि सुश्रोणि तव प्रियहितैषिणि ।।

तत्प्रार्थय महाभागे प्रयच्छाम्यविलंबितम् ।।4.1.10.७०।।

महेशितुः प्रसादेन मम किंचिन्न दुर्ल्भम् ।।

इहामुत्र च कल्याणि सर्वकल्याणकारिणः ।। ७१ ।।

इति श्रुत्वा वचः पत्युस्तस्य सा पतिदेवता ।।

उवाच हृष्टवदना यदि देयो वरो मम ।।७२।।

वरयोग्यास्मि चेन्नाथ नान्यं वरमहं वृणे ।।

महेशसदृशं पुत्रं देहि माहेश्वरानव ।। ७३ ।।

इति तस्या वचः श्रुत्वा शुचिष्मत्याः शुचिव्रतः ।।

क्षणं समाधिमाधाय हृ(?)द्येतत्समचिंतयत् ।।७४।।

अहो किमेतया तन्व्या प्रार्थितं ह्यतिदुर्लभम् ।।

मनोरथपथाद्दूरमस्तुवा स हि सर्वकृत् ।।७५।।

तेनैवास्या मुखे स्थित्वा वाक्स्वरूपेण शंभुना ।।

व्याहृतं कोऽन्यथाकर्तुमुत्सहेत भवेदिदम् ।।७६।।

ततः प्रोवाच तां पत्नीमेकपत्निव्रते स्थितः ।।

विश्वानरमुनिः श्रीमानिति कांते भविष्यति ।। ७७ ।।

इत्थमाश्वास्य तां पत्नीं जगाम तपसे मुनिः ।।

यत्र विश्वेश्वरः साक्षात्काशीनाथोधितिष्ठति ।। ७८ ।।

प्राप्य वाराणसीं तूर्णं दृष्ट्वाथ मणिकर्णिकाम् ।।

तत्याज तापत्रितयमपिजन्मशतार्जितम् ।। ७९ ।।

दृष्ट्वा सर्वाणि लिंगानि विश्वेश प्रमुखानि च ।।

स्नात्वा सर्वेषु कुंडेषु वापीकूटसरःसु च ।। 4.1.10.८० ।।

नत्वा विनायकान्सर्वान्गौरीः सर्वाः प्रणम्य च ।।

संपूज्य कालराजं च भैरवं पापभक्षणम् ।। ८१ ।।

दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ।।

आदिकेशवमुख्यांश्च केशवान्परितोष्य च ।। ८२ ।।

लोलार्कमुख्य सूर्यांश्च प्रणम्य च पुनः पुनः ।।

कृत्वा पिण्डप्रदानानि सर्वतीर्थेष्वतंद्रितः ।। ८३ ।।

सहस्रभोजनाद्यैश्च यतीन्विप्रान्प्रतर्प्य च ।।

महापूजोपचारैश्च लिंगान्यभ्यर्च्य भक्तितः ।। ८४ ।।

असकृच्चिन्तयामास किं लिंगं क्षिप्रसिद्धिदम् ।।

यत्र निश्चलतामेति तपस्तनयकाम्यया ।। ८५ ।।

श्रीमदोंकारनाथं वा कृत्तिवासेश्वरं किमु ।।

कालेशं वृद्धकालेशं कलशेश्वरमेव च ।। ८६ ।।

केदारेशं तु कामेशं चन्द्रेशं वा त्रिलोचनम् ।।

ज्येष्ठेशं जंबुकेशं वा जैगीषव्येश्वरं तु वा ।। ८७ ।।

दशाश्वमेधमीशानं द्रुमि चंडेशमेव च ।।

दृक्केशं गरुडेशं च गोकर्णेशं गणेश्वरम् ।। ८८ ।।

ढुंढ्याशागजसिद्धाख्यं धर्मेशं तारकेश्वरम् ।।

नन्दिकेशं निवासेशं पत्रीशं प्रीतिकेश्वरम् ।। ८९ ।।

पर्वतेशं पशुपतिं ब्रह्मेशं मध्यमेश्वरम् ।।

बृहस्पतीश्वरं वाथ विभांडेश्वरमेव च ।। 4.1.10.९० ।।

भारभूतेश्वरं किं वा महालक्ष्मीश्वरं तु वा ।।

मरुत्तेशं तु मोक्षेशं गंगेशं नर्मदेश्वरम् ।। ९१ ।।

मार्कंडं मणिकर्णीश रत्नेश्वरमथापि वा ।।

अथवा योगिनीपीठं साधकस्यैव सिद्धिदम् ।। ९२ ।।

यामुनेशं लांगलीशं श्रीमद्विश्वेश्वरं विभुम् ।।

अविमुक्तेश्वरं वाथ विशालाक्षीशमेव च ।। ९३ ।।

व्याघ्रेश्वरं वराहेशं व्यासेशं वृषभध्वजम् ।।

वरुणेशं विधीशं वा वसिष्ठेशं शनीश्वरम् ।। ९४ ।।

सोमेश्वरं किमिन्द्रेशं स्वर्लीनं संगमेश्वरम् ।।

हरिश्चंद्रेश्वरं किं वा हरिकेशेश्वरं तु वा।।९५।।

त्रिसंध्येशं महादेवमुपशांति शिवं तथा।।

भवानीशं कपर्दीशं कंदुकेशं मखेश्वरम् ।। ९६ ।।

मित्रावरुणसंज्ञं वा किमेषामाशुपुत्रदम् ।।

क्षणं विचार्य स मुनिरिति विश्वानरः सुधीः ।। ९७ ।।

आज्ञातं विस्मृतं तावत्फलितो मे मनोरथः ।।

सिद्धैः संसेवितं लिंगं सर्वसिद्धिकरं परम् ।। ९८ ।।

दर्शनात्स्पर्शनाद्यस्य मनो निर्वृतिभाग्भवेत् ।।

उद्घाटितं सदैवास्ते स्वर्गद्वारं हि यत्र वै ।। ९९ ।।

दिवानिशं पूजनार्थं विज्ञाप्य त्रिदशेश्वरम् ।।

पञ्चमुद्रे महापीठे सिद्धिदे सर्वजंतुषु ।। 4.1.10.१०० ।।

यत्र सा विकटा देवी प्रकटा सिद्धिरूपिणी ।।

यत्र स्थितानां भक्तानां साक्षात्सिद्धिविनायकः ।। १ ।।

निर्धूय विघ्नजालानि सर्वाः सिद्धीः प्रयच्छति ।।

अविमुक्ते महाक्षेत्रे सिद्धिक्षेत्रं हि तत्परम् ।। २ ।।

यत्र वीरेश्वरं लिंगं महागुह्यतमं मतम् ।।

तिलांतरापि नो काश्यां भूमिर्लिंगं विना क्वचित् ।। ३ ।।

परं वीरेश सदृशं न लिंगं त्वाशुसिद्धिदम् ।।

धर्मदं चार्थदं सम्यक्कामदं मोक्षदं तथा ।।४।।

यथा वीरेश्वरं लिंगं काश्यां नान्यत्तथा धुवम् ।।

पंचस्वरोत्र गंधर्वः परां सिद्धिमगात्पुरा।।५।।

विद्याधरः स्वच्छविद्यो वसुपूर्णश्च यक्षराट् ।।

नृत्यंती निजभावेन पुराह्यत्राप्सरोवरा ।। ६ ।।

सदेहा कोकिलालापा लिंगमध्ये लयं गता ।।

ऋषिर्वेदशिरा नाम जपन्वै शतरुद्रियम् ।। ७ ।।

मन्त्रज्योतिर्मये लिंगे सशरीरो विशत्पुरा ।।

चन्द्रमौलि भरद्वाजावुभौ पाशुपतोत्तमौ ।। ८ ।।

वीरेश्वरं समभ्यर्च्य गायमानौ लयं गतौ ।।

शंखचूडो हि नागेंद्रः स्वफणामणिभिर्निशि ।। ९ ।।

षण्मासात्सिद्धिमगमद्बहुनीराजनैरिह ।।

किन्नरी हंसपद्यत्र भर्त्रा वेणुप्रियेण वै ।। 4.1.10.११० ।।

गायंती सुस्वरं याता परां निर्वाणभूमिकाम् ।।

असंख्याताः सहस्राणि सिद्धाः सिद्धिमिहागताः ।। ११ ।।

सिद्धलिंगमिहाख्यातं तस्माद्वीरेश्वरं परम् ।। १२ ।।

वीरेश्वरं समाराध्य भ्रष्टराज्यो जयद्रथः ।।

हत्वा रिपूनस्खलितं राज्यं प्राप विदेहजः ।। १३ ।।

विदूरथोऽथ नृपतिरपुत्रः पुत्रवानभूत् ।।

वीरेश्वरप्रसादेन मगधाधिपतिर्वशी ।। १४ ।।

वसुदत्तोत्र च वणिक्सुतां वसुसुतोपमाम् ।।

अब्दमभ्यर्च्य वीरेशं रत्नदत्तोप्यवाप्तवान् ।। १५ ।।

अहमप्यत्र वीरेशं समाराध्यत्रिकालतः ।।

आशु पुत्रमवाप्स्यामि यथाभिलषितं स्त्रिया ।। १६ ।।

इति कृत्वा मतिं धीरो विप्रो विश्वानरः कृती ।।

चन्द्र्कूपजलैः स्नात्वा जग्राह नियमं व्रती ।। १७ ।।

एकाहारोभवन्मासं मासं नक्ताशनोभवत ।।

अयाचिताशनो मासं मासं त्यक्ताशनः पुनः ।। १८ ।।

पयोव्रतोभवन्मासं मासं शाकफलाशनः ।।

मासं मुष्टितिलाहारो मासं पानीयभोजनः ।। १९ ।।

पंचगव्याशनो मासं मासं चांद्रायणव्रती ।।

मासं कुशाग्रजलभुङ्मासं श्वसनभक्षणः ।। 4.1.10.१२० ।।

अथ त्रयोदशे मासि स्नात्वा त्रिपथगांभसि ।।

प्रत्यूष एव वीरेशं यावदायाति स द्विजः ।। २१ ।।

तावद्विलोकयांचक्रे मध्ये लिंगं तपोधनः ।।

विभूतिभूषितं बालमष्टवर्षाकृतिं शुभम् ।।२२।।

आकर्णपूर्णनेत्रं च सुरक्तदशनच्छदम् ।।

चारुपिंगजटामौलिं नग्नं प्रहसिताननम् ।। २३ ।।

शैशवोचितनेपथ्यधारिणं चित्तहारिणम् ।।

पठंतं श्रुतिसूक्तानि हसंतं च स्वलीलया ।। २४ ।।

तमालोक्य स्तुतिं चक्रे रोमकंचुकितो मुदा ।।

प्रोच्चरद्गद्गदालापो नमोस्त्विति पुनः पुनः ।। २५ ।।

विश्वानर उवाच ।। ।।

एकब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेहनानास्ति किंचित् ।।

एको रुद्रो न द्वितीयोवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ।। २६ ।।

एकः कर्ता त्वं हि सर्वस्य शंभो नानारूपेष्वेकरूपोस्य रूपः ।।

यद्वत्प्रत्यप्स्वर्क एकोप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ।।२७।।

रज्जौ सर्पः शुक्तिकायां च रूप्यंनैरःपूरस्तन्मृगाख्ये मरीचौ ।।

यद्वत्तद्वद्विष्वगेष प्रपंचो यस्मिञ्ज्ञाते तं प्रपद्ये महेशम् ।। २८ ।।

तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीत भानौप्रसादः ।।

पुष्पे गंधो दुग्धमध्येपि सर्पिर्यत्तच्छंभो त्वं ततस्त्वां प्रपद्ये ।। २९ ।।

शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यंघ्रिरायासि दूरात् ।।

व्यक्षः पश्येस्त्वं रसज्ञोप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये ।। 4.1.10.१३० ।।

नोवेदस्त्वामीश साक्षाद्धिवेदनो वा विष्णुर्नोविधाताऽखिलस्य ।।

नो योगींद्रानेंद्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ।। ३१ ।।

नो ते गोत्रं नेशजन्मापिनाख्यानो वा रूपं नैव शीलं न देशः ।।

इत्थंभूतोपीश्वरस्त्वं त्रिलोक्याः सर्वान्कामान्पूरयेस्तद्भजे त्वाम् ।। ३२ ।।

त्वत्तः सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशांतः ।।

त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्त्वं यत्किंनास्यतस्त्वां नतोस्मि ।। ३३ ।।

स्तुत्वेति भूमौ निपपात विप्रः स दंडवद्यावदतीव हृष्टः ।।

तावत्स बालोखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि ।। ३४ ।।

तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती ।।

प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ।। ३५ ।।

सर्वांतरात्मा भगवान्सर्वः सर्वप्रदो भवान् ।।

याच्ञां प्रतिनियुंक्ते मां किमीशो दैन्यकारिणीम् ।। ३६ ।।

इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य ह ।।

शुचेः शुचिव्रतस्याशु शुचिस्मित्वाब्रवीच्छिशुः ।। ३७ ।।

बाल उवाच ।।

त्वया शुचे शुचिष्मत्यां योभिलाषः कृतो हृदि ।।

अचिरेणैवकालेन स भविष्यत्यसंशयः ।। ३८ ।।

तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ।।

ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ।। ३९ ।।

अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ।।

अब्दं त्रिकालपठनात्कामदं शिवसंनिधौ ।। 4.1.10.१४० ।।

एतत्स्तोत्रस्य पठनं पुत्र पौत्र धनप्रदम् ।।

सर्वशांतिकरं चापि सर्वापत्परिनाशनम् ।। ४१ ।।

स्वर्गापवर्ग संपत्तिकारकं नात्र संशयः ।।

प्रातरुत्थाय सुस्नातो लिंगमभ्यर्च्य शांभवम् ।। ४२ ।।

वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान्भवेत् ।।

वैशाखे कार्तिके माघे विशेषनियमैर्युतः ।। ४३ ।।

यः पठेत्स्नानसमये स लभेत्सकलं फलम् ।।

कार्तिकस्य तु मासस्य प्रसादादहमव्ययः ।। ४४ ।।

तव पुत्रत्वमेष्यामि यस्त्वन्यस्तत्पठिष्यति ।।

अभिलाषाष्टकमिदं न देयं यस्य कस्यचित् ।। ४५ ।।

गोपनीयं प्रयत्नेन महावंध्याप्रसूतिकृत् ।।

स्त्रिया वा पुरुषेणापि नियमाल्लिंग संनिधौ ।। ४६ ।।

अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः ।।

इत्युक्त्वांतर्दधे बालः सोपि विप्रो गृहं गतः ।। १४७ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखण्डे पूवार्द्धे इंद्राग्निलोकवर्णनंनाम दशमोऽध्यायः ।। १० ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 11

अगस्तिरुवाच ।। ।।

शृणु सुश्रोणि सुभगे वैश्वानरसमुद्भवम् ।।

पुण्यशीलसुशीलाभ्यां यथोक्तं शिवशर्मणे ।। १ ।।

अथ कालेन तद्योषिदंतर्वत्नी बभूव ह ।।

विधिवद्विहिते तेन गर्भाधानाख्य कर्मणि ।। २ ।।

ततः पुंसवनं तेन स्पंदनात्प्राग्विपश्चिता ।।

गृह्योक्तविधिना सम्यक्कृतं पुंस्त्वविवृद्धये ।। ३ ।।

सीमन्तोथाष्टमे मासि गर्भरूपसमृद्धिकृत् ।।

सुखप्रसव सिद्ध्यै च तेनाकारि क्रियाविदा ।। ४ ।।

अथातः सत्सुतारासु ताराधिप वराननः ।।

केंद्रे गुरौ शुभे लग्ने सुग्रहेष्वयुगेषु च ।।५।।

अरिष्टं दीपयन्दीप्त्या सर्वारिष्टविनाशकृत् ।।

तनयो नाम तस्यां तु शुचिष्मत्यां बभूव ह ।।६।।

सद्यः समस्तसुखदो भूर्भुवःस्वर्निवासिनाम् ।।

गंधवाहागन्धवाहादिग्वधूमुखवासनाः ।। ७ ।।

इष्टगन्धप्रसूनौघैर्ववर्षुस्ते घनाघनाः ।।

देवदुन्दुभयो नेदुः प्रसेदुः सर्वतोदिशः ।।८।।

परितः सरितः स्वच्छा भूतानां मानसैः सह ९ ।।

तमोऽताम्यत्तु नितरां रजोपि विरजोभवत् ।। ९ ।।

सत्त्वाः सत्त्वसमायुक्ता वसुधासीच्छुभा तदा ।।

कल्याणी सर्वतो वाणी प्राणिनः प्रीणयंत्यभूत् ।। 4.1.11.१० ।।

तिलोत्तमोर्वशीरंभा प्रभा विद्युत्प्रभा शुभा ।।

सुमंगला शुभालापा सुशीलाड्या(?) वरांगनाः ।।११।।

क्वणत्कंकण पात्राणि कृत्वा करतलं मुदा ।।

मुक्तमुक्ताफलाढ्यानि यक्षकर्दमवंति च ।। १२ ।।

वज्रवैदूर्य दीपानि हरिद्रा लेपनानि च ।।

गारुत्मतैकरूपाणि शंखशुक्तिदधीनि च ।। १३ ।।

पद्मरागप्रवालाख्यरत्नकुंकुमवंति च ।।

गोमेदपुष्परागेंद्र नीलसन्माल्यभांजि च ।। १४ ।।

विद्याधर्यश्च किन्नर्यस्तथाऽमर्यः सहस्रशः ।।

चामर व्यग्रहस्ताग्र मंगलद्रव्यपाणयः ।। १५ ।।

गंधर्वोरगयक्षाणां सुवासिन्यः शुभस्वराः ।।

गायंत्यो ललितं गीतं तत्राजग्मुरनेकशः ।। १६ ।।

मरीचिरत्रि पुलहः पुलस्त्यः क्रतुरंगिराः ।।

वसिष्ठः कश्यपश्चाहं विभांडो मांडवीसुतः ।। १७ ।।

लोमशो लोमचरणो भरद्वाजोथ गौतमः ।।

भृगुस्तु गालवो गर्गो जातूकर्ण्यः पराशरः ।। १८ ।।

आपस्तंबो याज्ञवल्क्य दक्षवाल्मीकिमुद्गलाः ।।

शातातपश्च लिखितः शिलादः शंखउंछभुक् ।। १५ ।।

जमदग्निश्च संवर्तो मतंगो भरतोंशुमान् ।।

व्यासः कात्यायनः कुत्सः शौनकः सुश्रुतः शुकः ।।4.1.11.२० ।।

ऋष्यशृंगोथ दुर्वासा रुचिर्नारदतुंबुरू ।।

उत्तंको वामदेवश्च च्यवनोसितदेवलौ ।।२१ ।।

शालंकायनहारी तौ विश्वामित्रोथभार्गवः ।।

मृकंडः सह पुत्रेण दाल्भ्य उद्दालकस्तथा ।। २२ ।।

धौम्योपमन्युवत्साद्या मुनयो मुनिकन्यकाः ।

तच्छांत्यर्थं समाजग्मुर्धन्यं विश्वानराश्रमम् ।। २३ ।।

ब्रह्मा बृहस्पतियुतो देवो गरुडवाहनः ।।

नंदि भृंगि समायुक्तो गौर्या सह वृषध्वजः ।। २४ ।।

महेंद्रमुख्या गीर्वाणा नागाः पातालवासिनः ।।

रत्नान्यादाय बहुशः ससरित्का महाब्धयः ।। २५ ।।

स्थावरा जंगमं रूपं धृत्वा याताः सहस्रशः ।।

महामहोत्सवे तस्मिन्बभूवाकालकौमुदी ।। २६।।

जातकर्म स्वयं चक्रे तस्य देवः पितामहः ।।

श्रुतिं विचार्य तद्रूपां नाम्ना गृहपतिस्त्वयम् ।।२७।।

इति नाम ददौ तस्मै देयमेकादशेहनि ।।

नामकर्मविधानेन तदर्थं श्रुतिमुच्चरन् ।। २८ ।।

अयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः ।।

अग्ने गृहपतेभिद्युम्नमभि सह आयच्छस्व ।। २९ ।।

अग्ने गृहपते स्थित्या परामपि निदर्शयन् ।।

चतुर्निगममंत्रोक्तैराशीर्भिरभिनंद्य च ।। 4.1.11.३० ।।

कृत्वा बालोचितां रक्षां हरेण हरिणा सह ।।

निर्ययौ हंसमारुह्य सर्वेषां प्रपितामहः ।। ३१ ।।

अहोरूपमहो तेजस्त्वहो सर्वांगलक्षणम् ।।

अहो शुचिष्मतीभाग्यमाविरासीत्स्वयं हरः ।। ३२ ।।

अथवा किमिदं चित्रं शर्वभक्तजनेष्वहो ।।

आविर्भवेत्स्वयं रुद्रो यतोरुद्रास्तदर्चकाः ।। ३३ ।।

इति स्तुवंतस्त्वन्योन्यं जग्मुः सर्वे यथागतम् ।।

विश्वानरं समापृच्छ्य संप्रहृष्टतनूरुहाः ।। ३४ ।।

अतः पुत्रं समीहंते गृहस्थाश्रमवासिनः ।।

पुत्रेण लोकाञ्जयति श्रुतिरेषा सनातनी ।। ३५ ।।

अपुत्रस्य गृहं शून्यमपुत्रस्यार्जनं वृथा ।।

अपुत्रस्यान्वयश्छिन्नो नापवित्रं ह्यपुत्रतः ।। ३६ ।।

न पुत्रात्परमो लाभो न पुत्रात्परमं सुखम् ।।

न पुत्रात्परमं मित्रं परत्रेह च कुत्रचित् ।। ३७ ।।

औरसः क्षेत्रजः क्रीतो दत्तः प्राप्तः सुतासुतः ।।

आपत्सुरक्षितश्चान्यः पुत्राः सप्तात्र कीर्तिताः ।। ३८ ।।

एषामन्यतमः कार्यो गृहस्थेन विपश्चिता ।।

पूर्वपूर्वः सुतः श्रेयान्हीनःस्यादुत्तरोत्तरः ।। ३९ ।।

।। गणावूचतुः ।। ।।

निष्क्रमोथ चतुर्थेऽस्य मासि पित्राकृतो गृहात् ।।

अन्नप्राशनमब्दार्धे चूडाब्दे चार्थवत्कृता ।। 4.1.11.४० ।।

कर्णवेधं ततः कृत्वा श्रवणर्क्षे सकर्मवित् ।।

ब्रह्मतेजोभिवृद्ध्यर्थं पंचमेऽब्दे व्रतं ददौ ।। ४१ ।।

उपाकर्म ततः कृत्वा वेदानध्यापयत्सुधीः ।।

त्र्यब्दं वेदान्सविधिनाऽध्यैष्ट सांगपदक्रमान् ।। ४२ ।।

विद्याजातं समस्तं च साक्षिमात्राद्गुरोर्मुखात् ।।

विनयादिगुणानाविष्कुर्वञ्जग्राह शक्तिमान् ।। ४३ ।।

ततोथ नवमे वर्षे पित्रोः शुश्रूषणे रतम् ।।

वैश्वानरं गृहपतिं दृष्ट्वा कामचरो मुनिः ।। ४४ ।।

विश्वानरोटजं प्राप्य देवर्षिर्नारदः सुधीः ।।

पप्रच्छ कुशलं तत्र गृहीतार्घासनः क्रमात् ।। ४५ ।।

।। नारद उवाच ।। ।।

विश्वानर महाभाग शुचिष्मति शुभव्रते ।।

कुरुते युवयोर्वाक्यमयं गृहपतिः शिशुः ।। ४६ ।।

नान्यत्तीर्थं न वा देवो न गुरुर्न च सत्किया ।।

विहाय पित्रोर्वचनं नान्यो धर्मः सुतस्य हि ।। ४७ ।।

न पित्रोरधिकं किंचित्त्रिलोक्यां तनयस्य हि ।।

गर्भधारणपोषाभ्यां पितुर्माता गरीयसी ।। ४८ ।।

अंभोभिरभिषिच्यस्वं जननीचरणच्युतैः ।।

प्राप्नुयात्स्वर्धुनीशुद्ध कबंधाधिकशुद्धताम् ।। ४९ ।।

संन्यस्ताखिलकर्मापि पितुर्वंद्यो हिमस्करी ।।

सर्ववंद्येन यतिना प्रसूर्वंद्या प्रयत्नतः ।। 4.1.11.५० ।।

इदमेव तपोत्युग्रमिदमेवपरं व्रतम् ।।

अयमेव परो धर्मो यत्पित्रोः परितोषणम् ।। ५१ ।।

मन्येमान्यो नाधमस्य तथान्यस्य यथा युवाम् ।।

सुखाकारैर्विनीतस्य शिशोर्गृहपतेरहम् ।। ५२ ।।

वैश्वानरसमभ्येहि ममोत्संगे निषीद भो ।।

लक्षणानि परीक्षेहं पाणिं दर्शय दक्षिणम् ।। ५३ ।।

इत्युक्तो मुनिना बालः पित्रोराज्ञामवाप्य सः ।।

प्रणम्य नारदं श्रीमान्भक्त्याप्रह्व उपाविशत् ।। ५४ ।।

ततो दृष्ट्वास्य सर्वांगं तालुजिह्वाद्विजानपि ।।

आनीय कुंकुमारक्तं सूत्रं च त्रिगुणीकृतम् ।। ५५ ।।

स्मृत्वा शिवौ गणाध्यक्षमूर्ध्वीभूतमुदङ्मुखम् ।।

मुनिः परिममौ बालमापादतलमस्तकम् ।। ५६ ।।

तिर्यगूर्ध्वं समो माने योष्टोत्तरशतांगुलः ।।

स भवेत्पृथिवीपालो बालोऽयं ते यथा द्विज ।। ५७ ।।

पंचसूक्ष्मः पंचदीर्घः सप्तरक्तः षडुन्नतः ।।

त्रिपृथुर्लघुगंभीरो द्वात्रिंशल्लक्षणस्त्विति ।। ५८ ।।

पंचदीर्घाणि शस्यानि यथादीर्घायुषोस्य वै ।।

भुजौ नेत्रे हनुर्जानु नासाऽस्य तनयस्य ते ।। ५९ ।।

ग्रीवाजंघा मेहनैश्च त्रिभिर्ह्रस्वोयमीडितः ।।

स्वरेण सत्त्वनाभिभ्यां त्रिगंभीरः शिशुः शुभः ।। 4.1.11.६० ।।

त्वक्केशांगुलिदशनाः पर्वाण्यंगुलिजान्यपि ।।

तथास्य पंचसूक्ष्माणि दिक्पालपदभाग्यथा ।। ६१ ।।

वक्षः कुक्ष्यलकं स्कंध करं वक्त्रं षडुन्नतम् ।।

तथाऽत्र दृश्यते बाले महदैश्वर्यभाग्यथा ।। ६२ ।।

पाण्योस्तले च नेत्रांते तालुजिह्वाधरौष्ठकम् ।।

सप्तारुणं च सनखमस्मिन्राज्यसुखप्रदम् ।। ६३ ।।

ललाटकटिवक्षोभिस्त्रिविस्तीर्णो यथाह्यसौ ।।

सर्वतेजोतिरैश्वर्यं तथा प्राप्स्यति नान्यथा ।। ६४ ।।

कमठीपृष्ठकठिनावकर्मकरणौ करौ ।।

राज्यहेतू शिशोरस्य पादौ चाध्वनि कोमलौ ।।६५।।

अच्छिन्ना तर्जनीं व्याप्य तथा रेखास्य दृश्यते ।।

कनिष्ठा पृष्ठनिर्याता दीर्घायुष्यं यथार्पयेत् ।। ६६ ।।

पादौ सुमांसलौ रक्तौ समौ सूक्ष्मौ सुशौभनौ ।।

समगुल्फौ स्वेदहीनौ स्निग्धावैश्वर्यसूचकौ ।।६७।।

स्वल्पाभिः कररेखाभिरारक्ताभिः सदासुखी ।।

लिंगेन कृशह्रस्वेन राजराजो भविष्यति ।। ६८ ।।

उत्कंटासनगुल्फास्फिग्नाभिरस्यापि वर्तुला ।।

दक्षिणावर्तमरुणं महदैश्वर्यसूचिका ।। ६९।।

धारैका मूत्रयत्यस्मिन्दक्षिणावर्तिनी यदि ।।

गंधश्च मीनमधुनोर्यदि वीर्ये तदा नृपः ।। 4.1.11.७० ।।

विस्तीर्णौ मांसलौ स्निग्धौ स्फिचावस्य सुखोचितौ ।।

वामावर्तौ सुप्रलंबौ दोषौ दिग्रक्षणोचितौ ।।७१।।

श्रीवत्सवज्रचक्राब्ज मत्स्यकोदंडदंडभृत् ।।

तथास्य करगा रेखा यथा स्यात्त्रिदिवस्पतिः ।। ७२ ।।

द्वात्रिंशद्दशनश्चायं करकंबु शिरोधरः ।।

कौंचदुंदुभिहंसाभ्र स्वरः सर्वेश्वराधिकः ।। ७३ ।।

मधुपिंगलनेत्रोऽसौ नैनं श्रीस्त्यजति क्वचित् ।।

पंचरेखललाटस्तु तथा सिंहोदरः शुभः।।।७४।।

ऊर्ध्वरेखांकितपदो निःश्वसन्पद्मगंधवान् ।।

अच्छिद्रपाणिः सुनखो महालक्षणवानयम् ।। ७५ ।।

किंतु सर्वगुणोपेतं सर्वलक्षणलक्षितम् ।।

संपूर्णनिर्मलकलं पातयेद्विधुवद्विधिः ।। ७६ ।।

तस्मात्सर्वप्रयत्नेन रक्षणीयस्त्वसौ शिशुः ।।

गुणोपि दोषतां याति वक्रीभूते विधातरि ।। ७७ ।।

शंकेऽस्य द्वादशेवर्षे प्रत्यूहो विद्युदग्नितः ।।

इत्युक्त्वा नारदो धीमान्स जगाम यथागतम् ।। ७८ ।।

विश्वानरः सपत्नीकस्तच्छ्रुत्वा नारदेरितम् ।।

तदैव मन्यमानोभूद्वज्रपातं सुदारुणम् ।। ७९ ।।

हाहतोस्मीति वचसा हृदयं समताडयत् ।।

मूर्च्छामवाप महतीं पुत्रशोकसमाकुलः ।। 4.1.11.८० ।।

शुचिष्मत्यपि दुःखार्ता रुरोदातीव दुःसहम् ।।

आर्तस्वरेण हारावैरत्यंत व्याकुलेद्रिया ।। ८१ ।।

हाशिशो हागुणनिधे हा पितुर्वाक्यकारक ।।

हा कुतो मंदभाग्याया जठरे मे समागतः ।। ८२ ।।

त्वदेकपुत्रां हापुत्रकोऽत्र मां त्रायते पुरा ।।

त्वदृते त्वद्गुणोर्म्याढ्ये पतितां शोकसागरे ।। ८३ ।।

हा बाल हा विमल हा कमलायताक्ष हा लोकलोचनचकोर कुरंगलक्ष्मन् ।।

हा तात तात नयनाब्ज मयूखमालिन्हा मातुरुत्सवसहस्रसुखैकहेतो ।। ८४ ।।

हा पूर्णचंद्रमुख हा सुनखांगुलीक हा चाटुकारवचनामृतवीचिपूर ।।

दुःखैः कियद्भिरहहां गमयात्वमाप्तः किं किं कृतं गृहपते न मया त्वदाप्त्यै ।। ८५ ।।

नोप्तो बलिर्न बत कासु च देवता सुतीर्थानि कानि न मयाध्युषितानि वत्स ।।

के के मया न नियमौषधमंत्रयंत्राः संसाधितास्तव कृते सुकृतैकलभ्य ।। ८६ ।।

संसारसागरतरे हर दुःखभारं सारं मुखेंदुमभिदर्शय सौख्यसिंधो ।।

पुन्नामतीव्रनरकार्णव वाडवाग्नेस्संजीवयस्व पितरं निजवाक्सुधोक्षैः ।। ८७ ।।

किंदेवता अहह जन्ममहोत्सवेऽस्य ज्ञात्वेति भाविमिलिता युगपत्समस्ताः ।।

एकस्थ सर्वगुण शील कलाकलाप सौंदर्यलक्षणपरीक्षणपूर्णहर्षाः ।। ८८ ।।

शंभो महेश करुणाकर शूलपाणे मृत्युंजयस्त्वमिति वेदविदो वदंति ।।

त्वद्दत्त बालतनये यदि कालकालः स्यादेवमत्र वद कस्य भवेन्न पातः ।। ८९ ।।

हा हंतहंतभवता भव तापहारी कस्माद्विधेऽत्र विदधे बहुभिः प्रयत्नैः ।।

बालो विशालगुणसिंधुमगाधमध्यं सद्रत्नसारमखिलं सविधं विधाय ।। 4.1.11.९० ।।

हा कालबालकवती किमुतेन राज्ञी त्वत्कालतां न हृतवान्नसुताननेंदुः ।।

बालेति कोमलमृणाल लतांगलीलं दंभोलिनिष्ठुरकठोरकुठारदंष्ट्रः ।। ९१ ।।

इत्थं विलप्य बहुशो नयनांबुधारासंपातजात तटिनी शतमुत्तरंगम् ।।

सा तोकशोकजनितानल तापतप्ता प्रोच्छ्वस्यदीर्घविपुलोष्णमहो शुशोष।। ९२ ।।

आकर्ण्य तत्करुणवत्परिदेवितानि तानि द्रुमा व्रततयः कुसुमाश्रुपातैः ।।

प्रायो रुदंति पततां विरुतार्तरावैरालोल्यमौलिमसकृत्पवनच्छलेन ।। ९३ ।।

रुण्णं तया किल तथा बहुमुक्तकंठमार्तस्वरैः प्रतिरवच्छलतो यथोच्चैः ।।

तद्दुःखतोनुरुरुदुर्गिरिकंदरास्याः सर्वा दिशः स्थगितपत्रिमृगागमा हि ।। ९४ ।।

श्रुत्वार्तनादमिति विश्वनरोपि मोहं हित्वोत्थितः किमिति किंत्विति किंकिमेतत् ।।

उच्चैर्वदन्गृहपतिः क्व समे बहिस्थः प्राणोंतरात्मनिलयः सकलेंद्रियेशः ।। ९५ ।।

अगस्त्य उवाच ।। ।।

ततो दृष्ट्वा स पितरौ बहुशोकसमावृतौ ।।

स्मित्वोवाच ततो मातस्त्रासस्त्वीदृक्कुतो हि वाम् ।।९६।।

न मांकृत वपुस्त्राणं भवच्चरणरेणुभिः ।।

कालः कलयितुं शक्तो वराकी चंचलाल्पिका ।। ९७ ।।

प्रतिज्ञां शृणुतं तातौ यदि वां तनयो ह्यहम् ।।

करिष्येहं तथा तेन विद्युन्मत्तस्त्रसिष्यति ।। ९८ ।।

मृत्युंजयं समाराध्य सर्वज्ञं सर्वदं सताम् ।।

कालकालं महाकालं कालकूटविषादिनम् ।। ९९ ।।

इति श्रुत्वा वचस्तस्य जरितौ द्विजदंपती ।।

अकालामृतवर्षौघ शांततापौ तदोचतुः ।। 4.1.11.१०० ।।

अपयोदपयोवृष्टिरदुग्धाब्धिः सुधोदयः ।।

अनिंदुः कौमुदीकांतिः कुतो नौ सुखयत्यलम् ।। १ ।।

पुनर्ब्रूहिपुनर्ब्रूहि कीदृक्कीदृक्पुनःपुनः ।।

कालः कलयितुं नालं वराकी चंचलाल्पिका ।।२।।

आवयोस्तापनाशाय महोपायस्त्वयेरितः ।।

मृत्युंजयस्य देवस्य समाराधनलक्षणः।। ।।३ ।।

तद्गच्छ शरणं तात नातः परतरं हितम् ।।

मनोरथपथातीत कारिणः कालहारिणः ।। ४ ।।

किं न श्रुतं त्वया तात श्वेतकेतु यथा पुरा ।।

पाशितं कालपाशेन ररक्ष त्रिपुरांतकः ।। ५ ।।

शिलादतनयं मृत्युग्रस्तमष्टाब्दमर्भकम् ।।

शिवो निजजनं चक्रे नंदिनं विश्वनंदिनम् ।। ६ ।।

क्षीरोदमथनोद्भूतप्रलयानलसंनिभम् ।।

पीत्वा हालाहलं घोरमरक्षद्भुवनत्रयम् ।। ७ ।।

जालंधरं महादर्पं हृतत्रैलोक्यसंपदम् ।।

चरणांगुष्ठरेखोत्थचक्रेणनिजघानयः ।। ८ ।।

य एकेषु निपातोत्थ ज्वलनैस्त्रिपुरं पुरा ।।

विधाय पत्रिणं विष्णुं ज्वालयामास धूर्जटिः ।। ९ ।।

अंधकं यस्त्रिशूलाग्रप्रोतं वर्षायुतं पुरा ।।

त्रैलोक्यैश्वर्यसंमूढं शोषयामास भानुना।। 4.1.11.११० ।।

कामं दृष्टिनिपातेन त्रैलोक्यविजयोर्जितम् ।।

निनायानंगपदवीं वीक्षमाणेष्वजादिषु ।। ११ ।।

तं ब्रह्माद्येककर्तारं मेघवाहनमच्युतम् ।।

प्रयाहि पुत्र शरणं विश्वरक्षामणिं शिवम् ।। १२ ।।

पित्रोरनुज्ञां प्राप्येति प्रणम्य चरणौ तयोः ।।

प्रदक्षिणमुपावृत्य बह्वाश्वास्य विनिर्ययौ ।। १३ ।।

स प्राप्य काशीं दुष्प्रापां ब्रह्मनारायणादिभिः ।।

महासंवर्तसंवृत्त तापाद्विश्वेशपालिताम् ।। १४ ।।

फिरस्वर्धुन्या हारयष्ट्येव राजितां कंठभूमिषु ।।

विचित्रगुणशालिन्याहारनीहारगौरया ।। १५ ।।

बहुसंसारसंतापसंतप्तजनतोद्भवम् ।।

वारयंतीं वरणया छिंदंतीमसिधारया ।। १६ ।।

यल्लभ्यते च कैवल्यं सुदृढाष्टांगयोगतः ।।

विकासयंतीं तत्सम्यक्काशिकांयांजगुर्बुधाः ।। ।। १७ ।।

संसारतापतप्ताभ्यां लोचनाभ्यां स दृष्टवान् ।।

कर्णाकर्णप्रकीर्णाभ्यां प्राग्ययौ मणिकर्णिकाम् ।। १८ ।।

तत्र स्नात्वा विधानेन दृष्ट्वा विश्वेश्वरं विभुम् ।।

त्रैलोक्यप्राणिसंत्राणकारिणं प्रणनाम ह ।। १९ ।।

आलोक्यालोक्य तल्लिंगं तुतोष हृदये बहु ।।

परमानंदकंदाख्यं स्फुटमेतन्न संशयः ।। 4.1.11.१२० ।।

अहो न मत्तो धन्योस्ति त्रैलोक्ये सचराचरे ।।

यदद्राक्षिषमद्याहं श्रीमद्विश्वेश्वरं विभुम् ।।२१।।

त्रिलोकीसारसर्वस्वं पिंडीभूतमिदं किल ।।

किं वा पीयूषपिंडोयमुद्गतः क्षीरनीरधेः ।।२२ ।।

आत्मावबोधमहसः किमसौ प्रथमांकुरः ।।

ब्रह्मानंद सुकंदो वा किमु ब्रह्मरसायनम् ।। २३ ।।

योगिहृत्पद्मनिलयं यदनाकारमुच्यते ।।

तदाकारत्वमापेदे किमिदं लिंगकैतवात् ।। २४ ।।

ब्रह्मांडभांडमथवा नाना रत्नौघपूरितम् ।।

अथवा मोक्षवृक्षस्य फलमेतन्नसंशयः ।। २५ ।।

निर्वाणलक्ष्म्याः किमथ केशपाशः सुपुष्पयुक ।।

कैवल्यमल्लीवल्ल्याः किंस्तबकः स्तावकार्थदः ।। २६ ।।

निःश्रेयसश्रियः किंवाऽऽनंदक्रीडनकंदुकः ।।

अपवर्गो दयाद्रेः किमुदियाय सुधाकरः ।। २७ ।।

संसारमोहतिमिरभिदुरःकिमसौ रविः ।।

किमु कल्याणरमणीरम्यशृंगारदर्पणः ।। २८ ।।

आज्ञातं नभवेदन्यत्सर्वेषां देहधारिणाम् ।।

अनेककर्मबीजानां बीजपूरोऽयमद्भुतः ।।२९।।

विश्वेषां विश्वबीजानां कर्माख्यानां लयो यतः ।।

अस्मिन्निर्वाणदे लिंगे विश्वलिंगमिदं ततः ।। 4.1.11.१३० ।।

मम भाग्योदयेनैव नारदेन महर्षिणा ।।

तदागत्य तथोक्तं यत्कृतकृत्योस्म्यहं ततः ।। ३१ ।।

इत्यानंदामृतरसैर्विधायसहि पारणम् ।।

ततःशुभेऽह्नि संस्थाप्य लिंगं सर्वहितप्रदम् ।। ३२ ।।

जग्राह नियमान्घोरान्दुष्करानकृतात्मनाम् ।।

अष्टोत्तरशतैः कुंभैः पूर्णैर्गंगामृतोद्रवैः ।। ३३ ।।

संस्नाप्य वाससा पूतैः पूतात्मा प्रत्यहं शिवम् ।।

नीलोत्पलमयीं मालां समर्पयति सोऽन्वहम् ।। ३४ ।।

अष्टाधिकसहस्रैस्तु सुमनोभिर्विनिर्मिताम् ।।

सपक्षार्धेन षण्मासं कंदमूलफलाशनः।।३५।।

शीर्णपर्णाशनः पक्षे त्वाषण्मासं बभूव सः ।।

षण्मासं वायुभक्षोभूत्षण्मासं जलबिंदुभुक् ।।३६।।

एवं वर्षद्वयं तस्य व्यतिक्रांतं तथा सतः ।।

जन्मतो द्वादशे वर्षे तद्वचो नारदेरितम् ।। ३७ ।।

सत्यं करिष्यन्निवतमभ्यगात्कुलिशायुधः ।।

उवाच च वरं ब्रूहि दद्मि तन्मनसि स्थितम् ।।३८।।

अहं शतक्रतुर्विप्र प्रसन्नोस्मि शुभव्रतैः ।।

इत्याकर्ण्य महेंद्रस्य वाक्यं मुनिकुमारकः।।३९।।

उवाच मधुरं धीरः कीरवन्मधुराक्षरम्।।

मघवन्वृत्रशत्रो त्वां जाने कुलिशपाणिनम् ।। 4.1.11.१४० ।।

नाहं वृणे वरं त्वत्तः शंकरो वरदोस्ति मे ।। ४१ ।।

इंद्र उवाच ।।

न मत्तः शंकरोस्त्वन्यो देवदेवोस्म्यहं शिशो ।।

विहाय बालिशत्वं त्वं वरयाचस्व मां वरम् ।। ४२ ।।

ब्राह्मण उवाच ।।

गच्छाहल्यापतेऽसाधो गोत्रारे पाकशासन ।।

न प्रार्थये पशुपतेरन्यदेवांतरं स्फुटम् ।।४३।।

इति तस्य वचः श्रुत्वा क्रोधसंरक्तलोचनः ।।

उद्यम्य कुलिशं घोरं भीषयामास बालकम् ।।४४।।

स दृष्ट्वा बालको वज्रं विद्युज्ज्वालाशताकुलम् ।।

स्मरन्नारदवाक्यं च मुमूर्च्छ भयविह्वलः ।। ४५ ।।

अथ गौरीपतिः शंभुराविरासीत्तमोनुदः ।।

उत्तिष्ठोत्तिष्ठ भद्रं ते स्पर्शैः संजीवयन्निव ।। ४६ ।।

उन्मील्य नेत्रकमले सुप्ते इव दिवाक्षये ।।

अपश्यदग्रे चोत्थाय शंभुमर्कशताधिकम् ।। ४७ ।।

भाले लोचनमालोक्य कंठे कालं वृषध्वजम् ।।

वामांगसंनिविष्टाद्रितनयं चं द्रशेखरम् ।। ४८ ।।

कपर्देन विराजंतं त्रिशूलाजगवायुधम् ।।

स्फुरत्कर्पूरगौरांगं परिणद्ध गजाजिनम् ।।४९।।

परिज्ञाय महादेवं गुरुवाक्यत आगमात् ।।

हर्ष बाष्पाकुलः सन्न कठो रोमांचकंचुकः ।। 4.1.11.१५० ।।

क्षणंस्थगितवत्तस्थौ चित्रकृत्रिमपुत्रकः ।।

यथातथा सुसंपन्नो विस्मृत्यात्मानमेव च ।। ५१ ।।

न स्तोतुं न नमस्कर्तुं किंचिद्विज्ञप्तुमेव च ।।

यदासनशशाकालं तदा स्मित्वाऽऽह शंकरः ।। ५२ ।।

ईश्वर उवाच ।।

शिशो गृहपते शक्राद्वज्रोद्यतपरादहो ।।

ज्ञातो भीतोसि मा भैषीर्जिज्ञासा ते कृता मया ।। ५३ ।।

मम भक्तस्य नो शक्रो न वज्रं नांतकोपि वा ।।

प्रभवेदिंद्ररूपेण मयैव त्वं हि भाषितः ।। ५४ ।।

वरं ददामि ते भद्र त्वमग्निपदभाग्भव ।।

सर्वेषामेव देवानां वदनं त्वं भविष्यसि ।।५५।।

सर्वेषामेव भूतानां त्वमग्नेंऽतश्चरो भव ।।

धर्मराजेंद्रयोर्मध्ये दिगीशो राज्यमाप्नुहि ।।५६ ।।

त्वयेदं स्थापितं लिंगं तव नाम्ना भविष्यति ।।

अग्नीश्वरं इति ख्यातं सर्वतेजोभिबृंहणम् ।। ५७ ।।

अग्नीश्वरस्य भक्तानां न भयं विद्युदग्निजम् ।।

अग्निमांद्य भयं नैव नाकालमरणं क्वचित् ।। ५८ ।।

अग्नीश्वरं समभ्यर्च्य काश्यां सर्वसमृद्धिदम् ।।

अन्यत्रापि मृतो दैवादग्निलोके महीयते ।।५९।।

ततः काशीं पुनः प्राप्य कल्पांते मोक्षमाप्नुयात् ।।

वीरेश्वरस्य पूर्वेण गंगायाः पश्चिमे तटे ।। 4.1.11.१६० ।।

अग्नीश्वरं समाराध्य वह्निलोके वसेन्नरः ।।

पितृभ्यां स्वजनैः सार्धं मित्रबंधुसमायुतः ।। ६१ ।।

विमानमिदमारुह्य प्रयाह्येव दिशःपते ।।

इत्युक्त्वानीय तद्बंधून् पित्रोश्च परिपश्यतोः ।।

दिक्पतित्वेऽभिषिच्याग्निं तत्र लिंगे शिवोविशत् ।। ६२ ।।

गणावूचतुः ।। ।।

इत्थमग्निस्वरूपं ते शिवशर्मन्प्रवर्णितम् ।।

किमन्यच्छ्रोतुकामोसि कथयावस्तदीरय ।। १६३ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वाद्धें वह्निलोकवर्णनं नामैकादशोऽध्यायः ।। ११ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 12

शिवशर्मोवाच ।।

नैर्ऋतादीन् क्रमाल्लोकानाख्यातं पुरुषोत्तमौ ।।

पुरुषोत्तमपादाब्जपरागोद्धूसरालकौ ।। १ ।।

गणावूचतुः ।।

आकर्णय महाभाग संयमिन्याः पुरीं पराम् ।।

दिक्पतेर्निर्ऋतस्यासौ पुण्यापुण्यजनोषिता ।। २ ।।

राक्षसानिवसंत्यस्यामपरद्रोहिणः सदा ।।

जातिमात्रेण रक्षांसि वृत्तैः पुण्यजना इमे ।। ३ ।।

स्मृत्युक्तश्रुतिवर्त्मानो जातवर्णावरेष्वपि ।।

नाद्रियंतेऽन्नपानानामस्मृत्युक्तं कदाचन ।। ४ ।।

परदार परद्रव्य परद्रोहपराङ्मुखाः ।।

जाताजातौ निकृष्टायामपिपुण्यानुसारिणः ।। ५ ।।

द्विजातिभक्त्युत्पन्नार्थैरात्मानं पोषयंति ये ।।

सदा संकुचितांगाश्च द्विजसंभाषणादिषु ।। ६ ।।

आहूता वस्त्रवदना वदंति द्विजसंनिधौ ।।

जयजीवभगोनाथ स्वामिन्निति हि वादिनः ।। ७ ।।

तीर्थस्नानपरानित्यं नित्यं देवपरायणाः ।।

द्विजेषु नित्यं प्रणताः स्वनामाख्यानपूर्वकम् ।। ८ ।।

दम दान दया क्षांति शौचेंद्रिय विनिग्रहाः ।।

अस्तेय सत्याहिंसाश्च सर्वेषां धर्महेतवः ।। ९ ।।

आवश्येषु सदोद्युक्ता ये जाता यत्रकुत्रचित् ।।

सर्वभोगसमृद्धास्ते वसंत्यत्र पुरोत्तमे ।।4.1.12.१०।।

म्लेच्छा अपि सुतीर्थेषु ये मृतानात्मघातकाः ।।

विहाय काशीं निर्वाण विश्राणांतेऽत्र भोगिनः ।। ।। ११ ।।

अंधं तमो विशेयुस्ते ये चैवात्महनो जनाः ।।

भुक्त्वा निरयसाहस्रं ते च स्युर्ग्रामसूकराः ।। १२ ।।

आत्मघातो न कर्तव्यस्तस्मात्क्वापि विपश्चिता ।।

इहापि च परत्रापि न शुभान्यात्मघातिनाम् ।। १३ ।।

यथेष्टमरणं केचिदाहुस्तत्त्वावबोधकाः ।।

प्रयागे सर्वतीर्थानां राज्ञिसर्वाभिलाषदे ।। १४ ।।

अंत्यजा अपि ये केचिद्दयाधर्मानुसारिणः ।।

परोपकृतिनिष्ठास्ते वसंत्यत्र तु सत्तमाः ।। १५ ।।

अस्य स्वरूपं वक्ष्यावो दिक्पतेः क्षणतः शृणु ।।

मध्ये विंध्याटवि पुरा पक्कणस्थजनाग्रणीः ।। १५ ।।

पल्लीपतिरभूदुग्रः पिंगाक्ष इति विश्रुतः ।।

निर्विंध्यायास्तटे शूरः क्रूरकर्मपराङ्मुखः ।। १७ ।।

घातयेद्दूरसंस्थोपि यः पांथपरिपंथिनः ।।

व्याघ्रादीन् दुष्टसत्त्वांश्च स हिनस्ति प्रयत्नतः ।। १८ ।।

जीवेन्मृगयु धर्मेण तत्रापि करुणापरः ।।

न विश्वस्तान्पक्षिमृगान्न सुप्तान्न व्यवायिनः ।। १९ ।।

न तोयगृध्नून्न शिशून्नांतर्वर्त्नित्वलक्षणान् ।।

स घातयति धर्मज्ञो जातिधर्मपराङ्मुखः ।। 4.1.12.२० ।।

श्रमातुरेभ्यः पांथेभ्यः स विश्रामं प्रयच्छति ।।

हरेत्क्षुधा क्षुधार्तानामुपानद्दोऽनुपानहे ।। २१ ।।

मृगत्त्वचोतिमृदुला विवस्त्रेभ्यातिसर्जति ।।

अनुव्रजति कांतारे प्रांतरे पथिकान्पथि ।। २२ ।।

न जिघृक्षति तेभ्योर्थमभयं चेति यच्छति ।।

आविंध्याटवि मे नाम ग्राह्यं दुष्टभयापहम् ।। २३ ।।

नित्यं कार्पटिकान्सर्वान् स पुत्रेण प्रपश्यति ।।

तेपि च प्रतितीर्थं हि तमाशीर्वादयं ति वै ।।२४।।

इति तिष्ठति पिंगाक्षे साटवी नगरायिता ।।

अध्वनीने ऽध्वगान्कोपि न रुणद्धि ससाध्वसः ।।२५।।

कदाचित्तत्पितृव्येण समीप ग्रामवासिना ।।

श्रुतः कार्पटिकानां हि सार्थः सार्थो महास्वनः ।। २०५ ।।

लुब्धकस्तद्धने लुब्धः क्षुद्रस्तन्निधनोद्यतः ।।

स रुरोध तमध्वानमग्रे गत्वाऽतिगूढवत् ।। २७ ।।

तदा युप्यस्यशेषेण पिंगाक्षो मृगयां गतः ।।

तस्मिन्नरण्ये तन्मार्गं निकषाध्युषितो निशि ।। २८ ।।

परप्राणद्रुहां पुंसां न सिद्ध्येयुर्मनोरथाः ।।

विश्वं कुशलितेनैतद्विश्वेशपरिरक्षितम् ।। २९ ।।

न चिंतयेदनिष्टानि तस्मात्कृष्टिः कदाचन ।।

विधिदृष्टं यतो भावि कलुषंभावि केवलम् ।।4.1.12.३०।।

तस्मादात्मसुखंप्रेप्सु रिष्टानिष्टं न चिंतयेत् ।।

चिंतयेच्चेत्तदाचिंत्यो मोक्षोपायो न चेतरः ।।३१।।

व्युष्टायामथयामिन्यामभूत्कोलाहलो महान् ।।

घातयध्वं पातयध्वं नग्नयध्वं द्रुतं भटाः ।।३२।।

मा मारयध्वं त्रायध्वं भटाः कार्पटिका वयम् ।।

अनायासं लुंठयध्वं नयध्वं च यदस्ति नः ।। ३३ ।।

वयं पांथा अनाथाः स्मो विश्वनाथपरायणाः ।।

सनाथास्ते न दूरं सनाथतां पथिकोऽपरः ।। ३४ ।।

वयं पिंगाक्षविश्वासादस्मिन्मार्गेऽकुतोभयाः ।।

यातायातं सदा कुर्मः स च दूर इतो वनात् ।।३५।।

इति श्रुत्वाऽथ पिंगाक्षो भटः कार्पटिकेरितम ।।

दूरान्मा भैष्ट माभैष्ट ब्रुवन्निति समागतः ।। ३६ ।।

तत्कर्मसूत्रैराकृष्टो भिल्लःकार्पटिकप्रियः ।।

तूर्णं तदायुष्यमिव तत्रोपस्थितवान् क्षणात् ।। ३७ ।।

कोयंकोयं दुराचारः पिंगाक्षे मयि जीवति ।।

उल्लुलुंठयिषुः पांथान्प्राणलिंगसमान्मम ।। ३८ ।।

इति तद्वाक्यमाकर्ण्य ताराक्षस्तत्पितृव्यकः ।।

धनलोभेन पिंगाक्षे पापं पापो व्यचिंतयत् ।।३९।।

कुलधर्मं व्यपास्यैष वर्तते कुलपांसनः ।।

चिरं चिंतितमद्यामुं घातयिष्याम्यसंशयम् ।। 4.1.12.४० ।।

विचार्येति स दुष्टात्मा भृत्यानाज्ञापयत्क्रुधा ।।

आदावेनं घातयंतु ततः कार्पटिकानिमान् ।। ४१ ।।

ततो ऽयुध्यन्दुराचारास्तेनैकेन च तेऽखिलाः ।।

यथाकथंचित्ताननयत्स च स्वावसथांतिकम् ।। ४२ ।।

आच्छिन्नं हि धनुर्वाणं छिन्नं सन्नहनं शरैः ।।

असूदयिष्यमेतांस्तदभविष्यं यदीश्वरः ।। ४३ ।।

अभिलप्यन्निति प्राणानत्याक्षीत्स परार्थतः ।।

तेपि कार्पटिकाः प्राप्तास्तत्पल्लीं गतसाध्वसाः ।। ४४ ।।

या मतिस्त्वंतकाले स्याद्गतिस्तदनुरूपतः ।।

दिगीशत्वमतः प्राप्तो निर्ऋत्यां नैर्ऋतेश्वरः ।। ४५ ।।

इत्थमस्य स्वरूपं ते आवाभ्यां समुदीरितम् ।।

एतस्योत्तरतो लोको वरुणस्यायमद्भुतः ।।४६।।

कूपवापीतडागानां कर्तारो निर्मलैर्धनैः ।।

इह लोके महीयंते वारुणे वरुणप्रभाः ।।४७।।

निर्जले जलदातारः परसंतापहारिणः ।।

अर्थिभ्यो ये प्रयच्छंति चित्रच्छत्रकमंडलून् ।।४८।।

पानीयशालिकाः कुर्युर्नानोपस्करसंयुताः ।।

दद्युर्धर्मघटांश्चापि सुगंधोदकपूरितान् ।।४९।।

अश्वत्थसेकं ये कुर्युः पथि पादपरोपकाः ।।

विश्रामशालाकर्तारः श्रांतसंतापनोदकाः ।।4.1.12.५०।।

ग्रीष्मोष्प्रहंति मायूरपिच्छादि रचितान्यपि ।।

चित्राणि तालवृंतानि वितरंति तपागमे ।।५१।।

रसवंति सुगंधीनि हिमवंति तपर्तुषु ।।

विश्राणयंति वा तृप्ति पानकानि प्रयत्नतः ।। ५२ ।।

इक्षुक्षेत्राणि संकल्प्य ब्राह्मणेभ्यो ददत्यपि ।।

तथा नानाप्रकारांश्च विकारानैक्षवान्बहून् ।। ५३ ।।

गोरसानां प्रदातारस्तथा गोमहिषीप्रदाः ।।

धारामंडपकर्तारश्छायामंडपकारिणः ।।५४।।

देवालयेषु ये दद्युर्बहुधारागलंतिकाः ।।

तीर्थे वा करहर्तारस्तीर्थमार्गावनेजका. ।। ५५ ।।

अभयं ये प्रयच्छंति भयार्तोद्यत पाणयः ।।

निर्भया वारुणे लोके ते वसंति लसंति च ।। ५६ ।।

विपाशयंति ये पुण्या दुर्वृतैः कंठपाशितान् ।।

ते पाशपाणे लोकेस्मिन्निवसंत्यकुतोभयाः ।। ५७ ।।

नौकाद्युपायैर्न द्यादौ पांथान्ये तारयंत्यपि ।।

तारयंत्यपि दुःखाब्धेस्तत्र नागरिका द्विज ।।५८ ।।

घट्टान्पुण्यतटिन्यादेर्बंधयंति शिलादिभिः ।।

तोयार्थिसुखसिद्ध्यर्थं ये नरास्तेत्र भोगिनः ।। ५९ ।।

वितर्पयंति ये पुण्यास्तृषिताञ्शीतलैर्जलैः ।।

तेऽत्र वै वारुणे लोके सुखसंततिभागिनः ।। 4.1.12.६० ।।

जलाशयानां सर्वेषामयमेकतमः पतिः ।।

प्रचेता यादसांनाथः साक्षी सर्वेषुकर्मसु ।। ६१ ।।

अस्योत्पत्तिं शृणु पतेर्वरुणस्यमहात्मनः ।।

आसीन्मुनिरमेयात्मा कर्दमस्य प्रजापतेः ।। ६२।।

शुचिष्मानिति विख्यातस्तनयो विनयोचितः ।।

स्थैर्य माधुर्य धैर्याद्यैर्गुणैरुपचितोहितः ।। ६३ ।।

अच्छोदे सरसि स्नातुं स गतो बालकैः सह ।।

जलक्रीडनसंसक्तं शिशुमारो हरच्च तम् ।।६४।।

ततस्तस्मिन्मुनिसुते हृतेऽत्याहितशंसिभिः ।।

तैः समागत्य शिशुभिः कथितं तत्पितुः पुरः ।। ६५ ।।

हरार्चनोपविष्टस्य समाधौ निश्चलात्मनः ।।

श्रुतबालविपत्तेश्च चचाल न मनोहरात् ।। ६६ ।।

अधिकं शीलयामास स सर्वज्ञं त्रिलोचनम् ।।

पश्यञ्शंभोः समीपे स भुवनानि चतुर्दश ।। ६७ ।।

नाना भूतानि भूतानि ब्रह्मांडांतर्गतानि च ।।

चंद्रसूर्यर्क्षताराश्च पर्वतान्सरितो द्रुमान् ।। ६८ ।।

समुद्रानंतरीयाणि ह्यरण्यानीस्सरांसि च ।।

नाना देवनिकायांश्च बह्वीर्दिविषदां पुरीः ।। ६९ ।।

वापीकूपतडागानि कुल्याः पुष्करिणीर्बहु ।।

एकस्मिन्क्वापि सरसि जलक्रीडापरायणान् ।। 4.1.12.७० ।।

बहून्मुनिकुमारांश्च मज्जनोन्मज्जनादिभिः ।।

करयंत्रविनिर्मुक्ततोयधाराभिषेचनैः ।। ७१ ।।

करताडितपानीयशब्ददिङ्मुखनादिभिः ।।

जलखेलनकैरित्थं संसक्तान्बहुबालकान् ।।७२।।

तेषां मध्ये ददर्शाथ समाधिस्थः स कर्दमः ।।

स्वं शिशुं शिशुमारेण नीयमानं सुविह्वलम् ।। ७३ ।।

कयाचिज्जलदेव्याथ तस्माच्चक्रूरयादसः ।।

प्रसह्य नीत्वोदधये दृष्टवांस्तं समर्पितम् ।। ७४ ।।

निर्भर्त्स्य सरितांनाथं केनचिद्रुद्ररूपिणा ।।

त्रिशूलपाणिनेत्युक्तं क्रोधताम्राननेनच ।। ७५ ।।

कुतो जलानामधिप शिवभक्तस्य बालकः ।।

प्रजापतेः कर्दमस्य महाभागस्य धीमतः ।। ७६।।

अज्ञात्वा शिवसामर्थ्यं भवताचिरमासितः ।।

भयत्रस्तेन तद्वाक्यश्रवणात्तमुदन्वता ।।७७।।

बालं रत्नैरलंकृत्य बद्ध्वा तं शिशुमारकम् ।।

समर्पितं समानीय शंभुपादाब्जसंनिधौ ।। ।। ७८ ।।

नत्वा विज्ञापयत्तं च नापराध्याम्यहं विभो ।।

अनाथनाथविश्वेश भक्तापत्तिविनाशन ।। ७९ ।।

भक्तकल्पतरो शंभोऽनेनायं दुष्टयादसा ।।

अनायिन मया नाथ भवद्भक्तजनार्भकः ।। 4.1.12.८० ।।

गणेन तेन विज्ञाय शंभोरथ मनोगतम् ।।

पाशेन बद्ध्वा तद्यादः शिशुहस्ते समर्पितम् ।। ८१ ।।

गृहाणेमं स्वतनयं पार्षदे शंकराज्ञया ।।

याहि स्वभवनं वत्स ब्रुवतीति स कर्दमः ।। ८२।।

समाधिसमये सर्वमिति शृण्वन्नुदारधीः।।

उन्मील्य नयने यावत्प्रणिधानं विसृज्य च।।८३।।

संपश्यते शिशुं तावत्पुरतः समवैक्षत ।।

गृहीतशिशुमारं च पार्श्वेऽलंकृतकर्णिकम् ।। ८४ ।।

तोयार्द्रकाकपक्षाग्रं कषायनयनांचलम् ।।

किंचिद्विरूक्षं त्वक्क्षोभं संभ्रमापन्नमानसम् ।। ८५ ।।

कृतप्रणाममालिंग्य जिघ्रंस्तन्मुखपंकजम् ।।

पुनर्जातमिवामंस्त पश्यंश्चापि मुहुर्मुहुः ।। ८६ ।।

शतानिपंचवर्षाणि प्रणिधानस्थितस्य हि ।।

कर्दमस्य व्यतीतानि शंभुमर्चयतस्तदा ।। ८७ ।।

कर्दमोपि च तत्कालमज्ञासीत्क्षणसंगतम् ।।

यतो न प्रभवेत्कालो महाकालस्य संनिधौ ।। ८८ ।।

ततस्तं तनयः पृष्ट्वा पितरं प्रणिपत्य च ।।

जगाम तूर्णं तपसे श्रीमद्वाराणसीं पुरीम् ।। ८९ ।।

तत्र तप्त्वा तपो घोरं लिंगं संस्थाप्य शांभवम् ।।

पंचवर्षसहस्राणि स्थितः पाषाणनिश्चलः ।। 4.1.12.९० ।।

आविरासीन्महादेवस्तुष्टस्तत्तपसा ततः ।।

उवाच कार्दमे ब्रूहि कं ददामि वरोत्तमम् ।। ९१ ।।

कार्दमिरुवाच ।। ।।

यदि नाथ प्रसन्नोसि भक्तानामनुकंपक ।।

सर्वासामाधिपत्यं मे देह्यपां यादसामपि ।। ९२ ।।

इति श्रुत्वा महेशानः सर्वचिंतितदः प्रभुः ।।

अभ्यषिंचत तं तत्र वारुणे परमे पदे ।। ९३ ।।

रत्नानामब्धिजातानामब्धीनां सरितामपि ।।

सरसां पल्वलानां च वाप्यंबु स्रोतसा पुनः ।। ९४ ।।

जलाशयानां सर्वेषां प्रतीच्याश्चापि वैदिशः ।।

अधीश्वरः पाशपाणिर्भव सर्वामरप्रियः ।। ९५ ।।

ददामि वरमन्यं च सर्वेषां हितकारकम् ।।

त्वयैतत्स्थापितं लिंगं तव नाम्ना भविष्यति ।। ९६ ।।

वरुणेशमिति ख्यातं वाराणस्यां सुसिद्धिदम् ।।

मणिकर्णेश लिंगस्य नैर्ऋत्यां दिशि संस्थितम् ।। ९७ ।।

आराधितं सदा पुंसां सर्वजाड्यविनाशकृत् ।।

वरुणेशस्य ये भक्ता न तेषामब्भयं क्वचित् ।। ९८ ।।

न संतापभयं तेषां नापायमरणं क्वचित् ।।

जलोदरभयं नैव न भयं वै तृषः क्वचित् ।। ९९ ।।

नीरसान्यन्नपानानि वरुणेश्वर संस्मृतेः ।।

सरसानि भविष्यंति नात्र कार्या विचारणा ।। 4.1.12.१०० ।।

इत्युक्त्वांतर्दधे शंभुर्वरुणोपि स्वबंधुभिः ।।

इमं लोकमलंकुर्वंस्तदारभ्य स्थितो द्विजः ।। १ ।।

इदं वरुणलोकस्य स्वरूपं ते निरूपितम् ।।

यच्छ्रुत्वा न नरः क्वापि दुरपायैः प्रबाध्यते ।। १०२ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वाद्धे निर्ऋतिवरुणलोकवर्णनंनाम द्वादशोऽध्यायः ।। १२ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 13

गणावूचतुः ।। ।।

इमां गंधवतीं पुण्यां पुरीं वायोर्विलोकय ।।

वारुण्या उत्तरे भागे महाभाग्यनिधे द्विज ।। १ ।।

अस्यां प्रभंजनो नाम जगत्प्राणोदिगीश्वरः ।।

आराध्य श्रीमहादेवं दिक्पालत्वमवाप्तवान् ।। २ ।।

पुरा कश्यपदायादः पूतात्मेति च विश्रुतः ।।

धूर्जटे राजधान्यां स चचार विपुलं तपः ।। ३ ।।

वाराणस्यां महाभागो वर्षाणामयुतं शतम् ।।

स्थापयित्वा महालिंगं पावनं पवनेश्वरम् ।। ४ ।।

यस्य दर्शनमात्रेण पूतात्मा जायते नरः ।।

पापकंचुकमुत्सृज्य स वसेत्पावने पुरे ।। ५ ।।

ततस्तस्योग्रतपसा तपसाफलदः शिवः ।।

आविरासीत्ततो लिंगाज्ज्योतीरूपो महेश्वरः ।। ५ ।।

उवाच च प्रसन्नात्मा करुणामृतसागरः ।।

उत्तिष्ठोत्तिष्ठ पूतात्मन्वरं वरय सुव्रत ।। ७ ।।

अनेन तपसोग्रेण लिंगस्याराधनेन च ।।

तवादेयं न पूतात्मंस्त्रैलोक्ये सचराचरे ।।८।।

।। पूतात्मोवाच ।।

देवदेवमहादेव देवानामभयप्रद ।।

ब्रह्मनारायणेंद्रादि सर्वदेवपदप्रद ।। ९ ।।

वेदास्त्वां न च विंदंति किमात्मक इति प्रभो।।

प्राप्ताः शतपथत्वं च नेतिनेतीतिवादिनः ।।4.1.13.१०।।

ब्रह्मविष्ण्वोपि गिरां गोचरो न च वाक्पतेः।।

प्रमथेशं कथं स्तोतुं मादृशः प्रभवेत्प्रभो ।।११।।

प्रसह्य प्रमिमीतेश भक्तिर्मांस्तुतिकर्मणि ।।

करोमि किं जगन्नाथ न वश्यानींद्रियाणि मे ।। १२ ।।

विश्वं त्वं नास्ति वै भेदस्त्वमेकः सर्वगो यतः ।।

स्तुत्यं स्तोता स्तुतिस्त्वं च सगुणो निर्गुणो भवान् ।।१३।।

सर्गात्पुरा भवानेको रूपनाम विवर्जितः ।।

योगिनोपि न ते तत्त्वं विंदंति परमार्थतः ।। १४ ।।

यदैकलो न शक्नोषि रंतुं स्वैरचर प्रभो ।।

तदिच्छा तवयोत्पन्ना सेव्या शक्तिरभूत्तव ।। १५ ।।

त्वमेको द्वित्वमापन्नः शिवशक्तिप्रभेदतः ।।

त्वं ज्ञानरूपो भगवान्स्वेच्छा शक्तिस्वरूपिणी ।। १६ ।।

उभाभ्यां शिवशक्तिभ्या युवाभ्यां निजलीलया ।।

उत्पादिता क्रियाशक्तिस्ततः सर्वमिदं जगत् ।। १७ ।।

ज्ञानशक्तिर्भवानीश इच्छाशक्तिरुमा स्मृता ।।

क्रियाशक्तिरिदं विश्वमस्य त्वं कारणं ततः ।। १८ ।।

दक्षिणांगं तव विधिर्वामांगं तव चाच्युतः ।।

चंद्रसूर्याग्निनेत्रस्त्वं त्वन्निःश्वासः श्रुतित्रयम् ।। १९ ।।

त्वत्स्वेदादंबुनिधयस्तव श्रोत्रं समीरणः ।।

बाहवस्ते दशदिशो मुखं ते ब्राह्मणाः स्मृताः ।। 4.1.13.२० ।।

राजन्यवर्यास्ते बाहु वैश्या ऊरुसमुद्भवाः ।।

पद्भ्यां शूद्रस्तवेशान केशास्ते जलदाः प्रभो ।। २१ ।।

त्वं पुं प्रकृतिरूपेण ब्रह्मांडमसृजः पुरा।।

मध्ये ब्रह्मांडमखिलं विश्वमेतच्चराचरम्।। २२ ।।

अतस्त्वत्तो न मन्येऽहं किंचिद्भिन्नं जगन्मय ।।

त्वयि सर्वाणि भूतानि सर्वभूतमयो भवान् ।। २३ ।।

नमस्तुभ्यं नमस्तुभ्यं नमस्तुऽभ्यं नमोनमः ।।

अयमेव वरो नाथ त्वयि मेऽस्तु स्थिरा मतिः ।। २४ ।।

इत्युक्तवति देवेश स्तस्मिन्पूतात्मनि प्रभुः ।।

स्वमूर्तित्वं समारोप्य दिक्पालपदमादधे ।। २५ ।।

सर्वगो मम रूपेण सर्वतत्त्वावबोधकः ।।

सर्वेषामायुषोरूपं भवानेव भविष्यति ।। २६ ।।

तव लिंगमिदं दिव्यं ये द्रक्ष्यंतीह मानवाः ।।

सर्वभोगसमृद्धास्ते त्वल्लोकसुखभागिनः ।। २७ ।।

पवमानेश्वरं लिंगं मध्ये जन्मसकृन्नरः ।।

यथोक्तविधिना पूज्य सुगंधस्नपनादिभिः ।। २८ ।।

सुगंधचंदनैः पुष्पैर्मम लोके महीयते ।।

ज्येष्ठेशात्पश्चिमेभागे वायुकुंडोत्तरेण तु ।। २९ ।।

पावमानं समाराध्य पूतो भवति तत्क्षणात् ।।

इति दत्त्वा वरान्देवस्तस्मिँल्लिंगे लयं ययौ ।।4.1.13.३०।।

गणावूचतुः ।।

इति गंधवती पुर्याः स्वरूपं ते निरूपितम् ।।

तस्याः प्राच्यां कुबेरस्य श्रीमत्येषालकापुरी ।। ३१ ।।

शंभोः सखित्वमापेदे नाथोस्या भक्तियोगतः ।।

निधीनां पद्ममुख्यानां दाता भोक्ता हरार्चनात् ।। ३२ ।।

।। शिवशर्मोवाच ।। ।।

कोसौ कस्य पुनः कीदृग्भक्तिरस्य सदाशिवे ।।

यया सखित्वमापन्नो देवदेवस्यधूर्जटेः ।। ३३ ।।

इति श्रोतुं मम मनः श्रुतिगोचरतां गतम् ।।

युवयोर्वाक्सुधास्वाद मेदुरोदरमंथरम् ।। ३४ ।।

गणावूचतुः ।। ।।

शिवशर्मन्महाप्राज्ञ परिशुद्धेंद्रियेश्वर ।।

सुतीर्थक्षालिताशेषजन्मजातमहामल ।। ३५ ।।

सुहृदि प्रेमसंपन्ने त्वय्यनुद्यं न किंचन ।।

साधुभिः सह संवादः सर्वश्रेयोऽभिवृद्धये ।। ३६ ।।

आसीत्कांपिल्यनगरे सोमयाजिकुलोद्भवः ।।

दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः ।। ३७ ।।

वेदवेदांगवेदार्थान्वेदोक्ताचारचंचुरः ।।

राजमान्यो बहुधनो वदान्यः कीर्तिभाजनम् ।। ३८ ।।

अग्निशुश्रूषणरतो वेदाध्ययनतत्परः ।।

तस्य पुत्रो गुणनिधिश्चंद्रबिंबसमाकृतिः ।। ३९ ।।

कृतोपनयनः सोथ विद्यां जग्राह भूरिशः ।।

अथ पित्रानभिज्ञातो द्यूतकर्मरतोऽभवत् ।। 4.1.13.४० ।।

आदायादाय बहुशो धनं मातुः सकाशतः ।।

ददाति द्यूतकारेभ्यो मैत्री तैश्च चकार सः ।। ४१ ।।

संत्यक्त ब्राह्मणाचारः संध्यास्नानपराङ्मुखः ।।

निंदको वेदशास्त्राणां देवब्राह्मणनिंदकः ।।।४२।।।

स्मृत्याचारविहीनस्तु गीतवाद्यविनोदभाक् ।।

नटपाखंडिभंडैश्च बद्धप्रेमपरंपरः ।। ४३ ।।

प्रेरितोपि जनन्या स न याति पितुरंतिकम् ।।

गृहकार्यांतरव्यग्रो दीक्षितो दीक्षितायिनीम् ।। ४४ ।।

यदा यदैव तां पृच्छेदयेगुणनिधिः सुतः ।।

न दृश्यते मया गेहे क्व याति विदधाति किम् ।। ४५ ।।

तदा तदेति सा ब्रूयादिदानीं स बहिर्गतः ।।

स्नात्वा समर्च्य वै देवानेतावंतमनेहसम् ।। ४६ ।।

अधीत्याध्ययनार्थं स द्वित्रैर्मित्रैः समं ययौ ।।

एकपुत्रेति तन्माता प्रतारयति दीक्षितम् ।। ४७ ।।

न तत्कर्म च तद्वृत्तं किंचिद्वेत्ति स दीक्षितः ।।

स च केशांतकर्मास्य कृत्वा वर्षेऽथ षोडशे ।। ४८ ।।

गृह्योक्तेन विधानेन पाणिग्राहमकारयत् ।।

प्रत्यहं तस्य जननी सुतं गुणनिधिं मृदु ।। ४९ ।।

शास्ति स्नेहार्द्रहृदया क्रोधनस्ते पितेत्यलम् ।।

यदि ज्ञास्यति ते वृत्तं त्वां च मां ताडयिष्यति ।।4.1.13.५०।।

आच्छादयामि ते नित्यं पितुरग्रे कुचेष्टितम् ।।

लोकमान्योस्ति ते तातः सदाचारैर्न वै धनैः ।। ५१ ।।

ब्राह्मणानां धनं पुत्र सद्विद्या साधुसंगमः ।।

सच्छ्रोत्रियास्त्वनूचाना दीक्षिताः सोमयाजिनः ।। ।। ५२ ।।

इति रूढिमिह प्राप्तास्तव पूर्वपितामहाः ।।

त्यक्त्वा दुर्वृत्तसंसर्गं साधुसंगरतो भव ।। ५३ ।।

सद्विद्या सुमनो धेहि ब्राह्मणाचारमाचर ।।

तवानुरूपारूपेण वयसाकुलशीलतः ।। ५४ ।।

ऊनविंशतिकोऽसि त्वमेषा षोडशवार्षिकी ।।

तव पत्नी गुणनिधे साध्वी मधुरभाषिणी ।। ५५ ।।

एतां संवृणु सद्वृत्तां पितृभक्तियुता भव ।।

श्वशुरोपि हि ते मान्यः सर्वत्र गुणशीलतः ।। ५६ ।।

ततोऽपत्रपसे किं न त्यज दुर्वृत्ततां शिशो ।।

मातुलास्तेऽतुलाः पुत्र विद्याशीलकुलादिभिः।। ।। ५७ ।।

तेभ्योपि न बिभेषि त्वं शुद्धोस्युभय वंशतः ।।

पश्यैतान्प्रतिवेश्मस्थान्ब्राह्मणानां कुमारकान् ।। ५८ ।।

गृहेपि शिष्यान्पश्यैतान्पितुस्ते विनयोचितान् ।।

राजापि श्रोष्यति यदा तव दुश्चेष्टितं सुत ।। ५९ ।।

श्रद्धां विहाय ते ताते वृत्तिलोपं करिष्यति ।।

बालचेष्टितमेवैतद्वदंत्यद्यापि ते जनाः ।। 4.1.13.६० ।।

अनंतरं हसिष्यंति युक्तं दीक्षिततास्त्विति ।।

सर्वेप्याक्षारयिष्यंति तव विप्रं च मां च वै ।।६१।।

मातुश्चरित्रं तनयो धत्ते दुर्भाषणैरिति ।।

पिता पितेन पापीयाञ्च्छ्रुतिस्मृतिपथीनकिम् ।। ६२ ।।

तदंघ्रिलीनमनसो मम साक्षी महेश्वरः ।।

न चर्तुस्नातयापीह मुखं दुष्टस्य वीक्षितम् ।।६३।।

अहो बलीयान्सविधिर्येन जाता भवानिति ।।

प्रतिक्षणं जनन्येति शिक्ष्यमाणोतिदुर्मदः ।। ६४ ।।

न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः ।।

मृगया मद्य पैशुन्य वेश्याचौर्यदुरोदरैः ।। ६५ ।।

सपारदारैर्व्यसनैरेभिः कोत्र न खंडितः ।।

यद्यन्मध्ये गृहे पश्येत्तत्तन्नीत्वा सुदुर्मतिः ।। ६६ ।।

अर्पयेद्द्यूतकाराणां सकुप्यं वसनादिकम् ।।

नवरत्नमयीं मातुः करतः पितुरूर्मिकाम ।। ६७ ।।

स्वपंत्यास्त्वेकदाऽऽदाय दुरोदरिकरेऽर्पयत् ।।

एकदा गच्छता राजभवनान्निजमुद्रिका ।। ६८ ।।

दीक्षितेन परिज्ञाता दैवाद्द्यूतकृतः करे ।।

उवाच दीक्षितस्तं च कुतो लब्धा त्वयोर्मिका ।।

पृष्टस्तेनाथ निर्बंधादसकृत्प्रत्युवाच किम् ।। ६९ ।।

ममाक्षिपसि विप्रोच्चैः किं मया चौर्य कर्मणा ।।

लब्धा मुद्रा त्वदीयेन पुत्रेणैषा ममार्पिता ।। 4.1.13.७० ।।

मम मातुर्हि पूर्वे द्युर्जित्वानीतो हि शाटकः ।।

न केवलं ममाप्येतदंगुलीयं समर्पितम् ।। ७१ ।।

अन्येषां द्यूतकर्तृणां भूरि तेनार्पितं वसु ।।

रत्नकुप्यदुकूलानि भृंगारुप्रभृतीनि च ।। ७२ ।।

भाजनानि विचित्राणि कांस्य ताम्रमयानि च ।।

नग्नीकृत्यप्रति दिनं बद्ध्यंते द्यूतकारिभिः ।। ७३ ।।

न तेन सदृशः कश्चिदाक्षिको भूमिमंडले ।।

अद्य यावत्त्वया विप्र दुरोदरशिरोमणिः ।। ७४ ।।

कथं नाज्ञायि तनयो ऽविनयानयकोविदः ।।

इति श्रुत्वा त्रपाभार विनम्रतरकंधरः ।। ७५ ।।

प्रावृत्य वाससा मौलिं प्राविशन्निजमंदिरम् ।।

महापतिव्रतामास्य पत्नीं प्रोवाच तामथ ।। ७६ ।।

दीक्षितायिनि कुत्रासि क्व ते गुणनिधिः सुतः ।।

अथ तिष्ठतु किं तेन क्व सा मम शुभोर्मिका ।। ७७ ।।

अंगोद्वर्तन काले या त्वया मेंऽगुलितो हृता ।।

नवरत्नमयीं शीघ्रं तामानीय प्रयच्छ मे ।। ७८ ।।

इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायिनी ।।

प्रोवाच सा तु माध्याह्नीं क्रियां निष्पादयत्वथ ।। ७९ ।।

व्यग्रास्मि देवपूजार्थमुपहारादि कर्मणि ।।

समयोयमतिक्रामेदतिथीनां प्रियातिथे ।। 4.1.13.८० ।।

इदानीमेव पक्वान्नकरणव्यग्रया मया ।।

स्थापिता भाजने क्वापि विस्मृतेति न वेद्म्यहम् ।। ८१ ।।

दीक्षित उवाच ।। ।।

हंहो सत्पुत्रजननि नित्यं सत्यप्रभाषिणि ।।

यदायदा त्वां संपृच्छे तनयः क्व गतस्त्विति ।। ८२ ।।

तदातदेति त्वं ब्रूया नाथेदानीं स निर्गतः ।।

अधीत्याध्ययनार्थं च द्वित्रैर्मित्रैः सयुग्बहिः ।। ८३ ।।

कुतस्त्वच्छाटकः पत्नि मांजिष्ठो यो मयाऽर्पितः ।।

लंबते वस्त्रधान्यांयस्तथ्यं ब्रूहि भयं त्यज ।। ८४ ।।

सांप्रतं नेक्ष्यते सोपि भृंगारुर्मणिमंडितः ।।

पट्टसूत्रमयीसापि त्रिपटी क्व नृपार्पिता ।। ८५ ।।

क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा ।।

नागदंतमयी सा क्व सुखकौतुकमंचिका ।। ८६ ।।

क्व सा पर्वतदेशीया चंद्रकांतशिलोद्भवा ।।

दीपिका व्यग्रहस्ताग्रा सालंकृच्छालभंजिका ।। ८७ ।।

किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा ।।

तदाभ्यवहरिष्येहमुपयंस्याम्यहं यदा ।। ८८ ।।

अनपत्योस्मि तेनाहं दुष्टेन कुलदूषिणा ।।

उत्तिष्ठानय दर्भांबु तस्मै दद्यां तिलांजलिम् ।। ८९ ।।

अपुत्रत्वं वरं नृणां कुपुत्रात्कुलपांसनात् ।।

त्यजेदेकं कुलस्यार्थे नीतिरेषा सनातनी ।। 4.1.13.९० ।।

स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्निकस्यचित् ।।

श्रोत्रियस्य सुतां प्राप्य पाणिं जग्राह दीक्षितः ।। ९१ ।।

श्रुत्वा तथा स वृत्तांतं प्राक्तनं स्वं विनिंद्य च ।।

कांचिद्दिशं समालोच्य निर्ययौ दीक्षितांगजः ।।९२।।

चिंतामवाप महतीं क्व यामि करवाणि किम् ।।

नाहमभ्यस्तविद्योस्मि न चैवास्ति धनोस्म्यहम् ।। ९३ ।।

देशांतरे ह्यस्ति धनः सद्विद्यः सुखमेधते ।।

भयमस्ति धने चौरात्सविद्यः सर्वतोऽभयः ।। ९४ ।।

यायजूके कुले जन्म क्वक्व मे व्यसनं तथा ।।

अहो बलीयान्स विधिर्भाविकर्मानुसंधयेत् ।।९५।।

भिक्षितुं नाधिगच्छामि न मे परिचितः क्वचित् ।।

न च पार्श्वे धनं किंचित्किमत्र शरणं भवेत् ।। ९६ ।।

सदाभ्युदिते भानौ प्रसूर्मे मृष्टभोजनम्।।

दद्यादद्यात्र कं याचे याचेह जननी न मे ।।९७।।

इति चिंतयतस्तस्य भानुरस्ताचलं गतः ।।

एतस्मिन्नेव समये कश्चिन्माहेश्वरो नरः।।९८।।

महोपहारानादाय नगराद्बहिरभ्यगात् ।।

समभ्यर्चितुमीशानं शिवरात्रावुपोषितः ।। ९९ ।।

पक्वान्नगंधमाघ्राय क्षुधितः स तमन्वगात् ।।

इदमन्नं मया ग्राह्यं शिवायोपस्कृतं निशि ।। 4.1.13.१०० ।।

इत्याशामवलंब्याथ द्वारि शंभोरुपाविशत् ।।

ददर्श च महापूजां तेन भक्तेन निर्मिताम् ।। १ ।।

विधाय नृत्यगीतादि भक्ताः सुप्ताः क्षणं यदा ।।

नैवेद्यं स तदाऽऽदातुं गर्भागारं विवेश ह ।। २ ।।

दीपं मंदप्रभं दृष्ट्वा पक्वान्नावेक्षणाय सः ।।

निजचैलांचलाद्वर्तिं दत्त्वा समुददीपयत् ।। ३ ।।

ततः पक्कान्नमादाय त्वरितं गच्छतो बहिः ।।

तस्य पादतलाघातात्प्रसुप्तः कोप्यबुध्यत ।। ४ ।।

कोयंकोयं त्वरापन्नश्चोरोयं गृह्यतामिति ।।

यावद्भूयात्समागत्य तावत्स पुररक्षकैः ।। ५ ।।

पलायमानो निहतः क्षणात्पंचत्वमागतः ।।

अभक्षयच्च नैवेद्यं भाविपुण्यबलान्न सः ।। ६ ।।

अथ बद्धः समागत्य पाशमुद्गरपाणिभिः ।।

निनीषुभिः सयमिनीं यामैः स विकटैर्भटैः ।। ७ ।।

तावत्पारिषदाः प्राप्ताः किंकिणीजालमालितम् ।।

दिव्यंविमानमादाय तं नेतुं शूलपाणयः ।। ८ ।।

शंभोर्गणान्समालोक्य भीतैस्तैर्यमकिंकरैः ।।

अवादिप्रणतैरित्थं दुर्वृत्तोयं गणा द्विजः ।। ९ ।।

कुलाचारप्रतीपोयं पित्रोर्वाक्यपराङ्मुखः ।।

सत्यशौचपरिभ्रष्टःसंध्यास्नानविवर्जितः ।। 4.1.13.११० ।।

आस्तां दूरेऽस्य कर्माणि शिवनिर्माल्यहारकः ।।

प्रत्यक्षतोऽत्र वीक्षध्वमस्पृश्योयं भवादृशाम् ।। ११ ।।

शिवनिर्माल्यभोक्तारः शिवनिर्माल्यलंघकाः(?) ।।

शिवनिर्माल्यदातारः स्पर्शस्तेषां ह्यपुण्यकृत् ।।१२।।

विषमालोड्य वापे यं श्रेयोवाऽनशनं परम् ।।

सेवितव्यं शिवस्वं न प्राणः कंठगतैरपि ।। १३ ।।

यूयं प्रमाणं धर्मेषु यथा न च तथा वयम् ।।

अस्ति चेद्धर्मलेशोस्य गणास्तच्छृणुमो वयम् ।। १४ ।।

इत्थं तद्वाक्यमाकर्ण्य प्रोचुः पारिषदास्ततः ।।

किंकराः शिवधर्मा ये सूक्ष्मास्ते वै भवादृशैः ।। १५ ।।

स्थूललक्ष्यैः कथं लक्ष्या लक्ष्या ये सूक्ष्मदृष्टिभिः ।।

अनेनानेन सा कर्म यत्कृतं शृणुतेह तत् ।। १६ ।।

पतंती लिंगशिरसि दीपच्छाया निवारिता ।।

स्वचैलांचलतोऽनेन दत्त्वादीपे दशां निशि ।।१७।।

अपरोपि परो धर्मो जातस्तत्रास्य किंकराः ।।

शृण्वता शिवनामानि प्रसंगादपिगृह्णतः ।। १८ ।।

भक्तेन विधिना पूजा क्रियमाणा निरीक्षिता ।।

उपोषिते न भूतायामनेन स्थिरचेतसा ।। १९ ।।

कलिंगराजोभविताऽधुनाविधुतकल्मषः ।।

एष द्विजवरो दूता यूयं यात यथागताः ।। 4.1.13.१२० ।।

पार्षदैर्यमदूतेभ्यो मोचितस्त्विति स द्विजः ।।

अरिंदमस्य तनयः कलिंगाधितेर्दमः ।। २१ ।।

क्रमाद्राज्यमवाप्याथ पितर्युपरते युवा ।।

नान्यं धर्मं विजानाति दुर्दमो भूपतिर्दमः ।।२२।।

शिवालयेषु सर्वेषु दीपदानादृते द्विज।।

ग्रामाधीशान्समाहूय सर्वान्त्स्वविषयस्थितान् ।।२३।।

इत्थमाज्ञापयामास स मे दंड्यो भविष्यति ।।

यस्य यस्याभितो ग्रामं यावंतश्च शिवालयाः ।। २४ ।।

तत्र तत्र सदा दीपो द्योतनीयोऽविचारितम् ।।

ममाज्ञाभंगदोषेण शिरश्छेत्स्याम्यसंशयम् ।। २५ ।।

इति तद्भयतो दीप्ता दीपाः प्रति शिवालयम् ।।

अनेनैव स धर्मेण यावज्जीवं दमो नृपः ।। २६ ।।

धर्मर्द्धि महतीं प्राप्य कालधर्मवशं गतः ।।

सदीपवासनायागोद्बहून्दीपान्प्रदीप्य वै ।। २७ ।।

अलकायाः पतिरभूद्रत्नदीपशिखाश्रयः ।।

एवं फलति कालेन शिवेऽल्पमपि यत्कृतम् ।। २८ ।।

इति ज्ञात्वा शिवे कार्यं भजनं स्वसुखार्थिभिः ।।

क्व स दीक्षितदायादः सर्वधर्म पराङ्मुखः ।। २९ ।।

स्वार्थदीपदशोद्योत लिंगमौलि तमोहरः ।।

कलिंगविषये राज्यं प्राप्तो धर्मरतिः सदा ।। 4.1.13.१३० ।।

शिवालये समुद्दीप्य दीपान्प्राग्वासनोदयात् ।।

क्वैषा दिक्पालपदवी शिवशर्मन्विलोकय ।।

मनुष्यधर्मणानेन सांप्रतं येह भुज्यते ।। ३१ ।।

गणावूचतुः ।। ।।

सर्वदैव शिवेनासौ सखित्वं च यथेयिवान् ।।

तदप्येकमना विप्र संशृणुष्व ब्रवावहै ।। ३२ ।।

पाद्मे कल्पे पुरा विप्र ब्रह्मणो मानसात्सुतात् ।।

पुलस्त्याद्विश्रवा जज्ञे तस्य वैश्रवणः सुतः।।३३।।

तेनेयमलका भुक्ता पुरी विश्वकृता कृता ।।

आराध्यं त्र्यंबकं देवमत्युग्रतपसा पुरा ।। ३४ ।।

व्यतीते तत्र कल्पे वै प्रवृत्ते मेघवाहने ।।

याज्ञदत्तिरसौश्रीदस्तपस्तेपे सुदुःसहम् ।। ३५ ।।

भक्तिप्रभावं विज्ञाय शंभोस्तद्दीपमात्रतः ।।

पुरीं पुरारेः संप्राप्य काशिकां चित्प्रकाशिकाम् ।। ३६ ।।

शिवैकदशमुद्बोध्य चित्ररत्नप्रदीपकम् ।।

अनन्यभक्तिस्नेहाढ्यं तन्महोध्याननिश्चलम् ।। ३७ ।।

शिवैक्यसुमहापात्रं तपोग्निपरिबृंहितम् ।।

कामक्रोधमहाविघ्नपतंगाघातवर्जितम् ।। ३८ ।।

प्राणसंरोधनिर्वातं निर्मलं निर्मलेक्षणात्।।

संस्थाप्य शांभवं लिंगं सद्भावकुसुमार्चितम् ।।३९।।

तावत्तताप स तपस्त्वगस्थिपरिशेषितम्।।

यावद्बभूव तद्वर्ष्म वर्षाणामयुतं शतम्।।4.1.13.१४०।।

ततः सह विशालाक्ष्या देवो विश्वेश्वरः स्वयम् ।।

अलकापतिमालोक्य प्रसन्नेनांतरात्मना ।। ४१ ।।

लिंगे मनः समाधाय स्थितं स्थाणुस्वरूपिणम् ।।

उवाच वरदोस्मीति तप्त्वालमलकापते ।। ४२ ।।

उन्मील्य नयने यावत्स पश्यति तपोधनः ।।

तावदुद्यत्सहस्रांशु सहस्राधिक तेजसम् ।। ४३ ।।

पुरो ददर्श श्रीकंठं चंद्रचूडमुमाधवम् ।।

तत्तेजः परिभूताक्षितेजाः संमील्य लोचने ।। ४४ ।।

उवाच देवदेवेशं मनोरथपथातिगम् ।।

निजांघ्रिदर्शनेनाथ दृक्सामर्थ्यं प्रयच्छ मे ।।४५।।

अयमेव वरो नाथ यत्त्वं साक्षान्निरीक्ष्यसे ।।

किमन्येन वरेणेश नमस्ते शशिशेखर ।। ४६ ।।

इति तद्वचनं श्रुत्वा देवदेव उमापतिः ।।

ददौ दर्शनसामर्थ्यं स्पृष्ट्वा पाणितलेन तम् ।। ४७ ।।

प्रसार्य नयने पूर्वमुमामेव व्यलोकयत् ।।

शंभोः समीपे कायोषिदेषा सर्वांगसुंदरी ।। ४८ ।।

अनया किंतपस्तप्तं ममापि तपसोधिकम् ।।

अहो रूपमहो प्रेम सौभाग्यश्रीरहो भृशम् ।। ४९ ।।

क्रूरदृग्वीक्षते यावत्पुनःपुनरिदं वदन् ।।

तावत्पुस्फोट तन्नेत्रं वामं वामा विलोकनात ।। 4.1.13.१५० ।।

अथ देव्यब्रवीद्देवं किमसौ दुष्टतापसः ।।

असकृद्वीक्ष्य मां वक्ति न्यक्कुर्वन्मे तपःप्रभाम् ।। ५१ ।।

असकृद्दक्षिणेनाक्ष्णा पुनर्मामेवपश्यति ।।

असूयमानो मे रूपं प्रेमसौभाग्यसंपदः ।। ५२ ।।

इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः ।।

उमे त्वदीयः पुत्रोयं न च क्रूरेण चक्षुषा ।। ५३ ।।

संपश्यते तपो लक्ष्मीं तव किं त्वधिवर्णयेत् ।।

इति देवीं समाभाष्य तमीशः पुनरब्रवीत् ।। ५४ ।।

वरान्ददामि ते वत्स तपसानेन तोषितः ।।

निधीनामधिनाथस्त्वं गुह्यकानां भवेश्वरः ।। ५५ ।।

यक्षाणां किन्नराणां च राजा राज्ञां च सुव्रत ।।

पतिः पुण्यजनानां च सर्वेषां धनदो भव ।। ५६ ।।

मया सख्यं च ते नित्यं वत्स्यामि च तवांतिके ।।

अलकां निकषामित्र तव प्रीतिविवृद्धये ।। ५७ ।।

आगच्छ पादयोरस्याः पत ते जननी त्वियम् ।।

इति दत्त्वा वरान्देवः पुनराह शिवां शिवः ।।

प्रसादं कुरु देवेशि तपस्विन्यंगजेऽत्र वै ।। ५८ ।।

देव्युवाच ।। ।।

वत्स ते निश्चला भक्तिर्भवे भवतु सर्वदा ।।

भवैकांषेंगो(?)गोनेत्रेण वामेन स्फुटितेन ह ।। ५९ ।।

देवेन दत्ता ये तुभ्यं वराः संतु तथैव ते ।।

कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत ।। 4.1.13.१६० ।।

त्वयेदं स्थापितं लिंगं तव नाम्ना भविष्यति ।।

सिद्धिदं साधकानां च सर्वपापहरं परम् ।। ६१ ।।

न धनेन वियुज्येत न सख्या न च बांधवैः ।।

कुबेरेश्वरलिंगस्य कुर्याद्यो दर्शनं नरः ।। ६२ ।।

विश्वेशाद्दक्षिणेभागे कुबेरेशं समर्चयेत् ।।

नरो लिप्येत नो पापैर्न दारिद्र्येण नोऽसुखैः ।। ६३ ।।

इति दत्त्वा वरान्देवो देव्या सह महेश्वरः ।।

धनदाया विवेशाथ धाम वैश्वेश्वरं परम् ।। ६४ ।।

।। गणावूचतुः ।।

इत्थं सखित्वं श्रीशंभोः प्रापैष धनदः परम् ।।

अलकां निकषाचैष कैलासः शंकरालयः ।। ६५ ।।

पुर्यां यक्षेश्वराणां ते स्वरूपमिति वर्णितम् ।।

यच्छ्रुत्वा सर्वपापेभ्यो नरो मुच्येदसंशयम् ।।१६६।। ।।

इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे गंधवत्यलकावर्णनं नाम त्रयोदशोध्यायः ।। १३ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 14

।। गणावूचतुः ।।

अलकायाः पुरोभागे पूरैशानीमहोदया ।।

अस्यां वसंति सततं रुद्रभक्तास्तपोधनाः ।।१।।

शिवस्मरणसंसक्ताः शिवव्रतपरायणाः ।।

शिवसात्कृतकर्माणः शिवपूजारताः सदा ।।२।।

साभिलाषास्तपस्यंति स्वर्गभोगोस्त्वितीह नः ।।

तेऽत्र रुद्रपुरे रम्ये रुद्ररूपधरा नराः ।। ३ ।।

अजैकपादहिर्बुध्न्य मुख्या एकादशापि वै ।।

रुद्राः परिवृढाश्चात्र त्रिशूलोद्यतपाणयः ।। ४ ।।

पुर्यष्टकं च दुष्टेभ्यो देवध्रुग्भ्यो ह्यवंति ते ।।

प्रयच्छंति वरान्नित्यं शिवभक्तजने वराः ।। ५ ।।

एतैरपि तपस्तप्तं प्राप्य वाराणसीं पुरीम् ।।

ईशानेशं महालिंगं परिस्थाप्य शुभप्रदम् ।। ६ ।।

ईशानेश प्रसादेन दिश्यैश्यां हि दिगीश्वराः ।।

एकादशाप्येकचरा जटामुकुटमंडिताः ।। ७ ।।

भालनेत्रा नीलगलाः शुद्धांगा वृषभध्वजाः ।।

असंख्याताः सहस्राणि ये रुद्रा अधिभूतलम् ।। ८ ।।

तेऽस्यां पुरि वसंत्यैश्यां सर्वभोगसमृद्धयः ।।

ईशानेशं समभ्यर्च्य काश्यां देशांतरेष्वपि ।। ९ ।।

विपन्नास्तेन पुण्येन जायंते ऽत्रपुरोहिताः ।।

अष्टम्यां च चतुर्दश्यामीशानेशं यजंति ये ।। 4.1.14.१० ।।

त एव रुद्रा विज्ञेया इहामुत्राप्यसंशयम् ।।

कृत्वा जागरणं रात्रावीशानेश्वर संनिधौ ।।११।।

उपोष्यभूतांयांकांचिन्न नरो गर्भभाक्पुनः ।।

स्वर्गमार्गे कथामित्थं शृण्वन्विष्णुगणोदिताम् ।। १२ ।।

शिवशर्मा दिवाप्युच्चैरपश्यच्चंद्रचंद्रिकाम् ।।

आह्लादयंतीं बहुशः समं सर्वेंद्रियैर्मनः ।। १३ ।।

चमत्कृत्य चमत्कृत्य कोयं लोको हरेर्गणौ ।।

पप्रच्छ शिवशर्मा तौ प्रोचतुस्तं च तौ द्विजम् ।। १४ ।।

गणावूचतुः ।। ।।

शिवशर्मन्महाभाग लोक एष कलानिधेः ।।

पीयूषवर्षिभिर्यस्य करैराप्याय्यते जगत् ।। १५ ।।

पिता सोमस्य भो विप्र जज्ञेऽत्रिर्भगवानृषिः ।।

ब्रह्मणो मानसात्पूर्वं प्रजासर्गं विधित्सतः ।। १६ ।।

अनुत्तरं नाम तपो येन तप्तं हि तत्पुरा ।।

त्रीणिवर्षसहस्राणि दिव्यानीतीह नौ श्रुतम् ।। १७ ।।

ऊर्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवत् ।।

नेत्राभ्यां तच्च सुस्राव दशधा द्योतयद्दिशः ।। १८ ।।

तं गर्भं विधिना दिष्टा दश देव्यो दधुस्ततः ।।

समेत्य धारयामासुर्नैव ताः समशक्नुवन् ।। १९ ।।

यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः ।।

ततस्ताभिः सजूः सोमो निपपात वसुंधराम् ।।4.1.14.२०।।

पतितं सोममालोक्य ब्रह्मा लो कपितामहः ।।

रथमारोपयामास लोकानां हितकाम्यया ।।२१।।

स तेन रथमुख्येन सागरांतां वसुंधराम् ।।

त्रिःसप्तकृत्वो द्रुहिणश्चकारामुं प्रदक्षिणम् ।।२२।।

तस्य यत्प्लवितं तेजः पृथिवीमन्वपद्यत ।।

तथौषध्यः समुद्भूता याभिः संधार्यते जगत् ।। २३ ।।

सलब्धतेजा भगवान्ब्रह्मणा वर्धितः स्वयम् ।।

तपस्तेपे महाभाग पद्मानां दशतीर्दश ।। २४ ।।

अविमुक्तं समासाद्य क्षेत्रं परमपावनम् ।।

संस्थाप्य लिंगममृतं चंद्रेशाख्यं स्वनामतः ।। २५ ।।

बीजौषधीनां तोयानां राजाभूदग्रजन्मनाम् ।।

प्रसादाद्देवदेवस्य विश्वेशस्य पिनाकिनः ।। २६ ।।

तत्र कूपं विधायैकममृतोदमिति स्मृतम् ।।

यस्यांबुपानस्नानाभ्यां नरोऽज्ञातात्प्रमुच्यते ।। २७ ।।

तुष्टेनदेवदेवेन स्वमौलौ यो धृतः स्वयम् ।।

आदाय तां कलामेकां जगत्संजविनीं पराम् ।।२८।।

पश्चाद्दक्षेण शप्तोपि मासोने क्षयमाप्य च ।।

आप्याय्यतेसौ कलया पुनरेव तया शशी ।। २९ ।।

स तत्प्राप्य महाराज्यं सोमः सोमवतां वरः ।।

राजसूयं समाजह्रे सहस्रशतदक्षिणम् ।। 4.1.14.३० ।।

दक्षिणामददत्सोमस्त्रींल्लोकानिति नौ श्रुतम् ।।

तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भो द्विज ।। ३१ ।।

हिरण्यगर्भो ब्रह्माऽत्रिर्भृगुर्यत्रर्त्विजोभवन् ।।

सदस्योभूद्धरिस्तत्र मुनिभिर्बहुभिर्युतः ।। ३२ ।।

तंसिनी च कुहूश्चैव द्युतिः पुष्टिः प्रभावसुः ।।

कीर्तिर्धृतिश्च लक्ष्मीश्च नवदेव्यः सिषेविरे ।। ३३ ।।

उमया सहितं रुद्रं संतर्प्याध्वरकर्मणा ।।

प्राप सोम इति ख्यातिं दत्तां सोमेन शंभुना ।। ३४ ।।

तत्रैव तप्तवान्सोमस्तपः परमदुष्करम् ।।

तत्रैव राजसूयं च चक्रे चंद्रेश्वराग्रतः ।। ३५ ।।

तत्रैव ब्राह्मणैः प्रीतैरित्युक्तोसौ कलानिधिः ।।

सोमोस्माकं ब्राह्मणानां राजा त्रैलोक्यदक्षिणः ।। ३६ ।।

तत्रैव देवदेवस्य विलोचनपदं गतः ।।

देवेन प्रीतमनसा त्रैलोक्याह्लादहेतवे ।। ३७ ।।

त्वं ममास्य परामूर्तिरित्युक्तस्तत्तपोबलात् ।।

जगत्तवोदयं प्राप्य भविष्यति सुखोदयम् ।। ३८ ।।

त्वत्पीयूषमयैर्हस्तैः स्पृष्टमेतच्चराचरम् ।।

भानुतापपरीतं च परा ग्लानिं विहास्यति ।। ३९ ।।

एतदुक्त्वा महेशानो वरानन्यानदान्मुदा ।।

द्विजराजतपस्तप्तं यदत्युग्रं त्वयात्र वै ।। 4.1.14.४० ।।

यच्च क्रतु क्रियोत्सर्गस्त्वया मह्यं निवेदितः ।।

स्थापितं यत्त्विदं लिंगं मम चंद्रेश्वराभिधम् ।। ४१ ।।

ततोत्र लिंगे त्वन्नाम्नि सोमसोमार्धरूपधृक् ।।

प्रतिमासं पंचदश्यां शुक्लायां सर्वगोप्यहम् ।। ।। ४२ ।।

अहोरात्रं वसिष्यामि त्रैलोक्यैश्वर्यसंयुतः ।।

ततोत्र पूर्णिमायां तु कृता स्वल्पापि सत्क्रिया ।। ४३ ।।

जपहोमार्चनध्यानदानब्राह्मणभोजनम् ।।

महापूजा च सा नूनं मम प्रीत्यै भविष्यति ।। ४४ ।।

जीर्णोद्धारादिकरणं नृत्यवाद्यादिकार्पणम् ।।

ध्वजारोपणकर्मादि तपस्वियतितपर्णम् ।। ४५ ।।

चंद्रेश्वरे कृतं सर्वं तदानंत्याय जायते ।।

अन्यच्च ते प्रवक्ष्यामि शृणु गुह्यं कलानिधे ।। ४६ ।।

अभक्ताय च नाख्येयं नास्तिकाय श्रुतिद्रुहे ।।

अमावास्या यदा सोम जायते सोमवासरे ।। ४७ ।।

तदोपवासः कर्तव्यो भूतायां सद्भिरादरात् ।।

कृतनित्यक्रियः सोम त्रयोदश्यां निशामय ।। ४८ ।।

शनिप्रदोषे संपूज्य लिंगं चंद्रेश्वराह्वयम् ।।

नक्तं कृत्वा त्रयोदश्यां नियमं परिगृह्य च ।। ४९ ।।

उपोष्य च चतुर्दश्यां कृत्वा जागरणं निशि ।।

प्रातः सोमकुहूयोगे स्नात्वा चंद्रोदवारिभिः ।।4.1.14.५०।।

उपास्य संध्यां विधिवत्कृतसर्वोदक क्रियः ।।

उपचंद्रोदतीर्थेषु श्राद्धं विधिवदाचरेत् ।।५१।।

आवाहनार्घ्यरहितं पिंडान्दद्यात्प्रयत्नतः ।।

वसुरुद्रादितिसुतस्वरूपपुरुषत्रयम् ।।५२।।

मातामहांस्तथोद्दिश्य तथान्यानपि गोत्रजान् ।।

गुरुश्वशुरबंधूनां नामान्युच्चार्य पिंडदः ।। ५३ ।।

कुर्वञ्छ्राद्धं च तीर्थेस्मिञ्छ्रद्धयोद्धरतेखिलान् ।।

गयायां पिंडदानेन यथा तुप्यंति पूर्वजाः ।। ५४ ।।

तथा चंद्रोदकुंडेऽत्र श्राद्धैस्तृप्यंति पूर्वजाः ।।

गयायां च यथा मुच्येत्सर्वर्णात्पितृजान्नरः ।। ५५ ।।

तथा प्रमुच्यते चर्णाच्चंद्रोदे पिण्डदानतः ।।

यदा चंद्रेश्वरं द्रष्टुं यायात्कोपि नरोत्तमः।।५६।।

तदा नृत्यंति मुदितास्तत्पूर्वप्रपितामहाः।।

अयं चंद्रोदतीर्थेस्मिंस्तर्पणं नः करिष्यति ।। ५७।।

अस्माकं मंदभाग्यत्वाद्यदि नैव करिष्यति।।

तदातत्तीर्थ संस्पर्शादस्मत्तृप्तिर्भविष्यति।। ५८।।

स्पृशेन्नापि यदा मंदस्तदा द्रक्ष्यति तृप्तये।।

एवं श्राद्धं विधायाथ स्पृष्ट्वा चंद्रेश्वरं व्रती।।

संतर्प्य विप्रांश्च यतीन्कुर्याद्वै पारणं ततः।।५९।।

एवं व्रते कृते काश्यां सदर्शे सोमवासरे।।

भवेदृणत्रयान्मुक्तो मृगांकमदनुग्रहात् ।। 4.1.14.६० ।।

अत्र यात्रा महाचैत्र्यां कार्या क्षेत्रनिवासिभिः ।।

तारकज्ञानलाभाय क्षेत्रविघ्ननिवर्तिनी ।। ६१ ।।

चंद्रेश्वरं समभ्यर्च्य यद्यन्यत्रापि संस्थितः ।।

अघौघपटलीं भित्त्वा सोमलोकमवाप्स्यति ।।६२।।

कलौ चंद्रेशमहिमा नाभाग्यैरवगम्यते।।

अन्यच्च ते प्रवक्ष्यामि परं गुह्यं निशापते ।। ६३।।

सिद्धयोगीश्वरं पीठमेतत्साधकसिद्धिदम् ।।

सुरासुरेषु गंधर्व नागविद्याधरेष्वपि ।। ६४ ।।

रक्षोगुह्यकयक्षेषु किंनरेषु नरेषु च ।।

सप्तकोट्यस्तु सिद्धानामत्र सिद्धा ममाग्रतः ६५।।

षण्मासं नियताहारो ध्यायन्विश्वेश्वरीमिह।।

चंद्रेश्वरार्चनायातान्सिद्धान्पश्यति सोऽग्रगान्।।६६।।

सिद्धयोगीश्वरी साक्षाद्वरदा तस्य जायते ।।

तवापि महती सिद्धिः सिद्धयोगीश्वरीक्षणात्।। ६७।।

संति पाठान्यनेकानि क्षितौ साधकसिद्धये।।

परं योगीश्वरी पीठाद्भूपृष्ठेनाशु सिद्धिदम्।। ६८ ।।

यत्र चंद्रेश्वरं लिंगं त्वयेदं स्थापितं शशिन्।।

इदमेव हि तत्पीठमदृश्यमकृतात्मभिः।। ६९।।

जितकामा जितक्रोधा जितलोभस्पृहास्मिताः।।

योगीश्वरीं प्रपश्यंति मम शक्तिपरां हिताम् ।। 4.1.14.७० ।।

ये तु प्रत्यष्टमि जनास्तथा प्रति चतुर्दशि ।।

सिद्धयोगीश्वरीपीठे पूजयिष्यंति भाविताः ।। ७१ ।।

अदृष्टरूपां सुभगां पिंगलां सर्वसिद्धिदाम् ।।

धूपनैवेद्यदीपाद्यैस्तेषामाविर्भविष्यति ।। ७२ ।।

इति दत्त्वा वराञ्छंभुस्तस्मै चंद्रमसे द्विज ।।

अंतर्हितो महेशानस्तत्र वैश्वेश्वरे पुरे ।। ७३ ।।

तदारभ्य च लोकेऽस्मिन्द्विजराजोधिपोभवत् ।।

दिशोवितिमिराः कुर्वन्निजैः प्रसृमरैः करैः ।। ७४ ।।

सोमवारव्रतकृतः सोमपानरता नराः ।।

सोमप्रभेणयानेन सोमलोकं व्रजंति हि ।। ।। ७५ ।।

चंद्रेश्वरसमुत्पत्तिं तथा चांद्रमसं तपः ।।

यः श्रोष्यति नरो भक्त्या चंद्रलोके स इज्यते ।। ७६ ।।

अगस्तिरुवाच ।। ।।

शिवशर्मणि शर्मकारिणीं प थि दिव्ये श्रमहारिणीं गणौ ।।

कथयंतौ तु कथामिमां शुभामुडुलोकं परिजग्मतुस्ततः ।। ७७ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सोमलोकवर्णनं नाम चतुर्दशोऽध्यायः ।।१४।।

खण्डः ४ (काशीखण्डः) — Adhyāya 15

अगस्तिरुवाच ।।

शृणु पत्नि महाभागे लोपामुद्रे सधर्मिणि ।।

कथा विष्णुगणाभ्यां च कथितां शिवशर्मणे ।। १ ।।

शिवशर्मोवाच ।।

अहो गणौ विचित्रेयं श्रुता चांद्रमसी कथा ।।

उडुलोककथां ख्यातं विष्वगाख्यानकोविदौ ।। २ ।।

गणावूचतुः ।।

पुरा सिसृक्षतः सृष्टिं स्रष्टुरंगुष्ठपृष्ठतः ।।

दक्षः प्रजाविनिर्माणे दक्षो जातः प्रजापतिः।।

षष्टिर्दुहितरस्तस्य तपोलावण्यभूषणाः ।।

सर्वलावण्यरोहिण्यो रोहिणीप्रमुखाः शुभाः ।। ४ ।।

ताभिस्तप्त्वा तपस्तीव्रं प्राप्य वैश्वेश्वरीं पुरीम् ।।

आराधितो महादेवः सोमः सोमविभूपणः ।। ५ ।।

यदा तुष्टोयमीशानो दातुं वरमथाययौ ।।

उवाच च प्रसन्नात्मा याचध्वं वरमुत्तमम् ।। ६ ।।

शंभोर्वाक्यमथाकर्ण्य ऊचुस्ताश्च कुमारिकाः ।।

यदि देयो वरोऽस्माकं वरयोग्याः स्म शंकर ।। ७ ।।

भवतोपि महादेव भवतापहरो हि यः ।।

रूपेण भवता तुल्यः स नो भर्ता भवत्विति ।। ८ ।।

लिंगं संस्थाप्य सुमहन्नक्षत्रेश्वर संज्ञितम् ।।

वारणायास्तटे रम्ये संगमेश्वरसन्निधौ। ।। ९ ।।

दिव्यं वर्ष सहस्रं तु पुरुषायितसंज्ञितम् ।।

तपस्तप्तं महत्ताभिः पुरुषैरपि दुष्करम् ।। 4.1.15.१० ।।

ततस्तुष्टो हि विश्वेशो व्यतरद्वरमुत्तमम् ।।

सर्वासामेकपत्नीनामकत्रे(?) स्थिरचेतसाम् ।। ११ ।।

श्री विश्वेश्वर उवाच ।। ।।

न क्षांतं हि तपोत्युग्रमेतदन्याभिरीदृशम् ।।

पुराऽबलाभिस्तस्माद्वो नाम नक्षत्रमत्र वै ।। १२ ।।

पुरुषायितसंज्ञेन तप्तं यत्तपसाधुना ।।

भवतीभिस्ततः पुंस्त्वमिच्छया वो भविष्यति ।। १३ ।।

ज्योतिश्चक्रे समस्तेऽस्मिन्नग्रगण्या भविष्यथ ।।

मेषादीनां च राशीनां योनयो यूयमुत्तमाः ।। १४ ।।

ओषधीनां सुधायाश्च ब्राह्मणानां च यः पतिः ।।

पतिमत्यो भवत्योपि तेन पत्या शुभाननाः।। १५ ।।

भवतीनामिदं लिंगं नक्षत्रेश्वर संज्ञितम् ।।

पूजयित्वा नरो गंता भवतीलोकमुत्तमम् ।। १६ ।।

उपरिष्टान्मृगांकस्य लोको वस्तु भविष्यति ।।

सर्वासां तारकाणां च मध्ये मान्या भविष्यथ ।। १७ ।।

नक्षत्रपूजका ये च नक्षत्रव्रतचारिणः ।।

ते वो लोके वसिष्यंति नक्षत्र सदृशप्रभाः ।। १८ ।।

नक्षत्रग्रहराशीनां बाधास्तेषां कदाचन ।।

न भविष्यंति ये काश्यां नक्षत्रेश्वरवीक्षकाः ।। १९ ।।

अगस्त्य उवाच ।। ।।

अतिथित्वमवाप नेत्रयोर्बुधलोकः शिवशर्मणस्त्वथ ।।

गणयोर्भगणस्य संकथां कथयित्रो रिति विष्णुचेतसोः ।। 4.1.15.२० ।।

शिवशर्मोवाच ।। ।।

कस्य लोकोयमतुलो ब्रूतं श्रीभगवद्गणौ ।।

पीयूषभानोरिव मे मनः प्रीणयतेतराम् ।। २१ ।।

।। गणावूचतुः ।। ।।

शिवशर्मञ्छृणु कथामेतां पापापहारिणीम्।।

स्वर्गमार्गविनोदाय तापत्रयविनाशिनीम् ।। २२ ।।

योसौ पूर्वं महाकांतिरावाभ्यां परिवर्णितः ।।

साम्राज्यपदमापन्नो द्विजराजस्तवाग्रतः ।। २३ ।।

दक्षिणा राजसूयस्य येन त्रिभुवनं कृता ।।

तपस्तताप योत्युग्रं पद्मानां दशतीर्दश ।।२४।।

अत्रिनेत्रसमुद्भूतः पौत्रो वै द्रुहिणस्य यः ।।

नाथः सर्वौषधीनां च ज्योतिषां पतिरेव च ।। २५ ।।

निर्मलानां कलानां च शेवधिर्यश्च गीयते ।।

उद्यन्परोपतापं यः स्वकरैर्गलहस्तयेत् ।। २६ ।।

मुदंकुमुदिनीनांयस्तनोति जगता सह ।।

दिग्वधू चारु शृंगारदर्शनादर्शमंडलः ।। २७ ।।

किमन्यैर्गुणसंभारैरतोपि न समं विधोः ।।

निजोत्तमांगे सर्वज्ञः कलां यस्यावतंसयेत् ।। २८ ।।

बृहस्पतेस्स वै भार्यामैश्वर्यमदमोहितः ।।

पुरोहितस्यापिगुरोर्भ्रातुरांगिरसस्य वै ।। २९ ।।

जहार तरसा तारां रूपवान्रूपशालिनीम्।।

वार्यमाणोपि गीर्वाणैर्बहुदेवर्षिभिः पुनः ।। 4.1.15.३० ।।

नायं कलानिधेर्दोषो द्विजराजस्य तस्य वै ।।

हित्वा त्रिनेत्रं कामेन कस्य नो खडितं मनः ।।३१।।

ध्वांतमेतदभितः प्रसारियत्तच्छमाय विधिनाविनिर्मितम्।।

दीपभास्करकरामहौषधं नाधिपत्य तमसस्तुकिंचन ।। ३२ ।।

आधिपत्यमदमोहितं हितं शंसितं स्पृशति नो हरेर्हितम् ।।

दुर्जनविहिततीर्थमज्जनैः शुद्धधीरिव विरुद्धमानसम्।। ३३ ।।

धिग्धिगेतदधिकर्द्धि चेष्टितं चंक्रमेक्षणविलक्षितं यतः ।।

वीक्षते क्षणमचारुचक्षुषा घातितेन विपदःपदेन च ।। ३४ ।।

कः कामेन न निर्जितस्त्रिजगतां पुष्पायुधेनाप्यहो कः क्रोधस्यवशंगतो ननच को लोभेन संमोहितः ।।

योषिल्लोचनभल्लभिन्नहृदयः को नाप्तवानापदं को राज्यश्रियमाप्यनांधपदवीं यातोपि सल्लोचनः ।। ३५ ।।

आधिपत्यकमलातिचंचला प्राप्यतां च यदिहार्जितं किल ।।

निश्चलं सदसदुच्चकैर्हितं कार्यमार्यचरितैः सदैव तत् ।। ३६ ।।

न यदांगिरसे तारां स व्यसर्जयदुल्बणः ।।

रुद्रोथ पार्ष्णिं जग्राह गृहीत्वाजगवं धनुः ।। ३७ ।।

तेन ब्रह्मशिरोनाम परमास्त्रं महात्मना ।।

उत्सृष्टं देवदेवायतेन तन्नाशितं ततः ।। ३८ ।।

तयोस्तद्युद्धमभवद्घोरं वै तारकामयम् ।।

ततस्त्वकांड ब्रह्मांड भंगाद्भीतोभवद्विधिः ।।३९।।

निवार्य रुद्रं समरात्संवर्तानलवर्चसम् ।।

ददावांगिरसे तारां स्वयमेव पितामहः ।।4.1.15.४०।।

अथांतर्गर्भमालोक्य तारां प्राह बृहस्पतिः ।।

मदीयायां न ते योनौ गर्भो धार्यः कथंचन ।।४१।।

इषीकास्तंबमासाद्य गर्भं सा चोत्ससर्ज ह ।।

जातमात्रः स भगवान्देवानामाक्षिपद्वपुः ।। ४२ ।।

ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः ।।

सत्यं बूहि सुतः कस्य सोमस्याथ बृहस्पतेः ।। ४३ ।।

पृच्छमाना यदा देवै र्नाह ताराऽतिसत्रपा ।।

तदा सा शप्तुमारब्धा कुमारेणातितेजसा ।। ४४ ।।

तं निवार्य तदा ब्रह्मा तारां पप्रच्छ संशयम्।।

प्रोवाच प्रांजलिः सा तं सोमस्येति पितामहम् ।। ४५ ।।

तदा स मूर्ध्न्युपाघ्राय राजा गर्भं प्रजापतिः ।।

बुध इत्यकरोन्नाम तस्य बालस्य धीमतः ।। ४६ ।।

ततश्च सर्वदेवेभ्यस्तेजोरूपबलाधिकः ।।

बुधः सोमं समापृच्छय तपसे कृतनिश्चयः ।।४७।।

जगाम काशीं निर्वाणराशिं विश्वेशपालिताम् ।।

तत्र लिगं प्रतिष्ठाप्य स स्वनाम्ना बुधेश्वरम् ।। ४८ ।।

तपश्चचार चात्युग्रमुग्रं संशीलयन्हृदि ।।

वर्षाणामयुतं बालो बालेंदुतिलकं शिवम् ।। ४९ ।।

ततो विश्वपतिः श्रीमान्विश्वेशो विश्वभावनः ।।

बुधेश्वरान्महालिंगादाविरासीन्महोदयः ।। 4.1.15.५० ।।

उवाच च प्रसन्नात्मा ज्योतीरूपो महेश्वरः ।।

वरं ब्रूहि महाबुद्धे बुधान्य विबुधोत्तमः ।। ५१ ।।

तवानेनाति तपसा लिंगसंशीलनेन च ।।

प्रसन्नोस्मि महासौम्य नादेयं त्वयि विद्यते ।। ५२ ।।

इति श्रुत्वा वचः सोथ मेघगंभीर निःस्वनम्।।

अवग्रहपरिम्लान सस्यसंजीवनोपमम्।। ५३ ।।

उन्मील्यलोचने यावत्पुरः पश्यति बालकः ।।

तावल्लिंगे ददर्शाथ त्र्यंबकं शशिशेखरम्।।५४।।

बुध उवाच ।। ।।

नमः पूतात्मने तुभ्यं ज्योतीरूप नमोस्तु ते ।।

विश्वरूप नमस्तुभ्यं रूपातीताय ते नमः ।।५५ ।।

नमः सर्वार्ति नाशाय प्रणतानां शिवात्मने ।।

सर्वज्ञाय नमस्तुभ्यं सर्वकर्त्रे नमोस्तु ते ।। ५६ ।।

कृपालवे नमस्तुभ्यं भक्तिगम्याय ते नमः ।।

फलदात्रे च तपसां तपोरूपाय ते नमः ।। ५७ ।।

शंभो शिवशिवाकांत शांतश्री कंठशूलभृत् ।।

शशिशेखरशर्वेश शंकरेश्वर धूर्जटे ।। ५८ ।।

पिनाकपाणे गिरिश शितिकंठ सदाशिव ।।

महादेव नमस्तुभ्यं देवदेव नमोस्तु ते ।। ५९ ।।

स्तुतिकर्तुं न जानामि स्तुतिप्रिय महेश्वर ।।

तव पादांबुजद्वंद्वे निर्द्वंद्वा भक्तिरस्तु मे ।। 4.1.15.६० ।।

अयमेव वरो नाथ प्रसन्नोसि यदीश्वर ।।

नान्यं वरं वृणे त्वत्तः करुणामृतवारिधे ।। ६१ ।।

ततः प्राह महेशानस्तत्स्तुत्या परितोषितः ।।

रौहिणेय महाभाग सौम्यसौम्यवचोनिधे ।। ६२ ।।

नक्षत्रलोकादुपरि तव लोको भविष्यति ।।

मध्ये सर्वग्रहाणां च सपर्यां लप्स्यसे पराम् ।। ६३ ।।

त्वयेदं स्थापितं लिंगं सर्वेषां बुद्धिदायकम् ।।

दुर्बुद्धिहरणं सौम्य त्वल्लोकवसतिप्रदम् ।। ६४ ।।

इत्युक्त्वा भगवाञ्छंभुस्तत्रैवांतरधीयत ।।

बुधः स्वर्लोकमगमद्देवदेवप्रसादतः ।। ६५ ।।

गणावूचतुः ।। ।।

काश्यां बुधेश्वरसमर्चनलब्धबुद्धिः संसारसिंधुमधिगम्य नरो ह्यगाधम् ।।

मज्जेन्न सज्जनविलोचन चंद्रकांतिः कांताननस्त्वधिवसेच्च बुधेऽत्र लोके ।। ६६ ।।

चंद्रेश्वरात्पूर्वभागे दृष्ट्वा लिंगं बुधेश्वरम् ।।

न बुद्ध्या हीयते जंतुरंतकालेपि जातुचित् ।।६७।।

गणौ यावत्कथामित्थं चक्राते बुधलोकगाम् ।।

तावद्विमानं संप्राप्तं शुक्रलोकमनुत्तमम् ।। ६८ ।। ।।

इति श्री स्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे नक्षत्रबुधलोकयोर्वर्णनं नाम पंचदशोध्यायः ।। १५ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 16

।। गणावूचतुः ।।

शिवशर्मन्महाबुद्धे शुक्रलोकोयमद्भुतः ।।

दानवानां च दैत्यानां गुरुरत्र वसेत्कविः ।। १ ।।

पीत्वा वर्षसहस्रं वै कणधूमं सुदुःसहम् ।।

यः प्राप्तवान्महाविद्यां मृत्युसंजीविनीं हरात् ।। २ ।।

इमां विद्यां न जानाति देवाचार्योति दुप्कराम् ।।

ऋते मृत्युंजयात्स्कंदात्पार्वत्या गजवक्त्रतः ।। ३ ।।

शिवशर्मोवाच ।। ।।

कोसौ शुक्र इति ख्यातो यस्यायं लोक उत्तमः ।।

कथं तेन च विद्याप्ता मृत्युसंजीवनी हरात् ।। ४ ।

आचक्षाथामिदं देवौ यदि प्रीतिर्मयि प्रभू ।।

ततस्तौ स्माहतुर्देवौ शुक्रस्य परमां कथाम् ।। ५।।

यां श्रुत्वा चापमृत्युभ्यो हीयंते श्रद्धयायुताः ।।

भूतप्रेतपिशाचेभ्यो न भयं चापि जायते ।। ६ ।।

आजौ प्रवर्तमानायामंधकांधकवैरिणोः ।।

अनिर्भेद्य गिरिव्यूह वज्रव्यूहाधिनाथयोः ।।७।।

अपसृत्य ततो युद्धादंधकः शुक्रसंनिधिम् ।।

अधिगम्य बभाषेदमवरुह्य रथात्ततः ।। ८ ।।

भगवंस्त्वामुपाश्रित्य वयं देवांश्च सानुगान् ।।

मन्यामहे तृणैस्तुल्यान्रुद्रोपेंद्रादिकानपि ।। ९ ।।

कुंजरा इव सिंहेभ्यो गरुडेभ्य इवोरगाः ।।

अस्मत्तो बिभ्यति सुरा गुरो युष्मदनुग्रहात् ।। 4.1.16.१० ।।

वज्रव्यूहमनिर्भेद्यं विविशुर्देत्यदानवाः ।।

विधूय प्रमथानीकं ह्रदं तापार्दिता इव ।। ११ ।।

वयं त्वच्छरणं भूत्वा पर्वता इव निश्चलाः ।।

स्थित्वा चराम निःशंका ब्राह्मणेंद्र महाहवे ।। १२ ।।

आप्तभावेन च वयं पादौ तव सुखप्रदौ ।।

सदाराः ससुताश्चैव शुश्रूषामो दिवानिशम् ।। १३ ।।

अभिरक्षाभितो विप्र प्रसन्नः शरणागतान् ।।

पश्य हुंडं तुहुंडं च कुजंभं जंभमेव च ।। १४ ।।

पाकं कार्तस्वनं चैव विपाकं पाकहारिणम् ।।

तं चन्द्रदमनं शूरं शूरामरविदारणम् ।।१५।।

प्रमथैर्भीमविक्रांतैः क्रांतं मृत्युप्रमाथिभिः ।।

सूदितान्पतितांश्चैव द्राविडैरिव चंदनान्।। १६।।

या पीत्वा कणधूमं वै सहस्रं शरदां पुरा ।।

वरा विद्या त्वया प्राप्ता तस्याः कालोयमागतः ।।१७।।

अथ विद्याफलं तत्ते दैत्यान्संजीवयिष्यतः ।।

पश्यंतु प्रमथाः सर्वे त्वया संजीवितानिमान्।।१८।।

इत्यंधकवचः श्रुत्वा स्थिरधीर्भार्गवोमुनिः ।।

किंचित्स्मितं तदा कृत्वा दानवाधिपमब्रवीत् ।। १९ ।।

दानवाधिपते सर्वं तथ्यं यद्भाषितं त्वया ।।

विद्योपार्जनमेतद्धि दानवार्थं मया कृतम् ।। 4.1.16.२० ।।

पीत्वा वर्षसहस्रं वै कणधूमं सुदुःसहम् ।।

एषा प्राप्तेश्वराद्विद्या बांधवानां सुखावहा ।। २१ ।।

एतया विद्यया सोहं प्रमयैर्मथितान्रणे ।।

उत्थापयिष्ये ग्लानानि धान्यन्यंबुधरो यथा ।।२२।।

निर्व्रणान्नीरुजः स्वस्थान्सुप्त्वेव पुनरुत्थितान्।।

अस्मिन्मुहूर्ते द्रष्टासि दानवानुत्थितान्नृप ।। २३ ।।

इत्युक्त्वा दानवपतिं विद्यामावर्तयत्कविः ।।

एकैकं दैत्यमुद्दिश्य त उत्तस्थुर्धृतायुधाः ।। २४ ।।

वेदा इव सदभ्यस्ताः समये वा यथांबुदाः ।।

ब्राह्मणेभ्यो यथा दत्ताः श्रद्धयार्था महापदि ।। २५।।

उज्जीवितांस्तु तान्दृष्ट्वा तुहुंडाद्यान्महासुरान् ।।

विनेदुः पूर्वदेवास्ते जलपूर्णा इवांबुदाः ।। २६ ।।

शुक्रेणोजीवितान्दृष्ट्वा दानवांस्तान्गणेश्वराः ।।

विज्ञाप्यमेव देवेशे ह्येवं तेऽन्योन्यमब्रुवन् ।। २७ ।।

आश्चर्यरूपे प्रमथेश्वराणां तस्मिंस्तथा वर्तति युद्धयज्ञे ।।

अमर्षितो भार्गवकर्मदृष्ट्वा शिलादपुत्रोभ्यगमन्महेशम् ।। २८ ।।

जयेति चोक्त्वा जय योनिमुग्रमुवाच नंदी कनकावदातम्।।

गणेश्वराणां रणकर्म देव देवैश्च सेंद्रैरपि दुष्करं यत् ।। २९ ।।

तद्भार्गवेणाद्य कृतं वृथा नः संजीव्य तानाजिमृतान्विपक्षान् ।।

आवर्त्य विद्यां मृतजीवदात्रीमेकैकमुद्दिश्य सहेलमीश ।। 4.1.16.३० ।।

तुहुंडहुंडादिकजंभजंभविपाकपाकादि महासुरेंद्राः ।।

यमालयादद्य पुनर्निवृत्ता विद्रावयंतः प्रमथाश्चरंति ।। ३१ ।।

यदि ह्यसौ दैत्यवरान्निरस्तान्संजीवयेदत्र पुनःपुनस्तान् ।।

जयः कुतो नो भविता महेश गणेश्वराणां कुत एव शांतिः ।। ३२ ।।

इत्येवमुक्तः प्रमथेश्वरेण स नंदिना वै प्रमथेश्वरेशः ।।

उवाच देवः प्रहसंस्तदानीं तं नंदिनं सर्वगणेशराजम्।। ३३ ।।

नंदिन्प्रयाहि त्वरितोतिमात्रं द्विजेंद्रवर्यं दितिनंदनानाम् ।।

मध्यात्समुद्धृत्य तथानयाशु श्येनो यथा लावकमंडजातम् ।। ३४ ।।

स एव मुक्तो वृषभध्वजेन ननाद नंदी वृषसिंहनादः ।।

जगाम तूर्णं च विगाह्य सेनां यत्राभवद्भार्गववंशदीपः ।। ३५ ।।

तं रक्ष्यमाणं दितिजैः समस्तैः पाशासिवृक्षोपलशैलहस्तैः ।।

विक्षोभ्य दैत्यान्बलवाञ्जहार काव्यं स नंदी शरभो यथेभम्।। ३६ ।।

स्रस्तांबरं विच्युतभूषणं च विमुक्तकेशं बलिना गृहीतम् ।।

विमोचयिष्यंत इवानुजग्मुः सुरारयः सिंहरवान्सृजंतः ।। ३७ ।।

दंभोलि शूलासिपरश्वधानामुद्दंडचक्रोपल कंपनानाम् ।।

नंदीश्वरस्योपरि दानवेद्रा वर्षं ववर्षुर्जलदा इवोग्रम् ।। ३८ ।।

तं भार्गवं प्राप्य गणाधिराजो मुखाग्निना शस्त्रशतानि दग्ध्वा ।।

आयात्प्रवृद्धेऽसुरदेवयुद्धे भवस्य पार्श्वे व्यथितारिसैन्यः ।। ३९ ।।

अयं स शुक्रो भगवन्नितीदं निवेदयामास भवाय शीघ्रम् ।।

जग्राह शुक्रं स च देवदेवो यथोपहारं शुचिना प्रदत्तम् ।। 4.1.16.४० ।।

न किंचिदुक्त्वा स हि भूतगोप्ता चिक्षेप वक्त्रे फलवत्कवींद्रम् ।।

हाहारवस्तैरसुरैः समस्तैरुच्चैर्विमुक्तो हहहेति भूरि ।। ४१ ।।

काव्ये निगीर्णे गिरिजेश्वरेण दैत्या जयाशा रहिता बभूवुः ।।

हस्तैर्विमुक्ता इव वारणेंद्राः शृंगैर्विहीना इव गोवृषाश्च ।। ४२ ।।

शरीर हीना इव जीवसंघा द्विजा यथा चाध्ययनेन हीनाः ।।

निरुद्यमाः सत्त्वगुणा यथा वै यथोद्यमा भाग्यविवर्जिताश्च ।। ४३ ।।

पत्या विहीनाश्च यथैव योषा यथा विपक्षा इव मार्गणौघाः ।।

आयूंषि हीनानि यथैव पुण्यैर्वृत्तेन हीनानि यथा श्रुतानि ।। ४४ ।।

विना यथा वैभवशक्तिमेकां भवंति हीनाः स्वफलैः क्रियौघाः ।।

तथा विना तं द्विजवर्यमेकं दैत्या जयाशा विमुखा बभूवुः ।। ४५ ।।

नंदिनापहृते शुक्रे गिलिते च विषादिना ।।

विषादमगमन्दैत्या हीयमानरणोत्सवाः ।। ४६ ।।

तान्वीक्ष्य विगतोत्साहानंधकः प्रत्यभाषत ।।

कविं विक्रम्य नयता नंदिना वंचिता वयम् ।। ४७।।

तनूर्विना हृताः प्राणाः सर्वेषामद्य तेन नः ।।

धैर्यं वीर्यं गतिः कीर्तिः सत्त्वं तेजः पराक्रमः ।।४८।।

युगपन्नो हृतं सर्वमेकस्मिन्भार्गवे हृते ।।

धिगस्मान्कुलपूज्यो यैरेकोपि कुलसत्तमः ।।

गुरुः सर्वसमर्थश्च त्राता त्रातो न चापदि ।। ४९ ।।

तद्धैर्यमवलंब्येह युध्यध्वमरिभिः सह ।।

सूदयिष्याम्यहं सर्वान्प्रमथान्सह नंदिना ।। 4.1.16.५० ।।

अद्यैतान्विवशान्हत्वा सह देवैः सवासवैः ।।

भार्गवं मोचयिष्यामि जीवं योगीव कर्मतः ।। ५१ ।।

स चापि योगी योगेन यदि नाम स्वयं प्रभुः ।।

शरीरात्तस्य निर्गच्छेदस्माकं रोषपालिता ।। ५२ ।।

इत्यंधकवचः श्रुत्वा दानवा मेघनिःस्वनाः ।।

प्रमथा नर्दयामासुर्मर्तव्ये कृत निश्चयाः ।। ५३ ।।

सत्यायुपि न नो जातु शक्ताः स्युः प्रमथाबलात् ।।

असत्यायुषि किं गत्वा त्यक्त्वा स्वामिनमाहवे ।। ।। ५४ ।।

ये स्वामिनं विहायाजौ बहुमानधना जनाः ।।

यांति ते यांति नियतमंधतामिस्रमालयम् ।। ५५ ।।

अयशस्तमसा ख्यातिं मलिनीकृत्यभूरिशः ।।

इहामुत्रापि सुखिनो न स्युर्भग्ना रणाजिरात् ।। ५६।।

किं दानैः किं तपोभिश्च किं तीर्थपरिमज्जनैः ।।

धरातीर्थे यदि स्नातं पुनर्भव मलापहे ।। ५७ ।।

संप्रधार्येति तेऽन्योन्यं दैत्यास्ते दनुजास्तथा ।।

ममंथुः प्रमथानाजौ रणभेरीर्निनाद्य च ।। ५८ ।।

तत्र वाणासिवज्रौघैः कटंकटशिलामयैः ।।

भुशुंडीभिंदिपालैश्च शक्तिभल्ल परश्वधैः ।। ५९ ।।

खट्वांगैः पट्टिशैः शूलैर्लकुटैर्मुसलैरलम् ।।

परस्परमभिघ्नंतः प्रचक्रुः कदनं महत् ।। 4.1.16.६० ।।

कार्मुकाणां विकृष्टानां पततां च पतत्रिणाम् ।।

भिंदिपालभुशुंडीनां क्ष्वेडितानां रवोऽभवत् ।। ६१ ।।

रणतूर्यनिनादैश्च गजानां बहुबृंहितैः ।।

हेषारवैर्हयानां च महान्कोलाहलोऽभवत् ।।६२।।

प्रतिस्वनैरवापूरि द्यावाभूम्योर्यदंतरम् ।।

अभीरूणां च भीरूणां महारोमोद्गमोऽभवत् ।। ६३ ।।

गजवाजिमहाराव स्फुटच्छब्दग्रहाणि च ।।

भग्नध्वजपताकानि क्षीणप्रहरणानि च ।। ६४ ।।

रुधिरोद्गार चित्राणि व्यश्वहस्तिरथानि च ।।

पिपासितानि सैन्यानि मुमूर्छुरुभयत्र वै ।। ६५ ।।

दृष्ट्वा सैन्यं च प्रमथैर्भज्यमानमितस्ततः ।।

दुद्राव रथमास्थाय स्वयमेवांधको गणान् ।। ६६ ।।

शरवज्रप्रहारैस्तैर्वज्राघातैर्नगा इव ।।

प्रमथानेशिरे वातैर्निस्तोया इव तोयदाः ।। ६७ ।।

यांतमायांतमालोक्य दूरस्थं निकटस्थितम् ।।

प्रत्येकं रोमसंख्याभिर्व्यधाद्बाणैस्तदांधकः ।। ६८ ।।

विनायकेन स्कंदेन नंदिना सोमनंदिना ।।

नैगमेयेन शाखेन विशाखेन बलीयसा ।। ६९ ।।

इत्याद्यैस्तु गणैरुग्रैरंधकोप्यंधकीकृतः ।।

त्रिशूल शक्तिबाणौघ धारासंपातपातिभिः ।। 4.1.16.७० ।।

ततः कोलाहलो जातः प्रमथासुरसैन्ययोः ।।

तेन शब्देन महता शुक्रः शंभूदरे स्थितः ।। ७१ ।।

छिद्रान्वेषी भ्रमन्सोथ विनिःकेतो यथानिलः ।।

सप्तलोकान् सपालान्स रुद्रदेहे व्यलोकयत् ।।७२।।

ब्रह्मनारायणेंद्राणामादित्याप्यरसां तथा ।।

भुवनानि विचित्राणि युद्धं च प्रमथासुरम् ।। ७३ ।।

सवर्षाणां शतं कुक्षौ भवस्य परितो भ्रमन् ।।

न तस्य ददृशे रंध्रं शुचे रंध्रं खलो यथा ।। ७४ ।।

शांभवेनाथयोगेन शुक्ररूपेण भार्गवः ।।

चस्कंदाथ ननामापि ततो देवेन भाषितः ।। ७५ ।।

शुक्रवन्निःसृतोयस्मात्तस्मात्त्वं भृगुनंदन ।।

कर्मणानेन शुक्रस्त्वं मम पुत्रोसि गम्यताम् ।। ७६ ।।

जठरान्निर्गते शुक्रे देवोपि मुमुदेतराम् ।।

भ्रमञ्छ्रेयोभवद्यन्मे न मृतो जठरे द्विजः ।। ७७ ।।

इत्येवमुक्तो देवेन शुक्रोर्कसदृश द्युतिः ।।

विवेश दानवानीकं मेघमालां यथा शशी ।। ७८ ।।

शुक्रोदयान्मुदं लेभे स दानव महार्णवः ।।

यथा चंद्रोदये हर्षमूर्मिमाली महोदधिः ।। ७९ ।।

अंधकांधकहंत्रोर्वै वर्तमाने महाहवे ।।

इत्थं नाम्नाभवच्छुक्रः स वै भार्गवनंदनः ।। 4.1.16.८० ।।

यथा च विद्यां तां प्राप मृतसंजीवनीं पराम् ।।

शंभोरनुग्रहात्काव्यस्तन्निशामय सुव्रत ।। ८१ ।।

।। गणावूचतुः ।। ।।

पुराऽसौ भृगुदायादो गत्वा वाराणसीं पुरीम् ।।

अंडजस्वेदजोद्भिज्जजरायुज गतिप्रदाम् ।। ८२ ।।

संस्थाप्य लिंगं श्रीशंभोः कूपं कृत्वा तदग्रतः ।।

बहुकालं तपस्तेपे ध्यायन्विश्वेश्वरं प्रभुम् ।। ८३ ।।

राजचंपकधत्तूर करवीरकुशेशयैः ।।

मालती कर्णिकारैश्च कदंबैर्बकुलोत्पलैः ।। ८४ ।।

मल्लिकाशतपत्रीभिः सिंदुवारैः सकिंशुकैः ।।

अशोकैः करुणैः पुष्पैः पुन्नागैर्नागकेसरैः ।। ८५ ।।

क्षुद्राभिर्माधवीभिश्च पाटला बिल्वचंपकैः ।।

नवमल्लीविचिकिलैः कुंदैः समुचुकुंदकैः ।। ८६ ।।

मंदारैर्बिल्वपत्रैश्च द्रोणैर्मरुबकैर्बकैः ।।

ग्रंथिपर्णैर्दमनकैः सुरभूचूतपल्लवैः ।। ८७ ।।

तुलसी देवगंधारी बृहत्पत्री कुशांकुरैः ।।

नद्यावर्तैरगस्त्यैश्च सशालैर्देवदारुभिः ।। ८८ ।।

कांचनारैः कुरबकैर्दूर्वांकुर कुरंटकैः ।।

प्रत्येकमेभिः कुसुमैः पल्लवैरपरैरपि ।।८९।।

पत्रैः शतसहस्रैश्च स समानर्च शंकरम्।।

पंचामृतैर्द्रोणमितैर्लक्षकृत्वः प्रयत्नतः ।।4.1.16.९०।।

स्नपयामास देवेशं सुगंधस्नपनैर्बहु ।।

सहस्रकृत्वो देवेशं चंदनैर्यक्षकर्दमैः ।।९१।।

समालिलिंप देवेशं सुगंधोद्वर्तनान्यनु ।।

गीतनृत्योपहारैश्च श्रुत्युक्तस्तुतिभिर्बहुः ।।९२।।

नाम्नां सहस्रैरन्यैश्च स्तोत्रैस्तुष्टाव शंकरम् ।।

सहस्रं पंचशरदामित्थं शुक्रः समर्चयन् ।। ९३ ।।

यदा देवं नालुलोके मनागपि वरोन्मुखम्।।

तदान्यं नियमं घोरं जग्राहातीवदुःसहम्।। ९४।।

प्रक्षाल्य चेतसो त्यंतं चांचल्याख्यं महामलम् ।।

भावनावार्भि रसकृदिंद्रियैः सहितस्य च ।। ९५ ।।

निर्मलीकृत्य तच्चेतो रत्नं दत्त्वा पिनाकिने ।।

प्रपपौ कणधूमौघं सहस्रं शरदां कविः ।।९६।।

प्रससाद तदा देवो भार्गवाय महात्मने ।।

तस्माल्लिंगाद्विनिर्गत्य सहस्रार्काधिकद्युतिः ।। ९७ ।।

उवाच च विरूपाक्षः साक्षाद्दाक्षायणीपतिः ।।

तपोनिधे प्रसन्नोस्मि वरं वरय भार्गव ।। ९८ ।।

निशम्येति वचः शंभोरंभोजनयनो द्विजः ।।

उद्यदानंदसंदोह रोमांचांचित विग्रहः ।। ९९ ।।

तुष्टावाष्टतनुं तुष्टः प्रफु ल्ल नयनांचलः ।।

मौलावंजलिमाधाय वदञ्जयजयेति च ।। 4.1.16.१०० ।।

भार्गव उवाच ।। ।।

त्वं भाभिराभिरभिभूय तमः समस्तमस्तं नयस्यभिमतानि निशाचराणाम् ।।

देदीप्यसे मणेगगनेहिताय लोकत्रयस्य जगदीश्वर तन्नमस्ते ।। १०१ ।।

लोकेतिवेलमतिवेलमहामहोभिर्निर्मासि कौमुदमुदं च समुत्समुद्रम् ।।

विद्राविताखिलतमाः सुतमोहिमांशो पीयूषपूरपरिपूरित तन्नमस्ते ।। २ ।।

त्वं पावने पथि सदागतिरस्युपास्यः कस्त्वां विना भुवनजीवनजीवतीह ।।

स्तब्धप्रभंजन विवर्धित सर्वजंतोसंतोषिताहि कुलसर्वगतन्नमस्ते ।। ३ ।।

विश्वैकपावकनतावकपावकैक शक्तेर्ऋतेऽमृतवतामृतदिव्यकार्यम् ।।

प्राणित्यदो जगदहो जगदंतरात्मंस्तत्पावक प्रतिपदं शमदं नमस्ते ।। ४ ।।

पानीयरूप परमेश जगत्पवित्र चित्रं विचित्रसुचरित्र करोषि नूनम् ।।

विश्वपवित्रममलं किल विश्वनाथ पानावगाहनत एतदतो नतोस्मि ।। ५ ।।

आकाशरूप बहिरंतरुतावकाश दानाद्विकस्वरमिहेश्वर विश्वमैतत् ।।

त्वत्तः सदा सदयसंश्वसिति स्वभावात्संकोचमेति भवतोस्मि नतस्ततस्त्वाम् ।। ६ ।।

विश्वंभरात्मक बिभर्ति विभोऽत्रविश्वं को विश्वनाथ भवतोन्य तमस्तमोरे ।।

तत्त्वां विना न शमिनां हिमजाहिभूषस्तव्योऽपरः परपरप्रणतस्ततस्त्वाम् ।। ७ ।।

आत्मस्वरूप तव रूप परंपराभिराभिस्ततं हर चराचर रूपमेतत् ।।

सर्वांतरात्मनिलयप्रतिरूपरूपनित्यंनतोस्मि परमात्मतनोऽष्टमूर्ते ।। ८ ।।

इत्यष्टमूर्तिभि रिमाभिरुमाभिवंद्यवंद्यातिवंद्य भव विश्वजनीनमूर्ते ।।

एतत्ततं सुविततं प्रणतप्रणीत सर्वाथर्सार्थपरमार्थ ततो नतोस्मि ।। ९ ।।

अष्टमूर्त्यष्टकेनेष्टं परिष्टूयेति भार्गवः ।।

भर्गभूमिमिलन्मौलिः प्रणनाम पुनःपुनः ।। 4.1.16.११० ।।

इति स्तुतो महादेवो भार्गवेणातितेजसा ।।

उत्थाप्य भूमेर्बाहुभ्यां धृत्वा तं प्रणतं द्विजम् ।। ११ ।।

उवाच दशनज्योत्स्ना प्रद्योतित दिगंतरः ।।

अनेनात्युग्रतपसा ह्यनन्याचरितेन च ।। १२ ।।

लिंगस्थापनपुण्येन लिंगस्याराधनेन च ।।

चित्तरत्नोपहारेण शुचिना निश्चलेन च ।।१३।।

अविमुक्त महाक्षेत्रे पवित्राचरणेन च ।।

त्वां सुताभ्यां प्रपश्यामि तवादेयं न किंचन ।। १४ ।।

अनेनैव शरीरेण ममोदरदरीं गतः ।।

मद्वरेंद्रियमार्गेण पुत्र जन्मत्वमेष्यसि ।। ।५ ।।

अन्यं वरं प्रयच्छामि दुष्प्रापं पार्षदैरपि ।।

हरौ हिरण्यगर्भेपि प्रायशोऽहं जुगोपयाम् ।। १६ ।।

मृतसंजीवनी नाम विद्या या मम निर्मला ।।

तपोबलेन महता मयैव परिनिर्मिता ।। १७ ।।

त्वां तां तु प्रापयाम्यद्य मंत्ररूपां महाशुचे ।।

योग्यता तेऽस्ति विद्यायास्तस्याः शुचितपोनिधे ।। १८ ।।

यंयमुद्दिश्यनियतमेतामावर्तयिष्यसि ।।

विद्यां विद्येश्वरश्रेष्ठ स स प्राणिष्यति धुवम् ।।१९।।

अत्यर्कमत्यग्निं(?) च ते तेजो व्योम्न्यतितारकम् ।।

देदीप्यमानं भविता ग्रहाणां प्रवरो भव ।।4.1.16.१२०।।

अभि त्वां ये करिष्यंति यात्रां नार्यो नरोपि वा ।।

तेषां त्वदृष्टिपातेन सर्वं कार्यं प्रणंक्ष्यति ।। २१ ।।

तवोदये भविष्यंति विवाहादीनि सुव्रत ।।

सर्वाणि धर्मकार्याणि फलवंति नृणामिह ।। २२ ।।

सर्वाश्च तिथयो मंदास्तव संयोगतः शुभाः ।।

तव भक्ता भविष्यंति बहुशुक्रा बहुप्रजाः ।। २३ ।।

त्वयेदं स्थापितं लिंगं शुक्रेशमिति संज्ञितम् ।।

येऽर्चयिष्यंति मनुजास्तेषां सिद्धिर्भविष्यति ।। २४ ।।

आवर्षं प्रतिशुक्रं ये नक्तव्रतपरा नराः ।।

त्वद्दिने शुक्रकूपे ये कृतसर्वोदकक्रियाः ।। २५ ।।

शुक्रेशमर्चयिष्यंति शृणु तेषां तु यत्फलम् ।।

अवंध्यशुक्रास्ते मर्त्याः पुत्रवंतोऽतिरेतसः ।। २६ ।।

पुंस्त्वसौभाग्यसंपन्ना भविष्यंति न संशयः ।।

व्यपेतविघ्नास्ते सर्वे जनाः स्युः सुखवासिनः ।।

इति दत्त्वा वरान्देवस्तत्र लिंगे लयं ययौ ।।२७।।

गणावूचतुः ।। ।।

शुक्रेश्वरस्य ये भक्ताः शुक्रलोके वसंति ते ।।

विश्वेश्वराद्दक्षिणतः शुक्रेशोस्ति परंतप ।। २८ ।।

तस्य दर्शनमात्रेण शुक्रलोके महीयते ।।

इत्येषा शुक्रलोकस्य स्थितिरुक्ता महामते ।।२९ ।।

अगस्त्य उवाच ।। ।।

इत्थं सधर्मिणि कथां शुक्रलोकस्य सुव्रते ।।

शृण्वन्नांगारकं लोकमालुलोकेऽथ स द्विजः ।। 4.1.16.१३० ।।

इति श्रीस्कांदे महापुराणे चतुर्थे काशीखंडे पूर्वार्धे शुक्रलोकवर्णनं नाम षोडशोऽध्यायः ।।१६।।

खण्डः ४ (काशीखण्डः) — Adhyāya 17

।। शिवशर्मोवाच ।। ।।

शुक्रसंबंधिनी देवौ कथा श्रावि मया शुभा ।।

यस्याः श्रवणमात्रेण प्रीणिते श्रवणे मम ।। १ ।।

कस्य पुण्यनिधेर्लोकः शोकहृत्त्वेष निर्मलः ।।

एतदाख्यातुमुद्युक्तौ भवंतौ भवतां मम ।। २ ।।

धयित्वा श्रोत्रपात्राभ्यां वाणीममृतरूपिणीम् ।।

न तृप्तिमधिगच्छामि भवन्मुखसुखोद्गताम् ।।३।।

।। गणावूचतुः ।। ।।

लोहितांगस्य लोकोयं शिवशर्मन्निबोध ह ।।

उत्पत्तिं चास्य वक्ष्यावो भूसुतोयं यथाभवत् ।। ४ ।।

पुरा तपस्यतः शंभोर्दाक्षायण्या वियोगतः ।।

भालस्थलात्पपातैकः स्वेदबिंदुर्महीतले ।। ५ ।।

ततः कुमारः संजज्ञे लोहितांगो महीतलात् ।।

स्नेहसंवर्धितः सोथ धात्र्या धात्रीस्वरूपया ।। ६ ।।

माहेय इत्यतः ख्यातिं परामेष गतः सदा ।।

ततस्तेपे तपोत्युग्रमुग्रपुर्यां पुरानघ ।। ७ ।।

असिश्च वरणा चापि सरितौ यत्र शोभने ।।

द्युनद्योत्तरवाहिन्या मिलितेऽत्र जगद्धिते ।। ८ ।।

सर्वगोपि हि विश्वेशो यत्र नित्यं प्रकाशते ।।

मुक्तये सर्वजंतूनां कालोज्ज्ञित स्ववर्ष्मणाम् ।। ९ ।।

अमृतं हि भवंत्येव मृता यत्र शरीरिणः ।।

अनुग्रहं समासाद्य परं विश्वेश्वरस्य ह ।। 4.1.17.१० ।।

अपुनर्भवदेहास्ते येऽविमुक्रेतनुत्यजः ।।

विना सांख्येन योगेन विना नानाव्रतादिभिः ।। ११ ।।

संस्थाप्य लिंगं विधिना स्वनाम्नांगारकेश्वरम् ।।

पांचमुद्रे महास्थाने कंबलाश्वतरोत्तरे ।। १२ ।।

ज्वलदंगारवत्तेजो यावत्तस्यशरीरतः ।।

विनिर्ययौ तपस्तावत्तेन तप्तं महात्मना ।। १३ ।।

ततोंगारक नाम्ना स सर्वलोकेषु गीयते ।।

तस्य तुष्टो महादेवो ददौ ग्रहपदं महत् ।। १४ ।।

अंगारक चतुर्थ्यां ये स्नात्वोत्तरवहांभसि ।।

अभ्यर्च्यांगारकेशानं नमस्यंति नरोत्तमाः ।।१५ ।।

न तेषां ग्रहपीडा च कदाचित्क्वापि जायते ।।

अंगांरकेन संयुक्ता चतुर्थी लभ्यते यदि ।।१६।।

उपरागसमं पर्व तदुक्तं कालवेदिभिः ।।

तस्यां दत्तं हुतं जप्तं सर्वं भवति चाक्षयम् ।।१७।।

श्रद्धया श्राद्धदा ये वै चतुर्थ्यंगारयोगतः ।।

तेषां पितॄणां भविता तृप्तिर्द्वादशवार्षिकी ।। १८ ।।

अंगारकचतुर्थ्यां तु पुरा जज्ञे गणेश्वरः ।।

अतएव तु तत्पर्व प्रोक्तं पुण्यसमृद्धये ।। १९।।

एकभक्तव्रती तत्र संपूज्य गणनायकम्।।

किंचिद्दत्त्वा तमुद्दिश्य न विघ्नैरभिभूयते ।। 4.1.17.२० ।।

अंगारेश्वर भक्ता ये वाराणस्यां नरोत्तमाः ।।

तेऽस्मिन्नंगारके लोके वसंति परमर्द्धयः ।।२१।।

अगस्त्य उवाच ।। ।।

इत्थं कथयतोरेव रम्यां पुण्यवतीं कथाम् ।।

भगवद्गणयोः प्राप नेत्रातिथ्यं गुरोः पुरी ।। २२ ।।

नेत्रानंदकरीं दृष्ट्वा शिवशर्माऽथ तां पुरीम् ।।

पप्रच्छाचार्यवर्यस्य कस्येयं पूरनुत्तमा ।। २३ ।।

।। गणावूचतुः ।। ।।

सखे सुखं समाख्यावो नानाख्येयं तवाग्रतः ।।

अध्वखेदापनोदाय पुनरस्याः पुरः कथाम्।। २४ ।।

विधेर्विधित्सतः पूर्वं त्रिलोकीरचनां मुदा ।।

आविरासुः सुताः सप्त मानसाः स्वस्यसंनिभाः ।। २५ ।।

मरीच्यत्र्यंगिरो मुख्याः सर्वे सृष्टिप्रवर्तकाः ।।

प्रजापतेरंगिरसस्तेष्वभूद्देवसत्तमः ।। २६ ।।

सुतश्चांगिरसो नाम बुद्ध्या विबुधसत्तमः ।।

शांतो दांतो जितक्रोधो मृदुवाङ्निर्मलाशयः ।। २७ ।।

वेदवेदार्थतत्त्वज्ञः कलासु कुशलोऽमलः ।।

पारदृश्वा तु सर्वेषां शास्त्राणां नीतिवित्तमः ।। २८ ।।

हितोपदेष्टा हितकृदहितात्यहितः सदा ।।

रूपवाञ्छीलसंपन्नो गुणवान्देशकालवित् ।। २९ ।।

सर्वलक्षणसंभार संभृतो गुरुवत्सलः ।।

तताप तापसीं वृत्तिं काश्यां स महतीं दधत ।। 4.1.17.३० ।।

महल्लिंगं प्रतिष्ठाप्य शांभवं भूरिभावनः ।।

अयुतं शरदां दिव्यं दिव्यतेजा महातपाः ।।३१।।

ततः प्रसन्नो भगवान्विश्वेशो विश्वभावनः ।।

आविर्भूय ततो लिंगान्महसां राशिरब्रवीत् ।।३२।।

प्रसन्नोस्मि वरं ब्रूहि यत्ते मनसि वर्तते ।।

इति शंभुं समालोक्य तुष्टावेति स हृष्टवान् ।। ३३ ।।

।। आंगिरस उवाच ।। ।।

जय शंकर शांत शशांकरुचे रुचिरार्थद सर्वद सर्वशुचे ।।

शुचिदत्त गृहीत महोपहृते हृतभक्तजनोद्धततापतते ।। ३४ ।।

ततसर्वहृदंबर वरदनते नतवृजिनमहावन दाहकृते ।।

कृतविविधचरित्रतनोसुतनो तनुविशिखविशोषणधैर्यनिधे ।। ३५ ।।

निधनादि विवर्जितकृतनतिकृत्कृतिविहितमनोरथपन्नगभृत् ।।

नगभर्तृसुतार्पितवामवपुः स्ववपुःपरिपूरितसर्वजगत् ।। ३६ ।।

त्रिजगन्मयरूपविरूपसुदृग्दृगुदंचनकुंचन कृतहुतभुक् ।।

भवभूतपतेप्रमथैकपते पतितेष्वपिदत्तकरप्रसृते ।। ३७ ।।

प्रसूताखिलभूतलसंवरणप्रणवध्वनिसौधसुधांशुधर ।।

वरराजकुमारिकया परया परितः परितुष्ट नतोस्मि शिव ।। ३८ ।।

शिवदेव गिरीश महेश विभो विभवप्रद गिरिश शिवेशमृड ।।

मृडयोडुपतिध्र जगत्त्रितयं कृतयंत्रणभक्तिविघातकृताम् ।। ३९ ।।

न कृतांत त एष बिभेभि हरप्रहराशु महाघममोघमते ।।

नमतांतरमन्यदवैनि शिवं शिवपादनतेः प्रणतोस्मि ततः ।। 4.1.17.४० ।।

विततेऽत्र जगत्यखिलेऽघहरं हर तोषणमेव परं गुणवन् ।।

गुणहीनमहीन महावलयं प्रलयांतकमीश नतोस्मि ततः ।। ४१ ।।

इति स्तुत्वा महादेवं विररामांगिरः सुतः ।।

व्यतरच्च महेशानः स्तुत्या तुष्टो वरान्बहून् ।।४२।।

।। श्रीमहादेव उवाच ।। ।।

बृहता तपसानेन बृहतां पतिरेध्यहो ।।

नाम्ना बृहस्पतिरिति ग्रहेष्वर्च्योभव द्विज ।। ४३ ।।

अस्माल्लिंगार्चनान्नित्यं जीवभूतोसि मे यतः ।।

अतो जीव इति ख्यातिं त्रिषु लोकेषु यास्यसि ।।४४।।

वाचां प्रपंचैश्चतुरैर्निष्प्रपंचो यतः स्तुतः ।।

अतो वाचां प्रपंचस्य पतिर्वाचस्पतिर्भव ।।४५।।

अस्य स्तोत्रस्य पठनादपि वागुदियाच्च यम् ।।

तस्य स्यात्संस्कृता वाणी त्रिभिर्वर्षैस्त्रिकालतः ।। ४६ ।।

समुत्पन्ने महाकार्ये न स बुद्ध्या प्रहीयते ।।

यः पठिष्यत्यदः स्तोत्रं वायव्याख्यं दिनेदिने ।। ४७ ।।

अस्यस्तोत्रस्य पठनान्नियतं मम संनिधौ ।।

न दुर्वृत्तौ प्रवृत्तिः स्यादविवेकवतां नृणाम् ।। ४८ ।।

अदः स्तोत्रं पठञ्जंतुर्जातुपीडां ग्रहोद्भवाम् ।।

न प्राप्स्यति ततो जप्यमिदं स्तोत्रं ममाग्रतः ।। ४९ ।।

नित्यं प्रातः समुत्थाय यः पठिष्यति मानवः ।।

इमां स्तुतिं हरिष्येऽहं तस्य बाधाः सुदारुणाः ।। 4.1.17.५० ।।

त्वत्प्रतिष्ठितलिंगस्य पूजां कृत्वा प्रयत्नतः ।।

इमां स्तुतिमधीयानो मनोवांछामवाप्स्यति ।। ५१ ।।

इति दत्त्वा वराञ्छंभुः पुनर्ब्रह्माणमाह्वयत् ।।

सेंद्रान्देवगणान्सर्वान्सयक्षोरगकिन्नरान् ।। ५२ ।।

तानागतान्समालोक्य शिवो व्रह्माणमब्रवीत् ।।

विधेविधेहि मद्वाक्यादमुं वाचस्पतिं मुनिम् ।। ५३ ।।

गुरुं सर्वसुरेंद्राणां परितः स्वगुणैर्गुरुम् ।।

अभिषिंच विधानेन देवाचार्य पदे मुदे ।। ५४ ।।

अतीव धिषणाधीशो ममप्रीतोभविष्यति ।।

महाप्रसाद इत्याज्ञां शिरस्याधाय तत्क्षणात् ।। ५५ ।।

सुरज्येष्ठः सुराचार्यं चकारांगिरसं तदा ।।

देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः ।। ५६ ।।

गुरुपूजां व्यधुः सर्वे गीर्वाणा मुदिताननाः ।।

अभिषिक्तो वसिष्ठाद्यैर्मंत्रपूतेन वारिणा ।। ५७ ।।

पुनरन्यं वरं प्रादाद्गिरीशः पतये गिराम् ।।

शृण्वांगिरस धर्मात्मन् देवेज्यकुलनंदन ।। ५८ ।।

भवतास्थापितं लिंगं सुबुद्धिपरिवर्धनम् ।।

बृहस्पतीश्वर इति ख्यातं काश्यां भविष्यति ।। ५९ ।।

गुरुपुष्यसमायोगे लिंगमेतत्समर्च्य च ।।

यत्करिष्यंति मनुजास्तत्सिद्धिमधियास्यति ।। 4.1.17.६० ।।

बृहस्पतीश्वरं लिंगं मया गोप्यं कलौ युगे ।।

अस्य संदर्शनादेव प्रतिभा प्रतिलभ्यते ।।६१।।

चंद्रेश्वराद्दक्षिणतो वीरेशान्नैर्ऋते स्थितम् ।।

आराध्य धिषणेशं वै गुरुलोके महीयते ।।६२।।

गुर्वंगना गमनजं पापं षण्मास सेवनात् ।।

अवश्यं विलयं याति तमः सूर्योदयाद्यथा ।। ६३ ।।

अतएव हि गोप्तव्यं महापातकनाशनम् ।।

बृहस्पतीश्वरं लिंगं नाख्येयं यस्यकस्यचित् ।।६४ ।।

इति दत्त्वा वरान्देवस्तत्रैवांतर्हितो भवत् ।।

द्रुहिणो गुरुणा सार्धं सेंद्रोपेंद्रो बृहस्पतिम् ।। ६५ ।।

अस्मिन्पुरेभिषिच्याथ विसृज्येंद्रादिकान्सुरान् ।।

अलंचकार स्वं लोकं विष्णुनाऽनुमतो द्विज ।। ६६ ।।

।। अगस्त्य उवाच ।। ।।

अतिक्रम्य गुरोर्लोकं लोपामुद्रे ददर्श सः ।।

शिवशर्मा पुरी सौरेः प्रभामंडल मंडिताम् ।। ६७ ।।

पृष्टौ तेन च तौ तत्र तां पुरीं प्रददर्शतुः ।।

द्विजेन द्विजवर्याय गणवर्यौ शुचिस्मिते ।।६८।।

गणावूचतुः ।। ।।

मारीचेः कश्यपाज्जज्ञे दाक्षायण्यां द्विजोष्णगुः ।।

तस्यभार्याभवत्संज्ञा पुत्री त्वष्टुः प्रजापतेः ।। ६९ ।।

भर्तुरिष्टा ततस्तस्माद्रूपयौवनशालिनी ।।

संज्ञा बभूव तपसा सुदीप्तेन समन्विता ।। 4.1.17.७० ।।

आदित्यस्य हि तद्रूपं मंडलस्य तु तेजसा ।।

गात्रेषु परिदध्यौ वै नातिकांतमिवाभवत् ।। ७१ ।।

न खल्वयमृतोंऽडस्थ इति स्नेहादभाषत ।।

तदा प्रभृति लोकेयं मार्तंड इति चोच्यते ।। ७२ ।।

तेजस्त्वभ्यधिकं तस्य साऽसहिष्णुर्विवस्वतः ।।

येनातितापयामास त्रैलोक्यं तिग्मरश्मिभृत् ।। ७३ ।।

त्रीण्यपत्यानि भो ब्रह्मन्संज्ञायां महसां निधिः ।।

आदित्यो जनयामास कन्यां द्वौ च प्रजापती ।। ७४ ।।

वैवस्वतं मनुं ज्येष्ठं यमं च यमुनां ततः ।।

नातितेजोमयं रूपं सोढुं साऽलं विवस्वतः ।। ७५ ।।

मायामयीं ततश्छायां सवर्णां निर्ममे स्वतः ।।

प्रांजलिः प्रणता भूत्वा संज्ञां छाया तदाब्रवीत् ।। ७६ ।।

तवाज्ञाकारिणीं देवि शाधि मां करवाणि किम् ।।

संज्ञोवाच ततश्छायां सवर्णे शृणु सुंदरि ।। ७७ ।।

अहं यास्यामि सदनं त्वष्टुस्त्वं पुनरत्र मे ।।

भवने वस कल्याणि निर्विशंकं ममाज्ञया ।। ७८ ।।

मनुरेष यमावेतौ यमुना यम संज्ञकौ ।।

स्वापत्यदृष्ट्या द्रष्टव्यमेतद्बालत्रयं त्वया ।। ७९ ।।

अनाख्येयमिदं वृत्तं त्वया पत्यौ शुचिस्मिते ।।

इत्याकर्ण्याथ सा त्वाष्ट्रीं देवीं छाया जगाद ह ।। 4.1.17.८० ।।

आकचग्रहणान्नाहमाशापाच्च कदाचन ।।

आख्यास्यामि चरित्रं ते याहि देवि यथासुखम् ।। ८१ ।।

इत्यादिश्य सवर्णां सा तथेत्युक्ता सवर्णया ।।

पितुरंतिकमासाद्य नत्वा त्वष्टारमब्रवीत् ।।।। ८२ ।।

पितः सोढुं न शक्नोमि तेजस्तेजोनिधेरहम् ।।

तीव्रं तस्यार्यपुत्रस्य काश्यपस्य महात्मनः ।। ।। ८३ ।।

निशम्योदीरितं तस्याः पित्रानिर्भर्त्सिता बहु ।।

भर्तुः समीपं याहीति नियुक्ता सा पुनःपुनः ।। ८४ ।।

चिंतामवाप महतीं स्त्रीणां धिक्चेष्टितं त्विति ।।

निनिंद बहुधात्मानं स्त्रीत्वं चाति निनिंद सा ।।८५।।

स्वातंत्र्यं न क्वचित्स्त्रीणां धिगस्वातंत्र्यजीवितम् ।।

शैशवे यौवने प्रांते पितृभर्तृसुताद्भयम् ।।८६।।

त्यक्तं भर्तृगृहं मौग्ध्याद्धंत दुवृर्त्तया मया ।।

अविज्ञातापि चेद्यायामथ पत्युर्निकेतनम् ।।८७ ।।

तत्रास्ति सा सवर्णा वै परिपूर्णमनोरथा ।।

अथावतिष्ठे सात्रैव पित्रा निर्भर्त्सिताप्यहम् ।। ८८ ।।

ततोति चंडश्चंडाशुः पित्रोरतिभयंकरः ।।

अहो यदुच्यते लोकैरुपाख्यानमिदं हि तत् ।। ८९ ।।

स्फुटं दृष्टं मयाद्येति स्वकरांगारकर्ष(र्प?)णम् ।।

नष्टं भर्तृगृहं मौग्ध्याच्छ्रेयो वा न पितुर्गृहम् ।।।। 4.1.17.९० ।।

वयश्च प्रथमं चारु रूपं त्रैलोक्यकांक्षितम् ।।

सर्वाभिभवनं स्त्रीत्वं कुलं चातीव निर्मलम् ।। ९१ ।।

पतिश्च तादृक्सर्वज्ञो लोकचक्षुस्तमोपहः ।।

सर्वेषां कर्मणां साक्षी सर्वः सर्वत्रसंचरः ।। ९२ ।।

मह्यं श्रेयः कथं वा स्यादिति सा परिचिंत्य च ।।

अगच्छद्वडवा भूत्वा तपसे पर्यनिंदिता ।। ९३ ।।

उत्तरांश्च कुरून्प्राप चरंती नीरसंतृणम् ।।

व्युत्तेपे च तपस्तीव्रं पतिमाधाय चेतसि ।।

तपोबलेन तत्पत्युः सहिष्ये तेज इत्यलम् ।। ९४ ।।

मन्यमानोथ तां संज्ञां सवर्णायां तदा रविः ।।

सावर्णिं जनयामास मनुमष्टममुत्तमम् ।। ९५ ।।

शनैश्चरं द्वितीयं च सुतां भद्रां तृतीयिकाम् ।।

सवर्णा स्वेष्वपत्येषु सापत्न्यात्स्त्रीस्वभावतः ।। ९६।।

चकाराभ्यधिकं स्नेहं न तथा पूर्वजेष्वथ ।।

मनुस्तत्क्षांतवाञ्ज्येष्ठो भक्ष्यालंकारलालने ।। ९७ ।।

कनिष्ठेष्वधिकं दृष्ट्वा सावर्ण्यादिषु नो यमः ।।

कदाचिद्रोषतो बाल्याद्भाविनोर्थस्य गौरवात् ।। ९८ ।।

पदा संतर्जयामास यमः संज्ञासरूपिणीम् ।।

तं शशाप च सा क्रोधात्सावर्णेर्जननी तदा ।। ९९ ।।

जिघांसता त्वया पाप मां यदंघ्रिः समुद्यतः।।

अचिरात्तत्पतत्वेष तवेति भृशदुःखिता ।। 4.1.17.१०० ।।

मातृशाप परित्रस्तो यमोपि पितुरग्रतः ।।

शशंस सर्वं तद्वृत्तं रक्षरक्षेत्युवाच च ।। १ ।।

मात्रासु तेषु सर्वेषु वर्तनीयं समं यतः ।।

तस्यां मयोद्यतः पादो न देहे परिपातितः ।। २ ।।

बाल्याद्वा यदि वा मोहात्तद्भवान्क्षंतुमर्हसि ।।

गोपते शापतो मातुर्मा पतत्वंघ्रिरेष मे ।।३।।

।। विवस्वानुवाच ।। ।।

अपराधसहस्रेपि जननी न शपेत्सुतम् ।।

तस्मात्किमपि भो बाल भविष्यत्यत्र कारणम् ।। ४ ।।

येन त्वां साऽशपत्क्रोधाद्धर्मज्ञं सत्यवादिनम् ।।

मातृशापोन्यथाकर्तुं न शक्यः केनचित्क्वचित् ।। ५ ।।

कृमयो मांसमादाय यास्यंत्यस्मान्महीतलम् ।।

इत्थं तु चरितार्थः स्याच्छापस्त्रातो भवानपि ।। ६ ।।

इति पुत्रं समाश्वास्य रविरंतःपुरं ययौ ।।

चिरमालोक्य तां भार्यामुवाच सविता वचः ।। ७ ।।

अयि भामिनि बालेषु समेष्वपि कुतस्त्वया ।।

विधीयतेऽधिकः स्नेहः सावर्ण्यादिष्वनादिषु ।। ८ ।।

नाचचक्षे यदासाऽथ भास्वते परिपृच्छते ।।

तदात्मानं समाधाय सोज्ञासीत्सर्वमेव हि ।। ९ ।।

ततो भगवते शप्तुमुद्यते सा शशंस ह ।।

यथावृत्तं तथा तथ्यं तुतोष भगवानपि ।। 4.1.17.११० ।।

तथ्यभाषणतस्तां तु रविर्ज्ञात्वा निरागसम् ।।

न शशाप च संक्रुद्धो ययौ च त्वष्टुरंतिकम् ।।११।।

त्वष्टापि च यथान्यायं सान्वयं तिग्मतेजसम्।।

निर्दग्धुकामं कोपेन प्रागानर्च मुदा तदा ।।

विज्ञाय तदभिप्रायं त्वष्टोवाचाऽशु तं रविम् ।। १२ ।।

त्वष्टोवाच ।। ।।

तवातितेजसो भीता प्राप्योत्तरकुरून् रवे ।।

वडवारूपमास्थाय वने चरति शाद्वले।। १३ ।।

द्रष्टा हि तां भवानद्य स्वां भार्यामार्यचारिणीम् ।।

अधृष्यां सर्वभूतानां तेजसा नियमेन च ।। १४ ।।

त्वष्ट्रा यत्तक्षितः सूर्यस्तस्यैवानुमतेन च ।।

भ्रमिमारोप्य यत्नेन सोतिकांततरोऽभवत् ।। १५ ।।

लब्धानुज्ञोऽथ सविता गत्वोत्तरकुरूनरम् ।।

साक्षात्तपोमयीं लक्ष्मीं चरंतीं च तपो महत् ।। १६ ।।

ददर्श वडवारूपां वाडवानलतेजसम् ।।

नीरसा नितृणान्येव वृण्वंतीं योगमायया ।। १७ ।।

अनेनसं स विज्ञाय तां त्वाष्ट्रीमश्वरूपिणीम् ।।

सहरिर्हरिरूपेण मुखेन समभावयद् ।। १८ ।।

त्वरमाणा च परितः परपूरुषशंकया ।।

सा तन्निरवमच्छुक्रं नासिकाभ्यां विवस्वतः ।। १९ ।।

देवौ तस्मादजायेतामश्विनौ भिषजांवरौ ।।

स्वरूपमनुरूपं च द्युमणिस्तामदर्शयत ।। 4.1.17.१२० ।।

तुतोष सापि तं दृष्ट्वा मित्रं नेत्रमुदावहम् ।।

पतिं पतिव्रता कां तं स्वांतसंतापहारिणम् ।। २१ ।।

निर्वृत्तिं च परां प्राप दुष्प्रापं तपसाथ किम् ।।

तप एव परं श्रेयस्तप एव परं धनम् ।। २२ ।।

तप एव हि देवत्वे कारणं परमं मतम् ।।

शिवशर्मन्यदेतद्वै दृश्यते चातिदीप्तिमत् ।। २३ ।।

ज्योतिश्चक्रस्वरूपं च व्योम्न्युपर्यध एव च ।।

तत्सर्वमिह जानीहि सुमहत्तापसं महः ।।२४।।

एवं शनैश्चरो जज्ञे सवर्णायां विवस्वतः ।।

सोऽथ वाराणसीं गत्वा सर्वत्रिदशवंदिताम् ।। २५ ।।

तप्त्वा तपोऽतिविपुलं लिंगं संस्थाप्य शांकरम् ।।

इमं लोकमवापोच्चैर्ग्रहत्वं च हरार्चनात ।।२६।।

शनैश्चरेश्वरं दृष्ट्वा वाराणस्यां सुशोभनम् ।।

शनिबाधा न जायेत शनिवारे तदर्चनात् ।।२७।।

विश्वेशाद्दक्षिणेभागे शुक्रेशादुत्तरेण हि ।।

शनैश्चरेशमभ्यर्च्य लोकेऽत्र परिमोदते ।। २८ ।।

श्रुत्वाऽध्यायमिमं पुण्यं ग्रहपीडा न जायते ।।

नोपसर्गभयं तस्य काश्यां निवसतः सतः ।। १२९ ।।

इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे भौमगुरुशनिलोकवर्णनं नाम सप्तदशोऽध्यायः ।। १७ ।। ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 18

अगस्तिरुवाच ।। ।।

इति शृण्वन्कथां रम्यां शिवशर्माऽथ माथुरः ।।

मुक्तिपुर्यां सुसंस्नातो मायापुर्यां गतासुकः ।।१।।

नेत्रयोः प्राघुणी चक्रे ततः सप्तर्षिमंडलम् ।।

व्रजन्स वैष्णवं लोकमंते विष्णुपुरीक्षणात् ।। २ ।।

उवाच च प्रसन्नात्मा स्तुतश्चारणमागधैः ।।

प्रार्थितो देवकन्याभिस्तिष्ठ तिष्ठेति चक्षणम् ।।३।।

स्थिता सुतासु निःश्वसस्य मंदभाग्या वयं त्विति ।।

गतः पुण्यतमाँल्लोकानसौ यत्पुण्यवत्तमः ।। ४ ।।

इति शृणवन्मुखात्तासां वचनानि विमानगः ।।

देवौ कस्यायमतुलो लोकस्तेजोमयः शुभः ।। ५ ।।

इति द्विजवचः श्रुत्वा प्रोचतुर्गणसत्तमौ ।।

शिवशर्मञ्छिवमते सदा सप्तर्षयोमलाः ।।६।।

वसंतीह प्रजाः स्रष्टुं विनियुक्ताः प्रजासृजा ।।

मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः ।। ७ ।।

वसिष्ठश्च महाभागो ब्रह्मणो मानसाः सुताः ।।

सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः ।। ८ ।।

संभूतिरनसूया च क्षमा प्रीतिश्च सन्नतिः ।।

स्मृतिरूर्जा क्रमादेषां पत्न्यो लोकस्य मातरः ।।९।।

एतेषां तपसा चैतद्धार्यते भुवनत्रयम् ।।

उत्पाद्य ब्रह्मणा पूर्वमेते प्रोक्ता महर्षयः ।।4.1.18.१०।।

प्रजाः सृजत रे पुत्रा नानारूपाः प्रयत्नतः।।

ततः प्रणम्य ब्रह्माणं तपसे कृतनिश्चयाः ।। ११ ।।

अविमुक्तं समासाद्य क्षेत्रंक्षेत्रज्ञधिष्ठितम् ।।

मुक्तये सर्वजंतूनामविमुक्तं शिवेन यत् ।। १२ ।।

प्रतिष्ठाप्य च लिंगानि ते स्वनाम्नांकितानि च ।।

शिवेति परया भक्त्या तेपुरुग्रं तपो भृशम।।१३।।

तुष्टस्तत्तपसा शंभुः प्राजापत्यपदं ददौ ।।

लिंगान्यत्रीश्वरादीनि दृष्ट्वा काश्यां प्रयत्नतः ।। ४ ।।

प्राजापत्येऽत्र ते लोके वसंत्युज्ज्वलतेजसः ।।

गोकर्णेशस्य सरसः प्रत्यक्तीरे प्रतिष्ठितम् ।। १५ ।।

लिंगमत्रीश्वरं दृष्ट्वा ब्रह्मतेजोभिवर्धते ।।

कर्कोट वाप्या ईशाने मरीचेः कुंडमुत्तमम् ।। १६ ।।

तत्र स्नात्वा नरो भक्त्त्या भ्राजते भास्करो यथा ।।

मरीचीश्वर संज्ञं तु तत्र लिंगं प्रतिष्ठितम् ।। १७ ।।

तल्लिंगदर्शनाद्विप्र मारीचं लोकमाप्नुयात् ।।

कांत्या मरीचिमालीव शोभते पुरुषर्षभः ।। १८ ।।

पुलहेश पुलस्त्येशौ स्वर्गद्वारस्य पश्चिमे ।।

तौ दृष्ट्वा मनुजो लोके प्राजापत्ये महीयते ।। १९ ।।

हरिकेशवने रम्ये दृष्ट्वैवांगिरसेश्वरम् ।।

इह लोके वसेद्विप्र तेजसापरिबृंहितः ।। 4.1.18.२० ।।

वरणायास्तटे रम्ये दृष्ट्वा वासिष्ठमीश्वम् ।।

क्रत्वीश्वरं च तत्रैव लभते वसतिं त्विह ।। २१ ।।

काश्यामेतानि लिंगानि सेवितानि शुभैषिभिः।।

मनोभिवांछितं दद्युरिह लोके परत्र च।।२२।।

गणावूचतुः ।। ।।

शिवशर्मन्महाभाग तिष्ठते सात्र सुंदरी ।।

अरुंधती महापुण्या पतिव्रतपरायणा ।। २३ ।।

यस्याः स्मरणमात्रेण गंगास्नान फलं लभेत् ।।

अंतःपुरचरैर्द्वित्रैः पवित्रैः सहितो विभुः ।। २४ ।।

सदा नारायणो देवो यस्याश्चक्रे कथां मुदा ।।

कमलायाः पुरोभागे पातिव्रत्य सुतोषितः ।। २५ ।।

पतिव्रतास्वरुंधत्याः कमले विमलाशयः ।।

यथास्ति न तथाऽन्यस्याः कस्याश्चित्कापि भामिनि ।।२६।।

न तद्रूपं न तच्छीलं न तत्कौलीन्यमेव च ।।

न तत्कलासुकौशल्यं पत्युः शुश्रूषणं न तत् ।। २७ ।।

न माधुर्यं न गांभीर्यं न चार्यपरितोषणम् ।।

अरुंधत्या यथा देवि तथाऽन्यासां क्वचित्प्रिये ।। २८ ।।

धन्यास्ता योषितो लोके सभाग्याः शुद्धबुद्धयः ।।

अरुंधत्याः प्रसंगे या नामापि परिगृह्णते ।। २९ ।।

यदा पतिव्रतानां तु कथास्मद्भवने भवेत् ।।

तदा प्राथमिकीं रेखामेषाऽलंकुरुते सती ।। 4.1.18.३० !।

ब्रुवतोरिति संकथां तथा गणयोर्वैष्णवयोर्मुदावहाम् ।।

ध्रुवलोकउपागतस्ततो नयनातिथ्यमतथ्यवर्जितः ।। ३१ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सप्तर्षिलोकवर्णनंनामाष्टादशोऽध्यायः ।।१८।।

खण्डः ४ (काशीखण्डः) — Adhyāya 19

शिवशर्मोवाच ।।

तिष्ठन्नेकेन पादेन कोयं भ्रमति सत्तमौ ।।

अनेकरशनाव्यग्र हस्ताग्रो व्यग्रलोचनः ।।१।।

त्रिलोकीमंडपस्तंभ सन्निभोभाभिरावृतः ।।

अतुलं ज्योतिषां राशिं तुलया तुलयन्निव।।२।।

सूत्रधार इव व्योम व्यायामपरिमापकः ।।

त्रैविक्रमोंघ्रिदंडो वा प्रोद्दंडो गगनांगणे ।। ३ ।।

अथवांबरकासारसारयूपस्वरूपधृक् ।।

कोयं कथय तं देवौ कृपया परया मम ।। ४ ।।

निशम्येति वचस्तस्य वयस्यस्य विमानगौ।।

प्रणयादाहतुस्तस्मै ध्रुवां ध्रुवकथां गणौ ।।५।।

।। गणावूचतुः ।। ।।

मनोः स्वायंभुवस्यासीदुत्तानचरणः सुतः ।।

तस्य क्षितिपतेर्विप्र द्वौ सुतौ संबभूवतुः ।। ६ ।।

सुरुच्यामुत्तमो ज्येष्ठः सुनीत्यां तु ध्रुवो परः ।।

मध्ये सभं नरपतेरुपविष्टस्य चैकदा ।। ७ ।।

सुनीत्या राजसेवायै नियुक्तोऽलंकृतोर्भकः ।।

ध्रुवो धात्रेयिकापुत्रैः समं विनयतत्परः ।। ८ ।।

स गत्वोत्तानचरणं क्षोणीशं प्रणनाम ह ।।

दृष्ट्वोत्तमं तदुत्संगे निविष्टं जनकस्य वै ।। ९ ।।

प्रोच्चसिंहासनस्थस्य नृपतेर्बाल्यचापलात् ।।

आरोढुकामस्त्वभवत्सौनीतेयस्तदा ध्रुवः ।। 4.1.19.१० ।।

आरुरुक्षुमवेक्ष्यामुं सुरुचिर्धुवमब्रवीत् ।।

दौर्भगेय किमारोढुमिच्छेरंकं महीपतेः ।। ११ ।।

बालबालिशबुद्धित्वादभाग्या जठरोद्भव ।।

अस्मिन्सिंहासने स्थातुं न त्वया सुकृतं कृतम् ।। ।। १२ ।।

यदि स्यात्सुकृतं तत्किं दुर्भगोदरगोऽभवः ।।

अनेनैवानुमानेन बुध्यस्व स्वाल्पपुण्यताम् ।। १३ ।।

भूत्वा राजकुमारोपि नालंकुर्या ममोदरम् ।।

सुकुक्षिजममुं पश्य त्वमुत्तममनुत्तमम् ।। १४ ।।

अधिजानुधराजानेर्मानेन परिबृंहितम् ।।

प्रांशोः सिंहासनस्यास्य रुचिश्चेदधिरोहणे ।। १५ ।।

कुक्षिं हित्वा किमवसः सुरुचेश्च सुरोचिषम् ।।

मध्ये भूपसभं बालस्तयेति परिभर्त्सितः ।। १६ ।।

पतन्निपीतबाष्पांबुर्धैर्यात्किंचिन्न चोक्तवान् ।।

उचिताऽनुचितं किंचिन्नोचिवान्सोपि पार्थिवः ।। १७ ।।

नियंत्रितो महिष्याश्च तस्याः सौभाग्यगौरवात् ।।

विमृज्य च सभालोकं शोकं संमृज्य चेष्टितैः ।। १८ ।।

शैशवैः स शिशुर्नत्वा नृपं स्वसदनं ययौ ।।

सुनीतिर्नीतिनिलयमवलोक्याथ बालकम् ।। १९ ।।

सुखलक्ष्म्यैवचाज्ञासीद्ध्रुवं समवमानितम् ।।

अभिसृत्य च तं बालं मूर्ध्न्युपाघ्राय सा सकृत् ।। 4.1.19.२० ।।

किंचित्परिम्लानमिव ससांत्वं परिषस्वजे ।।

अथ दृष्ट्वा सुनीतिं स रहोंतः पुरवासिनीम् ।।२१।।

दीर्घं निःश्वस्य बहुशो मातुरग्रे रुरोद ह ।।

सांत्वयित्वाश्रुनयना वदनं परिमार्ज्य च ।। २२ ।।

दुकूलांचल संपर्कैर्मृदुलैर्मृदुपाणिना ।।

पप्रच्छ तनयं माता वद रोदनकारणम् ।।

विद्यमाने नरपतौ शिशो केनापमानितः ।। २३ ।।

अपोथसमुपस्पृश्य तांबूलं परिगृह्य च ।।

मात्रा पृष्टः सोपरोधं ध्रुवस्तां पर्यभाषत ।।२४ ।।

संपृच्छे जननि त्वाहं सम्यक्शंस ममाग्रतः ।।

भार्यात्वेपि च सामान्ये कथं सा सुरुचिः प्रिया ।। २५ ।।

कथं न भवती मातः प्रिया क्षितिपतेरसि ।।

कथमुत्तमतां प्राप्त उत्तमः सुरुचेः सुतः ।। २६ ।।

कुमारत्वेपि सामान्ये कथं त्वहमनुत्तमः ।।

कथं त्वं मंदभाग्यासि सुकुक्षिः सुरुचिः कथम् ।।२७।।

कथं नृपासनं योग्यमुत्तमस्य कथं न मे ।।

कथं मे सुकृतं तुच्छमुत्तमस्योत्तमं कथम् ।। २८ ।।

इति श्रुत्वा वचस्तस्य सुनीतिर्नीतिमच्छिशोः ।।

किंचिदुच्छ्वस्य शनकैः शिशुकोपोपशांतये ।। २९ ।।

स्वभावमधुरां वाणीं वक्तुं समुपचक्रमे ।।

सापत्नं प्रतिघं त्यक्त्वा राजनीतिविदांवरा ।।4.1.19.३०।।

।। सुनीतिरुवाच ।। ।।

अयि तात महाबुद्धे विशुद्धेनांतरात्मना ।।

निवेदयामि ते सर्वं माऽपमाने मतिं कृथाः ।। ३१ ।।

तया यदुक्तं तत्सर्वं तथ्यमेव न चान्यथा ।।

सापत्युर्महिषीराज्ञो राज्ञीनामति वल्लभा ।। ३२ ।।

तया जन्मांतरे तात यत्पुण्यं समुपार्जितम् ।।

तत्पुण्योपचयाद्राजा सुरुच्यां सुरुचिर्भृशम् ।। ३३ ।।

मादृश्यो मंदभाग्यायाः प्रमदासु प्रतिष्ठिताः ।।

केवलं राजपत्नीत्ववादस्तासु न तद्रुचिः ।। ३४ ।।

महा सुकृतसंभारैरुत्तमश्चोत्तमोदरे ।।

उवास तस्याः पुण्या या नृपसिंहासनोचितः ।। ३५ ।।

आतपत्रं च चंद्राभं शुभे चापि च चामरे ।।

भद्रासनं तथोच्चं च सिंधुराश्च मदोद्धुराः ।। ३६ ।।

तुरंगमाश्च तुरगास्त्वनाधिव्याधिजीवितम् ।।

निःसपत्नं शुभं राज्यं प्राज्यं हरिहरार्चनम् ।। ३७ ।।

विपुलं च कलाज्ञानमधीतमपराजितम् ।।

तथा जयोरिषड्वर्गे स्वभावात्सात्त्विकी मतिः ।। ३८ ।।

दृष्टिः कारुण्यसंपूर्णा वाणी मधुरभाषिणी ।।

अनालस्यं च कार्येषु तथा गुरुजने नतिः ।। ३९ ।।

सर्वत्र शुचिता तात सा परोपकृतिः सदा ।।

और्जस्वला मनोवृत्तिः सदैवादीनवादिता ।। ।। 4.1.19.४० ।।

सदोजिरे च पांडित्यं प्रागल्भ्यं चरणांगणे ।।

आर्जवं बंधुवर्गेषु काठिन्यं क्रयविक्रये ।। ४१ ।।

मार्दवं स्त्रीप्रयोगेषु वत्सलत्वं प्रजासु च ।।

ब्राह्मणेभ्यो भयं नित्यं वृद्धवृत्त्युपजीवनम् ।। ४२ ।।

वासो भागीरथीतीरे तीर्थे वा मरणं रणे ।।

अपराङ्मुखताऽर्थिभ्यः प्रत्यर्थिभ्यो विशेषतः ।। ४३ ।।

भोगः परिजनैः सार्धं दानावंध्यदिनागमः ।।

विद्याव्यसनिता नित्यं नित्यं पित्रोरुपस्थितिः ।। ४४ ।।

यशसः संचयो नित्यं नित्यं धर्मस्य संचयः ।।

स्वर्गापवर्गयोः सिद्धिः सदा शीलस्य मंडनम् ।। ४५ ।।

सद्भिश्च संगतिर्नित्यं मैत्री च पितृमित्रकैः ।।

इतिहासपुराणानामुत्कंठा श्रवणे सदा ।। ४६ ।।

विपद्यपि परं धैर्यं स्थैर्यं संपत्समागमे ।।

गांभीर्यं वाग्विलासेषु औदार्यं पात्रपाणिषु ।। ४७ ।।

देहे परैका कृशता तपोभिर्नियमैर्यमैः ।।

एतैर्मनोरथफलैः फलत्येव तपोद्रुमाः ।। ४८ ।।

तस्मादल्पतपस्त्वाद्वै त्वं चाहं च महामते ।।

प्राप्यापि राजसांनिध्यं राजलक्ष्म्या न भाजनम् ।। ४९ ।।

मानापमानयोस्तस्मात्स्वकृतं कारणं परम् ।।

स्रष्टापि नापमार्ष्टुं तत्परीष्टे स्वकृतां कृतिम् ।।

मा शोचस्त्वमतः पुत्र दिष्टमिष्टं समर्पयेत् ।।4.1.19.५० ।।

इत्याकर्ण्य सुनीत्यास्तन्महावाक्यं सुनीतिमत् ।।

सौनीते यो ध्रुवोवाचमाददे वक्तुमुत्तरम् ।। ५१ ।।

ध्रुव उवाच ।। ।।

जनयित्रि सुनीते मे शृणु वाक्यमनाकुलम् ।।

मा बाल इति मत्वा मामवमंस्थास्तपस्विनि ।। ५२ ।।

यद्यहं मानवे वंशे जातोस्म्यत्यंत पावने ।।

उत्तानपादतनयस्त्वदीयोदर संभवः ।।५३।।

तप एव हि चेन्मातः कारणं सर्वसंपदाम् ।।

तत्तदासादितं विद्विपदमन्यैर्दुरासदम् ।। ५४ ।।

एकमेव हि साहाय्यं कुरु मातरतंद्रिता ।।

अनुज्ञा दानमात्रं च आशीर्भिरभिनंदय ।। ।। ५५ ।।

सापि ज्ञात्वा महावीर्यं कुमारं कुक्षिसंभवम् ।।

महत्योत्साहसं पत्त्या राजमानमुवाच तम् ।। ५६ ।।

अनुज्ञातुं न शक्ताऽहं त्वामुत्तानशयांगज ।।

साष्टैकवर्षदेशीयन्तथापि कथयाम्यहम् ।। ५७ ।।

सपत्नीवाक्यभल्लीभिर्भिन्ने महति मे हृदि ।।

तव बाष्पौघवारीणि न तिष्ठंति करोमि किम् ।। ५८ ।।

तानि मन्येऽत्र मार्गेण स्रवंत्यविरतं शिशो ।।

स्रवंतीश्च चिकीर्षंति प्रतिकूल जलाः किल ।। ५९ ।।

त्वदेकतनया तात त्वदाधारैकजीविता ।।

त्वमंगयष्टिरसि मे त्वन्मुखासक्तलोचना ।। 4.1.19.६० ।।

लब्धोसि कतिभिः कष्टैरिष्टाः संप्रार्थ्य देवताः ।।

त्वन्मुखेंदूदये तात मन्मनः क्षीरनीरधिः ।। ६१ ।।

आनन्दपयसापूर्य कुचावुद्वेलितो भवेत् ।।

त्वदंगसंगसंभूत सुखसन्दोह शीतला ।। ६२ ।।

सुखंशये सुशयने प्रावृत्य पुलकांबरम् ।।

अपोऽथ समुपस्पृश्य तांबूलं परिगृह्य च ।।६३।।

त्वदास्यस्यौष्ठपुटक दुग्धवार्धि विवर्धिताम् ।।

सुधासुधांशुवदनधयत्यपि धिनोमि न ।। ६४ ।।

त्वदीयः शीतलालापः प्राप श्रुतिपथं यदा ।।

सपत्नीवाक्यदवथुस्तदैवत्यात्स वेपथुः ।।६५।।

यदंग निद्रासिचिरं ध्यायंत्यस्मि तदेत्यहम् ।।

कदा निद्रा दरिद्रोसौ भवितार्कोदयेऽब्जवत् ।।६६।।

यदोपेया गृहान्वत्स खेलित्वा बालखेलनैः ।।

तदानर्घ्यार्घ्यमुत्स्रष्टुं स्तनौस्यातामिवोन्मुखौ ।। ।। ६७ ।।

यदा सौधाद्विनिर्यायाः पद्मरेखांकितं पदम् ।।

प्राणानां ते यियासूनां तदा तदवलंबनम् ।। ६८ ।।

यदायदा बहिर्यासि पुत्र त्रिचतुरं पदम् ।।

तदातदा मम प्राणः कंठप्राघुणिकी भवेत् ।। ६९ ।।

चित्रं पुत्र त्वरयति यातुं मे मानसांडजः ।।

सुधाधाराधर इव बहिश्चिरयति त्वयि ।। 4.1.19.७० ।।

अथ तिष्ठंतु कठिनाः प्राणाः कंठाटवीतटे ।।

तपस्यंतोतिसंतप्तास्तपसे त्वयि यास्यति ।। ७१ ।।

इत्यनुज्ञामनुप्राप्य जननी चरणांबुजौ ।।

क्षणं मौलिजजंबाल जडौ कृत्वा ध्रुवो ययौ ।। ७२ ।।

तयापि धैर्यसूत्रेण सुनीत्या परिगुंफ्य च ।।

नेत्रेंदीवरजामाला ध्रुवस्योपायनीकृता ।। ७३ ।।

मात्रातन्मार्गरक्षार्थं तदा तदनुगीकृताः ।।

परैरवार्यप्रसराः स्वाशीर्वादाः परःशताः ।। ७४ ।।

स्वसौधात्स विनिर्गत्य बालोऽबालपराक्रमः ।।

अनुकूलेन मरुता दर्शिताध्वाऽविशद्वनम् ।। ७५ ।।

समरुत्तरुशाखाग्र प्रसारणमिषेण सः ।।

कृताहूतिरिव प्रेम्णा वनेन वनमाविशत् ।। ७६ ।।

समातृदैवतोभिज्ञः केवलं राजवर्त्मनि ।।

न वेद काननाध्वानं क्षणं दध्यौ नृपात्मजः ।। ७७ ।।

यावदुन्मील्य नयने पुरः पश्यति स ध्रुवः ।।

तावद्ददर्श सप्तर्षीनतर्कित गतीन्वने ।। ७८ ।।

वालिशेष्वसहायेषु भवेद्भाग्यं सहायकृत् ।।

अरण्यान्यां रणे गेहे ततो भाग्यं हि कारणम् ।। ।।७९।।

क्व राजतनयो बालो गहनं क्व च तद्वनम् ।।

बलात्स्वसात्प्रत्कुर्वत्यै नमस्ते भवितव्य ते ।।4.1.19.८०।।

यत्र यस्य हि यद्भाव्यं शुभं वाऽशुभमेव च ।।

आकृष्यभाविनी रज्जुस्तत्र तस्य हि दापयेत ।। ८१ ।।

अन्यथा विदधात्येष मानवो बुद्धिवैभवात् ।।

भगवत्या भवित्र्याऽसौ विदध्याद्विधिरन्यथा ।। ८२ ।।

नवयो न च वै चित्र्यं न चित्रं विदधेहितम् ।।

न बलं नोद्यमः पुंसां कारणं प्राक्कृतं कृतम् ।।८३ ।।

अथ दृष्ट्वा स सप्तर्षीन्सप्तसप्त्यतितेजसः ।।

भाग्यसूत्रैरिवाकृष्योपनीतान्प्रमुमोद ह ।। ८४ ।।

तिलकांकित सद्भालान्कुशोपग्रहितांगुलीन् ।।

कृष्णाजिनोपविष्टांश्च यज्ञसूत्रैरलंकृतान् ।। ८५ ।।

साक्षसूत्रकरान्किंचिद्विनिमीलितलो चनान् ।।

सुधौतसूक्ष्मकाषायवासः प्रावरणान्वितान ।। ८६ ।।

अकांडेपि महाभागान्मिलितान्सप्तनीरधीन् ।।

चित्रं विपद्विनिर्मग्नानुद्दिधीर्षूनिव प्रजाः ।। ८७ ।।

उपगम्य विनम्रः स प्रबद्धकरसंपुटः ।।

ध्रुवो विज्ञापयांचक्रे प्रणम्य ललितं वचः ।। ८८ ।।

।। ध्रुव उवाच ।। ।।

अवैत मां मुनिवराः सुनीत्युदरसंभवम्।।

उत्तानपादतनयं ध्रुवं निर्विण्णमानसम् ।। ८९ ।।

इदं वनमनुप्राप्तं सनाथं युष्मदंघ्रिभिः ।।

प्रायोनभिज्ञं सर्वत्र महर्द्ध्युषितमानसम् ।।4.1.19.९०।।

ते दृष्ट्वोर्जस्वलं बालं स्वभाव मधुराकृतिम् ।।

अनर्घ्यनयनेपथ्यं मृदुगंभीरभाषिणम् ।। ९१ ।।

उपोपवेश्य शिशुकं प्रोचुर्वै विस्मिता भृशम् ।।

अहोबालविशालाक्ष महाराज कुमारक ।। ९२ ।।

विचार्यापि न जानीमो वद निर्वेदकारणम् ।।

अद्य ते ह्यर्थचिंता नो क्वापमानः प्रसूर्गृहे ।। ९३ ।।

नीरुक्छरीरसंपत्तिर्निवेदे किं नु कारणम् ।।

अनवाप्ताभिलाषाणां वैराग्यं जायते नृणाम् ।। ९४ ।।

सप्तद्वीपपतेराज्ञः कुमारस्त्वं तथा कथम् ।।

स्वभावभिन्नप्रकृतौ लोकेस्मिन्न मनोगतम् ।। ९५ ।।

अवगंतुं हि शक्येत यूनो वृद्धस्य वा शिशोः ।।

इति श्रुत्वा वचस्तेषां सहजप्रेमनिर्भरम् ।। ९६ ।।

वाचं जग्राह स तदा शिशुः प्रांशुमनोरथः

।।ध्रुव उवाच ।। ।।

प्रेषितो राजसेवार्थं जनन्याऽहं मुनीश्वराः ।। ९७ ।।

राजांकमारुरुक्षुर्हि सुरुच्या परिभर्त्सितः ।।

उत्तमं चोत्तमीकृत्य मां च मन्मातरं तथा ।।९८।।

धिक्कृत्य प्रशशंस स्वं निर्वेदे कारणं त्विदम् ।।

निशम्येति शिशोर्वाक्यं परस्परमवेक्ष्य ते ।।९९।।

क्षात्रमेव शशंसुस्तदहो बालेपि न क्षमा।। 4.1.19.१०० ।।

ऋषय ऊचुः ।। ।।

किमस्माभिरहो कार्यं कस्तवास्ति मनोरथः ।।

ज्ञातो भवतु तावत्स नः श्रवो गोचरी कुरु ।। १ ।।

।। ध्रुव उवाच ।। ।।

मुनयो मम यो बंधुरुत्तमश्चोत्तमोत्तमः ।।

पित्रा दत्तं च सोऽध्यास्तां तद्भद्रासनमुत्तमम् ।। २ ।।

भवत्कृतं हि साहाय्यमेतदिच्छामि सुव्रताः ।।

प्रायो जाने न बालत्वादुपदेशस्तदुच्यताम् ।। ३ ।।

अनन्यनृपभुक्तं यद्यदन्येभ्यः समुच्छ्रितम् ।।

इंद्रादिदुरवापं यत्कथं लभ्यं दुरासदम् ।। ४ ।।

पित्रोत्सृष्टं न कांक्षामि कांक्षामि स्वभुजाजितम् ।।

मनोरथपथातीतं भवेद्यत्पितुरप्यहो ।। ५ ।।

पितृसंपत्तिभोक्तारः प्रायशो न यशोधनाः ।।

नरोत्तमास्तु ते ज्ञेया ये पित्राधिक्यदर्शिनः ।। ६ ।।

उपार्जितं हि पित्रा ये नाशयंति यशःश्रुतम् ।।

धनं निधनमेवास्तु तेषां दुर्वृत्तचेतसाम् ।। ७ ।।

इति श्रुत्वा वचस्तस्य मुनयः सुनयोर्जितम् ।।

यथार्थमेव प्रत्यूचुर्मरीच्याद्यास्तथा ध्रुवम् ।। ८ ।।

मरीचिरुवाच ।। ।।

अनर्चिताच्युतपदः पदमापद्यते कथम् ।।

यथातथात्वमात्थांग नातथ्यं कथयाम्यहम् ।। ९ ।।

अत्रिरुवाच ।।

अनास्वादितगोविंदपदांबुजरजोरसः ।।

मनोरथपथातीतं स्फीतं नाकलयेत्पदम् ।। 4.1.19.११० ।।

अंगिरा उवाच ।। ।।

अदवीयः पदं तस्य सर्वासां संपदामिह ।।

कमलाकांतकांतांघ्रि कमले यः सुशीलयेत् ।। ११ ।।

।। पुलस्त्य उवाच ।। ।।

यस्य स्मरणमात्रेण महापातकसंततिः ।।

परमांतमवाप्नोति स विष्णुः सर्वदो ध्रुव ।। १२ ।।

।। पुलह उवाच ।। ।।

यदाहुः परमं ब्रह्म प्रधान पुरुषात्परम् ।।

यन्मायया ततं सर्वं सर्वं दास्यति सोच्युतः ।। १३ ।।

।। क्रतुरुवाच ।। ।।

यो यज्ञपुरुषो विष्णुर्वेदवेद्यो जनार्दनः ।।

अंतरात्माऽस्य जगतः तुष्टः किं न यच्छति ।। १४ ।।

।। वसिष्ठ उवाच ।। ।।

यद्भ्रूनर्तनवर्तिन्यः सिद्धयोऽष्टौ नृपात्मज ।।

तमाराध्य हृषीकेशमपवर्गोप्यदूरतः ।। १५ ।।

ध्रुव उवाच ।। ।।

सत्यमुक्तं मुनीशाना विष्णोराराधनं प्रति ।।

कथं वा भगवानीज्यः सविधिश्चोपदिश्यताम् ।।१६।।

।। मुनय ऊचुः ।। ।।

तिष्ठता गच्छता वापि स्वपता जाग्रता तथा ।।

शयानेनोपविष्टेन जप्यो नारायणः सदा ।।१७।।

द्वादशाक्षरमंत्रेण वासुदेवात्मकेन च।।

ध्यायंश्चतुर्भुजं विष्णुं जप्त्वा सिद्धिं न को गतः ।। १८ ।।

अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।।

क्षणं सर्वात्मकं पश्यन्को न सिध्यति भूतले ।।१९।।

पुत्रान्कलत्रमित्राणि राज्यं स्वर्गापवर्गकम् ।।

वासुदेवं जपन्मर्त्यः सर्वं प्राप्नोत्यसंशयम् ।। 4.1.19.१२० ।।

वासुदेव जपासक्तानपिपापकृतो जनान् ।।

नोपस्पृशंति वै विघ्ना यमदूताश्च दारुणाः ।। २१ ।।

पितामहेन तेप्येष महामंत्र उपासितः ।।

मनुना राज्यकामेन वैष्णवेन महर्द्धिना ।। २२ ।।

त्वमप्येतेन मंत्रेण वासुदेवपरो भव ।।

यथाभिलषितामृद्धिं क्षिप्रमाप्नुहि सत्तम ।। २३ ।।

इत्युक्त्वांऽतर्हिताः सर्वे महात्मानो मुनीश्वराः ।।

वासुदेवमना भूत्वा ध्रुवोपि तपसे गतः ।। १२४ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूवार्द्धे ध्रुवलोकवर्णने धुवोपदेशोनामैकोनविंशतितमोऽध्यायः ।। १९ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 20

।। गणावूचतुः ।। ।।

औत्तानपादिर्निर्गत्य ततः काननतो द्विज ।।

रम्यं मधुवनं प्राप यमुनायास्तटे महत ।। १ ।।

आद्यं भगवतः स्थानं तत्पुण्यं हरिमेधसः ।।

पापोपि जंतुस्तत्प्राप्य निष्पापो जायते ध्रुवम् ।। २ ।।

जपन्स वासुदेवाख्यं परंब्रह्म निरामयम् ।।

अपश्यत्तन्मयं विश्वं ध्यानस्तिमितलोचनः ।। ३ ।।

हरिर्हरित्सु सर्वासु हरिर्हरिमरीचिषु ।।

शिवामृगमृगेंद्रादि रूपः काननगो हरिः ।। ४ ।।

जले शालूरकूर्मादि रूपेण भगवान्हरिः ।।

हरिरश्वादिरूपेण मंदुरास्वपि भूभुजाम् ।। ५ ।।

अनंतरूपः पाताले गगनेऽनंतसंज्ञकः ।।

एकोप्यनंततां यातो रूपभेदैरनंतकैः ।। ६ ।।

देवेषु यो वसेन्नित्यं देवानां वसतिर्हि यः ।।

स वासुदेवः सर्वत्र दीव्येद्यद्वासनावशात् ।। ७ ।।

विष्लृव्याप्तावयंधातुर्यत्रसार्थकतां गतः।।

ते विष्णुनाम स्वरूपे हि सर्वव्यापनशीलिनि ।। ८ ।।

सर्वेषां च हृषीकाणामीशनात्परमेश्वरः ।।

हृषीकेश इति ख्यातो यः स सर्वत्रसंस्थितः ।। ९ ।।

न च्यवंतेपि यद्भक्ता महति प्रलये सति ।।

अतोऽच्युतोऽखिले लोके स एकः सर्वगोऽव्ययः ।। 4.1.20.१० ।।

इदं चराचरं विश्वं यो बभार स्वलीलया ।।

भृत्यास्वरूपसंपत्त्या सोऽत्र विश्वंभरोऽखिलम् ।। ११ ।।

तस्येक्षणे समीक्षेते नान्यद्विप्णुपदादृते ।।

निरीक्ष्यः पुंडरीकाक्षो नान्यो नियमतो ह्यतः ।। १२ ।।

नान्य शब्दग्रहौ तस्य जातौ शब्दग्रहावपि ।।

विना मुकुंद गोविंद दामोदर चतुर्भुज ।। १३ ।।

गोविंदचरणार्थार्चां तत्प्रियंकर्मवै विना ।।

शंखचक्रांकितौ तस्य नान्यकर्मकरौकरौ ।। १४ ।।

निर्द्वंद्वचरणद्वंद्वं तन्मनो मनुते हरेः ।।

हित्वान्यन्मननं सर्वं निश्चलत्वमवाप ह ।। १५ ।।

चरणौ विष्णुशरणौ हित्वा नारायणांगणम् ।।

तस्य नो चरतोन्यत्र चरतो विपुलं तपः ।। १६ ।।

वाणीप्रमाणी क्रियते गोविंदगुणवर्णने ।।

जोषं समासता तेन महासारं तपस्यता ।। १७ ।।

नितांतकमलाकांत नामधेयसुधारसम् ।।

रसयंती न रसना तस्यान्यरसस्पृहा ।। १८ ।।

श्रीमुकुंद पदद्वंद्व पद्मामोदप्रमोदितम् ।।

गंधांतरं न तद्घ्राणं परिजिघ्रत्यशीघ्रगम् ।। १९ ।।

त्वगिंद्रियं मधुरिपोः परिस्पृश्य पदद्वयम् ।।

सर्वस्पर्शसुखं प्राप तस्य भूजानिजन्मनः ।। 4.1.20.२० ।।

शब्दादिविषयाधारं सारं दामोदरं परम् ।।

ध्रुवेंद्रियाणि संप्राप्य कृतार्थान्यभवंस्तदा ।। २१ ।।

लुप्तानि सर्वतेजांसि तत्तपस्तपनोदये ।।

चंद्रसूर्यानलर्क्षाणां प्रदीपित जगत्त्रये ।। २२ ।।

इंद्र चंद्राग्नि वरुण समीरण धनाधिपाः ।।

यम नैर्ऋतमुख्याश्च जाताः स्वपदशंकिताः ।। २३ ।।

वैमानिकास्तथाऽन्येपि वसुमुख्या दिवौकसः ।।

ततो धुवात्समुत्त्रेसुः स्वाधिकारैधिताधयः ।।२४।।

यत्र यत्र ध्रुवः पादं मिनोति पृथिवीतले ।।

धरा तस्य भराक्रांता विनमेत्तत्र तत्र वै ।।२५।।

अहो तदंगसंगीनि त्यक्त्वा जाड्यं जलान्यपि ।।

रसवंति पदस्थानि स्फुरंत्यन्यत्र तद्भयात् ।। २६ ।।

यावंति विष्वक्तेजांसि सिद्धरूपगुणानि च ।।

नेत्रातिथीनि तावंति तत्तपस्तेजसाऽभवन् ।। २७ ।।

अहो निजगुणस्पर्शः सततं मातरिश्वना ।।

दूरदेशांतरस्थोपि तत्त्वचो विषयीकृतः ।। २८ ।।

व्योम्नापि शब्दगुणिना ध्रुवाराधनबुद्धिना ।।

शब्दजातस्त्वशेषोपि तत्कर्ण शरणीकृतः ।।२९।।

आराधितोऽनुदिवसं सभूतैरपि पंचभिः ।।

तप एव परं मेने गोविंदार्पित मानसः ।। 4.1.20.३० ।।

कौस्तुभोद्भासितहृदः पीतकौशेयवाससः ।।

ध्यानात्तेजोमयं विश्वं तेनैक्षि नृपसूनुना ।। ३१ ।।

मरुत्वतातिमहती चिंताऽप्ता तत्तपोभयात् ।।

मत्पदं चेदकांक्षिष्यदहरिष्यद्ध्रुवं धुवः ।। ३२ ।।

समर्थस्त्वप्सरोवर्गो नियंतुं यमिनां यमान् ।।

स तु यूनि प्रभवति नात्र बाले करोमि किम् ।। ३३ ।।

तपस्विनां तपो हंतुं द्वौ मत्साहाय्यकारिणौ ।।

कामक्रौधौ न तावस्मिन्प्रभवेतां शिशौ ध्रुवे ।। ३४ ।।

एक एव किलोपायो बाले मे प्रभविष्यति ।।

भूतालिं भीषणाकारां प्रहिणोमीह तद्भिये ।। ३५ ।।

बालत्वाद्भीषितो भूतैस्तपस्त्यक्ष्यत्यसौ ध्रुवम् ।।

इति निश्चित्य भूतालिं प्रेषयामास वासवः ।। ३६ ।।

भल्लूकाकारसर्वांग उष्ट्रलंबशिरोधरः ।।

कश्चिद्दुर्दर्शदशनस्त्वभ्यधावत्तमर्भकम् ।। ३७ ।।

तं व्याघ्रवदनः कश्चिद्व्यादाय विकटाननम् ।।

द्विपोच्च देहसंस्थानो मुहुर्गर्जन्समभ्यगात् ।। ३८ ।।

रयात्तु मांसकं भुंजन्कश्चिद्विकटदंष्ट्रकः ।।

रोषात्तमभिदुद्राव दृष्ट्वा संतर्जयन्निव ।। ३९ ।।

अतितीक्ष्णैर्विषाणाग्रैस्तटानुच्चान्विदारयन् ।।

खुराग्रैर्दलयन्भूमिं महोक्षोऽभिजगर्जतम् ।। 4.1.20.४० ।।

कश्चिद्धि पन्नगी भूय फटाटोपभयानकः ।।

अतिलोलद्विरसनः पुस्फूर्जनिकषाचितम् ।। ४१ ।।

कश्चिच्च महिषाकारः क्षिपञ्शृंगाग्रतो गिरोन् ।।

लांगूलताडितधरः श्वसन्वेगात्तमाप्तवान्।। ४२ ।।

कश्चिद्दावानलालीढ खर्जूरद्रुमसन्निभम् ।।

बिभ्रदूरुद्वयंभूतो व्यात्तास्यस्तमभीषयत् ।। ४३ ।।

मौलिजैरभ्रसंघर्षं कुर्वन्दीर्घकृशोदरः ।।

निमग्नपिंगनयनः कश्चिद्भीषयति स्म तम् ।। ४४ ।।

कृपाणपाणिर्भग्नास्यो वामहस्तकपालधृत् ।।

प्रचंडं क्ष्वेडयन्कश्चिदभ्यधावत्तमर्भकम् ।। ४५ ।।

विशाल सालमादाय कुर्वन्किल किलारवम् ।।

कश्चित्तमभितो याति कालो दंडधरो यथा ।। ४६ ।।

तमः संकेतसदनं व्याघ्रं वै वदनं महत्।।

कृतांतकं दराकारं बिभ्रत्कश्चित्तमभ्यगात्।। ४७ ।।

उलूकाकारतां धृत्वा फूत्कारैरतिदारुणैः ।।

हृदयाकंपनैः कश्चिद्भीषयामास तं ध्रुवम् ।। ४८ ।।

यक्षिणी काचिदानीय रुदंतं कस्यचिच्छिशुम् ।।

अपिबद्रुधिरं कोष्ठाच्चखादास्थि मृणालवत् ।। ४९ ।।

पिपासिताद्य रुधिरं तेपि पास्याम्यहं धुव ।।

यथास्य बालस्य तथा चर्वित्वास्थीनि वादिनी ।। 4.1.20.५० ।।

अनीय तृणदारूणि परिस्तीर्य समंततः ।।

दावाग्निं ज्वालयामास काचिद्वात्याविवर्धितम् ।। ५१ ।।

वेताली रूपमास्थाय भंक्त्वा काचित्तरून्गिरीन् ।।

रुरोध गगनाध्वानं कंपयंती च तं भृशम् ।। ५२ ।।

अन्या सुनीतिरूपेण तमभिप्रेक्ष्य दूरतः ।।

रुरोदातीवदुःखार्ता वक्षोघातं मुहुर्मुहुः ।। ५३ ।।

उवाच च वचश्चाटु बहुमाया विनिर्मितम् ।।

कारुण्यपूर्ण वात्सल्यमतीवातन्वती सती ।। ५४ ।।

त्वदेकशरणां वत्स बत मृत्युर्जिघांसति ।।

रक्षरक्ष गतासुं मां शरणागतवत्सल ।। ५५ ।।

प्रतिग्रामं प्रतिपुरं प्रत्यध्वं प्रतिकाननम् ।।

प्रत्याश्रमं प्रतिगिरिं श्रांता त्वद्वीक्षणातुरा ।। ५६ ।।

यदा प्रभृति रे बाल निरगात्तपसे भवान् ।।

तदेव दिनमारभ्य निर्गताऽहं त्वदीक्षणे ।। ५७ ।।

तैस्तैः सपत्नीदुर्वाक्यैर्दुनोपि त्वं यथार्भक ।।

तथाऽहमपि दूनास्मि नितरां तद्वचोऽग्निना ।। ५८ ।।

न निद्रामि न जागर्मि नाश्नामि न पिबाम्यहम् ।।

ध्यायामि केवलं त्वाऽहं योगिनीव वियोगिनी ।।५९।।

निद्रादरिद्रनयना स्वप्नेपि न तवाननम् ।।

आनंदि सर्वथा यन्मे मंदभाग्या विलोकये ।। 4.1.20.६० ।।

त्वदाननप्रतिनिधिर्विधुर्विधुरया मया ।।

उदित्वरोपिनालोकि तापं वै त्यक्तुकामया ।। ६१ ।।

त्वदालापसमालापं कलयन्किलकाकलीम् ।।

कोकिलोपि मयाकर्णि नालकाकीर्णकर्णया ।।६२।।

त्वदंगसंगमधुरो ध्रुवधूपितयामया ।।

नानिलोपि मयालिंगि क्वचिद्विश्रांतया भृशम् ।। ६३ ।।

के देशाः काश्च सरितः के शैलास्त्वत्कृते ध्रुव ।।

मया चरणचारिण्या राजपत्न्या न लंघिताः ।। ६४ ।।

अध्रुवं सर्वमेवैतत्पश्यंत्यंधीकृतास्म्यहम् ।।

धात्रीं त्रायस्व मां पुत्र प्राप्य त्वंमेंऽधयष्टिताम् ।। ६५ ।।

मृदुलानि तवांगानि क्वेमानि क्व तपस्त्विदम् ।।

परुषं पुरुषैः साध्यं परुषांगैर्नरर्षभ ।। ६६ ।।

अनेन तपसा वत्स त्वयाऽऽप्यं किमनेनसा ।।

धराधीशतनूजत्वादधिकं तद्वदाधुना ।। ६७ ।।

अनेन वयसा बाल खेलनीयं त्वयाऽनिशम् ।।

बालक्रीडनकैरन्यैः सवयः शिशुभिः समम् ।। ६८ ।।

ततः कौमारमासाद्य वयोऽभिध्यानशीलिना ।।

भवता सर्वविद्यानां भाव्यं वै पारदृश्वना ।। ६९ ।।

वयोथ चतुरं प्राप्य योषास्रक्चंदनादिकान् ।।

निर्वेक्ष्यसि बहून्भोगानिंद्रियार्थान्कृतार्थयन् ।। 4.1.20.७० ।।

उत्पाद्याथ बहून्पुत्रान्गुणिनो धर्मवत्सलान् ।।

परिसंक्रामितश्रीकस्तेष्वथो त्वं तपश्चर ।। ७१ ।।

इदानीमेव तपसि बाल्ये वयसि कः श्रमः ।।

पादांगुष्ठकरीषाग्निः कदा मौलिमवाप्स्यति ।। ७२ ।।

विपक्षपरिभूतेन हृतमानेन केनचित् ।।

परिभ्रष्टश्रिया वापि तप्तव्यं तेषु को भवान् ।। ७३ ।।

हृतमानेन तप्तव्यं निशम्येति वचो ध्रुवः ।।

दीर्घमुष्णं हि निःश्वस्य पुनर्दध्यौ हरिं हृदि ।। ७४ ।।

जनयित्रीमनाभाष्य भूतभीतिं विहाय च ।।

ध्रुवोऽच्युतध्यानपरः पुनरेव बभूव ह ।। ७५ ।।

सापि भूतावली भीतिंबहुभीषणभूषणा ।।

दर्शयंती तमभितोऽद्राक्षीच्चक्रं सुदर्शनम् ।। ७६ ।।

परितः परिवेषाभं सूर्यस्योच्चैः स्फुरत्प्रभम् ।।

रक्षणाय च रक्षोभ्यस्तस्याधोक्षज निर्मितम् ।। ७७ ।।

भूतावली तमालोक्य स्फुरच्चक्रसुदर्शनम् ।।

ज्वालामालाकुलं तीव्रं रक्षंतं परितो ध्रुवम् ।। ७८ ।।

अतीव निष्कंपहृदं गोविदार्पितचेतसम् ।।

तपोंकुरमिवोद्भिद्य मेदिनीं समुदित्वरम् ।। ७९ ।।

सापि प्रत्युतभीतातं ध्रुवं ध्रुवविनिश्चयम् ।।

नमस्कृत्य यथायातं याताव्यर्थमनोरथा ।। 4.1.20.८० ।।

गर्जत्कादंबिनीजालं व्योम्नि वै व्याकुलं यथा ।।

वृथा भवति संप्राप्य मनागनिललोलताम् ।। ८१ ।।

अथ जंभारिणा सार्धं भीताः सर्वे दिवौकसः ।।

संमंत्र्य त्वरिता जग्मुर्ब्रह्माणं शरणं द्विज ।। ८२ ।।

नत्वा विज्ञापयामासुः परिष्टुत्या पितामहम् ।।

वच्रोऽवसरमालोक्य पृष्टागमनकारणाः ।। ८३ ।।

।। देवा ऊचुः ।। ।।

धातरुत्तानपादस्य तनयेन सुवर्चसा ।।

तपता तापिताः सर्वे त्रिलोकी तलवासिनः ।। ८४ ।।

सम्यक्संविद्महे तात धुवस्य न मनीषितम् ।।

पदं परिजिहीर्षुः स कस्यास्मासु महातपाः ।। ८५ ।।

इति विज्ञापितो देवैर्विहस्य चतुराननः ।।

प्रत्युवाचाथ तान्सर्वान्ध्रुवतो भीतमानसान् ।। ८६ ।।

।। ब्रह्मोवाच ।। ।।

न भेतव्यं सुरास्तस्माद्ध्रुवाद्ध्रुवपदैषिणः ।।

व्रजंतु विज्वराः सर्वे न स वः पदमिच्छति ।। ८७ ।।

न तस्माद्भगवद्भक्ताद्भेतव्यं केनचित्क्वचित् ।।

निश्चितं विष्णुभक्ता ये न ते स्युः परतापिनः ।। ८८ ।।

आराध्य विष्णुं देवेशं लब्ध्वा तस्मात्स्वकांक्षितम् ।।

भवतामपि सर्वेषां पदानि स्थिरयिष्यति ।। ८९ ।।

निशम्येति च गीर्वाणाः प्रणीतं ब्रह्मणो वचः ।।

प्रणिपत्य स्वधिष्ण्यानि प्रहृष्टाः परिवव्रजुः ।। 4.1.20.९० ।।

अथ नारायणो देवस्तं दृष्ट्वा दृढमानसम् ।।

अनन्यशरणं बालं गत्वा तार्क्ष्यरथोऽब्रवीत् ।। ९१ ।।

श्रीविष्णुरुवाच ।। ।।

प्रसन्नोस्मि महाभाग वरं वरय सुव्रत ।।

तपसोऽस्मान्निवर्तस्व चिरं खिन्नोसि बालक ।। ९२ ।।

वचोऽमृतं समाकर्ण्य पर्युन्मील्य विलोचने ।।

इंद्रनीलमणिज्योतिः पटलीं पर्यलोकयत् ।। ९३ ।।

प्रत्यग्रविकसन्नीलोत्पलानां निकुरंबकैः ।।

प्रोत्फुल्लितां समंताच्च रोदसी सरसीमिव ।। ९४ ।।

लक्ष्मीदेवीकटाक्षोघैः कटाक्षितमिवाखिलम् ।।

धुवस्तदानिरैक्षिष्ट द्यावाभूम्योर्यदंतरम् ।। ९५ ।।

प्रोद्यत्कादंबिनीमध्य विद्युद्दामसमानरुक् ।।

पुरः पीतांबरः कृष्णस्तेन नेत्रातिथीकृतः ।। ९६ ।।

नभो निकष पाषाणो मेरुकांचन रेखितः ।।

यथातथा ध्रुवेणैक्षि तदा गरुडवाहनः ।। ९७ ।।

सुनीलगगनं यद्वद्भूषितं तु कलावता ।।

पीतेन वाससा युक्तं स ददर्श हरिं तदा ।। ९८ ।।

दंडवत्प्रणिपत्याथ परितः परिलुठ्य च ।।

रुरोद दृष्ट्वेव चिरं पितरं दुःखितः शिशुः ।।९९।।

नारदेन सनंदेन सनकेन सुसंस्तुतः ।।

अन्यैः सनत्कुमाराद्यैर्योगिभिर्योगिनां वरः ।।4.1.20.१००।।

कारुण्यवाष्पनीरार्द्र पुंडरीकविलोचनः।।

ध्रुवमुत्थापयांचक्रे चक्री धृत्वा करेण तम्।।१।।

हरिस्तु परिपस्पर्श तदंगं धूलिधूसरम् ।।

कराभ्यां सुकठोराभ्यां नित्यं शास्त्रपरिग्रहात्।।।२।।

स्पर्शनाद्देवदेवस्य सुसंस्कृतमयी शुभा ।।

वाणी प्रवृत्ता तस्यास्यात्तुष्टावाथ ध्रुवो हरिम् ।। १०३ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ध्रुवाख्याने भगवद्दर्शननाम विंशतितमोऽध्यायः ।। २० ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 21

।। ध्रुव उवाच ।। ।।

नमो हिरण्यगर्भाय सर्वसृष्टिविधायिने ।।

हिरण्यरेतसे तुभ्यं सुहिरण्यप्रदायिने ।। १ ।।

नमो हरस्वरूपाय भूतसंहारकारिणे ।।

महाभूतात्मभूताय भूतानां पतये नमः ।। २ ।।

नमः स्थितिकृते तुभ्यं विष्णवे प्रभविष्णवे ।।

तृष्णाहराय कृष्णाय महाभार सहिष्णवे ।। ३ ।।

नमो दैत्यमहारण्य दाववह्निस्वरूपिणे ।।

दैत्यद्रुमकुठाराय नमस्ते शार्ङ्गपाणये ।।४।।

नमः कौमोदकीव्यग्र कराग्राय गदाधर ।।

महादनुजनाशाय नमो नंदकधारिणे ।। ५ ।।

नमः श्रीपतये तुभ्यं नमश्चक्रधराय च ।।

धराधराय वाराह रूपिणे परमात्मने ।। ६ ।।

नमः कमलहस्ताय कमलावल्लभाय ते ।।

नमो मत्स्यादिरूपाय नमः कौस्तुभवक्षसे ।। ७ ।।

नमो वेदांतवेद्याय नमः श्रीवत्सधारिणे ।।

नमो गुणस्वरूपाय गुणिने गुणवर्जिते ।। ८ ।।

नमस्ते पद्मनाभाय पांचजन्यधराय च ।।

वासुदेव नमस्तुभ्यं देवकीनंदनाय च ।। ९ ।।

प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ।।

नमः कंसविनाशाय नमश्चाणूरमर्दिने ।। 4.1.21.१० ।।

दामोदरहृषीकेश गोर्विदाच्युतमाधव ।।

उपेंद्रकैटभाऽराते मधुहंतरधोक्षज ।। ११ ।।

नारायणाय नरकहारिणे पापहारिणे ।।

वामनाय नमस्तुभ्यं हरये शौरये नमः ।। १२ ।।

अनंताय नमस्तुभ्यमनंतशयनाय च ।।

रुक्मिणीपतये तुभ्यं रुक्मिप्रमथनाय च ।। १३ ।।

चैद्यहंत्रे नमस्तुभ्यं दानवारेसुरारये ।।

मुकुंदपरमानंद नंदगोपप्रियाय च ।। १४ ।।

नमस्ते पुंडरीकाक्ष दनुजेंद्र निषूदिने ।।

नमो गोपालरूपाय वेणुवादनकारिणे ।। १५ ।।

गोपीप्रियाय केशिघ्ने गोवर्धनधराय च ।।

रामाय रघुनाथाय राघवाय नमोनमः ।। १६ ।।

रावणारे नमस्तुभ्यं विभीषणशरण्यद ।।

अजाय जयरूपाय रणांगणविचक्षण ।।१७।।

क्षणादि कालरूपाय नानारूपाय शार्ङ्गिणे ।।

गदिने चक्रिणे तुभ्यं दैत्यचक्रविमर्दिने ।।१८।।

बलाय बलभद्राय बलारातिप्रियाय च ।।

बलियज्ञप्रमथन नमो भक्तवरप्रद ।। १९ ।।

हिरण्यकशिपोर्वक्षो विदारण रणप्रिय ।।

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।। 4.1.21.२० ।।

नमस्ते धर्मरूपाय नमः सत्त्वगुणाय च ।।

नमः सहस्रशिरसे पुरुषाय पराय च ।। २१ ।।

सहस्राक्ष सहस्रांघ्रे सहस्रकिरणाय च ।।

सहस्रमूर्ते श्रीकांत नमस्ते यज्ञपूरुष ।।२२।।

वेदवेद्यस्वरूपाय नमो वेदप्रियाय च।।

वेदाय वेदगदिने सदाचाराध्वगामिने ।।२३।।

वैकुंठाय नमस्तुभ्यं नमो वैकुंठवासिने।।

विष्टरश्रवसे तुभ्यं नमो गरुडगामिने ।।२४।।

विष्वक्सेन नमस्तुभ्यं जगन्मय जनार्दन।।

त्रिविक्रमाय सत्याय नमः सत्यप्रियाय च।।२५।।

केशवाय नमस्तुभ्यं मायिने ब्रह्मागायिने।।

तपोरूपाय तपसां नमस्ते फलदायिने ।। २६ ।।

स्तुत्याय स्तुतिरूपाय भक्तस्तुतिरताय च ।।

नमस्ते श्रुतिरूपाय श्रुत्याचार प्रियाय च ।। २७ ।।

अंडजाय नमस्तुभ्यं स्वेदजाय नमोस्तु ते ।।

जरायुज स्वरूपाय नम उद्भिज्जरूपिणे ।। २८ ।।

देवानामिंद्ररूपोसि ग्रहाणामसि भानुमान् ।।

लोकानां सत्यलोकोऽसि सिंधूनां क्षीरसागरः ।। २९ ।।

सुरापगाऽसि सरितां सरसां मानसं सरः ।।

हिमवानसि शैलानां धेनूनां कामधुग्भवान् ।। 4.1.21.३० ।।

धातूनां हाटकमसि स्फटिकश्चोपलेष्वसि ।।

नीलोत्पलं प्रसूनेषु वृक्षेषु तुलसी भवान् ।। ३१ ।।

सर्वपूज्यशिलानां वै शालग्राम शिला भवान् ।।

मुक्तिक्षेत्रेषु काशी त्वं प्रयागस्तीर्थपंक्तिषु ।।३२।।

वर्णेषु श्वेतवर्णोऽसि द्विपदां ब्राह्मणो भवान् ।।

गरुडोस्यंडजेष्वीश व्यवहारेषु वाग्भवान् ।। ३३ ।।

वेदेषूपनिषद्रूपा मंत्राणां प्रणवोह्यसि ।।

अक्षराणामकारोसि यज्वनां सोमरूपधृक् ।। ३४ ।।

प्रतापिनामग्निरसि क्षमाऽसि त्वं क्षमावताम् ।।

दातॄणामसि पर्जन्यः पवित्राणां परोह्यसि ।। ३५ ।।

चापोसि सर्वशस्त्राणां वातो वेगवतामसि ।।

मनोसींद्रियवर्गेषु निर्भयाणां करोह्यसि ।। ३६ ।।

व्योमव्याप्तिमतां त्वं वै परमात्माऽसि चात्मनाम् ।।

संध्योपास्तिर्भवान्देव सर्वनित्येषु कर्मसु।। ३७ ।।

क्रतूनामश्वमेधोसि दानानामभयं भवान् ।।

लाभानां पुत्रलाभोसि वसंतस्त्वमृतुष्वहो ।।३८।।

युगानां प्रथमोसि त्वं तिथीनां त्वं कुहूर्ह्यसि ।।

पुष्योसि नक्षत्रगणे संक्रमः सर्वपर्वसु ।। ३९ ।।

योगेषु व्यतिपातस्त्वं तृणेषु हि कुशो भवान् ।।

उद्यमानां हि सर्वेषां निर्वाणं त्वमसि प्रभो ।। 4.1.21.४० ।।

सर्वासामिह बुद्धीनां धर्मबुद्धिर्भवानज ।।

अश्वत्थः सर्ववृक्षेषु सोमवल्ली लतासु च ।। ४१ ।।

प्राणायामोसि सर्वेपु साधनेषु शुचिष्वहो ।।

सर्वदः सर्वलिंगेषु श्रीमान्विश्वेश्वरो भवान् ।। ४२ ।।

मित्राणां हि कलत्रं त्वं धर्मस्त्वं सर्वबंधुषु ।।

त्वत्तो नान्यज्जगत्यस्मिन्नारायण चराचरे ।। ४३ ।।

त्वमेव माता त्वं तातस्त्वं सुतस्त्वं महाधनम् ।।

त्वमेव सौख्यसंपत्तिस्त्वमायुर्जीवनेश्वरः ।। ४४ ।।

सा कथा यत्र ते नाम तन्मनो यत्त्वदर्पितम् ।।

तत्कर्म यत्त्वदर्थं वै तत्तपो यद्भवत्स्मृतिः ।।४५।।

तद्धनं धनिनां शुद्धं यत्त्वदर्थे व्ययीकृतम् ।।

स एव सकलः कालो यस्मिञ्जिष्णो त्वमर्च्यसे ।। ४६ ।।

तावच्च जीवितं श्रेयो यावत्त्वं हृदि वर्तसे ।।

रोगाः प्रशममायांति त्वत्पादोदक सेवनात् ।। ४७ ।।

महापापानि गोविंद बहुजन्मार्जितान्यपि ।।

सद्यो विलयमायांति वासुदेवेति कीर्तनात् ।। ४८ ।।

अहो पुंसां महामोहस्त्वहो पुंसां प्रमादता ।।

वासुदेवमनादृत्य यदन्यत्र कृतश्रमाः ।। ४९ ।।

इदमेव हि मांगल्यमिदमेव धनार्जनम् ।।

जीवितस्य फलं चैतद्यद्दामोदरकीर्तनम् ।। 4.1.21.५० ।।

अधोक्षजात्परोधर्मो नार्थो नारायणात्परः ।।

न कामः केशवादन्यो नापवर्गो हरिं विना ।। ५१ ।।

इयमेव परा हानिरुपसर्गो यमेवहि ।।

अभाग्यं परमं चैतद्वासुदेवं न यत्स्मरेत् ।। ५२ ।।

हरेराराधनं पुंसां किं किं न कुरुते बत ।।

पुत्रमित्रकलत्रार्थ राज्यस्वर्गापवर्गदम् ।। ५३ ।।

हरत्यघं ध्वंसयति व्याधीनाधीन्नियच्छति ।।

धर्मं विवर्धयेत्क्षिप्रं प्रयच्छति मनोरथम् ।। ५४ ।।

भगवच्चरणद्वंद्वं निर्द्द्वंद्व ध्यानमुत्तमम् ।।

पापिनापि प्रसंगेन विहितं स्वहितं परम् ।। ५५ ।।

पापिनां यानि पापानि महोपपदभांज्यपि ।।

सुलीनध्यानसंपन्नो नामोच्चारो हरेर्हरेत् ।।५६।।

प्रमादादपि संस्पृष्टो यथाऽनलकणो दहेत् ।।

तथौष्ठपुटसंस्पृष्ट हरिनाम हरेदघम् ।। ५७ ।।

नितांतं कमलाकांते शांतचित्तं विधाय यः ।।

संशीलयेत्क्षणं नूनं कमला तत्र निश्चला ।।५८।।

अयमेव परोधर्मस्त्विदमेव परं तपः ।।

इदमेव परं तीर्थं विष्णुपादांबु यत्पिबेत ।। ५९ ।।

तवोपहारं भक्त्याय सेवते यजपूरुष ।।

सेवितस्तेन नियतं पुरोडाशो महाधिया ।। 4.1.21.६० ।।

स चैवावभृथस्नातः स च गंगाजलाप्लुतः ।।

विष्णुपादोदकं कृत्वा शंखे यः स्नाति मानवः ।। ६१ ।।

शालग्राम शिला येन पूजिता तुलसी दलैः ।।

स पारिजातमालाभिः पूज्यते सुरसद्मनि ।। ६२ ।।

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः ।।

विष्णुभक्ति समायुक्तो ज्ञेयः सर्वोत्तमश्च सः ।। ६३ ।।

शंखचक्रांकिततनुः शिरसां मंजरीधरः ।।

गोपीचंदनलिप्तांगो दृष्टश्चेत्तदघं कुतः ।। ६४ ।।

प्रत्यहं द्वादशशिलाः शालग्रामस्य योऽर्चयेत् ।।

द्वारवत्याः शिलायुक्तः स वैकुंठे महीयते ।। ६५ ।।

तुलसी यस्य भवने प्रत्यहं परिपूज्यते ।।

तद्गृहं नोपसर्पंति कदाचिद्यमकिंकराः ।। ६६ ।।

हरिनामाक्षरमुखं भाले गोपीमृदांकितम् ।।

तुलसीमालितोरस्कं स्पृशेयुर्नयमानुगाः ।। ६७ ।।

गोपीमृत्तुलसी शंखः शालग्रामः सचक्रकः ।।

गृहेपि यस्य पंचैते तस्य पापभयं कुत. ।। ६८ ।।

ये मुहूर्ताः क्षणा ये च या काष्ठा ये निमेषकाः ।।

ऋते विष्णुस्मृतेर्यातास्तेषु मुष्टो यमेन सः ।। ६९ ।।

क्व द्वयक्षरं हरेर्नाम स्फुलिंगसदृशं ज्वलेत ।।

महती पातकानां च राशिस्तूलोपमा क्व च ।। 4.1.21.७० ।।

गोविंद परमानंदं मुकुंदं मधुसूदनम ।।

त्यक्त्वान्यं नैव जानामि न भजामि स्मरामि न ।। ७१ ।।

न नमामि न च स्तौमि न पश्यामीह चक्षुषा ।।

न स्पृशामि न वायामि गायामि न न हरिं विना ।। ७२ ।।

जले स्थले च पातालेप्यनिले चानलेऽचले ।।

विद्याधरासुरसुरे किं नरे वानरे नरे ।। ७३ ।।

तृणेस्त्रैणे च पाषाणे तरुगुल्मलतासु च ।।

सर्वत्र श्यामलतनुं वीक्षे श्रीवत्सवक्षसम् ।। ७४ ।।

सर्वेषां हृदयावासः साक्षात्साक्षी त्वमेव हि ।।

बहिरंतर्विना त्वां तु नह्यन्यं वेद्मि सर्वगम् ।। ७५ ।।

इत्युक्त्वा विररामासौ शिवशर्मन्ध्रुवस्तदा ।।

देवोपि भगवान्विष्णुस्तमुवाच प्रसन्नदृक् ।। ७६ ।।

।। श्रीभगवानुवाच ।। ।।

अपि बाल विशालाक्ष ध्रुव ध्रुवमतेऽनघ ।।

परिज्ञातो मया सम्यक्तवहृत्स्थो मनोरथः ।। ७७ ।।

अन्नाद्भवंति भूतानि वृष्टेरन्नसमुद्भवः ।।

तद्वृष्टेः कारणं सूर्यः सूर्याधारो ध्रुवैधि भोः ।।७८।।

ज्योतिश्चक्रस्य सर्वस्य ग्रहर्क्षादेः समंततः ।।

गगने भ्रमतो नित्यं त्वमाधारो भविष्यसि ।। ७९ ।।

मेढीभूतस्तु वै सर्वान्वायुपाशैर्नियंत्रितान् ।।

आकल्पं तत्पदं तिष्ठ भ्रामयञ्ज्योतिषांगणान् ।। 4.1.21.८० ।।

आराध्य श्री महादेवं पुरापदमिदं मया ।।

आसादियत्तदेतत्ते तपसा प्रतिपादितम् ।। ८१ ।।

केचिच्चतुर्युगं यावत्केचिन्मन्वंतरं ध्रुव ।।

तिष्ठंति त्वं तु वै कल्पं पदमेतत्प्रशास्यसि ।। ८२ ।।

मनुनापि न यत्प्रापि किमन्यैर्मानवैर्ध्रुव ।।

तत्पदं विहितं त्वत्साच्छक्राद्यैरपि दुर्लभम् ।। ८३ ।।

अन्यान्वरान्प्रयच्छामि स्तवेनानेन तोषितः ।।

सुनीतिरपि ते माता त्वत्समीपे चरिष्यति ।। ८४ ।।

इदं स्तोत्रवरं यस्तु पठिष्यति समाहितः ।।

त्रिसंध्यं मनुजस्तस्य पापं यास्यति संक्षयम्।।८५।।

न तस्य सदनं लक्ष्मीः परित्यक्ष्यत्यसंशयम् ।।

न जनन्या वियोगश्च न बंधुकलहोदयः ।। ८६ ।।

ध्रुवस्तुतिरियं पुण्या महापातकनाशिनी ।।

ब्रह्महापि विशुद्ध्येत का कथेतर पापिनाम् ।। ८७ ।।

महापुण्यस्य जननी महासंपत्तिदायिनी ।।

महोपसर्गशमनी महाव्याधिविनाशिनी ।। ८८ !।

यस्याऽस्तिपरमा भक्तिर्मयि निर्मलचेतसः ।।

ध्रुवस्तुतिरियं तेन जप्या मत्प्रीतिकारिणी ।। ८९ ।।

समस्त तीर्थस्नानेन यत्फलं लभते नरः ।।

तत्फलं सम्यगाप्नोति जपन्स्तुत्यानया मुदा ।। 4.1.21.९० ।।

संति स्तोत्राण्यनेकानि मम प्रीतिकराणि च ।।

ध्रुवस्तुतेर्न चैतस्याः कलामर्हंति षोडशीम् ।। ९१ ।।

श्रुत्वापीमां स्तुतिं मर्त्यः श्रद्धया परया मुदा ।।

पातकैर्मुच्यते सद्यो महत्पुण्यमवाप्नुयात् ।। ९२ ।।

अपुत्रः पुत्रमाप्नोति निर्धनो धनमाप्नुयात् ।।

अभक्तो भक्तिमाप्नोति कीर्तनाच्च ध्रुवस्तुतेः ।। ।। ९३ ।।

दत्त्वा दानान्यनेकानि कृत्वा नाना व्रतानि च ।।

यथालाभानवाप्नोति तथा स्तुत्याऽनया नरः ।। ९४ ।।

त्यक्त्वा सर्वाणि कार्याणि त्यक्त्वा जप्यान्यनेकशः ।।

ध्रुवस्तुतिरियं जप्या सर्वकामप्रदायिनी ।। ९५ ।।

श्रीभगवानुवाच ।। ।।

ध्रुवावधेहि वक्ष्यामि हितं तव महामते ।।

येन ते निश्चलं सम्यक्पदमेतद्भविष्यति ।। ९६ ।।

अहं जिगमिषुस्त्वासं पुरीं वाराणसीं शुभाम् ।।

साक्षाद्विश्वेश्वरो यत्र तिष्ठते मोक्षकारणम् ।। ९७ ।।

विपन्नानां च जंतूनां यत्र विश्वेश्वरः स्वयम् ।।

कर्णे जापं प्रकुरुते कर्मनिर्मूलन क्षमम् ।। ९८ ।।

अस्य संसारदुःखस्य सर्वोपद्रवदायिनः ।।

उपाय एक एवास्ति काशिकानंदभूमिका ।। ९९ ।।

इदं रम्यमिदं नेति बीजं दुःखमहातरोः ।।

तस्मिन्काश्यग्निना दग्धे दुःखस्यावसरः कुतः ।।4.1.21.१००।।

प्राप्य संप्राप्यते येन न भूयो येन शोच्यते ।।

परायानिर्वृतेः स्थानं यत्तदानंदकाननम् ।। १ ।।

अमृतायनमुत्सृज्य पुरुषोन्यत्र यो वसेत् ।।

आनंदकाननं शंभोः कुतस्तस्य सुखोदयः ।। २ ।।

वरं शरावहस्तस्य चांडालागारवीथिषु ।।

भिक्षार्थमटनं काश्यां राज्यं नान्यत्र नीरिषु ।। ३ ।।

वैकुंठनगरात्काशीं नित्यं विश्वेशमर्चितुम् ।।

अहमायामि नियमाज्जगदर्च्यं तदर्चिताम् ।। ४ ।।

मयि या परमा शक्तिस्त्रिलोक्या रक्षणक्षमा ।।

तत्र हेतुर्महेशानः स सुदर्शनचक्रदः ।। ५ ।।

पुरा जालंधरं दैत्यं ममापि परिकंपनम् ।।

पादांगुष्ठाग्ररेखोत्थं चक्रं सृष्ट्वा हरोऽहरत् ।। ६ ।।

तच्च चक्रं मया लब्धं नेत्रपद्मार्चनाद्विभोः ।।

एतत्सुदर्शनाख्यं वै दैत्यचक्रप्रमर्दनम् ।। ७ ।।

तन्मया तव रक्षार्थं भूतविद्रावणं परम् ।।

तावत्प्रणुन्नं पुरतस्ततश्चाहमिहागतः ।।८।।

काशीमिदानीं यास्यामि विश्वेश्वर विलोकने।।

अद्य यात्राऽस्ति महती कार्तिक्यां बहुपुण्यदा ।। ९ ।।

कार्तिकस्य चतुर्दश्यां विश्वेशं यो विलोकयेत् ।।

स्नात्वा चोत्तरवाहिन्यां न तस्य पुनरागतिः ।। 4.1.21.११० ।।

इत्युक्त्वा तार्क्ष्यमारोप्य ध्रुवमानंदमेदुरम् ।।

क्षणाद्वाराणसीं प्राप हरिः स्मरहरोषिताम् ।। ११ ।।

पंचक्रोश्याश्च सीमानं प्राप्य देवो जनार्दनः ।।

वैनतेयादवारुह्य करे धृत्वा ध्रुवं ततः ।। १२ ।।

मणिकर्ण्यां परिस्नाय विश्वेशमभिपूज्य च ।।

ध्रुवं बभाषे भगवान्हितं तस्य चिकीर्षयन् ।। १३ ।।

लिंगं स्थापय यत्नेन क्षेत्रेऽत्रैवाविमुक्तके ।।

त्रैलोक्यस्थापनं पुण्यं यथा भवति तेऽक्षयम् ।। १४ ।।

नियुतं यत्परिस्थाप्य लिंगानि फलमाप्यते ।।

अन्यत्र तदिहैकेन लिंगेन परिलभ्यते ।। १५ ।।

कालेन भंगमापन्नं जीर्णोद्धारं करोति यः ।।

इह तस्य फलस्यांतः प्रलयेपि न जायते ।। १६ ।।

वित्तशाठ्यं परित्यज्य प्रासादं योऽत्र कारयेत् ।।

तेन दत्तो भवेत्सर्वो मेरुर्नियुतयोजनः ।। १७ ।।

कूपवापीतडागानि शक्त्या योऽत्र तु कारयेत् ।।

अन्यत्र करणात्तस्य पुण्यं कोटिगुणाधिकम् ।। १८ ।।

इज्यार्थमत्र यः कुर्यात्सुरम्यां पुष्पवाटिकाम् ।।

पुष्पेपुष्पे फलं तस्य सुवर्णकुसुमाधिकम् ।। १९ ।।

अत्र ब्रह्मपुरीं कृत्वा यो विप्रेभ्यः प्रयच्छति ।।

वर्षाशनेन संयुक्तां तस्य पुण्यफलं शृणु ।। 4.1.21.१२० ।।

क्षीयंते सलिलान्यब्धेर्भौमाश्च त्रसरेणवः ।।

क्षयो न तस्य पुण्यस्य शिवलोके समासतः ।। २१ ।।

मठानपि तपस्विभ्यः कारयित्वाऽत्र योर्पयेत् ।।

जीवनोपायसंयुक्तान्सोपि पूर्वफलाश्रयः ।। २२ ।।

कृत्वा महांति पुण्यानि योऽत्र विश्वेश्वरेऽर्पयेत् ।।

न तस्य पुनरावृरत्ति घोरे संसारसागरे ।।२३।।

अनंत इति वादोयं मयिलोकेऽत्र गीयते ।।

परं काशी गुणानां हि मयाप्यंतो न लभ्यते ।।२४।।

तस्मात्प्रयत्नतः काश्यां धुव श्रेयः समाश्रयेत् ।।

काशी श्रेयः फलं पुंसामक्षया योपजायते ।।२५।।

गणावूचतुः ।। ।।

ध्रुवमित्युपदिश्याथ जगाम गरुडध्वजः ।।

ध्रुवोपि लिंगं संस्थाप्य वैद्यनाथसमीपतः ।। २६ ।।

प्रासादं सुमहत्क्रृत्वा कृत्वा कुंडं तदग्रतः ।।

विश्वेश्वरं समभ्यर्च्य कृतकृत्यो गृहं ययौ ।। २७ ।।

ध्रुवेश्वरं समभ्यर्च्य ध्रुवकुंडे कृतोदकः ।।

ध्रुवलोकमवाप्नोति नरो भोगसमन्वितः ।। २८ ।।

ध्रुवस्य परमाख्यानं यः पठेत्पाठयेदपि ।।

स विष्णुलोकमासाद्य जायते विष्णुवल्लभः ।। २९ ।।

नरो ध्रुवस्य चरितं प्रसंगेन स्मरन्नपि ।।

न पापैरभिभूयेत महत्पुण्यमवाप्नुयात् ।। 4.1.21.१३० ।।

डति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ध्रुवस्तुतिर्नामैकविंशतितमोऽध्यायः ।। २१ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 22

।। शिवशर्मोवाच ।।

ध्रुवाख्यानमिदं रम्यं महापातकनाशनम् ।।

महाश्चर्यकरं पुण्यं श्रुत्वा तृप्तोस्मि भो गणौ ।। १ ।।

।। अगस्त्य उवाच ।। ।।

इत्थं यावद्द्विजो ब्रूते विमानं वायुवेगगम् ।।

तावत्प्राप महर्लोकं स्वर्लोकात्परमाद्भुतम् ।। २ ।।

द्विजोऽथ लोकं संवीक्ष्य सर्वतो महसा वृतम् ।।

तौ गणौ प्रत्युवाचेदं कोयं लोको मनोहरः ।। ३ ।।

तावूचतुस्ततो विप्रं निशामय महामते ।।

अयं स हि महर्लोकः स्वर्लोकात्परमाद्भुतः ।। ४ ।।

कल्पायुषो वसंत्यत्र तपसा धूतकल्मषाः ।।

विष्णुस्मरण संक्षीण समस्तक्लेशसंचयाः ।।५।।

निर्व्याजप्रणिधानेन दृष्ट्वा तेजोमयं जगत् ।।

महायोगसमायुक्ता वसंत्यत्र सुरोत्तमाः ।। ६ ।।

इत्थं कथां कथयतोर्भगवद्गणयोः प्रिये ।।

क्षणार्धेन विमानं तज्जनलोकं निनायतान् ।। ७ ।।

निवसंत्यमला यत्र मानसा बह्मणः सुताः ।।

सनंदनाद्या योगींद्राः सर्वे ते ह्यूर्ध्वरेतसः ।। ८ ।।

अन्ये तु योगिनो ये वै ह्यस्खलद्ब्रह्मचारिणः ।।

सर्वद्वंद्वविनिर्मुक्तास्ते वसंत्यतिनिर्मलाः ।।९।।

जनलोकात्तपोलोकस्तेषां लोचनगोचरः ।।

कृतस्तेन विमानेन मनोवेगेन गच्छता ।। 4.1.22.१० ।।

वैराजा यत्र ते देवा वसेयुर्दाहवर्जिताः ।।

वासुदेवे मनो येषां वासुदेवार्पितक्रियाः ।। ११ ।।

तपसा तोष्य गोविंदमभिलाषविवर्जिताः।।

तपोलोकमिमं प्राप्य वसंति विजितेंद्रियाः ।।१२।।

शिलोंछ वृत्तया ये वै दंतोलूखलिकाश्च ये ।।

अश्मकुट्टाश्च मुनयः शीर्णपर्णाशिनश्च ये ।। १३ ।।

ग्रीष्मे पंचाग्नितपसो वर्षासु स्थंडिलेशयाः ।।

हेमंतशिशिरार्धे ये क्षपंति सलिले क्षपाः ।।१४।।

कुशाग्रनीरविप्रूषस्तृषिता यतयोऽपिबन्।।

वाताशिनोतिक्षुधिताः पादाग्रांगुष्ठ भूस्पृशः ।। १५ ।।

ऊर्ध्वदोषो रविदृशस्त्वेकांघ्रि स्थाणु निश्चलाः ।।

ये वै दिवा निरुच्छ्वासा मासोच्छ्वासाश्च ये पुनः ।।१६।।

मासोपवासव्रतिनश्चातुर्मास्य व्रताश्च ये ।।

ऋत्वंततोयपाना ये षण्मासोपवासकाः ।। १७ ।।

ये च वर्षनिमेषा वै वर्षधारांबु तर्षकाः ।।

ये च स्थाणूपमां प्राप्ता मृगकंडूति सौख्यदाः ।। १८ ।।

जटाटवी कोटरांतः कृतनीडांडजाश्च ये ।।

प्ररूढवामलूरांगाः स्नायुनद्धास्थिसंचयाः ।। १९ ।।

लताप्रतानैः परितो वेष्टितावयवाश्च ये ।।

सस्यानि च प्ररूढानि यदंगेषु चिरस्थिति ।। 4.1.22.२० ।।

इत्यादि सुतपः क्लिष्टवर्ष्माणो ये तपोधनाः ।।

ब्रह्मायुषस्तपोलोके ते वसंत्यकुतोभयाः ।।२१।।

यावदित्थं स पुण्यात्मा शृणोति गणयोर्मुखात् ।।

तावन्नेत्रातिथीभूतः सत्यलोको महोज्ज्वलः ।। २२ ।।

त्वरावंतौ गणौ तत्र विमानादवरुह्य तौ ।।

स्रष्टारं सर्वलोकानां तेन सार्धं प्रणेमतुः ।। २३ ।।

ब्रह्मोवाच ।।

गणावसौ द्विजो धीमान्वेदवेदांगपारगः ।।

स्मृत्युक्ताचारचंचुश्च प्रतीपः पापकर्मसु ।। २४ ।।

अयि द्विज महाप्राज्ञ जाने त्वां शिवशर्मक ।।

साधूकृतं त्वया वत्स सुतीर्थप्राणमोक्षणात् ।। २५ ।।

सत्वरं गत्वरं सर्वं यच्चैतद्भवतेक्षितम् ।।

दैनंदिनप्रलयतः सृजामि च पुनः पुनः ।। २६ ।।

आ वैराजं प्रतिपदमुपसंहरते हरः ।।

का कथा मशकाभानां नृणां मरणधर्मिणाम् ।। २७ ।।

चतुर्षु भूतग्रामेषु ह्येक एव गुणो नृणाम् ।।

तस्मिन्वै भारते वर्षे कर्मभूमौ महीयसि ।। २८ ।।

चपलानि विनिर्जित्येंद्रियाणि मनसा सह ।।

विहाय वैरिणं लोभं विष्वग्गुणगणस्य च ।। २९ ।।

धर्मवंशहरं काममर्थसंचयहारिणम् ।।

जरापलितकर्तारं विनिष्कृत्य विचारतः ।।4.1.22.३०।।

जित्वा क्रोधरिपुं धैर्यात्तपसो यशसः श्रियः ।।

शरीरस्यापि हर्तारं नेतारं तामसीं गतिम् ।। ३१ ।।

सदा मदं परित्यज्य प्रमादैकपदप्रदम् ।।

प्रमादैकशरण्यं च संपदां विनिवर्तकम् ।। ३२ ।।

सर्वत्र लघुता हेतुमहंकारं विहाय च ।।

दूषणारोपणे यत्नं कुर्वाणं सज्जनेष्वपि ।। ३३ ।।

हित्वा मोहं महाद्रोहरोपणं मतिघातिनम् ।।

अत्यंतमंधीकरणमंधतामिस्रदर्शकम् ।। ३४ ।।

श्रुतिस्मृतिपुराणोक्तं परिक्षुण्णं महाजनैः ।।

धर्मसोपानमारुह्य यदिहायांति हेलया ।। ३५ ।।

कर्मभूमिं समीहंते सर्वे स्वर्गौकसो द्विज ।।

यत्तत्रार्जितभोक्तारः पदेषूच्चावचेष्वमी ।। ३६ ।।

नार्यावर्तसुमो देशो न काशी सदृशी पुरी ।।

न विश्वेश समं लिंगं क्वापि बह्मांडमंडले ।।३७।।

संति स्वर्गा बहुविधाः सुखेतर विवर्जिता।।

सुकृतैकफलाः सर्वे युक्ताः सर्वसमृद्धिभिः।। ।। ३८ ।।

स्वर्लोकादधिकं रम्यं नहि ब्रह्मांडगोलके ।।

सर्वे यतंते स्वर्गाय तपोदानव्रतादिभिः ।। ३९ ।।

स्वर्लोकादपिरम्याणि पातालानीति नारदः ।।

प्राह स्वर्गसदां मध्ये पातालेभ्यः समागतः ।। 4.1.22.४० ।।

आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ।।

नागांगाभरणप्रोताः पातालं केन तत्समम् ।। ४१ ।।

दैत्यदानवकन्याभिरितश्चेतश्च शोभिते ।।

पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते ।। ४२ ।।

दिवार्करश्मयस्तत्र प्रभां तन्वंति नातपम्।।

शशिनश्च न शीताय निशि द्योताय केवलम् ।। ४३ ।।

यत्र न ज्ञायते कालो गतोपि दनुजादिभिः ।।

वनानि नद्यो रम्याणि सदंभांसि सरांसि च ।। ४४ ।।

कलाः पुंस्को किलालापाः सुचैलानि शुचीनि च ।।

भूषणान्यतिरम्याणि गंधाद्यमनुलेपनम् ।। ४५ ।।

वीणावेणुमृदंगादि निस्वनाः श्रुतिहारिणः ।।

हाटकेशं महालिंगं यत्र वै सर्वकामदम् ।। ४६ ।।

एतान्यन्यानि रम्याणि भोग्योग्यानि दानवैः ।।

दैत्योरगैश्च भुज्यंते पातालांतरगोचरैः ।। ४७ ।।

पातालेभ्योपि वै रम्यं द्विज वर्षमिलावृतम्।।

रत्नसानुं समाश्रित्य परितः परिसंस्थितम्।।४८।।

सदा सुकृतिनो यत्र सर्वभोगभुजो द्विज।।

नवयौवनसंपन्ना नित्यं यत्र मृगीदृशः ।।४९।।

भोगभूमिरियं प्रोक्ता श्रेयो विनिमयार्जिता ।।

भुज्यते त्वद्विधैर्लोकैस्तीर्थाभित्यक्त देहकैः ।। 4.1.22.५० ।।

अक्लीबभाषिभिश्चापि पुत्रक्षेत्राद्यहीनकैः ।।

परोपकारसंक्षीणसुखायुर्धनसंचयैः ।। ५१ ।।

संति द्वीपा ह्यनेका वै पारावारांतरस्थिताः ।।

जंबूद्वीपसमो द्वीपो न क्वापि जगतीतले ।। ५२ ।।

तत्रापि नववर्षाणि भारतं तत्र चोत्तमम् ।।

कर्मभूमिरियं प्रोक्ता देवानामपिदुर्लभा ।।५३।।

अष्टौ किंपुरुषादीनि देवभोग्यानि तानि तु ।।

तेषु स्वर्गात्समागत्य रमंते त्रिदिवौकसः ।। ५४ ।।

योजनानां सहस्राणि नवविस्तारतस्त्विदम् ।।

भारतं प्रथमं वर्षं मेरोर्दक्षिणतः स्थितम् ।। ५५ ।।

तत्रापि हिमविंध्याद्रेरंतरं पुण्यदं परम् ।।

गंगायमुनयोर्मध्ये ह्यंतर्वेदी भुवः पराः ।। ५६ ।।

कुरुक्षेत्रं हि सर्वेषां क्षेत्राणामधिकं ततः ।।

ततोपि नैमिषारण्यं स्वर्गसाधनमुत्तमम् ।। ५७ ।।

नैमिषारण्यतोपीह सर्वस्मिन्क्षितिमंडले ।।

सर्वेभ्योपि हि तीर्थेभ्यस्तीर्थराजो विशिष्यते ।। ५८ ।।

स्वर्गदोमोक्षदश्चैव सर्वकामफलप्रदः ।।

प्रयागस्तन्महत्क्षेत्रं तीर्थराज इति स्मृतः ।। ६९ ।।

यागाः सर्वे मया पूर्वं तुलया विधृता द्विज ।।

तच्च तीर्थवरं रम्यं कामिकं कामपूरणात ।। 4.1.22.६० ।।

दृष्ट्वा प्रकृष्टयागेभ्यः पुष्टेभ्यो दक्षिणादिभिः ।।

प्रयागमिति तन्नाम कृतं हरिहरादिभिः ।। ६१ ।।

नाममात्रस्मृतेर्यस्य प्रयागस्य त्रिकालतः ।।

स्मर्तुः शरीरे नो जातु पापं वसति कुत्रचित् ।। ६२ ।।

संति तीर्थान्यनेकानि पापत्राणकराणि च ।।

न शक्तान्यधिकं दातुं कृतैनः परिशुद्धितः ।। ६३ ।।

जन्मांतरेष्वसंख्येषु यः कृतः पापसंचयः ।।

दुष्प्रणोद्यो हि नितरां व्रतैर्दानैस्तपोजपैः ।। ६४ ।।

स तीर्थराजगमनोद्यतस्य शुभजन्मनः ।।

अंगेषु वेपतेऽत्यंतं द्रुमो वातहतो यथा ।। ६५ ।।

ततः क्रांतार्धमार्गस्य प्रयाग दृढचेतसः ।।

पुंसः शरीरान्निर्यातुमपेक्षेत पदांतरम् ।। ।। ६६।।

भाग्यान्नेत्रातिथीभूते तीर्थराजे महात्मनः ।।

पलायते द्रुततरं तमः सूर्योदये यथा ।। ६७ ।।

सप्तधातुमयी भूततनौ पापानि यानि वै ।।

केशेषु तानि तिष्ठंति वपनाद्यांति तान्यपि ।। ६८ ।।

एवं निष्कलुषीभूय ततः स्नायात्सितासिते ।।

यंयं काममभिध्यायंस्तं तमाप्नोति नान्यथा ।। ६९ ।।

पुण्यराशिं च विपुलं पुण्यान्भोगान्यथेप्सितान् ।।

स्वर्गं प्राप्नोति तत्पुण्यान्निष्कामो मोक्षमाप्नुयात् ।। 4.1.22.७० ।।

स्नायाद्योभिलषन्मोक्षं कामानन्यान्विहाय च ।।

सोपि मोक्षमवाप्नोति कामदात्तीर्थराजतः ।। ७१ ।।

तीर्थराजं परित्यज्य योऽन्यस्मात्काममिच्छति ।।

भारताख्ये महावर्षे स कामं नाप्नुयात्स्फुटम् ।। ७२ ।।

सत्यलोके प्रयागे च नांतरं वेद्म्यहं द्विज ।।

तत्र ये शुभकर्माणस्ते मल्लोकनिवासिनः ।। ७३ ।।

तीर्थाभिलाषिभिर्मर्त्यैस्सेव्यं तीर्थांतरं नहि ।।

अन्यत्र भूमिवलये तीर्थराजात्प्रया गतः ।।७४।।

यथांतरं द्विजश्रेष्ठ भूपेत्वितरसेवके ।।

दृष्टांतमात्रं कथितं प्रयागेतर तीर्थयोः ।।७५।।

यथाकथंचित्तीर्थेऽस्मिन्प्राणत्यागं करोति यः ।।

तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि ।। ७६ ।।

यस्य भाग्यवतश्चात्र तिष्ठंत्यस्थीन्यपि द्विज ।।

न तस्य दुःखलेशोपि क्वापि जन्मनि जायते ।। ७७ ।।

ब्रह्महत्यादि पापानां प्रायश्चित्तं चिकीर्षुणा ।।

प्रयागं विधिवत्सेव्यं द्विजवाक्यान्न संशयः ।। ७८ ।।

किं बहूक्तेन विप्रेंद्र महोदयमभीप्सुना ।।

सेव्यं सितासितं तीर्थं प्रकृष्टं जगतीतले ।। ७९ ।।

प्रयागतोपि तीर्थेशात्सर्वेषु भुवनेष्वपि ।।

अनायासेन वै मुक्तिः काश्यां देहावसानतः ।।4.1.22.८०।।

प्रयागादपि वै रम्यमविमुक्तं न संशयः ।।

यत्र विश्वेश्वरः साक्षात्स्वयं समधितिष्ठति ।। ८१ ।।

अविमुक्तान्महाक्षेत्राद्विश्वेश समधिष्ठितात् ।।

न च किंचित्क्वचिद्रम्यमिह ब्रह्मांडगोलके ।। ८२ ।।

अविमुक्तमिदं क्षेत्रमपि ब्रह्मांडमध्यगम् ।।

ब्रह्मांडमध्ये न भवेत्पंचक्रोशप्रमाणतः ।। ८३ ।।

यथायथा हि वर्धेत जलमेकार्णवस्य च ।।

तथातथोन्नयेदीशस्तत्क्षेत्रं प्रलयादपि ।। ८४ ।।

क्षेत्रमेतत्त्रिशूलाग्रे शूलिनस्तिष्ठति द्विज ।।

अंतरिक्षेन भूमिष्ठं नेक्षंते मूढबुद्धयः।। ८५ ।।

सदा कृतयुगं चात्र महापर्वसदाऽत्र वै ।।

न ग्रहाऽस्तोदयकृतो दोषो विश्वेश्वराश्रमे ।।८६।।

सदा सौम्यायनं तत्र सदा तत्र महोदयः ।।

सदैव मंगलं तत्र यत्र विश्वेश्वरस्थितिः।।८७।।

यथाभूमितले विप्र पुर्यः संति सहस्रशः ।।

तथा काशी न मंतव्या क्वापि लोकोत्तरात्वियम् ।। ८८ ।।

मया सृष्टानि विप्रेंद्र भुवनानि चतुर्दश ।।

अस्याः पुर्या विनिर्माता स्वयं विश्वेश्वरः प्रभुः ।। ८९ ।।

पुरा यमस्तपस्तप्त्वा बहुकालं सुदुष्करम् ।।

त्रैलोक्याधिकृतिं प्राप्तस्त्यक्त्वा वाराणसीं पुरीम् ।। 4.1.22.९० ।।

चराचरस्य सर्वस्य यानि कर्माणि तानि वै ।।

गोचरे चित्रगुप्तस्य काशीवासिकृतादृते ।। ९१ ।।

प्रवेशो यमदूतानां न कदाचिद्द्विजोत्तम ।।

मध्ये काशीपुरी क्वापि रक्षिणस्तत्र तद्गणाः ।। ९२ ।।

स्वयं नियंता विश्वेशस्तत्र काश्यां तनुत्यजाम् ।।

तत्रापि कृतपापानां नियंता कालभैरवः ।। ९३ ।।

तत्र पापं न कर्तव्यं दारुणा रुद्रयातना ।।

अहो रुद्रपिशाचत्वं नरकेभ्योपि दुःसहम् ।। ९४ ।।

पापमेव हि कर्तव्यं मतिरस्ति यदीदृशी ।।

सुखेनान्यत्र कर्तव्यं मही ह्यस्ति महीयसी ।। ९५ ।।

अपि कामातुरो जंतुरेकां रक्षति मातरम् ।।

अपि पापकृता काशी रक्ष्या मोक्षार्थिनैकिका ।। ९६ ।।

परापवादशीलेन परदाराभिलाषिणा ।।

तेन काशी न संसेव्या क्व काशी निरयः क्व सः ।। ९७ ।।

अभिलष्यंति ये नित्यं धनं चात्र प्रतिग्रहैः ।।

परस्वं कपटैर्वापि काशी सेव्या न तैर्नरैः ।। ९८ ।।

परपीडाकरं कर्म काश्यां नित्यं विवर्जयेत् ।।

तदेव चेत्किमत्र स्यात्काशीवासो दुरात्मनाम् ।। ।। ९९ ।।

त्यक्त्वा वैश्वेश्वरीं भक्तिं येऽन्यदेवपरायणाः ।।

सर्वथा तैर्न वस्तव्या राजधानी पिनाकिनः ।। 4.1.22.१०० ।।

अर्थार्थिनस्तु ये विप्र ये च कामार्थिनो नराः ।।

अविमुक्तं न तैः सेव्यं मोक्षक्षेत्रमिदं यतः ।। १ ।।

शिवनिंदापरा ये च वेदनिंदा पराश्च ये ।।

वेदाचारप्रतीपा ये सेव्या वाराणसी न तैः ।। २ ।।

परद्रोहधियो ये च परेर्ष्याकारिणश्च ये ।।

परोपतापिनो ये वै तेषां काशी न सिद्धये ।। ३ ।।

मनसापि न ये काशीमभिनंदंति दुर्धियः ।।

तेषां निर्वाणवार्तापि दूरे दुर्वृत्तचेतसाम् ।। ४ ।।

ज्ञानेन न विना मोक्षः क्वचिदस्तीह भूतले ।।

तज्ज्ञानं न व्रतैर्लभ्यमपि चांद्रायणादिभिः ।। ५ ।।

तुलापुरुषमुख्यैश्च दानैश्च श्रद्धयान्वितैः ।।

देशकाले च विधिना पात्रेभ्यः प्रतिपादितैः ।। ६ ।।

न यमैर्ब्रह्मचर्याद्यैर्नियमैर्नार्चनादिभि. ।।

शरीरशोषणैरुग्रैर्न तपोभिर्द्विजोत्तम ।। ७ ।।

न महामंत्रजप्यैश्च गुरुभिः प्रतिपादितैः ।।

न स्वाध्यायैर्यथोक्तैश्च नाग्निशुश्रूषणैः परैः ।। ८ ।।

न सेवया गुरूणां च न श्राद्धैर्देवतार्चनैः ।।

न नानातीर्थयात्राभिर्ज्ञानं समधिगम्यते ।। ।। ९ ।।

न योगेन विना ज्ञानं योगस्तत्त्वार्थशीलनम् ।।

गुरूपदिष्टमार्गेण सदाभ्यासवशेन च ।। 4.1.22.११० ।।

तस्यांतराया बहवः सुदूरश्रवणादयः ।।

अतो न प्राप्यते ज्ञानं योगादेकेन जन्मना ।। ११ ।।

विना तपो जपाद्यैश्च विना योगेन सुव्रत ।।

निःश्रेयो लभ्यते काश्यामिहैकेनैव जन्मना ।।१२।।

त्वया शुद्धधिया काश्यां यच्छ्रेयः समुपार्जितम् ।।

तच्छ्रेयसोप्युदर्कस्ते महानस्ति द्विजोत्तम ।। १३ ।।

उक्तेति विररामाजः शृण्वतोर्गणयोस्तयोः ।।

सोपि प्रमुदितश्चाभूच्छिवशर्मा महामनाः ।। ११४ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ब्रह्मकृतकाशीप्रशंसानाम द्वाविंशतितमोऽध्यायः ।। २२ ।। ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 23

शिवशर्मोवाच ।। ।।

सत्यलोकेश्वर विधे सर्वेषां प्रपितामह ।।

किंचिद्विज्ञप्तुकामोस्मि न भयाद्वक्तुमुत्सहे ।। १ ।।

।। ब्रह्मोवाच ।। ।।

यत्त्वं प्रष्टुमना विप्र ज्ञातं ते तन्मनोगतम् ।।

पिपृच्छिषुस्त्वं निर्वाणं गणौ तत्कथयिष्यतः ।।२।।

नेतयोर्विष्णुगणयोरगोचरमिहास्ति हि ।।

सर्वमेतौ विजानीतो यत्किंचिद्ब्रह्मगो लके ।। ३ ।।

इत्युक्त्वा सत्कृतास्ते वै ब्रह्मणा भगवद्गणाः ।।

प्रणम्य लोककर्तारं तेऽपि हृष्टाः प्रतस्थिरे ।। ४ ।।

पुनः स्वयानमारुह्य वैकुंठमभितो ययुः ।।

गच्छतापि पुनस्तत्र द्विजेनापृच्छितौ गणौ ।। ५ ।।

।। शिवशर्मोवाच ।। ।।

कियद्दूरे वयं प्राप्ता गंतव्यं च कियत्पुनः ।।

पृच्छाम्यन्यच्च वां भद्रौ ब्रूतं प्रीत्या तदप्यहो ।। ।। ६ ।।

कांच्यवंती द्वारवती काश्ययोध्या च पंचमी ।।

मायापुरी च मथुरा पुर्यः सप्त विमुक्तिदाः ।। ७ ।।

विहाय षट्पुरीश्चान्याः काश्यामेवप्रतिष्ठिता ।।

मुक्तिर्विश्वसृजा तत्किं मम मुक्तिर्न संप्रति ।। ८ ।।

इति सर्वं मम पुरः प्रसादाद्वक्तुमर्हतम् ।।

इति तद्वाक्यमाकर्ण्य गणावूचतुरादरात् ।। ९ ।।

।। गणावूचतुः ।।

यथार्थं कथयावस्ते यत्पृष्टं भवतानघ ।।

विष्णुप्रसादाज्जानीवो भूतंभाविभवत्तथा ।। 4.1.23.१० ।।

विप्रावभासते यावत्किरणैः पुष्पवंतयोः ।।

तावतीभूः समुद्दिष्टा ससमुद्राद्रि कानना ।। ११ ।।

वियच्च तावदुपरि विस्तारपरिमंडलम् ।।

योजनानां च नियुते भूमेर्भानुर्व्यवस्थितः ।। १२ ।।

भानोः सकाशादुपरि लक्षे लक्ष्यः क्षपाकरः ।।

नक्षत्रधं(मं?)डलं सोमाल्लक्षयोजनमुच्छ्रितम् ।। १३।।

उडुमंडलतः सौम्य उपरिष्टाद्द्विलक्षतः ।।

द्विलक्षे तु बुधाच्छुक्रः शुक्राद्भौमो द्विलक्षके ।। १४ ।।

माहेयादुपरिष्टाच्च सुरेज्यो नियुतद्वये ।।

द्विलक्षयोजनोत्सेधः सौरिर्देवपुरोहितात् ।। १५ ।।

दशायुतसमुच्छ्रायं सौरेः सप्तर्षिमंडलम् ।।

सप्तर्षिभ्यः सहस्राणां शतादूर्ध्वं ध्रुवस्थितः ।। ।। १६ ।।

पादगम्यं हि यत्किंचिद्वस्त्वस्ति धरणीतले ।।

तद्भूर्लोक इति ख्यातः साब्धिद्वीपाद्रिकाननम् ।। १७ ।।

भूर्लोकाच्च भुवर्लोको ब्रध्नावधिरुदाहृतः ।।

आदित्यादाध्रुवं विप्र स्वर्लोक इति गीयते ।। ।१८ ।।

महर्लोकः क्षितेरूर्ध्वमेककोटिप्रमाणतः ।।

कोटिद्वये तु संख्यातो जनो भूर्लोकतो जनैः ।। १९ ।।

चतुष्कोटिप्रमाणस्तु तपोलोकोऽस्ति भूतलात् ।।

उपरिष्टात्क्षितेरष्टौ कोटयः सत्यमीरितम् ।। 4.1.23.२० ।।

सत्यादुपरि वैकुंठो योजनानां प्रमाणतः ।।

भूर्लोकात्परिसंख्यातः कोटिषोडशसंमितः ।। २१ ।।

यत्रास्ते श्रीपतिः साक्षात्सर्वेषामभयप्रदः ।।

ततस्तु षोडशगुणः कैलासोऽस्ति शिवालयः ।। २२ ।।

पार्वत्या सहितः शंभुर्गजास्य स्कंद नंदिभिः ।।

यत्र तिष्ठति विश्वेशः सकलः स परः स्मूतः ।। २३ ।।

तस्य देवस्य खेलोऽयं स्वलीला मूर्तिधारिणः ।।

स विश्वेश इति ख्यात स्तस्याज्ञाकृदिदं जगत् ।। २४ ।।

सर्वेषां शासकश्चासौ तस्य शास्ता न चापरः ।।

स्वयं सृजति भूतानि स्वयं पाति तथात्ति च ।। २५ ।।

सर्वज्ञ एकः स प्रोक्तः स्वेच्छाधीन विचेष्टितः ।।

तस्य प्रवतर्कः कोपि नहि नैव निवर्तकः ।। २६ ।।

अमूर्तं यत्परं ब्रह्म समूर्तं श्रुतिचोदितम् ।।

सर्वव्यापि सदा नित्यं सत्यं द्वैतविवर्जितम् ।। २७ ।।

सर्वेभ्यः कारणेभ्यश्च परात्परतरं परम् ।।

आनंदं ब्रह्मणो रूपं श्रुतयो यत्प्रचक्षते ।। २८ ।।

संविदं तेन यं वेदा विष्णुर्वेद न वै विधिः ।।

यतो वाचो निवर्तंते ह्यप्राप्य मनसा सह ।। २९ ।।

स्वयंवेद्यः परं ज्योतिः सर्वस्य हृदि संस्थितः ।।

योगिगम्यस्त्वनाख्येयो यः प्रमाणैकगोचरः ।। 4.1.23.३० ।।

नानारूपोप्यरूपो यः सर्वगोपि न गोचरः ।।

अनंतोप्यंतक वपुः सर्ववित्कर्मवर्जितः ।।३१।।

तस्येदमैश्वरं रूपं खंडचंद्रावतंसकम् ।।

तमालश्यामलगलं स्फुरद्भालविलोचनम् ।। ३२ ।।

लसद्वामार्धनारीकं कृतशेषशुभांगदम् ।।

गंगातरंगसत्संग सदाधौतजटातटम् ।। ३३ ।।

स्मरांगरजःपुंज पूजितावयवोज्ज्वलम् ।।

विचित्रगात्रविधृतमहाव्यालविभूषणम् ।। ३४ ।।

महोक्षस्यंदनगमं विरुताजगवायुधम्।।

गजाजिनोत्तरासंगं दशार्धवदनं शुभम् ।। ३५ ।।

उत्त्रासित महामृत्यु महाबलगणावृतम् ।।

शरणार्थिकृतत्राणं नत निर्वाणकारणम् ।।

मनोरथपथातीतं वरदानपरायणम् ।। ३६ ।।

तस्य तत्त्वस्वरूपस्य रूपातीतस्य भो द्विज ।।

परावरे रुद्ररूपे सर्वेव्याप्यावतिष्ठत ।। ३७ ।।

निराकारोपि साकारः शिव एव हि कारणम ।।

मुक्तये भुक्तये वापि न शिवान्मोक्षदो परः ।। ३८ ।।

यथा तेनाखिलं ह्येतत्पार्वतीपतिसात्कृतम ।।

इदं चराचरं सर्वं दृश्यादृश्यमरूपिणा ।। ३९ ।।

तथा मृडानीकांतेन विष्णुसादखिलंजगत ।।

विधाय क्रीड्यते विप्र नित्यं स्वच्छंद लीलया ।। 4.1.23.४० ।।

यथाशिवस्तथा विष्णुर्यथाविष्णुस्तथा शिवः ।।

अंतरं शिवविष्ण्वोश्च मनागपि न विद्यते ।। ४१ ।।

आहूय पूर्वं ब्रह्मादीन्समस्तान्देवतागणान् ।।

विद्याधरोरगादींश्च सिद्धगंधर्वचारणान् ।। ४२ ।।

निजसिंहासनसमं कृत्वा सिंहासनं शुभम् ।।

उपवेश्य हरिं तत्र च्छत्रं कृत्वा मनोहरम् ।।४३।।

श्लक्ष्णं कोटिशलाकं च विश्वकर्मविनिर्मितम् ।।

पांडुरं रत्नदंडं च स्थूलमुक्तावलंबितम् ।। ४४ ।।

कलशेन विचित्रेण ह्युपरिष्टाद्विराजितम् ।।

सहस्रयोजनायामं सर्वरत्नमयं शुभम् ।।४५।।

पट्टसूत्रमयैरम्यैश्चामरैश्च परिष्कृतम् ।।

राजाभिषेकयोग्यैश्च द्रव्यैः सर्वौषधादिभिः ।। ४६ ।।

प्रत्यक्षतीर्थपाथोभिः पंचकुंभैर्मनोहरैः ।।

सिद्धार्थाक्षतदूर्वाभिर्मंत्रैः स्वयमुपस्थितैः ।। ४७ ।।

देवानां च तथर्षीणां सिद्धानां फणिनामपि ।।

आनीय मंगलकराः कन्याः षोडशषोडश ।। ४८ ।।

वीणामृदंगाब्जभेरी मरु डिंडिमझर्झरैः ।।

आनकैः कांस्यतालाद्यै र्वाद्यैर्ललितगायनैः ।।४९।।

ब्रह्मघोषमहारावैरापूरितनभोंगणे ।।

शुभे तिथौ शुभे लग्ने ताराचंद्रबलान्विते ।।4.1.23.५० ।।

आबद्धमुकुटं रम्यं कृतकौतुकमंगलम् ।।

मृडानीकृतशृंगारं सुश्रिया सुश्रियायुतम् ।।५१।।

अभिषिच्य महेशेन स्वयं ब्रह्मांडमंडपे ।।

दत्तं समस्तमैश्वर्यं यन्निजं नान्यगामि च ।। ५२ ।।

ततस्तुष्टाव देवेशः प्रमथैः सह शार्ङ्गिणम् ।।

ब्रह्माणं लोककर्तारमुवाच च वचस्त्विदम् ।। ५३ ।।

मम वंद्यस्त्वयं विष्णुः प्रणमत्वममुं हरिम् ।।

इत्युक्त्वाथ स्वयं रुद्रो ननाम गरुडध्वजम् ।। ५४ ।।

ततो गणेश्वरैः सर्वैंर्ब्रह्मणा च मरुद्गणैः ।।

योगिभिः सनकाद्यैश्च सिद्धैर्देवर्षिभिस्तथा ।। ५५ ।।

विद्याधरैः सगंधर्वैर्यक्षरक्षोप्सरोगणैः ।।

गुह्यकैश्चारणैर्भूतैः शेष वासुकि तक्षकैः ।। ५६ ।।

पतत्रिभिः किंनरैश्च सर्वैः स्थावरजंगमैः ।।

ततो जयजयेत्युक्त्वा नमोस्त्विति नमोस्त्विति ।। ५७ ।।

ततोहरिर्महेशेन संसदि द्युसदां तदा ।।

एतैर्महारवै रम्यैश्चानर्चि परमार्चिषा ।। ५८ ।।

त्वं कर्ता सर्वभूतानां पाता हर्ता त्वमेव च ।।

त्वमेव जगतां पूज्यस्त्वमेव जगदीश्वरः ।। ५९ ।।

दाता धर्मार्थकामानां शास्ता दुर्नयकारिणाम् ।।

अजेयस्त्वं च संग्रामे ममापि हि भविष्यसि ।। 4.1.23.६० ।।

इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्तथोत्तमा ।।

शक्तित्रयमिदं विष्णो गृहाण प्रापितं मया ।। ६१ ।।

त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः ।।

त्वद्भक्तानां मया विष्णो देयं निर्वाणमुत्तमम् ।। ६२ ।।

मायां चापि गृहाणेमां दुष्प्रणोद्यां सुरासुरैः ।।

यया संमोहितं विश्वमकिंचिज्ज्ञं भविष्यति ।। ६३ ।।

वामबाहुर्मदीयस्त्वं दक्षिणोसौ पितामहः ।।

अस्यापि हि विधेः पाता जनितापि भविष्यसि ।। ६४ ।।

वैकुंठैश्वर्यमासाद्य हरेरित्थं हरः स्वयम् ।।

कैलासे प्रमथैः सार्धं स्वैरं क्रीडत्युमापतिः ।। ६५ ।।

तदा प्रभृति देवोसौ शार्ङ्गधन्वा गदाधरः ।।

त्रैलोक्यमखिलं शास्ति दानवांतकरो हरिः ।।६६।।

इति ते कथिता विप्र लोकानां च परिस्थितिः ।।

इदानीं कथयिष्यावस्तवनिर्वाण कारणम् ।। ६७ ।।

इदं तु परमाख्यानं शृणुयाद्यः समाहितः ।।

स्वर्लोकमभिगम्याथ काश्यां निर्वाणमाप्नुयात् ।। ६८ ।।

यज्ञोत्सवे विवाहे च मंगलेष्वखिलेष्वपि ।।

राज्याभिषेक समये देवस्थापनकर्मणि ।। ६९ ।।

सर्वाधिकारदानेषु नववेश्मप्रवेशने ।।

पठितव्यं प्रयत्नेन तत्कार्य परिसिद्धये ।।4.1.23.७०।।

अपुत्रो लभते पुत्रमधनो धनवान्भवेत् ।।

व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बंधनात्।।७१।।

जप्यमेतत्प्रयत्नेन सततं मंगलार्थिना ।।

अमंगलानां शमनं हरनारायणप्रियम ।।७२।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे चतुर्भुजाभिषेको नाम त्रयोविंशतितमोऽध्यायः ।। २३ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 24

गणावूचतुः ।। ।।

शिवशर्मन्नुदर्कं ते कथयावो निशामय ।।

त्वमत्र वैष्णवे लोके भुक्त्वा भोगान्सुपुष्कलान् ।। १ ।।

ब्रह्मणो वत्सरं पूर्णं रममाणोऽप्सरोगणैः ।।

सुतीर्थमरणोपात्त पुण्यशेषेण वै पुनः ।। २ ।।

भविष्यसि महीपालो नगरे नंदिवर्धने ।।

राज्यं प्राप्यासपत्नं च समृद्धबलवाहनम् ।।३।।

कृष्टिभिर्हृष्टपुष्टैश्च रम्यहाटकभूषणैः ।।

संजुष्टमिष्टापूर्तानां धर्माणां नित्यकर्तृभिः।।४।।

सदासंपन्नसस्यं च सूर्वरक्षेत्रसंकुलम्।।

सुदेशं सुप्रजं सुस्थं सुतृणं बहुगोधनम् ।। ५ ।।

देवतायतनानां च राजिभिः परिराजितम् ।।

सुयूपा यत्र वै ग्रामाः सुवित्तर्द्धि विराजिताः ।। ६ ।।

सुपुष्प कृत्रिमोद्यानाः ससदाफलपादपाः ।।

सपद्मिनीककासारा यत्र राजंति भूमयः ।। ७ ।।

सदंभा निम्नगाराजिर्न यत्र जनता क्वचित् ।।

कुलान्येव कुलीनानि न चान्यायधनानि च ।। ८ ।।

विभ्रमो यत्र नारीषु नविद्वत्सु च कर्हिचित् ।।

नद्यः कुटिलगामिन्यो न यत्र विषये प्रजाः ।। ९ ।।

तमोयुक्ताः क्षपा यत्र बहुलेषु न मानवाः ।।

रजोयुजः स्त्रियो यत्र न धर्मबहुला नराः ।। 4.1.24.१० ।।

धनैरनंधो यत्रास्ति मनो नैव च भोजनम् ।।

अनयः स्यंदनं यत्र न च वै राजपूरुषः ।। ११ ।।

दंडः परशुकुद्दाल वालव्य जनराजिषु ।।

आतपत्रेषु नान्यत्र क्वचित्क्रोधापराधजः ।।१२।।

अन्यत्राक्षिकवृंदेभ्यः क्वचिन्न परिदेवनम् ।।

आक्षिका एव दृश्यंते यत्र पाशकपाणयः ।। १३ ।।

जाड्यवार्ता जलेष्वेव स्त्रीमध्या एव दुर्बलाः ।।

कठोरहृदया यत्र सीमंतिन्यो न मानवाः ।। १४ ।।

औषधेष्वेव यत्रास्ति कुष्ठयोगो न मानवे ।।

वेधोप्यंतःसुरत्नेषु शूलं मूर्तिकरेषु वै ।। १५ ।।

कंपःसात्त्विकभावोत्थो न भयात्क्वापि कस्यचित् ।।

संज्वरः कामजो यत्र दारिद्र्यं कलुषस्य च ।। १६ ।।

दुर्लभत्वं सदा कस्य सुकृतेन च वस्तुनः ।।

इभा एव प्रमत्ता वै युद्धं वीच्योर्जलाशये ।। १७ ।।

दानहानिर्गजेष्वेव द्रुमेष्वेव हि कंटकाः ।।

जनेष्वेव विहारा हि न कस्यचिदुरःस्थली ।। १८ ।।

बाणेषु गुणविश्लेषो बंधोक्तिः पुस्तके दृढा ।।

स्नेहत्यागः सदैवास्ति यत्र पाशुपते जने ।। १९ ।।

दंडवार्ता सदा यत्र कृतसंन्यासकर्मणाम् ।।

मार्गणाश्चापकेष्वेव भिक्षुका ब्रह्मचारिणः ।। 4.1.24.२० ।।

यत्र क्षपणका एव दृश्यंते मलधारिणः ।।

प्रायो मधुव्रता एव यत्र चंचलवृत्तयः ।। २१ ।।

इत्यादि गुणवद्देशे त्वयिराज्यं प्रशासति ।।

धर्मेण राजधर्मज्ञ शौंडीर्यगुणशालिनि ।। २२ ।।

सौभाग्यभाजि रूपाढ्ये शौर्यौदार्यगुणान्विते ।।

सीमंतिनीनां रम्याणां लावण्यवर्जित सुश्रियाम् ।। २३ ।।

राज्ञीनामयुतंभावि कुमाराणां शतत्रयम् ।।

वृद्धकाल इति ख्यात उग्रः परपुरंजयः ।। २४ ।।

विजितानेकसमरः श्रीसंतर्पितमार्गणः ।।

अनेकगुणसंपूर्णः पूर्णचंद्रनिभद्युतिः ।। २५ ।।

संततावभृथक्लिन्न मूर्धजः क्षितिषर्षभः ।।

प्रजापालनसंपन्नः कोशप्रीणितभूसुरः ।। २६ ।।

पदारविंदं गौविंदं हृदि ध्यायन्नतंद्रितः ।।

वासुदेवकथालापपरिक्षिप्त दिनक्षपः ।। २७ ।।

कदाचिदुपविष्टःसन्मध्ये राजसभं द्विज ।।

दूरात्कार्पटिकैर्दृष्टो वाराणस्याः समागतैः ।। २८ ।।

तत्कर्मभाविसदृशैस्तदात्वमभिनंदितः ।।

तैः सर्वै राजशार्दूलस्याशीर्वादैरनेकशः ।। २९ ।।

श्रीमद्विश्वेश्वरो देवो विश्वेषां जगतां गुरुः ।।

काशीनाथस्तुते कुर्यात्कुमतेरपवर्जनम् ।। 4.1.24.३० ।।

नैःश्रेयसीं च संपत्तिं यो देयात्स्मरणादपि ।।

काशीनाथः स ते दिश्याज्ज्ञानं मलविवर्जितम् ।। ३१ ।।

येन पुण्येन ते प्राप्तं राज्यं प्राज्यमकंटकम् ।।

तत्पुण्यशेषतोभूयाद्विश्वनाथे मतिस्तव ।। ३२ ।।

यस्य प्रसादात्सुलभमायुः पुत्रांबरागनाः ।।

समृद्धयः स्वर्गमोक्षौ स विश्वेशः प्रसीदतु ।। ३३ ।।

नामश्रवणमात्रेण यस्य विश्वेशितुर्विभोः ।।

महापातकविच्छेदः स विश्वेशोऽस्तु ते हृदि ।। ३४ ।।

त्वं वृद्धकालो भूपालः श्रुत्वेत्याशीः परंपराम् ।।

स्मरिष्यसीदं वृत्तांतं पुलकांकवपुस्तदा ।। ३५ ।।

आकारगोपनं कृत्वा तेभ्यो दत्त्वा धनं बहु ।।

सुमुहूर्तमनुप्राप्य सुते राज्यं विधाय च ।। ३६।।

अनंगलेखया राज्ञ्या ततः काशीं गमिष्यसि ।।

दत्त्वा दानानि भूरीणि प्रीणयित्वाऽर्थिनो जनान् ।। ३७ ।।

स्वनाम्ना तत्र संस्थाप्य लिंगं निर्वाणकारणम् ।।

प्रासादं तत्र कृत्वोच्चैस्तदग्रे कूपमुत्तमम् ।। ३८ ।।

विधाय विधिवत्तत्र कलशारोपणादिकम् ।।

मणिमाणिक्य चांपेय दुकूलेभाश्वगोधनम् ।। ३९ ।।

महाध्वजपताकाश्च च्छत्रचामरदर्पणम् ।।

देवोपकरणं भूरि विश्राण्य श्रमवर्जितः ।। 4.1.24.४० ।।

व्रतोपवासनियमैः परिक्षीणकलेवरः ।।

मध्याह्ने निर्जने तत्र द्रक्ष्यस्येकं तपोधनम् ।। ४१ ।।

अतीवजीर्णवपुषं परिपिंगजटान्वितम् ।।

मूर्तिमंतंमिव प्रांशुं धर्मं जनमनोहरम्।। ४२।।

भारं शरीरयष्टेश्च दृढयष्ट्यां समर्प्य च ।।

गर्भागाराद्विनिष्क्रम्याभ्यायांतंरंगमंडपे ।।४३।।

उपविश्य समीपे ते प्रक्ष्यत्येवमनुक्रमात् ।।

कोसि त्वं किमिहासि त्वं द्वितीय इव कस्त्वयम् ।। ४४ ।।

प्रासादः कारितः केन जानास्येष ततो वद ।।

अस्य लिंगस्य किं नाम प्रायो जाने न वार्धकात् ।। ४५ ।।

पृष्टस्त्वमिति ते नाथ तदा वृद्ध तपस्विना ।।

कथयिष्यस्यहं राजा वृद्धकाल इति श्रुतः ।। ४६ ।।

दाक्षिणात्य इह प्राप्तस्त्वेतया सह कांतया ।।

ध्यायामि लिंगमेतच्च प्रार्थयामि न किंचन ।। ४७ ।।

प्रासादस्यास्य जटिल स्वयंकारयिता शिवः ।।

विशेषतोऽस्यलिंगस्य नाम नो वेद्मि निश्चितम्।। ४८ ।।

इति श्रुत्वा नरपतेर्वाक्यंप्राह जटाधरः ।।

सत्यमुक्तं त्वयैकं हि लिंगनाम न वेत्सि यत् ।। ४९ ।।

पश्येयं त्वामहं नित्यमुपविष्टं सुनिश्चलम् ।।

श्रुतो भविष्यति तव प्रासादो येन कारितः ।। 4.1.24.५० ।।

ममाग्रे तत्समाचक्ष्व यदि जानासि तत्त्वतः ।।

आकर्ण्येति वचस्तस्य पुनः प्राह भवानिति ।।। ५१ ।।

कर्ता कारयिता शंभुः किमतथ्यं ब्रवीम्यहम् ।।

अथवा चिंतया किं मे तपस्विन्ननया विभो ।। ५२ ।।

इति त्वयि स्थिते जोषं स पुनर्वृद्धतापसः ।।

पिपासुरस्मि पानीयमानीयाशु प्रयच्छ मे ।। ५३ ।।

इति तेन च नुन्नस्त्वं वार्यानीय च कूपतः ।।

पाययिष्यसि तं वृद्धं तापसं तत्क्षणाच्च सः ।। ५४ ।।

तदंबुपानतो भूयात्सुपार्वण शशिप्रभः ।।

तरुणो रूपसंपन्नः कोशोन्मुक्तोरगो यथा ।। ५५ ।।

जाताश्चर्येण भवता पुनरेवाभ्यभाषि सः ।।

कः प्रभावो हि भगवन्नेष येन भवान्पुनः ।। ५६ ।।

परित्यज्यात्र जरसं न वो भ्राजसि सांप्रतम् ।।

अस्ति चेदवकाशस्ते ततो ब्रूहि तपोधन ।। ५७ ।।

तपोधन उवाच ।। ।।

वृद्धकालक्षितिपते जाने त्वां सुमहामते ।।

इमामपि च जानेऽहं तव पत्नीं पतिव्रताम्।। ५८ ।।

जन्मनोऽस्मादियं राजन्नासीद्विप्रस्य कन्यका ।।

तुर्वसोर्वेदवपुषः शुभाचारा शुभानना ।। ५९ ।।

तेन दत्ता विवाहार्थं नैध्रुवाय महात्मने ।।

स च कालवशं प्राप्तो नैध्रुवोऽप्राप्तयौवनः ।। 4.1.24.६० ।।

वैधव्यं पालयंत्येषा मृताऽवंत्यां शुभव्रता ।।

तेन पुण्येन संजाता पांड्यस्य नृपतेः सुता ।। ६१ ।।

परिणीता त्वया राजन्पतिव्रतरता सदा ।।

त्वया सहेह संप्राप्ता मुक्तिं प्राप्स्यत्यनुत्तमाम् ।। ६२ ।।

अयोध्यायामथावंत्यां मथुरायामथापि वा ।।

द्वारवत्यां च कांच्यां वा मायापुर्यामथो नृप ।। ६३ ।।

अपि पातकिनो ये च कालेन निधनं गताः ।।

ते हि स्वर्गादिहागत्य काश्यां मोक्षमवाप्नुयुः ।। ६४ ।।

अवैमि त्वामपि नृपद्विजोऽभूः पूर्वजन्मनि ।।

माथुरः शिवशर्माख्यो मायापुर्यां भवान्मृतः ।। ६५ ।।

तत्पुण्यात्प्राप्य वैकुंठं भुक्त्वा भोगान्मनोरमान् ।।

तत्पुण्यशेषात्क्षितिपो जातस्त्वं नंदिवर्धने ।। ६६ ।।

वृद्धकालावनीपाल तेनैव सुकृतेन च ।।

मोक्षक्षेत्रमिदं प्राप्तो मुक्तिं प्राप्स्यस्यनुत्तमाम् ।। ६७ ।।

अन्यच्च शृणु राजेंद्र त्वया यत्समुदीरितम् ।।

कर्ता कारयिता शंभुः प्रासादस्येति तत्स्फुटम् ।। ६८ ।।

सुकृतं नैव सततमाख्यातव्यं कदाचन ।।

कृतं मयेति कथनात्पुण्यं क्षयति तत्क्षणात् ।। ६९ ।।

तस्मात्सर्वप्रयत्नेन गोपनीयं निधानवत् ।।

सुकृतं कीर्तनाद्व्यर्थं भवेद्भस्महुतं तथा।। 4.1.24.७० ।।

निश्चितं विश्वनाथेन प्रेरितेन त्वयाऽनघ ।।

कृतं हि कृतकृत्येन प्रासादादिह वेद्म्यहम् ।। ७१ ।।

वृद्धकालेश्वरं नाम लिंगमेतन्महीपते ।।

जानीह्यनादिसंसिद्धं निमित्तं किंतु वै भवान् ।। ७२ ।।

दर्शनात्स्पर्शनात्तस्य पूजनाच्छ्रवणान्नतेः ।।

वृद्धकालेशलिंगस्य सर्वं प्राप्नोति वांछितम् ।। ७३ ।।

कूपः कालोदको नाम जराव्याधिविघातकृत् ।।

यदीय जलपानेन मातुःस्तन्यमपानवान् ।। ७४ ।।

कृतकूपोदकस्नानः कृतैतल्लिंगपूजनः ।।

वर्षेण सिद्धिमाप्नोति मनोभिलषितां नरः ।। ७५ ।।

न कुष्ठं न च विस्फोटा नरंघा न विचर्चिका ।।

पीतात्स्पृष्टात्प्रतिष्ठंति कफः कालतमोदकात् ।। ७६ ।।

नाग्निमांद्यं नैव शूलं न मेहो न प्रवाहिका ।।

न मूत्रकृच्छ्रं ना पामा पानायस्यास्य सेवनात् ।। ७७ ।।

भूतज्वराश्च ये केचिद्ये केचिद्विषमज्वराः ।।

ते क्षिप्रमुपशाम्यंति ह्येतत्कूपोदसेवनात् ।। ७८ ।।

तवाग्रतो मम जरा पलितं च यथाविधि ।।

एतत्कूपोदपानेन क्षणान्नष्टं नवोऽभवम् ।। ७९ ।।

वृद्धकालेश्वरे लिंगे सेवितेन दरिद्रता ।।

नोपसर्गा न वा रोगा न पापं नाघजं फलम् ।। 4.1.24.८० ।।

उत्तरे कृत्तिवासस्य वाराणस्यां प्रयत्नतः ।।

वृद्धकालेश्वरं लिंगं द्रष्टव्यं सिद्धिकामुकैः ।। ८१ ।।

इत्युक्त्वा तं महीपालं हस्ते धृत्वा तपोधनः ।।

सानंगलेखा राज्ञीकं तस्मिँल्लिंगे लयं ययौ ।। ८२ ।।

महाकाल महाकाल महाकालेति कीर्तनात् ।।

शतधा मुच्यते पापैर्नात्र कार्या विचारणा ।। ८३ ।।

इत्थं भवित्री ते मुक्तिः कैटभारातिदर्शनात् ।।

भोगान्भुक्त्वा बहुविधान्वैकुंठ नगरे शुभे ।। ८४ ।।

इति संहृष्टतनूरुहः स विप्रो भगवत्तद्गणवक्त्रतो निशम्य ।।

स्वमुदर्कमथार्ककोटिरम्यं हरिलोकं परिलोकयांचकार ।। ८५ ।।

।। मैत्रावरुणिरुवाच ।। ।।

लोपामुद्रे स विप्रेंद्रो भोगान्भुक्त्वा मनोरमान् ।।

मायापुर्यां कृतप्राणत्याग पुण्यबलेन च ।। ८६ ।।

वैकुंठलोकादागत्य पत्तने नंदिवर्धने ।।

भौमानि भुक्त्वा सौख्यानि पुत्रानुत्पाद्य सुंदरान् ।। ।। ८७ ।।

तेषु राज्यं विनिक्षिप्य प्राप्य वाराणसीं पुरीम् ।।

विश्वेश्वरं समाराध्य निर्वाणपदमीयिवान् ।। ८८ ।।

एतत्पुण्यतमाख्यानं विप्रस्य शिवशर्मणः ।।

श्रुत्वा पापविनिर्मुक्तो ज्ञानं परममृच्छति।। ।। ८९ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वाद्धे शिवशर्मनिर्वाणप्रापणं नाम चतुर्विंशोध्यायः ।। २४ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 25

।। व्यास उवाच ।। ।।

शृणु सूत प्रवक्ष्यामि कथां कलशजन्मनः ।।

यामाकर्ण्य नरो भूयाद्विरजा ज्ञानभाजनम् ।। १ ।।

गिरिं प्रदक्षिणीकृत्य श्रीसंज्ञं कलशोद्भवः ।।

सपत्नीको ददर्शाथ रम्यं स्कंदवनं महत् ।। २ ।।

सर्वर्तं कुसुमाढ्यं च रसवत्फलपादपम् ।।

सुसेव्य कंदमूलाढ्यं सुवल्कलमहीरुहम्।। ३ ।।

निवीतश्वापदगणं ससरित्पल्वलावृतम् ।।

स्वच्छ गंभीरकासारं सारं सर्वभुवः परम् ।। ४ ।।

नानापतत्रिसंघुष्टं नानामुनिजनोषितम् ।।

तपःसंकेतनिलयमिवैकं संपदां पदम् ।। ५ ।।

लोहितो नाम तत्रास्ति गिरिः स्वर्णगिरिप्रभः ।।

सुकंदरप्रस्रवणः स्वसानु शिखरप्रभः ।।६।।

कैलासस्यैकशकलं कर्मभूमाविहागतम् ।।

तपस्तप्तुमिव प्रोच्चैर्नानाश्चर्यसमन्वितम्।। ७ ।।

तत्राद्राक्षीन्मुनिश्रेष्ठोऽगस्त्यः साक्षात्षडाननम् ।।

प्रणम्य दंडवद्भूमौ सपत्नीको महातपाः ।। ८ ।।

तुष्टाव गिरिजासूनुं सूक्तैः श्रुतिसमुद्भवैः ।।

तथा स्वकृतया स्तुत्या प्रबद्ध करसंपुटः ।। ९ ।।

अगस्तिरुवाच ।। ।।

नमोस्तु वृंदारकवृंदवंद्य पादारविंदाय सुधाकराय ।।

षडाननायामितविक्रमाय गौरीहृदानंदसमुद्भवाय ।।4.1.25.१०।।

नमोस्तु तुभ्यं प्रणतार्तिहंत्रे कर्त्रे समस्तस्य मनोरथानाम् ।।

दात्रे रथानां परतारकस्य हंत्रे प्रचंडासुर तारकस्य ।। ११ ।।

अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गुण्याय परात्पराय ।।

अपारपाराय परापराय नमोस्तु तुभ्यं शिखिवाहनाय ।। १२ ।।

नमोस्तु ते ब्रह्मविदांवराय दिगंबरायांबर संस्थिताय ।।

हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे ।। १३ ।।

तपःस्वरूपाय तपोधनाय तपःफलानां प्रतिपादकाय ।।

सदा कुमाराय हिमारमारिणे तणीकृतैश्वर्य विरागिणे नमः ।। १४ ।।

नमोस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदंतपंक्तये ।।

बालाय चाबालपराक्रमाय षाण्मातुरायालमनातुराय ।। १५ ।।

मीढुष्टमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय ।।

नमोस्तु ते जन्मजरातिगाय नमो विशाखाय सुशक्तिपाणये ।। १६ ।।

सर्वस्य नाथस्य कुमारकाय क्रौंचारये तारकमारकाय ।।

स्वाहेय गांगेय च कार्तिकेय शैवेय तुभ्यं सततं नमोऽस्तु ।। १७ ।।

इत्थं परिष्टुत्य स कार्तिकेयं नमो नमस्त्वित्यभिभाषमाणः ।।

द्विस्त्रिःपरिक्रम्य पुरो विवेश स्थितो मुनीशोपविशेति चोक्तः ।। १८ ।।

।। कार्तिकेय उवाच ।। ।।

क्षेमोस्ति कुंभज मुने त्रिदशैकसहायकृत् ।।

जाने त्वामिह संप्राप्तं तथा विंध्याचलोन्नतिम् ।। १९ ।।

अविमुक्ते महाक्षेत्रे क्षेमं त्र्यक्षेण रक्षिते ।।

यत्र क्षीणायुषां साक्षाद्विरूपाक्षोऽस्ति मोक्षदः ।। 4.1.25.२० ।।

भूर्भुवः स्वस्तले वापि न पातालतले मलम् ।।

नोर्ध्वलोके मया दृष्टं तादृक्क्षेत्रं क्वचिन्मुने ।। २१ ।।

अहमेकचरोप्यत्र तत्क्षेत्रप्राप्तये मुने ।।

तप्ये तपांसिनाद्यापि फलेयुर्मे मनोरथाः ।। २२ ।।

न तत्पुण्यैर्न तद्दानैर्न तपोभिर्न तज्जपैः ।।

न लभ्यं विविधैर्यज्ञैर्लभ्यमैशादनुग्रहात् ।। २३ ।।

ईश्वरानुग्रहादेव काशीवासः सुदुर्लभः ।।

सुलभः स्यान्मुने नूनं न वै सुकृतकोटिभिः ।। २४ ।।

अन्यैव काचित्सा सृष्टिर्विधातुर्याऽतिरेकिणी ।।

न तत्क्षेत्रगुणान्वक्तुमीश्वरोऽपीश्वरो यतः ।। २५ ।।

अहो मतेः सुदौर्बल्यमहोभाग्यस्य दौर्विधम् ।।

अहो मोहस्य माहात्म्यं यत्काशीह न सेव्यते ।।२६।।

शरीरं जीर्यते नित्यं संजीर्यंतींद्रियाण्यपि ।।

आयुर्मृगो मृगयुना कृतलक्ष्यो हि मृत्युना ।। २७ ।।

सापदं संपदं ज्ञात्वा सापायं कायमुच्चकैः ।।

चपला चपलं चायुर्मत्वा काशीं समाश्रयेत् ।। २८ ।।

यावन्नैत्यायुषश्चांतस्तावत्काशी न मुच्यते ।।

कालः कलालवस्यापि संख्यातुं नैव विस्मरेत् ।। २९ ।।

जरानिकटनिक्षिप्ता बाधंते व्याधयो भृशम् ।।

तथापि देहो नानेहो नाहो काशीं समीहते ।। 4.1.25.३० ।।

तीर्थस्नानेन जप्येन परोपकरणोक्तिभिः ।।

विनार्थं लभ्यते धर्मो धर्मादर्थः स्वयं भवेत् ।। ३१ ।।

विनैवार्थार्जनोपायं धर्मादर्थो भवेद्ध्रुवम् ।।

अतोऽर्थचिंतामुत्सृज्य धर्ममेकं समाश्रयेत् ।। ३२ ।।

धर्मादर्थोऽर्थतः कामः कामात्सर्वसुखोदयः ।।

स्वर्गोपि सुलभो धर्मात्काश्ये का दुर्लभा परम् ।। ३३ ।।

उपायत्रयमेवात्र स्थाणुर्निर्वाणकारणम्।।

शर्वाण्यग्रेव भाणाद्धा परिनिर्णीय सर्वतः ।। ३४ ।।

पूर्वं पाशुपतो योगस्ततस्तीर्थं सितासितम् ।।

ततोप्येकमनायासमविमुक्तं विमुक्तिदम् ।। ३५ ।।

श्रीशैल हिमशैलाद्या नानान्यायतनानि च ।।

त्रिदंडधारणंचापि संन्यासः सर्वकर्मणाम् ।। ३६ ।।

तपांसि नानारूपाणि व्रतानि नियमा यमाः ।।

सिंधूनामपि संभेदा अरण्यानि बहून्यपि ।। ३७ ।।

मानसान्यपि भौमानि धारातीर्थादिकानि च ।।

ऊषराश्चापि पीठानि ह्यच्छिन्नाम्नायपाठनम्।। ३८ ।।

जपश्चापि मनूनां च तथाऽग्निहवनानि च ।।

दानानि नानाक्रतवो देवतोपासनानि च ।। ३९ ।।

त्रिरात्रं पंचरात्राणि सांख्ययोगादयस्तथा ।।

विष्णोराराधनं श्रेष्ठं मुक्तयेऽभिहितं किल ।। 4.1.25.४० ।।

पुर्यश्चापि समाख्यातानृतजंतु विमुक्तिदा ।।

कैवल्यसाधनानीह भवंत्येव विनिश्चितम् ।। ४१ ।।

एतानि यानि प्रोक्तानि काशीप्राप्तिकराणि च ।।

प्राप्य काशीं भवेन्मुक्तो जंतुर्नान्यत्रकुत्रचित् ।। ४२ ।।

अतएव हि तत्क्षेत्रं पवित्रमतिचित्रकृत् ।।

विश्वेशितुः प्रियनित्यं विष्वग्ब्रह्माण्डमंडले ।। ४३ ।।

इदमेव हि तत्क्षेत्रं कुशलप्रश्नकारणम् ।।

एह्येहि देहि मे स्पर्शं निजगात्रस्य सुव्रत ।। ४४ ।।

अपि काश्याः समागच्छत्स्पर्शवत्स्पर्श इष्यते ।।

मयात्र तिष्ठता नित्यं किंतु त्वं तत आगतः ।। ४५८ ।।

त्रिरात्रमपिये काश्यां वसंति नियतेंद्रियाः ।।

तेषां पुनंति नियतं स्पृष्टाश्चरणरेणवः ।। ४६ ।।

त्वं तु तत्र कृतावासः कृतपुण्यमहोच्चयः ।।

उत्तरप्रवहा स्नान जातपिंगलमूर्धजः ।। ४७ ।।

तव तत्र तु यत्कुंडमगस्तीश्वरसन्निधौ ।।

तत्र स्नात्वा च पीत्वा च कृतसर्वोदकक्रियः ।। ४८ ।।

पितॄन्पिंडैः समभ्यर्च्य श्रद्धाश्राद्धविधानतः ।।

कृत्यकृत्यो भवेज्जंतुर्वाराणस्याः फलं लभेत् ।। ४९ ।।

इत्युक्त्वा सर्वगात्राणि स्पष्ट्वा कुंभोद्भवस्य च ।।

स्कंदोऽमृतसरोवारि विगाह्य सुखमाप्तवान् ।।4.1.25.५०।।

जय विश्वेश नेत्राणि विनिमील्य वदन्नपि ।।

ततः किंचित्क्षणं दध्यौ गुहः स्थाणुसुनिश्चलः ।। ५१ ।।

स्कंदे विसर्जितध्याने सुप्रसन्नमनोमुखे ।।

प्रतीक्ष्य वागवसरं पप्रच्छाथ मुनिर्गुहम् ।। ५२ ।।

।। अगस्तिरुवाच ।। ।।

स्वामिन्यथा भगवता भगवत्यै पुराऽकथि ।।

वाराणस्यास्तु महिमा हिमशैलभुवे मुदा ।। ५३ ।।

त्वया यथा समाकर्णि तदुत्संगनिवासिना ।।

तथा कथय षड्वक्त्र तत्क्षेत्रं मेऽतिरोचते ।। ५४ ।।

।। स्कंद उवाच ।। ।।

शृणुष्व मैत्रावरुणे यथा भगवताऽकथि ।।

तत्क्षेत्रस्याविमुक्तस्य मम मातुः पुरः पुरा ।। ५५ ।।

श्रुतं च यत्तदुत्संगे स्थितेन स्थिरचेतसा ।।

माहात्म्यं तच्छृणु मुने कथ्यमानं मयाऽनघ ।। ५६ ।।

गुह्यानां परमं गुह्यमविमुक्तमिहेरितम् ।।

तत्र संनिहिता सिद्धिस्तत्र नित्यं स्थितो विभुः ।। ५७ ।।

भूर्लोके नैव संलग्नं तत्क्षेत्रं त्वंतरिक्षगम् ।।

अयोगिनो न वीक्षंते पश्यंत्येव च योगिनः ।। ।। ५८ ।।

यस्तत्र निवसेद्विप्र संयतात्मा समाहितः ।।

त्रिकालमपि भुंजानो वायुभक्षसमो भवेत् ।। ५९ ।।

निमेषमात्रमपि यो ह्यविमुक्तेऽतिभक्तिभाक् ।।

ब्रह्मचर्यसमायुक्तं तेन तप्तं महत्तपः ।। 4.1.25.६० ।।

यस्तु मासं वसेद्धीरो लघ्वाहारो जितेंद्रियः ।।

सर्वं तेन व्रतं चीर्णं दिव्यं पाशुपतं भवेत् ।। ६१ ।।

संवत्सरं वसंस्तत्र जितक्रोधो जितेंद्रियः ।।

अपरस्वविपुष्टांगः परान्नपरिवर्जकः ।। ६२ ।।

परापवादरहितः किंचिद्दानपरायणः ।।

समाः सहस्रमन्यत्र तेन तप्तं महत्तपः ।। ६३ ।।

यावज्जीवं वसेद्यस्तु क्षेत्रमाहात्म्यविन्नरः ।।

जन्ममृत्यु भयं हित्वा स याति परमां गतिम् ।। ६४ ।।

न योगैर्या गतिर्लभ्या जन्मांतरशतैरपि ।।

अन्यत्रहेलया साऽत्र लभ्येशस्य प्रसादतः ।।६५।।

ब्रह्महा योऽभिगच्छेद्वै दैवाद्वाराणसीं पुरीम् ।।

तस्य क्षेत्रस्य माहात्म्याद्ब्रह्महत्या निवर्तते ।। ६६ ।।

आदेहपतनं यावद्योविमुक्तं न मुंचति ।।

न केवलं ब्रह्महत्या प्रकृतिश्च निवर्तते ।। ६७ ।।

अनन्यमानसो भूत्वा तत्क्षेत्रं यो न मुंचति ।।

स मुंचति जरामृत्युं गर्भवासं सुदुःसहम् ।। ६८ ।।

अविमुक्तं निषेवेत देवर्षिगणसेवितम् ।।

यदीच्छेन्मानवो धीमान्न पुनर्जननं भुवि ।। ६९ ।।

अविमुक्तं न मुंचेत संसारभयमोचनम् ।।

प्राप्य विश्वेश्वरं देवं न स भूयोऽभिजायते ।। 4.1.25.७० ।।

कृत्वा पापसह्स्राणि पिशाचत्वं वरंत्विह ।।

न तु क्रतुशतप्राप्यः स्वर्गः काशीपुरीं विना ।। ७१ ।।

अंतकाले मनुष्याणां भिद्यमानेषु मर्मसु ।।

वातेनातुद्यमानानां स्मृतिर्नैवोपजायते ।। ७२ ।।

तत्रोत्क्रमणकाले तु साक्षाद्विश्वेश्वरः स्वयम् ।।

व्याचष्टे तारकं ब्रह्म येनासौ तन्मयो भवेत् ।। ७३ ।।

अशाश्वतमिदं ज्ञात्वा मानुष्यं बहुकिल्बिषम् ।।

अविमुक्तं निषेवेत संसारभयनाशनम् ।। ७४ ।

विघ्रैरालोड्यमानोपि योऽविमुक्तं न मुंचति ।।

नैःश्रेयसी श्रियं प्राप्य दुःखांतं सोधिगच्छति ।। ७५ ।।

महापापौघशमनीं पुण्योपचयकारिणीम् ।।

भुक्तिमुक्तिप्रदामंते को न काशीं सुधीः श्रयेत् ।। ७६ ।।

एवं ज्ञात्वा तु मेधावी नाविमुक्तं त्यजेन्नरः ।।

अविमुक्तप्रसादेन विमुक्तो जायते यतः ।। ७७ ।।

अविमुक्तस्य माहात्म्यं षड्भिर्वक्त्रैः कथं मया ।।

वक्तुं शक्यं न शक्नोति सहस्रास्योपि यत्परम् ।। ७८ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे स्कंदागस्त्यदर्शनं नाम पंचविशतितमोऽध्यायः ।। २५ ।। ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 26

अगस्तिरुवाच ।। ।।

प्रसन्नोसि यदि स्कंद मयि प्रीतिरनुत्तमा ।।

तत्समाचक्ष्व भगवंश्चिरं यन्मे हृदिस्थितम् ।। १ ।।

अविमुक्तमिदं क्षेत्रं कदारभ्य भुवस्तले ।।

परां प्रथितिमापन्नं मोक्षदं चाभवत्कथम् ।। २ ।।

कथमेषा त्रिलोकीड्या गीयते मणिकर्णिका ।।

तत्रासीत्किं पुरास्वामिन्यदा नामरनिम्नगा ।। ३ ।।

वाराणसीति काशीति रुद्रावास इति प्रभो ।।

अवाप नामधेयानि कथमेतानि सा पुरी ।।

आनंदकाननं रम्यमविमुक्तमनंतरम् ।। ४ ।।

महाश्मशान इति च कथं ख्यातं शिखिध्वज ।।

एतदिच्छाम्यहं श्रोतुं संदेहं मेऽपनोदय ।। ५ ।।

।। स्कंद उवाच ।।

प्रश्नभारोयमतुलस्त्वया यः समुदाहृतः ।।

कुंभयोनेऽमुमेवार्थमप्राक्षीदंबिका हरम् ।। ६ ।।

यथा च देवदेवेन सर्वज्ञेन निवेदितम् ।।

जगन्मातुः पुरस्ताच्च तथैव कथयामि ते ।। ७ ।।

महाप्रलय काले च नष्टे स्थावरजंगमे ।।

आसीत्तमोमयं सर्वमनर्कग्रहतारकम् ।। ८ ।।

अचंद्रमनहोरात्रमनग्न्यनिलभूतलम् ।।

अप्रधानं वियच्छून्यमन्यतेजोविवर्धितम् ।। ९ ।।

द्रष्टृत्वादि विहीनं च शब्दस्पर्शसमुज्झितम् ।।

व्यपेतगंधरूपं च रसत्यक्तमदिङ्मुखम् ।। 4.1.26.१० ।।

इत्थं सत्यंधतमसि सूचीभेद्ये निरंतरे ।।

तत्सद्ब्रह्मेति यच्छ्रुत्या सदैकं प्रतिपाद्यते ।। ११ ।।

अमनोगोचरोवाचां विषयं न कथंचन ।।

अनामरूपवर्णं च न स्थूलं न च यत्कृशम् ।। १२ ।।

अह्रस्वदीर्घमलघुगुरुत्वपरिवर्जितम् ।।

न यत्रोपचयः कश्चित्तथा चापचयोपि च ।। १३ ।।

अभिधत्ते स चकितं यदस्तीति श्रुतिः पुनः ।।

सत्यं ज्ञानमनंतं च यदानंदं परं महः ।। १४ ।।

अप्रमेयमनाधारमविकारमनाकृति ।।

निर्गुणं योगिगम्यं च सर्वव्याप्येककारणम् ।। १५ ।।

निर्विकल्पं निरारंभं निर्मायं निरुपद्रवम् ।।

यस्येत्थं संविकल्प्यंते संज्ञाः संज्ञोदितस्य वै ।। १६ ।।

तस्यैकलस्य चरतो द्वितीयेच्छा भवत्किल ।।

अमूर्तेन स्वमूर्तिश्च तेनाकल्पि स्वलीलया ।। १७ ।।

सर्वैश्वर्यगुणोपेता सर्वज्ञानमयी शुभा ।।

सर्वगा सर्वरूपा च सर्वदृक्सर्वकारिणी ।। १८ ।।

सर्वैकवंद्या सर्वाद्या सर्वदा सर्वसंकृतिः ।।

परिकल्प्येति तां मूर्तिमीश्वरीं शुद्धरूपिणीम् ।। १९ ।।

अंतर्दधे पराख्यं यद्ब्रह्मसर्वंगमव्ययम् ।। 4.1.26.२० ।।

अमूर्तं यत्पराख्यं वै तस्य मूर्तिरहं प्रिये ।।

अर्वाचीनपराचीना ईश्वरं मां जगुर्बुधाः ।।२१।।

ततस्तदैकलेनापि स्वैरं विहरतामया ।।

स्वविग्रहात्स्वयं सृष्टा स्वशरीरानपायिनी ।। २२ ।।

प्रधानं प्रकृतिं त्वां च मायां गुणवतीं पराम् ।।

बुद्धि तत्त्वस्य जननीमाहुर्विकृतिवर्जिताम् ।। २३ ।।

युगपच्च त्वया शक्त्या साकं कालस्वरूपिणा।।

मयाऽऽद्य पुरुषेणैतत्क्षेत्रं चापि विनिर्मितम्।।२४।।

सा शक्तिः प्रकृतिः प्रोक्ता स पुमानीश्वरः परः ।।

ताभ्यां च रममाणाभ्यां तस्मिन्क्षेत्रे घटोद्भव ।।२५।।

परमानंदरूपाभ्यां परमानंदरूपिणी ।।

पंचक्रोशपरीमाणे स्वपादतलनिर्मिते।।२६ ।।

मुने प्रलयकालेपि न तत्क्षेत्रं कदाचन।।

विमुक्तं हि शिवाभ्यां यदविमुक्तं ततो विदुः ।। २७ ।।

न यदा भूमिवलयं न यदाऽपां समुद्भवः ।।

तदा विहर्तुमीशेन क्षेत्रमेतद्विनि र्मितम्।। २८ ।।

इदं रहस्यं क्षेत्रस्य वेद कोपि न कुंभज।।

नास्तिकाय न वक्तव्यं कदाचिच्चर्मचक्षुषे ।। २९ ।।

श्रद्धालवे विनीताय त्रिकालज्ञानचक्षुषे ।।

शिवभक्ताय शांताय वक्तव्यं च मुमुक्षवे ।। 4.1.26.३० ।।

अविमुक्तं तदरभ्य क्षेत्रमेतदुदीर्यते ।।

पर्यंक(?)भूतं शिवयोर्निरंतरसुखास्पदम् ।। ३१ ।। (पर्यंक)

अभावः कल्प्यते मूढैर्यदा च शिवयोस्तयोः।।

क्षेत्रस्यास्य तदाभावः कल्प्यो निर्वाणकारिणः।। ३२ ।।

अनाराध्य महेशानमनवाप्य च काशिकाम्।।

योगाद्युपायविज्ञोपि न निर्वाणमवाप्नुयात् ।।३३।।

अस्यानंदवनं नाम पुरा कारि पिनाकिना ।।

क्षेत्रस्यानंदहेतुत्वादविमुक्तमंनतरम् ।। ३४ ।।

आनंदकंदबीजानामंकुराणि यतस्ततः ।।

ज्ञेयानि सर्वलिंगानि तस्मिन्नानंदकानने ।। ३५ ।।

अविमुक्तमिति ख्यातमासीदित्थं घटोद्भव ।।

तथा चाख्याम्यथ मुने यथासीन्मणिकर्णिका ।। ३६ ।।

प्रागानंदवने तत्र शिवयो रममाणयोः ।।

इच्छेत्यभूत्कलशज सृज्यः कोप्यपरः किल ।। ३७ ।।

यस्मिन्न्यस्ते महाभारे आवां स्वः स्वैरचारिणौ ।।

निर्वाणश्राणनं कुर्वः केवलं काशिशायिनाम् ।। ३८ ।।

स एव सर्वं कुरुते स एव परिपाति च ।।

स एव संवृणोत्यंते सर्वैश्वर्यनिधिः स च ।। ३९ ।।

चेतःसमुद्रमाकुंच्य चिंताकल्लोलदोलितम् ।।

सत्त्वरत्नं तमोग्राहं रजोविद्रुमवल्लितम् ।। 4.1.26.४० ।।

यस्य प्रसादात्तिष्ठावः सुखमानंदकानने ।।

परिक्षिप्त मनोवृत्तौ क्व हि चिंतातुरे सुखम् ।। ४१ ।।

संप्रधार्येति स विभुः सर्वतश्चित्स्वरूपया ।।

तया सह जगद्धात्र्या जगद्धाताऽथ धूर्जटिः ।। ४२ ।।

सव्ये व्यापारयांचक्रे दृशमंगे सुधामुचम् ।।

ततः पुमानाविरासीदेकस्त्रैलोक्यसुंदरः ।। ४३ ।।

शांतः सत्त्वगुणोद्रिक्तो गांभीर्य जितसागरः ।।

तथा च क्षमया युक्तो मुनेऽलब्धोपमोऽभवत् ।। ४४ ।।

इंद्रनीलद्युतिःश्रीमान्पुंडरीकोत्तमेक्षणः ।।

सुवर्णाकृति सुच्छाय दुकूलयुगलावृतः ।। ४५ ।।

लसत्प्रचंडदोर्दंड युगलद्वयराजितः ।।

उल्लसत्परमामोदनाभीह्रदकुशेशयः ।। ४६ ।।

एकः सर्वगुणावासस्त्वेकः सर्वकलानिधिः ।।

एकः सर्वोत्तमो यस्मात्ततो यः पुरुषोत्तमः ।। ४७ ।।

ततो महांतं तं वीक्ष्य महामहिमभूषणम् ।।

महादेव उवाचेदं महाविष्णुर्भवाच्युत ।। ४८ ।।

तव निःश्वसितं वेदास्तेभ्यः सर्वमवैष्यसि ।।

वेददृष्टेन मार्गेण कुरु सर्वं यथोचितम्।। ४९ ।।

इत्युक्त्वा तं महेशानो बुद्धितत्त्वस्वरूपिणम् ।।

शिवया सहितो रुद्रो विवेशानंदकाननम् ।। 4.1.26.५० ।।

ततः स भगवान्विष्णुर्मौलावाज्ञां निधाय च ।।

क्षणं ध्यानपरो भूत्वा तपस्येव मनो दधौ ।। ५१ ।।

खनित्वा तत्र चक्रेण रम्यां पुष्करिणीं हरिः ।।

निजांगस्वेदसंदोह सलिलैस्तामपूरयत् ।। ५२ ।।

समाः सहस्रं पंचाशत्तप उग्रं चचार सः ।।

चक्रपुष्कीरणी तीरे तत्र स्थाणुसमाकृतिः ।। ५३ ।।

ततः स भगवानीशो मृडान्या सहितो मृडः ।।

दृष्ट्वा ज्वलंतं तपसा निश्चलं मीलितेक्षणम्।। ५४ ।।

तमुवाच हृषीकेशं मौलिमांदोलयन्मुहुः ।।

अहो महत्त्वं तपसस्त्वहो धैर्यं च चेतसः ।। ५५ ।।

अहो अनिंधनो वह्निर्ज्वलत्येष निरंतरम्।।

अलं तप्त्वा महाविष्णो वरं वरय सत्तम ।। ५६ ।।

मृडस्याम्रोडितमिदं प्रत्यभिज्ञाय भाषितम् ।।

उन्मीलित दृगंभोजः समुत्तस्थौ चतुर्भुजः ।। ५७ ।।

श्रीविष्णुरुवाच ।। ।।

यदि प्रसन्नो देवेश देवदेव महेश्वर ।।

भवान्या सहितं त्वां तु द्रष्टुमिच्छामि सर्वदा ।। ५८ ।।

सर्वकर्मसु सर्वत्र त्वामेव शशिशेखर ।।

पुरश्चरं तं पश्यामि यथा तन्मे वरस्तथा ।। ५९ ।।

त्वदीय चरणांभोज मकरंदमधूत्सुकः ।।

मच्चेतो भ्रमरो भ्रांतिं विहायास्तु सुनिश्चलः ।।4.1.26.६०।।

।। श्रीशिव उवाच ।।

एवमस्तु हृषीकेश यत्त्वयोक्तं जनार्दन ।।

अन्यं वरं प्रयच्छामि तमाकर्णय सुव्रत ।। ६१ ।।

त्वदीयस्यास्य तपसो महोपचय दर्शनात् ।।

यन्मयांदोलितो मौलिरहिश्रवणभूषणः ।। ६२ ।।

तदांदोलनतः कर्णात्पपात मणिकर्णिका ।।

मणिभिः खचिता रम्या ततोऽस्तु मणिकर्णिका ।। ६३ ।।

चक्रपुष्करिणी तीर्थं पुराख्यातमिदं शुभम् ।।

त्वया चक्रेण खननाच्छंखचक्रगदाधर ।। ६४ ।।

मम कर्णात्पपातेयं यदा च मणिकर्णिका ।।

तदाप्रभृति लोकेऽत्र ख्यातास्तु मणिकर्णिका ।।६५।।

।। श्रीविष्णुरुवाच ।। ।।

मुक्ताकुंडलपातेन तवाद्रितनयाप्रिय ।।

तीर्थानां परमं तीर्थं मुक्तिक्षेत्रमिहास्तु वै ।।६६।।

काशतेऽत्र यतो ज्योतिस्तदनाख्येयमीश्वरः ।।

अतो नामापरं चास्तु काशीति प्रथितं विभो ।। ६७ ।।

अन्यं वरं वरे देव देयः सोप्यविचारितम् ।।

स ते परोपकारार्थं जगद्रक्षामणे शिव ।। ६८ ।।

आब्रह्मस्तंबपर्यंतं यत्किंचिज्जंतुसंज्ञितम् ।।

चतुर्षु भूतग्रामेषु काश्यां तन्मुक्तिमाप्स्यतु ।।६९।।

अस्मिंस्तीर्थवरे शंभो मणिश्रव णभूषणे ।।

संध्यां स्नानं जपं होमं वेदाध्ययनमुत्तमम् ।।

तर्पण पिंडदानं च देवतानां च पूजनम् ।। 4.1.26.७० ।।

गोभूतिलहिरण्याश्वदीपान्नांबरभूषणम् ।।

कन्यादानं प्रयत्नेन सप्ततंतूननेकशः ।। ७१ ।।

व्रतोत्सर्गं वृषोत्सर्गं लिंगादि स्थापनं तथा ।।

करोति यो महाप्राज्ञो ज्ञात्वायुःक्षणगत्वरम् ।। ७२ ।।

विपत्तिं विपुलां चापि संपत्तिमतिभंगुराम् ।।

अक्षया मुक्तिरेकास्तु विपाकस्तस्य कर्मणः ।।७३।।

अन्यच्चापि शुभं कर्म यदत्र श्रद्धयायुतम् ।।

विनात्मघातमीशान त्यक्त्वा प्रायोपवेशनम्।।७४।।

नैःश्रेयस्याः श्रियो हेतुस्तदस्तु जगदीश्वर ।।

नानुशोचति नाख्याति कृत्वा कालांतरेपि यत् ।।७५।।

तदिहाक्षयतामेतु तस्येश त्वदनुग्रहात्।।

तव प्रसादात्तस्येश सर्वमक्षयमस्तु तत् ।। ७६ ।।

यदस्ति यद्भविष्यच्च यद्भूतं च सदाशिव ।।

तस्मादेतच्च सर्वस्मात्क्षेत्रमस्तु शुभोदयम् ।। ७७ ।।

यथा सदाशिव त्वत्तो न किंचिदधिकं शिवम् ।।

तथानंदवनादस्मात्किंचिन्मास्त्वधिकं क्वचित् ।। ७८ ।।

विना सांख्येन योगेन विना स्वात्मावलोकनम्।।

विना व्रत तपो दानैः श्रेयोऽस्तु प्राणिनामिह ।। ७९ ।।

शशका मशका कीटाः पतं गास्तुरगोरगाः ।।

पंचक्रोश्यां मृताः काश्यां संतु निर्वाणदीक्षिताः ।। 4.1.26.८० ।।

नामापि गृह्णतां काश्याः सदैवास्त्वेनसः क्षयः ।। ८१ ।।

सदा कृतयुगं चास्तु सदाचास्तूत्तरायणम्।।

सदा महोदयश्चास्तु काश्यां निवसतां सताम् ।। ८२ ।।

यानि कानि पवित्राणि श्रुत्युक्तानि सदाशिव ।।

तेभ्योऽधिकतरं चास्तु क्षेत्रमेतत्त्रिलोचन ।। ८३ ।।

चतुर्णामपि वेदानां पुण्यमध्ययनाच्च यत् ।।

तत्पुण्यं जायतां काश्यां गायत्रीलक्ष जाप्यतः ।। ८४ ।।

अष्टांगयोगाभ्यासेन यत्पुण्यमपि जायतेः ।।

तत्पुण्यं साधिकं भूयाच्छ्रद्धाकाशीनिषेवणात् ।। ८५ ।।

कृच्छ्रचांद्रायणाद्यैश्च यच्छ्रेयः समुपार्ज्यते ।।

तदेकेनोपवासेन भवत्वानंदकानने ।। ८६ ।।

अन्यत्र यत्तपस्तप्त्वा श्रेयः स्याच्छरदां शतम् ।।

तदस्तु काश्यां वर्षेण भूमिशय्या व्रतेन हि ।। ८७ ।।

आजन्म मौनव्रततो यदन्यत्रफलं स्मृतम् ।।

तदस्तु काश्यां पक्षाहः सत्यवाक्परिभाषणात् ।। ८८ ।।

अन्यत्र दत्त्वा सर्वस्वं सुकृतं यत्समीरितम् ।।

सहस्रभोजनात्काश्यां तद्भूयादयुताधिकम् ।। ८९ ।।

मुक्तिक्षेत्राणि सर्वाणि यत्संसेव्योदितं फलम् ।।

पंचरात्रात्तदत्रास्तु निषेव्य मणिकर्णिकाम् ।। 4.1.26.९० ।।

प्रयागस्नानपुण्येन यत्पुण्यं स्याच्छिवप्रदम् ।।

काशीदर्शनमात्रेण तत्पुण्यं श्रद्धयास्त्विह ।। ९१ ।।

यत्पुण्यमश्वमेधेन यत्पुण्यं राजसूयतः ।।

काश्यां तत्पुण्यमाप्नोतु त्रिरात्रशयनाद्यमी ।। ९२ ।।

तुलापुरुषदानेन यत्पुण्यं सम्यगाप्यते ।।

काशीदर्शनमात्रेण तत्पुण्यं श्रद्धयास्तु वै ।। ९३ ।।

इति विष्णोर्वरं श्रुत्वा देवदेवो जगत्पतिः ।।

उवाच च प्रसन्नात्मा तथाऽस्तु मधुसूदन ।। ९४ ।।

।। श्रीमहादेव उवाच ।। ।।

शृणु विष्णो महाबाहो जगतः प्रभवाप्यय ।।

विधेहि सृष्टिं विविधां यथावत्त्वं श्रुतीरिताम् ।। ९५ ।।

पितेव सर्वभूतानां धर्मतः पालको भव ।।

विध्वंसनीया विविधा धर्मध्वंसविधायिनः ।। ९६ ।।

धर्मेतरपथस्थानामुपसंहृतये हरे ।।

हेतुमात्रं भवान्यस्मात्स्वकर्मनिहता हि ते ।। ९७ ।।

यथा परिणतं सस्यं पतेत्प्रसवबंधनात् ।।

ते परीणतपाप्मानः पतिष्यंति तथा स्वयम् ।। ९८ ।।

ये च त्वामवमन्यंते दर्पिताः स्वतपोबलैः ।।

तेषां चैवोपसंहृत्यै प्रभविष्याम्यहं हरे ।। ९९ ।।

उपपातकिनो ये च महापातकिनश्च ये ।।

तेपि काशीं समासाद्य भविष्यंति गतैनसः ।। 4.1.26.१०० ।।

इदं मम प्रियं क्षेत्रं पंचक्रोशीपरीमितम् ।।

ममाज्ञा प्रभवेदत्र नान्याज्ञा प्रभवेदिह ।। १ ।।

पुनर्विष्णुर्मया प्रोक्तो मृडानि शुभलोचने ।।

अत्युग्रतेजसा तेजो भ्रमंस्त्रैलोक्यविभ्रमः ।। २ ।।

पापिनामपि जंतूनामविमुक्तनिवासिनाम् ।।

नान्यः शासयिता विप्णो तेषां शास्ताऽहमेव हि ।। ३ ।।

योजनानां शतस्थोपि यो(?)ऽविमुक्तं स्मरेद्धृदि ।।

बहुपातकपूर्णोपि न स पापैः प्रबाध्यते ।।४।।

मम प्रियस्य क्षेत्रस्य योऽविमुक्तस्य संस्मरेत् ।।

प्राण प्रयाणसमये दूरगोप्यघवानपि ।।५।।

स पापपूगमुत्सृज्य स्वर्गभोगान्समश्नुते ।।

काशीस्मरणपुण्येन स्वर्गाद्भ्रष्टो हि जायते।।६।।

पृथिव्यामेकराड्भूत्वा भुक्त्वा भोगाननेकशः ।।

प्राप्याविमुक्तं तत्पुण्यान्निर्वाणपदभाग्भवेत् ।। ७ ।।

बहुकालमुषित्वाऽत्र नियतेंद्रियमानसः ।।

यद्यन्यत्र विपद्येत दैवयोगाच्छुचिस्मिते ।। ८ ।।

सोपि स्वर्गसुखं भुक्त्वा भूत्वा क्षितिपतीश्वरः ।।

पुनः काशीमवाप्याथ विंदेन्नैःश्रेयसीं श्रियम् ।। ९ ।।

विष्णोऽविमुक्ते संवासः कर्मनिर्मूलनक्षमः ।।

द्वित्राणां हि पवित्राणां निर्वाणा येह जायते ।। 4.1.26.११० ।।

विष्णुरुवाच ।। ।।

देवेशक्षेत्रमाहात्म्यं यो न जानाति तत्त्वतः ।।

न श्रद्दधाति म्रियते मृते तस्येह का गतिः ।।११।।

।। शिव उवाच ।। ।।

अन्यत्र कृत्वा पापानि बहूनि सुमहांति च ।।

अश्रद्दधानोऽतत्त्वज्ञो यद्यत्र च विपद्यते ।। १२ ।।

महिमन्यनभिज्ञोपि क्षेत्रस्यास्य जनार्दन।।

तस्य या गतिरुद्दिष्टा तां निशामय सुव्रत ।। १३ ।।

पंचक्रोशीं प्रविशतस्तस्य पातकसंततिः ।।

बहिरेव प्रतिष्ठेत नांतर्निर्विशते क्वचित् ।। १४ ।।

भयाद्बहिः स्थितायां च तस्य पातकसंततौ ।।

त्रिशूलपाशपाणीनां गणानां सीमचारिणाम् ।। १५ ।।

प्रवेशमात्रादनघ सर्वैरेनोभिरुज्झितः ।।

संस्नाय मणिकर्णिक्यां पुण्यं प्राप्नोत्यनुत्तमम् ।। १६ ।।

सर्वतीर्थेषुसंस्नानाद्यत्पुण्यं समवाप्यते ।।

तत्पुण्यमाप्यते सम्यङ्मणिकर्ण्येक मज्जनात् ।। १७ ।।

विधिना तत्र संस्नाय मृद्गोमयकुशादिभिः ।।

स्वशाखावारुणैर्मंत्रैर्दूर्वापामार्गदर्भकैः ।। १८ ।।

सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम् ।।

मणिकर्ण्यां विधिस्नातः श्रद्धया तदवाप्नुयात् ।। १९ ।।

अश्रद्धयापि यः स्नातो मणिकर्ण्यां विधानतः ।।

सोपि पुण्यमवाप्नोति स्वर्गप्राप्तिकरं परम् ।। 4.1.26.१२० ।।

श्रद्धया विधिवत्स्नात्वा कृत्वा देवादितर्पणम् ।।

तिलबर्हिर्यवैः सम्यक्सर्वयज्ञफलं लभेत् ।। २१ ।।

श्रद्दधानो विधिस्नातः कृत सर्वोदकक्रियः ।।

जपन्देवान्समभ्यर्च्य सर्वमंत्रफलं लभेत् ।। २२ ।।

स्नात्वा मौनेन विश्वेश दर्शना न्नियतेंद्रियः ।।

सर्वव्रतकृतं श्रेयो लभेद्वाचंयमः शिवे ।। २३ ।।

स्नाने देवार्चने जप्ये मलमूत्रविसर्जने ।।

मौनं कुर्यात्प्रयत्नेन दंतधावनहोमयोः ।। २४ ।।

विश्वेश्वरं समभ्यर्च्य सूपचारैर्विधानतः ।।

यावज्जीवं शिवार्चायाः फलमाप्नोति वै सकृत् ।। २५ ।।

दत्त्वाल्पमपि देवेशि न्यायेनोपार्जितं धनम् ।।

अविमुक्ते मम क्षेत्रे न दरिद्रो भवेत्क्वचित् ।। २६ ।।

विविधं धनमावर्ज्य योऽविमुक्ते न यच्छति ।।

संप्राप्य निधनं मूढोऽन्यत्र शोचति सर्वदा ।। २७ ।।

रम्याणि यानि रत्नानि गोगजाश्वांबराण्यपि ।।

कृतानि तानि श्रेयोर्थमविमुक्तनिवासिनाम् ।। २८ ।।

विश्वेशप्रीणनार्थाय धनं निधनमेव वा ।।

न्यायेन काश्यां यः कुर्यात्स धन्यः स च धर्मवित् ।। २९ ।।

योसौ विश्वेश्वरो देवः काशीपुर्यामुमे स्थितः ।।

लिंगरूपधरः साक्षान्मम श्रेयास्पदं हि तत् ।। 4.1.26.१३० ।।

अविमुक्तं महत्क्षेत्रं पंचक्रोशपरीमितम् ।।

ज्योतिर्लिगं तदेकं हि ज्ञेयं विश्वेश्वराभिधम् ।। ३१ ।।

एकदेशस्थितमपि यथा मार्तंडमंडलम् ।।

दृश्यते सर्वगं सर्वैः काश्यां विश्वेश्वरस्तथा ।। ३२ ।।

निष्प्रत्यूहेन योगेन नानाजन्मार्जितेन च ।।

यत्फलं लभ्यतेऽन्यत्र तत्काश्यां त्यजतस्तनुम ।। ३३ ।।

तप्त्वा तपांसि सर्वाणि बहुकालं जितेंद्रियैः ।।

यत्फलं लभ्यतेऽन्यत्र तत्काश्यामेकरात्रतः ।। ३४ ।।

अक्षेत्रमहिमज्ञोपि श्रद्धाहीनोपि कालतः ।।

काशीप्रवेशादनघोऽमृतत्वं लभतेमृतः ।। ३५ ।।

कृत्वाप्येनांसि चोग्राणि कालात्प्राप्याथ काशिकाम् ।।

त्यक्त्वा तनुं प्रसादान्मे मामेव प्रतिपद्यते ।। ३६ ।।

विना मम प्रसादं वै कः काशीं प्रतिपद्यते ।।

विना ब्रध्नं विशालाक्षि दिनकृत्क इहोच्यते ।। ३७ ।।

अप्राप्य काशीं को देवि निरंतर सुखं लभेत् ।।

बह्माद्याः प्राकृतैः पाशैर्यतो बद्धा निरंतरम् ।। ३८ ।।

चतुर्विंशतिभिः पाशैस्त्रिगुणैः क्रियया दृढैः ।।

कंठे बद्धा विमुच्यंते कथं काशीं विना जनाः ।। ।। ३९ ।।

बहूपसर्गो योगोयं कृच्छ्रसाध्यं तपो हि यत् ।।

योगाद्भ्रष्टस्तपोभ्रष्टो गर्भक्लेशसहःपुनः ।। 4.1.26.१४० ।।

कृत्वापि काश्यां पापानि काश्यामेव म्रियेत चेत् ।।

भूत्वा रुद्रपिशाचोपि पुनर्मुक्तिमवाप्स्यति ।। ४१ ।।

काश्यां मृतानां जंतूनां दैवात्पापकृतामपि ।।

न पातो नरके तेषां तेषां शास्ताहमेव यत् ।। ४२ ।।

कायं विज्ञाय सापायं स्मृत्वा गर्भस्य वेदनाम् ।।

त्यक्त्वा राज्यमपि प्राज्यं सेव्या काशी निरंतरम् ।। ४३ ।।

अतर्कितं समभ्येत्य यमदूताः सुदारुणाः ।।

बद्ध्वा पाशैर्हनिष्यंति क्षिप्रं काशीं ततः श्रयेत ।। ४४ ।।

न पापेभ्यो भयं यत्र न भयं यत्र वै यमात् ।।

न गर्भवासभीर्यत्र तां काशीं को न संश्रयेत् ।। ४५ ।।

अद्य प्रातः परश्वो वा मरणं प्राप्यमेव च ।।

यावत्कालविलंबोस्ति तावत्काशीं समाश्रयेत् ।। ४६ ।।

प्राप्ते तु मरणे पुंसां पुनर्जन्म पुनर्मृतिः ।।

अपुनर्भवभूमिं च तस्मात्काशीं श्रयेद्बुधः ।। ४७ ।।

पुत्रक्षेत्रकलत्राख्यां त्यक्त्वा मायां हि वैष्णवीम् ।।

भवांतरेनेकरूपां भवघ्नीं काशिकां श्रयेत् ।।४८।।

।। स्कंद उवाच ।।

दूरं मे मरणंयुवाहमधुना धार्यं न चित्तेत्विति श्रोतव्यो निभृतं कृतांत महिषग्रैवेयघंटारवः ।।

नैकट्यात्प्रकटोत्कटश्रमघटामप्राप्य हित्वा द्रुतं जीर्णां पर्णकुटीं ततः पटुमतिर्गच्छेत्पुरीं धूर्जटेः ।। ४९ ।।

व्यास उवाच ।।

अगस्त्यस्य पुरः सूत कथयित्वा कथामिमाम् ।।

सर्वपापप्रशमनीं पुनः स्कंद उवाच ह ।। 4.1.26.१५० ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे मणिकर्णिकाख्यानं नाम षड्विंशोऽध्यायः ।। २६ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 27

स्कंद उवाच ।।

वाराणसीति प्रथितं यथा चानंदकाननम् ।।

तथा च कथयामीह देवदेवेनभाषितम् ।। १ ।।

।। ईश्वर उवाच ।। ।।

निशामय महाबाहो विष्णो त्रैलोक्यसुंदर ।।

प्राप्तं वाराणसीत्याख्यामविमुक्तं यथा तथा ।। २ ।।

निर्दग्धान्सागराञ्छ्रुत्वा कपिलक्रोधवह्निना ।।

अश्वमेधाश्वसंयुक्तान्पूर्वजान्स्वान्भगीरथः ।। ३ ।।

सूर्यवंशे महातेजा राजा परमधार्मिकः ।।

आरिराधयिषुर्गंगां तपसे कृतनिश्चयः ।।४।।

हिमवंतं नगश्रेष्ठममात्य न्यस्तराज्यधूः ।।

जगाम यशसां राशिरुद्दिधीर्षुः पितामहान् ।। ५ ।।

ब्रह्मशापाग्निनिर्दग्धान्महादुर्गतिगानपि ।।

विना त्रिमार्गगां विष्णो को जंतूंस्त्रिदिवं नयेत् ।। ६ ।।

ममैव सा परामूर्तिस्तोयरूपा शिवात्मिका ।।

ब्रह्मांडानामनेकानामाधारः प्रकृतिः परा ।। ७ ।।

शुद्धविद्यास्वरूपा च त्रिशक्तिः करुणात्मिका ।।

आनंदामृतरूपा च शुद्धधर्मस्वरूपिणी ।। ८ ।।

यामेतां जगतां धात्रीं धारयामि स्वलीलया ।।

विश्वस्य रक्षणार्थाय परब्रह्मस्वरूपिणीम् ।। ९ ।।

त्रैलोक्ये यानि तीर्थानि पुण्यक्षेत्राणि यानि च ।।

सर्वत्र सर्वे ये धर्माः सर्वयज्ञाः सदक्षिणाः ।। 4.1.27.१० ।।

तपांसि विष्णो सर्वाणि श्रुतिः सांगा चतुर्विधा ।।

अहं च त्वं च कश्चापि देवतानां गणाश्च ये ।। ।। ११ ।।

पुरुषार्थाश्च सर्वे वै शक्तयो विविधाश्च याः ।।

गंगायां सर्व एवैते सूक्ष्मरूपेण संस्थिताः ।। १२ ।।

स स्नातः सर्वतीर्थेषु सर्वक्रतुषु दीक्षितः ।।

चीर्णसर्वव्रतः सोपि यस्तु गंगां निषेवते ।। १३ ।।

तपांसि तेन तप्तानि सर्वदानप्रदः स च ।।

स प्राप्त योगनियमो यस्तु गंगां निषेवते ।।१४।।

सर्ववर्णाश्रमेभ्यश्च वेदविद्भ्यश्च वै तथा ।।

शास्त्रार्थपारगेभ्यश्च गंगास्नायी विशिष्यते ।। १५ ।।

मनोवाक्कायजैर्दोषैर्दुष्टो बहुविधैरपि ।।

वीक्ष्य गंगां भवेत्पूतः पुरुषो नात्र संशयः ।।१६।।

कृते सर्वत्र तीर्थानि त्रेतायां पुष्करं परम् ।।

द्वापरे तु कुरुक्षेत्रं कलौ गंगैव केवलम् ।। १७ ।।

पूर्वजन्मांतराभ्यास वासनावशतो हरे ।।

गंगातीरे निवासः स्यान्मदनुग्रहतः परात् ।। १८ ।।

ध्यानं कृते मोक्षहेतुस्त्रेतायां तच्च वै तपः ।।

द्वापरे तद्द्वयं यज्ञाः कलौ गंगैव केवलम् ।। १९ ।।

यो देहपतनाद्यावद्गंगातीरं न मुंचति ।।

स हि वेदांतविद्योगी ब्रह्मचर्यव्रती सदा ।। 4.1.27.२० ।।

कलौ कलुषचित्तानां परद्रव्यरतात्मनाम् ।।

विधिहीनक्रियाणां च गतिर्गंगा विना नहि ।। २१ ।।

अलक्ष्मीः कालकर्णी च दुःस्वप्नो दुर्विचिंतितम् ।।

गंगागंगेति जपनात्तानि नोपविशंति हि ।। २२ ।।

गंगा हि सर्वभूतानामिहामुत्र फलप्रदा ।।

भावानुरूपतो विष्णो सदा सर्वजगद्धिता ।। २३ ।।

यज्ञ दान तपो योग जपाः सनियमा यमाः ।।

गंगासेवासहस्रांशं न लभंते कलौ हरे ।। २४ ।।

किमष्टांगेन योगेन किं तपोभिः किमध्वरैः ।।

वास एव हि गंगायां ब्रह्मज्ञानस्य कारणम् ।। २५ ।।

अपि दूरस्थितस्यापि गंगामाहात्म्यवेदिनः ।।

अयोग्यस्यापि गोविंदभक्त्या गंगा प्रसीदति ।। २६ ।।

श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं परं तपः ।।

श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धया सा प्रसीदति ।। २७ ।।

अज्ञानरागलोभाद्यैः पुंसां संमूढचेतसाम् ।।

श्रद्धा न जायते धर्मे गंगायां च विशेषतः ।। २८ ।।

बहिः स्थितं जलंयद्वन्नारिकेलांतरे स्थितम् ।।

तथा ब्रह्मांडबाह्यस्थं परब्रह्मांबु जाह्नवी ।। २९ ।।

गंगालाभात्परो लाभः क्वचिदन्यो न विद्यते ।।

तस्माद्गंगामुपासीत गंगैव परमः पुमान् ।।4.1.27.३०।।

शक्तस्य पंडितस्यापि गुणिनो दानशीलिनः ।।

गंगास्नानविहीनस्य हरे जन्म निरर्थकम् ।। ३१ ।।

वृथा कुल वृथा विद्या वृथा यज्ञा वृथातपः ।।

वृथा दानानि तस्येह कलौ गंगां न यो भजेत् ।। ३२ ।।

गुणवत्पात्रपूजायां न स्याद्वै तादृशं फलम् ।।

यथा गंगाजलस्नान पूजने विधिना फलम् ।। ३३ ।।

ममतेजोग्निगर्भेयं ममवीर्यातिसंवृता ।।

दाहिका सर्वदोषाणां सर्वपापविनाशिनी ।। ३४ ।।

स्मरणादेव गंगायाः पापसंघातपंजरम् ।।

शतधा भेदमायाति गिरिर्वज्रहतो यथा ।। ३५ ।।

गंगां गच्छति यस्त्वेको यस्तु भक्त्यानुमोदयेत् ।।

तयोस्तुल्यफलं प्राहुर्भक्तिरेवात्र कारणम्।। ।। ३६ ।।

गच्छंस्तिष्ठञ्जपन्ध्यान्भुंजञ्जाग्रत्स्वपन्वदन् ।।

यः स्मरेत्सततं गंगां स हि मुच्येत बंधनात् ।। ३७ ।।

पितॄनुद्दिश्य योभक्त्या पायसं मधुसंयुतम् ।।

गुडसर्पिस्तिलैःसार्धं गंगांभसि विनिक्षिपेत् ।। ३८ ।।

तृप्ता भवंति पितरस्तस्य वर्षशतं हरे ।।

यच्छंति विविधान्कामान्परितुष्टाः पितामहाः ।। ।। ३९ ।।

लिंगे संपूजिते सर्वमर्चितं स्याज्जगद्यथा ।।

गंगास्नानेन लभते सर्वतीर्थफलं तथा ।। 4.1.27.४० ।।

गंगायां तु नरः स्नात्वा यो लिंगं नित्यमर्चति ।।

एकेन जन्मना मुक्तिं परां प्राप्नोति स ध्रुवम् ।। ४१ ।।

अग्निहोत्रं च यज्ञाश्च व्रतदानतपांसि च ।।

गंगायां लिंगपूजायाः कोट्यंशेनापि नो समाः ।। ४२ ।।

गंगां गंतुं विनिश्चित्य कृत्वा श्राद्धादिकं गृहे ।।

स्थितस्य सम्यक्संकल्पात्तस्य नंदंति पूर्वजाः ।। ४३ ।।

पापानि च रुदंत्याशु हा क्व यास्याम इत्यलम् ।।

लोभमोहादिभिः सार्धं मंत्रयंति पुनःपुनः ।। ४४ ।।

यथा न गंगां यात्येष तथा विघ्नं प्रकुर्महे ।।

गंगां गतो यथा चैष न उच्छित्तिं विधास्यति ।। ४५ ।।

गृहाद्गंगावगाहार्थं गच्छतस्तु पदेपदे ।।

निराशानि व्रजंत्येव पापान्यस्य शरीरतः ।। ४६।।

पूर्वजन्मकृतैः पुण्यैस्त्यक्त्वा लोभादिकं हरे ।।

व्युदस्य सर्वविघ्नौघान्गंगां प्राप्नोति पुण्यवान् ।। ४७ ।।

अनुषंगेण मौल्येन वाणिज्येनापि सेवया ।।

कामासक्तोपि वा मर्त्यो गंगास्नातो दिवं व्रजेत् ।। ४८ ।।

अनिच्छयापि संस्पृष्टो दहनो हि यथा दहेत् ।।

अनिच्छयापि संस्नाता गंगा पापं तथा दहेत् ।। ४९ ।।

तावद्धमति संसारे यावद्गंगां न सेवते ।।

संसेव्य गंगां नो जंतुर्भवक्लेशं प्रपश्यति ।। 4.1.27.५० ।।

यो गंगांभसि निस्नातो भक्त्या संत्यक्तसंशयः ।।

मनुष्यचर्मणा नद्धः स देवो नात्र संशयः ।। ५१ ।।

गंगास्नानार्थमुद्युक्तो मध्येमार्गं मृतो यदि ।।

गंगास्नानफलं सोपि तदाप्नोति न संशयः ।। ५२ ।।

माहात्म्यं ये च गंगायाः शृण्वंति च पठंति च ।।

तेप्यशेषैर्महापापैर्मुच्यंते नात्र संशयः ।। ५३ ।।

दुर्बुद्धयो दुराचारा हैतुका बहुसंशयाः ।।

पश्यंति मोहिता विष्णो गंगामन्य नदीमिव ।। ५४ ।।

जन्मांतरकृतैर्दानैस्तपोभिर्नियमैर्व्रतैः ।।

इह जन्मनि गंगायां नृणां भक्तिः प्रजायते ।। ५५ ।।

गंगाभक्तिमतामर्थे महेंद्रादि पुरेषु च ।।

हर्म्याणि रम्यभोगानि निर्मितानि स्वयंभुवा ।। ५६ ।।

सिद्धयः सिद्धिलिंगानि स्पर्शलिंगान्यनेकशः ।।

प्रासादा रत्नरचिताश्चिंतामणिगणा अपि ।। ५७ ।।

गंगाजलांतस्तिष्ठंति कलिकल्मषभीतितः ।।

अतएव हि संसेव्या कलौ गंगेष्टसिद्धिदा ।। ५८ ।।

सूर्योदये तमांसीव वज्रपातभयान्नगाः ।।

तार्क्ष्येक्षणाद्यथासर्पा मेघा वाताहता इव ।। ५९ ।।

तत्त्वज्ञानाद्यथा मोहः सिंहं दृष्ट्वा यथा मृगाः ।।

तथा सर्वाणि पापानि यांति गंगेक्षणात्क्षयम् ।। 4.1.27.६० ।।

दिव्यौषधैर्यथा रोगा लोभेन च यथा गुणाः ।।

यथा ग्रीष्मोष्मसंपत्तिरगाधह्रद मज्जनात् ।। ६१ ।।

तूलशैलः स्फुलिंगेन यथा नश्यति तत्क्षणात् ।।

तथा दोषाः प्रणश्यंति गंगांभः स्पर्शनाद्ध्रुवम् ।। ६२ ।।

क्रोधेन च तपो यद्वत्कामेन च यथा मतिः ।।

अनयेन यथा लक्ष्मीर्विद्या मानेन वै यथा ।। ६३ ।।

दंभ कौटिल्य मायाभिर्यथाधर्मो विनश्यति ।।

तथा नश्यंति पापानि गंगाया दर्शनेन तु ।। ६४ ।।

मानुष्यं दुर्लभं प्राप्य विद्युत्संपातचंचलम् ।।

गंगां यः सेवते सोत्र बुद्धेः पारं परं गतः ।। ६५ ।।

विधूतपापा ये मर्त्याः परं ज्योतिःस्वरूपिणीम् ।।

सहस्रसूर्यप्रतिमां गंगां पश्यंति ते भुवि ।। ६६ ।।

साधारणांभसा पूर्णां साधारण नदीमिव।।

पश्यंति नास्तिका गंगां पापोपहतलोचनाः ।। ६७ ।।

संसारमोचकश्चाहं जनानामनुकंपया ।।

गंगातरंगरूपेण सोपानं निर्ममे दिवः ।। ६८ ।।

सर्व एव शुभः कालः सर्वो देशस्तथा शुभः ।।

सर्वो जनो दानपात्रं श्रीमती जाह्नवी तटे ।। ६९ ।।

यथाश्वमेधो यज्ञानां नगानां हिमवान्यथा ।।

व्रतानां च यथा सत्यं दानानामभयं यथा ।। 4.1.27.७० ।।

प्राणायामश्च तपसां मंत्राणां प्रणवो यथा ।।

धर्माणामप्यहिंसा च काम्यानां श्रीर्यथा वरा ।। ७१ ।।

यथात्मविद्या विद्यानां स्त्रीणां गौरी यथोत्तमा ।।

सर्वर्दवेगणानां च यथा त्वं पुरुषोत्तम ।।। ७२ ।।

सर्वषामेव पात्राणां शिवभक्तो यथा वरः ।।

तथा सर्वेषु तीर्थेषु गंगातीर्थं विशिष्यते ।। ७३ ।।

हरेयश्चावयोर्भेदं न करोति महामतिः ।।

शिवभक्तः स विज्ञेयो महापाशुपतश्च सः ।। ७४ ।।

पापपांसुमहावात्या पापद्रुमकुठारिका ।।

पापेंधनदवाग्निश्च गंगेयं पुण्यवाहिनी ।। ७५ ।।

नानारूपाश्च पितरो गाथा गायंति सर्वदा ।।

अपि कश्चित्कुलेस्माकं गंगास्नायी भविष्यति ।। ७६ ।।

देवर्षीन्परिसंतर्प्य दीनानाथांश्च दुःखितान् ।।

श्रद्धया विधिना स्नात्वा दास्यते सलिलांजलिम् ।। ७७ ।।

अपि नः स कुले भूयाच्छिवे विष्णौ च साम्यदृक् ।।

तदालयकरो भक्त्या तस्य संमार्जनादिकृत् ।। ७८ ।।

अकामो वा सकामो वा तिर्यग्योनिगतोपि वा ।।

गंगायां यो मृतो मर्त्यो नरकं स न पश्यति ।।७९।।

तीर्थमन्यत्प्रशंसंति गंगातीरे स्थिताश्च ये ।।

गंगां न बहु मन्यंते ते स्युर्निरयगामिनः ।।4.1.27.८०।।

मां च त्वां चैव यो द्वेष्टि गंगां च पुरुषाधमः।।

स्वकीयैः पुरुषैः सार्धं स घोरं नरकं व्रजेत् ।। ८१ ।।

षष्टिर्गणसहस्राणि गंगां रक्षंति सर्वदा ।।

अभक्तानां च पापानां वासे विघ्नं प्रकुर्वते ।। ८२ ।।

कामक्रोधमहामोहलोभादि निशितैः शरैः ।।

घ्नंति तेषां मनस्तत्र स्थितिं चापनयंति च ।। ८३ ।।

गंगां समाश्रयेद्यस्तु स मुनिः स च पंडितः ।।

कृतकृत्यः स विज्ञेयः पुरुषार्थचतुष्टये ।। ८४ ।।

गंगायां च सकृत्स्नातो हयमेधफलं लभेत् ।।

तर्पयंश्च पितॄंस्तत्र तारयेन्नरकार्णवात् ।। ८५ ।।

नैरंतर्येण गंगायां मासं यः स्नाति पुण्यवान् ।।

शक्रलोके स वसति यावच्छक्रः सपूर्वजः ।। ८६ ।।

अब्दं यः स्नाति गंगायां नैरंतर्येण पुण्यभाक् ।।

विष्णोर्लोकं समासाद्य स सुखं संवसेन्नरः ।। ८७ ।।

गंगायां स्नाति यो मर्त्यो यावज्जीवं दिनेदिने ।।

जीवन्मुक्तः स विज्ञेयो देहांते मुक्त एव सः ।। ।।८८ ।।

तिथिनक्षत्रपर्वादि नापेक्ष्यं जाह्नवी जले ।।

स्नानमात्रेण गंगायां संचिताघं विनश्यति ।। ८९ ।।

पंडितोपि स मूर्खः स्याच्छक्तियुक्तोप्यशक्तिकः ।।

यस्तु भागीरथीतीरं सुखसेव्यं न संश्रयेत् ।। 4.1.27.९० ।।

किंवायुपाप्यरोगेण विकासिन्याथ किं श्रिया ।।

किं वा बुद्ध्या विमलया यदि गंगां न सेवते ।। ९१ ।।

यः कारयेदायतनं गंगाप्रतिकृतेर्नरः ।।

भुक्त्वा स भोगान्प्रेत्यापि याति गंगा सलोकताम् ।। ९२।।

शृण्वंति महिमानं ये गंगाया नित्यमादरात् ।।

गंगास्नानफलं तेषां वाचकप्रीणनाद्धनैः ।।९३।।

पितॄनुद्दिश्य यो लिंगं स्नपयेद्गांग वारिणा ।।

तृप्ताः स्युस्तस्य पितरो महानिरयगा अपि ।। ९४ ।।

अष्टकृत्वो मंत्रजप्तैर्वस्त्रपूतैः सुगंधिभिः ।।

प्रोचुर्गांगजलैः स्नानं घृतस्नानाधिकं बुधाः ।। ९५ ।।

अष्टद्रव्यविमिश्रेण गंगातोयेन यः सकृत् ।।

मागधप्रस्थमात्रेण ताम्रपात्रस्थितेन च ।। ९६ ।।

भानवेऽर्घं प्रदद्याच्च स्वकीय पितृभिः सह ।।

सोतितेजो विमानेन सूर्यलोके महीयते ।। ९७ ।।

आपः क्षीरं कुशाग्राणि घृतं मधुगवांदधि ।।

रक्तानि करवीराणि रक्तचंदनमित्यपि ।। ९८ ।।

अष्टांगार्घो यमुद्दिष्टस्त्वतीव रवितोषणः ।।

गांगैर्वार्भिः कोटिगुणो ज्ञेयो विष्णोऽन्यवारितः ।। ९९ ।।

गंगातीरे स्वशक्त्या यः कुर्याद्देवालयं सुधीः ।।

अन्यतीर्थप्रतिष्ठातो भवेत्कोटिगुणं फलं ।। 4.1.27.१०० ।।

अश्वत्थवटचूतादि वृक्षारोपेण यत्फलम् ।।

कूपवापीतडागादि प्रपा सत्रादिभिस्तथा ।। १ ।।

अन्यत्र यद्भवेत्पुण्यं तद्गंगादर्शनाद्भवेत् ।।

पुष्पवाट्यादिभिश्चापि गंगास्पर्शं ततोऽधिकम् ।।२।।

कन्यादानेन यत्पुण्यं यत्पुण्यं गोऽन्नदानतः ।।

तत्पुण्यं स्याच्छतगुणं गंगागंडूषपानतः ।। ३ ।।

चांद्रायणसहस्रेण यत्पुण्यं स्याज्जनार्दन ।।

ततोऽधिकफलं गंगाऽमृतपानादवाप्नुयात् ।। ४ ।।

भक्त्या गंगावगाहस्य किमन्यत्फलमुच्यते ।।

अक्षयः स्वर्गवासोपि निर्वाणमथवा हरे ।। ५ ।।

गंगायाः पादुकायुग्मं नित्यमर्चति यो नरः ।।

आयुः पुण्यं धनं पुत्रान्स्वर्गमोक्षौ च विंदति ।। ६ ।।

नास्ति गंगासमं तीर्थं कलिकल्मषनाशनम् ।।

नास्ति मुक्तिप्रदं क्षेत्रमविमुक्तसमं हरे ।। ७ ।।

गंगास्नानरतं मर्त्यं दृष्ट्वैव यमकिकराः ।।

दिशो दश पलायंते सिंहं दृष्ट्वा यथा मृगाः ।। ८ ।।

गंगाभजनशीलस्य गंगातटनिवासिनः ।।

अर्चां कृत्वा यथान्यायमश्वमेधफलं लभेत् ।। ९ ।।

गोभूहिरण्यदानेन भक्त्या गंगातटे शुभे ।।

नरो न जायते भूयः संसारे दुःखकंटके ।।4.1.27.११० ।।

दीर्घायुष्यं च वासोभिर्ज्ञानं पुस्तकदानतः ।।

अन्नदानेन संपत्तिं कीर्तिं कन्याप्रदानतः ।। ११ ।।

अन्यत्र यत्कृतं कर्म व्रतं दानं जपस्तपः ।।

गंगातटे तु तत्सर्वं हरे कोटिगुणं भवेत् ।। १२ ।।

धेनुं सवत्सा यो दद्याद् गंगातीरे विधानतः ।।

गोरोमसंख्यया विष्णो युगान्सर्वसमृद्धिमान् ।। १३ ।।

गोलोके मम लोके वा कामधेनुप्रदानतः ।।

भुंजानः सर्वकामांस्तु दिव्यान्नानाविधान्बहून् ।। १४ ।।

देवानामप्यलभ्यांश्च भुक्त्वा तु सह बांधवैः ।।

पितृभिश्च सुहृद्भिश्च सर्वरत्नविभूषितः ।। १५ ।।

जायते सत्कुले पश्चाद्धनधान्यसमाकुले ।।

रत्नकांचनसंपन्ने शीलविद्यासमन्विते ।। १६ ।।

भुक्त्वा स विपुलान्भोगान्पुत्रपौत्रसमन्वितः ।।

पुनर्गंगां समासाद्य काश्यामुत्तरवाहिनीम् ।। १७ ।।

विश्वेश्वरं समाराध्य प्राग्जनुर्वासनावशात् ।।

कालाद्देहांतमासाद्य ब्रह्म संपद्यते ततः ।। १८ ।।

विवर्तनद्वयमपि भूमेर्भागीरथीतटे ।।

नरो ददाति यो भक्त्या तस्य पुण्यफलं शृणु ।। १९ ।।

तद्भूमित्रसरेणूनां संख्यया युगमानया ।।

महेंद्र चंद्रलोकेषु भुक्त्वा भोगान्मनःप्रियान् ।। 4.1.27.१२० ।।

सप्तद्वीपपतिर्भूत्वा महाधर्मपरायणः ।।

नरकस्थान्पितॄन्सर्वान्प्रापयेत्त्रिदिवं हरे ।।२१।।

स्वर्गस्थांश्च पितॄन्सर्वान्मोचयित्वा महाद्युतिः ।।

अंते ज्ञानासिना छित्त्वा ह्यविद्यां पांचभौतिकीम् ।। २२ ।।

परवैंराग्यमापन्नो युंजानो योगमुत्तमम् ।।

प्राप्याथवा विमुक्तं च परं ब्रह्माधिगच्छति ।। ।। २३ ।।

सुवर्णमात्रमपि यः सुवर्णं संप्रयच्छति ।।

सुवर्णाय सुवर्णं च हरे भागीरथीतटे ।। २४ ।।

स हेमरत्नखचिते विमाने सर्वगे शुभे ।।

सर्वैश्वर्यसमायुक्तः सर्वलोकेषु पूजितः ।। २५ ।।

ब्रह्मांडांतरसंस्थेषु भुंजन्भोगान्मनोरमान् ।।

सर्वैः संपूजितो विष्णो यावदाभूतसंप्लवम् ।। २०५ ।।

एकराट्च ततो भूत्वा जंबूद्वीपे प्रतापवान् ।।

ततोऽविमुक्तमासाद्य पदं निर्वाणमृच्छति ।। २७ ।।

जन्मर्क्षे तु कृते स्नाने गंगायां भक्तिपूर्वकम् ।।

जन्मप्रभृतिपापौघात्संचितान्मुच्यते क्षणात् ।। २८ ।।

वैशाखे कार्तिके माघे गंगास्नानं सुदुर्लभम् ।।

दर्शे शतगुणं पुण्यं संक्रातौ च सहस्रकम् ।।२९।।

चंद्रसूर्यग्रहे लक्षं व्यतीपातेत्वनंतकम् ।।

अयुतं विषुवे चैव नियुतं त्वयनद्वये ।। 4.1.27.१३० ।।

सोमग्रहः सोमदिने रविवाररवग्रहः ।।

तच्चूडामणिपर्वाख्यं तत्रस्नानमसंख्यकम् ।। ३१ ।।

स्नानं दानं जपो होमो यद्यच्चूडामणौ कृतम् ।।

तदक्षयं सर्वमिह विष्णो भागीरथीतटे ।। ३२ ।।

श्रद्धया भक्तियुक्तस्तु गंगां स्नात्वा विधानतः ।।

ब्रह्महापि विशुद्ध्येत किंपुनस्त्वन्य पातकी ।। ३३ ।।

कृमिकीटपतंगाद्या ये मृता जाह्नवीतटे ।।

कूलात्पतंति ये वृक्षास्तेपि यांति परां गतिम् ।। ३४ ।।

ज्येष्ठे मासि सिते पक्षे दशम्यां हस्तसंयुते ।।

गंगातीरे तु पुरुषो नारी वा भक्तिभावतः ।।. ३५ ।।

निशायां जागरं कुयाद्गंगां दशविधैर्हरे ।।

पुष्पैः सुगंधैर्नैवेद्यैः फलैर्दशदशोन्मितैः ।।३६।।

प्रदीपैर्दशभिर्धूपैर्दशांगैर्गरुडध्वज ।।

पूजयेच्छ्रद्धया धीमान्दशकृत्वो विधानतः ।। ३७ ।।

साज्यांस्तिलान्क्षिपेत्तोये गंगायाः प्रसृतीर्दश ।।

गुडसक्तुमयान्पिंडान्दद्याच्च दशमंत्रतः ।। ३८ ।।

नमः शिवायै प्रथमं नारायण्यै पदं ततः ।।

दशहरायै पदमिति गंगायै मंत्र एष वै ।। ३९ ।।

स्वाहांतः प्रणावादिश्च भवेद्विंशाक्षरो मनुः ।।

पूजादानं जपो होमो ऽनेनैव मनुना स्मृतः ।। 4.1.27.१४० ।।

हेम्ना रूप्येण वा शक्त्या गंगामूर्तिं विधाय च ।।

वस्त्राच्छादितवक्त्रस्य पूर्णकुंभस्य चोपरि ।। ४१ ।।

प्रतिष्ठाप्यार्चयेद्देवीं पंचामृतविशोधिताम् ।।

चतुर्भुजां त्रिनेत्रां च नदीनदनिषेविताम् ।। ४२ ।।

लावण्यामृतनिष्पंद संशीलद्गात्रयष्टिकाम् ।।

पूर्णकुंभसितांभोज वरदाभयसत्कराम् ।। ४३ ।।

ततो ध्यायेत्सुसौम्या च चंद्रायुतसमप्रभाम् ।।

चामरैर्वीज्यमानां च श्वेतच्छत्रोपशोभिताम ।। ४४ ।।

सुधाप्लावितभूपृष्ठां दिव्यगंधानुलेपनाम् ।।

त्रैलौक्यपूजितपदां देवर्षिभिरभिष्टुताम् ।। ४५ ।।

ध्यात्वा समर्च्य मंत्रेण धूपदीपोपहारतः ।।

मां च त्वां च विधिं ब्रध्नं हिमवंतं भगीरथम् ।। ४६ ।।

प्रतिमाग्रे समभ्यर्च्य चंदनाक्षतनिर्मितान् ।।

दशप्रस्थतिलान्दद्याद्दशविप्रेभ्य आदरात् ।। ४७ ।।

पलं च कुडवः प्रस्थ आढको द्रोण एव च ।।

धान्यमानेन बोद्धव्याः क्रमशोमी चतुर्गुणाः ।। ४८ ।।

मत्स्य कच्छप मंडूक मकरादि जलेचरान् ।।

हंसकारंडव बक चक्रटिट्टिभसारसान् ।। ४९ ।।

यथाशक्ति स्वर्णरूप्य ताम्रपृष्ठविनिर्मितान् ।।

अभ्यर्च्य गंधकुसुमैर्गंगायां प्रक्षिपेद्व्रती ।। 4.1.27.१५० ।।

एवं कृत्वा विधानेन वित्तशाठ्यं विवर्जितः ।।

उपवासी वक्ष्यमाणैर्दशपापैः प्रमुच्यते ।। ५१ ।।

अदत्तानामुपादानं हिंसाचैवाविधानतः ।।

परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ।। ५२ ।।

पारुष्यमनृतं चैव पैशुन्यं चैव सर्वशः ।।

असंबद्ध प्रलापश्च वाङ्मयंस्याच्चतुर्विधम् ।। ५३ ।।

परद्रव्येष्वभिध्यानं मनसानिष्टचिंतनम् ।।

वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ।। ।। ५४ ।।

एतैर्दशविधैः पापैर्दशजन्मसमुद्भवैः ।।

मुच्यते नात्र संदेहः सत्यं सत्यं गदाधर ।। ५५ ।।

उत्तरेन्नरकात्पूर्वान्दशघोराद्दशावरान् ।।

वक्ष्यमाणमिदं स्तोत्रं गंगाग्रे श्रद्धया जपेत् ।। ५६ ।।

ॐ नमः शिवायै गंगायै शिवदायै नमोनमः ।।

नमस्ते विष्णुरूपिण्यै ब्रह्ममूर्त्त्यै नमोस्तु ते ।। ५७ ।।

नमस्ते रुद्ररूपिण्यै शांकर्यै ते नमोनमः ।।

सर्वदेवस्वरूपिण्यै नमो भेषजमूर्त्तये ।। ५८ ।।

सर्वस्यसर्वव्याधीनां भिषक्श्रेष्ठ्यै नमोस्तु ते ।।

स्थास्नुजंगमसंभूत विषहंत्र्यै नमोस्तु ते ।। ५९ ।।

संसारविषनाशिन्यै जीवनायै नमोस्तु ते ।।

तापत्रितय संहंत्र्यै प्राणेश्यै ते नमोनमः ।। 4.1.27.१६० ।।

शांति संतानकारिण्यै नमस्ते शुद्धमूर्तये ।।

सर्वसंशुद्धिकारिण्यै नमः पापारिमूर्तये ।।६१।।

भुक्तिमुक्तिप्रदायिन्यै भद्रदायै नमोनमः ।।

भोगोपभोगदायिन्यै भोगवत्यै नमोस्तु ते ।। ६२ ।।

मंदाकिन्यै नमस्तेस्तु स्वर्गदायै नमोनमः ।।

नमस्त्रैलोक्यभूषायै त्रिपथायै नमोनमः ।। ६३ ।।

नमस्त्रिशुक्लसंस्थायै क्षमावत्यै नमोनमः ।।

त्रिहुताशनसंस्थायै तेजोवत्यै नमोनमः ।। ६४ ।।

नंदायै लिंगधारिण्यै सुधाधारात्मने नमः ।।

नमस्ते विश्वमुख्यायै रेवत्यै ते नमोनमः ।। ६५ ।।

बृहत्यै ते नमस्तेस्तु लोकधात्र्यै नमोस्तु ते ।।

नमस्ते विश्वमित्रायै नंदिन्यै ते नमोनमः ।। ६६ ।।

पृथ्व्यै शिवामृतायै च सुवृषायै नमोनमः ।।

परापरशताढ्यायै तारायै ते नमोनमः ।। ६७ ।।

पाशजालनिकृंतिन्यै अभिन्नायै नमोस्तु ते ।।

शांतायै च वरिष्ठायै वरदायै नमोनमः ।।६८।।

उग्रायै सुखजग्ध्यै च संजीविन्यै नमोस्तु ते ।।

ब्रह्मिष्ठायै ब्रह्मदायै दुरितघ्न्यै नमोनमः ।। ६९ ।।

प्रणतार्ति प्रभंजिन्यै जगन्मात्रे नमोस्तुते ।।

सर्वापत्प्रतिपक्षायै मंगलायै नमोनमः ।। 4.1.27.१७० ।।

शरणागतदीनार्त परित्राणपरायणे ।।

सर्वस्यार्ति हरे देवि नारायणि नमोस्तु ते ।। ७१ ।।

निर्लेपायै दुर्गहंत्र्यै दक्षायै ते नमोनमः ।।

परापरपरायै च गंगे निर्वाणदायिनि ।। ७२ ।।

गंगे ममाग्रतो भूया गंगे मे तिष्ठ पृष्ठतः ।।

गंगे मे पार्श्वयोरेधि गंगे त्वय्यस्तु मे स्थितिः ।। ७३ । ।

आदौ त्वमंते मध्ये च सर्वं त्वं गां गते शिवे ।।

त्वमेव मूलप्रकृतिस्त्वं पुमान्पर एव हि ।।

गंगे त्वं परमात्मा च शिवस्वतुभ्यं नमः शिवे ।। ७४ ।।

य इदं पठते स्तोत्रं शृणुयाच्छ्रद्धयापि यः ।।

दशधा मुच्यते पापैः कायवाक्चित्तसंभवैः ।। ।। ७५ ।।

रोगस्थो रोगतो मुच्येद्विपद्भ्यश्च विपद्युतः ।।

मुच्यते बंधनाद्बद्धो भीतो भीतः प्रमुच्यते ।। ७६ ।।

सर्वान्कामानवाप्नोति प्रेत्य च त्रिदिवं व्रजेत् ।।

दिव्यं विमानमारुह्य दिव्यस्त्रीपरिवीजितः ।। ७७ ।।

गृहेपि लिखितं यस्य सदा तिष्ठति धारितम ।।

नाग्निचोरभयं तस्य न सर्पादि भयं क्वचित ।। ७८ ।।

ज्येष्ठे मासे सिते पक्षे दशमी हस्तसंयुता ।।

संहरेत्त्रिविधं पापं बुधवारेण संयुता ।। ७९ ।।

तस्यां दशम्यामेतच्च स्तोत्रं गंगाजले स्थितः ।।

यः पठेद्दशकृत्वस्तु दरिद्रो वापि चाक्षमः ।। 4.1.27.१८० । ।

सोपि तत्फलमाप्नोति गंगां संपूज्य यत्नतः ।।

पूर्वोक्तेन विधानेन यत्फलं संप्रकीर्तितम ।। ८१ ।।

यथा गौरी तथा गंगा तस्माद्गौर्यास्तु पूजने ।।

यो विधिर्विहितः सम्यक्सोपि गंगाप्रपूजने ।। ८२ ।।

यथाऽहं त्वं तथा विष्णो यथा त्वं तु तथाह्युमा ।।

उमा यथा तथा गंगा चतूरूपं न भिद्यते ।। ८३ ।।

विष्णुरुद्रां तरं चैव श्रीगौर्योरंतरं तथा ।।

गंगागौर्यंतरं चैव यो ब्रूते मूढधीस्तु सः ।। ८४ ।।

इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे गंगामहिमवर्णनपूर्वक दशहरा स्तोत्रकथनंनाम सप्तविंशतितमोऽध्यायः ।। २७ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 28

उमोवाच ।। ।।

किंचित्प्रष्टुमना नाथ स्वसंदेहापनुत्तये ।।

वद खेदो यदि न ते त्रिकालज्ञानकोविद ।। १ ।।

तदा भगीरथो राजा क्व क्व भागीरथी तदा ।।

यदा विष्णुस्तपस्तेपे चक्रपुष्करिणी तटे ।। २ ।।

।। शिव उवाच ।। ।।

संदेहोऽत्र न कर्तव्यो विशालाक्षि सदामले ।।

श्रुतौ स्मृतौ पुराणेषु कालत्रयमुदीर्यते ।। ।। ३ ।।

भूतं भावि भवच्चापि संशयं मा वृथा कृथाः ।।

इत्युक्त्वा पुनराहेशो गंगामाहात्म्यमुत्तमम् ।।४।।

।। अगस्त्य उवाच ।।

पार्वतीनंदन पुनर्द्युनद्याः परितो वद ।।

महिमोक्तो हरौ यद्वद्देवदेवेन वै तदा ।। ५ ।।

स्कंद उवाच ।।

मुनऽत्र मैत्रावरुणे यथा देवेन भाषितम् ।।

शुणु त्रिपथगामिन्या माहात्म्यं पातकापहम् ।।६।।

त्रिस्रोतसं समासाद्य सकृत्पिंडान्ददाति यः ।।

उद्धृताः पितरस्तेन भवांभोधेस्तिलोदकैः ।। ७ ।।

यावंतश्च तिला मर्त्यैर्गृहीता पितृकर्मणि।।

तावद्वर्षसहस्राणि पितरः स्वर्गवासिनः ।। ८ ।।

देवाः सपितरो यस्माद्गंगायां सर्वदा स्थिताः ।।

आवाहनं विसर्गं च तेषां तत्र ततो नहि ।। ९ ।।

पितृवंशे मृता ये च मातृवंशे तथैव च ।।

गुरु श्वशुर बंधूनां ये चान्ये बांधवा मृताः ।। 4.1.28.१० ।।

अजातदंता ये केचिद्ये च गर्भे प्रपीडिताः ।।

अग्निविद्युच्चोरहता व्याघ्रदंष्ट्रिभिरेव च ।।११ ।।

उद्बंधन मृता ये च पतिता आत्मघातकाः ।।

आत्मविक्रयिणश्चोरा ये तथाऽयाज्ययाजकाः ।। १२ ।।

रसविक्रयिणो ये च ये चान्ये पापरोगिणः ।।

अग्निदा गरदाश्चैव गोघ्नाश्चैव स्ववंशजाः ।। १३ ।।

असिपत्रवने ये च कुंभीपाके च ये गताः ।।

रौरवेप्यंधतामिस्रे कालसूत्रे च ये गताः ।।१४।।

जात्यंतरसहस्रेषु भ्राम्यंते ये स्वकर्मभिः ।।

ये तु पक्षिमृगादीनां कीटवृक्षादि वीरुधाम् ।। १५ ।।

योनिं गतास्त्वसंख्याताः संख्यातानामशोभनाः ।।

प्रापिता यमलोकं तु सुघोरैर्यमकिंकरैः ।। १६ ।।

येऽबांधवा बांधवा वा येऽन्यजन्मनि बांधवाः ।।

येपि चाज्ञातनामानो ये चापुत्राः स्वगोत्रजाः ।। १७ ।।

विषेण च मृता वै ये ये वै शृंगिभिराहताः ।।

कृतघ्नाश्च गुरुघ्नाश्च ये च मित्रद्रुहस्तथा ।। १८ ।।

स्त्री बालघातका ये च ये च विश्वासघातकाः ।।

असत्यहिंसानिरता सदा पापरताश्च ये ।। १९ ।।

अश्वविक्रयिणो ये च परद्रव्यहराश्च ये ।।

अनाथाः कृपणा दीना मानुष्यं प्राप्तुमक्षमाः ।। 4.1.28.२० ।।

तर्पिता जाह्नवीतोयैर्नरेण विधिना सकृत् ।।

प्रयांति स्वर्गतिं तेपि स्वर्गिणो मुक्तिमाप्नुयुः ।।२१।।

एतान्मंत्रान्समुच्चार्य यः कुर्यात्पितृतर्पणम् ।।

श्राद्धं पिंडप्रदानं च स विधिज्ञ इहोच्यते ।। २२।।

कामप्रदानि तीर्थानि त्रैलोक्ये यानि कानिचित् ।।

तानि सर्वाणि सेवंते काश्यामुत्तरवाहिनीम् ।। २३ ।।

स्वःसिंधुः सर्वतः पुण्या ब्रह्महत्यापहारिणी ।।

काश्यां विशेषतो विष्णो यत्र चोत्तरवाहिनी ।। २४ ।।

गायंति गाथामेतां वै दैवर्षिपितरोगणाः ।।

अपि दृग्गोचरा नः स्यात्काश्यामुत्तरवाहिनी ।।२५।।

यत्रत्यामृतसंतृप्तास्तापत्रितयवर्जिताः ।।

स्याम त्वमृतमेवाद्धा विश्वनाथप्रसादतः ।। २६ ।।

गंगैव केवला मुक्त्यै निर्णीता परितो हरे ।।

अविमुक्ते विशेषेण ममाधिष्ठानगौरवात् ।। २७ ।।

ज्ञात्वा कलियुगं घोरं गंगाभक्तिः सुगोपिता ।।

न विंदतिं जना गंगां मुक्तिमागैर्कदायिकाम् ।। २८ ।।

अनेकजन्मनियुतं भ्राम्यमाणस्तु योनिषु ।।

निर्वृतिं प्राप्नुयात्कोत्र जाह्नवीभजनं विना ।। २९ ।।

नराणामल्पबुद्धीनामेनो विक्षिप्तचेतसाम् ।।

गंगेव परमं विष्णो भेषजं भवरोगिणाम् ।। 4.1.28.३० ।।

खंडस्फुटितसंस्कारं गंगातीरे करोति यः ।।

मम लोके चिरं कालं तस्याक्षय सुखं हरे।। ३१।।

गंतुमुद्दिश्य यो गंगां परार्थस्वार्थमेव वा ।।

न गच्छति परं मोहात्स पतेत्पितृभिः सह ।। ३२ ।।

सर्वाणि येषां गांगेयैस्तोयैः कृत्यानि देहिनाम् ।।

भूमिस्था अपि ते मर्त्या अमर्त्या एव वै हरे ।। ३३ ।।

चरमेपि वयोभागे स्वःसिंधुं यो निषेवते ।।

कृत्वाप्येनांसि बहुशः सोपि यायाच्छुभां गतिम् ।।३४।।

यावदस्थि मनुष्याणां गंगातोयेषु तिष्ठति ।।

तावदब्दसहस्राणि स्वर्गलोके महीयते।।३५।।

विष्णुरुवाच ।। ।।

देवदेवजगन्नाथ जगतां हितकृत्प्रभो ।।

कीकसं चेत्पतेद्दैवाद्दुर्वृत्तस्य दुरात्मनः ।।३६।।

जले द्युनद्या निष्पापे कथं तस्य परा गतिः ।।

अपमृत्यु विपन्नस्य तदीश विनिवेद्यताम् ।। ३७ ।।

।। महेश्वर उवाच ।। ।।

अत्रार्थे कथयिष्यामि पुरावृत्तमधोक्षज ।।

शृणुष्वैकमना विष्णो वाहीकस्य द्विजन्मनः ।। ३८ ।।

पुरा कलिंगविषये द्विजो लवणविक्रयी ।।

संध्यास्नानविहीनश्च वेदाक्षरविवर्जितः ।। ३९ ।।

वाहीको नामतो यज्ञसूत्रमात्रपरिग्रहः ।।

परिग्रहश्च तस्यासीत्कौविंदी विधवा नवा ।। 4.1.28.४० ।।

दुर्भिक्षपीडितेनाथ वृषलीपतिना विना ।।

प्राणाधारं तदा तेन देशाद्देशांतरं ययौ ।। ४१ ।।

मध्येऽथ दंडकारण्यं क्षुत्क्षामः संगवर्जितः ।।

व्याघ्रेण घातितस्तत्र नरमांसप्रियेण सः ।। ४२ ।।

तस्य वामपदं गृध्रो गृहीत्वोदपतत्ततः ।।

मांसाशिनाऽन्य गृध्रेण तस्य युद्धमभूद्दिवि ।। ४३ ।।

गृध्रयोरामिषं गृध्न्वोः परस्परजयैषिणोः ।।

अवापतत्पादगुल्फं कंकचंचुपुटात्तदा ।। ४४ ।।

तस्य वाहीक विप्रस्य व्याघ्रव्यापादितस्य ह ।।

मध्ये गंगं दैवयोगादपतद्द्वंद्वकारिणोः ।। ४५ ।।

यदैव हतवान्द्वीपी तं वाहीकमरण्यगम् ।।

तस्मिन्नेव क्षणे बद्धः स पाशैः क्रूरकिंकरैः ।। ४६ ।।

कशाभिर्घातितोत्यंतमाराभिः परितोदितः ।।

वमन्रुधिरमास्येन नीतस्तैः स यमाग्रतः ।। ४७।।

आपृच्छि धर्मराजेन चित्रगुप्तोथ मापते ।।

धर्माधर्मं विचार्यास्य कथयाशु द्विजन्मनः ।। ४८ ।।

वैवस्वतेन पृष्टोथ चित्रगुप्तो विचित्रधीः ।।

सर्वदा सर्वजंतूनां वेदिता सर्वकर्मणाम् ।। ४९ ।।

जगाद यमुनाबंधुं वाहीकस्य द्विजन्मनः ।।

जन्मकर्मदिनारभ्य दुर्वृत्तस्य शुभेतरम् ।। 4.1.28.५० ।।

चित्रगुप्त उवाच ।। ।।

गर्भाधानादिकं कर्म प्राक्कृतं नास्य केनचित् ।।

जातकर्मकृतं नास्य पित्राऽज्ञानवता हरे ।। ५१ ।।

गर्भैनः शमने हेतुः समस्तायुः सुखप्रदम् ।।

एकादशेह्नि नामास्य न कृतं विधिपूर्वकम् ।।५२।।

ख्यातः स्याद्येन विधिना सर्वत्र विधिपावनम् ।।

नाकार्षीन्निर्गमं चास्य चतुर्थे मासि मंदधीः ।।५३।।

जनकः शुभतिथ्यादौ विदेशगमनापहम् ।।

षष्ठेऽन्नप्राशनंमासि न कृतं विधिपूर्वकम् ।। ५४ ।।

सर्वदा मिष्टमश्नाति कर्मणा येन भास्करे ।।

न चूडाकरणं चास्य कृतमब्दे यथाकुलम् ।। ५५ ।।

कर्मणा येन केशाः स्युः स्निग्धाः कुसुमवर्षिणः ।।

नाकारि कर्णवेधोस्य जनित्रा समये शुभे ।। ५६ ।।

सुवर्णग्राहिणौ येन कर्णौ स्यातां च सुश्रुती ।।

मौंजीबंधोप्यभूदस्य व्यतीतेब्देऽष्टमे हरे ।।

ब्रह्मचर्याभिवृद्ध्यै यो ब्रह्मग्रहणहेतुकः ।। ५७ ।।

मौंजीमोक्षणवार्तापि कृता नास्य जनुःकृता ।।

गार्हस्थ्यं प्राप्यते यस्मात्कर्मणोऽनंतरं वरम् ।। ५८ ।।

यथाकथंचिदूढाऽथ पत्नी त्यक्तकुलाध्वगा ।।

वृषलीपतिना तेन परदारापहारिणा ।।५९।।

आरभ्य पंचमाद्वर्षात्परस्वस्यापहारकः ।।

अभूदेष दुराचारो दुरोदरपरायणः ।। 4.1.28.६० ।।

रुमायां1 वसताऽनेन हतागौरेकवार्षिकी ।। 1.लवणाकरे भूप्रदेशे

एकदा दृढदंडेन लिहंती लवणं मृता ।। ६१ ।।

जननीं पादपातेन बहुशोऽसावताडयत् ।।

कदाचिदपि नो वाक्यं पितुः कृतमनेन वै ।। ६२ ।।

विषं भक्षितवानेष बहुशः कलहप्रियः ।।

जनोपतापशीलोसौ कृतोदरविदारणः ।। ५३ ।।

धत्तूरकरवीरादि बहुधोपविषाणि च ।।

क्रीडाकलहमात्रेण भक्षयच्चैष दुर्मतिः ।। ६४ ।।

दग्धोसावग्निना सौरे श्वभिश्च कवलीकृतः ।।

शृंगिभिः परितः प्रोतो विषाणाग्रैरसौ बहु ।। ६५ ।।

दंदशूकैर्भृशं दष्टो दुष्टः शिष्टैर्विगर्हितः ।।

काष्ठेष्टलोष्टैः पापिष्ठः कृतानिष्टः सदात्मनः ।। ६६ ।।

आस्फालितं शिरोनेनासकृच्चापि दुरात्मना ।।

यदर्च्यते सदा सद्भिरुत्तमांगमनेकधा ।। ६७ ।।

असौ हि ब्राह्मणो मंदो गायत्रीमपिवेदन ।।

कामतो मत्स्यमांसानि जग्धान्येतेन दुर्धिया ।। ६८ ।।

आत्मार्थं पायसमसौ पर्यपाक्षीदनेकधा ।।

लाक्षालवणमांसानां सपयोदधिसर्पिषाम् ।।६९।।

विषलोहायुधानां च दासीगोवाजिनामपि ।।

विक्रेताऽसौ सदा मूढस्तथा वै केशचर्मणाम् ।। 4.1.28.७० ।।

शूद्रान्न परिपुष्टांगः पर्वण्यहनि मैथुनी ।।

पराङ्मुखो दैवपित्र्यकर्मण्येष दुरात्मवान् ।। ७१ ।।

पक्षिणो घातितानेन मृगाश्चापि परः शतम् ।।

अकारण द्रुमच्छेदी सदा निर्दयमानसः ।। ७२ ।।

उद्वेगजनको नित्यं निजबंधुजनेष्वपि ।।

असत्यवादी सततं सदा हिंसापरायणः ।। ७२ ।।

अदत्तदानः पिशुनः शिश्नोदरपरायणः ।।

किं बहूक्तेन रविज साक्षात्पातक मूर्तिमान् ।। ७४ ।।

रौरवेप्यंधतामिस्रे कुंभीपाकेऽतिरौरवे ।।

कालसूत्रे कृमिभुजि पूयशोणितकर्दमे ।। ७५ ।।

असिपत्रवने घोरे यंत्रपीडे सुदंष्ट्रके ।।

अधोमुखे पूतिगंधे विष्ठागर्त्तेष्वभोजने ।।७६।।

सूचीभेद्येऽथ संदंशे लालापे क्षुरधारके ।।

प्रत्येकं नरके त्वेष पात्यतां कल्पसंख्यया ।। ७७ ।।

धर्मराजः समाकर्ण्य चित्रगुप्तमुखादिति ।।

निर्भर्त्स्य तं दुराचारं किंकरानादिदेश ह ।। ७८ ।।

भ्रू संज्ञया हृतैर्नीतः स बद्ध्वा निरयालयम् ।।

आक्रंदरावो यत्रोच्चैः पापिनां रोमहर्षणः ।। ७९ ।।

।। ईश्वर उवाच ।। ।।

यातनास्वतितीव्रासु वाहीके संस्थिते तदा ।।

तत्कालपुण्यफलदे गाङ्गेयांभसि निर्मले ।। 4.1.28.८० ।।

पतितं तद्धि गृध्रास्याद्वाहीकस्य द्विजन्मनः ।।

हरे विमानं तत्कालमापन्नं सुरसद्मतः ।। ८१ ।।

घंटावलंबितं दिव्यं दिव्यस्त्रीशतसंकुलम् ।।

आरुह्य देवयानं स दिव्यवेषधरो द्विजः ।। ८२ ।।

वीज्यमानोऽप्सरोवृंदैर्दिव्यगंधानुलेपनः ।।

जगाम स्वर्गभुवनं गंगास्थिपतनाद्धरे ।। ८३ ।।

स्कंद उवाच ।। ।।

वस्तुशक्तिविचारोयमद्भुतः कोपि कुंभज ।।

द्रवरूपेण काप्येषा शक्तिः सादाशिवी परा ।। ८४ ।।

करुणामृतपूर्णेन देवदेवेन शंभुना ।।

एषा प्रवर्तिता गंगा जगदुद्धरणाय वै ।। ८५ ।।

यथान्याः सरितो लोके वारिपूर्णाः सहस्रशः ।।

तथैषानानुमंतव्या सद्भिस्त्रिपथगामिनी।।८६।।

श्रुत्यक्षराणि निश्चित्य कारुण्याच्छंभुना मुने ।।

निर्मिता तद्द्रवैरेषा गंगा गंगाधरेण वै ।। ८७ ।।

योगोपनिषदामेतं सारमाकृष्य शंकरः ।।

कृपया सर्वजंतूनां चकार सरितां वराम् ।। ८८ ।।

अकलानिधयो रात्र्यो विपुष्पाश्चैव पादपाः ।।

यथा तथैव ते देशा यत्र नास्त्यमरापगा ।। ८९ ।।

अनयाः संपदो यद्वन्मखा यद्वददक्षिणाः ।।

तद्वद्देशा दिशः सर्वा हीना गंगांभसा हरे ।। 4.1.28.९० ।।

व्योमांगणमनर्कं च नक्तेऽदीपं यथा गृहम ।।

अवेदा ब्राह्मणा यद्वद्गंगाहीनास्तथा दिशः ।। ९१ ।।

चांद्रायणसहस्रं तु यः कुर्याद्देहशोधनम् ।।

गंगामृतं पिबेद्यस्तु तयोर्गंगाबुपोऽधिकः ।। ९२ ।।

पादेनैकेन यस्तिष्ठेत्सहस्रं शरदां शतम् ।।

अब्दं गंगांबुपो यस्तु तयोर्गंगांबुपोऽधिकः ।। ९३ ।।

अवाक्छिराः प्रलंबेद्यः शतसंवत्सरान्नरः ।।

भीष्मसूवालुकातल्पशयस्तस्माद्वरो हरे ।। ९४ ।।

पापतापाभितप्तानां भूतानामिह जाह्ववी ।।

पापतापहरा यद्वद्गंगा नान्यत्तथा कलौ ।। ९५ ।।

तार्क्ष्यवीक्षणमात्रेण फणिनौ निर्विषा यथा ।।

निष्प्रभाणि तथेनांसि भागीरथ्यवलोकनात् ।। ९६ ।।

गंगातटोद्भवां मृत्स्नां यो मौलौ बिभृयान्नरः ।।

बिभर्ति सोऽर्कबिंबं वै तमोनाशाय निश्चितम् ।। ९७ ।।

व्यसनैरभिभूतस्य धनहीनस्य पापिनः ।।

गंगैव केवलं तस्य गतिरुक्ता न चान्यथा ।। ९८ ।।

श्रुताभिलषिता दृष्टा स्पृष्टा पीताऽवगाहिता ।।

पुंसां वंशद्वयं गंगा तारयेन्नात्र संशयः ।। ९९ ।।

कीर्तनाद्दर्शनात्स्पर्शाद्गंगापानावगाहनात् ।।

दशोत्तरगुणा ज्ञेया पुण्यापुण्यर्द्धिनाशयोः ।। 4.1.28.१०० ।।

न सुतैर्न च वा वित्तैर्नान्येनापि सुकर्मणा ।।

तत्फलं प्राप्यते मर्त्ये गंगामाप्य यदाप्यते ।। १ ।।

जात्यंधाः पंगवस्ते वै जीवंतोप्यथ ते मृताः ।।

समर्था अपि ये गंगां न स्नायुर्मोक्षगर्भिणीम् ।। २ ।।

श्रुतिं निशामय हरे गंगामाहात्म्यभाषिणीम् ।।

विनिश्चितार्थां यां श्रुत्वा श्रयेद्गंगां नरोत्तमः ।। ३ ।।

इरावतीं मधुमतीं पयस्विनीममृतरूपामूर्जस्वतीम् ।।

त्रिदिवप्रसूतां गंगां श्रितासस्त्रिदिवं व्रजंति ।। ४ ।।

ऋषिजुष्टां विष्णुपदीं पुराणां सुपुण्यधारां मनसा हि लोके ।।

सर्वात्मना जाह्नवीं ये प्रपन्नास्ते ब्रह्मणः सदनं संप्रयांति ।।५।।

लोकानिमान्नयति या जननीव पुत्रान्स्वर्गं सदा सर्वगुणोपपन्ना ।।

स्थानमिष्टं ब्राह्ममभीप्समानैर्गंगा सदैवात्मवशैरुपास्या ।।६।।

उस्रैर्जुष्टामिषतीं विश्वरूपामिरावतीं जनयित्रीं गुहस्य ।।

शिष्टैः सेव्याममृतां ब्रह्मकांतां गंगां श्रयेदात्मविशुद्धिकामः ।। ७ ।।

गंगायां तु नरः स्नात्वा ब्रह्मचारी समाहितः ।।

विधूतपापो भवति वाजपेयं च विंदति ।। ८ ।।

अशुभैः कर्मभिर्ग्रस्तान्मज्जमानान्महार्णवे ।।

पततो निरये गंगा संश्रितानुद्धरेत्सदा ।। ९ ।।

ब्रह्मलोकस्तु लोकानां सर्वेषामुत्तमो यथा ।।

सरितां सरसां वापि वरिष्ठा जाह्नवी तथा ।। 4.1.28.११० ।।

अन्यत्र सम्यक्संकल्प्य तपः कृत्वा समा त्रयम् ।।

यत्फलं तद्भवेद्भक्त्या गंगायां घटिकाऽर्धतः ।। ११ ।।

स्वर्गस्थस्य न सा प्रीतिर्भुंजतः सुखमक्षयम् ।।

या स्याद्गंगातटे पुंसां रात्रौ चंद्रोदये सति ।। १२ ।।

जरारोगाभिपन्नं तु कुणपं जाह्नवी जले।।

धैर्येण तृणवत्त्यक्त्वा प्रविशेदमरावतीम्।। १३।।

वार्योघैः सततं यस्याः प्लाव्यते शशिमंडलम्।।

भूयोधिकतरां शोभां बिभर्ति तदहः क्षये।। १४ ।।

आहुतस्य जले यस्याः सद्यो नश्यंति पातकम् ।।

महतः श्रेयसः प्राप्तिस्तत्क्षणादेव जायते ।।१५।।

पितृभ्यः श्रद्धया यत्र दत्तास्त्वापः स्ववंशजैः।।

प्रयच्छंति परां तृप्तिं शरदां त्रयमच्युत।। १६।।

तारयेत्क्षितियान्मर्त्यानधःस्थांश्च सरीसृपान्।।

स्वर्गे स्वर्गसदो विष्णोर्गं(?)गा त्रिपथगा ततः।। १७।।

तीर्थानामुत्तमं तीर्थं सरितामुत्तमा सरित् ।।

स्वर्गदा सर्वजंतूनां महापातकिनामपि ।। १८ ।।

अध्युष्टाः कोटयो विष्णो संति तीर्थानि सर्वतः ।।

दिवि भुव्यंतरिक्षे च जाह्नव्यां तानि कृत्स्नशः ।। १९ ।।

ज्ञात्वाज्ञात्वा च गंगायां यः पंचत्वमवाप्नुयात् ।।

अनात्मघाती स्वर्गी स्यान्नरकान्स न पश्यति ।। 4.1.28.१२० ।।

गंगैव सर्वतीर्थानि गंगैव च तपोवनम् ।।

गंगैव सिद्धिक्षेत्रं हि नात्र कार्या विचारणा ।। २१ ।।

यत्र कामफला वृक्षा मही यत्र हिरण्मयी ।।

जाह्नवी स्नायिनस्तत्र निवसंति घटोद्भव ।। २२ ।।

धेनुं भागीरथी तीरे सुशीलां च पयस्विनीम् ।।

वासोरत्नैरलंकृत्वा ब्राह्मणाय ददाति यः ।। २३ ।।

यावंति तस्या लोमानि मुने तत्संततेरपि ।।

तावद्वर्षसहस्राणि स स्वर्गसुखभुग्भवेत् ।। १२४ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे गंगामहिमानामाष्टाविंशतितमोऽध्याय ।।२८।।

खण्डः ४ (काशीखण्डः) — Adhyāya 29

।।। अगस्त्य उवाच ।। ।।

विना स्नानेन गंगाया नृणां जन्मनिरथर्कम् ।।

उपायांतरमस्त्यन्यद्येन स्नानफलं लभेत् ।।१।।

अशक्तानां च पंगूनामालस्योपहतात्मनाम् ।।

दूरदेशांतरस्थानां गंगास्नानं कथं भवेत् ।। २ ।।

दानं वाऽथ व्रतंवाऽथ मंत्रःस्तोत्रजपोऽथवा ।।

तीर्थांतराभिषेको वा देवतोपासनं तु वा ।। ३ ।।

यद्यस्तिकिंचित्षड्वक्त्र गंगास्नानफलप्रदम् ।।

विधानांतरमात्रेण तद्वद प्रणताय मे ।। ४ ।।

त्वत्तो न वेदस्कंदान्यो गंगागर्भ समुद्भव ।।

परं स्वर्गतरंगिण्या महिमानं महामते ।। ५ ।।

।। स्कंद उवाच ।। ।।

संति पुण्यजलानीह सरांसि सरितो मुने ।।

स्थाने स्थाने च तीर्थानि जितात्माध्युषितानि च ।।६।।

दृष्टप्रत्ययकारीणि महामहिम भांज्यपि ।।

परं स्वर्गतरंगिण्याः कोट्यंशोपि न तत्र वै ।।७ ।।

अनेनैवानुमानेन बुद्ध्यस्व कलशोद्भव ।।

दध्रे गंगोत्तमांगेन देवदेवेन शंभुना।।८।।

स्नानकालेऽन्य तीर्थेषु जप्यते जाह्नवी जनैः ।।

विना विष्णुपदीं क्वान्यत्समर्थमघमोचने।।९।।

गंगास्नानफलं ब्रह्मन्गंगायामेव लभ्यते।।

यथा द्राक्षाफलस्वादो द्राक्षायामेव नान्यतः ।।4.1.29.१०।।

अस्त्युपाय इह त्वेकः स्याद्येनाविकलं फलम्।।

स्नानस्य देवसरितो महागुह्यतमो मुने।। ११।।

शिवभक्ताय शांताय विष्णुभक्तिपराय च ।।

श्रद्धालवे त्वास्तिकाय गर्भवासमुपुक्षवे ।। १२ ।।

कथनीयं न चान्यस्य कस्यचित्केनचित्क्वचित् ।।

इदं रहस्यं परमं महापातकनाशनम् ।। १३ ।।

महाश्रेयस्करं पुण्यं मनोरथकरं परम् ।।

द्युनदीप्रीतिजनकं शिवसंतोषसंतति ।। १४ ।।

नाम्नां सहस्रगंगायाः स्तवराजेषुशो भनम् ।।

जप्यानां परमं जप्यं वेदोपनिषदासमम् ।। १५ ।।

जपनीयं प्रयन्नेन मौनिना वाचकं विना ।।

शुचिस्थानेषु शुचिना सुस्पष्टाक्षरमेव च ।। १६ ।।

स्कंद उवाच ।। ।।

ॐनमो गंगादेव्यै ।।

ॐकाररूपिण्यजराऽतुलाऽनमताऽमृतस्रवा ।।

अत्युदाराऽभयाऽशोकाऽलकनंदाऽमृताऽमला ।। १७ ।।

अनाथवत्सलाऽमोघाऽपांयोनिरमृतप्रदा ।।

अव्यक्तलक्षणाऽक्षोभ्या ऽनवच्छिन्नाऽपराजिता ।। १८ ।।

अनाथनाथाऽभीष्टार्थसिद्धिदाऽनंगवर्धिनी ।।

अणिमादिगुणाऽधाराग्रगण्याऽलीकहारिणी ।। १९ ।।

अचिंत्यशक्तिरनघाऽद्भुतरूपाऽघहारिणी ।।

अद्रिराजसुताऽष्टांगयोगसिद्धिप्रदाऽच्युता ।। 4.1.29.२० ।।

अक्षुण्णशक्तिरसुदाऽनंततीर्थाऽमृतोदका ।।

अनंतमहिमाऽपाराऽनंतसौख्यप्रदाऽन्नदा ।। २१ ।।

अशेषदेवतामूर्तिरघोराऽमृतरूपिणी ।।

अविद्याजालशमनी ह्यप्रतर्क्यगतिप्रदा ।। २२ ।।

अशेषविघ्नसंहर्त्री त्वशेषगुणगुंफिता ।।

अज्ञानतिमिरज्योतिरनुग्रहपरायणा ।। २३ ।।

अभिरामाऽनवद्यांग्यनंतसाराऽकलंकिनी ।।

आरोग्यदाऽऽनंदवल्ली त्वापन्नार्तिविनाशिनी ।। २४ ।।

आश्चर्यमूर्तिरायुष्या ह्याढ्याऽऽद्याऽऽप्राऽऽर्यसेविता ।।

आप्यायिन्याप्तविद्याऽऽख्यात्वानंदाऽऽश्वासदायिनी ।। २५ ।।

आलस्यघ्न्यापदां हंत्री ह्यानंदामृतवर्षिणी ।।

इरावतीष्टदात्रीष्टा त्विष्टापूर्तफलप्रदा ।। २६ ।।

इतिहासश्रुतीड्यार्था त्विहामुत्रशुभप्रदा।। ।।

इज्याशीलसमिज्येष्ठा त्विंद्रादिपरिवंदिता ।। २७।।

इलालंकारमालेद्धा त्विंदिरारम्यमंदिरा ।।

इदिंदिरादिसंसेव्या त्वीश्वरीश्वरवल्लभा ।। २८ ।।

ईतिभीतिहरेड्या च त्वीडनीय चरित्रभृत् ।।

उत्कृष्टशक्तिरुत्कृष्टोडुपमंडलचारिणी ।।२९।।

उदितांबरमार्गोस्रोरगलोकविहारिणी ।।

उक्षोर्वरोत्पलोत्कुंभा उपेंद्रचरणद्रवा ।।4.1.29.३०।।

उदन्वत्पूर्तिहेतुश्चोदारोत्साहप्रवर्धिनी ।।

उद्वेगघ्न्युष्णशमनी उष्णरश्मिसुता प्रिया ।।३१।।

उत्पत्ति स्थिति संहारकारिण्युपरिचारिणी ।।

ऊर्जं वहंत्यूर्जधरोर्जावती चोर्मिमालिनी ।। ३२ ।।

ऊर्ध्वरेतःप्रियोर्ध्वाध्वा ह्यूर्मिलोर्ध्वगतिप्रदा ।।

ऋषिवृंदस्तुतर्द्धिश्च ऋणत्रयविनाशिनी ।। ३३ ।।

ऋतंभरर्द्धिदात्री च ऋक्स्वरूपा ऋजुप्रिया ।।

ऋक्षमार्गवहर्क्षार्चिर्ऋजुमार्गप्रदर्शिनी ।। ३४ ।।

एधिताऽखिलधर्मार्थात्वेकैकामृतदायिनी ।।

एधनीयस्वभावैज्या त्वेजिता शेषपातका ।। ३५ ।।

ऐश्वर्यदैश्वर्यरूपा ह्यैतिह्यं ह्यैंदवी द्युतिः ।।

ओजस्विन्योषधीक्षेत्रमोजोदौदनदायिनी ।। ३६ ।।

ओष्ठामृतौन्नत्यदात्री त्वौषधं भवरोगिणाम् ।।

औदार्यचंचुरौपेंद्री त्वौग्रीह्यौमेयरूपिणी ।। ३७ ।।

अंबराध्ववहांऽवष्ठां वरमालांबुजेक्षणा ।।

अंबिकांबुमहायोनिरंधोदांधकहारिणी ।। ३८ ।।

अंशुमालाह्यंशुमती त्वंगीकृतषडानना ।।

अंधतामिस्रहंत्र्यंधुरं जनाह्यंजनावती ।। ३९ ।।

कल्याणकारिणी काम्या कमलोत्पलगंधिनी ।।

कुमुद्वती कमलिनी कांतिः कल्पितदायिनी ।। 4.1.29.४० ।।

कांचनाक्षी कामधेनुः कीर्तिकृत्क्लेशनाशिनी ।।

क्रतुश्रेष्ठा क्रतुफला कर्मबंधविभेदिनी ।। ४१ ।।

कमलाक्षी क्लमहरा कृशानुतपनद्युतिः ।।

करुणार्द्रा च कल्याणी कलिकल्मषनाशिनी ।। ४२ ।

कामरूपाक्रियाशक्तिः कमलोत्पलमालिनी ।।

कूटस्था करुणाकांता कर्मयाना कलावती ।। ४३ ।।

कमलाकल्पलतिका कालीकलुषवैरिणी ।।

कमनीयजलाकम्रा कपर्दिसुकपर्दगा ।। ४४ ।।

कालकृटप्रशमनी कदंबकुसुमप्रिया ।।

कालिंदी केलिललिता कलकल्लोलमालिका ।। ४५ ।।

क्रांतलोकत्रयाकंडूः कंडूतनयवत्सला ।।

खड्गिनी खड्गधाराभा खगा खंडेंदुधारिणी ।। ४६ ।।

खेखेलगामिनी खस्था खंडेंदुतिलकप्रिया।।

खेचरीखेचरीवंद्या ख्यातिः ख्यातिप्रदायिनी ।।४७।।

खंडितप्रणताघौघा खलबुद्धिविनाशिनी ।।

खातैनः कंदसंदोहा खड्गखट्वांग(?) खेटिनी।। ।। ४८ ।।

खरसंतापशमनी खनिः पीयूषपाथसाम् ।।

गंगा गंधवती गौरी गंधर्वनगरप्रिया ।। ४९ ।।

गंभीरांगी गुणमयी गतातंका गतिप्रिया ।।

गणनाथांबिका गीता गद्यपद्यपरिष्टुता ।। 4.1.29.५० ।।

गांधारी गर्भशमनी गतिभ्रष्टगतिप्रदा ।।

गोमती गुह्यविद्यागौर्गोप्त्री गगनगामिनी ।। ५१ ।।

गोत्रप्रवर्धिनी गुण्या गुणातीता गुणाग्रणीः ।।

गुहांबिका गिरिसुता गोविंदांघ्रिसमुद्भवा ।। ५२ ।।

गुणनीयचरित्रा च गायत्री गिरिशप्रिया ।।

गूढरूपा गुणवती गुर्वी गौरववर्धिनी ।। ५३ ।।

ग्रहपीडाहरा गुंद्रा गरघ्नी गानवत्सला ।।

घर्महंत्री घृतवती घृततुष्टिप्रदायिनी ।। ५४ ।।

घंटारवप्रिया घोराऽघौघविध्वंसकारिणी ।।

घ्राणतुष्टिकरी घोषा घनानंदा घनप्रिया ।।५५।।

घातुका घृर्णितजला घृष्टपातकसंततिः ।।

घटकोटिप्रपीतापा घटिताशेषमंगला ।। ५६ ।।

घृणावती घृणनिधिर्घस्मरा घूकनादिनी ।।

घुसृणा पिंजरतनुर्घर्घरा घर्घरस्वना ।।५७।।

चंद्रिका चंद्रकांतांबुश्चंचदापा चलद्युतिः।।

चिन्मयी चितिरूपा च चंद्रायुतशनानना ।। ५८ ।।

चांपेयलोचना चारुश्चार्वंगी चारुगामिनी ।।

चार्या चारित्रनिलया चित्रकृच्चित्ररूपिणी ।। ५९ ।।

चंपश्चंदनशुच्यंबुश्चर्चनीया चिरस्थिरा ।।

चारुचंपकमालाढ्या चमिताशेष दुष्कुता ।। 4.1.29.६० ।।

चिदाकाशवहाचिंत्या चंचच्चामरवीजिता ।।

चोरिताशेषवृजिना चरिताशेषमंडला ।। ६१ ।।

छेदिताखिलपापौघा छद्मघ्नी छलहारिणी ।।

छन्नत्रिविष्टप तला छोटिताशेषबंधना ।। ६२ ।।

छुरितामृतधारौघा छिन्नैनाश्छंदगामिनी ।।

छत्रीकृतमरालौघा छटीकृतनिजामृता ।।६३।।

जाह्नवी ज्या जगन्माता जप्या जंघालवीचिका ।।

जया जनार्दनप्रीता जुषणीया जगद्धिता ।।६४।।

जीवनं जीवनप्राणा जगज्ज्येष्ठा जगन्मयी ।।

जीवजीवातुलतिका जन्मिजन्मनिबर्हिणी ।। ।। ६५ ।।

जाड्यविध्वंसनकरी जगद्योनिर्जलाविला ।।

जगदानंदजननी जलजा जलजेक्षणा ।। ६६ ।।

जनलोचनपीयूषा जटातटविहारिणी ।।

जयंती जंजपूकघ्नी जनितज्ञानविग्रहा ।। ६७ ।।

झल्लरी वाद्यकुशला झलज्झालजलावृता ।।

झिंटीशवंद्या झांकारकारिणी झर्झरावती ।। ६८ ।।

टीकिताशेषपाताला टंकिकैनोद्रिपाटने ।।

टंकारनृत्यत्कल्लोला टीकनीयमहातटा ।।६९।।

डंबरप्रवहाडीन राजहंसकुलाकुला।।

डमड्डमरुहस्ता च डामरोक्त महांडका ।।4.1.29.७०।।

ढौकिताशेषनिर्वाणा ढक्कानादचलज्जला ।।

ढुंढिविघ्नेशजननी ढणड्ढुणितपातका ।।७१।।

तर्पणीतीर्थतीर्था च त्रिपथा त्रिदशेश्वरी ।।

त्रिलोकगोप्त्री तोयेशी त्रैलोक्यपरिवंदिता।। ७२।।

तापत्रितयसंहर्त्री तेजोबलविवर्धिनी ।।

त्रिलक्ष्या तारणी तारा तारापतिकरार्चिता ।। ७३ ।।

त्रैलोक्यपावनी पुण्या तुष्टिदा तुष्टिरूपिणी ।।

तृष्णाछेत्त्री तीर्थमाता त्त्रिविक्रमपदोद्भवा।। ७४ ।।

तपोमयी तपोरूपा तपःस्तोम फलप्रदा ।।

त्रैलोक्यव्यापिनी तृप्तिस्तृप्तिकृत्तत्त्वरूपिणी ।। ७५ ।।

त्रैलोक्यसुंदरी तुर्या तुर्यातीतपदप्रदा ।।

त्रैलोक्यलक्ष्मीस्त्रिपदी तथ्यातिमिरचंद्रिका ।। ७६ ।।

तेजोगर्भा तपःसारा त्रिपुरारि शिरोगृहा ।।

त्रयीस्वरूपिणी तन्वी तपनांगजभीतिनुत् ।।७७।।

तरिस्तरणिजामित्रं तर्पिताशेषपूर्वजा ।।

तुलाविरहिता तीव्रपापतूलतनूनपात् ।। ।। ७८ ।।

दारिद्र्यदमनी दक्षा दुष्प्रेक्षा दिव्यमंडना ।।

दीक्षावतीदुरावाप्या द्राक्षामधुरवारिभृत् ।। ७९ ।।

दर्शितानेककुतुका दुष्टदुर्जयदुःखहृत् ।।

दैन्यहृद्दुरितघ्नी च दानवारि पदाब्जजा ।। 4.1.29.८० ।।

दंदशूकविषघ्री च दारिताघौघसंततिः ।।

द्रुतादेव द्रुमच्छन्ना दुर्वाराघविघातिनी ।। ८१ ।।

दमग्राह्या देवमाता देवलोकप्रदर्शिनी ।।

देवदेवप्रियादेवी दिक्पालपददायिनी ।। ८२ ।।

दीर्घायुःकारिणी दीर्घा दोग्ध्री दूषणवर्जिता ।।

दुग्धांबुवाहिनी दोह्या दिव्या दिव्यगतिप्रदा ।। ८३ ।।

द्युनदी दीनशरणं देहिदेहनिवारिणी ।।

द्राघीयसी दाघहंत्री दितपातकसंततिः ।। ८४ ।।

दूरदेशांतरचरी दुर्गमा देववल्लभा।।

दुर्वृत्तघ्नी दुर्विगाह्या दयाधारा दयावती ।। ८५ ।।

दुरासदा दानशीला द्राविणी द्रुहिणस्तुता ।।

दैत्यदानवसंशुद्धिकर्त्री दुर्बुद्धिहारिणी ।।८६।।

दानसारा दयासारा द्यावाभूमिविगाहिनी।।

दृष्टादृष्टफलप्राप्तिर्देवतावृंदवंदिता।।।। ८७ ।।

दीर्घव्रता दीर्घदृष्टिर्दीप्ततोया दुरालभा ।।

दंडयित्री दंडनीतिर्दुष्टदंडधरार्चिता ।। ८८ ।।

दुरोदरघ्नी दावार्चिर्द्रवद्रव्यैकशेवधिः ।।

दीनसंतापशमनी दात्री दवथुवैरिणी ।। ८९ ।।

दरीविदारणपरा दांता दांतजनप्रिया ।।

दारिताद्रितटा दुर्गा दुर्गारण्यप्रचारिणी ।। 4.1.29.९० ।।

धर्मद्रवा धर्मधुरा धेनुर्धीरा धृतिर्ध्रुवा ।।

धेनुदानफलस्पर्शा धर्मकामार्थमोक्षदा ।। ९१ ।।

धर्मोर्मिवाहिनी धुर्या धात्री धात्रीविभूषणम् ।।

धर्मिणी धर्मशीला च धन्विकोटिकृतावना ।। ९२ ।।

ध्यातृपापहरा ध्येया धावनी धूतकल्मषा ।।

धर्मधारा धर्मसारा धनदा धनवर्धिनी ।। ९३ ।।

धर्माधर्मगुणच्छेत्त्री धत्तूरकुसुमप्रिया ।।

धर्मेशी धर्मशास्त्रज्ञा धनधान्यसमृद्धिकृत् ।। ९४ ।।

धर्मलभ्या धर्मजला धर्मप्रसवधर्मिणी ।।

ध्यानगम्यस्वरूपा च धरणी धातृपूजिता ।। ९५ ।। ?

धूर्धूर्जटिजटासंस्था धन्या धीर्धारणावती।।

नंदा निर्वाणजननी नंदिनी नुन्नपातका ।। ।। ९६ ।।

निषिद्धविघ्ननिचया निजानंदप्रकाशिनी ।।

नभोंगणचरी नूतिर्नम्या नारायणीनुता ।। ९७ ।।

निर्मला निर्मलाख्याना नाशिनीतापसंपदाम् ।।

नियता नित्यसुखदा नानाश्चर्यमहानिधिः ।। ९८ ।।

नदीनदसरोमाता नायिका नाकदीर्घिका ।।

नष्टोद्धरणधीरा च नंदनानंददायिनी ।। ९९ ।।

निर्णिक्ताशेषभुवना निःसंगा निरुपद्रवा ।।

निरालंबा निष्प्रपंचा निर्णाशितमहामला ।। 4.1.29.१०० ।।

निर्मलज्ञानजननी निःशेषप्राणितापहृत् ।।

नित्योत्सवा नित्यतृप्ता नमस्कार्या निरंजना ।। १ ।।

निष्ठावती निरातंका निर्लेपा निश्चलात्मिका ।।

निरवद्या निरीहा च नीललोहितमूर्धगा ।। २ ।।

नंदिभृंगिगणस्तुत्या नागानंदा नगात्मजा ।।

निष्प्रत्यूहा नाकनदी निरयार्णवदीर्घनौः ।। ३ ।।

पुण्यप्रदा पुण्यगर्भा पुण्या पुण्यतरंगिणी ।।

पृथुः पृथुफला पूर्णा प्रणतार्तिप्रभंजिनी ।। ४ ।।

प्राणदा प्राणिजननी प्राणेशी प्राणरूपिणी ।।

पद्मालया पराशक्तिः पुरजित्परमप्रिया ।। ५ ।।

परापरफलप्राप्तिः पावनी च पयस्विनी ।।

परानंदा प्रकृष्टार्था प्रतिष्ठापालनी परा ।। ६ ।।

पुराणपठिता प्रीता प्रणवाक्षररूपिणी ।।

पार्वतीप्रेमसंपन्ना पशुपाशविमोचनी ।। ७ ।।

परमात्मस्वरूपा च परब्रह्मप्रकाशिनी ।।

परमानंदनिष्पंदा प्रायश्चित्तस्वरूपिणी ।। ८ ।।

पानीयरूपनिर्वाणा परित्राणपरायणा ।।

पापेंधनदवज्वाला पापारिः पापनामनुत् ।। ९ ।।

परमैश्वर्यजननी प्रज्ञा प्राज्ञा परापरा ।।

प्रत्यक्षलक्ष्मीः पद्माक्षी परव्योमामृतस्रवा ।। 4.1.29.११० ।।

प्रसन्नरूपा प्रणिधिः पूता प्रत्यक्षदेवता ।।

पिनाकिपरमप्रीता पग्मेष्ठिकमंडलुः ।। ११ ।।

पद्मनाभपदार्घ्येण प्रसूता पद्ममालिनी ।।

परर्द्धिदा पुष्टिकरी पथ्या पूर्तिः प्रभावती ।। १२ ।।

पुनाना पीतगर्भघ्नी पापपर्वतनाशिनी ।।

फलिनी फलहस्ता च फुल्लांबुजविलोचना ।। १३ ।।

फालितैनोमहाक्षेत्रा फणिलोकविभूषणम् ।।

फेनच्छलप्रणुन्नैनाः फुल्लकैरवगंधिनी ।। १४ ।।

फेनिलाच्छांबुधाराभा फुडुच्चाटितपातका ।।

फाणितस्वादुसलिला फांटपथ्यजलाविला ।। १५ ।।

विश्वमाता च विश्वेशी विश्वा विश्वेश्वरप्रिया ।।

ब्रह्मण्या ब्रह्मकृद्ब्राह्मी ब्रह्मिष्ठा विमलोदका ।। १६ ।।

विभावरी च विरजा विक्रांतानेकविष्टपा ।।

विश्वमित्रं विष्णुपदी वैष्णवी वैष्णवप्रिया ।। १७ ।।

विरूपाक्षप्रियकरी विभूतिर्विश्वतोमुखी ।।

विपाशा वैबुधी वेद्या वेदाक्षररसस्रवा ।। १८ ।।

विद्यावेगवती वंद्या बृंहणी ब्रह्मवादिनी ।।

वरदा विप्रकृष्टा च वरिष्ठा च विशोधनी ।। १९ ।।

विद्याधरी विशोका च वयोवृंदनिषेविता ।।

बहूदका बलवती व्योमस्था विबुधप्रिया ।। 4.1.29.१२० ।।

वाणी वेदवती वित्ता ब्रह्मविद्यातरंगिणी ।।

ब्रह्मांडकोटिव्याप्तांबुर्ब्रह्महत्यापहारिणी ।। २१ ।।

ब्रह्मेशविष्णुरूपा च बुद्धिर्विभववर्धिनी ।।

विलासिसुखदा वैश्या व्यापिनी च वृषारणिः ।। २२ ।।

वृषांकमौलिनिलया विपन्नार्तिप्रभंजिनी ।।

विनीता विनता ब्रध्नतनया विनयान्विता ।। २३ ।।

विपंचीवाद्यकुशला वेणुश्रुतिविचक्षणा ।।

वर्चस्करी बलकरी वलोन्मूलितकल्मषा ।। २४ ।।

विपाप्मा विगतातंका विकल्पपरिवर्जिता ।।

वृष्टिकर्त्री वृष्टिजला विधिर्विच्छिन्नबंधना ।। २५ ।।

व्रतरूपा वित्तरूपा बहुविघ्नविनाशकृत् ।।

वसुधारा वसुमती विचित्रांगी विभावसुः ।। २६ ।।

विजया विश्वबीजं च वामदेवी वरप्रदा ।।

वृषाश्रिता विषघ्नी च विज्ञानोर्म्यंशुमालिनी ।।२७ ।।

भव्या भोगवती भद्रा भवानी भूतभाविनी ।।

भूतधात्री भयहरा भक्तदारिद्र्यघातिनी ।। २८ ।।

भुक्तिमुक्तिप्रदाभेशी भक्तस्वर्गापवर्गदा ।।

भागीरथी भानुमती भाग्यभोगवती भृतिः ।। २९ ।।

भवप्रिया भवद्वेष्टी भूतिदा भूतिभूषणा ।।

भाललोचनभावज्ञा भूतभव्यभवत्प्रभुः ।। 4.1.29.१३० ।।

भ्रांतिज्ञानप्रशमनी भिन्नब्रह्मांडमंडपा ।।

भूरिदा भक्तिसुलभा भाग्यवद्दृष्टिगोचरी ।। ३१ ।।

भंजितोपप्लवकुला भक्ष्यभोज्यसुखप्रदा ।।

भिक्षणीया भिक्षुमाता भावाभावस्वरूपिणी ।। ।। ३२ ।।

मंदाकिनी महानंदा माता मुक्तितंरगिणी ।।

महोदया मधुमती महापुण्या मुदाकरी ।। ३३ ।।

मुनिस्तुता मोहहंत्री महातीर्था मधुस्रवा ।।

माधवी मानिनी मान्या मनोरथपथातिगा ।। ३४ ।।

मोक्षदा मतिदा मुख्या महाभाग्यजनाश्रिता ।।

महावेगवतीमेध्या महामहिमभूषणा ।। ३५ ।।

महाप्रभावा महती मीनचंचललोचना ।।

महाकारुण्यसंपूर्णा महर्द्धिश्च महोत्पला ।। ३६ ।।

मूर्तिमन्मुक्तिरमणी मणिमाणिक्यभूषणा ।।

मुक्ताकलापनेपथ्या मनोनयननंदिनी ।। ३७ ।।

महापातकराशिघ्नी महादेवार्धहारिणी ।।

महोर्मिमालिनी मुक्ता महादेवी मनोन्मनी ।। ३८।।

महापुण्योदयप्राप्या मायातिमिरचंद्रिका।।

महाविद्या महामाया महामेधा महौषधम् ।। ३९ ।।

मालाधरी महोपाया महोरगविभूषणा ।।

महामोहप्रशमनी महामंगलमंगलम्।। 4.1.29.१४०।।

मार्तंडमंडलचरी महालक्ष्मीर्मदोज्झिता ।।

यशस्विनी यशोदा च योग्या युक्तात्मसेविता ।। ४१ ।।

योगसिद्धिप्रदा याज्या यज्ञेशपरिपूरिता ।।

यज्ञेशी यज्ञफलदा यजनीया यशस्करी ।।४२।।

यमिसेव्या योगयोनिर्योगिनी युक्तबुद्धिदा ।।

योगज्ञानप्रदा युक्ता यमाद्यष्टांगयोगयुक् ।।४३।।

यंत्रिताघौघसंचारा यमलोकनिवारिणी।।

यातायातप्रशमनी यातनानामकृंतनी ।।४४।।

यामिनीशहिमाच्छोदा युगधर्मविवर्जिता ।।

रेवतीरतिकृद्रम्या रत्नगर्भा रमा रतिः ।।४५।।

रत्नाकरप्रेमपात्रं रसज्ञा रसरूपिणी।।

रत्नप्रासादगर्भा च रमणीयतरंगिणी।।४६।।

रत्नार्ची रुद्ररमणी रागद्वेषविनाशिनी।।

रमा रामा रम्यरूपा रोगिजीवातुरूपिणी।।४७।।

रुचिकृद्रोचनी रम्या रुचिरा रोगहारिणी ।।

राजहंसा रत्नवती राजत्कल्लोलराजिका ।।४८।।

रामणीयकरेखा च रुजारी रोगरोषिणी।।

राकारंकार्तिशमनी रम्या रोलंबराविणी ।। ४९ ।।

रागिणीरंजितशिवा रूपलावण्यशेवधिः ।।

लोकप्रसूर्लोकवंद्या लोलत्कल्लोलमालिनी ।। 4.1.29.१५० ।।

लीलावती लोकभूमिर्लोकलोचनचंद्रिका ।।

लेखस्रवंती लटभा लघुवेगा लघुत्वहृत् ।। ५१ ।।

लास्यत्तरंगहस्ता च ललिता लयभंगिगा ।।

लोकबंधुर्लोकधात्री लोकोत्तरगुणोर्जिता ।। ५२ ।।.

लोकत्रयहिता लोका लक्ष्मीर्लक्षणलक्षिता ।।

लीलालक्षितनिर्वाणा लावण्यामृतवर्षिणी ।। ५३ ।।

वैश्वानरी वासवेड्या वंध्यत्वपरिहारिणी ।।

वासुदेवांघ्रिरेणुघ्नी वज्रिवज्रनिवारिणी ।। ५४ ।।

शुभावती शुभफला शांतिः शांतनुवल्लभा ।।

शूलिनी शैशववयाः शीतलाऽमृतवाहिनी ।। ५५ ।।

शोभावती शीलवती शोषिताशेषकिल्बिषा ।।

शरण्या शिवदा शिष्टा शरजन्मप्रसूः शिवा ।। ५६ ।।

शक्तिः शशांकविमला शमनस्वसृसंमता ।।

शमा शमनमार्गघ्नी शितिकंठमहाप्रिया ।।५७।।

शुचिः शुचिकरी शेषा शेषशायिपदोद्भवा ।।

श्रीनिवास श्रुतिः श्रद्धा श्रीमती श्रीः शुभव्रता ।। ।। ५८ ।।

शुद्धविद्या शुभावर्ता श्रुतानंदा श्रुतिस्तुतिः ।।

शिवेतरघ्नी शबरी शांबरीरूपधारिणी ।। ५९ ।।

श्मशानशोधनी शांता शश्वच्छतधृतिष्टुता ।।

शालिनी शालिशोभाढ्या शिखिवाहनगर्भभृत् ।। 4.1.29.१६० ।।

शंसनीयचरित्रा च शातिताशेषपातका ।।

षड्गुणैश्वर्यसंपन्ना षडंगश्रुतिरूपिणी ।। ६१ ।।

षंढताहारि सलिलाष्ट्यायन्नदनदीशता ।।

सरिद्वरा च सुरसा सुप्रभा सुरदीर्घिका ।। ६२ ।।

स्वःसिंधुः सर्वदुःखघ्नी सर्वव्याधिमहौषधम् ।।

सेव्यासिद्धिः सती सूक्तिः स्कंदसूश्च सरस्वती ।।६३।।

संपत्तरंगिणी स्तुत्या स्थाणुमौलिकृतालया ।।

स्थैर्यदा सुभगा सौख्या स्त्रीषु सौभाग्यदायिनी ।। ६४ ।।

स्वर्गनिःश्रेणिका सूक्ष्मा स्वधा स्वाहा सुधाजला ।।

समुद्ररूपिणी स्वर्ग्या सर्वपातकवैरिणी ।। ६५ ।।

स्मृताघहारिणी सीता संसाराब्धितरंडिका ।।

सौभाग्यसुंदरी संध्या सर्वसारसमन्विता ।। ६६ ।।

हरप्रिया हृपीकेशी हंसरूपा हिरण्मयी ।।

हृताघसंघा हितकृद्धेला हेलाघगर्वहृत् ।।६७।।

क्षेमदा क्षालिताघौघा क्षुद्रविद्राविणी क्षमा ।।

इति नामसहस्रं हि गंगायाः कलशोद्भव ।।

कीर्तयित्वा नरः सम्यग्गंगास्नानफलं लभेत् ।।६८।।

सर्वपापप्रशमनं सर्वविघ्न विनाशनम् ।।

सर्वस्तोत्रजपाच्छ्रेष्ठं सर्वपावनपावनम् ।।६९।।

श्रद्धयाभीष्टफलदं चतुर्वर्गसमृद्धिकृत् ।।

सकृज्जपादवाप्नोति ह्येकक्रतुफलंमुने ।।4.1.29.१७०।।

सर्वतीर्थेषु यः स्नातः सर्वयज्ञेषु दीक्षितः ।।

तस्य यत्फलमुद्दिष्टं त्रिकालपठनाच्च तत् ।।७१।।

सर्वव्रतेषु यत्पुण्यं सम्यक्चीर्णेषु वाडव ।।

तत्फलं समवाप्नोति त्रिसंध्यं नियतः पठन् ।। ७२ ।।

स्नानकाले पठेद्यस्तु यत्रकुत्र जलाशये ।।

तत्र सन्निहिता नूनं गंगा त्रिपथगा मुने ।। ७३ ।।

श्रेयोर्थी लभते श्रेयो धनार्थी लभते धनम् ।।

कामी कामानवाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ।।७४।।

वर्षं त्रिकालपठनाच्छ्रद्धया शुचिमानसः ।।

ऋतुकालाभिगमनादपुत्रः पुत्रवान्भवेत् ।। ७५ ।।

नाकालमरणं तस्य नाग्निचोराहि साध्वसम् ।।

नाम्नां सहस्रं गंगाया यो जपेच्छ्रद्धया मुने ।। ७६ ।।

गंगा नाम सहस्रं तु जप्त्वा ग्रामांतरं व्रजेत् ।।

कार्यसिद्धिमवाप्नोति निर्विघ्नो गेहमाविशेत् ।।७७।।

तिथिवारर्क्षयोगानां न दोषः प्रभवेत्तदा ।।

यदा जप्त्वा व्रजेदेतत्स्तोत्रं ग्रामांतरं नरः ।। ७८।।

आयुरारोग्यजननं सर्वोपद्रवनाशनम्।।

सर्वसिद्धिकरं पुंसां गंगानामसहस्रकम् ।। ७९ ।।

जन्मांतर सहस्रेषु यत्पापं सम्यगर्जितम् ।।

गंगानामसहस्रस्य जपनात्तत्क्षयं व्रजेत् ।। 4.1.29.१८० ।।

ब्रह्मघ्नो मद्यपः स्वर्णस्तेयी च गुरुतल्पगः ।।

तत्संयोगी भ्रूणहंता मातृहा पितृहा मुने ।। ८१ ।।

विश्वासघाती गरदः कृतघ्नो मित्रघातकः ।।

अग्निदो गोवधकरो गुरुद्रव्यापहारकः ।। ८२ ।।

महापातकयुक्तोपि संयुक्तोप्युपपातकैः ।।

मुच्यते श्रद्धया जप्त्वा गंगा नाम सहस्रकम् ।। ८३ ।।

आधिव्याधिपरिक्षिप्तो घोर ताप परिप्लुतः ।।

मुच्यते सर्वदुःखेभ्यः स्तवस्यास्यानुकीर्तनात् ।। ८४ ।।

संवत्सरेण युक्तात्मा पठन्भक्तिपरायणः ।।

अभीप्सितां लभेत्सिद्धिं सर्वैः पापैः प्रमुच्यते ।। ८५ ।।

संशयाविष्टचित्तस्य धर्मविद्वेषिणोपि च ।।

दांभिकस्यापि हिंस्रस्य चेतो धर्मपरं भवेत् ।।८६।।

वर्णाश्रमपथीनस्तु कामक्रोधविवर्जितः ।।

यत्फलं लभते ज्ञानी तदाप्नोत्यस्य कीर्तनात् ।। ८७ ।।

गायत्र्ययुतजप्येन यत्फलं समुपार्जितम् ।।

सकृत्पठनतः सम्यक्तदशेषमवाप्नुयात् ।।८८।।

गां दत्त्वा वेदविदुषे यत्फलं लभते कृती ।।

तत्पुण्यं सम्यगाख्यातं स्तवराजसकृज्जपात् ।।८९।।

गुरुशुश्रूषणं कुर्वन्यावज्जीवं नरोत्तमः।।

यत्पुण्यमर्जयेत्तद्भाग्वर्षं त्रिषवणं जपन् ।।4.1.29.१९०।।

वेदपारायणात्पुण्यं यदत्र परिपठ्यते ।।

तत्षण्मासेन लभते त्रिसंध्यं परिकीर्तनात् ।। ९१ ।।

गंगायाः स्तवराजस्य प्रत्यहं परिशीलनात् ।।

शिवभक्तिमवाप्नोति विष्णुभक्तोऽथवा भवेत् ।। ९२ ।।

यः कीर्तयेदनुदिनं गंगानामसहस्रकम् ।।

तत्समीपे सहचरी गंगादेवी सदा भवेत् ।। ९३ ।।

सर्वत्र पूज्यो भवति सर्वत्र विजयी भवेत् ।।

सर्वत्र सुखमाप्नोति जाह्नवीस्तोत्रपाठतः ।। ९४ ।।

सदाचारी स विज्ञेयः सशुचिस्तु सदैव हि ।।

कृतसर्वसुरार्चः स कीर्तयेद्य इमां स्तुतिम् ।।९५।।

तस्मिंस्तृप्ते भवेत्तृप्ता जाह्नवी नात्र संशयः ।।

तस्मात्सर्वप्रयत्नेन गंगाभक्तं समर्चयेत् ।। ९६ ।।

स्तवराजमिमं गांगं शृणुयाद्यश्च वै पठेत् ।।

श्रावयेदथ तद्भक्तान्दंभलोभ विवर्जितः ।।९७।।

मुच्यते त्रिविधैः पापैर्मनोवाक्काय संभवैः ।।

क्षणान्निष्पापतामेति पितॄणां च प्रियो भवेत् ।।९८।।

सर्वदेवप्रियश्चापि सर्वर्षिगणसंमतः ।।

अंते विमानमारुह्य दिव्यस्त्रीशतसंवृतः ।। ९९ ।।

दिव्याभरणसंपन्नो दिव्यभोगसमन्वितः ।।

नंदनादिवने स्वैरं देववत्स प्रमोदते ।। 4.1.29.२०० ।।

भुज्यमानेषु विप्रेषु श्राद्धकाले विशेषतः ।।

जपन्निदं महास्तोत्रं पितॄणां तृप्तिकारकम् ।। १ ।।

यावंति तत्र सिक्थानि यावंतोंऽबुकणाः स्थिताः ।।

तावंत्येव हि वर्षाणि मोदंते स्वः पितामहाः ।। २ ।।

यथा प्रीणंति पितरो गंगायां पिंडदानतः ।।

तथैव तृप्नुयुः श्राद्धे स्तवस्यास्यानुसंश्रवात् ।। ३ ।।

एतत्स्तोत्रं गृहे यस्य लिखितं परिपूज्यते ।।

तत्र पापभयं नास्ति शुचि तद्भवनं सदा ।। ४ ।।

अगस्ते किंबहूक्तेन शृणु मे निश्चितं वचः ।।

संशयो नात्र कर्तव्यः संदिग्धे(?)रफलं नहि।।५।। (संदेग्धरि)

यावंति मर्त्ये स्तोत्राणि मंत्रजालान्यनेकशः ।।

तावंति स्तवराजस्य गांगेयस्य समानि न।।६।।

यावज्जन्म जपेद्यस्तु नाम्नामेतत्सहस्रकम्।।

स कीकटेष्वपि मृतो न पुनर्गर्भमाविशेत् ।।७।।

नित्यं नियमवानेतद्यो जपेत्स्तोत्रमुत्तमम् ।।

अन्यत्रापि विपन्नः स गंगातीरे मृतो भवेत् ।। ८ ।।

एतत्स्तोत्रवरं रम्यं पुरा प्रोक्तं पिनाकिना ।।

विष्णवे निजभक्ताय मुक्तिबीजाक्षरास्पदम्।। ९ ।।

गंगास्नानप्रतिनिधिः स्तोत्रमेतन्मयेरितम्।।

सिस्नासुर्जाह्नवीं तस्मादेतत्स्तोत्रं जपेत्सुधीः ।। २१० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे गंगासहस्रनामकथनंनामैकोनत्रिंशत्तमोऽध्यायः ।। २९ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 30

।। स्कंद उवाच ।। ।।

शृण्वगस्त्यमहाभाग स च राजा भगीरथः ।।

आराध्य श्रीमहादेवमुद्दिधीर्षुः पितामहान् ।।१।।

ब्रह्मशाप विनिर्दग्धान्सर्वान्राजर्षिसत्तमः ।।

महता तपसा भूमिमानिनाय त्रिवर्त्मगाम् ।। २ ।।

त्रयाणामपि लोकानां हिताय महते नृपः ।।

समानैषीत्ततो गंगां यत्रासीन्मणिकर्णिका ।। ३ ।।

आनंदकाननं शंभोश्चक्रपुष्करिणी हरेः ।।

परब्रह्मैकसुक्षेत्रं लीलामोक्षसमर्पकम् ।। ४ ।।

प्रापयामास तां गंगां दैलीपिः पुरतश्चरन् ।।

निर्वाणकाशनाद्यत्र काशीति प्रथिता पुरी ।। ५ ।।

अविमुक्तं महाक्षेत्रं न मुक्तं शंभुना क्वचित ।।

प्रागेव हि मुनेऽनर्घ्यं जात्यं जांबूनदं स्वयम् ।। ६ ।।

पुनर्वारितरेणापि हीरेणयदि संगतम् ।।

चक्रपुष्करणीतीर्थं प्रागेव श्रेयसांपदम् ।।७।।

ततः श्रेष्ठतरं शंभोर्मणिश्रवणभूषणात् ।।

आनंदकानने तस्मिन्नविमुक्ते शिवालये।। ।। ८ ।।

प्रागेव मुक्तिः संसिद्धा गंगासंगात्ततोधिका ।।

यदा प्रभृति सा गंगा मणिकर्ण्यां समागता ।। ९ ।।

तदाप्रभृति तत्क्षेत्रं दुष्प्रापं त्रिदशैरपि ।।

कृत्वा कर्माण्यनेकानि कल्याणानीतराणि वा ।। 4.1.30.१० ।।

तानि क्षणात्समुत्क्षिप्य काशीसंस्थोऽमृतोभवेत् ।।

तस्यां वेदांतवेद्यस्य निदिध्यासनतो विना ।। ११ ।।

विना सांख्येन योगेन काश्यां संस्थोऽमृतो भवेत् ।।

कर्मनिर्मूलनवता विना ज्ञानेन कुंभज ।। १२ ।।

शशिमौलिप्रसादेन काशीसंस्थोऽमृतो भवेत् ।।

यत्नतोऽयत्नतो वापि कालात्त्यक्त्वा कलेवरम् ।। १३ ।।

तारकस्योपदेशेन काशीसंस्थोऽमृतो भवेत् ।।

अनेकजन्मसंसिद्धैर्बद्धोऽपि प्राकृतैर्गुणैः ।। १४ ।।

असिसंभेद योगेन काशीसंस्थोऽमृतो भवेत् ।।

देहत्यागोऽत्र वै दानं देहत्यागोत्र वै तपः ।। १५८ ।।

देहत्यागोऽत्र वै योगः काश्यां निर्वाणसौख्यकृत् ।।

प्राप्योत्तरवहां काश्यामतिदुष्कृतवानपि ।। १६ ।।

यायात्स्वं हेलया त्यक्त्वा तद्विष्णोः परमं पदम् ।।

यमेंद्राग्निमुखा देवा दृष्ट्वा मुक्तिपथोन्मुखान् ।। १७ ।।

सर्वान्सर्वे समालोक्य रक्षां चक्रुः पुरापुरः ।।

असिं महासिरूपां च पाप्यसन्मतिखंडनीम् ।। १८ ।।

दुष्टप्रवेशं धुन्वानां धुनीं देवा विनिर्ममुः ।।

वरणां च व्यधुस्तत्र क्षेत्रविघ्ननिवारिणीम् ।। १९ ।।

दुर्वृत्तसुप्रवृत्तेश्च निवृत्तिकरणीं सुराः ।।

दक्षिणोत्तरदिग्भागे कृत्वाऽसिं वरणां सुराः ।। 4.1.30.२० ।।

क्षेत्रस्य मोक्षनिक्षेप रक्षां निर्वृतिमाप्नुयुः ।।

क्षेत्रस्य पश्चाद्दिग्भागे तं देहलिविनायकम् ।। २१ ।।

स्वयं व्यापारयामास रक्षार्थं शशिशेखरः ।।

अनुज्ञातप्रवेशानां विश्वेशेन कृपावता ।। २२ ।।

ते प्रवेशं प्रयच्छंति नान्येषां हि कदाचन ।।

इत्यर्थे कथयिष्येऽहमितिहासं पुरातनम् ।।

आश्चर्यकारिपरमं काशीभक्तिप्रवर्धनम् ।। २३ ।।

।। स्कंद उवाच ।। ।।

दक्षिणाब्धितटे कश्चित्सेतुबंधसमीपतः ।।

वणिग्धनंजयो नाम मातृभक्तिसमन्वितः ।। २४ ।।

पुण्यमार्गार्जित धनो धनतोषितमार्गणः ।।

मार्गणस्फारितयशा यशोदातनयार्चकः ।। २५ ।।

समुन्नतोपि संपत्त्या विनयानतकंधरः ।।

आकरोपि गुणानां हि गुणिष्वाकारगोपकः ।। २६ ।।

रूपसंपदुदारोपि परदारपराङ्मुखः ।।

ससंपूर्णकलोप्यासीन्निष्कलंकोदयः सदा ।। २७ ।।

ससत्यानृतवृत्तिश्च प्रायः सत्यप्रियो मुने ।।

वर्णेतरोप्यभूल्लोके सुवर्णकृतवर्णनः ।। २८ ।।

सदाचरणगोप्येष सुखयानचरः कृती ।।

अदरिद्रोपि मेधावी सोभूत्पापदरिद्रधीः ।। २९ ।।

तस्यैवं वर्तमानस्य कदाचित्कालपर्ययात् ।।

जननी निधनं प्राप्ता व्याधिताऽतिजरातुरा ।।4.1.30.३० ।।

तया च यौवनं प्राप्य मेघच्छायातिचंचलम् ।।

प्रावृण्नदीपूरसमं स्वपतिः परिवंचितः ।। ३१ ।।

दिन त्रिचतुरस्थायि या नारी प्राप्य यौवनम्।।

भर्तारं वंचयेन्मोहात्साऽक्षयं नरकं व्रजेत् ।। ३२ ।।

शीलभंगेन नारीणां भर्ताधर्मपरोपि हि ।।

पतेद्दुःखार्जितात्स्वर्गाच्छीलं रक्ष्यं ततः स्त्रिया ।। ३३ ।।

विष्ठागर्ते च निरये स्वयं पतति दुर्मतिः ।।

आभूतसंप्लवं यावत्ततः स्याद्ग्रामसूकरी ।।३४।।

स्वविष्ठापायिनी चाथ वल्गुली वृक्षलंबिनी।।

उलूकी वा दिवांधा स्याद्वृक्षकोटरवासिनी ।। ।। ३५ ।।

रक्षणीयं महायत्नादिदं सुकृतभाजनम् ।।

वपुः परस्य दुःस्पर्शात्सुखाभासात्मकात्स्त्रिया ।। ३६ ।।

अनेनैव शरीरेण भर्तृसाद्विहितेन हि ।।

किं सती न च तस्तंभ भानुमुद्यंतमाज्ञया ।। ३७ ।।

अत्रिपत्न्यनसूया किं भर्तृभक्तिप्रभावतः ।।

दधार न त्रयीं गर्भे पतिव्रत परायणा ।। ३८ ।।

इह कीर्तिश्च विपुला स्वर्गेवासस्तथाऽक्षयः ।।

पातिव्रत्यात्स्त्रिया लभ्यं सखित्वं च श्रिया सह ।। ३९ ।।

सादुर्वृत्त्या परित्यज्य पतिधर्मं सनातनम् ।।

स्वच्छंदचारिणी भूत्वामृतानिरयमुद्ययौ ।। 4.1.30.४० ।।

धनंजयोपि च मुने केनचिच्छिवयोगिना ।।

सार्धं तपोदयादित्थं सोऽभवद्धर्मतत्परः ।।४१।।

धनंजयोपि धर्मात्मा मातृभक्तिपरायणः ।।

आदायास्थीन्यथो मातुर्गंगा मार्गस्थितोऽभवत् ।।४२।।

पंचगव्येन संस्नाप्य ततः पंचामृतेन वै ।।

यक्षकर्दमलेपेन लिप्त्वा पुष्पैः प्रपूज्य च ।। ४३ ।।

आवेष्ट्य नेत्रवस्त्रेण ततः पट्टांबरेण वै ।।

ततः सुरसवस्त्रेण ततो मांजिष्ठवाससा ।।४४।।

नेपालकंबलेनाथ मृदाचाऽथ विशुद्धया ।।

ताम्रसंपुटके कृत्वा मातुरंगान्यहो वणिक् ।। ४५ ।।

अस्पृष्टहीनजातिः स शुचिष्मान्स्थंडिलेशयः ।।

आनयञ्ज्वरितोप्यासीन्मध्ये मार्गं धनंजयः ।।४६।।

भारवाहः कृतस्तेन कश्चिद्दत्त्वोचितां भृतिम् ।।

किं बहूक्तेन घटज काशी प्राप्ताऽथ तेन वै ।। ४७ ।।

धृत्वा संभृतिरक्षार्थं भारवाहं धनंजयः ।।

जगामापणमानेतुं किंचिद्वस्त्वशनादिकम् ।। ४८ ।।

भारवाह्यंतरं प्राप्य तस्य संभृतिमध्यतः ।।

ताम्रसंपुटमादाय धनं ज्ञात्वा गृहं ययौ ।। ४९ ।।

वासस्थानमथागत्य तमदृष्ट्वा धनंजयः ।।

त्वरावान्संभृतिं वीक्ष्य ताम्रसंपुटवर्जिताम् ।। 4.1.30.५० ।।

हाहेत्याताड्य हृदयं चक्रंद बहुशो भृशम् ।।

इतस्ततस्तमालोक्य गतस्तदनुसारतः ।। ५१ ।।

अकृत्वा जाह्नवीस्नानमनवेक्ष्य जगत्पतिम् ।।

तस्य संवसथं प्राप्तो भारवोढुर्धनंजयः ।। ५२ ।।

भारवाडप्यरण्यान्यां ताम्रसंपुटमध्यतः।।

दृष्ट्वास्थीनि विनिःश्वस्य तानि त्यक्त्वा गृहं ययौ। ।।५३।।

वणिक्च तद्गृहं प्राप्य शुष्ककंठोष्ठतालुकः ।।

दृष्ट्वाऽथ चैलशकलं तृणकुट्यंतरे तदा ।।५४।।

आशया किंचिदाश्वस्य तत्पत्नीं परिपृष्टवान् ।।

सत्यं ब्रूहि न भेतव्यं दास्याम्यन्यदपि ध्रुवम् ।। ५५ ।।

वसु क्व ते गतो भर्ता मातुरस्थीनिमेऽर्पय ।।

वयं कार्पटिका भद्रे भवामो न च दुःखदाः ।। ५६ ।।

अज्ञात्वा लोभवशतस्तेन नीतोऽस्थिसंपुटः ।।

तस्यैष दोषो नो भद्रे मातुर्मे कर्म तादृशम् ।।५७।।

अथवा न प्रसू दोषो मंदभाग्योऽस्मि तत्सुतः ।।

सुतेनकृत्यं यत्कृत्यं तत्प्राप्तिर्नास्ति भिल्लि मे ।।५८।।

उद्यमं कृतवानस्मि न सिद्ध्येन्मंदभाग्यतः ।।

आयातु सत्यवाक्यान्मे मा बिभेतु वनेचरः ।। ।। ५९ ।।

अस्थीनि दर्शयत्वाशु धनं दास्येऽधिकं ततः ।।

इत्युक्ता तेन सा भिल्ली व्याजहार निजं पतिम् ।। 4.1.30.६० ।।

लज्जानम्रशिराःसोऽथ वृत्तांतं विनिवेद्य च ।।

निनाय तामरण्यानीं शबरस्तं धनंजयम् ।।६१।।

वनेचरोऽथ तत्स्थानं दैवाद्विस्मृतवान्मुने ।।

दिग्भ्रांतिं समवाप्याथ परिबभ्राम कानने ।।६२।।

इतोरण्यात्ततो याति ततोरण्यादितो व्रजेत् ।।

वनाद्वनांतरं भ्रांत्वा खिन्नः सोपि वनेचरः ।। ६३ ।।

विहाय मध्येऽरण्यानि तं ययौ च स्वपक्कणम् ।।

द्वित्राण्यहानि संभ्रम्य स कार्पटिकसत्तमः ।। ६४ ।।

क्षुत्क्षामः शुष्ककंठोष्ठो हाहेति परिदेवयन् ।।

पुनः काशीपुरीं प्राप्तः परिम्लानमुखो वणिक् ।।८ ६५ ।।

तन्मंदभाग्यतां श्रुत्वा लोकात्कार्पटिको मुने ।।

कृत्वा गयां प्रयागं च ततः स्वविषयं ययौ ।। ६६ ।।

काश्यां प्रवेशं प्राप्यापि तदस्थीनि घटोद्भव ।।

विना वैश्वेश्वरीमाज्ञां बहिर्यातानि तत्क्षणात् ।। ।। ६७ ।।

एवं काश्यां प्रविश्यापि पापी धर्मानुषंगतः ।।

न क्षेत्रफलमाप्नोति बहिर्भवति तत्क्षणात् ।। ६८ ।।

तस्माद्विश्वेश्वराज्ञैव काशीवासेऽत्र कारणम् ।।

असिश्च वरणा यत्र क्षेत्ररक्षाकृतौ कृते ।। ६९ ।।

वाराणसीति विख्याता तदारभ्य महामुने ।।

असेश्च वरणायाश्च संगमं प्राप्य काशिका ।। 4.1.30.७० ।।

वाराणसीह करुणामयदिव्यमूर्तिरुत्सृज्य यत्र तु तनुं तनुभृत्सुखेन ।।

विश्वेशदृङ्महसि यत्सहसा प्रविश्य रूपेण तां वितनुतां पदवीं दधाति ।। ७१ ।।

जातो मृतो बहुषु तीर्थवरेषु रे त्वं जंतो न जातु तव शांतिरभून्निमज्य ।।

वाराणसी निगदतीह मृतोऽमृतत्वं प्राप्याधुना मम बलात्स्मरशासनः स्याः ।। ७२ ।।

अन्यत्र तीर्थ सलिले पतितोद्विजन्मा देवादिभावमयते न तथा तु काश्याम् ।।

चित्रं यदत्र पतितः पुनरुत्थितिं न प्राप्नोति पुल्कसजनोपि किमग्र जन्मा ।। ७३ ।।

नैषा पुरी संसृतिरूपपारावारस्य पारं पुरहा पुरारिः ।।

यस्यां परं पौरुषमर्थमिच्छन्सिद्धिं नयेत्पौरपरंपरांसः ।। ७४ ।।

तीर्थांतराणि मनुजः परितोऽवगाह्य हित्वा तनुं कलुषितां दिवि दैवतं स्यात् ।।

वाराणसीपरिसरे तु विसृज्य देहं संदेहभाग्भवति देहदशाप्तयेपि ।। ७५ ।।

वाराणसी समरसीकरणादृतेपि योगादयोगिजनतां जनतापहंत्री ।।

तत्तारकं श्रवणगोचरतां नयंती तद्बह्मदर्शयति येन पुनर्भवो न ।। ७६ ।।

वाराणसी परिसरे तनुमिष्टदात्रीं धर्मार्थकामनिलयामहहाविसृज्य ।।

इष्टं पदं किमपि हृष्टतरोभिलष्य लाभोस्तुमूलमपि नो यदवाप शून्यम् ।। ७७ ।।

आःकाशिवासिजनता ननु वंचिताभूद्भाले विलोचनवतावनितार्धभाजा ।।

आदाय यत्सन्ध्यकृतभाजनमिष्टदेहं निर्वाणमात्रमपवर्जयतापुनर्भु ।। ७८ ।।

वाराणसी स्फुरदसीमगुणैकभूमिर्यत्र स्थितास्तनुभृतःशशिभृत्प्रभावात् ।।

सर्वे गले गरलिनोऽक्षियुजो ललाटे वामार्धवामतनवोऽतनवस्ततोंऽते ।। ७९ ।।

आनंदकाननमिदं सुखदं पुरैव तत्त्रापि चक्रसरसी मणिकर्णिकाऽथ।।

स्वः सिंधुसंगतिरथो परमास्पदं च विश्वेशितुः किमिह तन्न विमुक्तये यत्।। 4.1.30.८०।।

वाराणसीह वरणासि सरिद्वरिष्ठा संभेदखेदजननी द्युनदी लसच्छ्रीः ।।

विश्रामभूमिरचलाऽमलमोक्षलक्ष्म्याहैनां विहाय किमुसीदति मूढजंतुः ।। ८१ ।।

किं विस्मृतं त्वहहगर्भजमामनस्यं कार्तांतदूतकृतबंधन ताडनं च ।।

शंभोरनुग्रह परिग्रह लभ्य काशीं मूढो विहाय किमु याति करस्थ मुक्तिम् ।। ८२ ।।

तीर्थांतराणि कलुषाणि हरति सद्यः श्रेयो ददत्यपि बहु त्रिदिवं नयंति ।।

पानावगाहनविधानतनुप्रहाणैर्वाराणसी तु कुरुते बत मूलनाशम्।।८३ ।।

काशीपुरी परिसरे मणिकर्णिकायां त्यक्त्वा तनुं तनुभृतस्तनुमाप्नुवंति ।।

भाले विलोचनवतीं गलनीललक्ष्मीं वामार्धबंधुरवधूं विधुरावरोधाः ।। ८४ ।।

ज्ञात्वा प्रभावमतुलं मणिकर्णिकायां यः पुद्गलं त्यजति चाशुचिपूयगंधि ।।

स्वात्मावबोधमहसा सहसा मिलित्वा कल्पांतरेष्वपि स नैव पृथक्त्वमेति ।। ८५ ।।

रागादिदोषपरिपूर मनो हृषीकाः काशीपुरीमतुलदिव्यमहाप्रभावाम् ।।

ये कल्पयंत्यपरतीर्थसमां समंतात्ते पापिनो न सह तैः परिभाषणीयम् ।। ८६ ।।

वाराणसीं स्मरहरप्रियराजधानीं त्यक्त्वा कुतो व्रजसि मूढ दिगंतरेषु ।।

प्राप्याप्यजाद्यसुलभांस्थिरमोक्षलक्ष्मीं लक्ष्मीं स्वभावचपलां किमु कामयेथाः ।। ८७ ।।

विद्या धनानि सदनानि गजाश्वभृत्याः स्रक्चंदनानि वनिताश्च नितांत रम्याः ।।

स्वर्गोप्यगम्य इह नोद्यमभाजिपुंसि वाराणसीत्वसुलभा शलभादिमुक्तिः।

धात्रा धृतानि तुलया तुलनामवैतुं वैकुंठमुख्यभुवनानि च काशिका च ।।

तान्युद्ययुर्लघुतयान्यगियं गुरुत्वात्तस्थौ पुरीह पुरुषार्थचतुष्टयस्य ।। ८९ ।।

काशी पुरीमधिवसन्द्रिनरोनरोपिह्मारोप्यमाणइहमान्यहवैकरुद्रः ।।

नानोपसर्गजनिसर्गजदुःखभारैःकर्मापनुद्यसविशेत्परमेशधाम्नि ।। 4.1.30.९० ।।

स्थिरापायं कायं जननमरणक्लेशनिलयं विहायास्यां काश्यामहहपरिगृह्णीत न कुतः ।।

वपुस्तेजोरूपं स्थिरतरपरानंदसदनं विमूढोऽसौ जंतुः स्फुटितमिवकांम्यं विनिमयन् ।। ९१ ।।

अहो लोकः शोकं किमिह सहते हंतहतधीर्विपद्भारैः सारैर्नियतनिधनैर्ध्वसित धनैः ।।

क्षितौ सत्यां काश्यां कथयति शिवो यत्र निधने श्रुतौ किंचिद्भूयः प्रविशति न येनोदरदरीम् ।। ९२ ।।

काशिवासिनिजने वनेचरेद्वित्रिभुज्यपि समीरभोजने ।।

स्वैरचारिणि जितेंद्रियेप्यहो काशिवासिनि जने विशिष्टता ।। ९३ ।।

नास्तीह दुष्कृतकृतां सुकृतात्मनां वा काचिद्विशेषगतिरंतकृतां हि काश्याम् ।।

बीजानि कर्मजनितानि यदूषरायां नांकूरंयति हरदृग्ज्वलितानितेषाम् ।। ९४ ।।

शशका मशका बकाः शुकाः कलविंकाश्च वृकाः सजंबुकाः ।।

तुरगोरग वानरानरा गिरिजे काशिमृताः परामृतम् ।। ९५ ।।

अरुद्ररुद्राक्षफणींद्रभूषणास्त्रिपुंड्रचंद्रार्धधराधरागताः ।।

निरंतरं काशिनिवासिनोजना गिरींद्रजे पारिषदा मता मम ।। ९६ ।।

यावंत एव निवसंति च जंतवोऽत्र काश्यां जलस्थलचरा झषजंबुकाद्याः ।।

तावंत एव मदनुग्रह रुद्रदेहा देहावसानमधिगम्य मयि प्रविष्टाः ।। ९७ ।।

ये तु वर्षेषवोरुद्रा दिवि देवि प्रकीर्तिताः ।।

वातेषवोंऽतरिक्षे ये ये भुव्यन्नेषवः प्रिये ।। ९८ ।।

रुद्रा दश दश प्राच्यवाची प्रत्यगुदक्स्थिताः ।।

ऊर्ध्वदिक्स्थाश्च ये रुद्राः पठ्यंते वेदवादिभिः ।। ९९ ।।

असंख्याताः सहस्राणि ये रुद्रा अधिभूतले ।।

तत्सर्वेभ्योऽधिका काश्यां जंतवो रुद्ररूपिणः ।।4.1.30.१००।।

रुद्रावासस्ततः प्रोक्तमविमुक्तं घटोद्भव ।।

तस्मात्समर्च्य काशिस्थान्वर्णान्वर्णेतराश्रमान्।। १ ।।

श्रद्धयेश्वरबुद्ध्या च रुद्रार्चा फलभाङ्नरः ।। २ ।।

श्म शब्देन शवः प्रोक्तः शानं शयनमुच्यते।।

निर्वचंति श्मशानार्थं मुने शब्दार्थकोविदाः ।। ३ ।।

महांत्यपि च भूतानि प्रलये समुपस्थिते ।।

शेरतेऽत्र शवा भूत्वा श्मशानं तु ततो महत् ।। ४ ।।

अप्सु भूरिह लये लयं व्रजेदाप और्ववदनोग्रकंदरे ।।

मातरिश्वनि महातनूनपाद्व्योम्नि संक्षयति वै सदागतिः ।। ५ ।।

व्योम चापि लयमेत्यहंकृतौ सापि षोडशविकारसंयुता ।।

लीयते महति बुद्धिसंज्ञकेहा महान्प्रकृतिमध्यगो भवेत् ।। ६।।

सा गुणत्रयमयी च निर्गुणं तं पुमांसमवगुह्य तिष्ठति ।।

पंचविंशतितमः परः पुमान्देहगेहपतिरेष जीवकः ।। ७ ।।

प्राकृतः प्रलय एष उच्यते हंसयान हरि रुद्रवर्जितः ।।

कालमूर्तिरथ तं च पूरुषं हेलया कलयतीश्वरः परः ।। ८ ।।

स वै महाविष्णुरितीर्यते बुधैस्तं वै महादेवमुदाहरंति ।।

सोंऽतादिमध्यैः परिवर्जितः शिवः स श्रीपतिः सोपि हि पार्वतीपतिः ।। ९ ।।

दैनंदिनेऽथ प्रलये त्रिशूलकोटौ समुत्क्षिप्य पुरीं हरः स्वाम् ।।

बिभर्ति संवर्त महास्थिभूषणस्ततो हि काशी कलिकालवर्जिता ।। 4.1.30.११० ।।

।। स्कंद उवाच ।। ।।

वाराणसीति काशीति रुद्रावास इति द्विज ।।

महाश्मशानमित्येवं प्रोक्तमानंदकाननम् ।।११।।

इति देवीपुरः प्रोक्तं देवदेवेन शंभुना ।।

यथाविष्णोः पुराख्यातं तथैव च मया श्रुतम् ।।

तच्च त्वदग्रे कथितं रहस्यं काशिजं महत् ।।१२।।

जप्त्वाध्यायमिमं पुण्यं महापातकनाशनम् ।।

श्रावयित्वा द्विजान्सम्यक्छिवलोके महीयते ।। १३ ।।

अतः परं कलशज किं शुश्रूषसि तद्वद ।।

काशीकथा कथ्यमाना ममापि परितोषकृत् ।। ११४ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे वाराणसीमहिमवर्णनं नाम त्रिंशत्तमोऽध्यायः ।। ३० ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 31

।। अगस्त्य उवाच ।। ।।

सर्वज्ञ हृदयानंद स्कंदस्कंदित तारक ।।

न तृप्तिमधिगच्छामि शृण्वन्वाराणसीकथाम् ।। १ ।।

अनुग्रहो यदि मयि योग्योस्मि श्रवणे यदि ।।

तदा कथय मे नाथ काश्यां भैरव संकथाम् ।। २ ।।

कोसौ भैरवनामात्र काशिपुर्यां व्यवस्थितः ।।

किं रूपमस्य किं कर्म कानि नामानि चास्य वै ।।३।।

कथमाराधितश्चैव सिद्धिदः साधकस्य वै ।।

आराधितः कुत्र काले क्षिप्रं सिद्ध्यति भैरवः ।। ४ ।।

।। स्कंद उवाच ।। ।।

वाराणस्यां महाभाग यथा ते प्रेम वर्तते ।।

तथा न कस्यचिन्मन्ये ततो वक्ष्याम्यशेषतः ।। ५ ।।

प्रादुर्भावं भैरवस्य महापातकनाशनम् ।।

यच्छ्रुत्वा काशिवासस्य फलं निर्विघ्रमाप्नुयात् ।। ६ ।।

पाणिभ्यां परितः प्रपीड्य सुदृढं निश्चोत्य निश्चोत्य च ब्रह्मांडं सकलं पचेलिमरसालोच्चैः फलाभं मुहुः ।।

पायंपायमपायतस्त्रिजगतीमुन्मत्तवत्तै रसैर्नृत्यंस्तांडवडंबरेण विधिनापायान्महाभैरवः ।। ७ ।।

कुंभयोने न वेत्त्येव महिमानं महेशितुः ।।

चतुर्भजोपि वैकुंठश्चतुर्वक्त्रोपि विश्वकृत् ।। ८ ।।

न चित्रमत्र भूदेव भवमाया दुरत्यया ।।

तया संमोहिताः सर्वे नावयंत्यपि तं परम् ।। ९ ।।

वेदयेद्यदिचात्मानं स एव परमेश्वरः ।।

तदा विंदंति ब्रह्माद्याः स्वेच्छयैव न तं विदुः ।। 4.1.31.१० ।।

स सर्वगोपि नेक्ष्येत स्वात्मारामो महेश्वरः ।।

देववद्बुध्यते मूढैरतीतो यो मनोगिराम् ।। ११ ।।

पुरा पितामहं विप्र मेरुशृंगे महर्षयः ।।

प्रोचुः प्रणम्य लोकेशं किमेकं तत्त्वमव्ययम् ।। १२ ।।

समा यया महेशस्य मोहितो लोकसंभवः ।।

अविज्ञाय परं भावमात्मानं प्राह वर्पिणम् ।। १३ ।।

जगद्योनिरहं धाता स्वयंभूरेक ईश्वरः ।।

अनादिमदहं ब्रह्म मामनर्च्य न मु च्यते ।। १४ ।।

प्रवर्तको हि जगतामहमेको निवर्तकः ।।

नान्यो मदधिकः सत्यं कश्चित्कोपि सुरोत्तमाः ।। १५ ।।

तस्यैवं ब्रुवतो धातुः क्रतुर्नारायणांशजः ।।

प्रोवाच प्रहसन्वाक्यं रोषताम्रविलोचनः ।। १६ ।।

अविज्ञाय परं तत्त्वं किमेतत्प्रतिपाद्यते ।।

अज्ञानं योगयुक्तस्य न चैतदुचितं तव ।। १७ ।।

अहं कर्ता हि लोकानां यज्ञो नारायणः परः ।।

न मामनादृत्य विधे जीवनं जगतामज ।। १८ ।।

अहमेव परं ज्योतिरहमेव परा गतिः ।।

मत्प्रेरितेन भवता सृष्टिरेषा विधीयते ।। ।। १९ ।।

एवं विप्र कृतौ मोहात्परस्परजयैषिणौ ।।

पप्रच्छतुः प्रमाणज्ञानागमांश्चतुरोपि तौ ।। 4.1.31.२० ।।

।। विधिक्रतू ऊचतुः ।। ।।

वेदाः प्रमाणं सर्वत्र प्रतिष्ठां परमामिताः ।।

यूयमेव न संदेहः किं तत्त्वं प्रतितिष्ठत ।। २१ ।।

श्रुतय ऊचुः ।। ।।

यदि मान्या वयं देवौ सृष्टिस्थितिकरौ विभू ।।

तदा प्रमाणं वक्ष्यामो भवत्संदेहभेदकम् ।। २२ ।।

श्रुत्युक्तमिदमाकर्ण्य प्रोचतुस्तौ श्रुतीः प्रति ।।

युष्मदुक्तं प्रमाणं नौ किं तत्त्वं सम्यगुच्यताम् ।। २३ ।।

ऋगुवाच ।। ।।

यदंतःस्थानि भूतानि यतः सर्वं प्रवर्तते ।।

यदाहुस्तत्परं तत्त्वं स रुद्रस्त्वेक एव हि ।। २४ ।।

।। यजुरुवाच ।। ।।

यो यज्ञैरखिलैरीशो योगेन च समिज्यते ।।

येन प्रमाणं हि वयं स एकः सर्वदृक्छिवः ।।२५।।

।। सामोवाच ।। ।।

येनेदं भ्रश्यते विश्वं योगिभिर्यो विचिंत्यते ।।

यद्भासा भासते विश्वं स एकस्त्र्यंबकः परः ।। २६ ।।

।। अथर्वोवाच ।। ।।

यं प्रपश्यंति देवेशं भक्त्यानुग्रहिणो जनाः ।।

तमाहुरेकं कैवल्यं शंकरं दुःखतस्करम् ।। २७ ।।

श्रुतीरितं निशम्येत्थं तावतीव विमोहितौ ।।

स्मित्वाहतुः क्रतु विधीमोहाध्येनांकितौ मुने ।। २८ ।।

कथं प्रमथनाथोसौ रममाणो निरंतरम्।।

दिगंबरः पितृवने शिवया धूलिधूसरः ।। २९ ।।

विटंकवेशो जटिलो वृषगोव्यालभूषणः ।।

परं ब्रह्मत्वमापन्नः क्व च तत्संगवर्जितम्।। 4.1.31.३० ।।

तदुदीरितमाकर्ण्य प्रणवात्मा सनातनः ।।

अमूर्तो मूर्तिमान्भूत्वा हसमान उवाच तौ ।। ३१ ।।

प्रणव उवाच ।।

न ह्येष भगवाञ्छक्त्या स्वात्मनो व्यतिरिक्तया ।।

कदाचिद्रमते रुद्रो लीलारूपधरो हरः ।। ३२ ।।

असौ हि भगवानीशः स्वयंज्योतिः सनातनः ।।

आनंदरूपा तस्यैषा शक्तिर्नागंतुकी शिवा ।। ३३ ।।

इत्येवमुक्तेपि तदा मखमूर्तेरजस्य हि ।।

नाज्ञानमगमन्नाशं श्रीकंठस्यैव मायया ।। ३४ ।।

प्रादुरासीत्ततो ज्योतिरुभयोरंतरे महत् ।।

पूरयन्निजया भासा द्यावाभूम्योर्यदंतरम्।। ३५ ।।

ज्योतिर्मंडलमध्यस्थो ददृशे पुरुषाकृतिः ।।

प्रजज्वालाथ कोपेन ब्रह्मणः पंचमं शिरः ।। ३६ ।।

आवयोरंतरं कोसौ बिभृयात्पुरुषाकृतिम् ।।

विधिः संभावयेद्यावत्तावत्स हि विलोकितः ।। ३७ ।।

स्रष्टा क्षणेन च महान्पुरुषो नीललोहितः ।।

त्रिशूलपाणिर्भालाक्षो नागोडुपविभूषणः ।। ३८ ।।

हिरण्यगर्भस्तं प्राह जाने त्वां चंद्रशेखरम् ।।

भालस्थलान्ममपुरा रुद्रः प्रादुरभूद्भवान् ।। ३९ ।।

रोदनाद्रुद्रनामापि योजितोसि मया पुरा ।।

मामेव शरणं याहि पुत्र रक्षां करोमि ते ।। 4.1.31.४० ।।

अथेश्वरः पद्मयोनेः श्रुत्वा गर्ववतीं गिरम्।।

सकोपतः समुत्पाद्य पुरुषं भैरवाकृतिम् ।। ४१ ।।

प्राह पंकजजन्मासौ शास्यस्ते कालभैरव ।।

कालवद्राजसे साक्षात्कालराजस्ततो भवान् ।। ४२ ।।

विश्वं भर्तुं समर्थोऽसि भरणाद्भैरवः स्मृतः ।।

त्वत्तो भेष्यति कालोपि ततस्त्वं कालभैरवः ।। ४३ ।।

आमर्दयिष्यति भवांस्तुष्टो दुष्टात्मनो यतः ।।

आमर्दक इति ख्याति ततः सर्वत्र यास्यति ।। ४४ ।।

यतः पापानि भक्तानां भक्षयिष्यति तत्क्षणात् ।।

पापभक्षण इत्येव तव नाम भविष्यति ।। ४५ ।।

या मे मुक्तिपुरी काशी सर्वाभ्योपि गरीयसी ।।

आधिपत्यं च तस्यास्ते कालराज सदैव हि ।।४६।।

तत्र ये पापकर्तारस्तेषां शास्ता त्वमेव हि ।।

शुभाशुभं न तत्कर्म चित्रगुप्तो लिखिष्यति ।। ४७ ।।

एतान्वरान्प्रगृह्याऽथ तत्क्षणात्कालभैरवः ।।

वामांगुलिनखाग्रेण चकर्त च शिरो विधेः ।। ४८ ।।

यदंगमपराध्नोति कार्यं तस्यैव शासनम् ।।

अतो येन कृता निंदा तच्छिन्नं पचमं शिरः ।। ४९ ।।

यज्ञमूर्तिधरो विष्णुस्ततस्तुष्टाव शंकरम् ।।

भीतो हिरण्यगर्भोपि जजाप शतरुद्रियम् ।। 4.1.31.५० ।।

आश्वास्य तौ महादेवः प्रीतः प्रणतवत्सलः ।।

प्राह स्वां मूर्तिमपरां भैरवं तं कपर्दिनम् ।। ५१ ।।

मान्योऽध्वरोसौ भवता तथा शतधृतिस्त्वयम् ।।

कपालं वैधसं चापि नीललोहित धारय ।। ५२ ।।

ब्रह्महत्यापनोदाय व्रतं लोकाय दर्शयन्।।

चर त्वं सततं भिक्षां कापालव्रतमास्थितः ।।

इत्युक्त्वांऽतर्हितो देवस्तेजोरूपस्तदा शिवः ।। ५३ ।।

उत्पाद्य कन्यामेकां तु ब्रह्महत्येति विश्रुताम् ।।

रक्तांबरधरां रक्तां रक्तस्रग्गंधलेपनाम्।। ५४ ।।

दंष्टाकरालवदनां ललज्जिह्वातिभीषणाम् ।।

अंतरिक्षैकपादाग्रां पिबंतीं रुधिरं बहु ।।५५।।

कर्त्रीं कर्परहस्ताग्रां स्फुरत्पिंगोग्रतारकाम् ।।

गर्जयंतीं महावेगां भैरवस्यापिभीषणाम् ।। ५६ ।।

यावद्वाराणसीं दिव्यां पुरीमेष गमिष्यति ।।

तावत्त्वं भीषणे कालमनुगच्छोग्ररूपिणि ।। ५७ ।।

सर्वत्र ते प्रवेशोस्ति त्यक्त्वा वाराणसीं पुरीम्।।

नियोज्यतामिति शिवोप्यंतर्धानं गतस्ततः ।। ५८ ।।

तत्सान्निध्याद्भैरवोपि कालोभूत्कालकालतः ।।

स देवदेववाक्येन बिभ्रत्कापालिकं व्रतम्।। ५९ ।।

कपालपाणिर्विश्वात्मा चचार भुवनत्रयम्।।

नात्याक्षीच्चापि तं देवं ब्रह्महत्या सुदारुणा ।। 4.1.31.६० ।।

सत्यलोकेपि वैकुंठे महेंद्रादि पुरीष्वपि ।।

त्रिजगत्पतिरुग्रोपि व्रती त्रिजगतीश्वरः ।।६१।।

प्रतितीर्थं भ्रमन्नापि विमुक्तो ब्रह्महत्यया ।।६२।।

अनेनैवानुमानेन महिमा त्ववगम्यताम् ।।

ब्रह्महत्यापनोदिन्याः काश्याः कलशसंभव ।। ६३ ।।

संति तीर्थान्यनेकानि बहून्यायतनानि च ।।

अधि त्रिलोकिनो काश्याः कलामर्हंति षोडशीम् ।। ६४ ।।

तावद्गर्जंति पापानि ब्रहत्यादिकान्यलम् ।।

यावन्नाम न शृण्वंति काश्याः पापाचलाशनेः ।। ६५ ।।

प्रमथैः सेव्यमानोऽयं त्रिलोकीं विचरन्हरः ।।

कापालिको ययौ देवो नारायणनिकेतनम् ।। ६६ ।।

अथायांतं महाकालं त्रिनेत्रं सर्पकुंडलम् ।।

महादेवांशसंभूतं भैरवं भीषणाकृतिम् ।। ६७ ।।

पपात दंडवद्भूमौ दृष्ट्वा तं गरुडध्वजः ।।

देवाश्च मुनयश्चैव देवनार्यः समंततः ।। ६८ ।।

निपेतुः प्रणिपत्यैनं प्रणतः कमलापतिः ।।

शिरस्यंजलिमारोप्य स्तुत्वा बहुविधैः स्तवैः ।।६९।।

क्षीरोदमथनो तां प्राह पद्मालयां हरिः ।।

प्रिये पश्याऽब्जनयने धन्याऽसि सुभगेनघे ।। 4.1.31.७० ।।

धन्योऽहं देवि सुश्रोणि यत्पश्यावो जगत्पतिम् ।।

अयं धाता विधाता च लोकानां प्रभुरीश्वरः ।। ७१ ।।

अनादिः शरणः शांतः परः षड्विंशसंमितः ।।

सर्वज्ञः सर्वयोगीशः सर्वभूतैकनायकः ।।७२।।

सर्वभूतांतरात्माऽयं सर्वेषां सर्वदः सदा ।।

यं विनिद्रा विनिःश्वासाः शांता ध्यानपरायणाः ।। ७३ ।।

धिया पश्यंति हृदये सोयमद्य समीक्ष्यताम्।।

यं विदुर्वेदतत्त्वज्ञा योगिनो यतमानसाः ।। ७४ ।।

अरूपो रूपवान्भूत्वा सोयमायाति सर्वगः ।।

अहो विचित्रं देवस्य चेष्टितं परमेष्ठिनः ।।७४।।।

यस्याख्यां ब्रुवतां नित्यं न देहः सोपि देहधृक्।।

यं दृष्ट्वा न पुनर्जन्म लभ्यते मानवैर्भुवि।।७६।।

सोयमायाति भगवांस्त्र्यंबकः शशिभूषणः ।।

पुंडरीकदलायामे धन्येमेऽद्य विलोचने ।। ७७ ।।

धिग्धिक्पदं तु देवानां परं दृष्ट्वाऽत्र शंकरम् ।।

लभ्यते यन्न निर्वाणं सर्वदुःखांतकृत्तु यत् ।। ७८ ।।

देवत्वादशुभं किंचिद्देवलोके न विद्यते ।।

दृष्ट्वापि सर्वदेवेशं यन्मुक्तिं न लभामहे ।। ७९ ।।

एवमुक्त्वा हृषीकेशः संप्रहृष्टतनूरुहः ।।

प्रणिपत्य महादेवमिदमाह वृषध्वजम् ।। 4.1.31.८० ।।

किमिदं देवदेवेन सर्वज्ञेन त्वया विभो ।।

क्रियते जगतां धात्रा सर्वपापहराऽव्यय ।। ८१ ।।

क्रीडेयं तव देवेश त्रिलोचन महामते ।।

किं कारणं विरूपाक्ष चेष्टितं ते स्मरार्दन ।।८२ ।।

किमर्थं भगवत्र्छंभो भिक्षां चरसि शक्तिप ।।

संशयो मे जगन्नाथ नतत्रैलोक्यराज्यद ।। ८३ ।।

एवमुक्तस्ततः शंभुर्विष्णुमेतदुदाहरत् ।।

ब्रह्मणस्तु शिरश्छिन्नमंगु्ल्यग्रनखेन ह ।। ८४ ।।

तदघप्रतिघं विष्णो चराम्येतद्व्रतं शुभम् ।।

एवमुक्तो महेशेन पुंडरीकविलोचनः ।। ८५ ।।

स्मित्वा किंचिन्नतशिराः पुनरेवं व्यजिज्ञपत् ।।

यथेच्छसि तथा क्रीड सर्वविष्टपनायक ।। ८६ ।।

मायया मां महादेव नच्छादयितुमर्हसि ।।

नाभीकमलकोशात्तु कोटिशः कमलासनान् ।। ८७ ।।

कल्पे कल्पे सृजामीश त्वन्नियोगबलाद्विभो ।।

त्यज मायामिमां देव दुस्तरामकृतात्मभिः ।। ८८ ।।

मदाद्यो महादेव मायया तव मोहिताः ।।

यथावदवगच्छामि चेष्टितं ते शिवापते ।। ८९।।

संहारकाले संप्राप्ते सदेवानखिलान्मुनीन् ।।

लोकान्वर्णाश्रमवतो हरिष्यसि यदा हर ।। 4.1.31.९० ।।

तदा क्व ते महादेव पाप ब्रह्मवधादिकम् ।।

पारतंत्र्यं न ते शंभो स्वैरं क्रीडेत्ततो भवान् ।। ९१ ।।

अतीतब्रह्मणामस्थ्नां स्रक्कंठे तव भासते ।।

तदातदा क्वानुगता ब्रह्महत्या तवानघ ।। ९२ ।।

कृत्वापि सुमहत्पापं त्वां यः स्मरति भावतः ।।

आधारं जगतामीशं तस्य पापं विलीयते ।। ९३ ।।

यथा तमो न तिष्ठेत संनिधावंशुमालिनः ।।

तथा न भवभक्तस्य पापं तस्य व्रजेत्क्षयम् ।। ९४ ।।

यश्चिंतयति पुण्यात्मा तव पादांबुजद्वयम् ।।

ब्रह्महत्यादिकमपि पापं तस्य व्रजेत्क्षयम् ।। ९५ ।।

तव नामानुरक्ता वाग्यस्य पुंसो जगत्पते ।।

अप्यद्रिकूटतुलितं नैनस्तमनुबाधते ।। ९६ ।।

रजसा तमसा विवर्धितं क्व नु पापं परितापदायकम् ।।

क्व च ते शिव नाम मंगलं जनजीवातु जगद्रुजापहम् ।। ९७ ।।

यदि जातुचिदंधकद्विषस्तवनामौष्ठपुटाद्विनिःसृतम् ।।

शिवशंकर चंद्रशेखरेत्यसकृत्तस्य न संसृतिः पुनः ।। ९८ ।।

परमात्मन्परंधाम स्वेच्छा विधृत विग्रह ।।

कुतूहलं तवेशेदं क्व पराधीनतेश्वरे ।। ९९ ।।

अद्य धन्योस्मि देवेश यं न पश्यति योगिनः ।।

पश्यामि तं जगन्मूलं परमेश्वरमक्षयम् ।। 4.1.31.१०० ।।

अद्य मे परमो लाभस्त्वद्य मे मंगलं परम् ।।

त्वद्दृष्ट्यमृततृप्तस्य तृणं स्वर्गापवर्गदम् ।। १ ।।

इत्थं वदति गोविंदे विमला पद्मया तया ।।

मनोरथवती नाम भिक्षापात्रे समर्पिता ।। २ ।।

भिक्षाटनाय देवोपि निरगात्परया मुदा ।।

दृष्ट्वाऽनुयायिनीं तां तु समाहूय जनार्दनः ।।

संप्रार्थयद्ब्रह्महत्यां विमुंच त्वं त्रिशूलिनम्।। ३ ।।

।। ब्रह्महत्योवाच ।। ।।

अनेनापि मिषेणाऽहं संसेव्यामुं वृषध्वजम् ।।

आत्मानं पावयिष्यामि क्व पुनर्भवदर्शनम् ।। ४ ।।

सा तत्याज न तत्पार्श्वं व्याहृतापि मुरारिणा ।।

तमूचेऽथ हरिं शंभुः स्मेरास्यो वचनं शुभम् ।। ५ ।।

त्वद्वाक्पीयूषपानेन तृप्तोस्मि बहुमानद ।।

वरं वृणीष्व गोविंद वरदोऽस्मि तवानघ ।। ६ ।।

न माद्यंति यथा भैक्षैर्भिक्षवोप्यतिसंस्कृतैः ।।

यथामानसुधापानैर्नुन्न भिक्षाटनज्वराः ।। ७ ।।

महाविष्णुरुवाच ।। ।।

एष एव वरः श्लाघ्यो यदहं देवताधिपम् ।।

पश्यामि त्वां देवदेवं मनोरथपथातिगम् ।। ८ ।।

अनभ्रेयं सुधावृष्टिरनायासो महोत्सवः ।।

अयत्नो निधिलाभो यद्वीक्षणं हरते सताम् ।। ९ ।।

अवियोगोऽस्तु मे देव त्वदंघ्रियुगलेन वै ।।

एष एव वरः शंभो नान्यं कंचिद्वरं वृणे ।। 4.1.31.११० ।।

ईश्वर उवाच ।। ।।

एवं भवतु तेऽनंत यत्त्वयोक्तं महामते ।।

सर्वेषामपि देवानां वरदस्त्वं भविष्यसि ।। ११ ।।

अनुगृह्येति दैत्यारिं केंद्रादि भुवने चरन् ।।

भेजे विमुक्तिजननीं नाम्ना वाराणसीं पुरीम् ।। १२ ।।

यत्र स्थितानां जंतूनां कलां नार्हंति षोडशीम्।।

अपि ब्रह्मादि देवानां पदानि विपदां पदम् ।। १३ ।।

वरं वाराणसी वासी जटी मुंडी दिगंबरः ।।

नान्यत्रच्छत्रसंछन्न वसुधामंडलेश्वरः ।। १४ ।।

वरं वाराणसी भिक्षा न लक्षाधिपतान्यतः ।।

लक्षाधीशो विशेद्गर्भं तद्भिक्षाशी न गर्भभाक् ।। १५ ।।

भिक्षापि यत्र भिक्षुभ्यो दत्तामलकसंमिता ।।

सुमेरुणापि तुलिता वाराणस्यां गुरुर्भवेत् ।। १६।।

वर्षाशनं हि यो दद्यात्काश्यां सीदत्कुटुंबिने ।।

यावंत्यब्दानि तावंति युगानि स दिवीज्यते ।। १७ ।।

वाराणस्यां वर्षभोज्यं यो दद्यान्निरुपायिने ।।

स कदाचित्तृट्क्षुधा नो दुःखं भुंक्ते नरर्षभः ।। १८ ।।

वाराणस्यां निवसतां यत्पुण्यमुपजायते ।।

तदेव संवासयितुः फलं त्वविकलं भवेत् ।। १९ ।।

ब्रह्महत्यादि पापानि यस्या नाम्नोपि कीर्तनात् ।।

त्यजंति पापिनं काशी सा केनेहोपमीयते ।। 4.1.31.१२० ।।

क्षेत्रे प्रविष्टमात्रेऽथ भैरवे भीषणाकृतौ ।।

हाहेत्युक्त्वा ब्रह्महत्या पातालतलमाविशत् ।। २१ ।।

कपालब्रह्मणो रुद्रः सर्वेषामेव पश्यताम्।।

हस्तात्पतितमालोक्य ननर्त परया मुदा ।। २२ ।।

विधेः कपालं नामुंचत्करमत्यंतदुःसहम्।।

हरस्य भ्रमतः क्वापि तत्काश्यां क्षणतोऽपतत् ।। २३ ।।

शूलिनो ब्रह्मणो हत्या नापैति स्म च या क्वचित् ।।

सा काश्यां क्षणतो नष्टा कथं काशी न दुर्लभा ।।२४।।

अतः प्रदक्षिणीकार्या पूजनीया पुरी त्वियम् ।। २५ ।।

वाराणसीति काशीति महामंत्रमिमं जपम् ।।

यावज्जीवं त्रिसंध्यं तु जंतुर्जातु न जायते ।। २६ ।।

अविमुक्तं महाक्षेत्रं स्मरन्प्राणांस्तु यस्त्वजेत् ।।

दूरदेशांतरस्थोपि सोपि जातु न जायते ।। २७ ।।

आनंदकानने यस्य चित्तं संस्मरते सदा ।।

तत्क्षेत्रनामश्रवणान्न स भूयोऽभिजायते ।। २८ ।।

रुद्रावासे वसेन्नित्यं नरो नियतमानसः ।।

एनसामपि संभारं कृत्वा कालाद्विमुच्यते ।। २९ ।।

महाश्मशानमासाद्य यदि देवाद्विपद्यते ।।

पुनः श्मशानशयनं न क्वापि लभते पुमान् ।। 4.1.31.१३० ।।

कपालमोचनं काश्यां ये स्मरिष्यंति मानवाः ।।

तेषां विनंक्ष्यति क्षिप्रमिहान्यत्रापि पातकम् ।। ३१ ।।

आगत्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ।।

तर्पयित्वा पितॄन्देवान्मुच्यते ब्रह्महत्यया ।। ३२ ।।

अशाश्वतमिदं ज्ञात्वा वाराणस्यां वसंति ये ।।

देहांते तत्परं ज्ञानं तेषां दास्यति शंकरः ।। ३३ ।।

इयं काशीपुरी विप्र साक्षाद्रुद्रतनुः परा ।।

अनिर्वाच्या परानंदा दुष्प्राप्येशविरोधिभिः ।। ३४ ।।

अस्यास्तत्त्वमहं जाने शिवभक्तिपरोपि वा ।।

मुच्यंते जंतवोऽत्रैव यथा योगेन योगिनः ।। ३५ ।।

परंपदमियं काशी परानंद इयं पुरी ।।

इयमेव परं ज्ञानं सेव्याऽसौ मोक्षकांक्षिभिः ।। ३६ ।।

अत्रोषित्वापीशभक्तान्विरुणद्धि तु यः कुधीः ।।

पुर्यैद्रुह्यति वा मूढस्तस्यान्यत्रात्र नो गतिः ।। ३७ ।।

कपालमोचनं तीर्थं पुरस्कृत्वा तु भैरवः ।।

तत्रैव तस्थौ भक्तानां भक्षयन्नघसंततिम् ।। ३८ ।।

पापभक्षणमासाद्य कृत्वापापशतान्यपि ।।

कुतो बिभेति पापेभ्यः कालभैरवसेवकः ।। ३९ ।।

आमर्दयति पापानि दुष्टानां च मनोरथान् ।।

आमर्दक इति ख्यातस्ततोऽसौ कालभैरवः।। 4.1.31.४० ।।

कलिकालं कलयति सदा काशी निवासिनाम्।।

अतः ख्यातिं परां प्राप्तः कालभैरवसंज्ञिताम् ।। ४१ ।।

सदैव यस्य भक्तेभ्यो यमदूताः सुदारुणाः ।।

परमां भीरुतां प्राप्तास्ततोसौ भैरवः स्मृतः ।। ४२ ।।

मार्गशीर्षासिताष्टम्यां कालभैरवसंनिधौ ।।

उपोष्य जागरं कुर्वन्महापापैः प्रमुच्यते ।। ४३ ।।

यत्किंचिदशुभं कर्म कृतं मानुषबुद्धितः ।।

तत्सर्वं विलयं याति कालभैरव दर्शनात् ।।४४।।

अनेकजन्मनियुतैर्यत्कृतं जंतुभिस्त्वघम्।।

तत्सर्वं विलयत्याशु कालभैरव दर्शनात् ।। ४५।।

कृत्वा च विविधां पूजां महासंभारविस्तरैः ।।

नरो मार्गासिताष्टम्यां वार्षिकं विघ्नमुत्सृजेत् ।। ४६ ।।

अष्टम्यां च चतुर्दश्यां रविभूमिजवासरे ।।

यात्रां च भैरवीं कृत्वा कृतैः पापैः प्रमुच्यते ।। ४७ ।।

कालभैरव भक्तानां सदा काशीनिवासिनाम् ।।

विघ्नं यः कुरुते मूढः स दुर्गतिमवाप्नुयात् ।। ४८ ।।

विश्वेश्वरेपि ये भक्ता नो भक्ताः कालभैरवे ।।

काश्यां ते विघ्नसंघातं लभंते तु पदे पदे ।। ४९ ।।

तीर्थे कालोदके स्नात्वा कृत्वा तर्पणमत्वरः ।।

विलोक्य कालराजं च निरयादुद्धरेत्पितॄन् ।। 4.1.31.१५० ।।

अष्टौ प्रदक्षिणीकृत्य प्रत्यहं पापभक्षणम् ।।

नरो न पापैर्लिप्येत मनोवाक्कायसंभवैः ।।५१।।

तस्मिन्नामर्दके पीठे जप्त्वास्वाभीष्टदेवताम् ।।

षण्मासं सिद्धिमाप्नोति साधको भैरवाज्ञया ।। ५२ ।।

वाराणस्यामुषित्वा यो भैरवं न भजेन्नरः ।।

तस्य पापानि वर्धंते शुक्लपक्षे यथा शशी ।।५३।।

यं यं संचितयेत्कामं पापभक्षणसेवया ।।

बलिपूजोपहारैश्च तं तं स समवाप्नुयात् ।। ५४ ।।

कालराजं न यः काश्यां प्रतिभूताष्टमीकुजम् ।।

भजेत्तस्यक्षयेत्पुण्यं कृष्णपक्षे यथा शशी ।। ५५ ।।

श्रुत्वाध्यायमिमं पुण्यं ब्रह्महत्यापनोदकम् ।।

भैरवोत्पत्तिसंज्ञं च सर्वपापैः प्रमुच्यते ।। ५६ ।।

बंधनागारसंस्थोपि प्राप्तोपि विपदं पराम् ।।

प्रादुर्भावं भैरवस्य श्रुत्वा मुच्येत संकटात् ।। ५७ ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे भैरवप्रादुर्भावोनामेकत्रिंशोध्यायः ।। ३१ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 32

।। अगस्त्य उवाच ।। ।।

बर्हियान समाचक्ष्व हरिकेशसमुद्भवम् ।।

कोसौ कस्य सुतः श्रीमान्कीदृगस्य तपो महत् ।। १ ।।

कथं च देवदेवस्य प्रियत्वं समुपेयिवान् ।।

काशीवासिजनीनोभूत्कथं वा दंडनायकः ।। २ ।।

एतदिच्छाम्यहं श्रोतुं प्रसादं कुरु मे विभो ।।

अन्नदत्वं च संप्राप्तः कथमेष महामतिः ।। ३ ।।

संभ्रमो विभ्रमश्चोभौ कथं तदनुगामिनौ ।।

विभ्रांतिकारिणौ क्षेत्रवैरिणां सर्वदा नृणाम् ।। ४ ।।

।। स्कंद उवाच ।। ।।

सम्यगापृच्छि भवता काशीवासिसमाहितम् ।।

कुंभसंभव विप्रर्षे दंडपाणि कथानकम् ।। ५ ।।

यदाकर्ण्य नरः प्राज्ञ काशीवासस्य यत्फलम् ।।

निष्प्रत्यूहं तदाप्नोति विश्वभर्त्तुरनुग्रहात् ।। ६ ।।

रत्नभद्र इति ख्यातः पर्वते गंधमादने ।।

यक्षः सुकृतलक्षश्रीः पुरा परम धार्मिकः ।। ७ ।।

पूर्णभद्रं सुतं प्राप्य सोऽभूत्पूर्णमनोरथः ।।

वयश्चरममासाद्य भुक्त्वा भोगाननेकशः ।। ८ ।।

शांभवेनाथ योगेन देहमुत्सृज्य पार्थिवम् ।।

आससादाशवं शांतं शांतसर्वेंद्रियार्थकः ।। ९ ।।

पितर्युपरतेसोऽथ पूर्णभद्रो महायशाः ।।

सुकृतोपात्तविभव भवसंभोगभुक्तिभाक् ।। 4.1.32.१० ।।

सर्वान्मनोरथाँल्लेभे विना स्वर्गैकसाधनम् ।।

गार्हस्थ्याश्रम नेपथ्यं पथ्यं पैतामहं महत् ।। ११ ।।

संसारतापसंतप्तावयवामृतसीकरम् ।।

अपत्यं पततां पोतं बहुक्लेशमहार्णवे ।। १२ ।।

पूर्णभद्रोऽथ संवीक्ष्य मंदिरं सर्वसुंदरम् ।।

तद्बालकोमलालाप विकलं त्यक्तमंगलम्।। १३ ।।

शून्यं दरिद्रहृदिव जीर्णारण्यमिवाथवा ।।

पांथवत्प्रांतरमिव खिन्नोऽतीवानपत्यवान् ।। १४ ।।

आहूय गृहिणी सोऽथ यक्षः कनककुंडलाम् ।।

उवाच यक्षिणीं श्रेष्ठां पूर्णभद्रो घटोद्भव ।। १५ ।।

न हर्म्यं सुखदं कांते दर्पणोदरसुंदरम् ।।

मुक्ता गवाक्षसुभगं चंद्रकांतशिलाजिरम् ।। १६ ।।

पद्मरागेंद्रनीलार्चिरर्चिताट्टालकं क्वणत् ।।

विद्रुमस्तंभशोभाढ्यं स्फुरत्स्फटिककुड्यवत् ।। १७ ।।

प्रेंखत्पताकानिकरं मणिमाणिक्यमालितम्।।

कृष्णागुरुमहाधूप बहुलामोदमोदितम् ।। १८ ।।

अनर्घ्यासनसंयुक्तं चारुपर्यंकभूषितम् ।।

रम्यार्गलकपाटाढ्यं दुकूलच्छन्नमंडपम् ।। १९ ।।

सुरम्यरतिशालाढ्यं वाजिराजिविराजितम् ।।

दासदासीशताकीर्णं किंकिणीनादनादितम् ।। 4.1.32.२० ।।

नूपुरारावसोत्कंठ केकिकेकारवाकुलम् ।।

कूजत्पारावत कुलं गुरुसारीकथावरम् ।। २१ ।।

खेलन्मरालयुगलं जीवं जीवककांतिमत् ।।

माल्याहूत द्विरेफाणां मंजुगुंजारवावृतम् ।। २२ ।।

कर्पूरैण मदामोद सोदरानिलवीजितम् ।।

क्रीडामर्कटदंष्ट्राग्री कृतमाणिक्यदाडिमम् ।। २३ ।।

दाडिमीबीजसंभ्रांतशुकतुंडात्तमौक्तिकम् ।।

धनधान्यसमृद्धं च पद्मालयमिवापरम् ।। २४ ।।

कमलामोदगर्भं च गर्भरूपं विना प्रिये ।।

गर्भरूपमुखं प्रेक्ष्ये कथं कनककुडले ।। २५ ।।

यद्युपायोऽस्ति तद्ब्रूहि धिगपुत्रस्य जीवितम् ।।

सर्वशून्यमिवाभाति गृहमेतदनंगजम् ।। २६ ।।

धिगेतत्सौधसौंदर्यं धिगेतद्धनसंचयम् ।।

विनापत्यं प्रियतमे जीवितं च धिगावयोः ।। २१७ ।।

प्रलपंतमिव प्रोच्चैः प्रियं कनककुंडला ।।

बभाषेंऽतर्विनिःश्वस्य यक्षिणी सा पतिव्रता ।। २८ ।।

।। कनककुंडलोवाच ।। ।।

किमर्थं खिद्यसे कांत ज्ञानवानसि यद्भवान् ।।

अत्रोपायोऽस्त्यपत्याप्त्यै विस्रब्धमवधारय ।। २९ ।।

किमुद्यमवतां पुंसां दुर्लभं हि चराचरे ।।

ईश्वरार्पितबुद्धीनां स्फुंरंत्यग्रे मनोरथाः ।। 4.1.32.३० ।।

दैवं हेतुं वदंत्येवं भृशं कापुरुषाः पते ।।

स्वयं पुराकृतं कर्म दैवं तच्च न हीतरत् ।।३१।।

ततः पौरुषमालंब्य तत्कर्म परिशांतये ।।

ईश्वरं शरणं यायात्सर्वकारणकारणम् ।। ३२ ।।

अपत्यं द्रविणं दारा हारा हर्म्य हया गजाः ।।

सुखानि स्वर्गमोक्षौ च न दूरे शिवभक्तितः ।। ३३ ।।

विधातुः शांभवीं भक्तिं प्रिय सर्वे मनोरथाः ।।

सिद्धयोष्टौ गृहद्वारं सेवंते नात्र संशयः ।। ३४ ।।

नारायणोपि भगवानंतरात्मा जगत्पतिः ।।

चराचराणामविता जातः श्रीकंठसेवया ।। ३५ ।।

ब्रह्मणः सृष्टिकर्त्तृत्वं दत्तं तेनैव शंभुना ।।

इंद्रादयो लोकपाला जाता शंभोरनुग्रहात् ।। ३६ ।।

मृत्युंजयं सुतं लेभे शिलादोप्यनपत्यवान् ।।

श्वेतकेतुरपि प्राप जीवितं कालपाशतः ।। ३७ ।।

क्षीरार्णवाधिपतितामुपमन्युरवाप्तवान् ।।

अंधकोप्यभवद्भृंगी गाणपत्यपदोर्जितः ।। ३८ ।।

जिगाय शार्ङ्गिणं संख्ये दधीचिः शंभुसेवया ।।

प्राजापत्यपदं प्राप दक्षः संशील्य शंकरम्।। ३९ ।।

मनोरथपथातीतं यच्च वाचामगोचरम्।।

गोचरो गोचरीकुर्यात्तत्पदं क्षणतो मृडः ।। 4.1.32.४० ।।

अनाराध्य महेशानं सर्वदं सर्वदेहिनाम् ।।

कोपि क्वापि किमप्यत्र न लभेतेति निश्चितम् ।। ४१ ।।

तस्मात्सर्वप्रयत्नेन शंकरं शरणं व्रज ।।

यदिच्छसि प्रियं पुत्रं प्रियसर्वजनीनकम् ।। ४२ ।।

इति श्रुत्वा वचः पत्न्याः पूर्णभद्रः स यक्षराट् ।।

आराध्य श्रीमहादेवं गीतज्ञो गीतविद्यया ।। ४३ ।।

दिनैः कतिपयैरेव परिपूर्णमनोरथः ।।

पुत्रकाममवापोच्चैस्तस्यां पत्न्यां दृढव्रतः ।। ४४ ।।

नादेश्वरं समभ्यर्च्य कैः कैर्नापि स्वचिंतितम् ।।

तस्मात्काश्यां प्रयत्नेन सेव्यो नादेश्वरो नृभिः ।। ४५ ।।

अंतर्वत्न्यथ कालेन तत्पत्नी सुषुवे सुतम् ।।

तस्य नाम पिता चक्रे हरिकेश इति द्विज ।। ४६ ।।

प्रीतिदायं ददौ चाथ भूरिपुत्राननेक्षणात् ।।

पूर्णभद्रस्तथागस्त्य हृष्टा कनककुंडला ।। ४७ ।।

बालोऽपि पूर्णचंद्राभ वदनो मदनोपमः ।।

वृद्धिं प्रतिक्षणं प्राप शुक्लपक्ष इवोडुराट् ।। ४८ ।।

यदाष्टवर्षदेशीयो हरिकेशोऽभवच्छिशुः ।।

नित्यं तदाप्रभृत्येवं शिवमेकममन्यत ।। ४९ ।।

पांसुक्रीडनसक्तोपि कुर्याल्लिंगं रजोमयम् ।।

शाद्वलैः कोमलतृणैः पूजयेच्च स कौतुकम् ।। 4.1.32.५० ।।

आकारयति मित्राणि शिवनाम्नाऽखिलानि सः ।।

चंद्रशेखरभूतेश मृत्युंजय मृडेश्वरः ।। ५१ ।।

धूर्जटे खंडपरशो मृडानीश त्रिलोचन ।।

भर्गशंभोपशुपते पिनाकिन्नुग्रशंकर ।। ५२ ।।

श्रीकंठनीलकंठेश स्मरारे पार्वतीपते ।।

कपालिन्भालनयन शूलपाणे महेश्वर ।। ५३ ।।

अजिनांबरदिग्वासः स्वर्धुनी क्लिन्नमौलिज ।।

विरूपाक्षाहिनेपथ्य गृणन्नामावलीमिमाम् ।। ५४ ।।

सवयस्कानिति मुहुः समाह्वयति लालयन् ।।

शब्दग्रहौ न गृह्णीतस्तस्यान्याख्यां हरादृते ।। ५५ ।।

पद्भ्यां न पद्यते चान्यदृते भूतेश्वराजिरात् ।।

द्रष्टुं रूपांतरं तस्य वीक्षणेन विचक्षणे ।। ५६ ।।

रसयेत्तस्य रसना हरनामाक्षरामृतम्।।

शिवांघ्रिकमलामोदाद्घ्राणं नैव जिघृक्षति ।। ५७ ।।

करौ तत्कौतुककरौ मनो मनति नापरम् ।।

शिवसात्कृत्यपेयानि पीयते तेन सद्धिया ।। ५८ ।।

भक्ष्यते सर्वभक्ष्याणि त्र्यक्षप्रत्यक्षगान्यपि ।।

सर्वावस्थासु सर्वत्र न स पश्येच्छिवं विना ।। ५९ ।।

गच्छन्गायन्स्वपंस्तिष्ठञ्च्छयानोऽदन्पिबन्नपि ।।

परितस्त्र्यक्षमैक्षिष्ट नान्यं भावं चिकेति सः ।। 4.1.32.६० ।।

क्षणदासु प्रसुप्तोपि क्व यासीति वदन्मुहुः ।।

क्षणं त्र्यक्ष प्रतीक्षस्व बुध्यतीति स बालकः ।। ६१ ।।

स्पष्टां चेष्टां विलोक्येति हरिकेशस्य तत्पिता ।।

अशिक्षयत्सुतं सोऽथ गृहकर्मरतो भव ।। ६२ ।।

एते तुरंगमा वत्स तवैतेऽश्वकिशो रकाः ।।

चित्राणीमानि वासांसि सुदुकूलान्यमूनि च ।। ६३ ।।

रत्नान्याकरशुद्धानि नानाजातीन्यनेकशः ।।

कुप्यं बहुविधं चैतद्गोधनानि महांति च ।।६४।।

अमत्राणि महार्हाणि रौप्य कांस्यमयानि च ।।

पणनीयानि वस्तूनि नानादेशोद्भवान्यपि ।। ६५ ।।

चामराणि विचित्राणि गंधद्रव्याण्यनेकशः ।।

एतान्यन्यानि बहुशस्त्वनेके धान्यराशयः ।। ६६ ।।

एतत्त्वदीयं सकलंवस्तुजातं समंततः ।।

अर्थोपार्जनविद्याश्च सर्वाः शिक्षस्व पुत्रक ।। ६७ ।।

चेष्टास्त्यज दरिद्राणां धूलिधूसरिणाममूः ।।

अभ्यस्यविद्याः सकला भोगान्निर्विश्य चोत्तमान् ।। ६८ ।।

तां दशां चरमां प्राप्य भक्तियोगं ततश्चर ।।

असकृच्छिक्षितः पित्रेत्यवमन्य गुरोर्गिरम्।। ६९ ।।

रुष्टदृष्टिं च जनकं कदाचिदवलोक्य सः ।।

निर्जगाम गृहाद्भीतो हरिकेश उदारधीः ।। 4.1.32.७० ।।

ततश्चिंतामवापोच्चैर्दिग्भ्रांतिमपि चाप्तवान् ।।

अहो बालिशबुद्धित्वात्कुतस्त्यक्तं गृहं मया ।। ७१ ।।

क्व यामि क्व स्थिते शंभो मम श्रेयो भविष्यति ।।

पित्रा निर्वासितश्चाहं न च वेद्म्यथ किंचन ।। ७२ ।।

इति श्रुतं मया पूर्वं पितुरुत्संगवर्तिना ।।

गदतस्तातपुरतः कस्यचिद्वचनं स्फुटम् ।। ७३ ।।

मात्रा पित्रा परित्यक्ता ये त्यक्ता निजबंधुभिः ।।

येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ।। ७४ ।।

जरया परिभूता ये ये व्याधिविकलीकृताः ।।

येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ।। ७५ ।।

पदे पदे समाक्रांता ये विपद्भिरहर्निशम् ।।

येषां क्वापि गतिर्नास्ति तेषांवाराणसी गतिः ।। ७६ ।।

पापराशिभिराक्रांता ये दारिद्र्य पराजिताः ।।

येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ।। ७७ ।।

संसार भयभीताय ये ये बद्धाः कर्मबंधनैः ।।

येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ।। ७८ ।।

श्रुतिस्मृतिविहीना ये शौचाचारविवर्जिताः ।।

येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ।। ७९ ।।

ये च योगपरिभ्रष्टास्तपो दान विवर्जिताः ।।

येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ।। 4.1.32.८० ।।

मध्ये बंधुजने येषामपमानं पदे पदे ।।

तेषामानंददं चैकं शंभोरानंदकाननम् ।।८१।।

आनंदकानने येषां रुचिर्वै वसतां सताम् ।।

विश्वेशानुगृहीतानां तेषामानंदजोदयः ।। ८२ ।।

भर्ज्यते कर्मबीजानि यत्र विश्वेशवह्निना ।।

अतो महाश्मशानं तदगतीनां परा गतिः ।। ८३ ।।

हरिकेशो विचार्येति यातो वाराणसीं पुरीम् ।।

यत्राविमुक्ते जंतूनां त्यजतां पार्थिवीं तनुम् ।। ८४ ।।

पुनर्नो तनुसंबंधस्तनुद्वेषिप्रसादतः ।।

आनंदवनमासाद्य स तपः शरणं गतः ।। ८५ ।।

अथ कालांतरे शंभुः प्रविश्यानंदकानमम् ।।

पार्वत्यै दर्शयामास निजमाक्रीडकाननम् ।। ८६ ।।

अमंदामोदमंदारं कोविदारपरिष्कृतम् ।।

चारुचंपकचूताढ्यं प्रोत्फुल्लनवमल्लिकम् ।। ८७ ।।

विकसन्मालतीजालं करवीरविराजितम् ।।

प्रस्फुटत्केतकिवनं प्रोद्यत्कुरबकोर्जितम् ।। ८८ ।।

जृंभद्विचकिलामोदं लसत्कंकेलिपल्लवम्।।

नवमल्लीपरिमलाकृष्टषट्पदनादितम् ।। ८९ ।।

पुष्प्यपुन्नागनिकरं बकुलामोदमोदितम् ।।

मेदस्विपाटलामोद सदामोदित दिङ्मुखम् ।। 4.1.32.९० ।।

बहुशोलंबिरोलंब मालामालितभूतलम् ।।

चलच्चंदनशाखाग्र रममाणपि काकुलम् ।। ९१ ।।

गुरुणाऽगुरुणामत्त भद्रजातिविहंगमम् ।।

नागकेसरशाखास्थ शालभंजि विनोदितम् ।। ९२ ।।

मेरुतुंग नमेरुस्थच्छायाक्रीडितकिंनरम् ।।

किंनरीमिथुनोद्गीतं गानवच्छुककिंशुकम् ।। ९३ ।।

कदंबानां कदंबेषु गुंजद्रोलंबयुग्मकम् ।।

जितसौवर्णवर्णोच्च कर्णिकारविराजितम् ।। ९४ ।।

शालतालतमालाली हिंताली लकुचावृतम् ।।

लसत्सप्तच्छदामोदं खर्जूरीराजिराजितम् ।।

नारिकेल तरुच्छन्न नारंगीरागरंजितम् ।। ९५ ।।

फलिजंबीरनिकरं मधूकमधुपाकुलम् ।।

शाल्मली शीतलच्छायं पिचुमंद महावनम्।। ९६ ।।

मधुरामोद दमनच्छन्नं मरुबनोदितम् ।।

लवलीलोललीलाभृन्मंदमारुतलोलितम् ।। ९७ ।।

भिल्ली हल्लीसकप्रीति झिल्लीरावविराविणम् ।।

क्वचित्सरः परिसरक्रीडत्क्रोडकदंबकम् ।। ९८ ।।

मरालीगलनालीस्थ बिसासक्तसितच्छदम् ।।

विशोककोकमिथुनक्रीडाक्रेंकारसुंदरम् ।। ९९ ।।

बकशावकसंचारं लक्ष्मणासक्त सारसम् ।।

मत्तबर्हिणसंघुष्टं कपिंजलकुलाकुलम् ।। 4.1.32.१०० ।।

जीवंजीवलसज्जीवं क्वणत्कारंडवोत्कटम् ।।

दीर्घिकावारिसंचारि शीतमारुत वीजितम्।। १ ।।

मदांदोलितकह्लार परागपरिपिंगलम् ।।

उल्लसत्पंकजमुखं नीलेंदीवरलोचनम् ।। २ ।।

तमालकबरीभारं विलसद्दाडिमीरदम् ।।

भ्रमरालीलसद्भ्रूकं शुकनासाविराजितम् ।। ३ ।।

महांधुश्रवणं दूर्वा श्मश्रुभिः परिशोभितम् ।।

कमलामोदनिःश्वासं बिंबीफल रदच्छदम् ।। ४ ।।

सुपद्मपत्रवसनं कर्णिकारविभूषणम् ।।

कम्रकंबु लसत्कंठं शंकरस्कंध बंधुरम् ।। ५ ।।

गंधसारसमासक्ता हीन दोर्दंडमंडितम् ।।

अशोकपल्लवांगुष्ठं केतकीनखरोज्ज्वलम् ।। ६ ।।

लसत्कंठीरवोरस्कं गंडशैलपृथूदरम् ।।

जलावर्तलसन्नाभि तरुजंघा युगान्वितम् ।। ७ ।।

स्थलभाक्पद्मचरणं मत्तमातंगगामिनम् ।।

लसत्कदलिकेदारदलच्चीनांशुकावृतम् ।। ८ ।।

नानासुकुममालाभिर्मालितं च समंततः ।।

अकंटकितरुच्छन्नं महिष श्वापदावृतम् ।। ९ ।।

चंद्रकांतशिलासुप्तकृष्णैणहरितोडुपम् ।।

तरुप्रकीर्णकुसुम जितस्वर्लोकतारकम् ।।

दर्शयन्नित्थमाक्रीडं देव्यै देवोविशद्वनम् ।। 4.1.32.११० ।।

।। देवदेव उवाच ।। ।।

यथाप्रियतमा देवि मम त्वं सर्वसुंदरि ।।

तथा प्रियतरं चैतन्मे सदानंदकाननम् ।। ११ ।।

अत्रानंदवने देवि मृतानां मदनुग्रहात् ।।

वपुस्त्वमृततां प्राप्तमपुनर्भविनस्तु ते ।। १२ ।।

भविनो ये विपद्यंते वाराणस्यां ममाज्ञया ।।

तेषां बीजानि दग्धानि श्मशानज्वलदग्निना ।। १३ ।।

महाश्मशाने ये प्राप्ता दीर्घनिद्रां गिरींद्रजे ।।

न पुनर्गर्भशयने ते स्वपंति कदाचन ।। १४ ।।

ब्रह्मज्ञानेन मुच्यंते नान्यथा जंतवः क्वचित् ।।

ब्रह्मज्ञानमये क्षेत्रे प्रयागे वा तनुत्यजः ।। १५ ।।

ब्रह्मज्ञानं तदेवाहं काशीसंस्थितिभागिनाम् ।।

दिशामि तारकं प्रांते मुच्यंते ते तु तत्क्षणात् ।। १६ ।।

गृह्णीयुः पापकर्माणि काशीमृतविनिंदकाः ।।

सुकृतानि स्तुतिकृतो मुच्यंते तेऽत्र जंतवः ।। १७ ।।

ब्रह्मज्ञानं कुतो देवि कलिनोपहतात्मनाम् ।।

स्वभावचंचलाक्षाणां तद्ब्रह्मेह दिशाम्यहम् ।। १८ ।।

योगिनो योगविभ्रष्टाः पतंत्यैश्वर्यमोहिताः ।।

काश्यां पतित्वा न पुनः पतंत्यपि महालये ।। १९ ।।

ब्रह्मज्ञानं न विंदंति योगैरेकेन जन्मना ।।

जन्मनैकेन मुच्यंते काश्यामंतकृतो जनाः ।। 4.1.32.१२० ।।

यथेह मुच्यते जंतुर्गिरिजे मदनुग्रहात् ।।

अविमुक्ते महाक्षेत्रे न तथान्यत्र कुत्रचित् ।। २१ ।।

बहुजन्मसमभ्यासाद्योगी मुच्येत वा न वा ।।

मृतमात्रो विमुच्येत काश्यामेकेन जन्मना ।। २२ ।।

न सिध्यति कलौ योगो न सिध्यति कलौ तपः ।।

न्यायार्जितधनोत्सर्गः सद्यः सिध्येत्कलौ नरः ।। २३ ।।

न व्रतं न तपो नेज्या न जपो न सुरार्चनम् ।।

दानमेव कलौ मुक्त्यै काशीदानैरवाप्यते ।। २४ ।।

कलौ विश्वेश्वरो देवः कलौ वाराणसी पुरी ।।

कलौ भागीरथी गंगा कलौ दानं विशिष्यते ।। २५ ।।

गंगोत्तरवहाकाश्यां लिंगं विश्वेश्वरं मम ।।

उभे विमुक्तिदे पुंसां प्राप्ये दानबलात्कलौ ।। २६ ।।

पुण्यवानितरो वापि मम क्षेत्रस्य सेवया ।।

मुक्तो भवति देवेशि नात्र कार्या विचारणा ।। २७ ।।

अविमुक्तस्य माहात्म्यात्पुण्यपापेन कर्मणा ।।

देवि प्रभवतः पुंसामपिजन्मशतार्जिते ।। २८ ।।

अविमुक्तं न मोक्तव्यं तस्माद्देवि मुमुक्षुणा ।।

हन्यमानेन बहुधा ह्युपसर्गशतैरपि ।। २९ ।।

विधाय क्षेत्रसंन्यासं ये वसंतीह मानवाः ।।

जीवन्मुक्तास्तु ते देवि तेषां विघ्नं हराम्यहम् ।। 4.1.32.१३० ।।

न योगिनां हृदाकाशे न कैलासे न मंदरे ।।

तथा वासरतिर्मेऽस्ति यथा काश्यां रतिर्मम ।। ३१ ।।

काशीवासि जनो देवि मम गर्भे वसेत्सदा ।।

अतस्तं मोचयाम्यंते प्रतिज्ञेयं यतो मम ।। ३२ ।।

तामसीं प्रकृतिं प्राप्य कालो भूत्वा चराचरम् ।।

ग्रसामि लीलया देवि काशीं रक्षामि यत्नतः ।। ३३ ।।

प्रेमपात्रद्वयं देवि नितरां नेतरन्मम ।।

त्वं वा तपोधने गौरि काशी वानंदभूमिका ।। ३४ ।।

विना काशी न मे स्थानं विना काशी न मे रतिः ।।

विना काशी न निर्वाणं सत्यं सत्यं वदाम्यहम् ।। ३५ ।।

ब्रह्मांडगोलके यद्वन्मुक्तिः काश्यां व्यवस्थिता ।।

अष्टांगयोगयुक्त्या वा न तथा हेलयाऽन्यतः ।। ३६ ।।

इति ब्रुवाणो देवेशो हरिकेशमवैक्षत ।।

मध्ये वनं तपस्यंतमशोकतरुमूलगम्।। ३७ ।।

शुष्कस्नायुपिनद्धास्थि संचयं निश्चलाकृतिम् ।।

वल्मीककीटकाकोटिशोषितासृगसृग्धरम् ।।३८।।

निर्मांसकीकसचयं स्फटिकोपलनिश्चलम् ।।

शंखकुंदेंदुतुहिन महाशंखलसच्छ्रियम्।। ३९ ।।

सत्वावलंबितप्राणमायुःशेषेणरक्षितम् ।।

निःश्वासोच्छासपवनवृत्तिसूचितजीवितम् ।। 4.1.32.१४० ।।

निमेषोन्मेषसंचार पिशुनीकृतजंतुकम् ।।

पिंगतारस्फुरद्रश्मि नेत्रदीपित दिङ्मुखम् ।। ४१ ।।

तत्तपोग्निशिखादाव चुंबितम्लानकाननम्।।

तत्सौम्यदृक्सुधावर्ष संसिक्ताऽखिलभूरुहम् ।। ४२ ।।

साक्षात्तपस्यंतमिव तपो धृत्वा नराकृतिम् ।।

निराकृतिं निराकांक्षं कृत्वा भक्तिं च कांचन ।।४३।।

कुरंगशावैर्गणशो भ्रमद्भिः परिवारितम् ।।

नितांतभीषणास्यैश्च पंचास्यैः परिरक्षितम् ।। ४४ ।।

तं तथाभूतमालोक्य देवी देवं व्यजिज्ञपत् ।।

वरेणच्छंदयेशामुं निजभक्तं तपस्विनम् ।। ४५ ।।

त्वदेकचित्तं त्वदधीनजीवितं त्वदेककर्माणममुं त्वदाश्रयम् ।।

तीव्रैस्तपोभिः परिशुष्कविग्रहं कुरुष्व यक्षस्य वरैरनुग्रहम् ।। ४६ ।।

देवो वृषेंद्रादवरुह्य देव्या शैलादिना दत्तकरावलंबः ।।

समाधिसंकोचितनेत्रपत्रं पस्पर्श हस्तेन दयार्द्रचेताः ।। ४७ ।।

ततः स यक्षो विनिमील्य चक्षुषी त्र्यक्षं पुरो वीक्ष्य समक्षमात्मनः ।।

उद्यत्सहस्रांशु सहस्रतेजसं जगाद हर्षाकुल गद्गदाक्षरम् ।। ४८ ।।

जयेश शंभो गिरिजेश शंकर त्रिशूलपाणे शशिखंडशेखर ।।

स्पर्शत्कृपालो तव पाणिपंकजं प्राप्यामृतीभूततनूलतोऽभवम् ।। ४९ ।।

श्रुत्वोदितां तस्य महेश्वरो गिरं मृद्वीकया साम्यमुपेयुषीं मृदु ।।

भक्तस्य धीरस्य महातपोनिधे ददौ वराणां निकर तदा मुदा ।। 4.1.32.१५० ।।

क्षेत्रस्य यक्षास्य मम प्रियस्य मे भवाधुना दंडधरो वरान्मम ।।

स्थिरस्त्वमद्यादि दुरात्मदंडकः सुपालकः पुण्यकृतां च मत्प्रियः ।। ५१ ।।

त्वं दंडपाणिर्भव नामतोऽधुना सर्वान्गणाञ्छाधि ममाज्ञयोत्कटान् ।।

गणाविमौ त्वामनुयायिनौ सदा नाम्ना यथार्थौ नृषु संभ्रमोद्भ्रमौ ।। ५२ ।।

त्वमंत्यभूषां कुरु काशिवासिनां गले सुनीलां भुजगेंद्र कंकणाम् ।।

भालेसु नेत्रां करिकृत्तिवाससं वामेक्षणालक्षित वामभागाम् ।। ५३ ।।

मौलौ लसत्पिंगकपर्दभारिणी विभूतिसंक्षालित पुण्यविग्रहाम् ।।

अहोहिमांशोः कलया लसच्छ्रियं वृषेंद्रलीला गतिमंदगामिनीम् ।। ५४ ।।

त्वमन्नदः काशिनिवासिनां सदा त्वं प्राणदो ज्ञानद एक एव हि ।।

त्वं मोक्षदो मन्मुखसूपदेशतस्त्वं निश्चलां सद्वसतिं विधास्यसि ।। ५५ ।।

त्वं विघ्नपूगैः परिपीड्य पापिनः संभ्रातिमुत्पाद्य विनेष्यसे बहिः ।।

आनीय भक्तान्क्षणतोपिदूरतो मुक्तिं परां दापयितासि पिंगल ।। ५६ ।।

त्वत्सात्कृते क्षेत्रवरे हि यक्षराट्कस्त्वामनाराध्य विमुक्तिभाजनम् ।।

सभाजनं पूर्वत एव ते चरेत्ततः समर्चां मम भक्त आचरेत् ।। ५७ ।।

त्वं ग्रामवासप्रद एव मे पुरेऽध्यक्षस्त्वमेधीह च दंडनायकः ।।

दुष्टान्समुद्घाटय काशिवैरिणः काशीं पुरीं रक्ष सदा मुदान्वितः ।। ५८ ।।

पूर्णभद्रसुतदंडनायक त्र्यक्षयक्षहरिकेश पिंगल ।।

काशिवास वसतां सदान्नदज्ञानमोक्षदगणाग्रणीर्भव ।। ५९ ।।

मद्भक्तियुक्तोपि विना त्वदीयां भक्तिं न काशी वसतिं लभेत ।।

गणेषु देवेषु हि मानवेषु तदग्रमान्यो भव दंडपाणे ।। 4.1.32.१६० ।।

ज्ञानोदतीर्थे विहितोदकक्रियो यस्त्वां समाराधयिता गणेशम् ।।

स एव लोके कृतकृत्यतामगान्ममातुलानुग्रहतोऽत्र पुण्यवान् ।। ६१ ।।

त्वं दक्षिणस्यां दिशि दंडपाणे सदैव मे नेत्रसमक्षमत्र ।।

त्वं दंडयन्प्राणभृतो दुरीहानिहास्वनॄन्स्वानभयं दिशन्वै ।। ६२ ।।

।। स्कंद उवाच ।। ।।

इति दत्त्वा वरान्विप्र गिरीशो दंडपाणये ।।

वृषेंद्रमधिरुह्याथ विवेशानंदकाननम् ।। ६३ ।।

कुंभोद्भव तदारभ्य यक्षराड्दंडनायकः ।।

पुरीं वाराणसीं सम्यगनुशास्ति निदेशतः ।। ६४ ।।

अहमप्यत्र वसतिं चक्रे तदनुसूयया ।।

वसन्नपि मया काश्यां यतः संभावितो न सः ।। ६९ ।।

मुने क्षेत्रं यदत्याक्षीस्त्वमप्येवंविधो वशी ।।

शंके तत्राहमेवाद्धा कामं तस्यैव विक्रियाम् ।। ६६ ।।

मनाग्विरुद्धाचरणं यदि द्विज विलक्षयेत् ।।

हरिकेशस्तदा काश्यां क्व स्थितिः क्व च निर्वृतिः ।। ६७ ।।

दंडपाणिमनाराध्य कः काश्यां सुखमाप्नुयात् ।।

प्रविविक्षुरहं काशीं दूरगोपि भजामि तम् ।। ६८ ।।

रत्नभद्रांगजोद्भूतं पूर्णभद्रसुतोत्तम ।।

निर्विघ्नं कुरु मे यक्ष काशीवासं शिवाप्तये ।। ६९ ।।

धन्यो यक्षः पूर्णभद्रो धन्या कांचनकुंडला ।।

ययोर्जठरपीठेभूर्दंडपाणे महामते ।। 4.1.32.१७० ।।

जय यक्षपते धीर जय पिंगललोचन ।।

जय पिंगजटाभार जय दंड महायुध ।। ७१ ।।

अविमुक्त महाक्षेत्र सूत्रधारोग्रतापस ।।

दंडनायक भीमास्य जय विश्वेश्वरप्रिय ।। ७२ ।।

सौम्यानां सौम्यवदन भीषणानां भयानक ।।

क्षेत्रपापधियां काल महाकालमहाप्रिय ।। ७३ ।।

जयप्राणद यक्षेंद्र काशीवासान्नमोक्षद ।।

महारत्नस्फुरद्रश्मि चयचर्चित विग्रह ।। ७४ ।।

महासंभ्रातिजनक महोद्भ्रांति प्रदायक ।।

अभक्तानां च भक्तानां संभ्रात्युद्भ्रांति नाशक ।। ७५ ।।

प्रांतनेपथ्यचतुर जयज्ञाननिधिप्रद ।।

जयगौरीपदाब्जाले मोक्षेक्षणविचक्षण ।। ७६ ।।

यक्षराजाष्टकं पुण्यमिदं नित्यं त्रिकालतः ।।

जपामि मैत्रावरुणे वाराणस्याप्तिकारणम् ।। ७७ ।।

दंडपाण्यष्टकं धीमाञ्जपन्विघ्नैर्न जातुचित् ।।

श्रद्धया परिभूयेत काशीवासफलं लभेत ।। ७८ ।।

प्रादुर्भावं दंडपाणेः शृण्वन्तोत्रमिदं गृणन् ।।

विपत्तिमन्यतः प्राप्य काशीं जन्मांतरे लभेत् ।। ७९ ।।

श्रुत्वाध्यायमिमं पुण्यं दंडपाणिसमुद्भवम् ।।

पठित्वा पाठयित्वापि न र्विघ्रैरभिभूयतै ।। 4.1.32.८० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे दंडपाणिप्रादुर्भावो नाम द्वात्रिंशोऽध्यायः ।। ३२ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 33

।। अगस्त्य उवाच ।। ।।

स्कंदज्ञानोदतीर्थस्य माहात्म्यं वद सांप्रतम् ।।

ज्ञानवापीं प्रशंसंति यतः स्वर्गौकसोप्यलम् ।।१।।

।। स्कंद उवाच ।। ।।

घटोद्भव महाप्राज्ञ शृणु पापप्रणोदिनीम् ।।

ज्ञानवाप्याः समुत्पत्तिं कथ्यमानां मयाधुना ।।२।।

अनादिसिद्धे संसारे पुरा देवयुगे मुने ।।

प्राप्तः कुतश्चिदीशानश्चरन्स्वैरमितस्ततः ।। ३ ।।

न वर्षंति यदाभ्राणि न प्रावर्तंत निम्रगाः ।।

जलाभिलाषो न यदा स्नानपानादि कर्मणि ।। ४ ।।

क्षारस्वादूदयोरेव यदासीज्जलदर्शनम् ।।

प्रथिव्यां नरसंचारे वतर्माने क्वचित्क्वचित् ।। ५ ।।

निर्वाणकमलाक्षेत्रं श्रीमदानंदकाननम् ।।

महाश्मशानं सर्वेषां बीजानां परमूषरम् ।। ६ ।।

महाशयनसुप्तानां जंतूनां प्रतिबोधकम् ।।

संसारसागरावर्त पतज्जंतुतरंडकम् ।। ७ ।।

यातायातातिसंखिन्न जंतुविश्राममंडपम ।।

अनेकजन्मगुणित कर्मसूत्रच्छिदाक्षुरम् ।। ८।।

सच्चिदानंदनिलयं परब्रह्मरसायनम् ।।

सुखसंतानजनकं मोक्षसाधनसिद्धिदम् ।। ९ ।।

प्रविश्य क्षेत्रमेतत्स ईशानो जटिलस्तदा ।।

लसत्त्रिशूलविमलरश्मिजालसमाकुलः ।। 4.1.33.१० ।।

आलुलोके महालिंगं वैकुंठपरमेष्ठिनोः ।।

महाहमहमिकायां प्रादुरास यदादितः ।। ११ ।।

ज्योतिर्मयीभिर्मालाभिः परितः परिवेष्टितम् ।।

वृंदैर्वृंदारकर्षीणां गणानां च निरंतरम् ।। १२ ।।

सिद्धानां योगिनां स्तोमैरर्च्यमानं निरंतरम् ।।

गीयमानं च गंधर्वैः स्तूयमानं च चारणैः ।। १३ ।।

अंगहारैरप्सरोभिः सेव्यमानमनेकधा ।।

नीराज्यमानं सततं नागीभिर्मणिदीपकैः ।। १४ ।।

विद्याधरीकिन्नरीभिस्त्रिकालं कृतमंडनम् ।।

अमरीचमरीराजि वीज्यमानमितस्ततः ।। १५ ।।

अस्येशानस्य तल्लिंगं दृष्ट्वेच्छेत्यभवत्तदा ।।

स्नपयामि महल्लिंगं कलशैः शीतलैर्जलैः ।। १६ ।।

चखान च त्रिशूलेन दक्षिणाशोपकंठतः ।।

कुंडं प्रचंडवेगेन रुद्रोरुद्रवपुर्धरः ।। १७ ।।

पृथिव्यावरणांभांसि निष्क्रांतानि तदा मुने ।।

भूप्रमाणाद्दशगुणैर्यैरियं वसुधावृता ।। १८ ।।

तैर्जलैः स्नापयांचक्रे त्वत्स्पृष्टैरन्यदेहिभिः

तुषारैर्जाड्यविधुरैर्जंजपूकौघहारिभिः ।। १९ ।।

सन्मनोभिरिवात्यच्छैरनच्छैर्व्योमवर्त्मवत् ।।

ज्योत्स्नावदुज्ज्वलच्छायैः पावनैः शंभुनामवत् ।। 4.1.33.२० ।।

पीयूषवत्स्वादुतरैः सुखस्पर्शैर्गवांगवत् ।।

निष्पापधीवद्गंभीरैस्तरलैः पापिशर्मवत् ।। २१ ।।

विजिताब्जमहागंधैः पाटलामोदमोदिभिः ।।

अदृष्टपूर्वलोकानां मनोनयनहारिभिः ।। २२ ।।

अज्ञानतापसंतप्त प्राणिप्राणैकरक्षिभिः ।।

पंचामृतानां कलशैः स्नपनातिफलप्रदैः ।। २३ ।।

श्रद्धोपस्पर्शि दृदयलिंग त्रितयहेतुभिः ।।

अज्ञानतिमिरार्काभैर्ज्ञानदान निदायकैः।।२४।।

विश्वभर्तुरुमास्पर्शसुखातिसुखकारिभिः ।।

महावभृथसुस्नान महाशुद्धिविधायिभिः ।। २५ ।।

सहस्रधारैः कलशैः स ईशानो घटोद्भव ।।

सहस्रकृत्वः स्नपयामास संहृष्टमानसः ।। २६।।

ततः प्रसन्नो भगवान्विश्वात्मा विश्वलोचनः ।।

तमुवाच तदेशानं रुद्रं रुद्रवपुर्धरम् ।। २७ ।।

तव प्रसन्नोस्मीशान कर्मणानेन सुव्रत ।।

गुरुणानन्यपूर्वेण ममातिप्रीतिकारिणा ।। २८ ।।

ततस्त्वं जटिलेशान वरं ब्रूहि तपोधन ।।

अदेयं न तवास्त्यद्य महोद्यमपरायण ।। २९ ।।

।। ईशान उवाच ।। ।।

यदि प्रसन्नो देवेश वरयोग्योस्म्यहं यदि ।।

तदेतदतुलं तीर्थं तव नाम्नास्तु शंकर ।। 4.1.33.३० ।।

।।विश्वेश्वर उवाच ।।

त्रिलोक्यां यानि तीर्थानि भूर्भुवःस्वः स्थितान्यपि ।।

तेभ्योखिलेभ्यस्तीर्थेभ्यः शिवतीर्थमिदं परम् ।। ३१ ।।

शिवज्ञानमिति ब्रूयुः शिवशब्दार्थचिंतकाः ।।

तच्च ज्ञानं द्रवीभूतमिह मे महिमोदयात् ।। ३२ ।।

अतो ज्ञानोद नामैतत्तीर्थं त्रैलोक्यविश्रुतम् ।।

अस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते। ।। ३३ ।।

ज्ञानोदतीर्थसंस्पर्शादश्वमेधफलं लभेत् ।।

स्पर्शनाचमनाभ्यां च राजसूयाश्वमेधयोः ।। ३४ ।।

फल्गुतीर्थे नरः स्नात्वा संतर्प्य च पितामहान् ।।

यत्फलं समवाप्नोति तदत्र श्राद्धकर्मणा ।। ३५ ।।

गुरुपुष्यासिताष्टम्यां व्यतीपातो यदा भवेत् ।।

तदात्र श्राद्धकरणाद्गयाकोटिगुणं भवेत् ।। ३६ ।।

यत्फलं समवाप्नोति पितॄन्संतर्प्य पुष्करे ।।

तत्फलं कोटिगुणितं ज्ञानतीर्थे तिलोदकैः ।। ३७ ।।

सन्निहत्यां कुरुक्षेत्रे तमोग्रस्ते विवस्वति ।।

यत्फलं पिंडदानेन तज्ज्ञानोदे दिने दिने।।३८।।

पिंडनिर्वपणं येषां ज्ञानतीर्थे सुतैः कृतम्।।

मोदंते शिवलोके ते यावदाभूतसंप्लवम् ।। ३९ ।।

अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः ।।

प्रातः स्नात्वाथ पीतांभस्त्वंतर्लिंगमयो भवेत् ।। 4.1.33.४० ।।

एकादश्यामुपोष्यात्र प्राश्नाति चुलुकत्रयम् ।।

हृदये तस्य जायंते त्रीणि लिंगान्यसंशयम् ।।४१।।

ईशानतीर्थे यः स्नात्वा विशेषात्सोमवासरे ।।।

संतर्प्य देवर्षि पितॄन्दत्त्वा दानम स्वशक्तितः ।। ४२ ।।

ततः समर्च्य श्रीलिंगं महासंभारविस्तरैः ।।

अत्रापि दत्त्वा नानार्थान्कृतकृत्योभवेन्नरः ।। ४३ ।।

उपास्य संध्यां ज्ञानोदे यत्पापं काललोपजम् ।

क्षणेन तदपाकृत्य ज्ञानवाञ्जायते द्विजः ।। ४४ ।।

शिवतीर्थमिदं प्रोक्तं ज्ञानतीर्थमिदं शुभम् ।।

तारकाख्यमिदं तीर्थं मोक्षतीर्थमिदं धुवम् ।। ४५ ।।

स्मरणादपि पापौघो ज्ञानोदस्य क्षयेद्ध्रुवम् ।।

दर्शनात्स्पर्शनात्स्नानात्पानाद्धर्मादिसंभवः ।। ४६ ।।

डाकिनीशाकिनी भूतप्रेतवेतालराक्षसाः ।।

ग्रहाः कूष्मांडझोटिंगाः कालकर्णी शिशुग्रहाः ।। ४७ ।।

ज्वरापस्मारविस्फोटद्वितीयकचतुर्थकाः ।।

सर्वे प्रशममायांति शिवर्तार्थजलेक्षणात्।। ।। ४८ ।।

ज्ञानोदतीर्थपानीयैर्लिंगं यः स्नापयेत्सुधीः ।।

सर्वतीर्थोदकैस्तेन ध्रुवं संस्नापितं भवेत् ।। ४९ ।।

ज्ञानरूपोह मेवात्र द्रवमूर्तिं विधाय च ।।

जाड्यविध्वंसनं कुर्यां कुर्यां ज्ञानोपदेशनम् ।। 4.1.33.५० ।।

इति दत्त्वा वराञ्छंभुस्तत्रैवांतरधीयत ।।

कृतकृत्यमिवात्मानं सोप्यमंस्तत्रिशूलभृत् ।। ५१ ।।

ईशानो जटिलो रुद्रस्तत्प्राश्य परमोदकम्।।

अवाप्तवान्परं ज्ञानं येन निर्वृतिमाप्तवान्।। ५२ ।।

।। स्कंद उवाच ।। ।।

कलशोद्भव चित्रार्थमितिहासं पुरातनम् ।।

ज्ञानवाप्यां हि यद्वृत्तं तदाख्यामि निशामय ।। ५३ ।।

हरिस्वामीति विख्यातः काश्यामासीद्विजः पुरा ।।

तस्यैका तनया जाता रूपेणाऽप्रतिमा भुवि ।। ५४ ।।

न समा शीलसंपत्त्या तस्या काचन भूतले ।।

कलाकलापकुशला स्वरेणजितकोकिला ।। ५५ ।।

न नारी तादृगस्तीह ना भरी किन्नरी न च [।।

विद्याधरी न नो नागी गंधर्वी नासुरी न च ।। ५६ ।।

सर्वसौंदर्यनिलया सर्वलक्षणसत्खनिः ।।

अधिशेते ध्रुवं ध्वांतं तन्मौलिं ब्रध्न साध्वसात् ।।९७।।

तदास्य शरणं यातो मन्ये दर्शभयाच्छशी ।।

दिवापि न त्यजेत्तां तु त्रस्तश्चंडमरीचितः ।। ५८ ।।

तद्भ्रूर्भ्रमरराजीव गंडपत्रलतांतरे ।।

उदंचन्न्यंचदुड्डीन गतेरभ्यासभाजिनी ।। ५९ ।।

तच्चारुलोचनक्षेत्रे विचरंतौ च खंजनौ ।।

सदैव शारदीं प्रीतिं निर्विशेते निजेच्छया ।। 4.1.33.६० ।।

सुदत्या रदनश्रेणी छेदेषु विषमेषुणा ।।

विहिता कांचनी रेखा क्वेंदावेतावती कला ।। ६१ ।।

प्रायो मदन भूपाल हर्म्य रत्नांतरे शुभे ।।

जितप्रवालसुच्छाये तस्या रदनवाससी ।।६२।।

स्वर्गे मर्त्ये च पाताले नैषा रेखा क्वचित्स्त्रियाम्।।

तत्कंठरेखात्रितय व्याजेन शपते स्मरः ।। ६३ ।।

शंके चित्त भुवो राज्ञो लसत्पटकुटीद्वयम् ।।

अनर्घ्यरत्नकोशाढ्यं तम्या वक्षोरुहद्वयम् ।। ६४ ।।

अनंगभू नियमतोऽदृश्ये मध्ये नतभ्रुवः ।।

रोमालीलक्षिकामूर्ध्वामिव यष्टिं विधिर्व्यधात् ।। ६५ ।।

तस्या नाभीदरीं प्राप्य कंदर्पोऽनंगता गतः ।।

पुनः प्राप्तुमिवांगानि तप्यते परमं तपः ।। ६६ ।।

गुरुणैतन्नितंबेन महामन्मथ दीक्षया ।।

भुवि के के युवानो न स्वाधीना प्रापितादृशाम् ।। ६७ ।।

ऊरुस्तंभेन चैतस्याः स्तंभवत्कस्यनो मनः ।।

तस्तंभेन मुने वापि सुवृत्तेन सुवर्तनम् ।। ६८ ।।

पादांगुष्ठनखज्योतिः प्रभया कस्य न प्रभा ।।

विवेकजनिताऽध्वंसि मुने तस्या मृगीदृशः ।। ।। ६९ ।।

सा प्रत्यहं ज्ञानवाप्यां स्नायं स्नायं शिवालये ।।

संमार्जनादि कर्माणि कुरुतेऽनन्यमानसा ।। 4.1.33.७० ।।

तत्पादप्रतिबिंबेषु रेखा शष्पांकुरं चरन् ।।

नान्यद्वनांतरं याति काश्यां यूनां मनोमृगः ।। ७१ ।।

तदास्य पंकजं हित्वा यूनां नेत्रालिमालया ।।

न लतांतरमासेवि अप्यामोदप्रसूनयुक् ।। ७२ ।।

सुलोचनापि सा कन्या प्रेक्षेतास्यं न कस्यचित् ।।

सुश्रवा अपि सा बाला नादत्ते कस्यचिद्वचः ।। ७३ ।।

सुशीला शीलसंपन्ना रहस्तद्विरहातुरैः ।।

प्रार्थितापि सुरूपाढ्यैर्नाभिलाषं बबंध सा ।। ७४ ।।

धनैस्तस्याजनेतापि युवभिः प्रार्थितो बहु ।।

नाशकत्तां सुलीलां सदातुं शीलोर्जितश्रियम् ।। ७५ ।।

ज्ञानोदतीर्थभजनात्सा सुशीला कुमाग्किा ।।

बहिरंतस्तदाऽद्राक्षीत्सर्वलिंगमयं जगत ।। ७६ ।।

कदाचिदेकदा तां तु प्रसुप्तां सदनांगणे ।।

मोहितो रूपसंपत्त्या कश्चिद्विद्याधरोऽहरत् ।। ७७ ।।

व्योमवर्त्मनितां रात्रौ यावन्मलयपर्वतम् ।।

स निनीषति तावच्च विद्युन्माली समागतः ।। ७८ ।।

राक्षसो भीषणवपुः कपालकृतकुंडलः ।।

वसारुधिरलिप्तांगः श्मश्रुलः पिंगलोचनः ।। ७९ ।।

राक्षस उवाच ।। ।।

ममदृग्गोचरं यातो विद्याधरकुमारक ।।

अद्य त्वामेतया सार्धं प्रेषयामि यमालयम्।।4.1.33.८०।।

इति श्रुत्वाथ सा वाक्यं व्याघ्राघ्राता मृगी यथा ।।

चकंपेऽतीव संभीता कदलीदलवन्मुहुः ।। ८१ ।।

निजघान त्रिशूलेन रक्षो विद्याधरं च तम् ।।

विद्याधरकुमारोपि नितरां मधुराकृतिः ।। ८२ ।।

तद्भीषणत्रिशूलेन भिन्नोस्को महाबलः ।।

जघान मुष्टिघातेन वज्रपातोपमेन तम् ।। ८३ ।।

नरमांसवसामत्तं विद्युन्मालिनमाहवे ।।

चूर्णितो मुष्टिपातेन सोऽपतद्वसुधातले ।। ८४ ।।

राक्षसो मृत्युवशगो वज्रेणेव महीधरः ।।

विद्याधरोपि तच्छूलघातेन विकलीकृतः ।। ८५ ।।

उवाच गद्गदं वाक्यं विघूर्णित विलोचनः ।।

प्रिये मुधा समानीता सुशित्यर्धोक्तिमुच्चरन् ।। ८६ ।।

जहौ प्राणान्रणे वीरस्तां प्रियां परितः स्मरन् ।। ८७ ।।

अनन्यपूर्वसंस्पर्श सुखं समनुभूय सा ।।

तमेव च पतिं मत्वा चक्रे शोकाग्निसात्तनुम् ।। ८८ ।।

लिंगत्रयशरीरिण्यास्तस्याः सान्निध्यतः स हि ।।

दिव्यं वपुः समासाद्य राक्षसस्त्रिदिवं ययौ ।। ८९ ।।

रणे पणीकृतप्राणो विद्याधरसुतोपि सः ।।

अंते प्रियां स्मरन्प्राप जनुर्मलयकेतुतः ।। 4.1.33.९० ।।

ध्यायंती सापि तं बाला विद्याधरकुमारकम्।।

विरहाग्नौ विसृष्टासुः कर्णाटे जन्मभागभूत् ।।९१।।

सुतो मलयकेतोस्तां कालेन परिणीतवान् ।।

माल्यकेतुरनंगश्रीः पित्रा दत्तां कलावतीम् ।। ९२ ।।

सापि प्राग्वासनायोगाल्लिंगार्चनरता सती ।।

हित्वा मलयजक्षोदं विभूतिं बह्वमंस्त वै।। ।। ९३ ।।

मुक्ता वैदूर्य माणिक्य पुष्परागेभ्य एव सा ।।

मेने रुद्राक्षनेपध्यमनर्घ्यं गर्भसुंदरी ।। ९४ ।।

कलावती माल्यकेतुं पतिं प्राप्य पतिव्रता ।।

अपत्यत्रितयं लेभे दिव्यभोगसमृद्धिभाक् ।। ९५ ।।

एकदा कश्चिदौदीच्यो माल्यकेतुं नरेश्वरम् ।।

चित्रकृच्चित्रपटिकां चित्रां दर्शितवानथ ।। ९६ ।।

तां तु चित्रपटीं राजा कलावत्यै समर्पयत् ।।

साथ चित्रपटीं रम्यां संप्रहृष्टतनूरुहा ।। ९७ ।।

मुहुर्मुहुः प्रपश्यंती रहसि प्राणदेवताम् ।।

विसस्मार स्वमपि च समाधिस्थेव योगिनी ।। ९८ ।।

क्षणमुन्मील्य नयने कृत्वा नेत्रातिथिं पटीम् ।।

तर्जन्यग्रमथोत्क्षिप्य स्वात्मानं समबोधयत् ।।९९।।

संभेदोयमसे रम्य उपलोलार्कमग्रतः ।।

उपश्रीकेशवपदं वरणैषा सरिद्वरा ।।4.1.33.१००।।

स्वगें प्रार्थितसंस्पर्शा सैषा स्वर्गतरंगिणी ।।

उदग्वहाभिलष्यंति यां दिवोद्युसदः सदा ।।१।।

अलक्ष्यामोक्षलक्ष्मी र्या वेदांते परिपठ्यते ।।

विमुक्तये सतां सैषा श्रीमती मणिकर्णिका ।। २ ।।

मरणं मंगलं यत्र सफलं यत्र जीवितम् ।।

स्वर्गस्तृणायते यत्र सैषा श्रीमणिकर्णिका।। ।। ३ ।।

यत्र संपत्तिसंभारान्विश्राण्य निधनेच्छया ।।

यतिव्रतं समालंब्य तिष्ठते मूलकंदभुक् ।। ४ ।।

यत्र त्रिमार्गं गांगं गां मार्गमाणोमृतान्हरः ।।

स्वमौलिबालचंद्रेण मुक्तिमार्गं प्रदर्शयन् ।। ५ ।।

संसारं यत्र दुर्वारं प्रतारयति शंकरः ।।

मृता अप्यमृतायंते कर्णधाराद्यतो नराः ।। ६ ।।

संसारासारपदवी यत्र स्याददवीयसी ।।

कर्णे जपान्महेशानात्करुणा वरुणालयात् ।। ७ ।।

अनेक भवसंभूत प्रभूत सुकृतैर्नराः ।।

कर्णे जपं भवं यत्र लभंते ते भवापहम् ।। ८ ।।

स्वीकृत्य क्षेत्रसंन्यासं यद्बलेन महाधियः ।।

तृणं कृतातं मन्यंते सेयं श्रीमणिकर्णिका ।। ९ ।।

तृणीकृत्य निजं देहं यत्र राजर्षिसत्तमः ।।

हरिश्चंद्रः सपत्नीको व्यक्रीणाद्भूरयं हि सा ।। 4.1.33.११० ।।

अभिलष्यंति यत्रत्यमपि वैकुण्ठवासिनः ।।

सैकतं मृदुलं तल्पं सैषा श्रीमणिकर्णिका ।। ।। ११ ।।

अनेक जन्म जनित कर्मसूत्रनियंत्रणम् ।।

उन्मुच्य यत्र मुक्ताः स्युः सैषा श्रीमणिकर्णिका ।। १२ ।।

सत्यलोकेऽपि ये लोकास्तेऽर्थयंति निरंतरम् ।।

यामहो दीर्घनिद्रायै सेयं श्रीमणिकर्णिका ।। १३ ।।

अयं हि स कुलस्तंभो यत्र श्रीकालभैरवः ।।

क्षेत्रपापकृतः शास्ति दर्शयंस्तीव्रयातनाम् ।। १४ ।।

अन्यत्र विहितं पापं नश्येत्काशीनिरीक्षणात् ।।

काश्यां कृतानां पापानां दारुणेयं तु यातना ।।१५।।

कपालमोचनं तीर्थमेतत्तदपि पावनम् ।।

कपालं पतितं यत्र विधेर्भैरवपाणितः ।। १६ ।।

ऋणत्रयाद्विमुच्यंते यत्र स्नाता नरोतमाः ।।

तीर्थं विशुद्धिजनकं तदेतदृणमोचनम् ।। १७ ।।

प्रणवाख्यं परंब्रह्म यत्र नित्यं प्रकाशते ।।

सपंचायतनोपेत ॐकारेशोयमद्भुतः ।। १८ ।।

अश्च उश्च मकारश्च नादोबिंदुश्च पंचमः ।।

पंचात्मकं परंब्रह्म यत्र नित्यं प्रकाशते ।।१९।।

एषा मत्स्योदरी रम्या यत्स्नातो मानवोत्तमः ।।

मातुर्जातूदरदरीं न विशेदेष निश्चयः ।।4.1.33.१२०।।

त्रिलोचनोयं भगवान्कुर्यादेव त्रिलोचनम्।।

निजभक्तं कृपायुक्तस्त्वपि देशातंर स्थितम् ।। २१ ।।

असौ कामेश्वरो देवो यः कामान्पूरयेत्सताम् ।।

दुर्वासा अपि यत्राप निजकाममहोदयम् ।। २२ ।।

स्वयं लीनो महेशोत्र भक्तकामसमृद्धये ।।

तस्मात्स्वर्लीनसंज्ञास्य देवदेवस्य शूलिनः ।। २३ ।।

वाराणस्यां महादेवो यः पुराणेषु पठ्यते ।।

क्षेत्राभिमानी भगवांस्तत्प्रासादोयमद्भुतः ।। २४ ।।

असौ स्कंदेश्वरो देवः श्रद्धया यद्विलोकनात् ।।

आजन्मब्रह्मचर्यस्य फलमाप्नोति मानवः ।। २५ ।।

विनायकेश्वरश्चायं सर्वसिद्धि प्रदायकः ।।

यत्सेवया प्रणश्यंति नृणां सर्वे विनायकाः ।।२६।।

इयं वाराणसी देवी साक्षान्मूर्त्तिमयी शुभा ।।

यस्या विलोकनात्पुंसां भूयो नो गर्भसंभवः।। ।।२७।।

पार्वतीश्वरलिंगस्य महदायतनं त्विदम् ।।

यत्र नित्यं महेशानो गौर्या सह विमुक्तिदः ।।२८।।

एष भृंगीश्वरः श्रीमान्महापातकनाशनः ।।

जीवन्मुक्तोऽभवद्भृंगी यस्य लिंगस्य सेवया ।। २९ ।।

चतुर्वेदेश्वरश्चैष चतुर्वेदधरो विधिः ।।

लभेद्यद्वीक्षणाद्विप्रो वेदाध्ययनजं फलम् ।। 4.1.33.१३० ।।

यज्ञैः संस्थापितं चैतल्लिंगं यज्ञेश्वराभिधम् ।।

यदर्चनाल्लभेन्मर्त्यः सर्वयागफलं महत् ।। ३१ ।।

पुराणेश्वर नामैतल्लिंगमष्टादशांगुलम् ।।

अष्टादशानां विद्यानां स्यादाधारो यदीक्षणात् ।। ३२ ।।

धर्मशास्त्रेश्वरश्चायं स्मृतिभिश्च प्रतिष्ठितः ।।

स्मृत्यध्ययनजं पुण्यं यद्विलोकनतो भवेत् ।। ३३ ।।

सारस्वतमिदं लिंगं सर्वजाड्यविनाशकृत् ।।

सर्वतीर्थेश्वरं लिंगमेतत्सद्यो विशुद्धिदम् ।।३४।।

शैलेश्वरस्य लिंगस्य मंडपोयं महाद्भुतः ।।

सर्वेषां रत्नजातानां यो बिभर्ति परां श्रियम् ।। ३५ ।।

सप्तसागरसंज्ञं वै लिंगमेतन्मनोहरम् ।।

यद्वीक्षणाल्लभेन्मर्त्यः सप्ताब्धिस्नानजं फलम् ।। ३६ ।।

असौ मंत्रेश्वरः श्रीमान्मंत्रजाप्यफलप्रदः ।।

सप्तकोटिमहामंत्रैः स्थापितो यः पुरा युगे ।।३७।।

त्रिपुरेशस्य लिंगस्य पुरः कुंडमिदं महत् ।।

त्रिपुरैः खानितं पूर्वं त्रिपुरारिप्रियं परम् ।।३८।।

इदं वाणेश्वरं लिंगं सहस्रभुजपूजितम् ।।

द्विभुजस्यापि बाणस्य सहस्रभुजहेतुकम् ।। ३९ ।।

वैरोचनेश्वरश्चैष पुरः प्रह्लादकेशवात् ।।

बलिकेशवनामासावेष नारदकेशवः ।। 4.1.33.१४० ।।

आदिकेशव पूर्वेण त्वयमादित्यकेशवः ।।

भीष्मकेशवनामासौ दत्तात्रेयेश्वरस्त्वयम् ।। ४१ ।।

दत्तात्रेयेश्वरात्पूर्वमेष आदि गदाधरः ।।

भृगुकेशवनामासावेष वामनकेशवः ।। ४२ ।।

नरनारायणावेतौ यज्ञवाराहकेशवः ।।

विदारनारसिंहोयं गोपीगोविंद एष ह ।। ४३ ।।

एष लक्ष्मीनृसिंहस्य प्रासादो रत्नकेतनः ।।

यस्य प्रसादात्प्रह्लादः पदमैंद्रमवाप्तवान् ।। ४४ ।।

अखर्वसिद्धिदः पुंसामेष खर्वविनायकः ।।

शेषमाधवनामासौ शेषेण स्थापितः पुरा ।।४५।।

यस्य भक्ता न दह्यंते त्वपि संवर्तवह्निना ।।

शंखमाधवनामासौ शंखं हत्वात्र संस्थितः ।।४६।।

इदं सारस्वतं स्रोतः परं ब्रह्मरसायनम् ।।

सरस्वत्या महानद्याः संगमो यत्र गंगया ।। ४७ ।।

यत्राप्लुता नरा भूयः संभवंति न भूतले ।।

श्रीबिंदुमाधवस्त्वेष साक्षाल्लक्ष्मीपतिः परः ।। ४८ ।।

श्रद्धया यं नमन्मर्त्यो न वसेद्गर्भवेश्मनि ।।

न दारिद्र्यमवाप्नोति व्याधिभिर्नाभिभूयते ।। ४९ ।।

बिंदुमाधवभक्तो यस्तं यमोपि नमस्यति ।।

प्रणवात्मा य एकोऽस्ति नादबिंदु स्वरूपधृक् ।।4.1.33.१५०।।

अमूर्तं यत्परं ब्रह्म बिंदुमाधव एव सः ।।

एतत्पंचनदं तीर्थं पंचब्रह्मात्मसंज्ञकम् ।।५१।।

यत्र स्नातो न गृह्णीयाच्छरीरं पांचभौतिकम् ।।

एषा सा मंगलागौरी काश्यां परममंगलम् ।। ५२ ।।

यत्प्रसादादवाप्नोति नरोऽत्र च परत्र च ।।

मयूखादित्यसंज्ञोयं रश्मिमाली तमोपहः ।। ५३ ।।

गभस्तीशो महालिंगमेतद्दिव्यमहःप्रदम् ।।

मृकंडुसूनुनाप्यत्र तपस्तप्तं पुरा महत् ।। ५४ ।।

लिंगं संस्थाप्य परमं स्वनाम्नायुःप्रदं परम् ।।

किरणेश्वरनामैतल्लिंगं त्रैलोक्यविश्रुतम् ।। ५५ ।।

सकृन्न तमिदं लोकं नयेत्किरणमालिनः ।।

धौतपापेश्वरं लिंगमेतत्पातकधावनम् ।। ५६ ।।

निर्वाणनरसिंहोयं भक्तनिर्वाणकारणम् ।।

मणिप्रदीपनागोयं महामणिविभूषणः ।। ५७ ।।

यदर्चनान्नरो जातु न नागैः परिभूयते ।।

कपिलेशमिदं लिंगं कपिलेन प्रतिष्ठितम्।। ।। ५८ ।।

मुच्यंते कपयोप्यस्य दर्शनात्किमु मानवाः ।।

प्रियव्रतेश्वरं लिंगं महदेतत्प्रकाशते ।।५९ ।।

यस्यार्चनाल्लभेज्जंतुः प्रियत्वं सर्वजन्तुषु ।।

इदमायतनं श्रेष्ठं मणिमाणिक्यनिर्मितम् ।। 4.1.33.१६० ।।

श्रीमतः कालराजस्य कलिकालार्तिहारिणः ।।

निजभक्तं जनं पाति यः पापात्पापभक्षणः ।। ६१ ।।

क्षेत्रविघ्नकरान्पापान्यातयन्यातना शतैः ।।

इयं मंदाकिनी रम्या तपस्तप्तुमिहागता ।। ६२ ।।

काशीवाससुखं प्राप्य नाद्यापि दिवमीहते ।।

स्नात्वात्र संतर्प्य पितॄञ्छ्राद्धं कृत्वा विधानतः ।। ६३ ।।

नरो न नरकं पश्येदपि दुष्कृतकर्मकृत् ।।

यानि कानि च लिंगानि काश्यां संति सहस्रशः ।। ६४ ।।

रत्नभूतमिदं तेषु लिंगं रत्नेश्वराभिधम् ।।

रत्नेश्वरप्रसादेन भुक्त्वा रत्नान्यनेकशः ।। ६५ ।।

पुरुषार्थमहारत्नं निर्वाणं को न लब्धवान् ।।

कृत्तिवासेश्वरस्यैषा महाप्रासादनिर्मितिः ।। ।। ६६ ।।

यां दृष्ट्वापि नरो दूरात्कृत्तिवासः पदं लभेत् ।।

सर्वेषामपि लिंगानां मौलित्वं कृत्तिवाससः ।। ६७ ।।

ॐकारेशः शिखा ज्ञेया लोचनानि त्रिलोचनः ।।

गोकर्णभारभूतेशौ तत्कर्णौ परिकीर्तितौ ।।६८।।

विश्वेश्वराविमुक्तौ च द्वावेतौ दक्षिणौ करौ ।।

धर्मेशमणिकर्णेशौ द्वौ करौ दक्षिणेतरौ ।। ६९ ।।

कालेश्वरकपर्दीशौ चरणावतिनिर्मलौ ।।

ज्येष्ठेश्वरो नितंबश्च नाभिर्वै मध्यमेश्वरः ।। 4.1.33.१७० ।।

कपर्दोस्य महादेवः शिरोभूषा श्रुतीश्वरः ।।

चंद्रेशो हृदयं तस्य आत्मा वीरेश्वरः परः ।। ७१ ।।

लिंगं तस्य तु केदारः शुक्रं शुक्रेश्वरं विदुः ।।

अन्यानि यानि लिंगानि परः कोटि शतानि च ।। ७२ ।।

ज्ञेयानि नखलोमानि वपुषो भूषणान्यपि ।।

यावेतौ दक्षिणौ हस्तौ नित्यनिर्वाणदौ हि तौ ।। ७३ ।।

जंतूनामभयं दत्त्वा पततां मोहसागरे ।।

इयं दुर्गा भगवती पितृलिंगमिदं परम् ।। ७४ ।।

इयं हि चित्रघंटेशी घंटाकर्ण ह्रदस्त्वयम् ।।

इयं सा ललिता गौरी विशालाक्षीयमद्भुता ।। ७५ ।।

आशाविनायकस्त्वेष धर्मकूपोयमद्भुतः ।।

यत्र पिंडान्नरो दत्त्वा पितॄन्ब्रह्मपदं नयेत् ।। ७६ ।।

एषा विश्वभुजा देवी विश्वैकजननी परा ।।

असौ बंदी महादेवी नित्यं त्रैलोक्यवंदिता ।। ७७ ।।

निगडस्थानपि जनान्पाशान्मोचयति स्मृता।।

दशाश्वमेधिकं तीर्थमेतत्त्रैलोक्यवंदितम् ।। ७८ ।।

यत्राहुतित्रयेणापि अग्निहोत्रफलं लभेत् ।।

प्रयागाख्यमिदं स्रोतः सर्वतीर्थोत्तमोत्तमम्।।७९।।

अशोकाख्यमिदं तीर्थं गंगाकेशव एष वै।।

मोक्षद्वारमिदं श्रेष्ठं स्वर्ग द्वारमिदं विदुः ।। 4.1.33.१८० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ज्ञानवापीवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ।।३३।।

खण्डः ४ (काशीखण्डः) — Adhyāya 34

।। स्कंद उवाच ।। ।।

पुनर्ददर्श तन्वंगी चित्रपट्यां घटोद्भव ।।

स्वर्गद्वारात्पुरोभागे श्रीमतीं मणिकर्णिकाम् ।। १ ।।

संसारसर्पदष्टानां जंतूनां यत्र शंकरः ।।

अपसव्येन हस्तेन ब्रूते ब्रह्मस्पृशञ्छ्रुतिम् ।। २ ।।

न कापिलेन योगेन न सांख्येन न च व्रतैः ।।

या गतिः प्राप्यते पुंभिस्तां दद्यान्मोक्षभूरियम् ।। ३ ।।

वैकुंठे विष्णुभवने विष्णुभक्तिपरायणाः ।।

जपेयुः सततं मुक्त्यै श्रीमतीं मणिकर्णिकाम् ।।४।।

हुत्वाग्निहोत्रमपि च यावज्जीवं द्विजोत्तमाः ।।

अंते श्रयंते मुक्त्यै यां सेयं श्रीमणिकर्णिका ।। ५ ।।

वेदान्पठित्वा विधिवद्ब्रह्मयज्ञरता भुवि ।।

यां श्रयंति द्विजा मुक्त्यै सेयं श्रीमणिकर्णिका ।। ६ ।।

इष्ट्वा क्रतूनपि नृपा बहून्पर्याप्तदक्षिणान् ।।

श्रयंते श्रेयसे धन्याः प्रांतेऽधिमणिकर्णिकम् ।। ७ ।।

सीमंतिन्योपि सततं पतिव्रतपरायणाः ।।

मुक्त्यै पतिमनुव्रज्य श्रयंति मणिकर्णिकाम् ।। ८ ।।

वैश्या अपि च सेवंते न्यायोपार्जितसंपदः ।।

धनानि साधुसात्कृत्वा प्रांते श्रीमणिकर्णिकाम्।। ९ ।।

त्यक्त्वा पुत्रकलत्रादि सच्छूद्रा न्यायमार्गगाः ।।

निर्वाणप्राप्तये चैनां भजेयुर्मणिकर्णिकाम् ।। 4.1.34.१० ।।

यावज्जीवं चरंतोपि ब्रह्मचर्य जितेंद्रियाः ।।

निःश्रेयसे श्रयंत्येनां श्रीमतीं मणिकार्णकाम् ।। ११ ।।

अतिथीनपि संतर्प्य पंचयज्ञरता अपि ।।

गृहस्थाश्रमिणो नेमां त्यजेयुर्मणिकर्णिकाम् ।।१२।।

वानप्रस्थाश्रमयुजो ज्ञात्वा निर्वाणसाधनम् ।।

सन्नियम्येंद्रियग्रामं मणिकर्णीमुपासते ।। १३ ।।

अनन्यसाधनां मुक्तिं ज्ञात्वा शास्त्रैरनेकधा ।।

मुमुक्षुभिस्त्वेकदंडैः सेव्यते मणिकर्णिका ।। १४ ।।

दंडयित्वा मनोवाचं कायं नित्यं त्रिदंडिनः ।।

नैःश्रेयसीं श्रियं प्राप्तुं श्रयंते मणिकर्णिकाम् ।। १५ ।।

संन्यस्ताखिलकर्माणो दंडयित्वा चलं मनः ।।

एकदंडव्रता मुक्त्यै भजेयुर्मणिकर्णिकाम् ।। १५ ।।

शिखी मुंडी जटी वापि कौपीनी वा दिगंबरः ।।

मुमुक्षुः को न सेवेत मुक्तिदां मणिकर्णिकाम् ।।१७।। ।

तपःकर्तुं न शक्ता ये दानं वा दातुमक्षमाः ।।

योगाभ्यास विहीना ये तेषामेषा विमुक्तिदा ।। १- ।।

संत्युपायाः सहस्रं तु मुक्तये न तथा मुने ।।

हेलयैषा यथा दद्यान्निर्वाणं मणिकर्णिका ।। १९ ।।

अनशनव्रतभृते त्रिकालाभ्यवहारिणे ।।

प्रांते दद्यात्समां मुक्तिमुभाभ्यां मणिकर्णिका ।। 4.1.34.२० ।।

यथोक्तमाचरेदेको निष्ठा पाशुपतंव्रतम् ।।

निरंतरं स्मरेदेको हृद्येनां मणिकर्णिकाम् ।। २१ ।।

दृष्टात्र वपुषः पाते द्वयोश्च सदृशी गतिः ।।

तस्मात्सर्वविहायाशु सेव्यैषा मणिकर्णिका ।। ।। २२ ।।

स्वर्गद्वारे विशेयुर्ये विगाह्य मणिकर्णिकाम् ।।

तेषां विधूतपापानां कापि स्वर्गो न दूरतः ।। २३ ।।

स्वर्गद्वाः स्वर्गभूरेषा मोक्षभूर्मणिकर्णिका ।।

स्वर्गापवर्गावत्रैव नोपरिष्टान्न चाप्यधः ।।२४।।

दत्त्वा दानान्यनेकानि विगाह्य मणिकर्णिकाम् ।।

स्वर्गद्वारं प्रविष्टा ये न ते निरयगामिनः ।।२५।।

स्वर्गापवर्गयोरर्थः कोविदैश्च निरूपितः ।।

स्वर्गः सुखं समुद्दिष्टमपवर्गो महासुखम् ।। २६ ।।

मणिकर्ण्युपविष्टस्य यत्सुखं जायते सतः ।।

सिंहासनोपविष्टस्य तत्सुखं क्व शतक्रतोः ।। २७ ।।

महासुखं यदुद्दिष्टं समाधौ विस्मृतात्मनाम् ।।

श्रीमत्यां मणिकर्ण्यां तत्सहजेनैव जायते ।। २८ ।।

स्वर्गद्वारात्पुरोभागे देवनद्याश्च पश्चिमे ।।

सौभाग्यभाग्यैकनिधिः काचिदेका महास्थली ।। २९ ।।

यावंतो भास्वतः स्पर्शाद्भासंते सैकताः कणाः ।।

तावंतो द्रुहिणा जग्मुर्नैत्येषा मणिकर्णिका ।। 4.1.34.३० ।।

संति तीर्थानि तावंति परितो मणिकर्णिकाम् ।।

यावद्भिस्तिलमात्रापि न भूमिर्विरलीकृता ।। ३१ ।।

यदन्वये कोपि मुक्तः संप्राप्य मणिकर्णिकाम् ।।

तद्वंश्यास्तत्प्रभावेण मान्याः स्वर्गौकसामपि ।। ३२।।

तर्पिताः पितरो येन संप्राप्य मणिकर्णिकाम्।।

सप्तसप्त तथा सप्त पूर्वजास्तेन तारिताः ।। ३३ ।।

आमध्याद्देवसरित आ हरिश्चंद्रमडपात् ।।

आ गंगा केशवादा च स्वर्द्वारान्मणिकर्णिका ।। ।। ३४ ।।

एतद्रजःकणतुलां त्रिलोक्यपि न गच्छति ।।

एतत्प्राप्त्यै प्रयतते त्रिलोकस्थोऽखिलो भवी ।।३५।।

कलावती चित्रपटीं पश्यंतीत्थं मुहुर्मुहुः ।।

ज्ञानवापीं ददर्शाथ श्रीविश्वेश्वरदक्षिणे ।। ३६ ।।

यदंबुसततं रक्षेद्दुर्वृत्ताद्दंडनायकः ।।

संभ्रमो विभ्रमश्चासौ दत्त्वा भ्रातिं गरीयसीम् ।। ३७ ।।

योष्टमूर्तिर्महादेवः पुराणे परिपठ्यते ।।

तस्यैषांबुमयी मूर्तिर्ज्ञानदा ज्ञानवापिका।। ३८ ।।

नेत्रयोरतिथीकृत्य ज्ञानवापी कलावती ।।

कदंबकुसुमाकारां बभार क्षणतस्तनुम् ।। ।। ३९ ।।

अंगानि वेपथुं प्रापुः स्विन्ना भालस्थली भृशम् ।।

हर्षवाष्पांबुकलिले जाते तस्या विलोचने ।। 4.1.34.४० ।।

तस्तंभ गात्रलतिका मुखवैवर्ण्यमाप च ।।

स्वरोथ गद्गदो जातो व्यभ्रंशत्तत्करात्पटी ।। ४१ ।।

साक्षणं स्वं विसस्मार काहं क्वाहं न वेत्ति च ।।

सौषुप्तायां दशायां च परमात्मेव निश्चला ।। ४२ ।।

अथ तत्परिचारिण्यस्त्वरमाणा इतस्ततः ।।

किं किं किमेतदेतत्किं पृच्छंति स्म परस्परम् ।। ४३ ।।

तदवस्थां समालोक्य तां ताश्चतुरचेतसः ।।

विज्ञाय सात्त्विकैर्भावैरिदमूचूः परस्परम् ।। ४४ ।।

भवांतरे प्रेमपात्रमेतयैक्षितु किंचन ।।

चिरात्तेन च संगत्य सुखमूर्च्छामवाप ह ।। ४५ ।।

अथनेत्थं कथमियमकांडात्पर्यमूमुहत् ।।

प्रेक्षमाणा रहश्चित्रपटीमति पटीयसीम्।।४६।।

तन्मोहस्य निदानं ताःसम्यगेव विचार्य च ।।

उपचेरुर्महाशांतैरुपचारैरनाकुलम् ।। ४७ ।।

काचित्तां वीजयांचक्रे कदलीतालवृंतकैः ।।

बिसिनीवलयैरन्या धन्यां तां पर्यभूषयत् ।। ४८ ।।

अमंदैश्चंदनरसैरभ्यषिंचदमुं परा ।।

अशोकपल्लवैरस्याः काचिच्छोकमनीनशत् ।। ४९ ।।

धारामंडपधारांबुसीकरैस्तत्तनूलताम् ।।

इष्टार्थविरहग्लानां सिंचयामास काचन ।। 4.1.34.५० ।।

जलार्द्रवाससा काचिदेतस्यास्तनुमावृणोत् ।।

कर्पूरक्षोदजालेपैरन्यास्तामन्वलेपयन् ।। ५१ ।।

पद्मिनीदलशय्या च काचित्यरचयन्मृदुम् ।।

काचित्कुलिशनेपथ्यं दूरीकृत्य तदंगतः ।। ५२ ।।

मुक्ताकलापं रचयांचक्रे वक्षोजमंडले ।।

काचिच्छशिमुखी तां तु चंद्रकांतशिलातले ।। ५३ ।।

स्वापयामास तन्वंगीं स्रवच्छीतांबुशीतले ।।

दृष्ट्वोपचार्यमाणां तामित्थं बुद्धिशरीरिणी ।। ५४ ।।

अतितापपरीतांगी ताः सखीः प्रत्यभाषत ।।

एतस्यास्तापशांत्यर्थं जानेहं परमौषधम् ।। ५५ ।।

उपचारानिमान्सवार्न्दूरी कुरुत मा चिरम् ।।

अपतापां करोम्येनां सद्यः पश्यत कौतुकम् ।।५६।।

दृष्ट्वा चित्रपटीमेषा सद्यो विह्वलतामगात् ।।

अत्रैव काचिदेतस्याः प्रेमभूरस्ति निश्चितम् ।।५७।।

अतश्चित्रपटीस्पर्शात्परितापं विहास्यति ।।

वाक्याद्बुद्धिशरीरिण्यास्ततस्तत्परिचारिकाः ।। ५८ ।।

निधाय तत्पुरः प्रोचुः पटीं पश्य कलावति ।।

तवानंदकरी यत्र काचिदस्तीष्टदेवता ।। ।। ५९ ।।

सापीष्टदेवतानाम्ना तत्पटीदर्शनेन च ।।

सुधासेकमिव प्राप्य मूर्छां हित्वोत्थिता द्रुतम् ।। 4.1.34.६० ।।

अवग्रहपरिम्लाना वर्षासारैरिवौषधीः ।।

पुनरालोकयांचक्रे ज्ञानदां ज्ञानवापिकाम् ।। ६१ ।।

स्पृष्ट्वा कलावती तां तु वापीं चित्रगतामपि ।।

लेभे भवांतरज्ञानं यथासीत्पूर्वर्जन्मनि ।। ६२ ।।

पुनर्विचारयांचक्रे वापी माहात्म्यमुत्तमम्।।

अहो चित्रगतापीयं संस्पृष्टा ज्ञानवापिका ।। ६३ ।।

ज्ञानं मे जनयामास भवांतर समुद्भवम् ।।

अथ तासां पुरो हृष्टा कथयामास सुंदरी ।।६४।।

निजं प्राग्भव वृत्तांतं ज्ञानवापीप्रभावजम् ।।

।। कलावत्युवाच ।। ।।

एतस्माज्जन्मनः पूर्वमहं ब्राह्मणकन्यका ।। ६५ ।।

उपविश्वेश्वरं काश्यां ज्ञानवाप्यां रमे मुदा ।।

जनको मे हरिस्वामी जनयित्री प्रियंवदा ।। ६६ ।।

आख्या मम सुशीलेति मां च विद्याधरोऽहरत् ।।

मध्येमार्गं निशीथेथ तदोप मलयाचलम् ।। ६७ ।।

रक्षसा सहतो वीरो राक्षसं स जघानह ।।

रक्षोपि मुक्तं शापात्तु दिव्यवपुरवाप ह ।। ६८ ।।

अवाप जन्मगंधर्वस्त्वसौ मलयकेतुतः ।।

कर्णाटनृपतेः कन्या बभूवाहं कलावती ।। ६९ ।।

इति ज्ञानं ममोद्भूतं ज्ञानवापीक्षणात्क्षणात् ।।

इति तस्या वचः श्रुत्वा सापि बुद्धिशरीरिणी ।। 4.1.34.७० ।।

ताश्च तत्परिचारिण्यः प्रहृष्टास्यास्तदाऽभवन् ।।

प्रोचुस्तां प्रणिपत्याथ पुण्यशीलां कलावतीम् ।। ७१ ।।

अहो कथं हि सा लभ्या यत्प्रभावोयमीदृशः ।।

धिग्जन्म तेषां मर्त्येऽस्मिन्यैर्नैक्षि ज्ञानवापिका ।। ७२ ।।

कलावति नमस्तुभ्यं कुरुनोपि समीहितम् ।।

जनिं सफलयास्माकं नय नः प्रार्थ्य भूपतिम् ।। ७३ ।।

अयं च नियमोस्माकमद्यारभ्य कलावति ।।

निर्वेक्ष्यामो महाभोगान्दृष्ट्वा तां ज्ञानवापिकाम् ।। ७४ ।।

अवश्यं ज्ञानवापी सा नाम्ना भवितुमर्हति ।।

चित्रं चित्रगतापीह या तव ज्ञानदायिनी ।। ७५ ।।

ॐकृत्य तासां वाक्यं सा स्वाकारं परिगोप्य च ।।

प्रियाणि कृत्वा भूभर्तुः प्रस्तावज्ञा व्यजिज्ञपत् ।। ७६ ।।

कलावत्युवाच ।।

जीवितेश न मे त्वत्तः किंचित्प्रियतरं क्वचित् ।।

त्वामासाद्य पतिं राजन्प्राप्ताः सर्वे मनोरथाः ।। ७७ ।।

एको मनोरथः प्रार्थ्यो ममास्त्यत्रार्यपुत्रक ।।

विचारपथमापन्नस्तवापि स महाहितः ।। ७८ ।।

मम तु त्वदधीनायाः सुदुष्प्रापतरो महान् ।।

तव स्वाधीनवृत्तेस्तु सिद्धप्रायो मनोरथः ।। ७९ ।।

प्राणेश किं बहूक्तेन यदि प्राणैः प्रयोजनम् ।।

तदाभिलषितं देहि प्राणा यास्यंत्यथान्यथा ।। 4.1.34.८० ।।

प्राणेभ्योपि गरीयस्यास्तस्या वाक्यं निशम्य सः ।।

उवाच वचनं राजा तस्याः स्वस्यापि च प्रियम् ।। ८१ ।।

राजोवाच ।। ।।

नाहं प्रिये तवादेयमिह पश्यामि भामिनि ।।

प्राणा अपि मम क्रीतास्त्वया शीलकलागुणैः ।। ८२ ।।

अविलंबितमाचक्ष्व कृतं विद्धि कलावति ।।

भवद्विधानां साध्वीनामन्येऽप्राप्यं न किंचन।। ८३ ।।

कः प्रार्थ्यः प्रार्थनीयं किं को वा प्रार्थयिता प्रिये।।

न पृथग्जनवत्किंचिद्वर्तनं नौ कलावति ।। ८४ ।।

देशः कोशो बलं दुर्गं यदन्यदपि भामिनि ।।

तत्त्वदीयं न मे किंचित्स्वाम्यमात्रमिहास्ति मे ।। ८५ ।।

तच्च स्वाम्यं ममान्यत्र त्वदृते जीवितेश्वरि ।।

राज्यं त्यजेयं त्वद्वाक्यात्तृणीकृत्यापि मानिनि ।। ८६ ।।

माल्पकेतोर्महीजानेरिति वाक्यं निशम्य सा ।।

प्राह गंभीरया वाचा वचश्चारु कलावती ।। ८७ ।।

कलावत्युवाच ।।

नाथ प्रजासृजापूर्वं सृष्टा नानाविधाः प्रजाः ।।

प्रजाहिताय संसृष्टं पुरुषार्थचतुष्टयम् ।। ८८ ।।

तद्विहीनाजनिरपि जल बुद्बुदवन्मुधा ।।

तस्मादेकोपि संसाध्यः परत्रेह च शर्मणे ।। ८९ ।।

यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते ।।

यदुच्यते पुराविद्भिरिति तत्तथ्यमीक्षितम् ।।4.1.34.९०।।

मद्विधाना तु दासीनां शतं तेऽस्तीह मंदिरे ।।

तथापि नितरां प्रेम स्वामिनो मयि दृश्यते ।। ९१ ।।

तव दास्यपि भोगाढ्या किमुतांकस्थलीचरी ।।

तत्राप्यनन्यसंपत्तिस्तत्र स्वाधीनभर्तृता ।। ९२ ।।

विपश्चित्संचयेदर्थानिष्टापूर्ताय कर्मणे ।।

तपोर्थमायुर्निर्विघ्नं दारांश्चापत्यलब्धये ।। ९३ ।।

तवैतत्सर्वमस्तीह विश्वेशानुग्रहात्प्रिय ।।

पूरणीयोऽभिलाषो मे यदि तद्वचम्यहं शृणु ।। ९४ ।।

तूर्णं प्रहिणु मां नाथ विश्वनाथपुरीं प्रति ।।

प्राणाः प्रयाता प्रागेव वपुः शेषास्मि केवलम् ।। ९५ ।।

माल्यकेतुः कलावत्या इत्याकर्ण्य वचः स्फुटम् ।।

क्षणं विचार्य स्वहृदि राजा प्रोवाच तां प्रियाम् ।। ९६ ।।

प्रिये कलावति यदि तव गंतव्यमेव हि ।।

राज्यलक्ष्म्यानया किं मे चलया त्वद्विहीनया ।। ९७ ।।

न राज्यं राज्यमित्याहू राज्यश्रीः प्रेयसी ध्रुवम् ।।

सप्तांगमपि तद्राज्यं तया हीनं तृणायते ।। ९८ ।।

निःसपत्नं कृतं राज्यं भुक्त्वा भोगान्निरंतरम् ।।

हृषीकार्थाः कृतार्थाश्च विधृता आधृतिः प्रिये ।। ९९ ।।

अपत्यान्यपि जातानि किं कर्तव्यमिहास्ति मे ।।

अवश्यमेव गंतव्याऽऽवाभ्यां वाराणसी पुरी ।। 4.1.34.१०० ।।

माल्यकेतुः प्रियामित्थमाश्वास्य कृतनिश्चयः ।।

समाहूय च देवज्ञान्प्रकृतीः परिपूज्य च ।। १ ।।

पुत्रे राज्यं निधायाथ राजा काशीं प्रतस्थिवान् ।।

रत्नजातं कियदपि पुत्रादर्थं प्रगृह्य च ।। २ ।।

दृष्ट्वा विश्वेश्वरपुरीं हृष्टरोमा नरेश्वरः ।।

मेने कृतार्थमात्मानं संसारांबुधिपारगम् ।। ३ ।

प्राग्जन्मवासनायोगात्सापि राज्ञी कलावती ।।

ग्रामांतरादागतेव पुरीमार्गानवैत्स्वयम ।। ४ ।।

मणिकर्ण्यामथस्नात्वा भूरि दत्त्वा ततो वसु ।।

विश्वेशमर्चयित्वाथ रत्नजातैरनेकशः ।। ५ ।।

दत्त्वा तत्रापि रत्नानि गजानश्वान्गवां व्रजम् ।।

दुकूलानि विचित्राणि पूजोपकरणानि च ।। ५ ।।

सुवर्णरूप्यकलशान्दीपी दर्पण चामरान् ।।

ध्वजस्तंभ पताकाश्च विचित्रोल्लोचकानि च ।। ७ ।।

अथ प्रदक्षिणीकृत्य मुक्तिमंडपमाविशत् ।।

तत्र धर्मकथां श्रुत्वा दत्त्वा तत्रापि सद्धनम् ।। ८ ।।

सायंतनीं महापूजां पुनः कृत्वा क्षितीश्वरः ।।

तत्र जागरणं कृत्वा तौर्यत्रिक महोत्सवैः ।।९।।

अथ प्रातः समुत्थाय कृत्वा शौचाचमक्रियाम् ।।

राज्ञ्या विनिर्दिष्टपथा ज्ञानवापीं नृपो ययौ ।।4.1.34.११०।।

नृपः सार्धं कलावत्या तत्र सस्नौ प्रहृष्टवत् ।।

अथ पिंडान्सनिर्वाप्य संतर्प्य श्रद्धया पितॄन् ।। ११ ।।

तत्र रूप्य सुवर्णादि पात्रेभ्यः प्रतिपाद्य च ।।

दीनांध कृपणानाथान्महार्है रत्नजातकैः ।। १२ ।।

प्रीणयित्वा नरपतिः पारणां कृतवांस्ततः ।।

संस्कार्य रत्नसोपानैर्ज्ञानवापी कलावती ।। १३ ।।

आबबंध रतिं तत्र सह भर्त्रा तपस्विनी ।।

एकांतरोपवासैश्च कदाचिच्च त्र्यहोव्रतैः ।। १४ ।।

षडहोभोजनैश्चापि पक्षार्धनियमैरथ ।।

पक्षांतरोपवासैश्च मासोपवसनादिभिः ।। १५ ।।

चांद्रायणव्रतैः कृच्छ्रैर्भर्तुः शुश्रूषणैरपि ।।

निनाय क्षणवत्कालमायुःशेषस्य सानघा ।। १६ ।।

एकदा ज्ञानवाप्यां तु प्रातः स्नात्वोपविष्टयोः ।।

आगत्य जटिलः कश्चिद्विभूतिं दत्तवान्करे ।। १७ ।।

उवाच च प्रसन्नास्य आशीर्भिरभिनद्य च ।।

उत्तिष्ठतं प्रकुरुतं महानेपथ्यमद्य वै ।। १८ ।।

तारकोदय संप्राप्तिर्भवित्री वां क्षणादिह ।।

यावदित्थं समाचष्ट जटिलोऽग्रे तयोर्वचः ।। १९ ।।

तावद्विमानमापन्नं सक्वणत्किंकिणीगणम् ।।

पश्यतां सर्वलोकानां चन्द्रमौलिरथोरथात् ।। 4.1.34.१२० ।।

उत्तीर्य तच्छ्रुतिपुटे किमपि स्वयमादिशत् ।।

अनाख्यं यत्परंज्योतिरुच्चक्राम च तत्क्षणात् ।। २१ ।।

उद्योतयन्नभोवर्त्म देवोपि स्वालयं ययौ ।।

।। स्कन्द उवाच ।। ।।

तदा प्रभृति लोकेऽत्र ज्ञानवापी विशिष्यते ।। २२ ।।

सर्वेभ्यस्तीर्थर्मुख्येभ्यः प्रत्यक्ष ज्ञानदा मुने ।।

सर्वज्ञानमयी चैषा सर्वलिंगमयी शुभा ।। २३ ।।

साक्षाच्छिवमयी मूर्तिर्ज्ञानकृज्ज्ञानवापिका ।।

सन्ति तीर्थान्यनेकानि सद्यः शुचिकराण्यपि ।। २४ ।।

परंतु ज्ञानवाप्या हि कलां नार्हंति षोडशीम् ।।

ज्ञानवाप्याः समुत्पत्तिं यः श्रोष्यति समाहितः ।।

न तस्य ज्ञानविभ्रंशो मरणे जायते क्वचित् ।। २५ ।।

महाख्यानमिदं पुण्यं महापातकनाशनम्।।

महादेवस्य गौर्याश्च महाप्रीतिविवर्धनम् ।। २६ ।।

पठित्वा पाठयित्वा वा श्रुत्वा वा श्रद्धयान्वितः ।।

ज्ञानवाप्याः शुभाख्यानं शिवलोके महीयते ।। १२७ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ज्ञानवापीप्रशंसनं नाम चतुस्त्रिंशत्तमोऽध्यायः ।। ३४ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 35

।। कुंभयोनिरुवाच ।। ।।

अविमुक्तं महाक्षेत्रं परनिर्वाणकारणम् ।।

क्षेत्राणां परमं क्षेत्रं मंगलानां च मंगलम् ।। १ ।।

श्मशानानां च सर्वेषां श्मशानं परमं महत् ।।

पीठानां परमं पीठमूषराणां महोषरम् ।। २ ।।

धर्माभिलाषिबुद्धीनां धर्मराशिकरं परम् ।।

अर्थार्थिनां शिखिरथ परमार्थ प्रकाशकम् ।। ३ ।।

कामिनां कामजननं मुमुक्षूणां च मोक्षदम् ।।

श्रूयते यत्र यत्रैतत्तत्र तत्र परामृतम् ।। ४ ।।

क्षेत्रैकदेशवर्तिन्या ज्ञानवाप्याः कथां पराम् ।।

श्रुत्वेमामिति मन्येहं गौरीहृदयनंदन ।। ५ ।।

अणुप्रमाणमपि या मध्ये काशिविकासिनी ।।

मही महीयसी ज्ञेया सा सिद्ध्यै न मुधा क्वचित् ।। ६ ।।

कियंति संति तीर्थानि नेह क्षोणीतलेऽखिले ।।

परं काशीरजोमात्र तुलासाम्यं क्व तेष्वपि ।। ७ ।।

कियंत्यो न स्रवंत्योत्र रत्नाकर मुदावहाः ।।

परं स्वर्गतरंगिण्याः काश्यां का साम्यमुद्वहेत् ।। ८ ।।

कियंति संति नो भूम्यां मोक्षक्षेत्राणि षण्मुख ।।

परं मन्येऽविमुक्तस्य कोट्यंशोपि न तेष्वहो ।। ९ ।।

गंगा विश्वेश्वरः काशी जागर्ति त्रितयं यतः ।।

तत्र नैःश्रेयसी लक्ष्मीर्लभ्यते चित्रमत्र किम् ।। 4.1.35.१० ।।

कथमेषा त्रयी स्कंद प्राप्यते नियतं नरैः ।।

तिष्ये युगे विशेषेण नितरां चंचलेंद्रियैः ।। ११ ।।

तपस्तादृक्क्व वा तिष्ये तिष्ये योगः क्व तादृशः ।।

क्व वा व्रतं क्व वा दानं तिष्ये मोक्षस्त्वतः कुतः ।। १२।।

विनापि तपसा स्कंद विनायोगेन षण्मुख ।।

विना व्रतैर्विना दानैः काश्यां मोक्षस्त्वयेरितः ।। १३ ।।

किं किमाचरता स्कंद काशी प्राप्येत तद्वद ।।

मन्ये विना सदाचारं न सिद्ध्येयुर्मनोरथाः ।। १४ ।।

आचारः परमो धर्म आचारः परमं तपः ।।

आचाराद्वर्धते ह्यायुराचारात्पापसंक्षयः ।। १५ ।।

आचारमेव प्रथमं तस्मादाचक्ष्व षण्मुख ।।

देवदेवो यथा प्राह तवाग्रे त्वं तथा वद ।। १६ ।।

।। स्कंद उवाच।। ।।

मित्रावरुणजाख्यामि सदाचारं सतां हितम् ।।

यदाचरन्नरो नित्यं सर्वान्कामानवाप्नुयात् ।।१७।।

स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः ।।

क्रमेण धार्मिकास्त्वेते ह्येतेभ्यो धार्मिकाः सुराः ।। १८ ।।

सहस्रभागः प्रथमा द्वितीयोनुक्रमात्तथा ।।

सर्व एते महाभागा यावन्मुक्ति समाश्रयाः ।। १९ ।।

चतुर्णामपि भूतानां प्राणिनोऽतीव चोत्तमाः ।।

प्राणिभ्यामपि मुने श्रेष्ठाः सर्वे बुद्ध्युपजीविनः ।। 4.1.35.२० ।।

मतिमद्भ्यो नराः श्रेष्ठास्तेभ्यः श्रेष्ठास्तु वाडवाः ।।

विप्रेभ्योपि च विद्वांसो विद्वद्भ्यः कृतबुद्धयः ।। २१ ।।

कृतधीभ्योपि कर्तारः कर्तृभ्यो ब्रह्मतत्पराः ।।

न तेषामर्चनीयोऽन्यस्त्रिषु लोकेषु कुंभज ।। २२ ।।

अन्योन्यमर्चकास्ते वै तपोविद्याऽविशेषतः ।।

ब्राह्मणो ब्रह्मणा सृष्टः सर्वभूतेश्वरो यतः ।। २३ ।।

अतो जगत्स्थितं सर्वं ब्राह्मणोऽर्हति नापरः ।।

सदाचारो हि सर्वार्हो नाचाराद्विच्युतः पुनः ।।

तस्माद्विप्रेण सततं भाव्यमाचारशीलिना ।। २४ ।।

विद्वेष रागरहिता अनुतिष्ठंति यं मुने ।।

विद्वांसस्तं सदाचारं धर्ममूलं विदुर्बुधाः ।।२५।।

लक्षणैः परिहीनोपि सम्यगाचारतत्परः ।।

श्रद्धालुरनसूयुश्च नरो जीवेत्समाः शतम ।। २६ ।।

श्रुतिस्मृतिभ्यामुदितं स्वेषु स्वेषु च कर्मसु ।।

सदाचारं निषेवेत धर्ममूलमतंद्रितः ।। २७ ।।

दुराचाररतो लोके गर्हणीयः पुमान्भवेत् ।।

व्याधिभिश्चाभिभूयेत सदाल्पायुः सुदुःखभाक् ।। २८ ।।

त्याज्यं कर्म पराधीनं कायमात्मवशं सदा ।।

दुःखी यतः पराधीनः सदैवात्मवशः सुखी ।। २९ ।।

यस्मिन्कर्मण्यंतरात्मा क्रियमाणे प्रसीदति ।।

तदेव कर्म कर्तव्यं विपरीतं न च क्वचित् ।। 4.1.35.३० ।।

प्रथमं धर्मसर्वस्वं प्रोक्ता यन्नियमा यमाः ।।

अतस्तेष्वेव वै यत्नः कर्तव्यो धर्ममिच्छता ।। ३१ ।।

सत्यं क्षमार्जवं ध्यानमानृशंस्यमहिंसनम् ।।

दमः प्रसादो माधुर्यं मृदुतेति यमा दश ।। ३२ ।।

शौचं स्नानं तपो दानं मौनेज्याध्ययनं व्रतम् ।।

उपोषणोपस्थ दंडौ दशैते नियमाः स्मृताः ।। ३३ ।।

कामं क्रोधं मदं मोहं मात्सर्यं लोभमेव च ।।

अमून्षड्वै(?)रिणो जित्वा सर्वत्र विजयी भवेत् ।। ३४ ।।

शनैः शनैः स चिनुयाद्धर्मं वल्मीक शृंगवत् ।।

परपीडामकुर्वाणः परलोकसहायिनम् ।। ३५ ।।

धर्म एव सहायी स्यादमुत्र न परिच्छदः ।।

पितृ मातृ सुत भ्रातृ योषिद्बंधुजनादिकः ।। ३६ ।।

जायते चैकलः प्राणी प्रम्रियेत तथैकलः ।।

एकलः सुकृतं भुंक्ते भुंक्ते दुष्कृतमेकलः ।। ३७ ।।

देहं पंचत्वमापन्नं त्यक्त्वा कौ काष्ठलोष्ठवत् ।।

बांधवा विमुखा यांति धर्मो यांतमनुव्रजेत् ।।३८।।

कृती संचिनुयाद्धर्मं ततोऽमुत्र सहायिनम् ।।

धर्मं सहायिनं लब्द्ध्वा संतरेद्दुस्तरं तमः ।। ३९ ।।

संबंधानाचरेन्नित्यमुत्तमैरुत्तमैः सुधीः ।।

अधमानधमांस्त्यक्त्वा कुलमुत्कर्षतां नयेत्।। 4.1.35.४० ।।

उत्तमानुत्तमानेव गच्छन्हीनांश्च वर्जयन् ।।

ब्राह्मणः श्रेष्ठतामेति प्रत्यवाये न शूद्रताम् ।। ४१ ।।

अनध्ययनशीलं च सदाचारविलंघिनम्।।

सालसं च दुरन्नादं ब्राह्मणं बाधतेंऽतकः ।। ४२ ।।

ततोऽभ्यसेत्प्रयत्नेन सदाचारं सदा द्विजः ।।

तीर्थान्यप्यभिलष्यंति सदाचारिसमागमम्।। ४३ ।।

रजनीप्रांतयामार्धं बाह्मः समय उच्यते ।।

स्वहितं चिंतयेत्प्राज्ञस्तस्मिंश्चोत्थाय सवर्दा ।। ४४ ।।

गजास्यं संस्मरेदादौ तत ईशं सहांबया।।

श्रीरंगं श्रीसमेतं तु ब्रह्माण्या कमलोद्भवम्।। ४५ ।।

इंद्रादीन्सकलान्देवान्वसिष्ठादीन्मुनीनपि ।।

गंगाद्याः सरितः सर्वाः श्रीशैलाद्यखिलान्गिरीन् ।। ४६ ।।

क्षीरोदादीन्समुद्रांश्च मानसादि सरांसि च ।।

वनानि नंदनादीनि धेनूः कामदुघादिकाः ।। ४७ ।।

कल्पवृक्षादि वृक्षांश्च धातून्कांचनमुख्यतः ।।

दिव्यस्त्रीरुर्वशीमुख्या गरुडादीन्पतत्त्रिणः ।। ४८ ।।

नागाश्च शेषप्रमुखान्गजानैरावतादिकान्।।

अश्वानुच्चैःश्रवो मुख्यान्कौस्तुभादीन्मणीञ्छुभान् ।। ४९ ।।

स्मरेदरुंधतीमुख्याः पतिव्रतवतीर्वधूः ।।

नैमिषादीन्यरण्यानि पुरीः काशीपुरीमुखाः ।। 4.1.35.५० ।।

विश्वेशादीनि लिंगानि वेदानृक्प्रमुखानपि ।।

गायत्रीप्रमुखान्मंत्रान्योगिनः सनकादिकान् ।। ५१ ।।

प्रणवादिमहाबीजं नारदादींश्च वैष्णवान् ।।

शिवभक्तांश्च बाणादीन्प्रह्लादादीन्दृढव्रतान् ।। ५२ ।।

वदान्यांश्च दधीच्यादीन्हरिश्चंद्रादि भूपतीन् ।।

जननी चरणौ स्मृत्वा सर्वतीर्थोत्तमोत्तमौ ।। ५३ ।।

पितरं च गुरूंश्चापि हृदि ध्यात्वा प्रसन्नधीः ।।

ततश्चावश्यकं कर्तुं नैर्ऋतीं दिशमाश्रयेत् ।। ५४ ।।

ग्रामाद्धनुःशतं गच्छेन्नगराच्च चतुर्गुणम् ।।

तृणैराच्छाद्य वसुधां शिरः प्रावृत्य वाससा ।।५५ ।।

कर्णोपवीत्युदग्वक्त्रो दिवसे संध्ययोरपि ।।

विण्मूत्रे विसृजेन्मौनी निशायां दक्षिणामुखः ।। ५६ ।।

न तिष्ठन्नाप्सु नो विप्र गो वह्न्यनिल संमुखः ।।

न फालकृष्टे भूभागे न रथ्यासेव्यभूतले ।। ५७ ।।

नालोकयेद्दिशोभागाञ्ज्योतिश्चक्रं नभोमलम् ।।

वामेन पाणिना शिश्नं धृत्वोत्तिष्ठेत्प्रयत्नवान् ।। ५८ ।।

अथो मृदं समादाय जंतुकर्करवर्जिताम् ।।

विहाय मूषकोत्खातां शौचोच्छिष्टां च नाकुलाम् ।। ५९ ।।

गुह्ये दद्यान्मृदं चैकां पायौ पंचांबुसां तराः ।।

दश वामकरे चापि सप्त पाणिद्वये मृदः ।। 4.1.35.६० ।।

एकैकां पादयोर्दद्यात्तिस्रः पाण्योर्मृदस्तथा ।।

इत्थं शौचं गृही कुर्याद्गंधलेपक्षयावधि ।। ६१ ।।

क्रमाद्द्वैगुण्यमेतस्माद्ब्रह्मचर्यादिषु त्रिषु ।।

दिवाविहित शौचस्य रात्रावर्धं समाचरेत् ।। ६२ ।।

रुज्यर्धं च तदर्धं च पथि चौरादि बाधिते ।।

तदर्धं योषितां चापि सुस्थे न्यूनं न कारयेत् ।।६३।।

अपि सर्वनदीतोयैर्मृत्कूटैश्चापि गोमयैः ।।

आपादमाचरच्छौचं भावदुष्टो न शुद्धिभाक् ।।६४।।

आर्द्रधात्रीफलोन्माना मृदः शौचे प्रकीर्तिताः।।

सर्वाश्चाहुतयोप्येवं ग्रासाश्चांद्रायणेपि च ।।

प्रागास्य उदगास्योवा सूपविष्टः शुचौ भुवि।।

उपस्पृशेद्विहीनायां तुषांगारास्थिभस्मभिः ।। ६६।।

अनुष्णाभिरफेनाभिरद्भिर्हृद्गाभिरत्वरः ।।

ब्राह्मणो ब्राह्मतीर्थेन दृष्टिपूताभिराचमेत् ।। ६७।।

कंठगाभिर्नृपः शुद्ध्येत्तालुगाभिस्तथोरुजः ।।

स्त्रीशूद्रावास्य संस्पर्शमात्रेणापि विशुद्ध्यतः ।। ६८ ।।

शिरः प्रावृत्य कंठं वा जले मुक्तशिखोऽपि च ।।

अक्षालितपदद्वंद्व आचांतोप्यशुचिर्मतः ।। ६९ ।।

त्रिः पीत्वांबु विशुद्ध्यर्थं ततः खानि विशोधयेत् ।।

अंगुष्ठमूलदेशेन द्विर्द्विरोष्ठाधरौ स्पृशेत् ।। 4.1.35.७० ।।

अंगुलीभिस्त्रिभिः पश्चात्पुनरास्यं स्पृशेत्सुधीः ।।

तर्जन्यंगुष्ठकोट्या च घ्राणरंध्रे पुनः पुनः ।। ७१ ।।

अंगुष्ठानामिकाग्राभ्यां चक्षुः श्रोत्रे पुनः पुनः ।।

कनिष्ठांगुष्ठयोगेन नाभिरंध्रमुपस्पृशेत् ।। ७२ ।।

स्पृष्ट्वा तलेन हृदयं समस्ताभिः शिरः स्पृशेत् ।।

अंगुल्यग्रैस्तथा स्कंधौ सांबु सर्वत्र संस्पृशेत् ।। ७३ ।।

आचांतः पुनराचामेत्कृते रथ्योपसर्पणे ।।

स्नात्वा भुक्त्वा पयः पीत्वा प्रारंभे शुभकर्मणाम् ।। ७४ ।।

सुप्त्वा वासः परीधाय तथा दृष्ट्वाप्यमंगलम् ।।

प्रमादादशुचिं स्पृष्ट्वा द्विराचांतः शुचिर्भवेत् ।। ७५ ।।

अथो मुखविशुद्ध्यर्थं गृह्णीयाद्दंतधावनम् ।।

आचांतोप्यशुचिर्यस्मादकृत्वा दंतधावनम्।। ७६ ।।

प्रतिपद्दर्शषष्ठीषु नवम्यां रविवासरे ।।

दंतानां काष्ठसंयोगो दहेदासप्तमं कुलम् ।। ७७।।

अलाभे दंतकाष्ठानां निषिद्धे वाथ वासरे ।।

गंडूषा द्वादश ग्राह्या मुखस्य परिशुद्धये ।। ७८ ।।

कनिष्ठाग्र परीमाणं सत्वचं निर्व्रणं ऋजुम् ।।

द्वादशांगुलमानं च सार्धं स्याद्दंतधावनम् ।। ७९ ।।

एकैकांगुलह्रासेन वर्णेष्वन्येषु कीर्तितम् ।।

आम्राम्रातक धात्रीणां कंकोल खदिरोद्भवम् ।। 4.1.35.८० ।।

शम्यपामार्गखर्जूरीशेलुश्रीपर्णिपीलुजम्।।

राजादनं च नारंगं कषायकटुकंटकम्।।८१।।

क्षीरवृक्षोद्भवं वापि प्रशस्तं दंतधावनम्।।

जिह्वोल्लेखनिकां चापि कुर्याच्चापाकृतिं शुभाम्।। ८२।।

अन्नाद्याय व्यूहध्वं सोमोराजाय मा गमत् ।।

समे मुखं प्रमार्क्ष्यते यशसा च भगेन च ।। ८३ ।।

आयुर्बलं यशो वर्चः प्रजाः पशु वसूनि च ।।

ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते ।। ८४ ।।

मंत्रावेतौ समुच्चार्य यः कुर्याद्दंतधावनम् ।।

वनस्पतिगतः सोमस्तस्य नित्यं प्रसीदति ।। ८५ ।।

मुखे पर्युषिते यस्माद्भवेदशुचिभाग्नरः ।।

ततः कुर्यात्प्रयत्नेन शुद्ध्यर्थं दंतधावनम् ।। ८६ ।।

उपवासेपि नो दुष्येद्दंतधावनमंजनम् ।।

गंधालंकारसद्वस्त्रपुष्पमालानुलेपनम् ।। ८७ ।।

प्रातःसंध्यां ततः कुर्याद्दंतधावनपूर्विकाम् ।।

प्रातःस्नानं चरित्वा च शुद्धे तीर्थे विशेषतः ।। ८८ ।।

प्रातःस्नानाद्यतःशुद्ध्येत्कायोयं मलिनः सदा ।।

छिद्रितो नवभिश्छिद्रैः स्रवत्येव दिवानिशम् ।। ८९ ।।

उत्साह मेधा सौभाग्य रूप संपत्प्रवर्तकम् ।।

मनः प्रसन्नताहेतुः प्रातःस्नानं प्रशस्यते ।। 4.1.35.९० ।।

प्रस्वेद लालाद्याक्लिन्नो निद्राधीनो यतो नरः ।।

प्रातःस्नानात्ततोर्हः स्यान्मंत्रस्तोत्रजपादिषु।।९१।।

प्रातःप्रातस्तु यत्स्नानं संजाते चारुणोदये ।।

प्राजापत्यसमं प्राहुस्तन्महाघविघातकृत् ।। ९२ ।।

प्रातःस्नानं हरेत्पापमलक्ष्मीं ग्लानिमेव च ।।

अशुचित्वं च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति ।। ९३ ।।

नोपसर्पंति वै दुष्टाः प्रातःस्नायिजन क्वचित् ।।

दृष्टादृष्टफलं यस्मात्प्रातःस्नानं समाचरेत् ।। ९४ ।।

प्रसंगतः स्नानविधिं वक्ष्यामि कलशोद्भव ।।

विधिस्नानं यतः प्राहुः स्नानाच्छतगुणोत्तरम् ।। ९५ ।।

विशुद्धां मृदमादाय बर्हींषि तिल गोमयम् ।।

शुचौ देशे परिस्थाप्य त्वाचम्य स्नानमाचरेत् ।। ९६ ।।

उपग्रही बद्धशिखो जलमध्ये समाविशेत् ।।

उरुँ हीति मंत्रेण तोयमावर्त्य सृष्टितः ।। ९७ ।।

ये ते शतं ततो जप्त्वा तोयस्यामंत्रणाय च ।।

सुमित्रिया नो मंत्रेण पूर्वं कृत्वा जलांजलिम् ।।

क्षिपेद्द्वेष्यं समुद्दिश्य जपन्दुर्मित्रिया इति ।। ९८ ।।

इदं विष्णुरिमं जप्त्वा लिंपेदंगानि मृत्स्नया ।।

मृदैकया शिरः क्षाल्य द्वाभ्यां नाभेस्तथोपरि ।। ९९ ।।

नाभेरधस्तु तिसृभिः पादौ षड्भिर्विशोधयेत् ।। ।।

मज्जेत्प्रवाहाभिमुख आपो अस्मानिमं जपन् ।।4.1.35.१००।।

उदिदाभ्यः शुचिरिति मंत्र उन्मज्जने मतः ।।

मानस्तोक इमं जप्त्वा लिंपेद्गात्राणि गोमयैः ।। १ ।।

इमं मे वरुणेत्यादि मंत्रः स्वात्माभिषेचनम् ।।

तत्त्वायामि तथात्वन्नः सत्वं नश्चाप्युदुत्तमम् ।। २ ।।

धाम्नोधाम्नस्तथा मापो मौषधीरिति संजपेत् ।।

यदाहुरघ्न्या मुंचंतु मेति चावभृथेति च ।। ३ ।।

अब्दैवता इमे मंत्राः प्रोक्ताः स्वात्माभिषेचने ।।

प्रणवेन ततो विप्रो महाव्याहृतिभिस्ततः ।। ४ ।।

आत्मानं पावयेद्विद्वान्गायत्र्या च ततः कृती ।।

आपो हिष्ठेति तिसृभिः प्रत्यृचं पावनं स्मृतम् ।। ५ ।।

एतेपि पावना मंत्रा इदमापो हविष्मतीः ।।

देवीराप अपो देवा द्रुपदादिव संज्ञकाः ।। ६ ।।

शन्नो देवीरपोदेवीस्तथापाँरसमित्यपि ।।

पुनंतु मेति च नव पावमान्यः प्रकीर्तिताः ।। ७ ।।

ततोऽघमर्षणं जप्त्वा द्रुपदां च ततो जपेत् ।।

प्राणायामं च विधिवदथवांतर्जले जपेत् ।। ८ ।।

प्रणवं त्रिर्जपेद्वापि विष्णुं वा संस्मरेत्सुधीः।।

स्नात्वेत्थं वस्त्रमापीड्य गृह्णीयाद्धौतवाससी ।।

आचम्य च ततः कुर्यात्प्रातःसंध्यां कुशान्विताम्।।

यो न संध्यामुपासीत ब्राह्मणो हि विशेषतः ।। 4.1.35.११० ।।

स जीवन्नेव शूद्रस्तु मृतः श्वा जायते ध्रुवम् ।।

संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।। ११ ।।

यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ।।

प्रणवं प्राग्दिशि स्मृत्वा ततो दत्त्वा कुशासनम् ।। १२ ।।

चतुःस्रक्तिरिमं मंत्रं पठित्वा नान्यदृङ्मनाः ।। १३ ।।

प्राङ्मुखो बद्धचूडो वाप्युपविष्ट उदङ्मुखः ।।

प्रदक्षिणं स्वमभ्युक्ष्य प्राणायामं समाचरेत् ।। १४ ।।

गायत्रीं शिरसा सार्धंं सप्तव्याहृतिपूर्विकाम् ।।

त्रिर्जपेत्सदशोंकारः प्राणायामोयमुच्यते ।।१५।।

प्राणायामांश्चरन्विप्रो नियतेंद्रिय मानसः ।।

अहोरात्रकृतैः पापैर्मुक्तो भवति तत्क्षणात् ।।१६।।

दशद्वादश संख्या वा प्राणायामाः कृता यदि ।।

नियम्य मानसं तेन तदा तप्तं महत्तपः ।। १७ ।।

सव्याहृति प्रणवकाः प्राणायामास्तु षोडश ।।

अपि भ्रूणहनं मासात्पुनंत्यहरहः कृताः ।। १८ ।।

यथा पार्थिवधातूनां दह्यंते धमनान्मलाः ।।

तथेंद्रियैः कृता दोषा ज्वाल्यंते प्राणसंयमात् ।। १९ ।।

एकं संभोज्य विधिवद्ब्राह्मणं यत्फलं लभेत् ।।

प्राणायामैर्द्वादशभिस्तत्फलं श्रद्धयाप्यते ।। 4.1.35.१२० ।।

वेदादि वाङ्मयं सर्वं प्रणवे यत्प्रतिष्ठितम्।।

ततः प्रणवमभ्यस्येद्वेदादिं वेदजापकः ।। २१ ।।

प्रणवे नित्ययुक्तस्य सप्तसु व्याहृतिष्वपि ।।

त्रिपदायां तु गायत्र्यां न भयं जायते क्वचित् ।।२२।।

एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ।।

गायत्र्यास्तु परं नास्ति पावनं कलशोद्भव ।। २३ ।।

कर्मणा मनसा वाचा यद्रात्रौ कुरुतेत्वघम् ।।

उत्तिष्ठन्पूर्वसंध्यायां प्राणायामैर्विशोधयेत्।। २४।।

यदह्ना कुरुते पापं मनोवाक्कायकर्मभिः ।।

आसीनः पश्चिमां संध्यां तत्प्राणायामतो हरेत् ।। २५ ।।

पूर्वां संध्यां जपंस्तिष्ठेत्सावित्रीमार्कदर्शनात् ।।

पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ।। २६ ।।

पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति ।।

पश्चिमां तु समासीनो मलं हंति दिवाकृतम् ।। २७ ।।

नोपतिष्ठेत्तु यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ।।

स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः ।। २८ ।।

अपां समीपमासाद्य नित्यकर्म समाचरेत् ।।

गायत्रीमप्यधीयीत गत्वारण्यं समाहितः ।। २९ ।।

गृहाद्बहुगुणा यस्मात्संध्या बहिरुपासिता ।।

गायत्र्यभ्यासमात्रोपि वरं विप्रो जितेंद्रियः ।। 4.1.35.१३० ।।

त्रिवेद्यपि च नो मान्यः सर्वभुक्सर्वविक्रयी ।।

सविता देवता यस्या मुखमग्निस्त्रिपाच्च या ।। ३१ ।।

विश्वामित्रे ऋषिश्छंदो गायत्री सा विशिष्यते ।।

गायत्रीमुषसि ध्यायेल्लोहितां ब्रह्मदैवताम् ।। ३२ ।।

हंसारूढामष्टवर्षां रक्तस्रगनुलेपनाम् ।।

ऋक्स्वरूपामभयदामक्षमालावलंबिनीम् ।। ३३ ।।

व्यासर्षिणा स्तूयमानां छंदसानुष्टुभायुताम् ।।

एतद्ध्यानादुषर्देव्या नैशमेनो व्यपोहति ।। ३४ ।।

सूर्यश्चेति च मंत्रेण स्यादाचमनमुत्तमम् ।।

आपोहिष्ठेति तिसृभिर्मार्जनं तु ततश्चरेत् ।। ३५ ।।

भूमौ शिरसि चाकाश आकाशे भुवि मस्तके ।।

मस्तके च तथाकाशे भूमौ च नवधा क्षिपेत् ।। ३६ ।।

भूमिशब्देन चरणावाकाशं हृदयं स्मृतम् ।।

शिरस्येव शिरः शब्दो मार्जनज्ञैरुदाहृतः ।। ३७ ।।

वारुणादपि चाग्नेयाद्वायव्यादपि चैंद्रतः ।।

मंत्रस्नानादपि परं ब्राह्मं स्नानमिदं परम् ।। ३८ ।।

ब्राह्मस्नानेन यः स्नातः स बाह्याभ्यंतरे शुचिः ।।

सर्वत्र चार्हतामेति देवपूजादिकर्मणि ।।३९ ।।

नक्तं दिनं निमज्ज्याप्सु कैवर्ताः किमु पावनाः ।।

शतशोपि तथा स्नाता न शुद्धा भावदूषिता ।। 4.1.35.१४० ।।

अंतःकरणशुद्धा ये तान्विभूतिः पवित्रयेत् ।।

किं पावनाः प्रकीर्त्यंते रासभा भस्मधूसराः ।। ४१ ।।

स स्नातः सर्वतीर्थेषु स सर्वमलवर्जितः ।।

तेन क्रतुशतैरिष्टं चेतो यस्येह निर्मलम् ।। ४२ ।।

तदेव निर्मलं चेतो यथास्यात्तन्मुने शृणु ।।

विश्वेशश्चेत्प्रसन्नः स्यात्तदा स्यान्नान्यथा क्वचित् ।। ४३ ।।

तस्माच्चेतोविशुद्ध्यर्थं काशीनाथं समाश्रयेत् ।।

तदाश्रयेण नियतं संक्षीयंते मनोमलाः ।। ४४ ।।

संक्षीणमान स मलो विश्वेशानु ग्रहात्परात् ।।

इदं शरीरमुत्सृज्य परं ब्रह्माधिगच्छति ।। ४५ ।।

विश्वेशानुग्रहे हेतुः सदाचारो मतो नृणाम् ।।

श्रुतिस्मृतिभ्यामुदितं तस्मात्तमनु संश्रयेत् ।। ।। ४६ ।।

द्रुपदां तु ततो जप्त्वा जलमादाय पाणिना ।।

कुर्यादृतं च मंत्रेण विधिज्ञस्त्वघमर्षणम् ।। ४७ ।।

निमज्ज्याप्सु च यो विद्वाञ्जपेत्त्रिरघमर्षणम् ।।

यथाश्वमेधावभृथस्तस्य स्यात्तत्तथा ध्रुवम् ।। ४८ ।।

जले वापि स्थले वापि यः कुयार्दघमषर्णम् ।।

तस्याघौघो विनश्येत यथा सूर्योदये तमः ।। ४९ ।।

इमं मंत्रं ततश्चोक्त्वा कुर्यादाचमनं द्विजः ।।

आचार्याः केचिदिच्छंति शाखाभेदेन चापरे ।। 4.1.35.१५० ।।

अंतश्चरसि भूतेषु गुहायां विश्वतोमुखः ।।

त्वं यज्ञस्त्वं वषट्कार आपो ज्योतीरसोऽमृतम् ।। ५१ ।।

गायत्रीं शिरसा हीनां महाव्याहृतिपूर्विकाम् ।।

प्रणवाद्यां जपंस्तिष्ठन्क्षिपेदंभोंजलि त्रयम् ।। ५२ ।।

तेन वज्रोदकेनाशु मंदेहा नाम राक्षसाः ।।

सूर्यारयः प्रलीयंते शैला वज्रहता इव ।।५३।।

विवस्वतः सहायार्थं यो द्विजो नांजलित्रयम् ।।

क्षिपेन्मंदेहनाशाय सोपि मंदेहतां व्रजेत्।।५४।।

प्रातस्तावज्जपंस्तिष्ठेद्यावत्सूर्यस्य दर्शनम्।।

उपविष्टो जपेत्सायमृक्षाणामाविलोकनात्।।५५।।

काललोपो न कर्तव्यो द्विजेन स्वहितेप्सुना।।

अर्धोदयास्त समये तस्माद्वज्रोदकं क्षिपेत् ।।५६ ।।

विधिनापि कृता संध्या कालातीताऽफला भवेत् ।।

अयमेव हि दृष्टांतो वंध्या स्त्री मैथुनं यथा ।।५७।।

जलं वामकरे कृत्वा यासंध्या चरिता द्विजैः ।।

वृषली सा परिज्ञेया रक्षोगण मुदावहा ।।५८।।

उद्वयं तमुदुत्यं च चित्रं देवेति तत्परम् ।।

तच्चक्षुरित्युपस्थानमंत्रा ब्रध्नस्य सिद्धिदाः ।।५९।।

सहस्रकृत्वो गायत्र्याः शतकृत्वोथवा पुनः ।।

दशकृत्वोथ देव्यैव कुर्यात्सौरीमुपस्थितिम् ।। 4.1.35.१६० ।।

सहस्रपरमां देवीं शतमध्यां दशावराम् ।।

गायत्रीं यो जपेद्विप्रो न स पापैः प्रलिप्यते ।। ६१ ।।

विभ्राडित्यनुवाकं वा सूक्तं वा पौरुषं जपेत् ।।

शिवसंकल्पमथवा ब्राह्मणं मंडलं तु वा ।। ६२ ।।

एतानि चोपस्थानानि रविप्रीतिकराणि च ।।

रक्तचंदनमिश्राद्भिरक्षतैः कुसुमैः कुशैः ।।६३।।

वेदोक्तैरागमोक्तैर्वा मंत्रैरर्घं प्रदापयेत् ।।

अर्चितः सविता येन तेन त्रैलोक्यमर्चितम्।।६४।।

अर्चितः सविता सूते सुतान्पशु वसूनि च ।।

व्याधीन्हरेद्ददात्यायुः पूरयेद्वांछितान्यपि ।। ६५ ।।

अयं हि रुद्र आदित्यो हरिरेष दिवाकरः ।।

रविर्हिरण्यगर्भोसौ त्रयीरूपोयमर्यमा ।। ६६ ।।

रवेस्तु तोषणात्तुष्टा ब्रह्मविष्णुमहेश्वराः ।।

इंद्रादयोखिला देवा मरीच्याद्या महर्षयः ।। ६७ ।।

मानवा मनुमुख्याश्च सोमपाद्याः पितामहाः ।।

रवेरर्चां विधायेत्थं ततस्तर्पणमारभेत् ।। ६८ ।।

दर्भानगर्भानादाय नव सप्त च पंच वा ।।

साग्रान्समूलानच्छिन्नान्द्विजो दक्षिणपाणिना ।। ६९ ।।

अन्वारब्धेन सव्येन तर्पयेत्षड्विनायकान् ।।

ब्रह्मादीनखिलान्देवान्मरीच्यादींस्तथा मुनीन् ।। 4.1.35.१७० ।।

चंदनागुरुकस्तूरी गंधवत्कुसुमैरपि ।।

तर्पयेच्छुचिभिस्तोयैस्तृप्यंत्विति समुच्चरन् ।। ७१ ।।

सनकादीन्मनुष्याँश्च निवीती तर्पयेद्यवैः ।।

अंगुष्ठद्वयमध्ये तु कृत्वा दर्भानृजून्द्विजः ।। ७२ ।।

कव्यवाडनलादींश्च पितॄन्दिव्यान्प्रतर्पयेत् ।।

प्राचीनावीतिको दर्भैर्द्विगुणैस्तिलमिश्रितैः ।। ७३ ।।

रवौ शुक्रे त्रयोदश्यां सप्तम्यां निशि संध्ययोः ।।

श्रेयोर्थी ब्राह्मणो जातु न कुर्यात्तिलतर्पणम् ।। ७४ ।।

यदि कुर्यात्ततः कुर्याच्छुक्लैरेव तिलैः कृती ।।

चतुर्दश यमान्पश्चात्तर्पयेन्नाम उच्चरन् ।। ७५ ।।

ततः स्वगोत्रमुच्चार्य तर्पयेत्स्वपितॄन्मुदा ।।

सव्यजानुनिपातेन पितृतीर्थेन वाग्यतः ।। ७६ ।।

एकैकमंजलिं देवा द्वौ द्वौ तु सनकादिकाः ।।

पितरस्त्रीन्प्रवांछंति स्त्रिय एकैकमंजलिम् ।। ७७ ।।

अंगुल्यग्रे भवेद्दैवमार्षमंगुलि मूलगम् ।।

ब्राह्ममंगुष्ठमूले तु पाणिमध्ये प्रजापतेः ।। ७८ ।।

मध्येंगुष्ठप्रदेशिन्योः पित्र्यं तीर्थं प्रचक्षते ।।

नवर्चमुच्चरन्विद्वान्विदध्यात्पितृतर्पणम् ।। ७९ ।।

उदीरतामगिंरस आयंतुन इतीष्यते ।।

ऊर्जं वहंती पितृभ्यः स्वधायिभ्यस्ततः पठेत् ।। 4.1.35.१८० ।।

ये चेह पितरस्तद्वन्मधुवाता इति तृचम् ।।

नमो वः पितरश्चोक्त्वा पठन्सिंचेज्जलं भुवि ।। ८१ ।।

आब्रह्मस्तंबपर्यंतं देवर्षिपितृमानवाः ।।

तृप्यंतु पितरः सर्वे मातृमातामहादयः ।।८२ ।।

अतीतकुलकोटीनां सप्तद्वीप निवासिनाम् ।।

आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ।। ६३ ।।

ये चास्माकं कुले जाता अपुत्रा गोत्रिणो मृताः ।।

सर्वे ते तृप्तिमायांतु वस्त्रनिष्पीडनोदकैः ।।८४ ।।

अग्निकार्यं ततः कृत्वा वेदाभ्यासं ततश्चरेत् ।।

श्रुत्यभ्यासः पंचधा स्यात्स्वीकारोर्थविचारणम् ।। ८५ ।।

अभ्यासश्च जपश्चापि शिष्येभ्यः प्रतिपादनम् ।।

लब्धस्य प्रतिपालार्थमलब्धस्य च लब्धये ।। ८६ ।।

दातारं समुपेयाद्वै स्वगुरुत्वं च वर्धयेत् ।।

प्रातःकृत्यमिदं प्रोक्तं द्विजातीनां द्विजोत्तम ।। ८७ ।।

अथवा प्रातरुत्थाय कृत्वावश्यकमेव च ।।

शौचाचमनमादाय भक्षयेद्दंतधावनम् ।। ८८ ।।

विशोध्य सर्वगात्राणि प्रातःसंध्यां समाचरेत् ।।

वेदार्थानधिगच्छेच्च शास्त्राणि विविधान्यपि ।। ८९ ।।

अध्यापयेच्छुचीञ्शिष्यान्हितान्मेधासमन्वितान् ।।

उपेयादीश्वरं चैव योगक्षेमादि सिद्धये ।। 4.1.35.१९० ।।

ततो मध्याह्नसिद्ध्यर्थं पूर्वोक्तं स्नानमाचरेत् ।।

स्नात्वा माध्याह्निका संध्यामुपासीत विचक्षणः ।। ९१ ।।

नवयौवनभिन्नांगीं शुद्धस्फटिकनिर्मलाम् ।।

त्रिष्टुप्छंदः समायुक्तां सावित्रीं रुद्रदैवताम् ।। ९२ ।।

कश्यपर्षिसमायुक्तां यजुर्वेदस्वरूपिणीम् ।।

त्र्यक्षरां वृषभारूढां भक्ताभयकरां पराम् ।। ९३ ।।

देवतां परिपूज्याथ नैत्यिकं विधिमाचरेत् ।।

पचनाग्निं समुज्ज्वाल्य वैश्वदेवं समाचरेत् ।। ९४ ।।

निष्पावान्कोद्रवान्माषान्कलायांश्चणकांस्त्यजेत् ।।

तैलपक्वं च पक्वान्नं सर्वं लवणयुक्त्यजेत् ।। ९५ ।।

आढकीश्च मसूरांश्च वर्तुलान्वरटांस्तथा ।।

भुक्तशेषं पर्युषितं वैश्वदेवे विवर्जयेत् ।। ९६ ।।

दर्भपाणिः समाचम्य प्राणायामं विधाय च ।।

पृष्ठो दिवीति मंत्रेण पर्युक्षणमथाचरेत् ।। ९७ ।।

प्रदक्षिणं च पर्युक्ष्य त्रिःपरिस्तीर्य वै कुशान् ।।

एषो ह देव मंत्रेण कुर्याद्वह्निं सुसंमुखम् ।। ९८ ।।

वैश्वानरं समभ्यर्च्य साज्यपुष्पाक्षतैरथ ।।

भूराद्याश्चाहुतीस्तिस्रः स्वाहांताः प्रणवादिकाः ।। ९९ ।।

ॐभूर्भुवःस्वःस्वाहेति विप्रो दद्यात्तथाहुतिम् ।।

तथा देवकृतस्याद्या जुहुयाच्च षडाहुतीः ।। 4.1.35.२०० ।।

यमाय तूष्णीमेकां च तथा स्विष्टकृतीद्वयम् ।।

विश्वेभ्यश्चापि देवेभ्यो भूमौ दद्यात्ततो बलिम् ।। १ ।।

सर्वेभ्यश्चापि भूतेभ्यो नमो दद्यात्तदुत्तरे ।।

तद्दक्षिणे पितृभ्यश्च प्राचीनावीतिको ददेत् ।। २ ।।

निर्णेजनोदकान्नं चैशान्यां वै यक्ष्मणेऽर्पयेत् ।।

ततो ब्रह्मादि देवेभ्यो नमो दद्यात्तदुत्तरे ।। ३ ।।

निवीती सनकादिभ्यः पितृभ्यस्त्वपसव्यवान् ।।

हंतः षोडशभिर्ग्रासश्चतुर्भिः पुष्कलं स्मृतम् ।। ४ ।।

ग्रासमात्राभवेद्भिक्षा गृहस्थसुकृतप्रदा ।।

अध्वगः क्षीणवृत्तिश्च विद्यार्थी गुरुपोषकः ।। ५ ।।

यतिश्च ब्रह्मचारी च षडेते धर्मभिक्षुकाः ।।

अतिथिः पथिको ज्ञेयो ऽनूचानः श्रुतिपारगः ।। ६ ।।

मान्यावेतौ गृहस्थानां ब्रह्मलोकमभीप्सताम् ।।

अपि श्वपाके शुनि वा नैवान्नं निष्फलं भवेत् ।। ७ ।।

अन्नार्थिनि समायाते पात्रापात्रं न चिंतयेत् ।।

शुनां च पतितानां च श्वपचां पापरोगिणाम्।। ८ ।।

काकानां च कृमीणां च बहिरन्नं किरेद्भुवि ।।

ऐंद्रवारुणवायव्याः सौम्या वै नैर्ऋताश्च ये ।। ९ ।।

प्रतिगृह्णंत्विमं पिंडं काका भूमौ मयार्पितम् ।।

द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ ।। 4.1.35.२१० ।।

ताभ्यां पिंडं प्रदास्यामि स्यातामेतावहिंसकौ ।।

देवा मनुष्याः पशवो रक्षो यक्षोरगाः खगाः ।। ११ ।।

दैत्याः सिद्धाः पिशाचाश्च प्रेता भूताश्च दानवाः ।।

तृणानि तरवश्चापि मद्दत्तान्नाभिलाषुकाः ।। १२ ।।

कृमि कीट पतंगाद्याः कर्मबद्धा बुभुक्षिताः ।।

तृप्त्यर्थमन्नं हि मया दत्तं तेषां मुदेस्तु वै ।। १३ ।।

इत्थं भूतबलिं दत्त्वा कालं गोदोहमात्रकम् ।।

प्रतीक्ष्यातिथिमायांतं विशेद्भोज्यगृहं ततः ।। १४ ।।

अदत्त्वा वायसबलिं नित्यश्राद्धं समाचरेत् ।।

नित्यश्राद्धे स्वसामर्थ्यात्त्रीन्द्वावेकमथापि वा ।। १५ ।।

भोजयेत्पितृयज्ञार्थं दद्यादुद्धृत्य दुर्बलः ।।

नित्यश्राद्धं दैवहीनं नियमादिविवर्जितम् ।। १६ ।।

दक्षिणारहितं त्वेतद्दातृभोक्तृ व्रतोज्झितम् ।।

पितृयज्ञं विधायेत्थं स्वस्थबुद्धिरनातुरः ।। १७ ।।

अदुष्टासनमध्यास्य भुंजीत शिशुभिः सह ।।

सुगंधिः सुमनाः स्रग्वी शुचिवासो द्वयान्वितः ।। १८ ।।

प्रागास्य उदगास्यो वा भुंजीत पितृसेवितम् ।। १९ ।।

विधायान्नमनग्नं तदुपरिष्टादधस्तथा ।।

आपोशनविधानेन कृत्वाश्नीयात्सुधीर्द्विजः ।।4.1.35.२२०।।

प्रदद्याद्भुवःपतये भुवनपतये तथा।।

भूतानांपतये स्वाहेत्युक्त्वा भूमौ बलित्रयम् ।।२१।।

सकृच्चाप उपस्पृश्य प्राणाद्याहुतिपंचकम् ।।

दद्याज्जठरकुंडाग्नौ दर्भपाणिः प्रसन्नधीः ।। २२ ।।

दर्भपाणिस्तु यो भुंक्ते तस्य दोषो न विद्यते ।।

केशकीटादि संभूतस्तदश्नीयात्सदर्भकः ।। २३ ।।

यावद्रुच्यन्नमश्नीयान्न ब्रूयात्तद्गुणागुणान् ।।

भुंजते पितरस्तावद्यावन्नोक्ता गुणागुणाः ।। २४ ।।

अतो मौनेन यो भुंक्ते स भुंक्ते केवलामृतम् ।।

अनुपीय ततः क्षीरं तक्रं पानीयमेव वा ।। २५ ।।

अमृतापिधानमसीत्येवं प्राश्योदकं सकृत् ।।

पीतशेषं क्षिपेद्भूमौ तोयं मंत्रमिमं पठन्।। २६ ।।

अप्रक्षालितहस्तस्य दक्षिणांगुष्ठमूलतः ।।

रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम् ।। २७ ।।

उच्छिष्टोदकमिच्छूनामक्षय्यमुपतिष्ठताम् ।। ।। २८ ।।

पुनराचम्य मेधावी शुचिर्भूत्वा प्रयत्नतः ।।

हस्तेनोदकमादाय मंत्रमेतमुदीरयेत्।।२९।।

अंगुष्ठमात्रः पुरुषस्त्वंगुष्ठं च समाश्रितः ।।

ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् ।। 4.1.35.२३० ।।

इत्यन्नं परिसंकल्प्य प्रक्षाल्य चरणौ करौ ।।

ततोन्नपरिणामार्थं मंत्रानेतानुदीरयेत् ।। ३१ ।।

अग्निराप्याययन्धातून्पार्थिवान्पवनेरितः ।।

दत्तावकाशो नभसा जरयत्वस्तु मे सुखम् ।।३२।।

प्राणापानसमानानामुदानव्यानयोस्तथा।।

अन्नपुष्टिकरं चास्तु ममास्त्वव्याहतं सुखम् ।। ३३।।

समुद्रो वडवाग्निश्च ब्रध्नो ब्रध्नस्यनंदनः ।।

मयाभ्यवहृतं यत्तदशेषं जरयंत्विमे ।। ३४ ।।

मुखशुद्धिं ततः कृत्वा पुराणश्रवणादिभिः ।।

अतिवाह्य दिवाशेषं ततः संध्यां समारभेत् ।। ३५।।

गृहे गोष्ठे नदीतीरे संध्या दशगुणा क्रमात् ।।

संभेदे स्याच्छतगुणा ह्यनंता शिवसन्निधौ ।। ३६ ।।

उपासिता बहिः संध्या दिवामैथुनपातकम् ।।

शमयेदनृतोक्ताघं मद्यगंधजमेव च ।। ३७ ।।

सामवेदस्वरूपां च वसिष्ठर्षि समायुताम् ।।

कृष्णांगीं कृष्णवसनां मनाक्स्खलित यौवनाम् ।। ३८ ।।

सरस्वतीं तार्क्ष्ययानां विघ्नघ्नीं विष्णुदैवताम् ।।

जगतीच्छंदसा युक्तां ध्यायेदेकाक्षरां पराम् ।। ३९ ।।

अग्निश्चेति च मंत्रेण विधायाचमने सुधीः ।।

पश्चिमास्यो जपेत्तावद्यावन्नक्षत्रदर्शनम् ।। 4.1.35.२४० ।।

अतिथिं सायमायांतमपिवाग्भूतृणोदकैः ।।

संभाव्य परिकल्प्येत्थं निशःप्राक्प्रहरं सुधीः ।। ४१ ।।

इत्थं दिवाकर्म कृत्वा श्रुतेः पठनपाठनैः ।।

एककाष्ठमयीं शय्यां नातितृप्तोथ संविशेत् ।। ४२ ।।

उद्देशतः समाख्यातो ह्येष नित्यतमो विधिः ।।

इत्थं समाचरन्विप्रो नावसीदति कर्हिचित् ।। २४३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहरस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सदाचारो नाम पंचत्रिंशोऽध्यायः ।। ३५ ।। ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 36

स्कंद उवाच ।। ।।

पुनर्विशेषं वक्ष्यामि सदाचारस्य कुंभज ।।

यं श्रुत्वापि नरो धीमान्नाज्ञानतिमिरं विशेत् ।। १ ।।

ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजाः स्मृताः ।।

प्रथमं मातृतो जाता द्वितीयं चोपनायनात् ।। २ ।।

एषां क्रियानिषेकादि श्मशानांता च वैदिकी।।

आदधीत सुधीर्गर्भमृतौमूलं मघां त्यजेत् ।। ३ ।।

स्पंदनात्प्राक्पुंसवनं सीमंतोन्नयनं ततः ।।

मासि षष्ठेऽष्टमे वापि जातेथो जातकर्म च ।। ४ ।।

नामाह्न्येकादशे गेहाच्चतुर्थेमासि निष्क्रमः ।।

मासेन्नप्राशनं षष्ठे चूडाब्दे वा यथाकुलम् ।। ५ ।।

शममेनो व्रजेदेवं बैजं गर्भजमवे च ।।

स्त्रीणामेताः क्रियास्तूष्णीं पाणिग्राहस्तु मंत्रवान् ।। ६ ।।

सप्तमेथाष्टमेवाब्दे सावित्रीं ब्राह्मणोर्हति ।।

नृपस्त्वेकादशे वैश्यो द्वादशे वा यथाकुलम् ।। ७ ।।

ब्रह्मतेजोभिवृद्ध्यर्थं विप्रोब्देपंचमेर्हति ।।

षष्ठे बलार्थी नृपतिर्मौजीं वैश्योष्टमे ध्रियेत् ।। ८ ।।

महाव्याहृतिपूर्वं च वेदमध्यापयेद्गुरुः ।।

उपनीय च तं शिष्यं शौचाचारे च योजयेत् ।।९।।

पूर्वोक्तविधिना शौचं कुर्यादाचमनं तथा ।।

दंताञ्जिह्वां विशोध्याथ कृत्वा मलविशोधनम् ।।4.1.36.१०।।

स्नात्वांबुदैवतैर्मंत्रैः प्राणानायम्य यत्नतः ।।

उपस्थानं रवेः कृत्वा संध्ययोरुभयोरपि ।। ११ ।।

अग्निकार्यं ततः कृत्वा ब्राह्मणानभिवादयेत् ।।

ब्रुवन्नमुक गोत्रोहमभिवादय इत्यपि ।। १२ ।।

अभिवादनशीलस्य वृद्धसेवारतस्य च ।।

आयुर्यशोबलं बुद्धिर्वर्धतेऽहरहोधिकम् ।। १३ ।।

अधीते गुरुणा हूतः प्राप्तं तस्मै निवेदयेत् ।।

कर्मणा मनसा वाचा हितं तस्याचरेत्सदा ।। १४ ।।

अध्याप्याधर्मतोनार्थात्साध्वाप्तज्ञानवित्तदाः ।।

शक्ताः कृतज्ञाः शुचयोऽद्रोहकाश्चानसूयकाः ।। १५ ।।

धारयेन्मेखलादंडोपवीताजिनमेव च ।।

अनिंद्येषु चरेद्भैक्ष्यं ब्राह्मणेष्वात्मवृत्तये ।। १६ ।।

ब्राह्मणक्षत्रियविशामादिमध्यावसानतः ।।

भैक्ष्यचर्या क्रमेण स्याद्भवच्छब्दोपलक्षिता ।। १७ ।।

वाग्यतो गुर्वनुज्ञातो भुंजीतान्नमकुत्सयन् ।।

एकान्नं न समश्नीयाच्छ्राद्धेऽश्नीयात्तथापदि ।। १८ ।।

अनारोग्यमनायुष्यमस्वर्ग्यंचातिभोजनम् ।।

अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ।। १९ ।।

न द्विर्भुंजीत चैकस्मिन्दिवा क्वापि द्विजोत्तमः ।।

सायंप्रातर्द्विजोऽश्नीयादग्निहोत्रविधानवित् ।। 4.1.36.२० ।।

मधुमांसं प्राणिहिंसां भास्करालोकनांजने ।।

स्त्रियं पर्युषितोच्छिष्टंपरिवादं विवजर्येत् ।। २१ ।।

औपनायनिकः कालो ब्रह्मक्षत्र विशां परः ।।

आ षोडशादाद्वाविंशादा चतुर्विंशदब्दतः ।। २२ ।।

इतोप्यूर्ध्वं न संस्कार्याः पतिता धर्मवर्जिताः ।।

व्रात्यस्तोमेन यज्ञेन तत्पातित्यं परिव्रजेत् ।। २३ ।।

सावित्रीपतितैः सार्धं संबंधं न समाचरेत् ।।

ऐणं च रौरवं वास्तं क्रमाच्चर्म द्विजन्मनाम् ।।२४।।

वसीरन्नानुपूर्व्येण शाण क्षौमाविकानि च।।

द्विजस्य मेखला मौंजी मौर्वी च भुजजन्मनः ।।

भवेत्त्रिवृत्समाश्लक्ष्णा विशस्तु शणतांतवी ।। २५ ।।

मुंजाभावे विधातव्या कुशाश्मंतकबल्वजैः ।।

ग्रंथिनैकेन संयुक्ता त्रिभिः पंचभिरेव वा ।। २६ ।।

उपवीतक्रमेण स्यात्कार्पासं शाणमाविकम् ।।

त्रिवृदूर्ध्ववृतं तच्च भवेदायुर्विवृद्धये ।। २७ ।।

बिल्वपालाशयोर्दंडो ब्राह्मणस्य नृपस्य तु ।।

न्यग्रोधबालदलयोः पीलूदुंबरयोर्विशः ।। २८ ।।

आमौलिं वाऽऽललाटंवाऽऽनासमूर्ध्वप्रमाणतः ।।

ब्रह्मक्षत्रविशां दंडस्त्वगाढ्योनाग्निदूषितः ।। २९ ।।

प्रदक्षिणं परीत्याग्निमुपस्थाय दिवाकरम् ।।

दंडाजिनोपवीताढ्यश्चरेद्भैक्ष्यं यथोदितम् ।। 4.1.36.३० ।।

मातृमातृष्वसृस्वसृपितृस्वसृपुरःसराः ।।

प्रथमं भिक्षणीयाः स्युरेतायाचन नो वदेत्।। ३१ ।।

यावद्वेदमधीते च चरन्वेदव्रतानि च ।।

ब्रह्मचारी भवेत्तावदूर्ध्वं स्नातो गृही भवेत् ।। ३२ ।।

प्रोक्तोसावुपकुर्वाणो द्वितीयस्तत्र नैष्ठिकः ।।

तिष्ठेत्तावद्गुरुकुले यावत्स्यादायुषः क्षयः ।। ३३ ।।

गृहाश्रमं समाश्रित्य यः पुनर्ब्रह्मचर्यभाक्।।

नासौ यतिर्वनस्थो वा स्यात्सर्वाश्रमवर्जितः ।। ३४ ।।

अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः ।।

आश्रमं तु विना तिष्ठन्प्रायश्चित्ती यतो हि सः ।।३५।।

जपं होमं व्रतं दानं स्वाध्यायं पितृतर्पणम्।।

कुर्वाणोथाश्रमभ्रष्टो नासौ तत्फलमाप्नुयात् ।। ।। ३६।।

मेखलाजिनदंडाश्च लिंगं स्याद्ब्रह्मचारिणः ।।

गृहिणो वेदयज्ञादि नखलोमवनस्थितेः ।। ३७ ।।

त्रिदंडादि यतेरुक्तमुपलक्षणमत्र वै ।।

एतल्लक्षणहीनस्तु प्रायश्चित्ती दिने दिने ।। ३८ ।।

जीर्णं कमंडलुं दंडमुपवीताजिने अपि ।।

अप्स्वेव तानि निक्षिप्य गृह्णीतान्यच्च मंत्रवत् ।। ३९ ।।

विदध्यात्षोडशे वर्षे केशांतकर्म च क्रमात् ।।

द्वाविंशे च चतुर्विंशे गार्हस्थ्य प्रतिपत्तये ।। 4.1.36.४० ।।

तपो यज्ञ व्रतेभ्यश्च सर्वस्माच्छुभकर्मणः ।।

द्विजातीनां श्रुतिर्ह्येका हेतुर्निश्रेयस श्रियः ।। ४१ ।।

वेदारंभे विसर्गे च विदध्यात्प्रणवं सदा ।।

अफलोऽनोंकृतो यस्मात्पठितोपि न सिद्धये ।। ४२ ।।

वेदस्य वदनं प्रोक्तं गायत्री त्रिपदा परा ।।

तिसृभिः प्रणवाद्याभिर्महाव्याहृतिभिः सह ।। ४३ ।।

सहस्रं साधिकं किंचित्त्रिकमैतज्जपन्यमी ।।

मासं बहिः प्रतिदिनं महाघादपि मुच्यते ।। ४४ ।।

अत्यब्दमिति योभ्यस्येत्प्रतिघस्रमनन्यधीः ।।

स व्योममूर्तिः शुद्धात्मा परं ब्रह्माधिगच्छति ।। ४५ ।।

त्रिवर्णमयमोंकारं भूर्भुवःस्वरिति त्रयम् ।।

पादत्रयं च सावित्र्यास्त्रयोवेदा अदूदुहन् ।। ४६ ।।

एतदक्षरमेनां च जपेद्व्याहृतिपूर्विकाम् ।।

संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ।। ४७ ।।

विधिक्रतोर्दशगुणं जपस्यफलमश्नुते ।।

विधिक्रतोर्दशगुणो जपक्रतुरुदीरितः ।। ४८ ।।

उपांशुस्तच्छतगुणः सहस्रो मानसस्ततः ।। ४९ ।।

अधीत्यवेदान्वेदौ वा वेदं वा शक्तितो द्विजः ।।

सुवर्णपूर्ण धरणी दानस्य फलमश्नुते ।। 4.1.36.५० ।।

श्रुतिमेव सदाभ्यस्येत्तपस्तप्तुं द्विजोत्तमः ।।

श्रुत्यभ्यासो हि विप्रस्य परमं तप उच्यते ।। ५१ ।।

हित्वा श्रुतेरध्ययनं योन्यत्पठितुमिच्छति ।।

स दोग्ध्रीं धेनुमुत्सृज्य ग्रामक्रोडीं दुधुक्षति ।। ५२ ।।

उपनीय च वै शिष्यं वेदमध्यापयेद्द्विजः ।।

सकल्पं सरहस्यं च तमाचार्यं विदु्र्बुधाः ।। ५३ ।।

योध्यापयेदेकदेशं श्रुतेरंगान्यथापि वा ।।

वृत्त्यर्थं स उपाध्यायो विद्वद्भिः परिगीयते ।। ५४ ।।

यथाविधि निषेकादि यः कर्म कुरुते द्विजः ।।

संभावयेत्तथान्नेन गुरुः स इह कीर्त्यते ।। ५९ ।।

अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् ।।

यः करोति वृतो यस्य स तस्यर्त्त्विगिहोच्यते ।। ५६ ।।

उपाध्यायाद्दशाचार्य आचार्यात्तु शतं पिता ।।

सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ।। ५७ ।।

विप्राणां ज्ञानतो ज्यैष्ठ्यं बाहुजानां तु वीर्यतः ।।

वैश्यानां धान्यधनतः पज्जातानां तु जन्मतः ।। ५८ ।।

यथा दारुमयो हस्ती यथा कृत्तिमयो मृगः ।।

तथा विप्रोऽनधीयानस्त्रयोऽमी नामधारिणः ।। ५९ ।।

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ।।

स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ।। 4.1.36.६० ।।

स्वधर्मनिरतानां च वेदयज्ञक्रियावताम् ।।

ब्रह्मचारी चरेद्भैक्ष्यं वेश्मसुप्रयतोऽन्वहम् ।। ६१ ।।

अकृत्वा भैक्ष्यचरणमसमिध्य हुताशनम् ।।

अनातुरः सप्तरात्रमवकीर्णि व्रतं चरेत् ।। ६२ ।।

यथेष्टचेष्टो नभवेद्गुरोर्नयनगोचरे ।।

न नामपरिगृह्णीयात्परोक्षेप्यविशेषणम् ।। ६३ ।।

गुरुनिंदाभवेद्यत्र परिवादस्तु यत्र च ।।

श्रुती पिधाय वास्थेयं यातव्यं वा ततोन्यतः ।। ६४ ।।

खरो गुरोः परीवादाच्छ्वा भवेद्गुरुनिंदकः ।।

मत्सरी क्षुद्रकीटःस्यात्परिभोक्ता भवेत्कृमिः ।। ६५ ।।

नाभिवाद्या गुरोः पत्नी स्पृष्ट्वांघ्री युवती सती ।।

क्वापि विंशतिवर्षेण ज्ञातृणा गुणदोषयोः ।। ६६ ।।

स्वभावश्चंचलः स्त्रीणां दोषः पुंसामतः स्मृतः ।।

प्रमदासु प्रमाद्यंति क्वचिन्नैव विपश्चितः ।। ६७ ।।

विद्वांसमप्यविद्वांसं यतस्ताधर्षयंत्यलम् ।।

स्ववशं वापि कुर्वंति सूत्रबद्धशकुंतवत् ।। ६८ ।।

न मात्रा न दुहित्रा वा न स्वस्रैकांतशीलता ।।

बलवंतीद्रियाण्यत्र मोहयंत्यपि कोविदान् ।। ६९ ।।

प्रयत्नेन खनन्यद्वद्भूमेर्वार्यधिगच्छति ।।

शुश्रूषया गुरोस्तद्वद्विद्या शिष्योधिगच्छति।।4.1.36.७०।।

शयानमभ्युदयते ब्रध्नश्चेद्ब्रह्मचारिणम् ।।

प्रमादादथ निम्लोचेज्जपन्नपवसेद्दिनम् ।। ७१ ।।

सुतस्य संभवे क्लेशं सहेते पितरौ च यत् ।।

शक्या वर्षशतेनापि नो कर्तुं तस्य निष्कृतिः ।। ७२ ।।

अतस्तयोः प्रियं कुर्याद्गुरोरपि च सर्वदा ।।

त्रिषु तेषु सुतुष्टेषु तपः सर्वं समाप्यते ।। ७३ ।।

तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।।

तानतिक्रम्य यः कुर्यात्तन्नसिद्ध्येत्कदाचन ।। ७४ ।।

त्रीनेवामून्समाराध्य त्रीँल्लोकान्स जयेत्सुधीः ।।

देववद्दिवि दीव्येत तेषां तोषं विवर्धयन् ।। ७५ ।।

भूर्लोकं जननी भक्त्या भुवर्लोकं तथा पितुः ।।

गुरोः शुश्रूषणात्तद्वत्स्वर्लोकं च जयेत्कृती ।। ७६ ।।

एतदेव नृणां प्रोक्तं पुरुषार्थचतुष्टयम् ।।

यदेतेषां हि संतोष उपधर्मोन्य उच्यते ।। ७७ ।।

अधीत्य वेदान्वेदौ वा वेदं वापि क्रमाद्द्विजः ।।

अप्रस्खलद्ब्रह्मचर्यो गृहाश्रममथाश्रयेत् ।। ७८ ।।

अविप्लुत ब्रह्मचर्यो विश्वेशानुग्रहाद्भवेत् ।।

अनुग्रहश्च वैश्वेशः काशीप्राप्तिकरः परः ।। ७९ ।।

काशीप्राप्त्या भवेज्ज्ञानं ज्ञानान्निर्वाणमृच्छति ।।

निर्वाणार्थं प्रयत्नो हि सदाचारस्य धीमताम् ।। 4.1.36.८० ।।

सदाचारो गृहे यद्वन्न तथास्त्याश्रमांतरे ।।

विद्याजातं पठित्वांते गृहस्थाश्रममाश्रयेत् ।। ८१ ।।

गृहाश्रमात्परं नास्ति यदि पत्नीवशंवदा ।।

आनुकूल्यं हि दंपत्योस्त्रिवर्गोदय हेतवे ।। ८२ ।।

आनुकूल्यं कलत्रं चेत्त्रिदिवेनापि किं ततः ।।

प्रातिकूल्यं कलत्रं चेन्नरकेणापि किं ततः ।। ८३ ।।

गृहाश्रमः सुखार्थाय भार्यामूलं च तत्सुखम् ।।

सा च भार्या विनीताया त्रिवर्गो विनयो धुवम् ।। ८४ ।।

जलौकयोपमीयंते प्रमदा मंदबुद्धिभिः ।।

मृगीदृशां जलौकानां विचारान्महदतंरम् ।। ८५ ।।

जलौका केवलं रक्तमाददाना तपस्विनी ।।

प्रमदा सर्वदा दत्ते चित्तं वित्तं बलं सुखम् ।। ८६ ।।

दक्षा प्रजावती साध्वी प्रियवाक्च वशंवदा ।।

गुणैरमीभिः संयुक्ता सा श्रीः स्त्रीरूपधारिणी ।। ८७।।

गुरोरनुज्ञया स्नात्वा व्रतं वेदं समाप्य च ।।

उद्वहेत ततो भार्यां सवर्णां साधुलक्षणाम् ।। ८८ ।।

जने तु रसगोत्राया मातुर्याप्यसपिंडका ।।

दारकर्मणि योग्या सा द्विजानां धर्मवृद्धये ।।८९।।

स्त्रीसंबंधेप्यपस्मारि क्षयि श्वित्रि कुलं त्यजेत् ।।

अभिशस्तिसमायुक्तं तथा कन्याप्रसूं त्यजेत् ।।4.1.36.९०।।

रोगहीनां भ्रातृमतीं स्वस्मात्किंचिल्लघीयसीम् ।।

उद्वहेत द्विजो भार्यां सौम्यास्यां मृदुभाषिणीम् ।।९१।।

न पर्वतर्क्षवृक्षाह्वां न नदीसर्पनामिकाम् ।।

न पक्ष्यहिप्रेष्यनाम्नीं सौम्याख्यामुद्वहेत्सुधीः ।।९२।।

न चातिरिक्तहीनांगीं नातिदीर्घां न वा कृशाम् ।।

नालोमिकां नातिलोमां नास्निग्धस्थूलमौलिजाम् ।। ९३ ।।

मोहात्समुपयच्छेत कुलहीनां न कन्यकाम् ।।

हीनोपयमनाद्याति संतानमपि हीनताम् ।।९४।।

लक्षणानि परीक्ष्यादौ ततः कन्यां समुद्वहेत् ।।

सुलक्षणा सदाचारा पत्युरायुर्विवर्धयेत् ।।९५।।

ब्रह्मचारि समाचार इति ते समुदी रितः ।।

घटोद्भव प्रसंगेन स्त्रीलक्षणमथ ब्रुवे।।९६।।

इति श्री स्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे षट्त्रिंशत्तमोऽध्यायः ।।३६।।

खण्डः ४ (काशीखण्डः) — Adhyāya 37

स्कंद उवाच ।। ।।

सदा गृही सुखं भुंक्ते स्त्री लक्षणवती यदि ।।

अतः सुखसमृद्ध्यर्थमादौ लक्षणमीक्षयेत् ।। १ ।।

वपुरावर्तगंधाश्चच्छाया सत्वं स्वरो गतिः ।।

वर्णश्चेत्यष्टधा प्रोक्ता बुधैर्लक्षणभूमिका ।। २ ।।

आपादतलमारभ्य यावन्मौलिरुहं क्रमात् ।।

शुभाशुभानि वक्ष्यामि लक्षणानि मुने शृणु ।। ३ ।।

आदौ पादतलं रेखास्ततोंगुष्ठांगुली नखाः ।।

पृष्ठगुल्फद्वयं पार्ष्णी जंघे रोमाणि जानुनी ।। ४ ।।

ऊरू कटी नितंबस्फिग्भगो जघन बस्तिके ।।

नाभिः कुक्षिद्वयं पार्श्वोदरमध्य वलित्रयम् ।। ५ ।।

रोमाली हृदयं वक्षो वक्षोजद्वयचूचुकम् ।।

जत्रुस्कंधां सकक्षादोर्मणिबंध करद्वयम् । ६ ।।

पाणिपृष्ठं पाणितलं रेखांगुष्ठांगुली नखाः ।।

पृष्ठिः कृकाटिका कंठे चिबुकं च हनुद्वयम् ।। ७ ।।

कपोलौ वक्त्रमधरोत्तरोष्ठौ द्विजजिह्विकाः ।।

घंटिका तालुहसितं नासिकाक्षुतमक्षिणी ।। ८ ।।

पक्ष्म भ्रूकर्णभालानि मौलि सीमंतमौलिजाः ।।

षष्टिः षडुत्तरायोषिदंगलक्षणसत्खनिः ।। ९ ।।

स्त्रीणां पादतलं स्निग्धं मांसलं मृदुलं समम् ।।

अस्वेदमुष्णमरुणं बहुभोगोचितं स्मृतम् ।। 4.1.37.१० ।।

रूक्षं विवर्णं परुषं खंडितप्रतिबिंबकम् ।।

शूर्पाकारं विशुष्कं च दुःखदौर्भाग्यसूचकम् ।। ११ ।।

चक्र स्वस्तिक शंखाब्ज ध्वजमीनातपत्रवत् ।।

यस्याः पादतले रेखा सा भवेत्क्षितिपांगना ।। १२ ।।

भवेदखंडभोगायोर्द्ध्वामध्यांगुलिसंगता ।।

रेखाखु सर्पकाकाभा दुःखदारिद्र्यसूचिका ।। १३ ।।

उन्नतो मांसलोंगुष्ठो वर्तुलोतुलभोगदः ।।

वक्रो ह्रस्वश्च चिपिटः सुखसौभाग्यभंजकः ।। १४ ।।

विधवा विपुलेन स्याद्दीर्घांगुष्ठेन दुर्भगा ।।

मृदवोंगुलयः शस्ता घनावृत्ताः समुन्नताः ।।१५।।

दीर्घांगुलीभिः कुलटा कृशाभिरतिनिर्धना ।।

ह्रस्वायुष्या च ह्रस्वाभिर्भुग्नाभिर्भुग्नवर्तिनी ।। १६ ।।

चिपिटाभिर्भवेद्दासी विरलाभिर्दरिद्रिणी ।।

परस्परं समारूढाः पादांगुल्यो भवंति हि ।। १७ ।।

हत्वा बहूनपि पतीन्परप्रेष्या तदा भवेत् ।।

यस्याः पथि समायांत्या रजोभूमेः समुच्छलेत् ।। १८ ।।

सा पांसुला प्रजायेत कुलत्रयविनाशिनी ।।

यस्याः कनिष्ठिका भूमिं न गच्छंत्याः परिस्पृशेत् ।। १९ ।।

सा निहत्य पतिं योषा द्वितीयं कुरुते पतिम् ।।

अनामिका च मध्या च यस्या भूमिं न संस्पृशेत् ।। 4.1.37.२० ।।

पतिद्वयं निहंत्याद्या द्वितीया च पतित्रयम् ।।

पतिहीनत्वकारिण्यौ हीने ते द्वे इमे यदि ।। २१ ।।

प्रदेशिनी भवेद्यस्या अंगुष्ठाव्यतिरेकिणी ।।

कन्यैव कुलटा सा स्यादेष एव विनिश्चयः ।। २२ ।।

स्निग्धाः समुन्नतास्ताम्रा वृत्ताः पादनखाः शुभाः ।। २३ ।।

राज्ञीत्वसूचकं स्त्रीणां पादपृष्ठं समुन्नतम् ।।

अस्वेदमशिराढ्यं च मसृणं मृदुमांसलम् ।। २४ ।।

दरिद्रा मध्यनम्रेण शिरालेन सदाध्वगा ।।

रोमाढ्येन भवेद्दासी निर्मांसेन च दुर्भगा ।। २५ ।।

गूढौ गुल्फौ शिवायोक्तावशिरालौ सुवर्तुलौ ।।

स्थपुटौ शिथिलौ दृश्यौ स्यातां दौर्भाग्यसूचकौ ।। २६ ।।

समपार्ष्णिः शुभा नारी पृथुपार्ष्णिश्च दुर्भगा ।।

कुलटोन्नतपार्ष्णि स्याद्दीर्घपार्ष्णिश्च दुःखभाक् ।। २७ ।।

रोमहीने समे स्निग्धे यज्जंघे क्रमवर्तुले ।।

सा राजपत्नी भवति विशिरेसुमनोहरे ।। २८ ।।

एकरोमा राजपत्नी द्विरोमा च सुखावहा ।।

त्रिरोमा रोमकूपेषु भवेद्वैधव्यदुःखभाक् ।। २९ ।।

वृत्तं पिशितसंलग्नं जानुयुग्मं प्रशस्यते ।।

निर्मांसं स्वैरचारिण्या दरिद्रा याश्च विश्लथम् ।। 4.1.37.३० ।।

विशिरैः करभाकारैरूरुभिर्मसृणैर्घनैः ।।

सुवृत्तैरोमरहितैर्भवेयुर्भूपवल्लभाः ।। ३१ ।।

वैधव्यं रोमशैरुक्तं दौर्भाग्यं चिपिटैरपि ।।

मध्यच्छिद्रैर्महादुःखं दारिद्र्यं कठिनत्वचैः ।। ३२ ।।

चतुर्भिरंगुलैः शस्ता कटिर्विंशतिसंयुतैः ।।

समुन्नतनितंबाढ्या चतुरस्रा मृगीदृशाम् ।। ३३ ।।

विनता चिपिटा दीर्घा निर्मांसासंकटाकटिः ।।

ह्रस्वा रोमयुता नार्या दुःखवैधव्यसूचिका ।। ३४ ।।

नितंबबिंबो नारीणामुन्नतो मांसलः पृथुः ।।

महाभोगाय संप्रोक्तस्तदन्योऽशर्मणे मतः ।। ३५ ।।

कपित्थफलवद्वृत्तौ मृदुलौ मांसलौ घनौ ।।

स्फिचौ वलिविनिर्मुक्तौ रतिसौख्यविवर्धनौ।। ३६ ।।

शुभः कमठपृष्ठाभो गजस्कंधोपमो भगः ।।

वामोन्नतस्तु कन्याजः पुत्रजो दक्षिणोन्नतः ।।३७।।

आखुरोमा गूढमणिः सुश्लिष्टः संहतः पृथुः ।।

तुंगः कमलपर्णाभः शुभोश्वत्थदलाकृतिः ।। ३८ ।।

कुरंगखुररूपोयश्चुल्लिकोदरसन्निभः ।।

रोमशो विवृतास्यश्च दृश्यनासोतिदुर्भगः ।। ३९ ।।

शंखावर्तो भगो यस्याः सा गर्भमिह नेच्छति ।।

चिपिटः खर्पराकारः किंकरी पददो भगः ।।4.1.37.४०।।।

वंशवेतसपत्राभो गजरोमोच्चनासिकः ।।

विकटः कुटिलाकारो लंबगल्लस्तथाऽशुभः।।४१।।

भगस्य भालं जघनं विस्तीर्णं तुंगमांसलम् ।।

मृदुलं मृदुलोमाढ्यं दक्षिणावर्तमीडितम् ।। ४२ ।।

वामावर्तं च निर्मांसं भुग्नवैधव्यसूचकम् ।।

संकटस्थपुटं रूक्षं जघनं दुःखदं सदा ।। ४३ ।।

बस्तिः प्रशस्ता विपुला मृद्वीस्तोकसमुन्नता ।।

रोमशा च शिराला च रेखांका नैव शोभना ।। ४४ ।।

गंभीरा दक्षिणावर्ता नाभी स्यात्सुखसंपदे ।।

वामावर्ता समुत्ताना व्यक्तग्रंथिर्न शोभना ।। ४५ ।।

सूते सुतान्बहून्नारी पृथुकुक्षिः सुखास्पदम् ।।

क्षितीशं जनयेत्पुत्रं मंडूकाभेन कुक्षिणा ।। ४६ ।।

उन्नतेन वलीभाजा सावर्तेनापि कुक्षिणा ।।

वंध्या प्रव्रजिता दासी क्रमाद्योषा भवेदिह ।। ४७ ।।

समैः समांसैर्मृदुभिर्योषिन्मग्नास्थिभिः शुभैः ।।

पार्श्वेः सौभाग्यसुखयोर्निधानं स्यादसंशयम् ।। ४८ ।।

यस्यादृश्य शिरे पार्श्वे उन्नते रोमसंयुते ।।

निरपत्या च दुःशीला सा भवेद्दुःखशेवधिः ।। ४९ ।।

उदरेणातितुच्छेन विशिरेण मृदुत्वचा ।।

योषिद्भवति भोगाढ्या नित्यं मिष्टान्नसेविनी ।। 4.1.37.५० ।।

कुंभाकारं दरिद्राया जठरं च मृदंगवत् ।।

कूष्मांडाभं यवाभं च दुष्पूरं जायते स्त्रियाः ।। ५१ ।।

सुविशालोदरी नारी निरपत्या च दुर्भगा ।।

प्रलंबजठरा हंति श्वशुरं चापि देवरम् ।। ५२ ।।

मध्यक्षामा च सुभगा भोगाढ्या सवलित्रया ।।

ऋज्वी तन्वी च रोमाली यस्याः सा शर्मनर्मभूः ।। ५३ ।।

कपिला कुटिला स्थूला विच्छिन्ना रोमराजिका ।।

चौर वैधव्य दौर्भाग्यं विदध्यादिह योषिताम् ।। ५४ ।।

निर्लोमहृदयं यस्याः समं निम्नत्व वर्जितम् ।।

ऐश्वर्यं चाप्यवैधव्यं प्रियप्रेम च सा लभेत् ।। ५५ ।।

विस्तीर्णहृदया योषा पुंश्चली निर्दया तथा ।।

उद्भिन्नरोमहृदया पतिं हंति विनिश्चितम् ।। ५६ ।।

अष्टादशांगुलततमुरः पीवरमुन्नतम् ।।

सुखाय दुःखाय भवेद्रोमशं विषमं पृथु ।। ५७ ।।

घनौ वृत्तौ दृढौ पीनौ समौ शस्तौ पयोधरौ ।।

स्थूलाग्रौ विरलौ शुष्कौ वामोरूणां न शर्मदौ ।। ५८ ।।

दक्षिणोन्नत वक्षोजा पुत्रिणी त्वग्रणीर्मता ।।

वामोन्नतकुचा सूते कन्यां सौभाग्यसुंदरीम् ।। ५९ ।।

अरघट्टघटीतुल्यौ कुचौ दौःशील्यसूचकौ ।।

पीवरास्यौ सांतरालौ पृथूपांतौ न शोभनौ ।। 4.1.37.६० ।।

मूले स्थूलौ क्रमकृशावग्रे तीक्ष्णौ पयोधरौ ।।

सुखदौ पूर्वकाले तु पश्चादत्यंत दुःखदौ ।।६१।।

सुदृढं चूचुकयुगं शस्तं श्यामं सुवर्तुलम् ।।

अंतर्मग्नं च दीर्घं च कृशं क्लेशाय जायते ।। ६२ ।।

पीवराभ्यां च जत्रुभ्यां धनधान्यनिधिर्वधूः ।।

श्लथास्थिभ्यां च निम्नाभ्यां विषमाभ्यां दरिद्रिणी ।। ६३ ।।

अबद्धावनतौ स्कंधावदीर्घावकृशौ शुभौ ।।

वक्रौ स्थूलौ च रोमाढ्यौ प्रेष्य वैधव्यसूचकौ ।। ६४ ।।

निगूढसंधी स्रस्ताग्रौ शुभावंसौ सुसंहतौ ।।

वैधव्यदौ समुच्चाग्रौ निर्मांसावतिदुःखदौ ।। ६५ ।।

कक्षेसु सूक्ष्मरोमे तु तुंगे स्निग्धे च मांसले ।।

शस्तेन शस्ते गंभीरे शिराले स्वेदमेदुरे ।। ६६ ।।

स्यातां दोषौ सुनिर्दोषौ गूढास्थि ग्रंथिकोमलौ ।।

विशिरौ च विरोमाणौ सरलौ हरिणीदृशाम् ।। ६७ ।।

वैधव्यं स्थूलरोमाणौ ह्रस्वौ दौर्भाग्यसूचकौ ।।

परिक्लेशाय नारीणां परिदृश्यशिरौ भुजौ ।। ६८ ।।

अंभोज मुकुलाकारमंगुष्ठांगुलिसंमुखम् ।।

हस्तद्वयं मृगाक्षीणां बहुभोगाय जायते ।। ६९ ।।

मृदुमध्योन्नतं रक्तं तलं पाण्योररंध्रकम् ।।

प्रशस्तं शस्तरेखाढ्यमल्परेखं शुभश्रियम् ।। 4.1.37.७० ।।

विधवा बहुरेखेण विरेखेण दरिद्रिणी ।।

भिक्षुकी सुशिराढ्येन नारी करतलेन वै ।। ७१ ।।

विरोम विशिरं शस्तं पाणिपृष्ठंसमुन्नतम् ।।

वैधव्यहेतुरोमाढ्यं निर्मांसं स्नायुमत्त्यजेत् ।। ७२ ।।

रक्ता व्यक्ता गभीरा च स्निग्धा पूर्णा च वर्तुला ।।

कररेखांगना याः स्याच्छुभा भाग्यानुसारतः ।। ७३ ।।

मत्स्येन सुभगा नारी स्वस्तिकेन वसुप्रदा।।

पद्मेन भूपतेः पत्नी जनयेद्भूपतिं सुतम् ।। ७४ ।।

चक्रवर्तिस्त्रियाः पाणौ नंद्यावर्तः प्रदक्षिणः ।।

शंखातपत्रक मठा नृपमातृत्वसूचकाः ।। ७५ ।।

तुलामानाकृतीरेखे वणिक्पत्नीत्वहेतुके ।।

गजवाजिवृषाकाराः करे वामे मृगीदृशाम् ।। ७६ ।।

रेखा प्रासादवज्राभा ब्रूयुस्तीर्थकरं सुतम् ।।

कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा ।। ७७ ।।

चामरांकुशकोदंडै राजपत्नी भवेद्ध्रुवम् ।।

अंगुष्ठमूलान्निर्गत्य रेखा याति कनिष्ठिकाम्।। ७८ ।।

यदि सा पतिहंत्री स्याद्दूरतस्तां त्यजेत्सुधीः ।।

त्रिशूलासिगदाशक्ति दुंदुभ्याकृति रेखया ।।

नितंबिनी कीर्तिमती त्यागेन पृथिवीतले ।। ७९ ।।

कंक जंबूक मंडूक वृक वृश्चिक भोगिनः ।।

रासभोष्ट्र बिडालाः स्युः करस्था दुःखदाः स्त्रियाः ।। 4.1.37.८० ।।

शुभदः सरलोंगुष्ठो वृत्तो वृत्तनखो मृदुः ।। ८१ ।।

अंगुल्यश्च सुपर्वाणो दीर्घावृत्ताः क्रमात्कृशाः ।।

चिपिटाःस्थपुटा रूक्षाः पृष्ठरोमयुजोऽशुभाः।।८२ ।।

अतिह्रस्वाः कृशा वक्रा विरला रोगहेतुकाः ।।

दुःखायांगुलयः स्त्रीणां बहुपर्वसमन्विताः ।। ८३ ।।

अरुणाः सशिखास्तुंगाः करजाः सुदृशांशुभाः ।।

निम्ना विवर्णाः शुक्त्याभाः पीता दारिद्र्यदायकाः ।। ८४ ।।

नखेषु बिंदवः श्वेताः प्रायः स्युः स्वैरिणी स्त्रियाः ।।

पुरुषा अपि जायंते दुःखिनः पुष्पितैर्नखैः ।। ८५ ।।

अंतर्निमग्नवंशास्थिः पृष्ठिः स्यान्मांसला शुभा ।।

पृष्ठेन रोमयुक्तेन वैधव्यं लभते ध्रुवम् ।। ८६ ।।

भुग्नेन विनतेनापि सशिरेणापि दुःखिता ।।

ऋज्वी कृकाटिका श्रेष्ठा समांसा च समुन्नता।। ८७ ।।

शुष्का शिराला रोमाढ्या विशाला कुटिलाशुभा।।

मांसलो वर्तुलः कंठः प्रशस्तश्चतुरंगुलः ।। ८८ ।।

शस्ता ग्रीवा त्रिरेखांका त्वव्यक्तास्थिः सुसंहता ।।

निर्मांसा चिपिटा दीर्घास्थपुटा न शुभप्रदा ।। ८९ ।।

स्थूलग्रीवा च विधवा वक्रग्रीवा च किंकरी ।।

वंध्या द्विचिपिटग्रीवा ह्रस्वग्रीवा च निःसुता ।।4.1.37.९० ।।

चिबुकंद्वयंगुलं शस्तं वृत्तं पीनं सुकोमलम् ।।

स्थूलं द्विधा संविभक्तमायतं रोमशं त्यजेत् ।। ९१ ।।

हनुश्चिबुकसंलग्ना निर्लोमा सुघनाशुभा ।।

वक्रा स्थूला कृशा ह्रस्वा रोमशा न शुभप्रदा ।। ९२ ।।

शस्तौ कपोलौ वामाक्ष्याः पीनौ वृत्तौ समुन्नतौ ।।

रोमशौ परुषौ निम्नौ निर्मांसौ परिवर्जयेत् ।। ९३ ।।

समं समांसं सुस्निग्धं स्वामोदं वर्तुलं मुखम् ।।

जनेतृवदनच्छायं धन्यानामिह जायते ।। ९४ ।।

पाटलो वर्तुलः स्निग्धो लेखाभूषितमध्यभूः ।।

सीमंतिनी नामधरो धराजानि प्रियो भवेत् ।। ९५ ।।

कृशः प्रलंबः स्फुटितो रूक्षो दौर्भाग्यसूचकः ।।

श्यावः स्थूलोऽधरोष्ठः स्याद्वैधव्य कलहप्रदः ।। ९६ ।।

मसृणो मत्तकाशिन्याश्चोत्तरोष्ठः सुभोगदः ।।

किंचिन्मध्योन्नतोऽरोमा विपरीतो विरुद्धकृत् ।। ९७ ।।

गोक्षीरसन्निभाः स्निग्धा द्वात्रिंशद्दशनाः शुभाः ।।

अधस्तादुपरिष्टाच्च समाः स्तोकसमुन्नताः ।। ९८ ।।

पीताः श्यावाश्च दशनाः स्थूलादीर्घाद्विपंक्तयः ।।

शुक्त्याकाराश्च विरला दुःखदौर्भाग्यकारणम् ।। ९९ ।।

अधस्तादधिकैर्दंतैर्मातरं भक्षयेत्स्फुटम् ।।

पतिहीना च विकटैः कुलटा विरलैर्भवेत् ।। 4.1.37.१०० ।।

जिह्वेष्टमिष्टभोक्त्री स्याच्छोणामृद्वी तथासिता ।।

दुःखाय मध्यसंकीर्णा पुरोभागसविस्तरा ।। १ ।।

सितया तोयमरणं श्यामया कलहप्रिया ।

दरिद्रिणी मांसलया लंबयाऽभक्ष्यभक्षिणी ।। २ ।।

विशालया रसनया प्रमदातिप्रमादभाक् ।।

स्निग्धं कोकनदाभासं प्रशस्तं तालुकोमलम् ।। ३ ।।

सिते तालुनि वैधव्यं पीते प्रव्रजिता भवेत्।।

कृष्णेऽपत्यवियोगार्ता रूक्षे भूरिकुटुंबिनी ।। ४ ।।

कंठे स्थूला सुवृत्ता च क्रमतीक्ष्णा सुलोहिता ।।

अप्रलंबा शुभा घंटी स्थूला कृष्णा च दुःखदा ।। ५ ।।

अलक्षितद्विजं किंचित्किंचित्फुल्ल कपोलकम् ।।

स्मितं प्रशस्तं सुदृशामनिमीलितलोचनम् ।। ६ ।।

समवृत्तपुटानासा लघुच्छिद्रा शुभावहा ।।

स्थूलाग्रा मध्यनम्रा च न प्रशस्ता समुन्नता ।। ७ ।।

आकुंचितारुणाग्रा च वैधव्यक्लेशदायिनी ।।

परप्रेष्या च चिपिटा ह्रस्वा दीर्घा कलिप्रिया ।। ८ ।।

दीर्घायुः कृत्क्षुतं दीर्घं युगपद्द्वित्रिपिंडितम् ।।

ललना लोचने शस्ते रक्तांते कृष्णतारके ।। ९।।

गोक्षीरवर्णविशदे सुस्निग्धे कृष्णपक्ष्मणी ।।

उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् ।। 4.1.37.११० ।।

मेषाक्षीमहिषाक्षी च केकराक्षी न शोभना ।।

कामगृहीला नितरां गोपिंगाक्षी सुदुर्वृता ।। ११ ।।

पारावताक्षी दुःशीला रक्ताक्षी भर्तृघातिनी ।।

कोटरा नयना दुष्टा गजनेत्रा न शोभना ।। १२ ।।

पुंश्चली वामकाणाक्षी वंध्या दक्षिणकाणिका ।।

मधुपिंगाक्षी रमणी धनधान्यसमृद्धिभाक् ।। १३ ।।

पक्ष्मभिः सुघनैः स्निग्धैः कृष्णैः सूक्ष्मैः सुभाग्यभाक् ।।

कपिलैर्विरलैः स्थूलैर्निंद्या भवति भामिनी ।। १४ ।।

भ्रुवौ सुवर्तुले तन्व्याः स्निग्धे कृष्णे असंहते ।।

प्रशस्ते मृदुरोमाणौ सुभ्रुवः कार्मुकाकृती ।। १५ ।।

खररोमा च पृथुला विकीर्णा सरला स्त्रियाः ।।

न भ्रूः प्रशस्ता मिलिता दीर्घरोमा च पिंगला ।। १६ ।।

लंबौ कर्णौ शुभावर्तौ सुखदौ च शुभप्रदौ ।।

शष्कुलीरहितौ निंद्यौ शिरालौ कुटिलौ कृशौ ।। १७ ।।

भालः शिराविरहितो निर्लोमार्धेंदु सन्निभः ।।

अनिम्नस्त्र्यंगुलो नार्याः सौभाग्यारोग्यकारणम् ।। १८ ।।

व्यक्त स्वस्तिकरेखं च ललाटं राज्यसंपदे ।।

प्रलंबं मस्तकं यस्या देवरं हन्ति सा ध्रुवम् ।। १९ ।।

रोमशेन शिरालेन प्रांशुना रोगिणी मता ।। 4.1.37.१२० ।।

सीमन्तः सरलः शस्तो मौलिः शस्तः समुन्नतः ।।

गजकुंभनिभावृत्तैः सौभाग्यैश्वर्यसूचकैः ।। २१ ।।

स्थूलमूर्धा च विधवा दीर्घशीर्षा च बंधकी ।।

विशालेनापि शिरसा भवेद्दौर्भाग्यभाजनम् ।। २२ ।।

केशा अलिकुलच्छायाः सूक्ष्माः स्निग्धाः सुकोमलाः ।।

किंचिदाकुंचिताग्राश्च कुटिलाश्चातिशोभनाः ।। २३ ।।

परुषाः स्फुटिताग्राश्च विरलाश्च शिरोरुहाः ।।

पिंगला लघवो रूक्षा दुःखदारिद्र्यबंधदाः ।। २४ ।।

भ्रुवोरन्तर्ललाटे वा मशको राज्यसूचकः ।।

वामे कपोले मशकः शोणो मिष्टान्नदः स्त्रियाः ।। २५ ।।

तिलकं लांछनं वापि हृदि सौभाग्यकारणम् ।।

यस्या दक्षिणवक्षोजे शोणे तिलकलांछने ।। २६ ।।

कन्या चतुष्टयं सूते सूते सा च सुतत्रयम् ।।

तिलकं लांछनं शोणं यस्या वामे कुचे भवेत् ।। २७ ।।

एकं पुत्रं प्रसूयादौ ततः सा विधवा भवेत् ।।

गुह्यस्य दक्षिणे भागे तिलकं यदि योषितः ।। २८ ।।

तदा क्षितिपतेः पत्नी सूते वा क्षितिपं सुतम् ।।

नासाग्रे मशकः शोणो महिष्या एव जायते।। २९ ।।

कृष्णः स एव भर्तृघ्न्याः पुंश्चल्याश्च प्रकीर्तितः ।।

नाभेरधस्तात्तिलकं मशको लांछनं शुभम् ।। 4.1.37.१३० ।।

मशकस्तिलकं चिह्नं गुल्फदेशे दरिद्रकृत ।।

करे कर्णे कपोले वा कण्ठे वामे भवेद्यदि ।। ३१ ।।

एषां त्रयाणामेकं तु प्राग्गर्भे पुत्रदं भवेत् ।।

भालगेन त्रिशूलेन निर्मितेन स्वयंभुवा ।। ३२ ।।

नितंबिनी सहस्राणां स्वामित्वं योषिदाप्नुयात् ।।

सुप्ता परस्परं यातु दंतान्किटिकिटायते ।। ३३ ।।

सुलक्ष्मापि न सा शस्ता या किंचित्प्रलपेत्तथा ।।

पाणौ प्रदक्षिणावर्तो धर्म्यो वामो न शोभनः ।। ३४ ।।

नाभौ श्रुतावुरसि वा दक्षिणावर्त ईडितः ।।

सुखाय दक्षिणावर्तः पृष्ठवंशस्य दक्षिणे ।। ३५ ।।

अन्तःपृष्ठं नाभिसमो बह्वायुः पुत्रवर्धनः ।।

राजपत्न्याः प्रदृश्येत भगमौलौ प्रदक्षिणः ।। ३६ ।।

सचेच्छकटभंगःस्याद्बह्वपत्यसुखप्रदः ।।

कटिगो गुह्यवेधेन पत्यपत्यनिपातनः ।। ३७ ।।

स्यातामुदरवेधेन पृष्ठावर्तौ न शोभनौ ।।

एकेन हंति भर्तारं भवेदन्येन पुं श्चली ।। ३८ ।।

कण्ठगो दक्षिणावर्तो दुःखवैधव्यहेतुकः ।।

सीमन्तेथ ललाटे वा त्याज्यो दूरात्प्रयत्नतः ।। ३९ ।।

सा पतिं हंति वर्षेण यस्या मध्ये कृकाटिकम्।।

प्रदक्षिणो वा वामो वा रोम्णामावर्त्तकः स्त्रियाः ।। 4.1.37.१४० ।।

एको वा मूर्धनि द्वौ वा वामे वामगती यदि ।।

आदशाहं पतिघ्नौ तौ त्याज्यौ दूरात्सुबुद्धिना ।। ४१ ।।

कट्यावर्ता च कुलटा नाभ्यावर्ता पतिव्रता ।।

पृष्ठावर्ता च भर्तृघ्नी कुलटा वाथ जायते ।। ४२ ।।

स्कंद उवाच ।।

सुलक्षणापि दुःशीला कुलक्षण शिरोमणिः ।।

अलक्षणापि सा साध्वी सर्वलक्षणभूस्तु सा।। ४३ ।।

सुलक्षणा सुचारित्रा स्वाधीना पतिदेवता ।।

विश्वेशानुग्रहादेव गृहे योषिदवाप्यते ।। ४४ ।।

अलकृताः स्ववासिन्यो याभिः प्राक्तनजन्मनि ।।

नानाविधैरलंकारैस्ताः सुरूपा भवंति हि ।। ४५ ।।

सुतीर्थेषु वपुर्याभिः क्षयितं वा विहायितम् ।।

ता लावण्यतरंगिण्यो भवंतीह सुलक्षणाः ।। ४६ ।।

अर्चिता जगतां माता याभिर्मृडवधूरिव ।।

ता भवंति सुचारित्रा योषाः स्वाधीनभ र्तृकाः ।। ४७।।

स्वाधीन पतिकानां च सुशीलानां मृगीदृशाम् ।।

स्वर्गापवर्गावत्रैव सुलक्षण फलं हि तत् ।। ४८ ।।

सुलक्षणैः सुचरितैरपि मंदायुषं पतिम् ।।

दीर्घायुषं प्रकुर्वंति प्रमदाः प्रमदास्पदम् ।। ४९ ।।

अतः सुलक्षणा योषा परिणेया विचक्षणैः ।।

लक्षणानि परीक्ष्यादौ हित्वा दुर्लक्षणान्यपि ।। 4.1.37.१५० ।।

लक्षणानि मयोक्तानि सुखाय गृहमेधिनाम्।।

विवाहानपि वक्ष्यामि तन्निबोध घटोद्भव ।। १५१ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे स्त्रीलक्षणवर्णनंनाम सप्तत्रिंशोऽध्यायः ।। ३७ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 38

स्कंद उवाच ।।

विवाहा ब्राह्म दैवार्षाः प्राजापत्यासुरौ तथा ।।

गांधर्वो राक्षसश्चापि पैशाचोऽष्टम उच्यते ।। १ ।।

स ब्राह्मो वरमाहूय यत्र कन्या स्वलंकृता ।।

दीयते तत्सुतः पूयात्पुरुषानेकविंशतिम् ।। २ ।।

यज्ञस्थायर्त्विजे दैवस्तज्जःपाति चतुर्दश ।।

वरादादाय गोद्वंद्वमार्षस्तज्जः पुनाति षट् ।। ३ ।।

सहोभौ चरतां धर्ममित्युक्त्वा दीयतेर्थिने ।।

यत्र कन्या प्राजापत्यस्तज्जो वंशान्पुनाति षट् ।। ४ ।।

चत्वार एते विप्राणां धर्म्याः पाणिग्रहाः स्मृताः ।।

आसुरः क्रयणाद्द्रव्यैर्गांधर्वोन्योन्य मैत्रतः ।। ५ ।।

प्रसह्यकन्याहरणाद्राक्षसो निंदितः सताम् ।।

छलेन कन्याहरणात्पैशाचो गर्हितोऽष्टमः ।। ६ ।।

प्रायः क्षत्रविशोरुक्ता गांधर्वासुरराक्षसाः ।।

अष्टमस्त्वेष पापिष्ठः पापिष्ठानां च संभवेत् ।। ७ ।।

सवर्णया करो ग्राह्यो धार्यः क्षत्रियया शरः ।।

प्रतोदो वैश्यया धार्यो वासोंतः पज्जया तथा ।। ८ ।।

असवर्णस्त्वेष विधिः स्मृतो दृष्टश्च वेदने ।।

सवर्णाभिस्तु सर्वाभिः पाणिर्ग्राह्यस्त्वयं विधिः ।। ९ ।।

धर्म्यैर्विवाहैर्जायंते धर्म्या एव शतायुषः ।।

अधर्म्यैर्धर्मरहिता मंदभाग्यधनायुषः ।। 4.1.38.१० ।।

ऋतुकालाभिगमनं धर्मोयं गृहिणः परः ।।

स्त्रीणां वरमनुस्मृत्य यथाकाम्यथवा भवेत् ।। ११ ।।

दिवाभिगमनं पुंसामनायुष्यं परं मतम् ।।

श्राद्धाहः सर्वपर्वाणि यत्नात्त्याज्यानि धीमता ।। १२ ।।

तत्र गच्छन्स्त्रियं मोहाद्धर्मात्प्रच्यवते परात् ।। १३ ।।

ऋतुकालाभिगामी यः स्वदारनिरतश्च यः ।।

स सदा ब्रह्मचारी च विज्ञेयः सद्गृहाश्रमी ।। १४।।

ऋतुः षोडशयामिन्यश्चतस्रस्ता सुगर्हिताः ।।

पुत्रास्तास्वपि या युग्मा अयुग्माः कन्यका प्रजाः ।। १५ ।।

त्यक्त्वा चंद्रमसं दुःस्थं मघां पौष्णं विहाय च ।।

शुचिः सन्निर्विशेत्पत्नीं पुन्नामर्क्षे विशेषतः ।।

शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधकम् ।। १६ ।।

आर्षे विवाहे गोद्वंद्वं यदुक्तं तन्न शस्यते ।।

शुल्कमण्वपि कन्यायाः कन्या विक्रयपापकृत् ।। १७ ।।

अपत्यविक्रयी कल्पं वसेद्विट्कृमिभोजने ।।

अतो नाण्वपि कन्याया उपजीवेत्पिता धनम् ।। १८ ।।

स्त्रीधनान्युपजीवंति ये मोहादिह बांधवाः ।।

न केवलं निरयगास्तेषामपि हि पूर्वजाः ।। १९ ।।

पत्या तुष्यति यत्र स्त्री तुष्येद्यत्र स्त्रिया पतिः ।।

तत्र तुष्टा महालक्ष्मीर्निवसेद्दानवाऽरिणा ।। 4.1.38.२० ।।

वाणिज्यं नृपतेः सेवा वेदानध्यापनं तथा ।।

कुविवाहः क्रियालोपः कुले पतनहेतवः ।। २१ ।।

कुर्याद्वैवाहिके वह्नौ गृह्यकर्मान्वहं गृही ।।

पंचयज्ञक्रियां चापि पक्तिं दैनंदिनीमपि ।। २२ ।।

गृहस्थाश्रमिणः पंच सूना कर्म दिने दिने ।।

कंडनी पेषणी चुल्ली ह्युदकुंभस्तु मार्जनी ।। २३ ।।

तासां च पंचसूनानां निराकरणहेतवः ।।

क्रतवः पंच निर्दिष्टा गृहि श्रेयोभिवर्धनाः ।। २४ ।।

पाठनं ब्रह्मयज्ञः स्यात्तर्पणं च पितृ क्रतुः ।।

होमो दैवो बलिर्भौतोऽतिथ्यर्चा नृक्रतुः क्रमात् ।। २५ ।।

पितृप्रीतिं प्रकुर्वाणः कुर्वीत श्राद्धमन्वहम् ।।

अन्नोदकपयोमूलैः फलैर्वापि गृहाश्रमी।।२६।।

गोदानेन च यत्पुण्यं पात्राय विधिपूर्वकम् ।।

सत्कृत्य भिक्षवे भिक्षां दत्त्वा तत्फलमाप्नुयात् ।। २७ ।।

तपोविद्यासमिद्दीप्ते हुतं विप्रास्य पावके ।।

तारयेद्विघ्नसंघेभ्यः पापाब्धेरपि दुस्तरात् ।। २८ ।।

अनर्चितोऽतिथिर्गेहाद्भग्नाशो यस्य गच्छति ।।

आजन्मसंचितात्पुण्यात्क्षणात्स हि बहिर्भवेत् ।। २९ ।।

सांत्वपूर्वाणि वाक्यानि शय्यार्थे भूस्तृणोदके ।।

एतान्यपि प्रदेयानि सदाभ्यागत तुष्टये ।। 4.1.38.३० ।।

गृहस्थः परपाकादी प्रेत्य तत्पशुतां व्रजेत् ।।

श्रेयः परान्नपुष्टस्य गृह्णीयादन्नदो यतः ।। ३१ ।।

आदित्योढोऽतिथिः सायं सत्कर्तव्यः प्रयत्नतः ।।

असत्कृतोन्यतो गच्छन्दुष्कृतं भूरि यच्छति ।। ३२ ।।

भुंजानोऽतिथिशेषान्नमिहायुर्धनभाग्भवेत् ।।

प्रणोद्यातिथिमन्नाशी किल्बिषी च गृहाश्रमी ।। ३३ ।।

वैश्वदेवांत संप्राप्तः सूर्योढो वातिथिः स्मृतः।।

न पूर्वकाल आयातो न च दृष्टचरः क्वचित् ।। ३४ ।।

बलिपात्रकरे विप्रे यद्यन्योतिथिरागतः ।।

अदत्त्वा तं बलिं तस्मै यथाशक्त्यान्नमर्पयेत् ।। ३५ ।।

कुमाराश्च स्ववासिन्यो गर्भिण्योऽतिरुजान्विताः ।।

अतिथेरादितोप्येते भोज्या नात्र विचारणा ।। ३६ ।।

पितृदेवमनुष्येभ्यो दत्त्वाश्नात्यमृतं गृही ।।

स्वार्थं पचन्नघं भुंक्ते केवलं स्वोदरंभरिः ।। ३७ ।।

माध्याह्निकं वैश्वदेवं गृहस्थः स्वयमाचरेत् ।।

पत्नी सायं बलिं दद्यात्सिद्धान्नैर्मंत्रवर्जितम् ।। ३८ ।।

एतत्सायंतनं नाम वैश्वदेवं गृहाश्रमे ।।

सायंप्रातर्भवेदेव वैश्वदेवं प्रयत्नतः ।। ३९ ।।

वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः ।।

सर्वे ते वृषला ज्ञेयाः प्राप्तवेदा अपि द्विजाः ।। 4.1.38.४० ।।

अकृत्वा वैश्वदेवं तु भुंजते ये द्विजाधमाः ।।

इह लोकेन्नहीनाः स्युः काकयोनिं व्रजंत्यथ ।। ४१ ।।

वेदोदितं स्वकं कर्म नित्यं कुर्यादतंद्रितः ।।

तद्धि कुर्वन्यथाशक्ति प्राप्नुयात्सद्गतिं पराम् ।। ४२ ।।

षष्ठ्यष्टम्योर्वसेत्पापं तैले मांसे सदैव हि ।।

पंचदश्यां चतुर्दश्यां तथैव च भगेक्षुरे ।। ४३ ।।

उदयं तं न चेक्षेत नास्तं यंतं न मध्यगम् ।।

न राहुणोपसृष्टं च नांबुसंस्थं दिवाकरम्।। ४४ ।।

न वीक्षेतात्ममनोरूपमाशुधावेन्न वर्षति ।।

नोल्लंघयेद्वत्सतंत्रीं न नग्नो जलमाविशेत् ।। ४५ ।।

देवतायतनं विप्रं धेनुं मधुमृदं घृतम् ।।

जातिवृद्धं वयोवृद्धं विद्यावृद्धं तपस्विनम् ।। ४६ ।।

अश्वत्थं चैत्यवृक्षं च गुरुं जलभृतं घटम् ।।

सिद्धान्नं दधिसिद्धार्थं गच्छन्कुर्यात्प्रदक्षिणम् ।। ४७ ।।

रजस्वलां न सेवेत नाश्नीयात्सह भार्यया।।

एकवासा न भुंजीत न भुंजीतोत्कटासने।। ४८ ।।

नाश्नंतीं स्त्रीं समीक्षेत तेजस्कामो द्विजोत्तमः ।।

असंतर्प्य पितॄन्देवान्नाद्यादन्नं नवं क्वचित् ।। ४९ ।।

पक्वान्नं चापि नो मांसं दीर्घकालं जिजीविषुः ।।

न मूत्रं गोव्रजे कुर्यान्न वल्मीके न भस्मनि ।। 4.1.38.५० ।।

न गर्तेषु ससत्वेषु न तिष्ठन्न व्रजन्नपि ।।

गोविप्रसूर्यवाय्वग्नि चंद्रर्क्षांबु गुरूनपि ।। ५१ ।।

अभिपश्यन्न कुर्वीत मलमूत्रविसर्जनम्।।

तिरस्कृत्यावनिं लोष्टकाष्ठपर्णतृणादिभिः ।। ५२ ।।

प्रावृत्य वाससा मौलिं मौनी विण्मूत्रमुत्सृजेत् ।।

यथासुखमुखो रात्रौ दिनेच्छायांधकारयोः ।। ५३ ।।

भीतिषु प्राणबाधायां कुर्यान्मलविसर्जनम् ।।

मुखेनोपधमेन्नाग्निं नग्नां नेक्षेत योषितम् ।। ५४ ।।

नांघ्री प्रतापयेदग्नौ न वस्त्वशुचि निक्षिपेत्।।

प्राणिहिंसां न कुर्वीत नाश्नीयात्सँध्ययोर्द्वयोः।।५५।।

न संविशेत संध्यायां प्रत्यक्सौम्यशिरा अपि।।

विण्मूत्रष्ठीवनं नाप्सु कुर्याद्दीर्घजिजीविषुः।। ५६।।

नाचक्षीत धयंतीं गां नेंद्रचापं प्रदर्शयेत्।।

नैकः सुप्यात्क्वचिच्छून्ये न शयानं प्रबोधयेत्।। ५७।।

पंथानं नैकलो यायान्न वार्यंजलिना पिबेत् ।।

न दिवोद्भूत सारं च भक्षयेद्दधिनो निशि ।। ५८ ।।

स्त्रीधर्मिण्या नाभिवदेन्नाद्यादातृप्ति रात्रिषु ।।

तौर्यत्रिक प्रियो न स्यात्कांस्ये पादौ न धावयेत् ।। ५९ ।।

श्राद्धं कृत्वा पर श्राद्धे योऽश्नीयाज्ज्ञानवर्जितः ।।

दातुः श्राद्धफलं नास्ति भोक्ता किल्बिषभुग्भवेत् ।। 4.1.38.६० ।।

न धारयेदन्यभुक्तं वासश्चो पानहावपि ।।

न भिन्न भाजनेश्नीयान्नासीताग्न्यादि दूषिते।। ६१।।

आरोहणं गवां पृष्ठे प्रेतधूमं सरित्तरम्।।

बालातपं दिवास्वापं द्यजेद्दीर्घं जिजीविषुः।। ६२।।

स्नात्वा न मार्जयेद्गात्रं विसृजेन्न शिखां पथि।।

हस्तौ शिरो न धुनुयान्नाकर्षेदासनं पदा।। ६३।।

नोत्पाटयेल्लोमनखं दशनेन कदाचन।।

करजैः करजच्छेदं तृणच्छेदं विवर्जयेत्।।६४।।

शुभायन यदायत्यां त्यजेत्तत्कर्म यत्नतः।।

अद्वारेण न गंतव्यं स्ववेश्मपरवेश्मनोः।। ६५।।

क्रीडेन्नाक्षैः सहासीत न धर्मघ्नैर्न रोगिभिः ।।

न शयीत क्वचिन्नग्नः पाणौ भुंजीत नैव च ।। ६६ ।।

आर्द्रपादकरास्योश्नन्दीर्घकालं च जीवति ।।

संविशेन्नार्द्रचरणो नोच्छिष्टः क्वचिदाव्रजेत् ।। ६७ ।।

शयनस्थो न चाश्नीयान्नपिबेन्न जपेद्द्विजः ।।

सोपानत्कश्चनाचामेन्न तिष्ठन्धारया पिबेत् ।। ६८ ।।

सर्वं तिलमयं नाद्यात्सायं शर्माभिलाषुकः।।

न निरीक्षेत विण्मूत्रे नोच्छिष्टः संस्पृशेच्छिरः ।। ६९ ।।

नाधितिष्ठेत्तुषांगार भस्मकेशकपालिकाः ।।

पतितैः सह संवासः पतनायैव जायते ।। 4.1.38.७० ।।

श्रावयेद्वैदिकं मंत्रं न शूद्राय कदाचन ।।

ब्राह्मण्याद्धीयते विप्रः शूद्रो धर्माच्च हीयते ।। ७१ ।।

धर्मोपदेशः शूद्राणां स्वश्रेयः प्रतिघातयेत् ।।

द्विजशुश्रूषणं धर्मः शूद्राणां हि परो मतः ।। ७२ ।।

कंडूयनं हि शिरसः पाणिभ्यां न शुभं मतम् ।।

आताडनं कराभ्यां च क्रोशनं केशलुंचनम् ।।७३ ।।

अशास्त्रवर्तिनो भूपाल्लुब्धात्कृत्वा प्रतिग्रहम् ।।

ब्राह्मणः सान्वयो याति नरकानेकविंशतिम् ।। ७४ ।।

अकालविद्युत्स्तनिते वर्षर्तौ पांसुवर्षणे ।।

महावातध्वनौ रात्रावनध्यायाः प्रकीर्तिताः ।। ७५ ।।

उल्कापाते च भूकंपे दिग्दाहे मध्यरात्रिषु ।।

संध्ययोर्वृषलोपांते राज्ञोराहोश्च सूतके ।। ७६ ।।

दर्शाष्टकासु भूतायां श्राद्धिकं प्रतिगृह्य च ।।

प्रतिपद्यपि पूर्णायां गजोष्ट्राभ्यां कृतांतरे ।। ७७ ।।

खरोष्ट्रक्रोष्ट्र विरुते समवाये रुदत्यपि ।।

उपाकर्मणि चोत्सर्गे नाविमार्गे तरौ जले ।। ७८ ।।

आरण्यकमधीत्यापि बाणसाम्नोरपि ध्वनौ ।।

अनध्यायेषु चैतेषु नाधीयीत द्विजः क्वचित् ।। ७९ ।।

कृतांतरायो न पठेद्भेकाखु श्वाहि बभ्रुभिः ।।

भूताष्टम्योः पंचदश्योर्ब्रह्मचारी सदा भवेत् ।। 4.1.38.८० ।।

अनायुष्यकरं चैव परदारोपसर्पणम् ।।

तस्मात्तद्दूरतस्त्याज्यं वैरिणां चोपसेवनम् ।। ८१ ।।

पूर्वर्द्धिभिः परित्यक्तमात्मानं नावमानयेत् ।।

सदोद्यमवतां यस्माच्छ्रियो विद्या न दुर्लभाः ।। ८२ ।।

सत्यं ब्रूयात्प्रियं ब्रूयान्नब्रूयात्सत्यमप्रियम् ।।

प्रियं च नानृतं ब्रूयादेष धर्मो घटोद्भव ।। ८३ ।।

भद्रमेव वदेन्नित्यं भद्रमेव विचिंतयेत् ।।

भद्रैरेवेह संसर्गो नाभद्रैश्च कदाचन ।। ८४ ।।

रूपवित्तकुलैर्हीनान्सुधीर्नाधिक्षिपेन्नरान् ।।

पुप्पवंतौ न चेक्षेत त्वशुचिर्ज्योतिषां गणम् ।। ८५ ।।

वाचोवेगं मनोवेगं जिह्वावेगं च वर्जयेत् ।।

उत्कोच द्यूत दौत्यार्त द्रव्यं दूरात्परित्यजेत् ।।८६।।

गोब्राह्मणाग्नीनुच्छिष्ट पाणिना नैव संस्पृशेत्।।

न स्पृशेदनिमित्ते नखानि स्वानि त्वनातुरः ।। ८७ ।।

गुह्यजान्यपि लोमानि तत्स्पर्शादशुचिर्भवेत् ।।

पादधौतोदकं मूत्रमुच्छिष्टान्नोदकानि च।। ८८।।

निष्ठीवनं च श्लेष्माणं गृहाद्दूरं विनिक्षिपेत् ।।

अहर्निशं श्रुतेर्जाप्याच्छौचाचारनिषेवणात् ।।

अद्रोहवत्या बुद्ध्या च पूर्वं जन्म स्मरेद्द्विजः ।। ८९ ।।

वृद्धान्प्रयत्नाद्वंदेत दद्यात्तेषां स्वमासनम् ।।

विनम्रधमनिस्तस्मादनुयायात्ततश्च तान् ।।4.1.38.९० ।।

श्रुति भूदेव देवानां नृप साधु तपस्विनाम्।।

पतिव्रतानां नारीणां निंदां कुर्यान्न कर्हिचित्।। ९१ ।।

न मनुष्यस्तुतिं कुर्यान्नात्मानमपमानयेत् ।।

अभ्युद्यतं न प्रणुदेत्परमर्माणि नोच्चरेत् ।। ९२।।

अधर्मादेधते पूर्वं विद्वेष्टॄनपि संजयेत्।।

सर्वतोभद्रमाप्यापि ततो नश्येच्च सान्वयः ।। ९३ ।।

उद्धृत्य पंच मृत्पिंडान्स्नायात्परजलाशये ।।

अनुद्धृत्य च तत्कर्तुरेनसः स्यात्तुरीयभाक् ।। ९४ ।।

श्रद्धया पात्रमासाद्य यत्किंचिद्दीयते वसु ।।

देशे काले च विधिना तदानंत्याय कल्पते ।। ९५ ।।

भूप्रदो मंडलाधीशः सर्वत्रसुखिनोन्नदाः ।।

तोयदाता सदा तृप्तो रूपवान्रूप्यदो भवेत् ।। ९६ ।।

प्रदीपदो निर्मलाक्षो गोदाताऽर्यमलोकभाक् ।।

स्वर्णदाता च दीर्घायुस्तिलदः स्यात्तु सुप्रजाः ।। ९७ ।।

वेश्मदो ऽत्युच्चसौधेशो वस्त्रदश्चंद्रलो कभाक् ।।

हयप्रदो दिव्ययानो लक्ष्मीवान्वृषभप्रदः ।। ९८।।

सुभार्यः शिबिका दाता सुपर्यंक प्रदोपि च ।।

धान्यैः समृद्धिमान्नित्यमभयप्रद ईशिता ।।९९।।

ब्रह्मदो ब्रह्मलोकेज्यो ब्रह्मदः सर्वदो मतः ।।

उपायेनापि यो ब्रह्म दापयेत्सोपि तत्समः ।। 4.1.38.१०० ।।

श्रद्धया प्रतिगृह्णाति श्रद्धया यः प्रयच्छति ।।

स्वर्गिणौ तावुभौ स्यातां पततोऽश्रद्धयात्यधः ।। १ ।।

अनृतेन क्षरेद्यज्ञस्तपो विस्मयतः क्षरेत् ।।

क्षरेत्कीर्तनतोदानमायुर्विप्रापवादतः ।। २ ।।

गंधपुष्पकुशाञ्छय्यां शाकं मांसं पयो दधि ।।

मणि मत्स्य गृहं धान्यं ग्राह्यमेतदुपस्थितम् ।। ३ ।।

मधूदकं फलं मूलमेधांस्यभयदक्षिणा ।।

अभ्युद्यतानि ग्राह्याणि त्वेतान्यपिनिकृष्टतः ।। ४ ।।

दास नापित गोपाल कुलमित्रार्धसीरिणः ।।

भोज्यान्नाः शूद्रवर्गेमी तथात्मविनिवेदकः ।। ५ ।।

इत्थमानृण्यमासाद्य देवर्षिपितृजादृणात् ।।

माध्यस्थ्यमाश्रयेद्गेहे सुते विष्वग्विसृज्य च ।। ६ ।।

गेहेपि ज्ञानमभ्यस्येत्काशीं वाथ समाश्रयेत् ।।

सम्यग्ज्ञानेन वा मुक्तिः किंवा विश्वेशवेश्मनि ।। ७ ।।

सम्यग्ज्ञानं भवेत्पुंसां कुत एकेन जन्मना ।।

वाराणस्यां ध्रुवा मुक्तिः शरीरत्यागमात्रतः ।। ८ ।।

अद्य श्वो वा परश्वो वा कालाद्वाथ परःशतात् ।।

सत्वरो गत्वरो देहः काश्यां चेदमृती भवेत् ।। ९ ।।

सा च वाराणसी लभ्या सदाचारवता सदा ।।

मनसापि सदाचारमतो विद्वान्न लंघयेत् ।। 4.1.38.११० ।।

आकर्ण्येति ततोगस्त्यः पुनः प्राह षडाननम् ।।

पुनः काशीं समाचक्ष्व सदाचारेण याप्यते ।। ।। ११ ।।

कानि कानि च लिंगानि स्कंद ज्ञानप्रदानि च ।।

वाराणस्यां परिब्रूहि तानि मे परिपृच्छतः ।। १२ ।।

विना काशीं न मे प्रीतिर्विनाकाशीं न मे रतिः ।।

चित्रपुत्रकवच्चास्मि विना काशी षडानन ।। १३ ।।

न निद्रामि न जागर्मि नाश्नामि न पिबाम्यपः ।।

काशीं द्व्यक्षरपीयूषं पिबामि हि च केवलम् ।। १४ ।।

इति श्रुत्वा वचः स्कंदो मैत्रावरुणिभाषितम् ।।

अविमुक्तस्य माहात्म्यं वक्तुं समुपचक्रमे ।। ११५ ।।

इति श्री स्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां काशीखंडे पूर्वार्द्धे सदाचारवर्णनं नामाष्टत्रिंशोऽध्यायः ।। ३८ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 39

स्कंद उवाच ।।

शृण्वगस्त्य महाभाग कथां पापप्रणाशिनीम् ।।

नैःश्रेयस्याः श्रियोहेतुमविमुक्त समाश्रयाम् ।। १ ।।

परं ब्रह्म यदाम्नातं निष्प्रपंचं निरात्मकम् ।।

निर्विकल्पं निराकारमव्यक्तं स्थूलसूक्ष्मवत् ।। २ ।।

तदेतत्क्षेत्रमापूर्य स्थितं सर्वगमप्यहो ।।

किमन्यत्र न शक्तोसौ जंतून्मोचयितुं भवात् ।। ३ ।।

भवो ध्रुवं यदत्रैव मोचयेत्तं निशामय ।।

महत्या योगयुक्त्या वा महादानैरकामिकैः ।। ४ ।।

सुमहद्भिस्तपोभिर्वा शिवोन्यत्र विमोचयेत् ।।

योगयुक्तिं न महतीं न दानानि महांति च ।। ५ ।।

न तपांस्यतिदीर्घाणि काश्यां मुक्त्यै शिवोर्थयेत् ।।

वियुनक्ति न यत्काश्या उपसर्गे महत्यपि ।। ६ ।।

अयमेव महायोग उपयोगस्त्विहा परः ।।

नियमेन तु विश्वेशे पुष्पं पत्रं फलं जलम् ।। ७ ।।

यद्दत्तं सुमनोवृत्त्या महादानं तदत्र वै ।।

मुक्तिमंडपिकायां च क्षणं यत्स्थिरमास्यते ।। ८ ।।

स्नात्वा गंगामृते शुद्धे तप एतदिहोत्तमम् ।।

सत्कृत्य भिक्षवे भिक्षा यत्काश्यां परिदीयते ।।

तुला पुरुष एतस्याः कलां नार्हति षोडशीम् ।। ९ ।।

हृदि संचिंत्य विश्वेशं क्षणं यद्विनिमील्यते।।

देवस्य दक्षिणे भागे महायोगोयमुत्तमः ।। 4.1.39.१० ।।

इदमेव तपोत्युग्रं यदिंद्रिय विलोलताम् ।।

निषिध्य स्थीयते काश्यां क्षुत्तापाद्यवमन्य च ।। ११ ।।

मासि मासि यदाप्येत व्रताच्चांद्रायणात्फलम् ।।

अन्यत्र तदिहाप्येत भूतायां नक्तभोजनात् ।। १२ ।।

मासोपवासादन्यत्र यत्फलं समुपार्ज्यते ।।

श्रद्धयैकोपवासेन तत्काश्यां स्यादसंशयम्।।१३।।

चातुर्मास्य व्रतात्प्रोक्तं यदन्यत्र महाफलम् ।।

एकादश्युपवासेन तत्काश्यां स्यादसंशयम् ।। १४ ।।

षण्मासान्न परित्यागाद्यदन्यत्र फलं लभेत्।।

शिवरात्र्युपवासेन तत्काश्यां जायते ध्रुवम् ।। १५ ।।

वर्षं कृत्वोपवासानि लभेदन्यत्र यद्व्रती ।।

तत्फलं स्यात्त्रिरात्रेण काश्यामविकलं मुने ।। १६ ।।

मासिमासि कुशाग्रांबु पानादन्यत्र यत्फलम् ।।

काश्यामुत्तरवाहिन्यामेकेन चुलुकेन तत् ।। १७ ।।

अनंतो महिमा काश्याः कस्तं वर्णयितुं प्रभुः ।।

विपत्तिमिच्छतो जंतोर्यत्रकर्णे जपः शिवः ।। १८ ।।

शंभुस्तत्किंचिदाचष्टे म्रियमाणस्य जन्मिनः ।।

कर्णेऽक्षरं यदाकर्ण्य मृतोप्यमृततां व्रजेत् ।। १९ ।।

स्मारं स्मारं स्मररिपोः पुरीं त्वमिव शंकरः ।।

अदुनोन्मंदरं यातो बहुशस्तदवाप्तये ।।4.1.39.२०।।

अगस्त्य उवाच ।।

स्वकार्यनिपुणैः स्वामिन्गीर्वाणैरतिदारुणैः ।।

त्याजितोहं पुरीं काशीं हरो त्याक्षीत्कुतः प्रभुः ।। २१ ।।

पराधीनोहमिव किं देवदेवः पिनाकवान् ।।

काशिकां सोऽत्यजत्कस्मान्निर्वाणमणिराशिकाम् ।। २२ ।।

।। स्कंद उवाच ।। ।।

मित्रावरुणसंभूत कथयामि कथामिमाम् ।।

तत्याज च यथा स्थाणुः काशीं विध्युपरोधतः ।। २३ ।।

प्रार्थितस्त्वं यथा लेखैः परोपकृतये मुने ।।

द्रुहिणेन तथा रुद्रः स्वरक्षण विचक्षणः ।। २४ ।।

।। अगस्त्य उवाच ।। ।।

कथं स भगवान्रुद्रो द्रुहिणेन कृपांबुधिः ।।

प्रार्थितोभूत्किमर्थं च तन्मे ब्रूहि षडानन ।। २५ ।।

।। स्कंद उवाच ।। ।।

पाद्मेकल्पे पुरावृत्ते मनोः स्वायंभुवेंतरे ।।

अनावृष्टिरभूद्विप्र सर्वभूतप्रकंपिनी ।। २६ ।।

तया तु षष्टिहायिन्या पीडिताः प्राणिनोऽखिलाः ।।

केचिदंबुधितीरेषु गिरिद्रोणीषु केचन ।। २७ ।।

महानिम्नेषु कच्छेषु मुनिवृत्त्या जनाः स्थिताः ।।

अरण्यान्यवनिर्जाता ग्रामखर्वट वर्जिता ।। २८ ।।

क्रव्यादा एव सर्वेषु नगरेषु पुरेषु च ।।

आसन्नभ्रंलिहो वृक्षाः सर्वत्र क्षोणिमंडले ।। २९ ।।

चौरा एव महाचौरैरुल्लुठ्यंत इतस्ततः ।।

मांसवृत्त्योपजीवंति प्राणिनः प्राणरक्षिणः ।। 4.1.39.३० ।।

अराजके समुत्पन्ने लोकेऽत्याहितशंसिनि ।।

प्रयत्नो विफलस्त्वासीत्सृष्टेः सृष्टिकृतस्तदा ।। ३१ ।।

चिंतामवाप महती जगद्योनिः प्रजाक्षयात् ।।

प्रजासु क्षीयमाणासु क्षीणा यज्ञादिकाः क्रियाः ।। ३२।।

तासु क्षीणासु संक्षीणाः सर्वे यज्ञभुजोऽभवन् ।।

ततश्चिंतयता स्रष्ट्रा दृष्टो राजर्षिसत्तमः ।। ३३ ।।

अविमुक्ते महाक्षेत्रे तपस्यन्निश्चलेंद्रियः ।।

मनोरन्वयजो वीरः क्षात्रो धर्म इवोदितः ।। ३४ ।।

रिपुंजय इति ख्यातो राजा परपुरंजयः ।।

अथ ब्रह्मा तमासाद्य बहुगौरवपूर्वकम् ।। ३५ ।।

उवाच वचनं राजन्रिपुंजय महामते ।।

इलां पालय भूपाल ससमुद्राद्रिकाननाम् ।। ३६ ।।

नागकन्यां नागराजः पत्न्यर्थं ते प्रदास्यति ।।

अनंगमोहिनीं नाम्ना वासुकिः शीलभूषणाम् ।। ३७ ।।

दिवोपि देवा दास्यंति रत्नानि कुसुमानि च ।।

प्रजापालनसंतुष्टा महाराज प्रतिक्षणम् ।। ३८ ।।

दिवोदास इति ख्यातमतो नाम त्वमाप्स्यसि ।।

मत्प्रभावाच्च नृपते दिव्यं सामर्थ्यमस्तु ते ।। ३९ ।।

परमेष्ठिवचः श्रुत्वा ततोसौ राजसत्तमः ।।

वेधसं बहुशः स्तुत्वा वाक्यं चेदमुवाच ह ।। 4.1.39.४० ।।

।।राजोवाच ।। ।।

पितामह महाप्राज्ञ जनाकीर्णे महीतले ।।

कथं नान्ये च राजानो मां कथं कथ्यते त्वया ।। ४१ ।।

।। ब्रह्मोवाच ।। ।।

त्वयि राज्यं प्रकुर्वाणे देवो वृष्टिं विधास्यति।।

पापनिष्ठे च वै राज्ञि न देवो वर्षते पुनः ।। ४२ ।।

।। राजोवाच ।। ।।

पितामह महामान्य त्रिलोकी करणक्षम।।

महाप्रसाद इत्याज्ञां त्वदीयां मूर्ध्न्युपाददे ।। ४३ ।।

किंचिद्विज्ञप्तुकामोहं तन्मदर्थं करोषि चेत् ।।

ततः करोम्यहं राज्यं पृथिव्यामसपत्नवत् ।। ४४ ।।

।। ब्रह्मोवाच ।।

अविलंबेन तद्ब्रूहि कृतं मन्यस्व पार्थिव ।।

यत्ते हृदि महाबाहो तवादेयं न किंचन ।। ४५ ।।

।। राजोवाच ।। ।।

यद्यहं पृथिवीनाथः सर्वलोकपितामह ।।

तदादिविष(प?)दो देवा दिवि तिष्ठंतु मा भुवि ।। ४६ ।।

देवेषु दिवितिष्ठत्सु मयि तिष्ठति भूतले ।।

असपत्नेन राज्येन प्रजासौख्यमवाप्स्यति ।। ४७ ।।

तथेति विश्वसृक्प्रोक्तो दिवोदासो नरेश्वरः ।।

पटहं घोषयांचक्रे दिवं देवा व्रजंत्विति ।। ४८ ।।

मा गच्छंत्विह वै नागा नराः स्वस्था भवंत्वितः ।।

मयि प्रशासति क्षोणीं सुराः स्वस्था भवंत्विति ।। ४९ ।।

एतस्मिन्नंतरे ब्रह्मा विश्वेशं प्रणिपत्य ह ।।

यावद्विज्ञप्तुकामोभूत्तावदीशोब्रवीद्विधिम् ।। 4.1.39.५० ।।

लोकेश्वर समायाहि मंदरो नाम भूधरः ।।

कुशद्वीपादिहागत्य तपस्तप्येत दुष्करम् ।। ५१ ।।

यावस्तस्मै वरं दातुं बहुकालं तपस्यते ।।

इत्युक्त्वा पार्वतीनाथो नंदिभृंगिपुरोगमः ।। ५२ ।।

जगाम वृषमारुह्य मंदरो यत्र तिष्ठति ।।

उवाच च प्रसन्नात्मा देवदेवो वृषध्वज ।।५३।।

उत्तिष्ठोत्तिष्ठ भद्रं ते वरं ब्रूहि धरोत्तम ।।

सोथ श्रुत्वा महेशानं देवदेवं त्रिलोचनम्।। ।। ५४ ।।

प्रणम्य बहुशो भूमावद्रिरेतद्व्यजिज्ञपत् ।।

लीलाविग्रहभृच्छंभो प्रणतैक कृपानिधे ।। ५५ ।।

सर्वज्ञोपि कथं नाम न वेत्थ मम वांछितम् ।।

शरणागतसंत्राण सर्ववृत्तांतकोविद ।। ५६ ।।

सर्वेषां हृदयानंद शर्वसर्वगसर्वकृत् ।।

यदि देयो वरो मह्यं स्वभावादृषदात्मने ।।५७ ।।

याचकायातिशोच्याय प्रणतार्तिप्रभंजक ।।

ततोऽविमुक्तक्षेत्रस्य साम्यं ह्यभिलषाम्यहम् ।। ५८ ।।

कुशद्वीप उमा सार्धं नाथाद्य सपरिच्छदः ।।

मन्मौलौ विहितावासः प्रयात्वेष वरो मम ।। ५९ ।।

सर्वेषां सर्वदः शंभुः क्षणं यावद्विचिंतयेत् ।।

विज्ञातावसरो ब्रह्मा तावच्छंभुं व्यजिज्ञपत्।।

प्रणम्याग्रेसरो भूत्वा मौलौ बद्धकरद्वयः ।। 4.1.39.६० ।।

।। ब्रह्मोवाच ।। ।।

विश्वेश जगतांनाथ पत्या व्यापारितोस्म्यहम् ।।

कृतप्रसादेन विभो सृष्टिं कर्तुं चतुर्विधाम् ।। ६१ ।।

प्रयत्नेन मया सृष्टा सा सृष्टिस्त्वदनुज्ञया ।।

अवृष्ट्या षष्टिहायिन्या तत्र नष्टाऽप्रजा भुवि ।। ६२ ।।

अराजकं महच्चासीद्दुरवस्थमभूज्जगत् ।।

ततो रिपुंजयो नाम राजर्षिर्मनुवंशजः ।। ६३ ।।

मयाभिषिक्तो राजर्षिः प्रजाः पातुं नरेश्वरः ।।

चकार समयं सोपि महावीर्यो महातपाः ।।६४।।

तवाज्ञया चेत्स्थास्यंति सर्वे दिविषदो दिवि ।।

नागलोके तथा नागास्ततो राज्यं करोम्यहम् ।। ।। ६५ ।।

तथेति च मया प्रोक्तं प्रमाणीक्रियतां तु तत् ।।

मंदराय वरो दत्तो भवेदेवं कृपानिधे ।। ६६ ।।

तस्य राज्ञः प्रजास्त्रातुं भूयाच्चैष मनोरथः ।।

मम नाडीद्वयं राज्यं तस्यापि च शतक्रतोः ।। ६७ ।।

मर्त्यानां गणना क्वेह निमेषार्ध निमेषिणाम्।।

देवोपि निर्मलं मत्वा मंदरं चारुकंदरम् ।।६८।।

विधेश्च गौरवं रक्षंस्तथोरी कृतवान्हरः ।।

जंबूद्वीपे यथा काशी निर्वाणपददा सदा ।।६९।।

तथा बहुतिथं कालं द्वीपोभूत्सोपि मंदरः ।।

यियासुना च देवेन मंदरं चित्रकंदरम् ।।4.1.39.७०।।

निजमूर्तिमयं लिंगमविज्ञातं विधेरपि ।।

स्थापितं सर्वसिद्धीनां स्थापकेभ्यः समर्पितुम् ।। ७१ ।।

विपन्नानां च जंतूनां दातुं नैःश्रेयसीं श्रियम् ।।

सर्वेषामिह संस्थानां क्षेत्रं चैवाभिरक्षितुम्।। ७२ ।।

मंदराद्रिगतेनापि क्षेत्रं नैतत्पिनाकिना ।।

विमुक्तं लिंगरूपेण अविमुक्तमतः स्मृतम् ।। ७३ ।।

पुरा नंदवनं नाम क्षेत्रमेतत्प्रकीर्तितम्।।

अविमुक्तं तदारभ्य नामास्य प्रथितं भुवि ।। ७४ ।।

नामाविमुक्तमभवदुभयोः क्षेत्रलिंगयोः ।।

एतद्द्वयं समासाद्य न भूयो गर्भभाग्भवेत् ।। ७५ ।।

अविमुक्तेश्वरं लिंगं दृष्ट्वा क्षेत्रेऽविमुक्तके ।।

विमुक्त एव भवति सर्वस्मात्कर्मबंधनात् ।। ७६ ।।

अर्चंति विश्वे विश्वेशं विश्वेशोर्चति विश्वकृत् ।।

अविमुक्तेश्वरं लिंगं भुविमुक्तिप्रदायकम् ।। ७७ ।।

पुरा न स्थापितं लिंगं कस्यचित्केनचित्क्वचित् ।।

किमाकृति भवेल्लिंगं नैतद्वेत्त्यपि कश्चन ।। ७८ ।।

आकारमविमुक्तस्य दृष्ट्वा ब्रह्माच्युतादयः ।।

लिंगं संस्थापयामासुर्वसिष्ठाद्यास्तथषर्यः ।। ७९ ।।

आदिलिंगमिदं प्रोक्तमविमुक्तेश्वरं महत् ।।

ततो लिंगांतराण्यत्र जातानि क्षितिमंडले ।। 4.1.39.८० ।।

अविमुक्तेश नामापि श्रुत्वा जन्मार्जितादघात् ।।

क्षणान्मुक्तो भवेन्मर्त्यो नात्र कार्या विचारणा ।।८१ ।।

अविमुक्तेश्वरं लिंगं स्मृत्वा दूरगतोपि च ।।

जन्मद्वयकृतात्पापात्क्षणादेव विमुच्यते ।।८२।।

अविमुक्ते महाक्षेत्रेऽविमुक्तमवलोक्य च ।।

त्रिजन्मजनितं पापं हित्वा पुण्यमयो भवेत् ।। ८३ ।।

यत्कृतं ज्ञानविभ्रंशादेनः पंचसु जन्मसु ।।

अविमुक्तेश संस्पर्शात्तत्क्षयेदेव नान्यथा ।। ८४ ।।

अर्चयित्वा महालिंगमविमुक्तेश्वरं नरः ।।

कृतकृत्यो भवेदत्र न च स्याज्जन्मभाक्कुतः ।। ८५ ।।

स्तुत्वा नत्वार्चयित्वा च यथाशक्ति यथामति ।।

अविमुक्ते विमुक्तेशं स्तूयते नम्यतेऽर्च्यते ।।८६।।

अनादिमदिदं लिंगं स्वयं विश्वेश्वरार्चितम् ।।

काश्यां प्रयत्नतः सेव्यमविमुक्तं विमुक्तये ।। ८७ ।।

संति लिंगान्यनेकानि पुण्येष्वायतनेषु च ।।

आयांति तानि लिंगानि माघीं प्राप्य चतुदर्शीम्।। ८८ ।।

कृष्णायां माघभूतायामविमुक्तेश जागरात् ।।

सदा विगतनिद्रस्य योगिनो गतिभाग्भवेत् ।। ८९ ।।

नानायतनलिंगानि चतुर्वर्गप्रदान्यपि ।।

माघकृष्णचतुर्दश्यामविमुक्तमुपासते ।। 4.1.39.९० ।।

किं बिभेति नरो धीरः कृतादघशिलोच्चयात् ।।

अविमुक्तेश लिंगस्य भक्ति वज्रधरो यदि ।। ९१ ।।

क्वाविमुक्तं महालिंगं चतुर्वर्गफलोदयम् ।।

क्व पापि पापशैलोऽल्पो यःक्षयेन्नामसंभृतः ।। ९२ ।।

अविमुक्ते महाक्षेत्रे विश्वेशसमधिष्ठिते ।।

यैर्न दृष्टं विमूढास्तेऽविमुक्तं लिंगमुत्तमम् ।। ९३ ।।

द्रष्टारमविमुक्तस्य दृष्ट्वा दंडधरो यमः ।।

दूरादेव प्रणमति प्रबद्धकरसंपुटः ।। ९४ ।।

धन्यं तन्नेत्रनिर्माणं कृतकृत्यौ तु तौ करौ ।।

अविमुक्तेश्वरं येन याभ्यामैक्षिष्ट यः स्पृशेत् ।। ९५ ।।

त्रिसंध्यमविमुक्तेशं यो जपेन्नियतः शुचिः ।।

दूरदेशविपन्नोपि काशीमृतफलं लभेत् ।। ९६ ।।

अविमुक्तं महालिंगं दृष्ट्वा ग्रामांतरं व्रजेत्।।

लब्धाशुकार्यसंसिद्धिं क्षेमेण प्रविशेद्गृहम्।।९७।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशी खंडे पूर्वार्द्धे अविमुक्तेशाविर्भावोनामैकोनचत्वारिंशोध्यायः ।।३९।।

खण्डः ४ (काशीखण्डः) — Adhyāya 40

।। स्कंद उवाच ।। ।।

अविमुक्तेश माहात्म्यं वर्णितं तेग्रतो मया ।।

अथो किमसि शुश्रूषुः कथयिष्यामि तत्पुनः ।। १ ।।

।। अगस्त्य उवाच ।। ।।

अविमुक्तेश माहात्म्यं श्रावं श्रावं श्रुती मम ।।

अतीव सुश्रुते जाते तथापि न धिनोम्यहम् ।। २ ।।

अविमुक्तेश्वरं लिंगं क्षेत्रं चाप्यविमुक्तकम् ।।

एतयोस्तु कथं प्राप्तिर्भवेत्षण्मुख तद्वद ।। ३ ।।

।। स्कंद उवाच ।। ।।

शृणु कुं भज वक्ष्यामि यथा प्राप्तिर्भवेदिह ।।

स्वश्रेयो दातुरेतस्या विमुक्तस्य महामते ।। ४ ।।

समीहितार्थ संसिद्धिर्लभ्यते पुण्यभारतः ।।

तच्च पुण्यं भवेद्विप्र श्रुतिवर्त्मसभाजनात् ।।५।।

श्रुतिवर्त्मजुषः पुंसः संस्पर्शान्नश्यतो मुने ।।

कलिकालावपि सदा छिद्रं प्राप्य जिघांसतः ।।६।।

वर्जितस्य विधानेन प्रोक्तस्याकरणेन वै ।।

कलिकालावपि हतो ब्राह्मणं रंध्रदर्शनात् ।। ७ ।।

निषिद्धाचरणं तस्मात्कथयिष्ये तवाग्रतः ।।

तद्दूरतः परित्यज्य नरो न निरयी भवेत् ।। ८ ।।

पलांडुं विड्वराहं च शेलुं लशुन गृंजने ।।

गोपीयूषं तंडुलीयं वर्ज्यं च कवकं सदा ।। ९ ।।

व्रश्चनान्वृक्षनिर्यासान्पायसापूपशष्कुलीः ।।

अदेवपित्र्यं पललमवत्सागोपयस्त्यजेत् ।। 4.1.40.१० ।।

पय ऐकशफं हेयं तथा क्रामेलकाविकम् ।।

रात्रौ न दधि भोक्तव्यं दिवा न नवनीतकम् ।। ११ ।।

टिट्टिभं कलविंकं च हंसं चक्रं प्लवंबकम् ।।

त्यजेन्मांसाशिनः सर्वान्सारसं कुक्कुटं शुकम् ।। १२ ।।

जालपादान्खंजरीटान्बुडित्वा मत्स्यभक्षकान् ।।

मत्स्याशी सर्वमांसाशी तन्मत्स्यान्सर्वथा त्यजेत्।। १३ ।।

हव्यकव्यनियुक्तौ तु भक्ष्यौ पाठीनरोहितौ।।

मांसाशिभिस्त्वमी भक्ष्याः शश शल्लक कच्छपाः ।।१४।।

श्वाविद्गोधे प्रशस्ते च ज्ञाताश्च मृगपक्षिणः ।।

आयुष्कामैः स्वर्गकामैस्त्याज्यं मांसं प्रयत्नतः ।। १५ ।।

यज्ञार्थं पशुहिंसा या सा स्वर्ग्या नेतरा क्वचित् ।।

त्यजेत्पर्युषितं सर्वमखंडस्नेह वर्जितम्।। १६ ।।

प्राणात्यये क्रतौ श्राद्धे भैषजे विप्रकाम्यया।।

अलौल्यमित्थं पललं भक्षयन्नैव दोषभाक् ।। १७ ।।

न तादृशं भवेत्पापं मृगयावृत्तिकांक्षिणः ।।

यादृशं भवति प्रेत्य लौल्यान्मांसोपसेविनः ।। १८ ।।

मखार्थं ब्रह्मणा सृष्टाः पशु द्रुम मृगौषधीः ।।

निघ्नन्नहिंसको विप्रस्तासामपि शुभा गतिः ।। १९ ।।

पितृदेवक्रतुकृते मधुपर्कार्थमेव च ।।

तत्र हिंसाप्यहिंसा स्याद्धिंसान्यत्र सुदुस्तरा ।। 4.1.40.२० ।।

यो जंतूनात्मपुष्ट्यर्थं हिनस्ति ज्ञानदुर्बलः ।।

दुराचारस्य तस्येह नामुत्रापि सुखं क्वचित्।। २१ ।।

भोक्तानुमंता संस्कर्ता क्रयिविक्रयि हिंसकाः ।।

उपहर्ता घातयिता हिंसकाश्चाष्टधा स्मृताः ।। २२ ।।

प्रत्यब्दमश्वमेधेन शतं वर्षाणि यो यजेत् ।।

अमांसभक्षको यश्च तयोरंत्यो विशिष्यते ।। २३ ।।

यथैवात्मा परस्तद्वद्द्रष्टव्यः सुखमिच्छता ।।

सुखदुःखानि तुल्यानि यथात्मनि तथा परे ।। २४ ।।

सुखं वा यदि वा चान्यद्यत्किंचित्क्रियते परे।।

तत्कृतं हि पुनः पश्चात्सर्वमात्मनि संभवेत् ।। २५ ।।

न क्लेशेन विना द्रव्यमर्थहीने कुतः क्रियाः ।।

क्रियाहीने कुतो धर्मो धर्महीने कुतः सुखम् ।। ।। २६ ।।

सुखं हि सर्वैराकांक्ष्यं तच्च धर्मसमुद्भवम्।।

तस्माद्धर्मोत्र कर्तव्यश्चातुर्वर्ण्येन यत्नतः ।। २७ ।।

न्यायागतेन द्रव्येण कर्तव्यं पारलौकिकम् ।।

दानं च विधिना देयं काले पात्रे च भावतः ।। २८ ।।

विधिहीनं तथाऽपात्रे यो ददाति प्रतिग्रहम् ।।

न केवलं हि तद्याति शेषं तस्य च नश्यति ।। २९ ।।

व्यसनार्थे कुटुंबार्थे यदृणार्थे च दीयते ।।

तदक्षयं भवेदत्र परत्र च न संशयः ।।4.1.40.३०।।

मातापितृविहीनं यो मौंजीपाणिग्रहादिभिः ।।

संस्कारयेन्निजैरर्थैस्तस्य श्रेयस्त्वनंतकम् ।। ।।३१ ।।

अग्निहोत्रैर्न तच्छ्रेयो नाग्निष्टोमादिभिर्मखैः ।।

यच्छ्रेयः प्राप्यते मर्त्यैर्द्विजे चैके प्रतिष्ठिते ।। ३२ ।।

यो ह्यनाथस्य विप्रस्य पाणिं ग्राहयते कृती ।।

इह सौख्यमवाप्नोति सोक्षयं स्वर्गमाप्नुयात् ।। ३३ ।।

पितृगेहे तु या कन्या रजः पश्येदसंस्कृता ।।

भ्रूणहा तत्पिता ज्ञेयो वृषली सापि कन्यका ।। ३४ ।।

यस्तां परिणयेन्मोहात्स भवेद्वृषलीपतिः ।।

तेन संभाषणं त्याज्यमपाङ्क्तेयेन सर्वदा ।। ३५ ।।

विज्ञाय दोषमुभयोः कन्यायाश्च वरस्य च ।।

संबंधं रचयेत्पश्चादन्यथा दोषभाक्पिता ।। ३६ ।।

स्त्रियः पवित्राः सततं नैता दुष्यंति केनचित् ।।

मासिमासि रजस्तासां दुष्कृतान्यपकर्षति ।। ३७ ।।

पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगंधर्व वह्निभिः ।।

भुंजते मानुषाः पश्चान्नैतादुष्यं ति केनचित् ।। ३८ ।।

स्त्रीणां शौचं ददौ सोमः पावकः सर्वमेध्यताम् ।।

कल्याणवाणीं गंधर्वास्तेन मेध्याः सदा स्त्रियः ।। ३९ ।।

कन्यां भुंक्ते रजःकालेऽग्निः शशी लोमदर्शने ।।

स्तनोद्भेदेषु गंधर्वास्तत्प्रागेव प्रदीयते ।।4.1.40.४०।।

दृश्यरोमात्वपत्यघ्नी कुलघ्न्युद्गतयौवना ।।

पितृघ्न्याविष्कतरजास्ततस्ताः परिवर्जयेत् ।।४१।।

कन्यादानफलप्रेप्सुस्तस्माद्द द्यादनग्निकाम् ।।

अन्यथा न फलं दातुः प्रतिग्राही पतेदधः ।।४२।।

कन्यामभुक्तां सोमाद्यैर्ददद्दानफलं लभेत्।।

देवभुक्तां ददद्दाता न स्वर्गमधिगच्छति ।।४३।।

शयनासनयानानि कुणपं स्त्रीमुखं कुशाः।।

यज्ञपात्राणि सर्वाणि न दुष्यंति बुधाः क्वचित् ।। ४४ ।।

वत्सः प्रस्रवणे मध्ये शकुनिः फलपातने ।।

नार्यो रतिप्रयोगेषु श्वा मृग ग्रहणे शुचिः ।। ४१।

अजाश्वयोर्मुखं मेध्यं गावो मेध्यास्तु पृष्ठतः ।।

पादतो ब्राह्मणा मेध्याः स्त्रियो मेध्यास्तु सर्वतः ।। ४५ ।।

बलात्कारोपभुक्ता वा चोरहस्तगतापि वा ।।

न त्याज्या दयिता नारी नास्यास्त्यागो विधीयते ।। ४७ ।।

आम्लेन ताम्रशुद्धिः स्याच्छुद्धिः कांस्यस्य भस्मना ।।

संशुद्धी रजसा नार्यास्तटिन्या वेगतः शुचिः ।।४८।।

मनसापि हि या नेह चिंतयेत्पुरुषांतरम् ।।

सोमया सह सौख्यानि भुंक्ते चात्रापि कीर्तिभाक्।।४९।।

पिता पितामहो भ्राता सकुल्यो जननी तथा ।।

कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परःपरः ।। 4.1.40.५० ।।

अप्रयच्छन्समाप्नोति भूणहत्यामृतावृतौ ।।

स्वयं त्वभावे दातॄणां कन्या कुर्यात्स्वयं वरम्।। ।। ५१ ।।

हृताधिकारां मलिनां पिंडमात्रोपजीविनीम्।।

परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ।। ५२ ।।

व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते ।।

गर्भभर्तृवधादौ तु महत्यपि च कल्मषे ।। ५३ ।।

शूद्रस्य भार्या शूद्रैव सा च स्वा च विशः स्मृते ।।

ते च स्वा चैव राज्ञस्तु ताश्च स्वाचाग्रजन्मनः ।। ५४ ।।

आरोप्य शूद्रां शयने विप्रो गच्छेदधोगतिम्।।

उत्पाद्य पुत्रं शूद्रायां ब्राह्मण्यादेव हीयते।। ५५ ।।

दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।।

देवाद्यास्तन्न चाश्नंति स च स्वर्गं न गच्छति ।। ५६ ।।

जामयो यानि गेहानि शपंत्यप्रतिपूजिताः ।।

कृत्याभिर्निहतानीव नश्येयुस्तान्यसंशयम् ।। ५७ ।।

तदभ्यर्च्याः सुवासिन्यो भूषणाच्छादनाशनैः ।।

भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च ।।५८।।

यत्र नार्यः प्रमुदिता भूषणाच्छादनाशनैः ।।

रमंते देवतास्तत्र स्युस्तत्र सफलाः क्रियाः ।। ५९ ।।

यत्र तुष्यति भर्त्रा स्त्री स्त्रिया भर्ता च तुष्यति ।।

तत्र वेश्मनि कल्याणं संपद्येत पदे पदे ।।4.1.40.६०।।

अहुतं च हुतं चैव प्रहुतं प्राशितं तथा ।।

ब्राह्मं हुतं पंचमं च पंचयज्ञा इमे शुभाः ।। ६१ ।।

जपोऽहुतोहुतो होमः प्रहुतो भौतिको बलिः ।।

प्राशितं पितृसंतृप्तिर्हुतं ब्राह्मं द्विजार्चनम् ।। ६२ ।।

पंचयज्ञानिमान्कुर्वन्ब्राह्मणो नावसीदति ।।

एतेषामननुष्ठानात्पंचसूना अवाप्नुयात् ।। ६३ ।।

ब्राह्मणं कुशलं पृच्छेद्बाहुजातमनामयम्।।

वैश्यं सुखं समागम्य शूद्रं संतोषमेव च ।। ६४ ।।

जातमात्रः शिशुस्तावद्यावदष्टौ समाः स्मृताः ।।

भक्ष्याभक्ष्येषु नो दु्ष्येद्यावन्नैवोपनीयते ।। ६५ ।।

भरणं पोष्यवर्गस्य दृष्टादृष्टफलोदयम् ।।

प्रत्यवायो ह्यभरणे भर्तव्यस्तत्प्रयत्नतः ।। ६६ ।।

मातापितागुरुपत्नीः त्वपत्यानि समाश्रिताः ।।

अभ्यागतोतिथिश्चाग्निः पोष्यवर्गा अमी नव ।। ६७ ।।

स जीवति पुमान्योऽत्र बहुभिश्चोपजीव्यते ।।

जीवन्मृतोथ विज्ञेयः पुरुषः स्वोदरंभरिः ।। ६८ ।।

दीनानाथविशिष्टेभ्यो दातव्यं भूतिकाम्यया ।।

अदत्तदाना जायंते परभाग्योपजीविनः ।।६९।।

विभागशीलसंयुक्तो दयावांश्च क्षमायुतः ।।

देवतातिथिभक्तस्तु गृहस्थो धार्मिकः स्मृतः ।।4.1.40.७०।।

शर्वरीमध्य यामौ यौ हुतशेषं च यद्धविः ।।

तत्र स्वपंस्तदश्नंश्च ब्राह्मणो नावसीदति ।। ७१ ।।

नवैतानि गृहस्थस्य कार्याण्यभ्यागते सदा ।।

सुधा व्ययानि यत्सौम्यं वाक्यं चक्षुर्मनोमुखम् ।। ७२ ।।

अभ्युत्थानमिहायात सस्नेहं पूर्वभाषणम्।।

उपासनमनुव्रज्या गृहस्थोन्नति हेतवे ।। ७३ ।।

तथेषद्व्यययुक्तानि कार्याण्येतानि वै नव ।।

आसनं पादशौचं च यथाशक्त्याशनं क्षितिः ।। ७४ ।।

शय्यातृणजलाभ्यंग दीपा गार्हस्थ्य सिद्धिदाः ।।

तथा नव विकर्माणि त्याज्यानि गृहमेधिनाम्।।७५।।

पैशुन्यं परदाराश्च द्रोहः क्रोधानृताप्रियम् ।।

द्वेषो दंभश्च माया च स्वर्गमार्गार्गलानि हि ।। ७६ ।।

नवावश्यककर्माणि कार्याणि प्रतिवासरम् ।।

स्नानं संध्या जपो होमः स्वाध्यायो देवतार्चनम् ।। ७७ ।।

वेश्वदेवं तथातिथ्यं नवमं पितृतर्पणम् ।।

नव गोप्यानि यान्यत्र मुने तानि निशामय ।। ७८ ।।

जन्मर्क्षं मैथुनं मंत्रो गृहच्छिद्रं च वंचनम् ।।

आयुर्धनापमानं स्त्री न प्रकाश्यानि सर्वथा ।। ७९ ।।

नवैतानि प्रकाश्यानि रहः पापमकुत्सितम् ।।

प्रायोग्यमृणशुद्धिश्च सान्वयः क्रयविक्रयौ ।।

कन्यादानं गुणोत्कर्षो नान्यत्केनापि कुत्रचित् ।। 4.1.40.८० ।।

पात्र मित्र विनीतेषु दीनानाथोपकारिषु ।।

मातापितुगुरूष्वेतन्नवकं दत्तमक्षयम् ।। ८१ ।।

निष्फलं नवसूत्सृष्टं चाटचारणतस्करे ।।

कुवैद्ये कितवे धूर्ते शठे मल्ले च बंदिनि ।। ८२ ।।

आपस्त्वपि न देयानि नववस्तूनि सर्वथा ।।

अन्वये सति सर्वस्वं दारांश्च शरणागतान् ।। ८३ ।।

न्यासाधीकुलवृत्तिं च निक्षेपं स्त्रीधनं सुतम्।।

यो ददाति स मूढात्मा प्रायश्चित्तैर्विशुध्यति ।। ८४ ।।

एतन्नवानां नवकं ज्ञात्वा प्रियमवाप्नुयात् ।।

अन्यच्च नवकं वच्मि सर्वेषां स्वर्गमार्गदम् ।। ८५ ।।

सत्यं शौचमहिंसा च क्षांतिर्दानं दया दमः ।।

अस्तेयमिंद्रियाकोचः सर्वेषां धर्मसाधनम् ।। ८६ ।।

अभ्यस्य नवतिं चैतां स्वर्गमार्गप्रदीपिकाम्।।

सतामभिमतां पुण्यां गृहस्थो नावसीदति ।। ८७ ।।

जिह्वा भार्या सुतो भ्राता मित्र दास समाश्रिताः ।।

यस्यैते विनयाढ्याश्च तस्य सर्वत्र गौरवम्।। ८८ ।।

पानं दुर्जन संसर्गः पत्या च विरहोटनम् ।।

स्वप्नोन्यगृहवासश्च नारीणां दूषणानि षट् ।।८९।।

समर्घं धान्यमुद्धत्य महर्घं यः प्रयच्छति।।

स हि वार्धुषिको नाम तस्यान्नं नैव भक्षयेत् ।। ।।4.1.40.९०।।

अग्रे माहिषिकं दृष्ट्वा मध्ये च वृषलीपतिम्।।

अंते वार्धुषिकं चैव निराशाः पितरो गताः ।। ९१ ।।

महिषीत्युच्यते नारी या च स्याद्व्यभिचारिणी ।।

तां दुष्टां कामयेद्यस्तु स वै माहिषिकः स्मृतः ।।९२।।

स्व वृषं या परित्यज्य परवृषे वृषायते।।

वृषली सा हि विज्ञेया न शूद्री वृषली भवेत् ।। ९३ ।।

यावदुष्णं भवत्यन्नं यावन्मौनेन भुज्यते ।।

तावदश्नंति पितरो यावन्नोक्ता हविर्गुणाः ।। ९४ ।।

विद्याविनयसंपन्ने श्रोत्रिये गृहमागते ।।

क्रीडंत्यौषधयः सर्वा यास्यामः परमां गतिम् ।। ९५।।

भ्रष्टशौचवताचारे विप्रे वेदविवर्जिते ।।

रोदित्यन्नं दीयमानं किं मया दुष्कृतं कृतम् ।। ९६ ।।

यस्य कोष्ठगतं चान्नं वेदाभ्यासेन जीर्यति ।।

स तारयति दातारं दशपूर्वान्दशापरान् ।। ९७ ।।

न स्त्रीणां वपनं कार्यं न च गाः समनुव्रजेत् ।।

न च रात्रौ वसेद्गोष्ठे न कुर्याद्वैदिकीं श्रुतिम् ।। ९८ ।।

सर्वान्केशान्समुद्धृत्य च्छेदयेदंगुलद्वयम् ।।

एवमेव तु नारीणां शिरसो मुंडनं भवेत् ।। ९९ ।।

राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ।।

अकारयित्वा वपनं प्रायश्चित्तं विनिर्दिशेत् ।। ।। 4.1.40.१०० ।।

केशानां रक्षणार्थाय द्विगुणं व्रतमादिशेत् ।।

द्विगुणा दक्षिणा देया ब्राह्मणे वेदपारगे ।। १ ।।

योऽगृहीत्वा विवाहाग्निं गृहस्थ इति मन्यते ।।

अन्नं तस्य न भोक्तव्यं वृथा पाको हि स स्मृतः ।। २ ।।

दाराग्निहोत्र दीक्षां च कुरुते योऽग्रजे स्थिते ।।

परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ।। ३ ।।

परिवित्तिः परिवेत्ता यया च परिविद्यते ।।

सर्वे ते नरकं यांति दातृयाजकपंचमाः ।। ४ ।।

क्लीबे देशांतरस्थे च मूके प्रत्रजिते जडे ।।

कुब्जे खर्वे च पतिते न दोषः परिवेदने ।। ५ ।।

वेदाक्षरणि यावंति नियुंज्यादर्थकारणे ।।

तावतीर्वै भ्रूणहत्या वेदविक्रयकृल्लभेत् ।। ६ ।।

यस्तु प्रव्रजितो भूत्वा सेवते मैथुनं पुनः ।।

षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः ।। ७ ।।

शूद्रान्नं शूद्रसंपर्कः शूद्रेण च सहासनम् ।।

शूद्राद्विद्यागमः कश्चिज्ज्वलंतमपि पातयेत् ।। ८ ।।

शूद्रादाहृत्य निर्वापं ये पचंत्यबुधा द्विजाः ।।

ते यांति नरकं घोरं ब्रह्मतेजोविवर्जिताः ।। ९ ।।

माक्षिकं फाणितं शाकं गोरसं लवणं घृतम् ।।

हस्तदत्तानि भुक्तानि दिनमेकमभोजनम् ।। ।। 4.1.40.११० ।।

हस्तदत्ताश्च ये स्नेहा लवणं व्यजनानि च ।।

दातारं नोपतिष्ठंते भोक्ता भुंक्ते तु किल्बिषम् ।। ११ ।।

आयसेनैव पात्रेण यदन्नमुपदीयते ।।

भोक्ता तद्विट्समं भुंक्ते दाता च नरकं व्रजेत् ।। १२ ।।

अंगुल्या दंतकाष्ठं च प्रत्यक्षलवणं च यत् ।।

मृत्तिकाभक्षणं यच्च समं गोमांसभक्षणैः ।। १३ ।।

पानीयं पायसं भैक्षं घृतं लवणमेव च ।।

हस्तदत्तं न गृह्णीयात्तुल्यगोमांसभक्षणैः ।। १४ ।।

अग्रतो निवसेन्मूर्खो दूरतश्च गुणान्वितः ।।

गुणान्विताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ।।१५।।

ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते ।।

ज्वलंतमग्निमुत्सृज्य नहि भस्मनि हूयते ।। १६ ।।

सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् ।।

भोजने चैव दाने च दहेदासप्तमं कुलम् ।। १७ ।।

गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् ।।

प्रेष्यान्वार्धुषिकांश्चैव विप्राञ्शूद्रवदाचरेत् ।।१८।।

देवद्रव्यविभागेन ब्रह्मस्व हरणेन च ।।

कुलान्याशु विनश्यंति ब्राह्मणातिक्रमेण च ।। १९ ।।

मा देहीति च यो ब्रूयाद्गवाग्निब्राह्मणेषु च ।।

तिर्यग्योनिशतं गत्वा चांडालेष्वभिजायते ।। 4.1.40.१२० ।।

वाचा यच्च प्रतिज्ञातं कर्मणानोपपादितम् ।।

ऋणं तद्धर्मसंयुक्तमिहलोके परत्र च ।। २१ ।।

विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः ।।

यज्ञशेषोऽमृतंभुक्तशेषं तु विघसं विदुः ।। २२ ।।

सव्यादंसात्परिभ्रष्टे नाभिदेशे व्यवस्थिते ।।

वस्त्रे स एकवासास्तं देवे पित्र्ये च वर्जयेत् ।। २३ ।।

यदेव तर्पयत्यद्भिः पितॄन्स्नात्वा द्विजोत्तमः ।।

तेनैव सर्वमाप्नोति पितृयज्ञक्रियाफलम् ।। २४ ।।

हस्तौ प्रक्षाल्य गंडूषं यः पिबेद्भोजनोत्तरम्।।

दैवं पित्र्यं तथात्मानं त्रयं स उपघातयेत् ।। १५ ।।

गणान्नं गणिकान्नं च यदन्नं ग्रामयाजके ।।

स्त्रीणां प्रथमगर्भेषु भुक्त्वा चांद्रायणं चरेत ।। २६ ।।

पक्षे वा यदि वा मासे यस्य गेहेत्ति न द्विजः ।।

भुक्त्वा दुरात्मनस्तस्य चरेच्चांद्रायणव्रतम्।। २७ ।।

सत्रिणां दीक्षितानां च यतीनां ब्रह्मचारिणाम् ।।

एतेषां सूतकं नास्ति ऋत्विजां कर्मकुर्वताम् ।। २८ ।।

अजीर्णेऽभ्युदिते वाते श्मश्रुकर्मणि मैथुने ।।

दुःस्वप्ने दुर्जनस्पर्शे स्नानमेव विधीयते ।। २९ ।।

चैत्यवृक्षं चितिं यूपं शिवनिर्माल्यभोजिनम् ।।

वेदविक्रयिणं स्पृष्ट्वा सचैलो जलमाविशेत् ।। 4.1.40.१३० ।।

अग्न्यगारे गवां गोष्ठे देव ब्राह्मणसन्निधौ ।।

स्वाध्याये भोजने पाने पादुके वै विसर्जयेत् ।। ३१ ।।

खलक्षेत्रगतं धान्यं कूपवापीषु यज्जलम् ।।

अग्राह्यादपि तद्ग्राह्यं यच्च गोष्ठगतं पयः ।। ३२ ।।

यद्वेष्टितशिरा भुंक्ते यो भुंक्ते दक्षिणामुखः ।।

सोपानत्कश्च यद्भुंक्ते तद्वै रक्षांसि भुंजते ।। ३३ ।।

यातुधानाः पिशाचाश्च राक्षसाः क्रूरकर्मिणः ।।

हरंति रसमन्नस्य मंडलेन विवर्जितम् ।।३४।।

ब्रह्माद्याश्च सुराः सर्वे वसिष्ठाद्या महर्षयः ।।

मंडलं चोपजीवंति ततः कुर्वीत मंडलम् ।। ३५ ।।

ब्राह्मणे चतुरस्रं स्यात्त्र्यस्रं वै बाहुजन्मनः ।।

वर्तुलं च विशः प्रोक्तं शूद्रस्याभ्युक्षणं स्मृतम् ।। ३६ ।।

नोत्संगे भोजनं कृत्वा नो पाणौ नैव कर्पटे ।।

नासनेन च शय्यायां भुंजीत न मलार्दितः ।। ३७ ।।

धर्मशास्त्र रथारूढा वेदखड्गधरा द्विजाः ।।

क्रीडार्थमपि यद्ब्रूयुः स धर्मः परमः स्मृतः ।। ३८ ।।

रात्रौ धाना दधियुतं धर्मकामो न भक्षयेत् ।।

अश्नतो धर्महानिः स्याद्व्याधिभिश्चोपपीड्यते ।। ३९ ।।

फाणितं गोरसं तोयं लवणं मधुकांजिकम् ।।

हस्तेन ब्राह्मणो दत्त्वा कृच्छ्रं चांद्रायणं चरेत् ।। 4.1.40.१४० ।।

गंधाभरणमाल्यानि यः प्रयच्छति धर्मवित् ।।

ससुगंधिः सदा हृष्टो यत्रयत्रोपजायते ।। ४१ ।।

नीलीरक्तं तु यद्वस्त्रं दूरतः परिवर्जयेत् ।।

स्त्रीणां क्रीडार्थसंयोगे शयनीयेन दुष्यति ।। ४२ ।।

पालनाद्विक्रयाच्चैव तद्वृत्तेरुपजीवनात् ।।

अपवित्रो भवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुध्यति ।। ४३ ।।

स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् ।।

वृथा तस्य महायज्ञा नीली वासो बिभर्ति यः ।। ४४ ।।

नीलीरक्तं यदावस्त्रं विप्रः स्वांगेषु धारयेत् ।।

तं तु संततिसंख्याके नरके स वसेद्ध्रुवम् ।। ४५ ।।

अहोरात्रोषितो भूत्वा पंचगव्येन शुध्यति ।। ४६ ।।

नीलीरक्तेन वस्त्रेण यदन्नमुपकल्पयेत् ।।

भोक्ता विष्ठासमं भुंक्ते दाता च नरकं व्रजेत् ।। ४७ ।।

अमृतं ब्राह्मणस्यान्नं क्षत्त्रियान्नं पयः स्मृतम् ।।

वैश्यस्य चान्नमेवान्नं शूद्रस्य रुधिरं स्मृतम् ।। ४८ ।।

वैश्वदेवेन होमेन देवताभ्यर्चनैर्जपैः ।।

अमृतं तेन विप्रान्नमृग्यजुःसामसंस्कृतम् ।। ४९ ।।

व्यवहारानुरूपेण न्यायेन तु यदर्जनम् ।।

क्षत्रियस्य पयस्तेन प्रजापालनतो भवेत् ।। 4.1.40.१५०

प्रहरानद्धवाहाद्यदन्नमुत्पाद्य यच्छति ।।

सीतायज्ञविधानेन वैश्यान्नं तेन संस्कृतम् ।। ५१ ।।

अज्ञानतिमिरांधस्य मद्यपानरतस्य च ।।

रुधिरं तेन शूद्रान्नं वेदमंत्रविवर्जितम् ।। ५२ ।।

न वृथा शपथं कुर्यात्स्वल्पेप्यर्थे नरोत्तमः ।।

वृथा हि शपथं कुर्वन्प्रेत्य चेह विनश्यति ।। ५३ ।।

कामिनीषु विवाहे च गवां भुक्ते धनक्षये ।।

ब्राह्मणाभ्युपपत्तौ च शपथैर्नास्ति पातकम् ।।५४।।

सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।।

गोबीजकांचनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ।।५५।।

अग्निं वा हारयेदेनमप्सु चैनं निमज्जयेत् ।।

स्पर्शयेत्पुत्रदाराणां शिरांस्येनं च वा पृथक् ।। ५६ ।।

न यमं यममित्याहुरात्मा वै यम उच्यत ।।

आत्मा संयमितो येन तं यमः किं करिष्यति ।। ५७ ।।

न निस्त्रिंशस्तथा तीक्ष्णः फणी वा दुरतिक्रमः ।।

रिपुर्वा नित्यसंकुद्धो यथात्मा दुरधिष्ठितः ।। ५८ ।।

एकः क्षमावतां दोषो न द्वितीयः कथंचन ।।

यदेनं क्षमया युक्तमशक्तं मन्यते जनः ।। ५९ ।।

न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्या वसथप्रियस्य ।।

न भोजनाच्छादन तत्परस्य न लोकवित्त ग्रहणे रतस्य ।। 4.1.40.१६० ।।

एकांतशीलस्य सदैव तस्य सर्वेंद्रियप्रीति निवर्तकस्य ।।

स्वाध्याययोगे गतमानसस्य मोक्षो धुवं नित्यमहिंसकस्य ।। ६१ ।।

क्वैकांतशीलत्वमिहास्ति पुंसः क्व चेंद्रियप्रीतिनिवृत्तिरस्ति ।।

क्व योगयुक्तिः क्व च दैवतेज्या काश्यां विनैभिः सहजेन मुक्तिः ।।६२ ।।

विश्वेश संशीलनमेवयोगस्तपश्च विश्वेशपुरीनिवासः ।।

व्रतानि दानं नियमा यमाश्च स्नानं द्युनद्यां यदुदग्वहायाम् ।।६३।।

।। स्कंद उवाच ।। ।।

न्यायागतधनस्तत्त्वज्ञाननिष्ठोतिथिप्रियः ।।

श्राद्धकृत्सत्यवादी च गृहस्थोपीह मुच्यते ।।६४।।

दीनांधकृपणार्थिभ्यो दत्त्वान्नानि विशेषतः ।।

कृत्वा गार्ह्याणि कर्माणि गृहस्थः श्रेय आप्नुयात् ।। ६५ ।।

इत्थमाचरतां पुंसां काशीनाथः प्रसीदति ।।

काशीनाथप्रसादेन काशीप्राप्तिस्तु मोक्षकृत् ।। ६६ ।।

स सर्वतीर्थसुस्नातः स सर्वक्रतुदीक्षितः ।।

स दत्तसर्वदानस्तु काशी येन निषेविता ।। १६७ ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वाद्धे गृहस्थधर्माख्यानंनाम चत्वारिंशोध्यायः ।।४०।।

खण्डः ४ (काशीखण्डः) — Adhyāya 41

।। स्कंद उवाच ।। ।।

उषित्वैवं गृहे विप्रो द्वितीयादाश्रमात्परम् ।।

वलीपलितसंयुक्तस्तृतीयाश्रममाविशेत् ।। १ ।।

अपत्यापत्यमालोक्य ग्राम्याहारान्विसृज्य च ।।

पत्नीं पुत्रेषु संत्यज्य पत्न्या वा वनमाविशेत् ।। २ ।।

वसानश्चर्मचीराणि साग्निर्मुन्यन्नवर्तनः ।।

जटी सायंप्रगे स्नायी श्मश्रुलोनखलोमभृत् ।।३।।

शाकमूलफलैर्वापि पंचयज्ञन्न हापयेत् ।।

अम्मूलफलभिक्षाभिरर्चयेद्भिक्षुकातिथीन् ।। ४ ।।

अनादाता च दाता च दांतः स्वाध्यायतत्परः ।।

वैतानिकं च जुहुयादग्निहोत्रं यथाविधि ।। ५ ।।

मुन्यन्नैः स्वयमानीतैः पुरोडाशांश्च निर्वपेत् ।।

स्वयंकृतं च लवणं खादेत्स्नेहं फलोद्रवम् ।। ६ ।।

वर्जयेच्छेलुशिग्रू च कवकं पललं मधु ।।

मुन्यन्नमाश्विनेमासि त्यजेद्यत्पूर्वसंचितम् ।।७।।

ग्राम्याणि फलमूलानि फालजान्नं च संत्यजेत् ।।

दंतोलूखलको वा स्यादश्मकुट्टोथ वा भवेत् ।। ८ ।।

सद्यः प्रक्षालको वा स्यादथवा माससंचयी ।।

त्रिषड्द्वादशमासान्नफलमूलादिसंग्रही ।।९।।

नक्ताश्ये कांतराशी वा षष्ठकालाशनोपि वा ।।

चांद्रायणव्रती वा स्यात्पक्षभुग्वाथ मासभुक्।। ।।4.1.41.१०।।

वैखानस मतस्थस्तु फलमूलाशनोपि वा ।।

तपसा शोषयेद्देहं पितॄन्देवांश्च तर्पयेत् ।। ११ ।।

अग्निमात्मनि चाधाय विचरेदनिकेतनः ।।

भिक्षयेत्प्राणयात्रार्थं तापसान्वनवासिनः ।। १२ ।।

ग्रामादानीय वाश्नीयादष्टौ ग्रासान्वसन्वने ।।

इत्थं वनाश्रमी विप्रो ब्रह्मलोके महीयते ।। १३ ।।

अतिवाह्यायुषोभागं तृतीयमिति कानने ।।

आयुषस्तु तुरीयांशे त्यक्त्वा संगान्परिव्रजेत् ।। १४ ।।

ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि ।।

तथा यज्ञाननिष्ट्वा च मोक्षमिच्छन्व्रजत्यधः ।। १५ ।।

मनागपि न भूतानां यस्मादुत्पद्यते भयम् ।।

सर्वभूतानि तस्येह प्रयच्छंत्यभयं सदा ।। १५ ।।

एक एव चरेन्नित्यमनग्निरनिकेतनः ।।

सिद्ध्यर्थमसहायः स्याद्ग्राममन्नार्थमाश्रयेत् ।।१७।।

जीवितं मरणं वाथ नाभिकांक्षेत्क्वचिद्यतिः ।।

कालमेव प्रतीक्षेत निर्देशं भृतको यथा।।१८।।

सर्वत्र ममता शून्यः सर्वत्र समतायुतः ।।

वृक्षमूलनिकेतश्च मुमुक्षुरिह शस्यते ।।१९।।

ध्यानं शौचं तथा भिक्षा नित्यमेकांतशीलता ।।

यतेश्चत्वारिकर्माणि पंचमं नोपपद्यते ।। 4.1.41.२० ।।

वार्षिकांश्चतुरोमासान्विहरेन्न यतिः क्वचित् ।।

बीजांकुराणां जंतूनां हिंसा तत्र यतो भवेत् ।। २१ ।।

गच्छेत्परिहरन्जन्तून्पिबेत्कं वस्त्रशोधितम्।।

वाचं वदेदनुद्वेगां न क्रुध्येत्केनचित्क्वचित् ।। २२ ।।

चरेदात्मसहायश्च निरपेक्षो निराश्रयः ।।

नित्यमध्यात्मनिरतो नीचकेश नखो वशी ।। २३ ।।

कुसुंभवासा दंडाढ्यो भिक्षाशी ख्यातिवर्जितः ।।

अलाबुदारुमृद्वेणु पात्रं शस्तं न पंचमम् ।। २४ ।।

न ग्राह्यं तैजसं पात्रं भिक्षुकेण कदाचन ।।

वराटके संगृहीते तत्रतत्र दिनेदिने ।।२५।।

गोसहस्रवधं पापं श्रुतिरेषा सनातनी ।।

हृदि सस्नेह भावेन चेद्द्रक्षेत्स्त्रियमेकदा ।। २६ ।।

कोटिद्वयं ब्रह्मकल्पं कुंभीपाकी न संशयः ।।

एककालं चरेद्भैक्षं न कुर्यात्तत्र विस्तरम् ।। २७ ।।

विधूमेसन्न मुसले व्यंगारे भुक्तवज्जने ।।

वृत्ते शरावसंपाते भिक्षां नित्यं चरेद्यतिः ।। २८ ।।

अल्पाहारो रहःस्थायी त्त्विंद्रियार्थेष्वलोलुपः ।।

रागद्वेषविर्निर्मुक्तो भिक्षुर्मोक्षाय कल्पते ।। २९ ।।

आश्रमे तु यतिर्यस्य मुहूर्तमपि विश्रमेत् ।।

किं तस्यानेकतंत्रेण कृतकृत्यः स जायते ।। 4.1.41.३० ।।

संचितं यद्ग्रहस्थेन पापमामरणांतिकम् ।।

निर्धक्ष्यति हि तत्सर्वमेकरात्रोषितो यतिः ।।३१।।

दृष्ट्वा जराभिभवनमसह्यं रोगपीडितम् ।।

देहत्यागं पुनर्गर्भं गर्भक्लेशं च दारुणम् ।।३२।।

नानायोनि निवासं च वियोगं च प्रियैः सह ।।

अप्रियैः सह संयोगमधर्माद्दुःखसंभवम् ।। ३३ ।।

पुनर्निरयसंवासंनानानरकयातनाः ।।

कर्मदोषसमुद्भूता नृणांगतिरनेकधा ।। ३४ ।।

देहेष्वनित्यतां दृष्ट्वा नित्यता परमात्मनः ।।

कुर्वीत मुक्तये यत्नं यत्रयत्राश्रमे रतः ।। ३५ ।।

करपात्रीति विख्याता भिक्षापात्रविवर्जिता ।।

तेषां शतगुणं पुण्यं भवत्येव दिनेदिने ।। ३६ ।।

आश्रमांश्चतुरस्त्वेवं क्रमादासेव्य पंडितः ।।

निर्द्वंद्वस्त्यक्तसंगश्च ब्रह्मभूयाय कल्पते ।। ३७ ।।

असंयतः कुबुद्धीनामात्मा बंधाय कल्पते ।।

धीमद्भिः संयतः सोपि पदं दद्यादनामयम् ।।३८।।

श्रुति स्मृति पुराणं च विद्योपनिषदस्तथा ।।

श्लोकाः मंत्राणि भाष्याणि यच्चान्यद्वाङ्मयं क्वचित् ।। ३९ ।।

वेदानुवचनं ज्ञात्वा ब्रह्मचर्य तपो दमः ।।

श्रद्धोपवासः स्वातंत्र्यमात्मनोज्ञानहेतवः ।। 4.1.41.४० ।।

स हि सर्वैर्विजिज्ञास्य आत्मैवाश्रमवर्तिभिः ।।

श्रोतव्यस्त्वथ मंतव्यो द्रष्टव्यश्च प्रयत्नतः ।।४१।।

आत्मज्ञानेन मुक्तिः स्यात्तच्च योगादृते नहि।।

स च योगश्चिरं कालमभ्यासादेव सिध्यति ।। ४२ ।।

नारण्यसंश्रयाद्योगो न नानाग्रंथ चिंतनात्।।

न दानैर्न व्रतैर्वापि न तपोभिर्न वा मखैः ।। ४३ ।।

न च पद्मासनाद्योगो न वा घ्राणाग्रवीक्षणात् ।।

न शौचे न न मौनेन न मंत्राराधनैरपि ।। ४४ ।।

अभियोगात्सदाभ्यासात्तत्रैव च विनिश्चयात् ।।

पुनःपुनरनिर्वेदात्सिध्येद्योगो न चान्यथा ।। ४५ ।।

आत्मक्रीडस्य सततं सदात्ममिथुनस्य च ।।

आत्मन्येव सु तृप्तस्य योगसिद्धिर्न दूरतः ।। ४६ ।।

अत्रात्मव्यतिरेकेण द्वितीयं यो न पश्यति ।।

आत्मारामः स योगींद्रो ब्रह्मीभूतो भवेदिह ।। ४७ ।।

संयोगस्त्वात्ममनसोर्योग इत्युच्यते बुधैः ।।

प्राणापानसमायोगो योग इत्यपि कैश्चन ।। ४८ ।।

विषयेंद्रिय संयोगो योग इत्यप्यपंडितैः ।।

विषयासक्तचित्तानां ज्ञानं मोक्षश्च दूरतः ।। ४९ ।।

दुर्निवारा मनोवृत्तिर्यावत्सा न निवर्तते ।।

किं वदंत्यपियोगस्य तावन्नेदीयसी कुतः ।। 4.1.41.५० ।।

वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञे परमात्मनि ।।

एकीकृत्य विमुच्येत योगयुक्तः स उच्यते ।। ५१ ।।

बहिर्मुखानि सर्वाणि कृत्वा खान्यंतराणि वै ।।

मनस्येवेंद्रियग्रामं मनश्चात्मनि योजयेत् ।। ५२ ।।

सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् ।।

एतद्ध्यानं च योगश्च शेषोन्यो ग्रंथविस्तरः ।। ५३ ।।

यन्नास्ति सर्वलोकेषु तदस्तीति विरुध्यते ।।

कथ्यमानं तदन्यस्य हृदयेनावतिष्ठते ।। ५४ ।।

स्वसंवेद्यं हि तद्ब्रह्म कुमारी स्त्री सुखं यथा ।।

अयोगी नैव तद्वेत्ति जात्यंध इव वर्तिकाम् ।। ५५ ।।

नित्याभ्यसनशीलस्य स्वसंवेद्यं हि तद्भवेत् ।।

तत्सूक्ष्मत्वादनिर्देश्यं परं ब्रह्म सनातनम् ।। ५६ ।।

क्षणमप्येकमुदकं यथा न स्थिरतामियात् ।।

वाताहतं यथा चित्तं तस्मात्तस्य न विश्वसेत् ।। ५७ ।।

अतोऽनिलं निरुंधीत चित्तस्य स्थैर्य हेतवे ।।

मरुन्निरोधनार्थाय षडंगं योगमभ्यसेत् ।। ५८ ।।

आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ।।

ध्यानं समाधिरेतानि योगांगानि भवंति षट् ।। ५९ ।।

आसनानीह तावंति यावंत्यो जीवयो नयः ।।

सिद्धासनमिदं प्रोक्तं योगिनो योगसिद्धिदम्।।4.1.41.६०।।

एतदभ्यसनान्नित्यं वर्ष्मदार्ढ्यमवाप्नुयात्।। ।। ६१ ।।

दक्षिणं चरणं न्यस्य वामोरूपरि योगवित् ।।

याम्योरूपरि वामं च पद्मासनमिदं विदुः ।। ६२ ।।

कराभ्यां धारयेत्पश्चादंगुष्ठौ दृढबंधवित्।।

भवेत्पद्मासनादस्मादभ्यासाद्दृढविग्रहः ।। ६३ ।।

अथवा ह्यासने यस्मिन्सुखमस्योपजायते ।।

स्वस्तिकादौ तदध्यास्य योगं युंजीत योगवित् ।। ६४ ।।

न तोयवह्निसामीप्ये न जीर्णारण्यगोष्ठयोः ।।

न दंशमशकाकीर्णे न चैत्ये न च चत्वरे ।। ६९ ।।

केशभस्मतुषांगार कीकसादि प्रदूषिते ।।

नाभ्यसेत्पूतिगंधादौ न स्थाने जनसंकुले ।।६६ ।।

सर्वबाधाविरहिते सर्वेंद्रियसुखावहे ।।

मनःप्रसादजनने स्रग्धूपामोदमोदिते ।। ६७ ।।

नातितृप्तः क्षुधार्तो न न विण्मूत्रप्रबाधितः ।।

नाध्वखिन्नो न चिंतार्तो योगं युंजीत योगवित् ।। ।। ६८ ।।

ऊरुस्थोत्तानचरणः सव्येन्यस्योत्तरं करम् ।।

उत्तानं किंचिदुन्नम्य वक्त्रं विष्टभ्य चोरसा ।। ६९ ।।

निमीलिताक्षः सत्त्वस्थो दंतैर्दंतान्न संस्पृशेत् ।।

तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः ।। 4.1.41.७० ।।

सन्नियम्येंद्रियग्रामं नातिनीचोच्छ्रितासनः ।।

मध्यमं चोत्तमं चाथ प्राणायाममुपक्रमेत् ।। ७१ ।।

चलेऽनिले चलं सर्वं निश्चले तत्र निश्चलम् ।।

स्थाणुत्वमाप्नुयाद्योगी ततोऽनिलनिरुंधनात् ।। ७२ ।।

यावद्देहे स्थितः प्राणो जीवितं तावदुच्यते ।।

निर्गते तत्र मरणं ततः प्राणं निरुंधयेत् ।। ७३ ।।

यावद्बद्धो मरुद्देहे यावच्चेतो निराश्रयम् ।।

यावद्दृष्टिर्भुवोर्मध्ये तावत्कालभयं कुतः ।।७४।।

कालसाध्वसतोब्रह्मा प्राणायामं सदाचरेत् ।।

योगिनः सिद्धिमापन्नाः सम्यक्प्राणनियंत्रणात् ।। ७५ ।।

मंदो द्वादशमात्रस्तु मात्रा लघ्वक्षरा मता ।।

मध्यमो द्विगुणः पूर्वादुत्तमस्त्रिगुणस्ततः ।।७६।।

स्वेदं कंपं विषादं च जनयेत्क्रमशस्त्वसौ ।।

प्रथमेन जयेत्स्वेदं द्वितीयेन तु वेपथुम् ।।७७।।

विषादं हि तृतीयेन सिद्धः प्राणोथ योगिनः ।।

भवेत्क्रमात्सन्निरुद्धः सिद्धः प्राणोथ योगिना ।।

क्रमेण सेव्यमानोसौ नयते यत्र चेच्छति ।। ।। ७८ ।।

हठान्निरुद्धप्राणोयं रोमकूपेषु निःसरेत् ।।

देहंविदारयत्येष कुष्ठादिजनयत्यपि ।। ७९ ।।

तत्प्रत्याययितव्योसौ क्रमेणारण्यहस्तिवत् ।।

वन्यो गजो गजारिर्वा क्रमेण मृदुतामियात् ।। 4.1.41.८० ।।

करोति शास्तृनिर्देशं न च तं परिलंघयेत् ।।

तथा प्राणो हदिस्थोयं योगिनाक्रमयोगतः ।।

गृहीतः सेव्यमानस्तु विश्रंभमुपगच्छति ।। ८१ ।।

षट्त्रिंशदंगुलो हंसः प्रयाणं कुरुते बहिः ।।

सव्यापसव्यमार्गेण प्रयाणात्प्राण उच्यते ।। ८२ ।।

शुद्धिमेति यदा सर्वं नाडीचक्र मनाकुलम् ।।

तदैव जायते योगी क्षमः प्राणनिरोधने ।। ८३ ।।

दृढासनो यथाशक्ति प्राणं चंद्रेण पूरयेत् ।।

रेचयेदथ सूर्येण प्राणायामोयमुच्यते ।। ८४ ।।

स्रवत्पीयूषधारौघं ध्यायंश्चंद्रसमन्वितम् ।।

प्राणायामेन योगींद्रः सुखमाप्नोति तत्क्षणात् ।। ८५ ।।

रविणा प्राणमाकृष्य पूरयेदौदरीं दरीम् ।।

कुंभयित्वा शनैः पश्चाद्योगी चंद्रेण रेचयेत् ।। ८६ ।।

ज्वलज्वलनपुंजाभं शीलयन्नुष्मगुं हृदि ।।

अनेन याम्यायामेन योगींद्रः शर्मभाग्भवेत् ।। ८७ ।।

इत्थं मासत्रयाभ्यासादुभयायामसेवनात् ।।

शुद्धनाडीगणो योगी सिद्धप्राणोभिधीयते ।। ८८ ।।

यथेष्टं धारणं वायोरनलस्य प्रदीपनम् ।।

नादाभिव्यक्तिरारोग्यं भवेन्नाडीविशोधनात् ।। ८९ ।।

प्राणोदेहगतोवायुरायामस्तन्निबंधनम् ।।

एकश्वासमयी मात्रा प्राणायामो निरुच्यते ।। 4.1.41.९० ।।

प्राणायामेऽधमे घर्मः कंपो भवति मध्यमे ।।

उत्तिष्ठेदुत्तमे देहो बद्धपद्मासनो मुहुः ।। ९१ ।।

प्राणायामैर्दहेद्दोषान्प्रत्याहारेण पातकम् ।।

मनोधैर्यं धारणया ध्यानेनेश्वरदर्शनम् ।।९२।।

समाधिना लभेन्मोक्षं त्यक्त्वा धर्मं शुभाशुभम् ।।

आसनेन वपुर्दार्ढ्यं षडंगमिति कीर्तितम् ।। ९३ ।।

प्राणायामद्विषट्केन प्रत्याहार उदाहृतः ।।

प्रत्याहारैर्द्वादशभिर्धारणा परिकीर्तिता ।। ९४ ।।

भवेदीश्वरसंगत्यै ध्यानं द्वादशधारणम् ।।

ध्यानद्वादशकेनैव समाधिरभिधीयते ।। ९५ ।।

समाधेः परतो ज्योतिरनंतं स्वप्रकाशकम् ।।

तस्मिन्दृष्टे क्रियाकांडं यातायातं निवर्तते ।। ९६ ।।

पवने व्योमसंप्राप्ते ध्वनिरुत्पद्यते महान् ।।

घंटादीनां प्रवाद्यानां ततः सिद्धिरदूरतः ।। ९७ ।।

प्राणायामेन युक्तेन सर्वव्याधिक्षयोभवेत् ।।

अयुक्ताभ्यासयोगेन सर्वव्याधिसमुद्भवः ।। ९८ ।।

हिक्का श्वासश्च कासश्च शिरः कर्णाक्षिवेदनाः ।। .

भवंति विविधा दोषाः पवनस्य व्यतिक्रमात् ।। ९९ ।।

युक्तं युक्तं त्यजेद्वायुं युक्तंयुक्तं च पूरयेत् ।।

युक्तंयुक्तं च बध्नीयादित्थं सिध्यति योगवित् ।। 4.1.41.१०० ।।

इंद्रियाणां हि चरतां विषयेषु यदृच्छया ।।

यत्प्रत्याहरणं युक्त्या प्रत्याहारः स उच्यते ।। १ ।।

प्रत्याहरति यः खानि कूर्मोंगानीव सर्वतः ।।

प्रत्याहृति विधानेन स स्याद्विगतकल्मषः ।। २ ।।

नाभिदेशे वसेद्भानुस्तालुदेशे च चंद्रमाः ।।

वर्षत्यधोमुखश्चंद्रो ग्रसेदूर्ध्वमुखो रविः ।। ३ ।।

करणं तच्च कर्तव्यं येन सा प्राप्यते सुधा ।।

ऊर्ध्वनाभिरधस्तालुरूर्ध्वं भानुरधःशशी ।।

करणं विपरीताख्यमभ्यासादेव जायते ।। ४ ।।

काकचंचुवदास्येन शीतलं शीतलं पिबेत् ।।

प्राणं प्राणविधानज्ञो योगी भवति निर्जरः ।।५।।

रसनां तालुविवरे निधायोर्ध्वमुखोऽमृतम् ।।

धयन्निजर्रतां गच्छेदाषण्मासान्न संशयः ।। ६ ।।

ऊर्ध्वजिह्वः स्थिरो भूत्वा सोमपानं करोति यः ।।

मासार्धेन न संदेहो मृत्युं जयति योगवित् ।। ७ ।।

संपीड्य रसनाग्रेण राजदंतबिलं महत् ।।

ध्यात्वा सुधामयीं देवीं षण्मासेन कविर्भवेत् ।। ८ ।।

अमृतापूर्णदेहस्य योगिनो द्वित्रिवत्सरात् ।।

ऊर्ध्वं प्रवर्तते रेतो ह्यणिमादिगुणोदयम्।। ९ ।।

नित्यं सोमकलापूर्णं शरीरं यस्य योगिनः ।।

तक्षकेणापि दष्टस्य विषं तस्य न सर्पति।।4.1.41.११०।।

आसनेन समायुक्तः प्राणायामेन संयुतः ।।

प्रत्याहारेण संपन्नो धारणामथ चाभ्यसेत् ।। ११ ।।

हृदये पंचभूतानां धारणां यः पृथक्पृथक् ।।

मनसो निश्चलत्वेन धारणा साभिधीयते ।। १२ ।।

thumb|महाभत

हरितालनिभां भूमिं स लकारां सवेधसम् ।।

चतुष्कोणां हृदि ध्यायेदेषा स्यात्क्षितिधारणा ।। १३ ।।

कंठेंऽबुतत्त्वमर्धेंदुनिभं विष्णुसमन्वितम् ।।

वकारबीजं कुंदाभं ध्यायन्नंबुजयेदिति ।। १४ ।।

तालुस्थमिंद्रगोपाभं त्रिकोणं रेफसंयुतम् ।।

रुद्रेणाधिष्ठितं तेजो ध्यात्वा वह्निं जयेदिति ।। १५ ।।

वायुतत्त्वं भ्रुवोर्मध्ये वृत्तमंजनसन्निभम् ।।

यंबीजमीशदैवत्यं ध्यायन्वायुं जयेदिति ।। १६ ।।

आकाशं च मरीचिवारिसदृशं यद्ब्रह्मरंध्रस्थितं यन्नाथेन सदाशिवेन सहितं शांतं हकाराक्षरम् ।।

प्राणं तत्र विनीय पंचघटिकं चिंतान्वितं धारयेदेषा मोक्षकपाटपाटनपटुः प्रोक्ता नभोधारणा ।। १७ ।।

स्तंभनीप्लावनीचैव दहनीभ्रामणी तथा ।।

शमनी च भवंत्येता भूतानां पंच धारणाः ।। १८ ।।

ध्यै चिंतायां स्मृतो धातुश्चिंता तत्त्वे सुनिश्चला ।।

एतद्ध्यानमिह प्रोक्तं सगुणं निर्गुणं द्विधा ।। १९ ।।

सगुणं वणर्भेदेन निर्गुणं केवलं मतम् ।।

समंत्रं सगुणं विद्धि निर्गुणं मंत्रवर्जितम् ।। 4.1.41.१२० ।।

अंतश्चेतो बहिश्चक्षुरवस्थाप्य सुखासनम्।।

समत्वं च शरीरस्य ध्यानमुद्रातिसिद्धिदा ।। २१ ।।

नाश्वमेधेन तत्पुण्यं न च वै राजसूयतः ।।

यत्पुण्यमेकध्यानेन लभेद्योगी स्थिरासनः ।। २२ ।।

शब्दादीनां च तन्मात्रा यावत्कर्णादिषु स्थिता ।।

तावदेव स्मृतं ध्यानं स्यात्समाधिरतः परम् ।। २३ ।।

धारणा पंचनाडीका ध्यानं स्यात्षष्टिनाडिकम् ।।

दिनद्वाशकेन स्यात्समाधिरिह भण्यते ।। २४ ।।

जलसैंधवयोः साम्यं यथा भवति योगतः ।।

तथात्ममनसोरैक्यं समाधिरिह भण्यते ।। २५ ।।

यदा संक्षीयते प्राणो मानसं च प्रलीयते ।।

तदा समरसत्वं यत्स समाधिरिहोच्यते ।। २६ ।।

यत्समत्वं द्वयोरत्र जीवात्मपरमात्मनोः ।।

सनष्टसर्वसंकल्पः समाधिरभिधीयते ।। २७ ।।

नात्मानं न परं वेत्ति न शीतं नोष्ममेव च ।।

समाधियुक्तो योगींद्रो न सुखं न सुखेतरत् ।। २८ ।।

काल्यते नैव कालेन लिप्यते नैव कर्मणा ।।

भिद्यते न च शस्त्रास्त्रै योगी युक्तः समाधिना ।। २९ ।।

युक्ताहारविहारश्च युक्तचेष्टो हि कर्मसु ।।

युक्तनिद्रावबोधश्च योगी तत्त्वं प्रपश्यति ।। 4.1.41.१३० ।।

तत्त्वविज्ञानमानंदं ब्रह्म ब्रह्मविदो विदुः ।।

हेतुदृष्टांत रहितं वाङ्मनोभ्यामगोचरम् ।। ३१ ।।

तत्र योगी निरालंबे निरातंके निरामये ।।

षडंगयोगविधिना परेब्रह्मणि लीयते।।३२।।

यथा घृते घृतं क्षिप्तं घृतमेव हि तद्भवेत् ।।

क्षीरेक्षीरं तथा योगी तत्र तन्मयतां व्रजेत् ।। ३३ ।।

अनसंजातपानीयैर्विदध्यादंगमर्दनम् ।।

त्यजेत्कदुष्णं लवणं क्षीरभोजी सदा भवेत् ।। ३४ ।।

ब्रह्मचारी जितक्रोधो जितलोभो विमत्सरः ।।

अब्दमित्थं सदाभ्यासात्स योगीति निगद्यते ।। ३५ ।।

महामुद्रां नभोमुद्रामुड्डीयानं जलंधरम् ।।

मूलबंधं तु यो वेत्ति स योगी योगसिद्धिभाक् ।। ३६ ।।

शोधनं नाडीजालस्य घटनं चंद्रसूर्ययोः ।।

रसानां शोषणं सम्यङ्महामुद्राभिधीयते ।। ३७ ।।

योनिं वामांघ्रिणाऽऽपीड्य कृत्वा वक्षस्थले हनुम् ।।

हस्ताभ्यां प्रसृतं पादं धारयेद्दक्षिणं चिरम् ।। ३८ ।।

प्राणेन कुक्षिमापूर्य चिरं संरेचयेच्छनैः ।।

एषा प्रोक्ता महामुद्रा महाघौघविनाशिनी ।। ३९ ।।

चंद्रांगे तु समभ्यस्य सूर्यांगे पुनरभ्यसेत्।।

यावत्तुल्या भवेत्संख्या ततो मुद्रां विसर्जयेत् ।। 4.1.41.१४० ।।

न हि पथ्यमपथ्यं वा रसाः सर्वेपि नीरसाः ।।

अपि घोरं विषं पीतं पीयूषमिवजीर्यति ।। ४१ ।।

क्षयकुष्ठगुदावर्त गुल्माजीर्णपुरोगमाः ।।

तस्य दोषाः क्षयं यांति महामुद्रां च योभ्यसेत् ।। ४२ ।।

कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ।।

भ्रुवोरंतर्गता दृष्टिर्मुद्रा भवति खेचरी ।। ४३ ।।

न पीड्यते शरौघेण न च लिप्येत कर्मणा ।।

बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ।। ४४ ।।

चित्तं चरति खे यस्मा जिह्वा चरति खे गता ।।

तेनैषा खेचरी नाम मुद्रा सिद्धैर्निषेविता ।। ४५ ।।

यावद्बिंदुः स्थितो देहे तावन्मुत्युभयं कुतः ।।

यावद्बद्धा नभोमुद्रा तावद्बिंदुर्न गच्छति ।। ४६ ।।

उड्डीनं कुरुते यस्मादहोरात्रं महाखगः ।।

उडीयानं ततः प्रोक्तं तत्र बंधो विधीयते ।। ४७ ।।

जठरे पश्चिमं तानं नाभेरूर्ध्वं च धारयेत् ।।

उङ्डीयानो ह्ययं बंधो मृत्योरपि भयं त्यजेत् ।। ४८ ।।

बध्नाति हि शिराजालमधोगामि नभोजलम् ।।

एष जालंधरो बंधः कंठे दुःखौघनाशनः ।। ४९ ।।

जालंधरे कृते बंधे कंठसकोचलक्षणे ।।

न पीयूषं पतत्यग्नौ न च वायुः प्रधावति ।।4.1.41.१५०।।

पार्ष्णिभागेन संपीड्य योनिमाकुंचयेद्गुदम्।।

अपानमूर्ध्वमाकृष्य मूलबंधो विधीयते।। ५१ ।।

अपानप्राणयोरैक्ये क्षयो मूत्रपुरीषयोः ।।

युवा भवति वृद्धोपि सततं मूलबंधनात् ।। ५२ ।।

प्राणापानवशो जीवः ऊर्द्ध्वाधः परिधावति ।।

वामदक्षिणमार्गेण चंचलो न स्थितिं लभेत् ।। ५३।।

गुणबद्धो यथा पक्षी गतोप्याकृष्यते पुनः ।।

गुणैर्बद्धस्तथा जीवः प्राणायामेन कृष्यते ।। ५४ ।।

अपानः कर्षति प्राणं प्राणोपानं च कर्षति ।।

ऊर्ध्वाधः संस्थितावेतौ संयोजयति योगवित् ।। ५५ ।।

हकारेण बहिर्याति सकारेण विशेत्पुनः।।

हंसहंसेत्यतो मंत्रं जीवो जपति सर्वदा ।। ५६ ।।

षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः ।।

एतत्संख्यान्वितं मंत्रं जीवो जपति सर्वदा ।। ।। ५७ ।।

अजपा नाम गायत्री योगिनां मोक्षदायिनी ।।

अस्याः संकल्पमात्रेण नरः पापैः प्रमुच्यते ।। ५८ ।।

अंतराया भवंतीह योगिनो योगहानिदाः ।।

श्रूयते दूरगा वार्ता दूरस्थं दृश्यते पुरः ।। ५९ ।।

योजनानां शतं यातुं शक्तिःस्यान्निमिषार्धतः।।

अचिंतितानि शास्त्राणि कंठपाठी भवंति हि ।।4.1.41.१६०।।

धारणाश क्तिरत्युग्रा महाभारो लघुर्भवेत् ।।

क्षणं कृशः क्षणं स्थूलः क्षणमल्पः क्षणं महान् ।। ६१ ।।

परकायं प्रविशति तिरश्चां वेत्ति भाषितम् ।।

दिव्यगंधं तनौ धत्ते दिव्यां वाणीं प्रवक्ति च ।। ६२ ।।

प्रार्थ्यते दिव्यकन्याभिर्दिव्यं धारयते वपुः ।।

इत्यादयोंतरायाः स्युर्योगसंसिद्धिसूचकाः ।। ६३ ।।

यद्येभिरंतरायैर्न क्षिप्यतेऽस्येह मानसम् ।।

तदग्रे तत्समाप्नोति पदं ब्रह्मादि दुर्लभम् ।। ६४ ।।

यत्प्राप्य न निवर्तेत यत्प्राप्य न च शोचति ।।

तल्लभ्यते षडंगेन योगेन कलशोद्भव ।। ६५ ।।

एकेन जन्मना योगः कथमित्थं प्रसिध्यति ।।

ऋते च योगसंसिद्धेः कथं मुक्तिरिहाप्यते ।। ६६ ।।

उभे एव हि निर्वाणवर्त्मनी किल कुंभज ।।

किं वा काश्यां तनुत्यागः किं वा योगोयमीदृशः ।।६७।।

चंचलेंद्रियवृत्तित्वात्कलिकल्मषजृंभणात् ।।

अल्पायुषां तथा नृणां क्वेह योग महोदयः ।।६८।।

अतएव हि जंतूनां महोदयपदप्रदः ।।

सदैव स दयावार्धिः काश्यां विश्वेश्वरः स्थितः ।। ६९ ।।

काश्यां सुखेन कैवल्यं यथालभ्येत जंतुभिः ।।

योगयुक्त्याद्युपायैश्च न तथान्यत्र कुत्रचित् ।। 4.1.41.१७० ।।

काश्यां स्वदेहसंयोगः सम्यग्योग उदाहृतः ।।

मुच्यते नेह योगेन क्षिप्रमन्येन केनचित् ।। ७१ ।।

विश्वेश्वरो विशालाक्षी द्युनदीकालभैरवः ।।

श्रीमान्ढुंढिर्दंडपाणिः षडंगो योग एष वै ।। ७२ ।।

एतत्षडंगयो योगं नित्यं काश्यां निषेवते ।।

संप्राप्य योगनिद्रां स दीर्घाममृतमश्नुते ।। ७३ ।।

ओंकारः कृत्तिवासाश्च केदारश्च त्रिविष्टपः ।।

वीरेश्वरोथविश्वेशः षडंगोयमिहापरः ।। ७४ ।।

पादोदकासिसंभेद ज्ञानोदमणिकर्णिकाः ।।

षडंगोयं महायोगो ब्रह्मधर्मह्रदावपि ।। ७५ ।।

षडंगसेवनादस्माद्वाराणस्यां नरोत्तम ।।

न जातु जायते जंतुर्जननी जठरे पुनः ।। ७६ ।।

गंगास्नानं महामुद्रा महापातकनाशनी ।।

एतन्मुद्राकृताभ्यासोप्यमृतत्वमवाप्नुयात् ।।७७।।

काशीवीथिषु संचारो मुद्रा भवति खेचरी।।

खेचरो जायते नूनं खेचर्या मुद्रयानया ।।७८।।

उड्डीय सर्वतो देशाद्यानं वाराणसीं प्रति ।।

उङ्डीयानो महाबंध एष मुक्त्यै प्रकल्पते ।। ७९ ।।

जलस्य धारणं मूर्ध्नि विश्वेश स्नानजन्मनः ।।

एष जालंधरो बंधः समस्तसुरदुर्लभः ।। 4.1.41.१८० ।।

वृतो विघ्नशतेनापि यन्न काशीं त्यजेत्सुधीः ।।

मूलबंधः स्मृतो ह्येष दुःखमूलनिकृंतनः ।। ८१ ।।

इति योगः समाख्यातो मया ते द्विविधो मुने ।।

सषडंगः समुद्रश्च मुक्तये शंभुभाषितः ।। ८२ ।।

यावन्नेंद्रिय वैक्लव्यं यावद्व्याधिर्न बाधते ।।

यावत्कालविलंबोस्ति तावद्योगरतो भवेत् ।। ८३ ।।

उभयोर्योगयोर्मध्ये काशीयोगोयमुत्तमः ।।

काशीयोगं समभ्यस्य प्राप्नुयाद्योगमुत्तमम् ।। ८४ ।।

आधिव्याधिसहायिन्या जरया मृत्युलिंगया ।।

कालं निकटतो ज्ञात्वा काशीनाथं समाश्रयेत ।। ८५ ।।

काशीनाथं समाश्रित्य कुतः कालभयं नृणाम् ।।

क्रुद्धोपि जीवहृत्कालस्तच्च काश्यां सुमंगलम् ।। ८६ ।।

आतिथ्येनेहसियथा प्रतीक्षेतातिथिं कृती ।।

काश्यां कालं तथायांतं भाग्यवान्संप्रतीक्षते ।। ८७ ।।

कलिः कालः कृतंकर्म त्रिकंटकमितीरितम् ।।

एतत्त्रयं न प्रभवेदानंदवनवासिनाम् ।।८८।।

अन्यत्रातर्कितः कालः कलयिष्यत्यसंशयम् ।।

कालादभयमिच्छेच्चेत्ततः काशीं समाश्रयेत् ।। ८९ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे योगाख्यानं नामैकचत्वारिंशोऽध्यायः ।।४१ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 42

।। अगस्तिरुवाच ।। ।।

कथं निकटतः कालो ज्ञायते हरनंदन ।।

तानि चिह्नानि कतिचिद्ब्रूहि मे परिपृच्छतः ।। १ ।।

।। कुमार उवाच ।। ।।

वदामि कालचिह्नानि जायंते यानि देहिनाम् ।।

मृत्यौ निकटमापन्ने मुने तानि निशामय ।। २।।

याम्यनासापुटे यस्य वायुर्वाति दिवानिशम् ।।

अखंडमेव तस्यायुः क्षयत्यब्दत्रयेण हि ।। ३ ।।

अहोरात्रं त्र्यहोरात्रं रविर्वहति संततम् ।।

अब्दमेकं च तस्येह जीवनावधिरुच्यते ।। ४ ।।

वहेन्नासापुटयुगे दशाहानि निरंतरम् ।।

वातश्चेत्सह संक्रांतिस्तया जीवेद्दिनत्रयम् ।। ५ ।।

नासावर्त्म द्वयं हित्वा मातरिश्वा मुखाद्वहेत् ।।

शंसेद्दिनद्वयादर्वाक्प्रयाणं तस्य चाध्वनि ।। ६ ।।

अकस्मादेवयत्काले मृत्युः सन्निहितो भवेत् ।।

चिंतनीयः प्रयत्नेन स कालो मृत्युभीरुणा ।। ७ ।।

सूर्ये सप्तमराशिस्थे जन्मर्क्षस्थे निशाकरे ।।

पौष्णः स कालो द्रष्टव्यो यदा याम्ये रविर्वहेत् ।। ८ ।।

अकस्माद्वीक्षते यस्तु पुरुषं कृष्णपिंगलम् ।।

तस्मिन्नेव क्षणेऽरूपं स जीवेद्वत्सरद्वयम् ।। ९ ।।

यस्य बीजं मलं मूत्रं क्षुतं मूत्रं मलं तु वा ।।

इहैकदा पतेद्यस्य अब्दं तस्यायुरिष्यते ।। 4.1.42.१० ।।

इंद्रनीलनिभं व्योम्नि नागवृंदं य ईक्षते ।।

इतस्ततः प्रसृमरं षण्मासं न स जीवति ।।।१।।

व्यभ्रेह्नि वारिपूर्णास्यः पृष्ठीकृत्य दिवाकरम् ।।

फूत्कृत्याश्विंद्रचापं न पश्येत्षण्मासजीवितः ।। १२ ।।

अरुंधतीं ध्रुवं चैव विष्णोस्त्रीणिपदानि च ।।

आसन्नमृत्युर्नोपश्येच्चतुर्थं मातृमंडलम् ।।१३।।

अरुंधती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते ।।

विष्णोः पदानि भ्रूमध्ये नेत्रयोर्मातृमंडलम् ।। १४ ।।

वेत्ति नीलादिवर्णस्य कटम्लादिरसस्यहि ।।

अकस्मादन्यथाभावं षण्मासेन स मृत्युभाक् ।।१५।।

षण्मासमृत्योर्मर्त्यस्य कंठोष्ठरसना रदाः ।।

शुष्यंति सततं तद्वद्विच्छायास्तालुपंचमाः ।।१६।।

रेतः करजनेत्रांता नीलिमानं भजंति चेत् ।।

तर्हि कीनाशनगरीं षष्ठेमासि व्रजेन्नरः ।। १७ ।।

संप्रवृत्ते निधुवने मध्येंते क्षौति चेन्नरः ।।

निश्चितं पंचमे मासि धर्मराजातिथिर्भवेत् ।। १६ ।।

द्रुतमारुह्यशरठस्त्रिवर्णो यस्य मस्तके ।।

प्रयाति याति तस्यायुः षण्मासेन परिक्षयम् ।। १९ ।।

सुस्नातस्यापि यस्याशु हृदयं परिशुष्यति ।।

चरणौ च करौ वापि त्रिमासं तस्य जीवितम् ।। 4.1.42.२० ।।

प्रतिबिंबं भवेद्यस्य पदखंडपदाकृति ।।

पांसौ वा कर्दमे वापि पंचमासान्स जीवति ।। २१ ।।

छाया प्रकंपते यस्य देहबंधेपि निश्चले ।।

कृतांतदूता बध्नंति चतुर्थे मासि तं नरम् ।। २२ ।।

निजस्य प्रतिबिंबस्य नीराज्यमुकुरादिषु ।।

उत्तमांगं न यः पश्येत्समासेन विनश्यति ।। २३ ।।

मतिर्भ्रश्येत्स्खलेद्वाणी धनुरैद्रं निरक्षितै ।।

रात्रौ चंद्रद्वयं चापि दिवा द्वौ च दिवाकरौ ।। २४ ।।

दिवा च तारकाचक्रं रात्रौ व्योमवितारकम् ।।

युगपच्च चतुर्दिक्षु शाक्रं कोदंडमंडलम् ।। २५ ।।

भूरुहे भूधराग्रे च गंधर्वनगरालयम् ।।

दिवापिशाच नृत्यं च एते पंचत्वहेतवः ।।२६।।

सर्वेष्वेतेषु चिह्नेषु यद्येकमपि वीक्षते ।।

तदा मासावधिं मृत्युः प्रतीक्षेत न चाधिकम् ।। २७ ।।

करावरुद्ध श्रवणः शृणोति न यदा ध्वनिम् ।।

स्थूलः कृशः कृशस्थूलस्तदामासान्निवर्तते ।। २८ ।।

यः पश्येदात्मनश्छायां दक्षिणाशा समाश्रिताम् ।।

दिनानि पंच जीवित्वा पंचत्वमुपयाति सः ।। २९ ।।

प्रोह्यते भक्ष्यते वापि पिशाचासुरवायसैः ।।

भूतैः प्रेतैः श्वभिर्गृध्रैर्गोमायुखरसूकरैः ।। 4.1.42.३० ।।

रासभैः करभैः कीशैः श्वेनैरश्वतरैर्बकैः ।।

स्वप्ने स जीवितं त्यक्त्वा वर्षांते यममीक्षते ।। ३१ ।।

गंधपुष्पांशुकैः शोणैः स्वां तनुं भूषितां नरः ।।

यः पश्येत्स्वप्नसमये सोऽष्टौ मासाननित्यहो ।। ३२ ।।

पांसुराशि च वल्मीकं यूपदंडमथापि वा ।।

योधिरोहति वै स्वप्ने स षष्ठे मासि नश्यति ।। ३३ ।।

रासभारूढमात्मानं तैलाभ्यक्तं च मुंडितम् ।।

नीयमानं यमाशां यः स्वप्ने पश्येत्स्वपूर्वजान् ।। ३४ ।।

स्वमौलौ स्वतनौ वापि यः पश्येत्स्वप्नगो नरः ।।

तृणानि शुष्ककाष्ठानि षष्ठे मासि न तिष्ठति ।। ३५ ।।

लोहदंडधरं कृष्णं पुरुषं कृष्णवाससम् ।।

स्वयं योग्रे स्थितं पश्येत्स त्रीन्मासान्न लंघयेत् ।। ३६ ।।

काली कुमारी यं स्वप्ने बद्नीयाद्बाहु पाशकैः ।।

स मासेन समीक्षेत नगरींशमनोषिताम् ।। ३७ ।।

नरो यो वानरारूढो यायात्प्राचीदिशं स्वपन् ।।

दिनैः स पंचभिरेव पश्येत्संयमिनीं पुरीम् ।।३८।।

कृपणोपि वदान्यः स्याद्वदान्यः कृपणो यदि ।।

प्रकृतेर्विकृतिश्चेत्स्यात्तदा पंचत्वमृच्छति ।।३९।।

एतानि कालचिह्नानि संत्यन्यानि बहून्यपि ।।

ज्ञात्वाभ्यसेन्नरो योगमथवाकाशिकां श्रयेत् ।। 4.1.42.४० ।।

न कालवंचनोपायं मुनेन्यमवयाम्यहम् ।।

विना मृत्युजयं काशीनाथं गर्भावरोधकम् ।। ४१ ।।

तावद्गर्जंति पापानि तावद्गर्जेद्यमो नृपः ।।

यावद्विश्वेशशरणं नरो न निरतो व्रजेत् ।। ४२ ।।

प्राप्तविश्वेश्वरावासः पीतोत्तरवहापयाः ।।

स्पृष्ट विश्वेशसल्लिंगः कश्च याति न वंद्यताम् ।। ४३ ।।

करिष्येत्कुपितःकालः किंकाशीवासिनां नृणाम् ।।

काले शिवः स्वयं कर्णे यत्र मंत्रोपदेशकः ।। ४४ ।।

यथा प्रयाति शिशुता कौमारं च यथा गतम् ।।

सत्वरं गत्वरं तद्वद्यौवनं चापि वार्धकम ।। ४५ ।।

यावन्नहि जराक्रांतिर्यावन्नेंद्रियवैक्लवम् ।।

तावत्सर्वं फल्गुरूपं हित्वा काशीं श्रयेत्सुधीः ।। ४६ ।।

अन्यानि काललक्ष्माणि तिष्ठंतु कलशोद्भव ।।

जरैव प्रथमं लक्ष्म चित्रं तत्रापि भीर्नहि ।। ४७ ।।

पराभूतो हि जरया सर्वैश्च परिभूयते ।।

हृततारुण्यमाणिक्यो धनहीनः पुमानिव ।। ४८ ।।

सुतावाक्यं न कुर्वंति पत्नी प्रेमापि मुंचति ।।

बांधवा नैव मन्यंते जरसाश्लेषितं नरम् ।। ४९ ।।

आश्लिष्टं जरया दृष्ट्वा परयोषिद्विशंकिता ।।

भवेत्पराङ्मुखी नित्यं प्रणयिन्यपि कामिनी ।। 4.1.42.५० ।।

न जरा सदृशो व्याधिर्न दुःखं जरया समम् ।।

कारयित्र्यपमानस्य जरैव मरणं नृणाम् ।। ५१ ।।

न जीयते तथा कालस्तपसा योगयुक्तिभिः ।।

यथा चिरेणकालेन काशीवासाद्विजीयते ।। ५२ ।।

विनायज्ञैर्विनादानैर्विना व्रतजपादिभिः ।।

विनातिपुण्यसंभारैः कः काशीं प्राप्तुमीहते ।। ५३ ।।

काशीप्राप्तिरयं योगःकाथीप्राप्तिरिदं तपः ।।

काशीप्राप्तिरिदं दानं काशीप्राप्तिः शिवैकता ।। ५४ ।।

कः कलिकोथवा कालः का जरा किं च दुष्कृतम् ।।

का रुजः केंतराया वा श्रिता वाराणसी यदि ।। ५५ ।।

कलिस्तानेव बाधेत कालस्तांश्च जिघांसति ।। ५६।।

एनांसि तांश्च बाधंते ये न काशीं समाश्रिताः ।।

काशीसमाश्रिता यैश्च यैश्च विश्वेश्वरोर्चितः ।।

तारकं ज्ञानमासाद्य ते मुक्ताः कर्मपाशतः ।। ।। ५७ ।।

धनिनो न तथा सौख्यं प्राप्नुवंति नराः क्वचित् ।।

यथा निधनतः काश्यां लभते सुखमव्ययम् ।। ५८ ।।

वरं काशीसमावासी नासीनो द्युसदां पदम्।।

दुःखांतं लभते पूर्वः सुखांतं लभते परः ।। ५९ ।।

स्थितोपि भगवनीशो मंदरं चारुकंदरम् ।।

काशीं विना रतिं नाऽऽप दिवोदासनृपोषिताम् ।। 4.1.42.६० ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे कालवंचनोपायोनाम द्विचत्वारिंशोध्यायः ।। ४२ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 43

।। अगस्तिरुवाच ।। ।।

दिवोदासं नरपतिं कथं देवस्त्रिलोचनः ।।

काशीं संत्याजयामास कथमागाच्च मंदरात् ।।

एतदाख्यानमाख्याहि श्रोतॄणां प्रमुदे भगोः ।। १ ।।

।। स्कंद उवाच ।। ।।

मंदरं गतवान्देवो ब्रह्मणो वाक्य गौरवात् ।।

तपसा तस्य संतुष्टो मंदरस्यैव भूभृतः ।। २ ।।

गते विश्वेश्वरे देवे मंदरं गिरिसुंदरम् ।।

गिरिशेन समं जग्मुरपि सर्वे दिवौकसः ।। ३ ।।

क्षेत्राणि वैष्णवानीह त्यक्त्वा विष्णुरपि क्षितेः ।।

प्रयातो मंदरं यत्र देवदेव उमाधवः ।। ४ ।।

स्थानानि गाणपत्यानि गणेशोपि ततो व्रजत् ।।

हित्वाहमपि विप्रेंद्र गतवान्मंदरं प्रति ।। ५ ।।

सूरः सौराणि संत्यज्य गतश्चायतनादरम् ।।

स्वंस्वं स्थानं क्षितौ त्यक्त्वा ययुरन्येपि निर्जराः ।। ६।।

गतेषु देवसंघेषु पृथिव्याः पृथिवीपतिः ।।

चकार राज्यं निर्द्वंद्वं दिवोदासः प्रतापवान् ।। ७ ।।

विधाय राजधानीं स वाराणस्यां सुनिश्चलाम् ।।

एधां चक्रे महाबुद्धिः प्रजाधर्मेण पालयन् ।। ८ ।।

सूर्यवत्स प्रतपिता दुर्हृदां हृदि नेत्रयोः ।।

सोमवत्सुहृदामासीन्मानसेषु स्वकेष्वऽपि ।। ९ ।।

अखंडमाखंडलवत्कोदंडकलयन्रणे ।।

पलायमानैरालोकिशत्रुसैन्यबलाहकैः ।। 4.1.43.१० ।।

स धर्मराजवज्जातो धर्माधर्मविवेचकः ।।

अदंड्यान्मण्डयन्राजा दंड्यांश्च परिदंडयन् ।। ११ ।।

धनंजय इवाधाक्षीत्परारण्यान्यनेकशः ।।

पाशीव पाशयांचक्रे वैरिचक्रं विदूरगः ।। १२ ।।

सोभूत्पुण्यजनाधीशो रिपुराक्षसवर्धनः ।।

जगत्प्राणसमानश्च जगत्प्राणनतत्परः ।।१३।।

राजराजः स एवाभूत्सर्वेषां धनदः सताम् ।।

स एव रुद्रमूर्तिश्च प्रेक्षिष्ट रिपुभी रणे ।। १४ ।।

विश्वेषां स हि देवानां तपसा रूपधृग्यतः ।।

विश्वेदेवास्ततस्तं तु स्तुवंति च भजंति च ।। १५ ।।

असाध्यः स हि साध्यानां वसुभ्यो वसुनाधिकः ।।

ग्रहाणां विग्रहधरो दस्रतोऽजस्ररूपभाक् ।। १६ ।।

मरुद्गणानगणयंस्तुषितांस्तोषयन्गुणैः ।।

सर्वविद्याधरो यस्तु सर्वविद्याधरेष्वपि ।। १७ ।।

अगर्वानेव गंधर्वान्यश्चक्रे निजगीतिभिः ।।

ररक्षुर्यक्षरक्षांसि तद्दुर्गं स्वर्गसोदरम् ।। १८ ।।

नागानागांसि चक्रुश्च तस्य नागबलीयसः ।।

दनुजामनुजाकारं कृत्वा तं च सिषेविरे ।। १९ ।।

जाता गुह्यचरा यस्य गुह्यकाः परितो नृषु ।।

संसेविष्यामहे राजन्नसुरास्त्वां स्ववैभवैः ।। 4.1.43.२० ।।

वयं यतस्त्वद्विषये सुरावासोऽपि दुर्लभः ।।

अशिक्षयत्क्षितिपतेरिह यस्य तुरंगमान् ।।

आशुगश्चाशुगामित्वं पावमाने पथिस्थितः ।। २१ ।।

अगजान्यस्य तु गजान्नगवर्ष्मसुवर्ष्मणः ।।

अजस्र दानिनो दृष्ट्वा भवन्नन्येपि दानिनः ।। २२ ।।

सदोजिरे च बोद्धारो योद्धारश्चरणाजिरे ।।

न यस्य शास्त्रैर्विजिता न शस्त्रैः केनचित्क्वचित् ।। २३ ।।

न नेत्रविषये जाता विषये यस्यभूभृतः ।।

सदा नष्टपदा द्वेष्यास्तदाऽनष्टपदाः प्रजाः ।। २४ ।।

कलावानेक एवास्ति त्रिदिवेपि दिवौकसाम् ।।

तस्य क्षोणिभृतः क्षोण्यां जनाः सर्वे कलालयाः ।। २५ ।।

एक एव हि कामोस्ति स्वर्गे सोप्यंगवर्जितः ।।

सांगोपांगाश्च सर्वेषां सर्वे कामा हि तद्भुवि ।।२६।।

तस्योपवर्तनेप्येको न श्रुतो गोत्रभित्क्वचित् ।।

स्वर्गे स्वर्गसदामीशो गोत्रभित्परिकीर्तितः ।। २७ ।।

क्षयी च तस्य विषये कोप्याकर्णि न केनचित् ।।

त्रिविष्टपे क्षपानाथः पक्षेपक्षे क्षयीष्यते ।। २८ ।।

नाके नवग्रहाः संति देशास्तस्याऽनवग्रहाः ।। २९ ।।

हिरण्यगर्भः स्वर्लोकेप्येक एव प्रकाशते ।।

हिरण्यगर्भाः सर्वेषां तत्पौराणामिहालयाः ।। 4.1.43.३० ।।

सप्ताश्व एकः स्वर्लोके नितरां भासतेंऽशुमान् ।।

सदंशुकाः प्रतिदिनं बह्वश्वास्तत्पुरौकसः ।। ३१ ।।

सदप्सरा यथास्वर्भूस्तत्पुर्यपिसदप्सराः ।।

एकैव पद्मा वैकुंठे तस्य पद्माकराः शतम् ।। ।। ३२ ।।

अनीतयश्च तद्ग्रामानाराजपुरुषाः क्वचित् ।।

गृहेगृहेत्र धनदा नाक एकोऽलकापतिः ।। ३३ ।।

दिवोदासस्य तस्यैवं काश्यां राज्यं प्रशासतः ।।

गतं वर्षं दिनप्रायं शरदामयुताष्टकम् ।। ३४ ।।

गीर्वाणा विप्रतीकारमथ तस्य चिकीर्षवः ।।

गुरुणा मंत्रयांचक्रुर्धर्मवर्त्मानुयायिनः ।।३५।।

भवादृशामिव मुने प्रायशो धर्मचारिणाम् ।।

विबुधा विदधत्येव महतीरापदांततीः ।।३६।।

यद्यप्यसौ धराधीशो व्याधिनोद्दुर्धराध्वरैः ।।

तानध्वरभुजोऽत्यंतं तथापि सुहृदो न ते ।। ३७ ।।

स्वभाव एव द्युसदां परोत्कर्षासहिष्णुता ।।

बलि बाण दधीच्याद्यैरपराद्धं किमत्र तैः ।।३८।।

अंतराया भवंत्येव धर्मस्यापि पदेपदे ।।

तथापि न निजो धर्मो धर्मधीभिर्विमुच्यते ।। ३९ ।।

अधर्मिणः समेधंते धनधान्यसमृद्धिभिः ।।

अधर्मादेव च परं समूलं यांत्यधोगतिम् ।। 4.1.43.४० ।।

प्रजाः पालयतस्तस्य पुत्रानिव निजौरसान् ।।

रिपुंजयस्य नाल्पोपि बभूवाधर्मसंग्रहः ।।४१।।

षाड्गुण्यवेदिनस्तस्य त्रिशक्त्यूर्जितचेतसः ।।

चतुरोपायवित्तस्य न रंध्रं विविदुः सुराः ।। ४२ ।।

बुद्धिमंतोपि विबुधा विप्रतीकर्तुमुद्यताः ।।

मनागपि न संशेकुरपकर्तुं तदीशितुः ।। ४३ ।।

एकपत्नीव्रताः सर्वे पुमांसस्तस्य मंडले ।।

नारीषु काचिन्नैवासीदपतिव्रतधर्मिणी ।। ४४ ।।

अनधीतो न विप्रोभूदशूरोनैव बाहुजः ।।

वैश्योनभिज्ञो नैवासीदर्थोपार्जनकर्मसु ।।४५।।

अनन्यवृत्तयः शूद्रा द्विजशुश्रूषणं प्रति ।।

तस्य राष्ट्रे समभवन्दिवोदासस्य भूपतेः ।। ४६ ।।

अविप्लुत ब्रह्मचर्यास्तद्राष्ट्रे ब्रह्मचारिणः ।।

नित्यं गुरुकुलाधीना वेदग्रहणतत्पराः ।। ४७ ।।

आतिथ्यधर्मप्रवणा धर्मशास्त्रविचक्षणाः ।।

नित्यसाधुसमाचारा गृहस्थास्तस्य सर्वतः ।। ४८ ।।

तृतीयाश्रमिणो यस्मिन्वनवृत्तिकृतादराः ।।

निःस्पृहा ग्रामवार्तासु वेदवर्त्मानुसारिणः ।। ४९ ।।

सर्वसंगविनिर्मुक्ता निर्मुक्ता निष्परिग्रहाः ।।

वाङ्मनःकर्मदंडाढ्या यतयो यत्र निःस्पृहाः ।। 4.1.43.५० ।।

अन्येनुलोमजन्मानः प्रतिलो मभवा अपि ।।

स्वपारंपर्यतो दृष्टं मनाग्वर्त्म न तत्यजुः ।। ५१ ।।

अनपत्या न तद्राष्ट्रे धनहीनोपि कोपि न ।।

अवृद्धसेवी नो कश्चिदकांडमृतिभाक्च न ।। ५२ ।।

न चाटा नैव वाचाटा वंचका नो न हिंसकाः ।।

न पाषंडा न वै भंडा न रंडा न च शौंडिकाः ।।५३।।

श्रुतिघोषो हि सर्वत्र शास्त्रवादः पदेपदे ।।

सर्वत्र सुभगालापा मुदामंगलगीतयः ।।५४ ।।

वीणावेणुप्रवादाश्च मृदंगा मधुरस्वनाः ।।

सोमपानं विनान्यत्र पानगोष्ठी न कर्णगा ।।५५।।

मांसाशिनः पुरोडाशे नैवान्यत्र कदाचन ।।

न दुरोदरिणो यत्र नाधमर्णा न तस्कराः ।। ५६ ।।

पुत्रस्य पित्रोः पदयोः पूजनं देवपूजनम् ।।

उपवासो व्रतं तीर्थं देवताराधनं परम् ।। ५७ ।।

नारीणां भर्तृपद् योरर्चनं तद्वचःश्रुतिः ।।

समर्चयंति सततमनुजा निजमग्रजम् ।। ५८ ।।

सपर्ययंति मुदिता भृत्याः स्वामिपदांबुजम् ।।

हीनवर्णैरग्रवर्णो वर्ण्यते गुणगौरवैः ।। ५९ ।।

वरिवस्यंति भूयोपि त्रिकालं काशिदेवताः ।।

सर्वत्र सर्वे विद्वांसः समर्च्यंते मनोरथैः ।। 4.1.43.६० ।।

विद्वद्भिश्च तपोनिष्ठास्तपोनिष्ठैर्जितेंद्रियाः ।।

जितेंद्रियैर्ज्ञाननिष्ठा ज्ञानिभिः शिवयोगिनः ।। ६१ ।।

मंत्रपूतं महार्हं च विधियुक्तं सुसंस्कृतम् ।।

वाडवानां मुखाग्नौ च हूयतेऽहर्निशं हविः ।। ६२ ।।

वापीकूपतडागानामारामाणां पदेपदे ।।

शुचिभिर्द्रव्यसंभारैः कर्तारो यत्र भूरिशः ।। ६३ ।।

यद्राष्ट्रे हृष्टपुष्टाश्च दृश्यंते सर्वजातयः ।।

अनिंद्यसेवा संपन्ना विनामृगयु सौनिकान् ।। ६४ ।।

इत्थं तस्य महीजानेः सर्वत्र शुचिवर्तिनः ।।

उन्मिषंतोप्यनिमिषा मनाक्छिद्रं न लेभिरे ।। ६५ ।।

अथोवाचामर गुरुर्देवानपचिकीर्षुकान् ।।

तस्मिन्राजनि धर्मिष्ठे वरिष्ठे मंत्रवेदिषु ।।६८।।

।। गुरुरुवाच ।। ।।

संधिविग्रहयानास्ति सं श्रयं द्वैधभावनम् ।।

यथा स राजा संवेत्ति न तथात्रापि कश्चन ।। ६७ ।।

उपायोप्येक एवास्ति चतुर्ष्विह दिवौकसः ।।

भेदो नाम स चेत्सिध्येत्तपोबलिनि तत्र हि ।।६८।।

तेन यद्यपि भूभर्त्रा भूमेर्देवा विवासिताः ।।

तथापि भूरिशस्तत्र संत्यस्मत्पक्षपातिनः ।। ६९ ।।

कालो निमिषमात्रोपि यान्विना न सुखं व्रजेत् ।।

अस्माकमपि तस्यापि संति ते तत्र मानिताः ।। 4.1.43.७० ।।

अंतर्बहिश्चरा नित्यं सर्वविश्रंभ भूमयः ।।

समागतेषु तेष्वत्र सर्वं नः सेत्स्यति प्रियम् ।। ७१ ।।

समाकर्ण्य च ते सर्वे त्रिदशा गीष्पतीरितम् ।।

निर्णीतवंतस्तस्यार्थं तस्मादंतर्बहिश्चरान् ।।

अभिनंद्याथ तं सर्वे प्रोचुरित्थं भवेदिति ।। ७२ ।।

ततः शक्रः समाहूय वीतिहोत्रं पुरःस्थितम् ।।

ऊचे मधुरया वाचा बहुमानपुरःसरम् ।। ७३ ।।

हव्यवाहन या मूर्तिस्तव तत्र प्रतिष्ठिता ।।

तामुपासंहर क्षिप्रं विषयात्तस्य भूपतेः ।। ।। ७४ ।।

समागतायां तन्मूर्तौ सर्वानष्टाग्रयः प्रजाः ।।

हव्यकव्यक्रियाशून्या विरजिष्यंति राजनि ।। ७५ ।।

प्रजासु च विरक्तासु राज्यकामदुघासु वै ।।

कृच्छ्रेणोपार्जितोऽपार्थो राजशब्दो भविष्यति ।। ७६ ।।

प्रजानां रंजनाद्राजा येयं रूढिरुपार्जिता ।।

तस्यां रूढ्यां प्रनष्टायां राज्यमेव विनंक्ष्यति ।। ७७ ।।

प्रजाविरहितो राजा कोशदुर्गबलादिभिः ।।

समृद्धोप्यचिरान्नश्येत्कूलसंस्थ इव द्रुमः ।। ७८ ।।

त्रिवर्गसाधनाहेतुः प्राक्प्रजैव महीपतेः ।।

क्षीणवृत्त्यां प्रजायां वै त्रिवर्गः क्षीयते स्वयम् ।। ७९ ।।

क्षीणे त्रिवर्गे संक्षीणा गतिर्लोकद्वयात्मिका ।। 4.1.43.८० ।।

इतींद्रवचनाद्वह्निरह्नाय क्षोणिमंडलात् ।।

आचकर्ष निजां मूर्तिं योगमाया बलान्वितः ।। ८१ ।।

निन्ये न केवलं त्रेतां जाठराग्निमपि प्रभुः ।।

वज्रिणो वचसा वह्निर्निजशक्तिसमन्वितम् ।। ८२ ।।

वह्नौ स्वर्लोकमापन्ने जाते मध्यंदिने नृपः ।।

कृतमाध्याह्निकस्तूर्णं प्राविशद्भोज्यमंडपम् ।। ८३ ।।

महानसाधिकृतयो वेपमानास्ततो मुहुः ।।

क्षुधार्तमपि भूपालमिदं मंदं व्यजिज्ञपन् ।। ८४ ।।

सूपकारा ऊचुः ।।

अत्यहस्करतेजस्क प्रतापविजितानल ।।

किंचिद्विज्ञप्तुकामाः स्मोप्यकांडेरणपंडित ।। ८५ ।।

यदि विश्रुणयेद्राजन्भवानभयदक्षिणाम् ।।

तदा विज्ञापयिष्यामः प्रबद्धकरसंपुटाः ।। ८६ ।।

भ्रूसंज्ञयाकृतादेशाः प्रशस्तास्येनभूभुजा ।।

मृदु विज्ञापयांचक्रुः पाकशालाधिकारिणः ।। ८७ ।।

न जानीमो वयं नाथ त्वत्प्रतापभयार्दितः ।।

कुसृत्याथ कया विद्वान्नष्टो वैश्वानरः पुरात् ।। ८८ ।।

कृशानौ कृशतां प्राप्ते कथं पाकक्रिया भवेत् ।।

तथापि सूर्यपाकेन सिद्धा पक्तिर्हि काचन ।। ८९ ।।

प्रभोरादेशमासाद्य तामिहैवानयामहे ।।

मन्यामहे च भूजाने पक्तिरद्यतनी शुभा ।। 4.1.43.९० ।।

श्रुत्वांधसिकवाक्यं स महासत्त्वो महामतिः ।।

नृपतिश्चिंतयामास देवानां वै कृतं त्विदम् ।। ९१ ।।

क्षणं संशीलयंस्तत्र ददर्श तपसोबलात् ।।

न केवलं जहौ गेहं हुतभुक्चौदरीर्दरीः ।। ९२ ।।

अप्यहासीदितोलोकाज्जगाम च सुरालयम् ।।

भवत्विह हि का हानिरस्माकं ज्वलने गतै ।। ९३ ।।

तेषामेवविचाराच्च हानिरेषा सुपर्वणाम् ।।

तद्बलेन च किं राज्यं मयेदमुररीकृतम् ।। ९४ ।।

पितामहेन महतो गौरवात्प्रतिपादितम् ।।

इति चिंतयतस्तस्य मध्यलोकशतक्रतोः ।। ९५ ।।

पौराः समागता द्वारि सह जानपदैर्नरैः ।।

द्वास्थेन चाज्ञया राज्ञस्ततस्तेंतः प्रवेशिताः ।। ९६ ।।

दत्त्वोपदं यथार्हं ते प्रणेमुः क्षोणिवज्रिणम् ।।

केचित्संभाषिता राज्ञादरसोदरया गिरा ।। ९७ ।।

केचिच्च समुदा दृष्ट्या केचिच्च करसंज्ञया ।।

विसर्जिता सना राज्ञा बहुमानपुरःसरम् ।। ९८ ।।

तेजिरे भेजिरे सर्वे रत्नार्चिः परिसेविते ।।

विजितामोदसंदोहे सुरानोकहसौरभैः ।।

राज्ञः शतशलाकस्थच्छत्रस्यच्छाययाशुभे ।। ९९ ।।

विशांपतिरथोवाच तन्मुखच्छाययेरितम् ।।

विज्ञाय तदभिप्रायमलंभीत्या पुरौकसः ।। 4.1.43.१०० ।।

विकारकारिभिर्लेखैर्यदिनीतोऽनलो भुवः ।।

एतावतैव किं सिद्धयेन्मयि तेषां पराभवः ।। १ ।।

चिकीर्षुरहमेवासं पौराः कार्यमिदंपुरा ।।

परं ह्युपेक्षितप्रायं दिष्ट्या तैः स्मारितं चिरात् ।। २ ।।

गतोऽनलोऽभवद्भद्रं जगत्प्राणोपि यात्वितः ।।

वरुणः पुष्पवंताभ्यामविलंबं प्रयात्वितः ।। ३ ।।

अहमेव हि पर्जन्यो भविष्यामि तपोबलात् ।।

मुदे जनपदानां च सर्वसस्यसमृद्धिदः ।। ४ ।।

तपोयोगबलेनाहमात्मानं परिकल्प्य च ।।

त्रिधावह्निस्वरूपेण पक्तीष्टिव्युष्टिकृत्तमः ।। ५।।

अंतर्बहिश्च यो द्वेधा नभस्वत्पदवी दधत् ।।

सर्वेषामेव वेत्स्यामि त्वंतःकरणचेष्टितम् ।। ६ ।।

विधाय चांभसीं मूर्तिं सर्वजीवैकजीवनीम् ।।

प्रजाः संजीवयिप्यामि किं जडैर्विषये मम ।। ७ ।।

यदा खे तमसा पौरा ग्रस्येते शशिभास्करौ ।।

तदा न किं विना ताभ्यां जीवामः क्षितिमंडले ।। ८ ।।

श्रियं चांद्रमसीं प्राप्य ह्लादयिष्याम्यहं प्रजाः ।।

निशाचरेण किमिह क्षयिणा च कलंकिना ।। ९ ।।

अस्मत्कुले मूलभूतो भास्करो मान्य एव नः ।।

स तिष्ठतु सुखेनात्र यातायातं करोतु च ।। 4.1.43.११० ।।

स एको जगतामात्मा विशेषात्कुलदेवता ।।

सोपकर्तुं न वेत्त्येव तस्येदं व्रतमुत्तमम् ।। ११ ।।

इति नरपतिवाक्सुधारसौघं श्रुतिपुटकैः परिपीय पौरवर्गः ।।

विकसितवदनांबुजो जगामनिजनिजमालयमाधिमुक्तचित्तः ।। १२ ।।

क्षितिपतिरपि तत्तथा विधाय तपसोसाध्यमिहास्ति किं त्रिलोक्याम् ।।

अतिवह्न्यर्कमसौ दधच्चतेजो द्युसदां शल्यमिवोच्चकैर्बभूव ।। १३ ।।

इति श्रीस्कांदे महापुरण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे दिवोदासप्रतापवर्णनंनाम त्रिचत्वारिंशोध्यायः ।।४३।।

खण्डः ४ (काशीखण्डः) — Adhyāya 44

।। स्कंद उवाच ।।

अथ मंदरकंदरोदरोल्लसद समद्युति रत्नमंदिरे ।।

परितः समधिष्ठितामरे निजशिखरैर्वसनीकृतांबरे ।। १ ।।

निवसञ्जगदीश्वरो हरः कृशरजनीश कलामनोहरः ।।।

लभते स्म न शर्म शंकरः प्रसरत्काशिवियोगज ज्वरः ।। २ ।।

विरहानलशांतये तदा समलेपि त्रिपुरारिणापि यः ।।

मलयोद्भव पंक एष स प्रतिपेदेह्यधुना पिपांसुताम् । ३

परितापहराणि पद्मिनीनां मृदुलान्यपि कंकणीकृतानि ।।

गदितानि यदीश्वरेण सर्पास्तदभूत्सत्यमहोमहेश्वरेच्छा ।। ४ ।।

यदु दुग्धनिधिं निमथ्यदेवैर्मृदुसारः समकर्षि पूर्णचंद्रः ।।

स बभूव कृशो वियोगतप्तेश्वरमूर्धोष्मपरिक्षरच्छरीरः ।। ५ ।।

यददीधरदेष जाततापः पृथुले मौलिजटानि कुंजकोणे ।।

परितापहरां हरस्तदानीं द्युनदीं तामधुनापि नोज्जिहीते।। ६ ।।

महतो विरहस्य शंकरः प्रसभंतस्यवशी वशंगतः ।।

विविदेन सुरैः सदोगतैरपि संवीतसुतापवेष्टितः ।। ७ ।।

अतिचित्रमिदं यदात्मना शुचिरप्येष कृपीटयोनिना ।।

स्वपुरीविरहोद्भवेन वै परिताप्येत जगत्त्रयेश्वरः ।। ८ ।।

निजभालतलं कलानिधेः कलया नित्यमलंकरोति यः ।।

स तदीश्वरमप्यतापयद्विधुरेको विपरीत एव तु ।। ९ ।।

गरलं गलनालिकातले विलसेदस्य न तेन तापितः ।।

अमृतांशु तुषारदीधिति प्रचयैरेव तु तापितोऽद्भुतम् ।। 4.1.44.१० ।।

विलसद्धरिचंदनोदकच्छटया तद्विरहापनुत्तये ।।

हृदया हि तयाप्यदूयत प्रसरद्भोगिफटाभवैर्न तु ।।११।।

सकलभ्रममेष नाशयेत्स्रगहित्वाद्यपदेशजं हरः ।।

इदमद्भुतमस्य यद्भ्रमः स्फुटमाल्येपि महाहिसंभवः ।।१२।।

स्मृतिमात्रपथंगतोपि यस्त्रिविध तापमपाकरोत्यलम्।।

स हि काशिवियोगतापितः स्वगतं किंचिदजल्पदित्यजः ।। १३ ।।

अपि काशि समागतोऽनिलो यदि गात्राणि परिष्वजेन्मम ।।

दवथुः परिशांतिमेति तन्नहि मानी परिगाहनैरपि ।। १४ ।।

अगमिष्यदहोकथं सतापो ननु दक्षांगजयाय एधितः ।।

ममजीवातुलता झटित्यलं ह्यभविष्यन्न हिमाद्रिजा यदि ।। १५ ।।

न तथोज्झितदेहयातया मम दक्षोद्भवयामनोऽदुनोत् ।।

अविमुक्तवियोगजन्मनापरि दूयेत यथा महोष्मणा ।। १६ ।।

अयि काशि मुदा कदा पुनस्तव लप्स्ये सुखमंगसंगजम् ।।

अतिशीतलितानि येन मेऽद्भुतगात्राणि भवंति तत्क्षणात् ।। १७ ।।

अयि काशि विनाशिताघसंघे तवविश्लेषजआशुशुक्षणिः ।।

अमृतांशुकलामृदुद्रवैरतिचित्रंहविषेव वर्धते ।। १८ ।।

अगमन्मम दक्षजा वियोगजो दवथुः प्राग्घिमवत्सुतौषधेन ।।

अधुना खलु नैव शांतिमीयां यदि काशीं न विलोकयेहमाशु ।। १९ ।।

मनसेति गृणंस्तदा शिवः सुतरां संवृततापवैकृतः ।।

जगदंबिकया धियां जनन्या कथमप्येष वियुक्त इत्यमानि ।। 4.1.44.२० ।।

प्रियया वपुषोर्धयानयाप्यपरिज्ञात वियोगकारणः ।।

वचनैरुपचर्यते स्म सप्रणतप्राणिनिदाघदारणः ।। २१ ।।

।। श्रीपार्वत्युवाच ।। ।।

तव सर्वग सर्वमस्ति हस्ते विलसद्योग वियोग एव कस्ते ।।

तव भूतिरहो विभूतिदात्री सकलापत्कलिकापि भूतधात्री ।। २२ ।।

त्वदनीक्षणतः क्षणाद्विभो प्रलयं यांति जगंति शोच्यवत् ।।

च्यवते भवतः कृपालवादितरोपीशनयस्त्वयोंकृतः ।। २३ ।।

भवतः परितापहेतवो न भवंतींदु दिवाकराग्नयः ।।

नयनानियतस्त्रिनेत्र तेऽमी प्रणयिन्यस्तिलसज्जला च मौलौ ।। २४ ।।

भुजगाभुजगाः सदैव तेऽमी न विषं संक्रमते च नीलकंठ ।।

अहमस्मि च वामदेव वामा तव वामंवपुरत्र चित्तयुक्ता ।।२५।।

इति संसृतिसंबीजजनन्याभिहिते हिते ।।

गिरां निगुंफे गिरिशो वक्तुमप्याददे गिरम् ।। २६ ।।

।। ईश्वर उवाच ।। ।।

अयि काशीत्यष्टमूर्तिर्भवो भावाष्टकोभवत् ।।

सत्वरं शिवयाज्ञायि ध्रुवं काश्याहृतोहरः ।।२७।।

अथबालसखी भूत तत्तत्काननवीरुधम् ।। शिवाप्रस्तावयांचक्रे विमुक्तां मुक्तिदां पुरीम् ।।२८।।

।। पार्वत्युवाच ।। ।।

गगनतलमिलितसलिले प्रलयेपि भव त्रिशूलपरि विधृताम् ।।

कृतपुंडरीकशोभां स्मरहरकाशीं पुरीं यावः ।।२९।।

धराधरेंद्रस्य धरातिसुंदरा न मां तथास्यापि धिनोति धूर्जटे।।

धरागतापीह न या ध्रुवंधरा पुरीधुरीणा तव काशिका यथा।।4.1.44.३०।।

न यत्र काश्यां कलिकालजं भयं न यत्र काश्यां मरणात्पुनर्भवः।।

न यत्र काश्यां कलुषोद्भवं भयं कथं विभो सा नयनातिथिर्भवेत् ।।३१।।

किमत्र नो संति पुरः सहस्रशः पदेपदे सर्वसमृद्धिभूमयः ।।

परं न काशी सदृशीदृशोः पदं क्वचिद्गता मे भवता शपे शिव ।। ३२ ।।

त्रिविष्टपे संति न किं पुरः शतं समस्तकौतूहलजन्मभूमयः ।।

तृणी भवंतीह च ताः पुरःपुरः पदं पुरारे भवतो भवद्विषः ।।३३।।

न केवलं काशिवियोगजो ज्वरः प्रबाधते त्वां तु तथा यथात्र माम् ।।

उपाय एषोत्र निदाघशांतये पुरी तु सा वा ममजन्मभूरथ ।। ३४ ।।

मया न मेने ममजन्मभूमिका वियोगजन्मा परिदाघईशितः ।।

अवाप्यकाशीं परितः प्रशांतिदां समस्तसंतापविघातहेतुकाम् ।। ३५ ।।

न मोक्षलक्ष्म्योत्र समक्षमीक्षितास्तनूभृता केनचिदेव कुत्रचित् ।।

अवैम्यहं शर्मद सर्वशर्मदा सरूपिणी मुक्तिरसौ हि काशिका ।। ३६ ।।

न मुक्तिरस्तीह तथा समाधिना स्थिरेंद्रियत्वोज्झित तत्समाधिना ।।

क्रतुक्रियाभिर्न न वेदविद्यया यथा हि काश्यां परिहाय विग्रहम् ।।३७।।

न नाकलोके सुखमस्ति तादृशं कुतस्तु पातालतलेऽतिसुंदरे ।।

वार्तापि मर्त्ये सुखसंश्रया क्व वा काश्यां हि यादृक्तनुमात्रधारिणि ।। ३८ ।।

क्षेत्रे त्रिशूलिन्भवतोऽविमुक्ते विमुक्तिलक्ष्म्या न कदापि मुक्ते ।।

मनोपि यः प्राणिवरः प्रयुंक्ते षडंगयोगं स सदैव युंक्ते ।। ३९ ।।

षडंगयोगान्नहि तादृशी नृभिः शरीरसिद्धिः सहसात्र लभ्यते ।।

सुखेन काशीं समवाप्य यादृशीदृशौ स्थिरीकृत्य शिव त्वयि क्षणम् ।। 4.1.44.४० ।।

वरं हि तिर्यक्त्वमबुद्धिवैभवं न मानवत्वं बहुबुद्धिभाजनम् ।।

अकाशिसंदर्शननिष्फलोदयं समंततः पुष्करबुद्बुदोपमम् ।। ४१ ।।

दृशौ कृतार्थे कृतकाशिदर्शने तनुःकृतार्था शिवकाशिवासिनी ।।

मनःकृतार्थं धृतकाशिसंश्रयं मुखं कृतार्थं कृतकाशिसंमुखम् ।। ४२ ।।

वरं हि तत्काशिरजोति पावनं रजस्तमोध्वंसि शशिप्रभोज्ज्वलम् ।।

कृतप्रणामैर्मणिकर्णिका भुवे ललाटगंयद्बहुमन्यते सुरैः ।। ४३ ।।

न देवलोको न च सत्यलोको न नागलोको मणिकर्णिकायाः ।।

तुलां व्रजेद्यत्र महाप्रयाणकृच्छ्रुतिर्भवेद्ब्रह्मरसायनास्पदम् ।।४४।।

महामहोभूर्मणिकर्णिकास्थली तमस्ततिर्यत्र समेति संक्षयम् ।।

परः शतैर्जन्मभिरेधितापि या दिवाकराग्नींदुकरैरनिग्रहा ।। ४५ ।।

किमु निर्वाणपदस्य भद्रपीठं मृदुलं तल्पमथोनुमोक्षलक्ष्म्याः ।।

अथवा मणिकर्णिकास्थली परमानंदसुकंदजन्मभूमिः ।। ४६ ।।

समतीतविमुक्तजंतुसंख्या क्रियते यत्र जनैः सुखोपविष्टैः ।।

विलसद्द्युति सूक्ष्मशर्कराभिः स्ववपुःपातमहोत्सवाभिलाषैः ।। ४७ ।।

।। स्कंद उवाच ।। ।।

अपर्णापरिवर्ण्येति पुरीं वाराणसीं मुने ।।

पुनर्विज्ञापयामास काशीप्राप्त्यै पिनाकिनम्।। ४८ ।।

श्रीपार्वत्युवाच ।। ।।

प्रमथाधिप सर्वेश नित्यस्वाधीनवर्तन ।।

यथानंदवनं यायां तथा कुरु वरप्रद।। ४९ ।।

स्कन्द उवाच।। ।।

जितपीयूषमाधुर्यां काशीस्तवनसुंदरीम् ।।

अथाकर्ण्याहमुदितो गिरिशो गिरिजां गिरम् ।। 4.1.44.५० ।।

श्रीदेवदेव उवाच ।। ।।

अयि प्रियतमे गौरि त्वद्वा गमृतसीकरैः ।।

आप्यायितोस्मि नितरां काशीप्राप्त्यै यतेधुना ।। ५१ ।।

त्वं जानासि महादेवि मम यत्तन्महद्व्रतम्।।

अभुक्तपूर्वमन्येन वस्तूपाश्नामि नेतरत् ।।५२।।

पितामहस्य वचनाद्दिवोदासे महीपतौ।।

धर्मेण शासति पुरीं क उपायो विधीयताम् ।।५३।।

कथं स राजा धर्मिष्ठः प्रजापालनतत्परः ।।

वियोज्यते पुरः काश्या दिवोदासो महीपतिः।।५४।।

अधर्मवर्तिनो यस्माद्विघ्नः स्यान्नेतरस्य तु ।।

तस्मात्कं प्रेषयामीशे यस्तं काश्या वियोजयेत् ।।५५।।

धर्मवर्त्मानुसरतां यो विघ्नं समुपाचरेत् ।।

तस्यैव जायते विघ्नः प्रत्युत प्रेमवर्धिनि ।।५६ ।।

विनाच्छिद्रेण तं भूपं नोत्सादयितुमुत्सहे ।।

मयैव हि यतो रक्ष्याः प्रिये धर्मधुरंधराः ।। ५७ ।।

न जरा तमतिक्रामेन्न तं मृत्युर्जिर्घांसति ।।

व्याधयस्तं न बाधंते धर्मवर्त्मभृदत्रयः ।। ५८ ।।

इति संचिंतयन्देवो योगिनीचक्रमग्रतः ।।

ददर्शातिमहाप्रौढं गाढकार्यस्य साधनम् ।।५९।।

अथ देव्या समालोच्य व्योमकेशो महामुने ।।

योगिनीवृंदमाहूय जगौ वाक्यमिदं हरः ।। 4.1.44.६० ।।

सत्वरं यात योगिन्यो मम वाराणसीं पुरीम्।।

यत्र राजा दिवोदासो राज्यं धर्मेण शास्त्यलम् ।। ६१ ।।

स्वधर्मविच्युतः काशीं यथा तूर्णं त्यजेन्नृपः ।।

तथोपचरत प्राज्ञा योगमायाबलान्विताः ।।६२।।

यथा पुनर्नवीकृत्य पुरीं वाराणसीमहम् ।।

इतः प्रयामि योगिन्यस्तथा क्षिप्रं विधीयताम् ।। ६३ ।।

इति प्रसादमासाद्य शासनं शिरसा वहन्।।

कृतप्रणामो निर्यातो योगिनीनां गणस्ततः ।। ६४ ।।

ययुराकाशमाविश्य मनसोप्य तिरंहसा ।।

परस्परं भाषमाणा योगिन्यस्ता मुदान्विताः ।।६५।।

अद्य धन्यतराः स्मो वै देवदेवेन यत्स्वयम् ।।

कृतप्रसादाः प्रहिताः श्रीमदानंदकाननम्।।६६।।

अद्य सद्यो महालाभावभूतां नोतिदुर्लभौ ।।

त्रिनेत्रराजसंमानस्तथा काशी विलोकनम् ।। ६७ ।।

इति मुदितमनाः स योगिनीनां निकुरंवस्त्वथमंदराद्रिकुंजात् ।।

नभसि लघुकृतप्रयाणवेगो नयनातिथ्यमलंभयत्पुरीं ताम् ।। ६८ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूवार्द्धे काशीवर्णनं नाम चतुश्चत्वारिंशोध्यायः ।। ४४ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 45

।। स्कंद उवाच ।। ।।

अथ तद्योगिनीवृंदं दूराद्दृष्टिं प्रसार्य च ।।

स्वनेत्रदैर्घ्यनिर्माणं प्रशशंस फलान्वितम् ।। १ ।।

दिव्यप्रासादमालानां पताकाश्चलपल्लवाः ।।

सादरं दूरमार्गस्थान्पांथानाह्वयतीरिव ।।२।।

चंचत्प्रासादमाणिक्यैर्विजृंभितमरीचिभिः ।।

सुनीलमपि च व्योमवीक्ष्यमाणं सुनिर्मलम् ।। ३ ।।

देवत्वं माययाच्छाद्य वेषं कार्पटिकोचितम् ।।

विधाय काशीमविशद्योगिनीचक्रमक्रमम् ।। ४ ।।

काचिच्चयोगिनी भूता काचिज्जाता तपस्विनी ।।

काचिद्बभूव सैरंध्री काचिन्मासोपवासिनी ।।५।।

मालाकारवधूः काचित्काचिन्नापितसुंदरी ।।

सूतिकर्मविचारज्ञा ऽपरा भैषज्यकोविदा ।। ६ ।।

वैश्या च काचिदभवत्क्रयविक्रयचंचुरा ।।

व्यालग्राहिण्यभूत्काचिद्दासीधात्री च काचन ।। ७ ।।

एका च नृत्यकुशला त्वन्या गानविशारदा ।।

अपरा वेणुवादज्ञा परा वीणाधराभवत् ।। ८ ।।

मृदंगवादनज्ञान्या काचित्ताल कलावती ।।

काचित्कार्मणतत्त्वज्ञा काचिन्मौक्तिकगुंफिका ।। ९ ।।

गंधभागविधिज्ञान्या काचिदक्षकलालया ।।

आलापोल्लासकुशला काचिच्चत्वरचारिणी ।। 4.1.45.१० ।।

वंशाधिरोहणे दक्षा रज्जुमार्गेण चेतरा ।।

काचिद्वातुलचेष्टाऽभूत्पथि चीवरवेष्टना ।। ११ ।।

अपत्यदाऽनपत्यानां परा तत्रपुरेऽवसत् ।।

काचित्करांघ्रिरेखाणां लक्षणानि चिकेति च ।। १२ ।।

चित्रलेखन नैपुण्यात्काचिज्जनमनोहरा ।।

वशीकरणमंत्रज्ञा काचित्तत्र चचार ह ।। १३ ।।

गुटिकासिद्धिदा काचित्काचिदंजनसिद्धिदा ।।

धातुवादविदग्धान्या पादुकासिद्धिदा परा ।। १४ ।।

अग्निस्तंभ जलस्तंभ वाक्स्तंभं चाप्यशिक्षयत् ।।

खेचरीत्वं ददौ काचिददृश्यत्वं परा ददौ ।। १५ ।।

काचिदाकर्पणीं सिद्धिं ददावुच्चाटनं परा ।।

काचिन्निजांगसौंदर्य युवचित्तविमोहिनी ।। १६ ।।

चिंतितार्थप्रदा काचित्काचिज्ज्योतिः कलावती ।।

इत्यादि वेषभाषाभिरनुकृत्य समंततः ।। १७ ।।

प्रत्यंगणं प्रतिगृहं प्राविशद्योगिनीगणः ।।

इत्थमब्दंचरंत्यस्ता योगिन्योऽहर्निशं पुरि ।।१८।।

न च्छिद्रं लेभिरे क्वापि नृपविघ्नचिकीर्षवः ।।

ततः समेत्य ताः सर्वा योगिन्यो वंध्यवांछिताः ।।

तस्थुः संमंत्र्य तत्रैव न गता मंदरं पुनः ।। १९ ।।

प्रभुकार्यमनिष्पाद्य सदः संभावनैधितः ।।

कः पुरः शक्नुयात्स्थातुं स्वामिनो क्षतविग्रहः ।।4.1.45.२०।।

अन्यच्च चिंतितं ताभिर्योगिनीभिरिदं मुने ।।

प्रभुं विनापि जीवामो न तु काशीं विना पुनः ।। २१ ।।

प्रभूरुष्टोपि सद्भृत्ये जीविकामात्रहारकः ।।

काशीहरेत्कराद्भ्रष्टा पुरुषार्थचतुष्टयम् ।। २२ ।।

नाद्यापि काशीं संत्यज्य तदारभ्य महामुने ।।

योगिन्योन्यत्र तिष्ठंति चरंत्योपि जगत्त्रयम्।। २३ ।।

प्राप्यापि श्रीमतीं काशीं यस्तितिक्षति दुर्मतिः ।।

स एव प्रत्युत त्यक्तो धर्मकामार्थमुक्तिभिः ।।२४।।

कः काशीं प्राप्य दुर्बुद्धिरपरत्र यियासति।।

मोक्षनिक्षेप कलशीं तुच्छश्रीकृतमानसः ।। २५ ।।

विमुखोपीश्वरोस्माकं काशीसेवनपुण्यतः ।।

संमुखो भविता पुण्यं कृतकृत्याः स्म तद्वयम् ।। २६ ।।

दिनैः कतिपयैरेव सर्वज्ञोपि समेष्यति ।।

विना काशीं न रमते यतोऽन्यत्र त्रिलोचनः ।। २७ ।।

शंभोः शक्तिरियं काशी काचित्सर्वैरगोचरा ।।

शंभुरेव हि जानीयादेतस्याः परमं सुखम् ।। ।। २८ ।।

इति निश्चित्य मनसि शंभोरानंदकानने ।।

अतिष्ठद्योगिनीवृंदं कयाचिन्माययावृतम् ।। २९ ।।

व्यास उवाच ।। ।।

इत्थं समाकर्ण्य मुनिः पुनः पप्रच्छ षण्मुखम् ।।

कानि कानि च नामानि तासां तानि वदेश्वर ।। 4.1.45.३० ।।

भजनाद्योगिनीनां च काश्यां किं जायते फलम् ।।

कस्मिन्पर्वणि ताः पूज्याः कथं पूज्याश्च तद्वद ।। ३१ ।।

श्रुत्वेतिप्रश्नमौमेयो योगिनीसंश्रयं ततः ।।

प्रत्युवाच मुने वच्मि शृणोत्ववहितो भवान् ।। ३२ ।।

।। स्कंद उवाच ।। ।।

नामधेयानि वक्ष्यामि योगिनीनां घटोद्भव।।

आकर्ण्य यानि पापानि क्षयंति भविनां क्षणात्।।३३।।

गजानना सिंहमुखी गृध्रास्या काकतुंडिका।।

उष्ट्रग्रीवा हयग्रीवा वाराही शरभानना ।।३४।।

उलूकिका शिवारावा मयूरी विकटानना ।।

अष्टवक्त्रा कोटराक्षी कुब्जा विकटलोचना ।।३५।।

शुष्कोदरी ललज्जिह्वा श्वदंष्ट्रा वानरानना ।।

ऋक्षाक्षी केकराक्षी च बृहत्तुंडा सुराप्रिया ।। ३६ ।।

कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका ।।

पाशहस्ता दंडहस्ता प्रचंडा चंडविक्रमा ।। ३७ ।।

शिशुघ्नी पापहंत्री च काली रुधिरपायिनी ।।

वसाधया गर्भभक्षा शवहस्तांत्रमालिनी ।।३८।।

स्थूलकेशी बृहत्कुक्षिः सर्पास्या प्रेतवाहना ।।

दंदशूककरा क्रौंची मृगशीर्षा वृषानना ।। ३९ ।।

व्यात्तास्या धूमनिःश्वासा व्योमैकचरणोर्ध्वदृक् ।।

तापनी शोषणीदृष्टिः कोटरी स्थूलनासिका ।। 4.1.45.४० ।।

विद्युत्प्रभा बलाकास्या मार्जारी कटपूतना ।।

अट्टाट्टहासा कामाक्षी मृगाक्षी मृगलोचना ।।४१।।

नामानीमानि यो मर्त्यश्चतुःषष्टिं दिनेदिने ।।

जपेत्त्रिसंध्यं तस्येह दुष्टबाधा प्रशाम्यति ।। ४२ ।।

न डाकिन्यो न शाकिन्यो न कूष्मांडा न राक्षसाः ।।

तस्य पीडां प्रकुर्वंति नामानीमानि यः पठेत् ।। ४३ ।।

शिशूनां शांतिकारीणि गर्भशांतिकराणि च ।।

रणे राजकुले वापि विवादे जयदान्यपि ।। ४४ ।।

लभेदभीप्सितां सिद्धिं योगिनीपीठसेवकः ।।

मंत्रांतराण्यपि जपंस्तत्पीठे सिद्धिभाग्भवेत् ।। ४५ ।।

बलिपूजोपहारैश्च धूपदीपसमर्पणैः ।।

क्षिप्रं प्रसन्ना योगिन्यः प्रयच्छेयुर्मनोरथान् ।। ४६ ।।

शरत्काले महापूजां तत्र कृत्वा विधानतः ।।

हवींषि हुत्वा मंत्रज्ञो महतीं सिद्धिमाप्नुयात् ।। ४७ ।।

आरभ्याश्वयुजःशुक्लां तिथिं प्रतिपदं शुभाम् ।।

पूजयेन्नवमीयावन्नरश्चिंतितमाप्नुयात् ।। ४८ ।।

कृष्णपक्षस्य भूतायामुपवासी नरोत्तमः ।।

तत्र जागरणं कृत्वा महतीं सिद्धिमाप्नुयात् ।। ४९ ।।

प्रणवादिचतुर्थ्यन्तैर्नामभिर्भक्तिमान्नरः ।।

प्रत्येकं हवनं कृत्वा शतमष्टोत्तरं निशि ।। 4.1.45.५० ।।

ससर्पिषा गुग्गुलुना लघुकोलि प्रमाणतः ।।

यां यां सिद्धिमभीप्सेत तांतां प्राप्नोति मानवः ।।५१।।

चैत्रकृष्णप्रतिपदि तत्र यात्रा प्रयत्नतः ।।

क्षेत्रविघ्नशांत्यर्थं कर्तव्या पुण्यकृज्जनैः ।। ५२ ।।

यात्रा च सांवत्सरिकीं यो न कुर्यादवज्ञया ।।

तस्य विघ्नं प्रयच्छंति योगिन्यः काशिवासिनः ।। ५३ ।।

अग्रे कृत्वा स्थिताः सर्वास्ताः काश्यां मणिकर्णिकाम् ।।

तन्नमस्कारमात्रेण नरो विघ्नैर्न बाध्यते ।। ५४ ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे षष्टियोगन्यागमनंनाम पंचचत्वारिंशोध्यायः ।। ४५ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 46

।। स्कंद उवाच ।। ।।

गतेथ योगिनीवृंदे देवदेवो घटोद्भव ।।

काशीप्रवृत्तिं जिज्ञासुः प्राहिणोदंशुमालिनम् ।।१।।

देवदेव उवाच ।। ।।

सप्ताश्व त्वरितो याहि पुरीं वाराणसीं शुभाम् ।।

यत्रास्ति स दिवोदासो धर्ममूर्तिर्महीपतिः ।। २ ।।

तस्य धर्मविरोधेन यथातत्क्षेत्रमुद्वसेत् ।।

तथा कुरुष्व भो क्षिप्रं मावमंस्थाश्च तं नृपम् ।। ३ ।।

धर्ममार्ग प्रवृत्तस्य क्रियते यावमानना ।।

सा भवेदात्मनो नूनं महदेनश्च जायते ।। ४ ।।

तवबुद्धिविकासेन च्यवते चेत्स धर्मतः ।।

तदा सा नगरी भानो त्वयोद्वास्याऽसहैः करैः ।। ५ ।।

कामक्रोधौ लोभमोहौ मत्सराहंकृती अपि ।।

ते तत्र न भवेतां यत्तत्कालोपि न तं जयेत् ।। ६ ।।

यावद्धर्मे स्थिराबुद्धिर्यावद्धर्मेस्थिरं मनः ।।

तावद्विघ्नोदयः क्वास्ति विपद्यपि रवे नृषु ।। ७ ।।

सर्वेषामिह जंतूनां त्वं वेत्सि ब्रध्नचेष्टितम् ।।

अतएव जगच्चक्षुर्व्रज त्वं कार्यसिद्धये ।। ८ ।।

रविरादाय देवाज्ञां मूर्तिमन्यां प्रकल्प्य च ।।

नभोध्वगामहोरात्रं काशीमभिमुखोऽभवत् ।। ९ ।।

मनसातीवलोलोऽभूत्काशीदर्शनलालसः ।।

सहस्रचरणोप्यैच्छत्तदा खे नैकपादताम् ।। 4.1.46.१० ।।

हंसत्वं तस्य सूर्यस्य तदा सफलतामगात् ।।

सदा नभोध्वनीनस्य काशीं प्रति यियासतः ।। ११ ।।

अथ काशीं समासाद्य रविरंतर्बहिश्चरन् ।।

मनागपि न तद्भूपे धर्मध्वस्तिमवेक्षत ।।१२।।

विभावसुर्वसन्काश्यां नानारूपेण वत्सरम् ।।

क्वचिन्नावसरं प्राप तत्र राज्ञि सुधर्मिणि ।। १३ ।।

कदाचिदतिथिर्भूतो दुर्लभं प्रार्थयन्रविः ।।

न तस्य राज्ञो विषये दुर्लभं किंचिदैक्षत ।। १४ ।।

कदाचिद्याचको जातो बहुदोपि कदाप्यभूत् ।।

कदाचिद्दीनतां प्राप्तः कदाचिद्गणकोप्यभूत् ।। १५ ।।

वेदबाह्यां क्रियां चापि कदाचित्प्रत्यपादयत्।।

कदाचित्स्थापयामास दृष्टप्रत्ययमैहिकम् ।।१६।।

कदाचिज्जटिलो जातः कदाचिच्च दिगंबरः ।।

स कदाचिज्जांगुलिको विषविद्याविशारदः।। ।। १७ ।।

सर्वपाषंडधर्मज्ञः कदाचिद्ब्रह्मवाद्यभूत् ।।

ऐंद्रजालिक आसीच्च कदाचिद्भ्रामयञ्जनान् ।। १८ ।।

नानाव्रतोपदेशैश्च कदाचित्स पतिव्रताः ।।

क्षोभयामास बहुशः सदृष्टांत कथानकैः ।। १९ ।।

कापालिक व्रतधरः कदाचिच्चाभवद्द्विजः ।।

कदाचिदपि विज्ञानी धातुवादी कदाचन ।। 4.1.46.२० ।।

क्वचिद्विप्रः क्वचिद्राजपुत्रो वैश्योंत्यजः क्वचित ।।

ब्रह्मचारी क्वचिदभूद्गृही वनचरः क्वचित् ।। २१ ।।

यतिः कदाचिदिति सरूपैरभ्रामयज्जनान् ।।

सर्वविद्यासु कुशलः सर्वज्ञश्चाभवत्क्वचित् ।। २२ ।।

इति नानाविधै रूपैश्चरन्काश्यां ग्रहेश्वरः ।।

न कदापि जने क्वापि च्छिद्रं प्राप कदाचन ।। २३ ।।

ततो निनिंद चात्मानं चिंतार्तः कश्यपात्मजः ।।

धिक्परप्रेष्यतां यस्यां यशो लभ्येत न क्वचित् ।। २४ ।।

।। मार्तंड उवाच ।। ।।

मंदरं यदि याम्यद्य सद्यस्तत्क्रुद्ध्यतीश्वरः ।।

अनिष्पादितकार्यार्थे मयि सामान्यभृत्यवत् ।। ।।२५ ।।

कोपमप्युररीकृत्य यदि यायां कथंचन ।।

कथं तिष्ठे पुरस्तस्य तर्हि वै मूढभृत्यवत् ।। २६ ।।

अथोंकृत्यावहेलं वा यामि चेच्च कथंचन ।।

क्रोधान्निरीक्षेत्त्र्यक्षो मां विषं पेयं तदा मया ।। २७ ।।

हरकोपानले नूनं यदि यातः पतंगताम् ।।

पितामहोपि मां त्रातुं तदा शक्ष्यति नस्फुटम् ।। २८ ।।

स्थास्याम्यत्रैव तन्नित्यं न त्यक्ष्यामि कदाचन ।।

क्षेत्रसंन्यासविधिना वाराणस्यां कृताश्रमः ।। २९ ।।

पुरः पुरारेः कायार्थमनिवेद्येह तिष्ठतः ।।

यत्पापं भावि मे तस्य काशीपापस्यनिष्कृतिः ।।4.1.46.३०।।

अन्यान्यपि च पापानि महांत्यल्पानि यानि च ।।

क्षयंति तानि सर्वाणि काशीं प्रविशतां सताम् ।।३१।।

बुद्धिपूर्वं मया चैतन्न पापं समुपार्जितम् ।।

पुरारिणैव हि पुराऽऽशासि धर्मो हि रक्ष्यताम् ।। ३२ ।।

धर्मो हि रक्षितो येन देहे सत्वरगत्वरे ।।

त्रैलोक्यरक्षितं तेन किं कामार्थैः सुरक्षितैः ।।३३ ।।

रक्षणीयो यदि भवेत्कामः कामारिणा कथम् ।।

क्षणादनंगतां नीतो बहूनां सुखकार्यपि ।।३४।।

अर्थश्चेत्सर्वथारक्ष्य इति कैश्चिदुदाहृतम्।।

तत्कथं न हरिश्चंद्रोऽरक्षत्कुशिकनंदने ।। ३५ ।।

धर्मस्तु रक्षितः सर्वैरपिदेहव्ययेन च ।।

शिबिप्रभृतिभूपालैर्दधीचिप्रमुखैर्द्विजैः ।। ३६ ।।

अयमेव हि वै धर्मः काशीसेवनसंभवः ।।

रुषितादपि रुद्रान्मां रक्षिष्यति न संशयः ।। ३७ ।।

अवाप्य काशीं दुष्प्रापां को जहाति सचेतनः ।।

रत्नं करस्थमुत्सृज्य कः काचं संजिघृक्षति ।। ३८ ।।

वाराणसीं समुत्सृज्य यस्त्वन्यत्र यियासति ।।

हत्वा निधानं पादेन सोर्थमिच्छति भिक्षया ।। ३९ ।।

पुत्रमित्रकलत्राणि क्षेत्राणि च धनानि च ।।

प्रतिजन्मेह लभ्यंते काश्येका नैव लभ्यते ।। 4.1.46.४० ।।

येन लब्धा पुरी काशी त्रैलोक्योद्धरणक्षमा ।।

त्रैलोक्यैश्वर्यदुष्प्रापं तेन लब्धं महासुखम् ।। ४१ ।।

कुपितोपि हि मे रुद्रस्तेजोहानिं विधास्यति ।।

काश्यां च लप्स्ये तत्तेजो यद्वै स्वात्मावबोधजम् ।। ४२ ।।

इतराणीह तेजांसि भासंते तावदेव हि ।।

खद्योताभानि यावन्नो जृंभते काशिजं महः ।। ४३ ।।

इति काशीप्रभावज्ञो जगच्चक्षुस्तमोनुदः ।।

कृत्वा द्वादशधात्मानं काशीपुर्यां व्यवस्थितः ।। ४४ ।।

लोलार्क उत्तरार्कश्च सांबादित्यस्तथैव च ।।

चतुर्थो द्रुपदादित्यो मयूखादित्य एव च ।। ४५ ।।

खखोल्कश्चारुणादित्यो वृद्धकेशवसंज्ञकौ ।।

दशमो विमलादित्यो गंगादित्यस्तथैव च ।। ।। ४६ ।।

द्वादशश्च यमादित्यः काशिपुर्यां घटोद्भव ।।

तमोऽधिकेभ्यो दुष्टेभ्यः क्षेत्रं रक्षंत्यमी सदा ।। ४७ ।।

तस्यार्कस्य मनोलोलं यदासीत्काशिदर्शने ।।

अतो लोलार्क इत्याख्या काश्यां जाता विवस्वतः ।। ४८ ।।

लोलार्कस्त्वसिसंभेदे दक्षिणस्यां दिशिस्थितः ।।

योगक्षेमं सदा कुर्यात्काशीवासि जनस्य च ।। ।। ४९ ।।

मार्गशीर्षस्य सप्तम्यां षष्ठ्यां वा रविवासरे ।।

विधाय वार्षिकीं यात्रां नरः पापै प्रमुच्यते ।। 4.1.46.५० ।।

कृतानि यानि पापानि नरैः संवत्सरावधि ।।

नश्यंति क्षणतस्तानि षष्ठ्यर्के लोलदर्शनात् ।। ५१ ।।

नरः स्नात्वासिसंभेदे संतर्प्य पितृदेवताः ।।

श्राद्धं विधाय विधिना पित्रानृण्यमवाप्नुयात् ।।५२।।

लोलार्कसंगमे स्नात्वा दानं होमं सुरार्चनम् ।।

यत्किंचित्क्रियते कर्म तदानंत्याय कल्पते ।। ५३ ।।

सूर्योपरागे लोलार्के स्नानदानादिकाः क्रियाः ।।

कुरुक्षेत्राद्दशगुणा भवंतीह न संशयः ।। ५४ ।।

लोलार्के रथसप्तम्यां स्नात्वा गंगासिसंगमे ।।

सप्तजन्मकृतैः पापैर्मुक्तो भवति तत्क्षणात् ।। ५५ ।।

प्रत्यर्कवारं लोलार्कं यः पश्यति शुचिव्रतः ।।

न तस्य दुःखं लोकेस्मिन्कदाचित्संभविष्यति।।५६।।

न तस्य दुःखं नो पामा न दद्रुर्न विचर्चिका ।।

लोलार्कमर्के यः पश्येत्तत्पादोदकसेवकः ।। ५७ ।।

वाराणस्यामुषित्वापि यो लोलार्कं न सेवते ।।

सेवंते तं नरं नूनं क्लेशाः क्षुद्व्याधिसंभवाः ।। ५८ ।।

सर्वेषां काशितीर्थानां लोलार्कः प्रथमं शिरः ।।

ततोंऽगान्यन्यतीर्थानि तज्जलप्लावितानिहि ।। ५९ ।।

तीर्थांतराणि सर्वाणि भूमीवलयगान्यपि ।।

असिसंभेदतीर्थस्य कलां नार्हंति षोडशीम् ।। 4.1.46.६० ।।

सर्वेषामेव तीर्थानां स्नानाद्यल्लभ्यते फलम् ।।

तत्फलं सम्यगाप्येत नरैर्गंगासिसंगमे ।। ६१ ।।

नार्थवादोयमुदितः स्तुतिवादो न वै मुने ।।

सत्यं यथार्थवादोयं श्रद्धेयः सद्भिरादरात् ।। ६२ ।।

यत्र विश्वेश्वरः साक्षाद्यत्र स्वर्गतरंगिणी ।।

मिथ्या तत्रानुमन्यंते तार्किकाश्चानुसूयकाः ।। ६३ ।।

उदाहरंति ये मूढाः कुतर्कबलदर्पिताः ।।

काश्यां सर्वेर्थवादोयं ते विट्कीटा युगेयुगे ।। ६४ ।।

कस्यचित्काशितीर्थस्य महिम्नो महतस्तुलाम्।।

नाधिरोहेन्मुने नूनमपि त्रैलोक्यमंडपः ।। ६५ ।।

नास्तिका वेदबाह्याश्च शिश्नोदरपरायणाः ।।

अंत्यजाताश्च ये तेषां पुरः काशी न वर्ण्यताम् ।। ६६ ।।

लोलार्ककरनिष्टप्ता असिधार विखंडिताः ।।

काश्यां दक्षिणदिग्भागे न विशेयुर्महामलाः ।।६७।।

महिमानमिमं श्रुत्वा लोलार्कस्य नरोत्तमः ।।

न दुःखी जायते क्वापि संसारे दुःखसागरे ।। ६८ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे लोलार्कवर्णनं नाम षट्चत्वारिंशोध्यायः ।। ४६ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 47

।। स्कंद उवाच ।। ।।

अथोत्तरस्यामाशायां कुंडमर्काख्यमुत्तमम् ।।

तत्र नाम्नोत्तरार्केण रश्मिमाली व्यवस्थितः ।। १ ।।

तापयन्दुःखसंघातं साधूनाप्याययन्रविः ।।

उत्तरार्को महातेजाः काशीं रक्षति सर्वदा ।। २ ।।

तत्रेतिहासो यो वृत्तस्तं निशामय सुव्रत ।।

विप्रः प्रियव्रतो नाम कश्चिदात्रेय वंशजः ।। ३ ।।

आसीत्काश्यां शुभाचारः सदातिथिजनप्रियः ।।

भार्या शुभव्रता तस्य बभूवातिमनोहरा ।। ४ ।।

भर्तृशुश्रूषणरता गृहकर्मसुपेशला ।।

तस्यां स जनयामास कन्यामेकां सुलक्षणाम् ।। ५ ।।

मूलर्क्षप्रथमेपादे तथा केंद्रे बृहस्पतौ ।।

ववृधे सा गृहे पित्रोः शुक्ले पक्षे यथा शशी ।। ६ ।।

सुरूपा विनयाचारा पित्रोश्च प्रियकारिणी ।।

अतीव निपुणा जाता गृहोपस्करमार्जने ।। ७ ।।

यथायथा समैधिष्ट सा कन्या पितृमंदिरे ।।

तथातथा पितुस्तस्याश्चिंता संववृधेतराम् ।। ८ ।।

कस्मै देया वरा कन्या सुरम्येयं सुलक्षणा ।।

अस्या अनुगुणो लभ्यः क्व मया वर उत्तमः ।। ९ ।।

कुलेन वयसा चापि शीलेनापि श्रुतेन च ।।

रूपेणार्थेनसंयुक्तः कस्मै दत्ता सुखं लभेत् ।। 4.1.47.१० ।।

इति चिंतयतस्तस्य ज्वरोभूदतिदारुणः ।।

यश्चिंताख्यो ज्वरः पुंसामौषधैर्नापि शाम्यति ।। ११ ।।

तन्मूलर्क्षविपाकेन चिंताख्येन ज्वरेण च ।।

स विप्रः पंचतां प्राप्तस्त्यक्त्वा सर्वं गृहादिकम् ।। १२ ।।

पितर्युपरते तस्याः कन्यायाः सा जनन्यपि ।।

शुभव्रता परित्यज्य तां कन्यां पतिमन्वगात् ।। १३ ।।

धर्मोयं सहचारिण्या जीवताजीवतापि वा ।।

पत्या सहैव स्थातव्यं पतिव्रतयुजा सदा ।। १४ ।।

नापत्यं पाति नो माता न पिता नैव बांधवाः ।।

पत्युश्चरणशुश्रूषा पायाद्वै केवलं स्त्रियम् ।।१५।।

सुलक्षणापि दुःखार्ता पित्रोः पंचत्वमाप्तयोः ।।

और्ध्वदैहिकमापाद्य दशाहं विनिवर्त्य च ।। ।। १६ ।।

चिंतामवाप महतीमनाथा दैन्यमागता ।।

कथमेकाकिनी पित्रा मात्राहीना भवांबुधेः ।। १७ ।।

दुस्तरं पारमाप्स्यामि स्त्रीत्वं सर्वाभिभावि यत् ।।

न कस्मैचिद्वरायाहं पितृभ्यां प्रतिपादिता ।। १८ ।।

तददत्ता कथं स्वैरमहमन्यं वरं वृणे ।।

वृतोपि न कुलीनश्चेद्गुणवान्न च शीलवान् ।। १९ ।।

स्वाधीनोपि न तत्तेन वृतेनापि हि किं भवेत् ।।

इति संचिंतयंती सा रूपौदार्यगुणान्विता ।। 4.1.47.२० ।।

युवभिर्बहुभिर्नित्यं प्रार्थितापि मुहुर्मुहुः ।।

न कस्यापि ददौ बाला प्रवेशं निज मानसे ।। २१ ।।

पित्रोरुपरतिं दृष्ट्वा वात्सल्यं च तथाविधम् ।।

निनिंद बहुधात्मानं संसारं च निनिंद ह ।। २२ ।।

याभ्यामुत्पादिता चाहं याभ्यां च परिपालिता ।।

पितरौ कुत्र तौ यातौ देहिनो धिगनित्यताम् ।। २३ ।।

अहो देहोप्यहोंगत्वं यथा पित्रोः पुरो मम ।।

इति निश्चित्य सा बाला विजितेंद्रिय मानसा ।। २४ ।।

ब्रह्मचर्यं दृढं कृत्वा तप उग्रं चचार ह ।।

उत्तरार्कस्य देवस्य समीपे स्थिरमानसा ।।२५।।

तस्यां तपस्यमानायामेकाच्छागी लघीयसी ।।

तत्र प्रत्यहमागत्य तिष्ठेत्तत्पुरतोऽचला ।।२६।।

तृणपर्णादिकं किंचित्सायमभ्यवहृत्य सा ।।

तत्कुंडपीतपानीया स्वस्वामिसदनं व्रजेत् ।। २७ ।।

तत इत्थं व्यतीतासु पंचषा सुसमासु च ।।

लीलया विचरन्देवस्तत्र देव्या सहागतः ।। २८ ।।

सन्निधावुत्तरार्कस्य तपस्यतीं सुलक्षणाम् ।।

स्थाणुवन्निश्चलां स्थाणुरद्राक्षीत्तपसा कृशाम् ।।२९।।

ततो गिरिजया शंभुर्विज्ञप्तः करुणात्मना ।।

वरेणानुगृहाणेमां बंधुहीनां सुमध्यमाम् ।। 4.1.47.३० ।।

शर्वाणीगिरमाकर्ण्य ततः शर्वः कृपानिधिः ।।

समाधिमीलिताक्षीं तामुवाच वरदो हरः ।। ३१ ।।

सुलक्षणे प्रसन्नोस्मि वरं वरय सुव्रते ।।

चिरं खिन्नासि तपसा कस्तेऽस्तीह मनोरथः ।।३२।।

सापि शंभोर्गिरं श्रुत्वा मुखपीयूषवर्षिणीम् ।।

महासंतापशमनीं लोचने उदमीलयत्।।३३।।

त्र्यक्षं प्रत्यक्षमावीक्ष्य वरदानोन्मुखं पुरः ।।

देवीं च वामभागस्थां प्रणनाम कृतांजलिः ।। ३४ ।।

किं वृणे यावदित्थं सा चिंतयेच्चारुमध्यमा ।।

तावत्तयानिरैक्षिष्ट वराकी बर्करी पुरः ।। ३५ ।।

आत्मार्थं जीवलोकेस्मिन्को न जीवति मानवः ।।

परं परोपकारार्थं यो जीवति स जीवति ।। ३६ ।।

अनया मत्तपोवृत्ति साक्षिण्या बह्वनेहसम् ।।

असेव्यहं तदेतस्यै वरयामि जगत्पतिम् ।। ३७ ।।

परामृश्य मनस्येतत्प्राह त्र्यक्षं सुलक्षणा ।।

कृपानिधे महादेव यदि देयो वरो मम ।। ।। ३८ ।।

अजशावी वराक्येषा तर्हि प्रागनुगृह्यताम् ।।

वक्तुं पशुत्वान्नोवेत्ति किंचिन्मद्भक्तिपेशला ।। ३९ ।।

इति वाचं निशम्येशः परोपकृतिशालिनीम्।।

सुलक्षणाया नितरां तुतोष प्रणतार्तिहा ।। 4.1.47.४० ।।

देवदवस्ततः प्राह देवि पश्य गिरींद्रजे ।।

साधूनामीदृशी बुद्धिः परोपकरणोर्जिता ।। ४१ ।।

ते धन्याः सर्वलोकेषु सर्वधर्माश्रयाश्च ते ।।

यतंते सर्वभावेन परोपकरणाय ये ।।४२।।

संचयाः सर्ववस्तूनां चिरं तिष्ठति नो क्वचित् ।।

सुचिरं तिष्ठते चैकं परोपकरणं प्रिये ।।४३।।

धन्या सुलक्षणा चैषा योग्याऽनुग्रहकर्मणि ।।

ब्रूहि देवि वरो देयः कोऽस्यैच्छाग्यै च कः प्रिये ।। ४४ ।।

।। श्रीदेव्युवाच ।। ।।

सर्वसृष्टिकृतां कर्तः सर्वज्ञप्रणतार्तिहन् ।।

सुलक्षणा शुभाचारा सखी मेस्तु शुभोद्यमा ।। ४५ ।।

यथा जया च विजया यथा चैव जयंतिका ।।

शुभानंदा सुनंदा च कौमुदी च यथोर्मिला ।। ४६ ।।

यथा चंपकमाला च यथा मलयवासिनी ।।

कर्पूरलतिका यद्वद्गंधधारा यथा शुभा ।। ४७ ।।

अशोका च विशोका च यथा मलयगंधिनी ।।

यथा चंदननिःश्वासा यथा मृगमदोत्तमा ।। ४८ ।।

यथा च कोकिलालापा यथा मधुरभाषिणी ।।

गद्यपद्यनिधिर्यद्वदनुक्तज्ञा यथा च सा ।। ४९ ।।

दृगंचलेंगितज्ञा च यथा कृतमनोरथा ।।

गानचित्तहरा यद्वत्तथास्त्वेषा सुलक्षणा ।। 4.1.47.५० ।।

अतिप्रिया भवित्री मे यद्बाल ब्रह्मचारिणी ।।

अनेनैव शरीरेण दिव्यावयवभूषणा ।। ।। ५१ ।।

दिव्यांबरा दिव्यगंधा दिव्यज्ञानसमन्विता ।।

समया मां सदैवास्तां चंचच्चामरधारिणी ।। ५२ ।।

एषापि काशिराजस्य कुमार्यस्त्विह बर्करी ।।

अत्रैव भोगान्संप्राप्य मुक्तिं प्राप्स्यत्यनुत्तमाम् ।। ५३ ।।

अनया त्वर्ककुंडेस्मिन्पुष्ये मासि रवेर्दिने ।।

स्नातं त्वनुदिते सूर्ये शीतादक्षुब्धचित्तया ।। ५४ ।।

राजपुत्री ततः पुण्यादस्त्वेषा शुभलोचना ।।

वरदानप्रभावेण तव विश्वेश्वर प्रभो ।। ५५ ।।

बर्करीकुंडमित्याख्या त्वर्ककुंडस्य जायताम् ।।

एतस्याः प्रतिमा पूज्या भविष्यत्यत्र मानवैः ।। ९६ ।।

उत्तरार्कस्य देवस्य पुष्ये मासि रवेर्दिने ।।

कार्या सा वत्सरीयात्रा न तैः काशीफलेप्सुभिः ।।५७।।

मृडान्याभिहि तं सर्वं कृत्वैतद्विश्वगो विभुः ।।

विश्वनाथो विवेशाथ प्रासादं स्वमतर्कितः ।। ५८ ।।

।। स्कंद उवाच ।। ।।

लोलार्कस्य च माहात्म्यमुत्तरार्कस्य च द्विज ।।

कथितं ते महाभाग सांबादित्यं निशामय ।। ५९ ।।

श्रुत्वैतत्पुण्यमाख्यानं शुभं लोलोत्तरार्कयोः ।।

व्याधिभिर्नाभिभूयेत न दारिद्र्येण बाध्यते ।। 4.1.47.६० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे उत्तरार्कवर्णनं नाम सप्तचत्वारिंशोध्यायः ।। ४७ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 48

स्कंद उवाच ।। ।।

शृणुष्व मैत्रावरुणे द्वारवत्यां यदूद्वहः ।।

दानवानां वधार्थाय भुवोभारापनुत्तये ।। १ ।।

आविरासीत्स्वयं कृष्णः कृष्णवर्त्मप्रतापवान् ।।

वासुदेवो जगद्धाम देवक्या वसुदेवतः।।२।।

साशीतिलक्षं तस्यासन्कुमारा अर्कवर्चसः ।।

स्वर्गे पितादृशा बालाः सुशीला न हि कुंभज ।। ३ ।।

अतीवरूपसंपन्ना अतीव सुमहाबलाः ।।

अतीव शस्त्रशास्त्रज्ञा अतीव शुभलक्षणाः ।। ४ ।।

तांद्रष्टुं मानसः पुत्रो ब्रह्मणस्तपसांनिधिः ।।

कृतवल्कलकौपीनो धृत कृष्णाजिनांबरः ।।।।।

गृहीतब्रह्मदंडश्च त्रिवृन्मौंजी सुमेखलः ।।

उरस्थलस्थ तुलसी मालया समलंकृतः ।। ६ ।।

गोपीचंदननिर्यास लसदंगविलेपनः ।।

तपसा कृशसर्वांगो मूर्तो ज्वलनवज्ज्वलन् ।।७।।

आजगामांबरचरो नारदो द्वारकापुरीम् ।।

विश्वकर्मविनिर्माणां जितस्वर्गपुरीश्रियम् ।।८।।

तंदृष्ट्वा नारदं सर्वे विनम्रतरकंधराः ।।

प्रबद्ध मूर्धांजलयः प्रणेमुर्वृष्णिनंदनाः ।। ९ ।।

सांबः स्वरूपसौंदर्य गर्वसर्वस्वमोहितः ।।

न ननाम मुनिं तत्र हसंस्तद्रूपसंपदम् ।। 4.1.48.१० ।।

सांबस्य तमभिप्रायं विज्ञाय स महामुनिः ।।

विवेश सुमहारम्यं नारदः कृष्णमंदिरम् ।। ११ ।।

कृष्णोथ दृष्ट्वाऽऽगच्छंतं प्रत्युद्गम्य च नारदम् ।।

मधुपर्केण संपूज्य स्वासने चोपवेशयत् ।। १२ ।।

कृत्वा कथा विचित्रार्थास्तत एकांतवर्तिनः ।।

कृष्णस्य कर्णेऽकथयन्नारदः सांबचेष्टितम् ।। १३ ।।

अवश्यं किंचिदत्राऽस्ति यशोदानंदवर्धन ।।

प्रायशस्तन्न घटतेऽसंभाव्यं नाथ वास्त्रियाम् ।। १४ ।।

यूनां त्रिभुवनस्थानां सांबोऽतीव सुरूपवान् ।।

स्वभावचंचलाक्षीणां चेतोवृत्तिः सुचंचला ।। १५ ।।

अपेक्षंते न मुग्धाक्ष्यः कुलं शीलं श्रुतं धनम् ।।

रूपमेव समीक्षंते विषमेषु विमोहिताः ।।१६।।

अथवा विदितं नो ते वल्लवीनां विचेष्टितम् ।।

विनाष्टौनायिकाः कृष्ण कामयंतेऽबलाह्यमुम् ।। ४३ ।।

वामभ्रुवां स्वभावाच्च नारदस्य च वाक्यतः ।।

विज्ञाताऽऽखिलवृत्तांतस्तथ्यं कृष्णोप्यमन्यत ।। १८ ।।

तावद्धैर्यंचलाक्षीणां तावच्चेतोविवेकिता ।।

यावन्नार्थी विविक्तस्थो विविक्तेर्थिनि नान्यथा ।। १९।।

इत्थं विवेचयंश्चित्ते कृष्णः क्रोधनदीरयम् ।।

विवेकसेतुनाऽऽस्तभ्य नारदं प्राहिणोत्सुधीः ।।4.1.48.२०।।

सांबस्य वैकृतं किंचित्क्वचित्कृष्णोनवैक्षत।।

गते देवमुनौ तस्मिन्वीक्षमाणोप्यहर्निशम् ।।२१।।

कियत्यपि गते काले पुनरप्याययौ मुनिः ।।

मध्ये लीलावतीनां च ज्ञात्वा कृष्णमवस्थितम् ।। २२ ।।

बहिः क्रीडंतमाहूय सांबमित्याह नारदः ।।

याहि कृष्णांतिकं तूर्णं कथयागमनं मम ।।२३ ।।

सांबोपि यामि नोयामि क्षणमित्थमचिंतयत् ।।

कथं रहःस्थ पितरं यामि स्त्रैणसखंप्रति ।। २४ ।।

न यामि च कथं वाक्यादस्याहं ब्रह्मचारिणः ।।

ज्वलदंगारसंकाश स्फुरत्सर्वांगतेजसः ।। २५।।

प्रणमत्सुकुमारेषु व्रीडितोयं मयैकदा ।।

इदानीमपि नो यायामस्य वाक्यान्महामुनेः ।। २६ ।।

अत्याहितं तदस्तीह तदागोद्वयदर्शनात् ।।

पितुः कोपोपि सुश्लाघ्यो मयि नो ब्राह्मणस्य तु ।। २७।।

ब्रह्मकोपाग्निनिर्दग्धाः प्ररोहंति न जातुचित् ।।

अपराग्निविनिर्दग्धारो हंते दावदग्धवत् ।। २८।।

इति ध्यात्वा क्षणं सांबोऽविशदंतःपुरंपितुः ।।

मध्ये स्त्रैणसभंकृष्णं यावज्जांबवतीसुतः ।। २९ ।।

दूरात्प्रणम्य विज्ञप्तिं स चकार सशंकितः ।।

तावत्तमन्वगच्छच्च नारदः कार्यसिद्धये ।। 4.1.48.३० ।।

ससंभ्रमोथ कृष्णोपि दृष्ट्वा सांबं च नारदम् ।।

समुत्तस्थौ परिदधत्पीतकौशेयमंबरम् ।। ३१ ।।

उत्थिते देवकीसूनौ ताः सर्वा अपि गोपिकाः ।।

विलज्जिताः समुत्तस्धुर्गृह्णंत्यः स्वंस्वमंबरम् ।। ३२ ।।

महार्हशयनीये तं हस्ते धृत्वा महामुनिम् ।।

समुपावेशयत्कृष्णः सांबश्च क्रीडितुं ययौ ।। ३३ ।।

तासां स्खलितमालोक्य तिष्ठंतीनां पुरो मुनिः ।।

कृष्णलीलाद्रवीभूतवरांगानां जगौ हरिम् ।। ३४ ।।

पश्यपश्य महाबुद्धे दृष्ट्वा जांबवतीसुतम् ।।

इमाः स्खलितमापन्नास्तद्रूपक्षुब्धचेतसः ।। ३५ ।।

कृष्णोपि सांबमाहूय सहसैवाशपत्सुतम् ।।

सर्वा जांबवतीतुल्याः पश्यंतमपि दुर्विधेः ।। ३६ ।।

यस्मात्त्वद्रूपमालोक्य गोपाल्यः स्खलिता इमाः ।।

तस्मात्कुष्ठी भव क्षिप्रमकांडागमनेन च ।। ३७ ।।

वेपमानो महाव्याधिभयात्सांबोपि दारुणात् ।।

कृष्णं प्रसादयामास बहुशः पापशांतये।। ३८ ।।

कृष्णोप्यनेन संजानन्सांबं स्वसुतमौरसम् ।।

अब्रवीत्कुष्ठमोक्षाय व्रज वैश्वेश्वरीं पुरीम् ।। ३९ ।।

तत्र ब्रध्नं समाराध्य प्रकृतिं स्वामवाप्स्यसि ।।

महैनसां क्षयो यत्र नास्ति वाराणसीं विना ।। 4.1.48.४० ।।

यत्र विश्वेश्वरः साक्षाद्यत्र स्वर्गापगा च सा ।।

येषां महैनसां दृष्टा मुनिभिर्नैव निष्कृतिः ।।

तेषां विशुद्धिरस्त्येव प्राप्य वाराणसीं पुरीम् ।। ४१ ।।

न केवलं हि पापेभ्यो वाराणस्यां विमुच्यते ।।

प्राकृतेभ्योपि पापेभ्यो मुच्यते शंकराज्ञया ।। ४२ ।।

पुरा पुरारिणा सृष्टमविमुक्तं विमुक्तये ।।

सर्वेषामेव जंतूनां कृपयांते तनुत्यजाम् ।। ४३ ।।

तत्रानंदवने शंभोस्तवशाप निराकृतिः ।।

सांब तत्त्वेरितं याहि नान्यथा शापनिर्वृतिः ।। ४४ ।।

ततः कृष्णं समापृच्छ्य कर्मनिर्मुक्तचेष्टितः ।।

नारदः कृतकृत्यः सन्ययावाकाशवर्त्मना ।। ४५ ।।

सांबो वाराणसीं प्राप्य समाराध्यांशुमालिनम् ।।

कुंडं तत्पृष्ठतः कृत्वा निजां प्रकृतिमाप्तवान् ।।४६ ।।

सांबादित्यस्तदारभ्य सर्वव्याधिहरो रविः ।।

ददाति सर्वभक्तेभ्योऽनामयाः सर्वसंपदः ।। ४७ ।।

सांबकुंडे नरः स्नात्वा रविवारेऽरुणोदये।।

सांबादित्यं च संपूज्य व्याधिभिर्नाभिभूयते ।। ४८ ।।

न स्त्री वैधव्यमाप्नोति सांबादित्यस्य सेवनात् ।।

वंध्या पुत्रं प्रसूयेत शुद्धरूपसमन्वितम् ।। ४९ ।।

शुक्लायां द्विज सप्तम्यां माघे मासि रवेर्दिने ।।

महापर्व समाख्यातं रविपर्व समं शुभम् ।। 4.1.48.५० ।।

महारोगात्प्रमुच्येत तत्र स्नात्वारुणोदये ।।

सांबादित्यं प्रपूज्यापि धर्ममक्षयमाप्नुयात् ।। ५१ ।।

सन्निहत्यां कुरुक्षेत्रे यत्पुण्यं राहुदर्शने ।।

तत्पुण्यं रविसप्तम्यां माघे काश्यां न संशयः ।। ५२ ।।

मधौमासि रवेर्वारे यात्रा सांवत्सरी भवेत् ।।

अशोकैस्तत्र संपूज्य कुंडे स्नात्वा विधानतः ।। ५३ ।।

सांबादित्यं नरो जातु न शोकैरभिभूयते ।।

संवत्सरकृतात्पापाद्बहिर्भवति तत्क्षणात् ।। ५४ ।।

विश्वेशात्पश्चिमाशायां सांबेनात्र महात्मना ।।

सम्यगाराधिता मूर्तिरादित्यस्य शुभप्रदा ।। ५५ ।।

इयं भविष्या तन्मूर्तिरगस्ते त्वत्पुरोऽकथि ।।

तामभ्यर्च्य नमस्कृत्य कृत्वाष्टौ च प्रदक्षिणाः ।।

नरो भवति निष्पापः काशीवास फलं लभेत् ।। ५६ ।।

सांबादित्यस्य माहात्म्यं कथितं ते महामते ।।

यच्छ्रुत्वापि नरो जातु यमलोकं न पश्यति ।। ५७ ।।

इदानीं द्रौपदादित्यं कथयिष्यामि तेनघ ।।

तथा द्रौपदआदित्यः संसेव्यो भक्तसिद्धिदः ।। ५८ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सांबादित्यमाहात्म्यकथनं नामाष्टचत्वारिंशोध्यायः ।।४८।।

खण्डः ४ (काशीखण्डः) — Adhyāya 49

सूत उवाच ।। ।।

पाराशर्यमुने व्यास कुमारः कुंभजन्मने ।।

यदावदत्कथामेतां तदा क्व द्रुपदात्मजा ।। १ ।।

।। व्यास उवाच ।। ।।

पुराणसंहितां सूत ब्रूते त्रैकालिकीं कथाम् ।।

संदेहो नात्र कर्तव्यो यतस्तद्गोचरोखिलम् ।।२।।

।। स्कंद उवाच।। ।।

आकर्णय मुने पूर्वं पंचवक्त्रो हरः स्वयम् ।।

पृथिव्यां पंचधा भूत्वा प्रादुरासीज्जगद्धितः ।।३।।

उमापि च जगद्धात्री द्रुपदस्य महीभुजः ।।

यजतो वह्निकुंडाच्च प्रादुश्चक्रेति सुंदरी ।। ४ ।।

पंचापि पांडुतनयाः साक्षाद्रुद्रवपुर्धराः ।।

अवतेरुरिह स्वर्गाद्दुष्टसंहारकारकाः ।। ५ ।।

नारायणोपि कृष्णत्वं प्राप्य तत्साहचर्यकृत् ।।

उद्वृत्तवृत्तशमनः सद्वृत्तस्थितिकारकः ।। ।। ६ ।।

प्रतपंतः पृथिव्यां ते पार्थाश्चेरुः पृथक्पृथक् ।।

उदयानुदयौ तस्मिन्संपदां विपदामपि ।। ७ ।।

कदाचित्ते महावीरा भ्रातृव्यप्रतिपादिताम् ।।

विपत्तिमाप्य महतीं बभूवुः काननौकसः ।। ८ ।।

पांचाल्यपि च तत्पत्नी पतिव्यसनतापिता ।।

धर्मज्ञा प्राप्य तन्वंगी ब्रध्नमाराधयद्भृशम् ।। ९ ।।

आराधितोथ सविता तया द्रुपदकन्यया ।।

सदर्वी सपिधानां च स्थालिकामक्षयां ददौ ।। 4.1.49.१० ।।

उवाच च प्रसन्नात्मा भास्करो द्रुपदात्मजाम् ।। २३।।

आराधयंतीं भावेन सर्वत्र शुचिमानसाम् ।। ११ ।।

स्थाल्यैतया महाभागे यावंतोऽन्नार्थिनो जनाः ।।

तावंतस्तृप्तिमाप्स्यंति यावच्च त्वं न भोक्ष्यसे ।। १२ ।।

भुक्तायां त्वयि रिक्तैषा पूर्णभक्ता भविप्यति ।।

रसवद्व्यंजननिधिरिच्छाभक्ष्यप्रदायिनी ।। १३ ।।

इत्थं वरस्तया लब्धः काश्यामादित्यतो मुने ।।

अपरश्च वरो दत्तस्तस्यै देवेन भास्वता ।। १४ ।।

।। रविरुवाच ।। ।।

विश्वेशाद्दक्षिणेभागे यो मां त्वत्पुरतः स्थितम् ।।

आराधयिष्यति नरः क्षुद्बाधा तस्य नश्यति ।। १५ ।।

अन्यश्च मे वरो दत्तो विश्वेशेन पतिव्रते ।।

तपसा परितुष्टेन तं निशामय वच्मि ते ।। १६ ।।

प्राग्रवे त्वां समाराध्य यो मां द्रक्ष्यति मानवः ।।

तस्य त्वं दुःखतिमिरमपानुद निजैः करैः ।। १७ ।।

अतो धर्माप्रिये नित्यं प्राप्य विश्वेश्वराद्वरम् ।।

काशीस्थितानां जंतूनां नाशयाम्यघसंचयम् ।। १८ ।।

ये मामत्र भजिष्यंति मानवाः श्रद्धयान्विताः ।।

त्वद्वरोद्यतपाणिं च तेषां दास्यामि चिंतितम् ।। १९ ।।

भवतीं मत्समीपस्थां युधिष्ठिरपतिव्रताम् ।।

विश्वेशाद्दक्षिणेभागे दंडपाणेः समीपतः ।। 4.1.49.२० ।।

येर्चयिष्यंति भावेन पुरुषा वास्त्रियोपि वा ।।

तेषां कदाचिन्नो भावि भयं प्रियवियोगजम् ।। २१ ।।

न व्याधिजं भयं क्वापि न क्षुत्तृड्दोषसंभवम् ।।

द्रौपदीक्षणतः काश्यां तव धर्मप्रियेनघे ।। २२ ।।

इति दत्त्वा वरान्देव आदित्यः सर्वदः सताम् ।।

शंभुमाराधयामास धर्मं द्रौपद्युपाययौ ।। २३ ।।

आदित्यस्य कथामेतां द्रौपद्याराधितस्य वै ।।

यः श्रोष्यति नरो भक्त्या तस्यैनः क्षयमेष्यति ।। २४ ।।

स्कंद उव।च ।। ।।

द्रौपदादित्यमाहात्म्यं संक्षेपात्कथितं मया ।।

मयूखादित्यमाहात्म्यं शृण्विदानीं घटोद्भव ।। -२५ ।।

पुरा पंचनदे तीर्थे त्रिषुलोकेषु विश्रुते ।।

सहस्ररश्मिर्भगवांस्तपस्तेपे सुदारुणम् ।। २६ ।।

प्रतिष्ठाप्य महालिंगं गभस्तीश्वर संज्ञितम् ।।

गौरीं च मंगला नाम्नीं भक्तमंगलदां सदा ।। २७ ।।

दिव्यवर्षसहस्रं तु शतेन गुणितं मुने ।।

आराधयञ्शिवं सोमं सोमार्धकृतशेखरम् ।। २८ ।।

स्वरूपतस्तु तपनस्त्रिलोकीतापनक्षमः ।।

ततोतितीव्र तपसा जज्वाल नितरां मुने ।। २९ ।।

मयूखैस्तत्र सवितुस्त्रैलोक्यदहनक्षमैः ।।

ततं समस्तं तत्काले द्यावाभूम्योर्यदंतरम् ।। 4.1.49.३० ।।

वैमानिकैर्विष्णुपदे तत्यजे च गतागतम् ।।

तीव्रे पतंगमहसि पतंगत्वभयादिव ।। ३१ ।।

मयूखा एव दृश्यंते तिर्यगूर्ध्वमधोपि च।।

आदित्यस्य न चादित्यो नीपपुष्पस्थितेरिव।। ३२।।

तस्यवै महसां राशेस्तपोराशेस्तपोर्चिषाम्।।

चकंपे साध्वसात्तीव्रा त्रैलोक्यं सचराचरम् ।। ३३ ।।

सूर्य आत्मास्य जगतो वेदेषु परिपठ्यते ।।

स एव चेज्वालयिता को नस्त्राता भवेदिह ।। ३४ ।।

जगच्चक्षुरसौ सूर्यो जगदात्मैष भास्करः ।।

जगद्योयन्मृतप्रायं प्रातःप्रातः प्रबोधयेत् ।। ३५ ।।

तमोंधकूपपतितमुद्यन्नेष दिनेदिने ।।

प्रसार्य परितः पाणीन्प्राणिजातं समुद्धरेत् ।। ३६ ।।

उदितेऽत्रोदिमो नित्यमस्तं यात्यस्तमाप्नुमः ।।

उदयेऽनुदये तस्मादस्माकं कारणं रविः ।। ३७ ।।

इति व्याकुलितं विश्वं पश्यन्विश्वेश्वरः स्वयम् ।।

विश्वत्राता वरं दातुं संजग्मे तिग्मरश्मये ।। ३८ ।।

मयूखमालिनं शंभुरालोक्याति सुनिश्चलम् ।।

समाधि विस्मृतात्मानं विसिस्माय तपः प्रति ।। ३९ ।।

उवाच च प्रसन्नात्मा श्रीकंठः प्रणतार्तिहृत् ।।

अलं तप्त्वा वरं ब्रूहि द्युमणे महसां निधे ।। 4.1.49.४० ।।

निरुद्धेंद्रियवृत्तित्वाद्ब्रध्नो ध्यानसमाधिना ।।

न जग्राह वचः शंभोर्द्वित्रिरुक्तोप्यकर्णवत् ।। ४१ ।।

काष्ठीभूतं तु तं ज्ञात्वा शिवः पस्पर्श पाणिना ।।

महातपः समुद्भूत संतापामृतवर्षिणा ।। ४२ ।।

तत उन्मीलयांचक्रे लोचने विश्वलोचनः ।।

तस्योदयमिव प्राप्य प्रगे पंकजिनीवनी ।।४३।।

परिव्यपेतसंतापस्तपनः स्पर्शनाद्विभोः ।।

अवग्रहितसस्यश्रीरुल्ललास यथांबुदात् ।। ४४ ।।

मित्रो नेत्रातिथीकृत्य त्र्यक्षं प्रत्यक्षमग्रतः ।।

दंडवत्प्रणनामोच्चैस्तुष्टाव च पिनाकिनम् ।। ४५ ।।

।। रविरुवाच ।। ।।

देवदेव जगतांपते विभो भर्ग भीम भव चंद्रभूषण ।।

भूतनाथ भवभीतिहारक त्वां नतोस्मि नतवांछितप्रद ।। ४६।।

चंद्रचूडमृड धूर्जटे हर त्र्यक्ष दक्ष शततंतुशातन।।

शांतशाश्वत शिवापते शिव त्वां नतोस्मि नतवांछितप्रद ।। ४७ ।।

नीललोहित समीहितार्थ दहे(?)द्व्येकलोचन विरूपलोचन ।।

व्योमकेशपशुपाशनाशन त्वां नतोस्मि नतवांछितप्रद ।। ४८ ।।

वामदेवशितिकंठशूलभृच्चंद्रशेखर फणींद्रभूषण।।

कामकृत्पशुपते महेश्वर त्वां नतोस्मि नतवांछितप्रद।।४९।।

त्र्यंबक त्रिपुरसूदनेश्वर त्राणकृत्त्रिनयनत्रयीमय।।

कालकूट दलनांतकांतक त्वां नतोस्मि नतवांछितप्रद ।। 4.1.49.५० ।।

शर्वरीरहितशर्वसर्वगस्वर्गमार्गसुखदापवर्गद ।।

अंधकासुररिपो कपर्दभृत्त्वां नतोस्मि नतवांछितप्रद ।।५१।।

शंकरोग्रगिरिजापते पते विश्वनाथविधिविष्णु संस्तुत ।।

वेदवेद्यविदिताऽखिलेंगि तत्वां नतोस्मि नतवांछितप्रद ।।५२।।

विश्वरूपपररूप वर्जितब्रह्मजिह्मरहितामृतप्रद ।।

वाङमनोविषयदूरदूरगत्वां नतोस्मि नतवांछितप्रद ।। ५३ ।।

इत्थं परीत्य मार्तंडो मृडं देवं मृडानिकाम् ।।

अथ तुष्टाव प्रीतात्मा शिववामार्धहारिणीम्।। ५४ ।।

रविरुवाच ।। ।।

देवि त्वदीयचरणांबुजरेणुगौरीं भालस्थलीं वहति यः प्रणतिप्रवीणः ।।

जन्मांतरेपि रजनीकरचारुलेखा तां गौरयत्यतितरां किल तस्य पुंसः ।। ५५ ।।

श्रीमंगले सकलमंगलजन्मभूमे श्रीमंगले सकलकल्मषतूलवह्ने।।

श्रीमंगले सकलदानवदर्पहंत्रि श्रीमंगलेऽखिलमिदं परिपाहि विश्वम्।।५६।।

विश्वेश्वरि त्वमसि विश्वजनस्य कर्त्री त्वं पालयित्र्यसि तथा प्रलयेपिहंत्री ।।

त्वन्नामकीर्तनसमुल्लसदच्छपुण्या स्रोतस्विनी हरति पातककूलवृक्षान् ।।५७।।

मातर्भवानि भवती भवतीव्रदुःखसंभारहारिणि शरण्यमिहास्ति नान्या ।।

धन्यास्त एव भुवनेषु त एव मान्या येषु स्फुरेत्तवशुभः करुणाकटाक्षः ।। ५८ ।।

ये त्वा स्मरंति सततं सहजप्रकाशां काशीपुरीस्थितिमतीं नतमोक्षलक्ष्मीम् ।।

तान्संस्मरेत्स्मरहरो धृतशुद्धबुद्धीन्निर्वाणरक्षणविचक्षणपात्रभूतान् ।।५९।।

मातस्तवांघ्रियुगलं विमलं हृदिस्थं यस्यास्ति तस्य भुवनं सकलं करस्थम् ।।

यो नामतेज एति मंगलगौरि नित्यं सिद्ध्यष्टकं न परिमुंचति तस्य गेहम् ।। 4.1.49.६० ।।

त्वं देवि वेदजननी प्रणवस्वरूपा गायत्र्यसि त्वमसि वै द्विजकामधेनुः ।।

त्वं व्याहृतित्रयमिहाऽखिलकर्मसिद्ध्यै स्वाहास्वधासि सुमनः पितृतृप्तिहेतुः ।। ६१ ।।

गौरि त्वमेव शशिमौलिनि वेधसि त्वं सावित्र्यसि त्वमसि चक्रिणि चारुलक्ष्मीः ।।

काश्यां त्वमस्यमलरूपिणि मोक्षलक्ष्मीस्त्वं मे शरण्यमिह मंगलगौरि मातः ।। ६२ ।।

स्तुत्वेति तां स्मरहरार्धशरीरशोभां श्रीमंगलाष्टक महास्तवनेन भानुः ।।

देवीं च देवमसकृत्परितः प्रणम्य तूष्णीं बभूव सविता शिवयोः पुरस्तात् ।। ६३ ।।

।। देवदेव उवाच ।। ।।

उत्तिष्ठोत्तिष्ठ भद्रं ते प्रसन्नोस्मि महामते ।।

मित्रमन्नेत्रगो नित्यं प्रपश्ये तच्चराचरम् ।। ६४ ।।

मम मूर्तिर्भवान्सूर्य सर्वज्ञो भव सर्वगः ।।

सर्वेषां महसां राशिः सर्वेषां सर्वकर्मवित् ।। ६५ ।।

सर्वेषां सर्वदुःखानि भक्तानां त्वं निराकुरु ।।

त्वया नाम्नां चतुःषष्ट्या यदष्टकमुदीरितम् ।। ६६ ।।

अनेन मां परिष्टुत्य नरो मद्भक्तिमाप्स्यति ।।

अष्टकं मंगलागौर्या मंगलाष्टकसंज्ञकम् ।। ६७ ।।

अनेन मंगलागौरीं स्तुत्वा मंगलमाप्स्यति ।।

चतुःषष्ट्यष्टकं स्तोत्रं मंगलाष्टकमेव च ।। ६८ ।।

एतत्स्तोत्रवरं पुण्यं सर्वपातकनाशनम् ।।

दूरदेशांतरस्थोपि जपन्नित्यं नरोत्तमः ।।६९।।

त्रिसंध्यं परिशुद्धात्मा काशीं प्राप्स्यति दुर्लभाम् ।।

अनेन स्तोत्रयुग्मेन जप्तेन प्रत्यहं नृभिः ।।4.1.49.७०।।

ध्रुवदैनंदिनं पापं क्षालितं नात्र संशयः ।।

न तस्य देहिनो देहे जातु चित्किल्बिषस्थितिः ।।७१।।

त्रिकालं योजयेन्नित्यमेतत्स्तोत्रद्वयंशुभम् ।।

किंजप्तैर्बहुभिः स्तोत्रैश्चंचलश्रीप्रदैर्नृणाम् ।। ७२ ।।

एतत्स्तोत्रद्वयं दद्यात्काश्यां नैःश्रेयसीं श्रियम् ।।

तस्मात्सर्वप्रयत्नेन मानवैर्मोक्षकांक्षिभिः ।। ७३ ।।

एतत्स्तोत्रद्वयं जप्यं त्यक्त्वा स्तोत्राण्यनेकशः ।।

प्रपंच आवयोरेव सर्व एष चराचरः ।। ७४ ।।

तदावयोःस्तवादस्मान्निष्प्रपंचो जनो भवेत् ।।

समृद्धिमाप्य महतीं पुत्रपौत्रवतीमिह ।। ७५ ।।

अंते निर्वाणमाप्नोति जपन्स्तोत्रमिदं नरः ।।

अन्यच्च शृणु सप्ताश्व ग्रहराज दिवाकर ।। ।। ७६ ।।

त्वया प्रतिष्ठितं लिंगं गभस्तीश्वरसंज्ञितम् ।।

सेवितं भक्तिभावेन सर्वसिद्धिसमर्पकम् ।। ७७।।

त्वया गभस्तिमालाभिश्चांपेयांबुजकांतिभिः ।।

यदर्चित्वैश्वरं लिंगं सर्वभावेन भास्कर ।। ७८ ।।

गभस्तीश्वर इत्याख्यां ततो लिंगमवाप्स्यति ।।

अर्चयित्वा गभस्तीशं स्नात्वा पंचनदे नरः ।। ७९ ।।

न जातु जायते मातुर्जठरे धूतकल्मषः ।।

इमां च मंगलागौरीं नारी वा पुरुषोपि वा ।। 4.1.49.८० ।।

चैत्रशुक्लतृतीयायामुपोषणपरायणः ।।

महोपचारैः संपूज्य दुकूलाभरणादिभिः ।। ८१ ।।

रात्रौ जागरणं कृत्वा गीतनृत्यकथादिभिः ।।

प्रातः कुमारीः संपूज्य द्वादशाच्छादनादिभिः ।। ८२ ।।

संभोज्यपरमान्नाद्यैर्दत्त्वान्येभ्योपि दक्षिणाम् ।।

होमं कृत्वा विधानेन जातवेदस इत्यृचा ।। ८३ ।।

अष्टोत्तरशताभिश्च तिलाज्याहुतिभिः प्रगे ।।

एकं गोमिथुनं दत्त्वा ब्राह्मणाय कुटुंबिने ।।८४ ।।

श्रद्धया समलंकृत्य भूषणैर्द्विजदंपती ।।

भोजयित्वा महार्हान्नैः प्रीयेतां मंगलेश्वरौ ।। ८५ ।।

इति मंत्रं समुच्चार्य प्रातः कृत्वाथ पारणम् ।।

न दुर्भगत्वमाप्नोति न दारिद्र्यं कदाचन ।। ८६ ।।

न वै संतानविच्छित्तिं भोगोच्छित्तिं न जातुचित् ।।

स्त्री वैधव्यं न चाप्नोति न नायोषिद्वियोगभाक् ।। ८७ ।।

पापानि विलयं यांति पुण्यराशिश्च लभ्यते ।।

अपि वंध्या प्रसूयेत कृत्वैतन्मंगलाव्रतम् ।। ८८ ।।

एतद्व्रतस्य करणात्कुरूपत्वं न जातुचित् ।।

कुमारी विंदतेत्यंतं गुणरूपयुतं पतिम् ।।८९।।

कुमारोपि व्रतं कृत्वा विंदति स्त्रियमुत्तमाम् ।।

संति व्रतानि बहुशो धनकामप्रदानि च ।।4.1.49.९०।।

नाप्नुयुर्जातुचित्तानि मंगलाव्रततुल्यताम् ।।

कर्तव्या चाब्दिकी यात्रा मधौ तस्यां तिथौ नरैः ।। ९१ ।।

सर्वविघ्नप्रशांत्यर्थं सदा काशीनिवासिभिः ।।

अपरं द्युमणे वच्मि तव चात्र तपस्यतः ।। ९२ ।।

मयूखा एव खे दृष्टा न च दृष्टं कलेवरम् ।।

मयूखादित्य इत्याख्या ततस्ते दितिनंदन ।। ९३ ।।

त्वदर्चनान्नृणां कश्चिन्न व्याधिः प्रभविष्यति ।।

भविष्यति न दारिद्र्यं रविवारे त्वदीक्षणात् ।। ९४ । ।

इत्थं मयूखादित्यस्य शिवो दत्त्वा बहून्वरान् ।।

तत्रैवांतर्हितो भूतो रविस्तत्रैव तस्थिवान् ।। ९५ ।।

श्रुत्वाख्यानमिदं पुण्यं मयूखादित्यसंश्रयम् ।।

द्रौपदादित्यसहितं नरो न निरयं व्रजेत् ।।९६।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे द्रौपदादित्यमयूखादित्ययोर्वर्णनं नामैकोनपंचाशत्तमोध्यायः ।। ४९ ।। ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 50

।। स्कंद उवाच ।। ।।

वाराणस्यां तथादित्या ये चान्ये तान्वदाम्यतः ।।

कलशोद्भव ते प्रीत्या सर्वे सर्वाघनाशनाः ।। १ ।।

खखोल्को नाम भगवानादित्य परिकीर्तितः ।।

त्रिविष्टपोत्तरे भागे सर्वव्याधिविघातकृत् ।। २ ।।

यथा खखोल्क इत्याख्या तस्यादित्यस्य तच्छृणु ।।

पुरा कद्रूश्च विनता दक्षस्य तनये शुभे ।। ।।३।।

कश्यपस्य च ते पत्न्यौ मारीचेः प्राक्प्रजापतेः ।।

क्रीडंत्यावेकदान्योन्यं मुने ते ऊचतुस्त्विति ।। ४ ।।

।। कद्रूरुवाच ।। ।।

विनते त्वं विजानासि यदि तद्ब्रूहि मेग्रतः।।

अखंडिता गतिस्तेस्ति यतो गगनमंडले ।। ५ ।।

योसावुच्चैःश्रवा वाजी श्रूयते सवितूरथे ।।

किं रूपःसोस्ति शबलो धवलो वा वदाशु मे ।। ६ ।।

पणं च कुरु कल्याणि तुभ्यं यो रोचतेनघे ।।

एवमेव न यात्येष कालक्रीडनकं विना ।।७।।

।। विनतोवाच ।। ।।

किं पणेन भगिन्यत्र कथयाम्येवमेव हि ।।

त्वज्जये का च मे प्रीतिर्मज्जये किं नु ते सुखम् ।। ८ ।।

ज्ञात्वा पणो न कर्तव्यो मिथः स्नेहमभीप्सता ।।

ध्रुवमेकस्य विजये क्रोधोन्स्येह जायते ।।९।।

कद्रूरुवाच ।।

क्रीडेयं नात्र भगिनि कारणं किमपि क्रुधः ।।

खेलस्य व्यवहारोयं पणे यत्किंचिदुच्यते ।। 4.1.50.१० ।।

।। विनतोवाच ।। ।।

तथा कुरु यथा प्रीतिस्तवास्ति पवनाशिनि ।।

अथ तां विनतामाह कद्रूः कुटिलमानसा ।। ११ ।।

तस्यास्तु सा भवेद्दासी पराजीयेत या यया ।।

अस्मिन्पणे इमाः सर्वाः सख्यः साक्षिण्य एव नौ ।। १२ ।।

इत्यन्योन्यं पणीकृत्य सर्पिण्यपि पतत्त्रिणी ।।

उवाच कर्बुरं कद्रूरश्वं श्वेतं गरुत्मती ।। १३ ।।

कदागंतव्यमिति च चक्राते ते गमावधिम् ।।

जग्मतुश्च विरम्याथ क्रीडनात्स्वस्वमालयम् ।। १४ ।।

विनतायां गतायां तु कद्रूराहूय चांगजान् ।।

उवाच यात वै पुत्रा द्रुतं वचनतो मम ।। १५।।

तुरंगमुच्चैःश्रवसं प्रोद्भूतं क्षीरनीरधेः ।।

सुरासुरैर्मथ्यमानान्मंदराघातसाध्वसात् ।। १६ ।।

कार्यकारणरूपस्य सादृश्यमधिगच्छति ।।

अतस्तं क्षीरवर्णाभं कल्माषयत पुत्रकाः ।। १७ ।।

तस्य वालधिमध्यास्य कृष्णकुंतलतां गताः ।।

तथा तदंगलोमानि विधत्तविषसीत्कृतैः ।। १८ ।।

इति श्रुत्वा वचो मातुः काद्रवेयाः परस्परम् ।।

संमंत्र्य मातरं प्रोचुः कद्रूं कद्रूपमागताः ।। १९ ।।

।। नागा ऊचुः ।। ।।

मातर्वयं त्वदाह्वानाद्विहाय क्रीडनं बलात् ।।

प्राप्ताः प्रहृष्टा मृष्टान्नं दास्यत्यद्य प्रसूरिति ।। 4.1.50.२० ।।

मृष्टं तिष्ठतु तद्दूरं विषादप्यधिकं कटु ।।

तत्त्वया वादियन्मंत्रैरौषधैर्नोपशाम्यति ।। २१ ।।

वयं न यामो यद्भाव्यं तदस्माकं भवत्विह ।।

इति प्रोक्तं विषास्यैस्तैस्तदा कुटिलगामिभिः ।। २२ ।।

।। स्कंद उवाच ।। ।।

अन्येपि ये कुटिलगाः पररंध्रनिषेविणः ।।

अकर्णाः कूरहृदयाः पितरौ व्रीडयंति ते ।। २३ ।।

पित्रोर्गिरं निराकृत्य ये तिष्ठेयुः सुदुर्मदाः ।।

अत्याहितमिह प्राप्य गच्छेयुस्तेऽचिराल्लयम् ।। २४ ।।

तेषां वचनमाकर्ण्य नयाम इति सोरगी ।।

शशाप तान्क्रुधाविष्टा नागांश्चागः समागतान् ।। २५ ।।

तार्क्ष्यस्य भक्ष्या भवत यूयं मद्वाक्यलंघनात् ।।

जातमात्राश्च सर्पिण्यो भक्षयंतु स्वबालकान् ।। २६ ।।

इति शापानलाद्भीतैः कैश्चित्पातालमाश्रितम् ।।

जिजीविषुभिरन्यैश्च द्वित्रैश्चक्रे प्रसूवचः ।। २७ ।।

ते पुच्छमौच्चैःश्रवसमधिगम्य महाधियः ।।

सुनीलचिकुराभासं चक्रुरंगं च कर्बुरम् ।। २८ ।।

तत्क्ष्वेडानल धूमौघैः फूत्कारभरनिःसृतैः।।

मातृवाक्कृतिजाद्धर्मान्न दग्धा भानुभानुभिः ।। २९ ।।

विनतापृष्ठमारुह्य कद्रूः स्नेहवशात्ततः ।।

वियन्मार्गमलंकृत्य ददर्शोष्णांशुमंडलम् ।। 4.1.50.३० ।।

तिग्मरश्मिप्रभावेण व्याकुलीभूतमानसा ।।

कद्रुस्ततः खगीं प्राह विस्रब्धं विनते व्रज ।। ३१ ।।

उष्णगोरुष्णगोभिर्मे ताप्यते नितरां तनुः ।।

विस्रब्धाहं स्वभावेन त्वं सापेक्षाहि सर्वतः ।। ।। ३२ ।।

स्वरूपेण पतंगी त्वं पतंगोसौ सहस्रगुः ।।

अतएव न ते बाधा गगने तापसंभवा ।। ३३ ।।

वियत्सरसि हंसोयं भवती हंसगामिनी ।।

चंडरश्मिप्रतापाग्निस्त्वामतो नेह बाधते ।। ३४ ।।

खगीमुद्गीयमानां खे पुनरूचे बिलेशया ।।

त्राहित्राहि भगिन्यत्र यावोन्यत्र वियत्पथः ।। ३५ ।।

विनते विनतां मां त्वं किं नावसि पतत्त्रिणी ।।

तव दासी भविष्यामि त्वदुच्छिष्टनिषेविणी ।।३६ ।।

यावज्जीवमहं भूयां त्वत्पादोदकपायिनी ।।

खखोल्कानि पतेदेषा भृशगद्गदभाषिणी ।।।। ३७ ।।

मूर्च्छां गतवती पक्षपुटौ धृत्वा बिडोरगी।।

सख्युल्कानि पतेदेषा वक्तव्ये त्विति संभ्रमात् ।। ३८ ।।

खखोल्केति यदुक्ता गीः कद्र्वा संभ्रातचेतसा ।।

तदा खखोल्कनामार्कः स्तुतो विनतया बहु ।। ३९ ।।

मनागतिग्मतां प्राप्ते खे प्रयाति विवस्वति ।।

ताभ्यां तुरंगमो दर्शि किंचित्किर्मीरवान्रथे ।। 4.1.50.४० ।।

उक्ता विनतयैवैषा तापोपहतलोचना ।।

क्रूरा सरीसृपी सत्यवादिन्या विश्वमान्यया ।। ४१ ।।

कद्रु त्वया जितं भद्रे यत उच्चैःश्रवा हयः ।।

चंद्ररश्मिप्रभोप्येष कल्माष इव भासते ।। ४२ ।।

विधिर्बलीयान्भुजगि चित्रं जयपराजये ।।

क्रूरोपि विजयी क्वापि त्वक्रूरोपि पराजयी ।। ४३ ।।

विनताविनताधारा वदंतीति यथागतम् ।।

कद्रूनिवेशनं प्राप्ता तस्या दास्यमचीकरत् ।।४४।।

कदाचिद्विनतादर्शि सुपर्णनाश्रुलोचना ।।

विच्छाया मलिना दीना दीर्घनिःश्वासवत्यपि ।। ।। ४५ ।।

सुपर्ण उवाच ।। ।।

प्रातःप्रातरहो मातः क्व यासि त्वं दिनेदिने ।।

सायमायासि च कुतो विच्छाया दीनमानसा ।। ४६ ।।

कुतो निःश्वसिसि प्रोच्चैरश्रुपूर्ण विलोचना ।।

यथा क्लीबसुता योषिद्यथापति तिरस्कृता ।।४७।।

ब्रूहि मातर्झटित्यद्य कुतो दूनासि पत्त्रिणि ।।

मयि जीवति ते बाले कालेपि कृतसाध्वसे।। ।। ४८ ।।

अश्रुनिर्माणकरणे कारणं किं तपस्विनि ।।

सुचरित्रा सुनारीषु नामंगलमिहेष्यते ।। ४९ ।।

धिक्तांश्च पुत्रान्यन्माता तेषु जीवत्सु दुःखभाक् ।।

वरं वंध्यैव सा यस्याः सुता वंध्यमनोरथाः ।।4.1.50.५० ।।

इत्यूर्जस्वलमाकर्ण्य वचः सूनोर्गरुत्मतः ।।

विनता प्राह तं पुत्रं मातृभक्तिसमन्वितम् ।। ५१ ।।

अहं दास्यस्मि रे बाल कद्र्वाश्च क्रूरचेतसः ।।

पृष्ठे वहामि तां नित्यं तत्पुत्रानपि पुत्रक।।५२।।

कदाचिन्मंदरं यामि कदाचिन्मलयाचलम् ।।

कदाचिदंतरीपेषु चरेयं तदुदन्वताम् ।। ।। ५३ ।।

यत्रयत्र नयेयुस्ते काद्रवेयाः सुदुर्मदाः ।।

व्रजेयं तत्रतत्राहं तदधीना यतः सुत ।। ५४।।

गरुड उवाच ।। ।।

दासीत्वकारणं मातः किं ते जातं सुलक्षणे ।।

दक्षप्रजापतेः पुत्रि कश्यपस्यप्रियेऽनघे ।। ५५ ।।

विनतोवाच गरुडं पुरावृत्तमशेषतः ।।

दासीत्वकारणं यद्वदादित्याश्वविलोकनम् ।। ५६ ।।

श्रुत्वेति गरुडः प्राह मातरं सत्वरं व्रज।।

पृच्छाद्य मातस्तान्दुष्टान्काद्रवेयानिदं वचः ।।५७।।

यद्दुर्लभं हि भवतां यत्रात्यंतरुचिश्च वः ।।

मद्दासीत्वविमोक्षाय तद्याचध्वं ददाम्यहम्।। ।। ५८ ।।

तथाकरोच्च विनता तेपि श्रुत्वा तदीरितम् ।।

सर्पाः संमंत्र्य तां प्रोचुर्विनतां हृष्टमानसाः ।। ५९ ।।

मातृशापविमोक्षाय यदि दास्यति नः सुधाम् ।।

तदा समीहितं तेस्तु न दास्यत्यथ दास्यसि ।। 4.1.50.६० ।।

इत्योंकृत्य समापृच्छ्य कद्रूं द्रुतगतिः खगी ।।

गरुत्मंतं समाचष्ट दृष्ट्वा संहृष्टमानसम् ।। ६१ ।।

नागांतकस्ततः प्राह मातरं चिंतयातुराम् ।।

आनीतं विद्धि पीयूषं मातर्मे देहि भोजनम्।। ६२ ।।

विनता प्राह तं पुत्रं संप्रहृष्टतनूरुहा ।।

भोः सुपर्णार्णवं तूर्णं याहि मंगलमस्तु ते ।। ६३ ।।

संति तत्रापि बहुशो निषादा मत्स्यघातिनः ।।

वेलातटनिवासाश्च तान्भक्षय दुरात्मनः ।। ६४ ।।

परप्राणैर्निजप्राणान्ये पुष्णंतीह दुर्धियः ।।

शासनीयाः प्रयत्नेन श्रेयस्तच्छासनं परम् ।। ६५ ।।

बहुहिंसाकृतां हिंसा भवेत्स्वर्गस्य साधनम् ।।

विहिंसितेषु दुष्टेषु रक्ष्यते भूरिशो यतः ।।६६।।

निषादेष्वपि चेद्विप्रः कश्चिद्भवति पुत्रक ।।

संरक्षणीयो यत्नेन भक्षणीयो न कर्हिचित् ।। ६७ ।।

।। गरुड उवाच ।। ।।

मत्स्यादिनां वसन्मध्ये कथं ज्ञेयो द्विजो मया ।। अभक्ष्यो यस्त्वया प्रोक्तस्तच्चिह्नं किं चनात्थ मे ।। ६८ ।।

।। विनतोवाच ।।

यज्ञसूत्रं गले यस्य सोत्तरीयं सुनिर्मलम् ।।

नित्यधौतानि वासांसि भालं तिलक लांछितम् ।।६९।।

सपवित्रौ करौ यस्य यन्नीवी कुशगर्भिणी।।

यन्मौलिः सशिखाग्रंथिः स ज्ञेयो ब्राह्मणस्त्वया ।। 4.1.50.७० ।।

उच्चरेदृग्यजुःसाम्नामृचमेकामपीह यः ।।

गायत्रीमात्रमंत्रोपि स विज्ञेयो द्विजस्त्वया ।। ७१ ।।

गरुड उवाच ।।

मध्ये सदा निषादानां यो वसेज्जननि द्विजः ।।

तस्यैतेष्वेकमप्येव न मन्ये लक्ष्मबोधकम् ।। ७२ ।।

लक्ष्मांतरं समाचक्ष्व द्विजबोधकरं प्रसूः ।।

येन विज्ञाय तं विप्रं त्यजेयमपि कंठगम् ।। ७३ ।।

तच्छ्रुत्वा विनता प्राह यस्ते कंठगतोंऽगज ।।

खदिरांगारवद्दह्यात्तमपाकुरु दूरतः ।। ७४ ।।

द्विजमात्रेपि या हिंसा सा हिंसा कुशलाय न ।।

देशं वंशं श्रियं स्वं च निर्मूलयति कालतः ।। ७५ ।।

निशम्य काश्यपिरितिप्रसूपादौप्रणम्य च ।।

गृहीताशीर्ययौ शीघ्रं खमार्गेण खगेश्वरः ।।७६।।

दूरादालोकयांचक्रे निषादान्मत्स्यजीविनः ।।

पक्षौ विधूय पक्षींद्रो रजसापूर्य रोदसी ।। ७७ ।।

अंधीकृत्य दिशोभागानब्धिरोधस्युपाविशत् ।।

व्यादाय वदनं घोरं महाकंदरसन्निभम् ।। ७८ ।।

कांदिशीका निषादास्तु विविशुस्तत्र च स्वयम् ।।

मन्वानेष्वथ पंथानं तेषु कंठं विशत्स्वपि ।।७९ ।।

जज्वालेंगलसंस्पर्शो द्विजस्तत्कंठकंदलीम् ।।

प्राक्प्रविष्टानथो तार्क्ष्यो निषादानौदरीं दरीम् ।। 4.1.50.८० ।।

प्रवेश्य कंठतालुस्थं तं विज्ञाय द्विजस्फुटम् ।।

भयादुदगिरत्तूर्णं मातृवाक्येन यंत्रितः ।। ८१ ।।

तमुद्गीर्णं नरं दृष्ट्वा पक्षिराट्समभाषत ।।

कस्त्वं जात्यासि निगद मम कंठविदाहकृत् ।। ८२ ।।

स तदाहेति विप्रोहं पृष्टः सन्गरुडाग्रतः ।।

वसाम्येषु निषादेषु जातिमात्रोपजीवकः ।। ८३ ।।

तं प्रेष्य गरुडो दूरं भक्षयित्वाथ भूरिशः ।।

नभो विक्षोभयांचक्रे प्रलयानिल सन्निभः ।। ८४ ।।

तं दृष्ट्वा तिग्मतेजस्कं ज्वालाततदिगंतरम् ।।

ज्वलद्दावानलं शैलमिव बिभ्युर्दिवौकसः ।। ।। ८५ ।।

ते सन्नह्यंत युद्धाय सज्जीकृत बलायुधाः ।।

अध्यास्य वाहनान्याशु सर्वे वर्मभृतः सुराः ।। ८६ ।।

तिर्यग्गतीरविर्नायं नायमग्निः सधूमवान् ।।

क्षणप्रभाप्यसौ नैव को नः सम्मुख एत्यसौ ।। ८७ ।।

न दैत्येषु प्रभेदृक्स्यान्नाकृतिर्दानवेष्वियम्।।

महासाध्वसदः कोयमस्माकं हृत्प्रकंपनः ।। ८८ ।।

यावत्संभावयंतीति नीतिज्ञा अपि निर्जराः ।।

तावद्दुधाव स्वौ पक्षौ पक्षिराजो महाबलः ।। ८९ ।।

निपेतुः पक्षवातेन सायुधाश्च सवाहनाः ।।

न ज्ञायंते क्व संप्राप्ता वात्यया पार्णतार्णवत् ।। 4.1.50.९० ।।

अथ तेषु प्रणष्टेषु बुद्ध्या विज्ञाय पक्षिराट् ।।

कोशागारं सुधायाः स तत्रापश्यच्च रक्षिणः ।। ९१ ।।

शस्त्रास्त्रोद्यतपाणींस्तान्सुरानाधूय सर्वशः ।।

ददर्श कर्तरीयंत्रममृतोपरिसंस्थितम् ।। ९२ ।।

मनःपवनवेगेन भ्रममाणं महारयम् ।।

अपिस्पृशंतं मशकं यत्खंडयति कोटिशः ।। ९३ ।।

उपोपविश्य पक्षींद्रस्तस्य यंत्रस्य निर्भयः ।।

क्षणं विचारयामास किमत्र करवाण्यहो ।। ९४ ।।

स्प्रष्टुं न लभ्यते चैतद्वात्या न प्रभवेदिह ।।

क उपायोत्र कर्तव्यो वृथा जातो ममोद्यमः ।। ९५ ।।

न बलं प्रभवेदत्र न किंचिदपि पौरुषम् ।।

अहो प्रयत्नो देवानामेतत्पीयूषरक्षणे ।।९६।।

यदि मे शंकरे भक्तिर्निर्द्वंद्वातीव निश्चला ।।

तदा स देवदेवो मां वियुनक्तु महाऽधिया ।।९७।।

यद्यहं मातृभक्तोस्मि स्वामिनः शंकरादपि ।।

तदा मे बुद्धिरत्रास्तु पीयूषहरणं क्षमा ।। ९८ ।।

आत्मार्थं नोद्यमश्चायं हृत्स्थो वेत्तीति विश्वगः ।।

मातुर्दास्यविमोक्षाय यतेहममृतं प्रति ।। ९९ ।।

जरितौ पितरौ यस्य बालापत्यश्च यः पुमान् ।।

साध्वी भार्या च तत्पुष्ट्यै दोषोऽकृत्येपि तस्य न ।। 4.1.50.१०० ।।

इति चिंतयतस्तस्य बुद्धिरासीन्महात्मनः ।। १ ।।

देहं चकार सोत्यंतमणीयांसमणोरपि ।।

परमाणुसहस्रांशं कृत्वा रूपं महाद्भुतम् ।। २ ।।

प्रविश्य कर्तरीयंत्रमधोदेहस्य लाघवात् ।।

बिभ्यत्तद्यंत्रतो देहं वंचयन्वायुखंडनात् ।।

मूलमुत्पाट्य तरसा गृहीत्वाऽमृतभाजनम् ।। ३ ।।

निर्ययौ पावने मार्गे क्रोशत्सु स्वर्गसद्मसु ।। ४ ।।

तथा वैकुंठनाथं ते गत्वा प्रोचुः सुधाभुजः ।।

निर्जित्य नीयते चक्रिन्सुधा नो जीवितं परम् ।। ५ ।।

इत्याकर्ण्य हरिस्तेभ्योऽभयं दत्त्वा त्वरायुतः ।।

कृत्वा युद्धं च सुमहद्विंशार्कघटिकाद्वयम् ।। ।। ६ ।।

शुंभदेव्योर्यथासूत गरुडस्तत्र चाधिकः ।।

तदा प्रसन्नो भगवान्महायुद्धेन सर्वदः ।। ७ ।।

गत्वा गरुडमाहेदं प्रसन्नोस्मि खगेश्वर ।।

वरं वृणीहि भद्रं ते जितवृंदारवृंदक।। ८ ।।

हसित्वा गरुडः प्राह विश्वरूपं जनार्दनम् ।।

अहमेव प्रसन्नोस्मि त्वं प्रार्थय वरद्वयम् ।। ९ ।।

ततः कैटभजित्प्राह वैनतेयं मुदान्वितः ।।

वृतंवृतं महोदार देहिदेहि वरद्वयम् ।। 4.1.50.११० ।।

इति विष्णूदितं श्रुत्वा प्रहसन्नाह पक्षिराट् ।।

किं विलंबेन तद्ब्रूहि दत्तं दत्तं वरद्वयम् ।। ११ ।।

अलब्धलाभे संजाते द्यूतादि विजयोदये ।।

दातव्यं सुधियापात्रे सदा लाभजयौ क्व वा ।। १२ ।।

।। श्रीविष्णुरुवाच ।। ।।

बलवानसि पक्षींद्र तन्मे वाहनतां व्रज ।।

एको वरोयं वरद द्वितीयं शृणु काश्यप ।। १३ ।।

दर्शयित्वामृतं प्राज्ञ मातृदास्यविमोक्षकम् ।।

द्विजिह्वेभ्यः कुरु तथा द्रागश्नंति न ते यथा ।। १४ ।।

देया सुधा सुधाभुग्भ्यो द्वितीयोस्तु वरो मम ।।

तथेति स प्रतिज्ञाय निर्ययौ पक्षिराड्दिवः ।। १५ ।।

स मातरं विनिर्मोच्य दास्यात्काश्यपनंदनः ।।

नागानां पुरतो धृत्वा महामृतकमंडलुम् ।। १६ ।।

अमृतं पातुकामांस्तानित्याचष्ट महामतिः ।।

नागाः शुचित्वमासाद्य भोक्तव्यैषा सुधा शुभा ।। १७ ।।

नोचेदशुचिभिः स्पृष्टा स्नानादि परिवर्जितैः ।।

यास्यत्यदृश्यतामेषा सुधाऽनिमिषरक्षिता।। १८।।

सामान्यमपि यद्रक्ष्यं स्पृश्यतेऽशुचिभिः क्वचित् ।।

हरंति तद्रसं देवास्तच्च तिष्ठति नीरसम् ।। १९ ।।

इत्युक्त्वा सहितो मात्रा वैनतेयो विनिर्ययौ ।।

कुशासने च तैरुक्तो धृत्वा पीयूषभाजनम् ।। 4.1.50.१२० ।।

यावत्स्नातुं गताः सर्पास्तावत्पीयूषभाजनम् ।।

आदाय विष्णुना दत्तं देवेभ्य इव जीवितम् ।। २१ ।।

आगत्य भुजगाः स्नात्वा न दृष्ट्वामृतभाजनम् ।।

अहो प्रतारिता नीतममृतं चेति चुक्रुशुः ।। २२ ।।

ततः पर्यलिहन्दर्भान्पीयूषस्पर्शकांक्षिणः ।।

आस्तां तावत्सुधा दूरं जिह्वास्तेषां द्विधाभवन् ।। २३ ।।

अन्येप्यन्यायलब्धार्थं ये बुभुक्षंति केवलम् ।।

तन्नो परिणतिं गच्छेद्भोक्तुं वातैर्न लभ्यते।। ।। २४ ।।

न्यायाध्वस्थेन तार्क्ष्येण सुधा प्राप्तातिदुर्लभा ।।

लब्धाप्यन्यायतो नागैर्दृष्टमात्रा क्षणाद्गता ।।२५।।

अथ दास्याद्विनिर्मुक्ता विनतोवाच खेचरम् ।।

पुत्र काशीं प्रयास्यामि दास्यपापापनुत्तये ।। २६ ।।

तावत्पापानि जृंभंते नानाजन्मार्जितान्यपि ।।

यावत्काशी न हृत्संस्था पुनर्भवविघातिनी।। २७ ।।

काशीस्मरणमात्रेण किं चित्रं यदघं व्रजेत् ।।

गर्भवासोपि नश्येत विश्वेशानुग्रहात्परात् ।। २८ ।।

यत्र विश्वेश्वरः साक्षात्तारापतिविभूषणः ।।

तारयेत्तारकद्रोण्या दुस्तराद्भवसागरात् ।। २९ ।।

विश्वेशानुगृहीतानां विच्छिन्नाखिलकर्मणाम् ।।

भवेत्काशीं प्रति मतिर्नेतरेषां कदाचन ।। 4.1.50.१३० ।।

काशीं प्रति मनो येषां निःशेषक्षालितैनसाम् ।।

त एव मानवा लोके सत्यं नृप शवोपरे ।। ३१ ।।

तैरेव कालो विजितस्त एव हि गतैनसः ।।

अपुनर्गर्भवासास्ते प्राप्ता वाराणसीह यैः ।। ।। ३२।।

श्रेयसां भाजनं चैतन्नृजन्मन मुधा नयेत्।।

देवानामपिदुष्प्राप्यं काशीसंदर्शनादृते ।। ३३ ।।

कः कलिः कोथवा कालः किं वा कर्माण्यनेकधा ।।

परानंदप्रदं क्षेत्रमविमुक्तं यदीक्षितम् ।। ३४ ।।

ते गर्भवासे तिष्ठंति पुनस्ते गर्भवासिनः।।

ये न गर्भवनच्छेत्रीं सेवंते वरणामसिम्।।३५।।

निशम्येति वचः प्राह तार्क्ष्यो नत्वाथ मातरम्।।

अहमप्यागमिष्यामि काशीं द्रष्टुं शिवार्चिताम् ।। ३६।।

मातुराज्ञामथ प्राप्य जनन्या सह पक्षिराट् ।।

क्षणाद्वाराणसीं प्राप मोक्षनिक्षेपभूमिकाम् ।। ३७ ।।

उभावपि च तेपाते तप उग्रं महामती ।।

संस्थाप्य शांभवं लिंगं पतत्त्रींद्रोऽचलेंद्रियः ।। ३८ ।।

नाम्ना खखोल्कमादित्यं संस्थाप्य विनता शुभम् ।।

अचिरेणैव कालेन महतस्तपसस्तयोः ।।३९।।

काश्यां प्रसन्नौ संजातौ देवौ शंकरभास्करौ ।।

गरुडस्थापिताल्लिंगादाविरासीदुमापतिः ।। 4.1.50.१४० ।।

गरुडाय वरान्प्रादात्स बहूनतिदुर्लभान्।।

खगेंद्र मम भक्तोसि तव ज्ञानं भविष्यति ।। ४१ ।।

वेत्स्यसि त्वं रहस्यं मे यन्न ज्ञातं सुरैरपि ।।

त्वयैतत्स्थापितं लिंगं गरुडेश्वरसंज्ञितम् ।। ४२ ।।

परमज्ञानदं पुंसां दृष्टं स्पृष्टं समर्चितम् ।। अन्यच्च शृणु पक्षींद्र हितं ते वच्मि सांप्रतम् ।। ४३ ।।

असावहं स वै विष्णुर्मास्तु ते भेददृक्च नौ ।।

एवं तस्यैव पक्षींद्र दैत्येंद्र बलहारिण ।। ४४ ।।

प्राप्य सत्पत्रतां पत्रिंस्त्वमप्यर्च्यो भविष्यसि ।।

इति दत्त्वा वरं शंभुः स्वभक्ताय गरुत्मते ।। ४५ ।।

तत्रैवांतर्हितो जातो गरुडोपि हरिं ययौ ।।

हरे रथत्वं संप्राप्य सोपि पूज्योऽभवद्भुवि ।। ४६ ।।

तपस्यंतीमथालोक्य कदाचिद्विनतां प्रभुः ।।

शिवस्यैव परामूर्तिः खखोल्को नाम भास्करः ।। ४७ ।।

दत्त्वा वरं च पापघ्नं शिवज्ञानसमन्वितम् ।।

काशीवासिजनानेक भवपापक्षयंकरः ।। ४८ ।।

विनतादित्य इत्याख्यः खखोल्कस्तत्र संस्थितः ।।

इत्थं खखोल्क आदित्यः काशीविघ्नतमोहरः ।। ४९ ।।

तस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ।।

काश्यां पैशंगिले तीर्थे खखोल्कस्य विलोकनात् ।।

नरश्चिंतितमाप्नोति नीरोगो जायते क्षणात् ।। 4.1.50.१५० ।।

नरः श्रुत्वैतदाख्यानं खखोल्कादित्यसंभवम् ।।

गरुडेशेन सहितं सर्वपापैः प्रमुच्यते ।। १५१ ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे खखोल्कादित्य गरुडेशयोर्वर्णनंनाम पंचाशत्तमोऽध्यायः ।। ५० ।।

इति काशीखंडपूर्वार्धं समाप्तम् ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 51

।। अथ श्रीकाशीखंडोत्तरार्धं प्रारभ्यते ।।

श्रीगणेशाय नमः ।।

।। अगस्तिरुवाच ।। ।।

पार्वती हृदयानंद सर्वज्ञांगभव प्रभो ।।

किंचित्प्रष्टुमनाः स्वामिंस्तद्भवान्वक्तुमर्हति ।। १ ।।

दक्ष प्रजापतेः पुत्री कश्यपस्य परिग्रहः ।।

गरुत्मतः प्रसूः साध्वी कुतो दास्यमवाप सा ।। २ ।।

।। स्कंद उवाच ।। ।।

हंजिकात्वं यथा प्राप्ता विनता सा तपस्विनी ।।

तदप्यहं समाख्यामि निशामय महामते ।। ३ ।।

कद्रूरजीजनत्पुत्राञ्शतं कश्यपतः पुरा ।।

उलूकमरुणं तार्क्ष्यमसूत विनता त्रयम् ।। ४ ।।

कौशिको राज्यमाप्यापि श्रेष्ठत्वात्पक्षिणां मुने ।।

निर्गुणत्वाच्च तैः सर्वैः स राज्यादवरोपितः ।। ५ ।।

क्रूराक्षोयं दिवांधोयं सदा वक्रनखस्त्वसौ ।।

अतीवोद्वेगजनकं सर्वेषामस्य भाषणम् ।। ६ ।।

इत्थं तस्य गुणग्रामान्विकथ्य बहुशः खगाः ।।

नाद्यापि वृण्वते राज्ये कमपि स्वैरचारिणः ।। ७ ।।

कौशिकेथ तथावृत्ते पुत्रवीक्षणलालसा ।।

अंडं प्रस्फोटयामास मध्यमं विनता तदा ।। ८ ।।

पूर्णे वर्षसहस्रे तु प्रस्फोट्य घटसंभव ।।

तदभेदितयौत्सुक्यादंडमष्टमके शते ।। ९ ।।

तावत्सर्वाणि गात्राणि तस्यातिमहसः शिशोः ।।

ऊर्वोरुपरिसिद्धानि दंडांतर्निवासिनः ।। 4.2.51.१० ।।

अंडान्निर्गतमात्रेण क्रोधारुणमुखश्रिया ।।

अर्धनिष्पन्नदेहेन शिशुना शापिता प्रसूः ।। ११ ।।

जनयित्रि त्वया दृष्ट्वा काद्रवेयान्स्वलीलया ।।

खेलतो मातुरुत्संगे यदंडं व्याधित द्विधा ।। १२ ।।

तदनिष्पन्न सर्वांगः शपामि त्वा विहंगमे ।।

तेषामेवैधि दासी त्वं सपत्न्यंग भुवामिह ।। १३ ।।

वेपमानाथ तच्छापादिदं प्रोवाच पक्षिणी ।।

अनूरो ब्रूहि मे शापावसानं मातुरंगज ।। १४ ।।

।। अनूरुरुवाच ।।

अंडं तृतीयं मा भिंधि ह्यनिष्पन्नं ममेव हि ।।

अस्मिन्नंडे भविष्यो यः स ते दास्यं हरिष्यति ।। १५ ।।

इत्युक्त्वा सोरुणोगच्छदुड्डीयानंदकाननम् ।।

यत्र विश्वेश्वरो दद्यादपि पंगोः शुभां गतिम्।। १६ ।।

एतत्ते पृच्छतः ख्यातं विनता दास्यकारणम्।।

मुने प्रसंगतो वच्मि अरुणादित्यसंभवम् ।। १७ ।।

अनूरुत्वादनूरुर्योरुणः क्रोधारुणो यतः ।।

वाराणस्यां तपस्तप्त्वा तेनाराधि दिवाकरः ।। १८ ।।

सोपि प्रसन्नो दत्त्वाथ वरांस्तस्मा अनूरवे ।।

आदित्यस्तस्य नाम्नाभूदरुणादित्य इत्यपि ।। १९ ।।

।। अर्क उवाच ।।

तिष्ठानूरो मम रथे सदैव विनतात्मज ।।

जगतां च हितार्थाय ध्वांतं विध्वंसयन्पुरः ।। 4.2.51.२० ।।

अत्र त्वत्स्थापितां मूर्तिं ये भजिष्यंति मानवाः ।।

वाराणस्यां महादेवोत्तरे तेषां कुतो भयम् ।। २१ ।।

येर्चयिष्यंति सततमरुणादित्यसंज्ञकम् ।।

मामत्र तेषां नो दुःखं न दारिद्र्यं न पातकम्।। २२ ।।

व्याधिभिर्नाभिभूयंते नो पसर्गैश्च कैश्चन ।।

शोकाग्निना न दह्यंते ह्यरुणादित्यसेवनात् ।। २३ ।।

अथ स्यंदनमारोप्य नीतवानरुणं रविः ।।

अद्यापि स रथे सौरे प्रातरेव समुद्यति ।। २४ ।।

यः कुर्यात्प्रातरुत्थाय नमस्कारं दिनेदिने ।।

अरुणाय ससूर्याय तस्य दुःखभयं कुतः ।। २५ ।।

अरुणादित्यमाहात्म्यं यः श्रोष्यति नरोत्तमः ।।

न तस्य दुष्कृतं किंचिद्भविष्यति कदाचन ।। २६ ।।

स्कंद उवाच ।।

वृद्धादित्यस्य माहात्म्यं शृणु ते कथयाम्यहम्।।

यस्य श्रवणमात्रेण नरो नो दुष्कृतं भजेत् ।।२७ ।।

पुरात्र वृद्धहारीतो वाराणस्यां महातपाः ।।

महातपः समृद्ध्यर्थं समाराधितवान्रविम् ।। २८ ।।

मूर्तिं संस्थाप्य शुभदां भास्वतः शुभलक्षणाम् ।।

दक्षिणेन विशालाक्ष्या दृढभक्तिसमन्वितः ।। २९ ।।

तुष्टस्तस्मै वरं प्रादाद्ब्रध्नो वृद्धतपस्विने ।।

अलं विलंब्य याचस्व कस्ते देयो वरो मया ।। 4.2.51.३० ।।

सोथ प्रसन्नाद्द्युमणेरवृणीत वरं मुनिः ।।

यदि प्रसन्नो भगवान्युवत्वं देहि मे पुनः।। ३१ ।।

तपःकरण सामर्थ्यं स्थविरस्य न मे यतः ।।

पुनस्तारुण्यमाप्तोहं चरिष्याम्युत्तमं तपः ।।३२।।

तप एव परो धर्मस्तप एव परं वसु ।।

तप एव परः कामो निर्वाणं तप एव हि ।। ३३ ।।

ऋतेन तपसः क्वापि लभ्या ऐश्वर्यसंपदः ।।

पदं ध्रुवादिभिः प्रापि केवलं तपसो बलात् ।। ३४ ।।

ततस्तपश्चरिष्यामि लोकद्वयमहत्त्वदम् ।।

प्राप्य त्वद्वरदानेन यौवनं सर्वसंमतम् ।। ३८३ ।।

धिग्जरांप्राणिनामत्र यया सर्वो विरज्यति ।।

जरातुरेंद्रियग्रामे स्त्रियोपि नयतः स्वसात् ।। ३६ ।।

वरं मरणमेवास्तु मा जरास्त्वतिशोच्यकृत् ।।

क्षणं दुःखं च मरणं जरा दुःखं क्षणेक्षणे ।।३७।।

कांक्षंति दीर्घतपसे चिरमायुर्जितेंद्रियाः ।।

धनं दानाय पुत्राय कलत्रं मुक्तये धियम्।। ३८ ।।

वृद्धस्यवार्धकं ब्रध्नस्तत्क्षणादपहृत्य वै ।।

ददौ च चारुता हेतुं तारुण्यं पुण्यसाधनम् ।।३९।।

एवं स वृद्धहारीतो वाराणस्यां महामुनिः ।।

संप्राप्य यौवनं ब्रध्नात्तप उग्रं चचार ह ।।4.2.51.४०।।

वृद्धेनाराधितो यस्माद्धारीतेन तपस्विना ।।

आदित्यो वार्धकहरो वृद्धादित्यस्ततः स्मृतः ।। ४१ ।।

वृद्धादित्यं समाराध्य वाराणस्यां घटोद्भव ।।

जरा दुर्गति रोगघ्नं बहवः सिद्धिमागताः ।। ४२ ।।

वृद्धादित्यं नमस्कृत्य वाराणस्या रवौ नरः ।।

लभेदभीप्सितां सिद्धिं न क्वचिद्दुर्गतिं लभेत् ।। ४३ ।।

।। स्कंद उवाच ।। ।।

अतः परं शृणु मुने केशवादित्यमुत्तमम् ।।

यथा तु केशवं प्राप्य सविता ज्ञानमाप्तवान् ।। ४४ ।।

व्योम्नि संचरमाणेन सप्ताश्वेनादिकेशवः ।।

एकदा दर्शिभावेन पूजयँल्लिंगमैश्वरम् ।। ४५ ।।

कौतुकादिव उत्तीर्य हरे रविरुपाविशत् ।।

निःशब्दो निश्चलः स्वस्थो महाश्चर्यसमन्वितः ।। ४६ ।।

प्रतीक्षमाणोवसरं किंचित्प्रष्टुमना हरिम् ।।

हरिं विसर्जितार्चं च प्रणनाम कृतांजलिः ।। ४७ ।।

स्वागतं ते हरिः प्राह बहुमानपुरःसरम् ।।

स्वाभ्याशं आसयामास भास्वंतं नतकंधरम्।। ४८।।

अथावसरमालोक्य लोकचक्षुरधोक्षजम् ।।

नत्वा विज्ञापयामास कृतानुज्ञोऽसुरारिणा ।। ४९ ।।

।। रविरुवाच ।। ।।

अंतरात्मासि जगतां विश्वंभर जगत्पते ।।

तवापि पूज्यः कोप्यस्ति जगत्पूज्यात्र माधव ।। 4.2.51.५० ।।

त्वत्तश्चाविर्भवेदेतत्त्वयि सर्वं प्रलीयते ।।

त्वमेव पाता सर्वस्य जगतो जगतांनिधे ।। ५१ ।।

इत्याश्चर्यं समालोक्य प्राप्तोस्म्यत्र तवांतिकम् ।।

किमिदं पूज्यते नाथ भवता भवतापहृत् ।। ५२ ।।

इति श्रुत्वा हृषीकेशः सहस्रांशोरुदीरितम् ।।

उच्चैर्माशंस सप्ताश्वं वारयन्करसंज्ञया ।। ५३ ।।

।। श्रीविष्णुरुवाच ।। ।।

देवदेवो महादेवो नीलकंठ उमापतिः ।।

एक एव हि पूज्योत्र सर्वकारणकारणम् ।। ५४ ।।

अत्र त्रिलोचनादन्यं समर्चयतियोल्पधीः ।।

सलोचनोपि विज्ञेयो लोचनाभ्यां विवर्जितः ।।५५।।

एको मृत्युंजयः पूज्यो जन्ममृत्युजराहरः ।।

मृत्युंजयं किलाभ्यर्च्य श्वेतो मृत्युंजयोभवत् ।। ५६ ।।

कालकालं समाराध्य भृंगी कालं जिगायवै ।।

शैलादिमपि तत्याज मृत्युर्मृत्युंजयार्चकम् ।।५७।।

विजिग्ये त्रिपुरं यस्तु हेलयैकेषु मोक्षणात् ।।

तं समभ्यर्च्य भूतेशं को न पूज्यतमो भवेत् ।।५८।।

त्रिजगज्जयिनो हेतोस्त्र्यक्षस्याराधनं परम् ।।

को नाराधयति ब्रध्नसारस्य स्मरविद्विषः ।। ५९ ।।

यस्याक्षिपक्ष्मसंकोचाज्जगत्संकोचमेत्यदः ।।

विकस्वरं विकासाच्च कस्य पूज्यतमो न सः ।। 4.2.51.६० ।।

शंभोर्लिंगं समभ्यर्च्य पुरुषार्थचतुष्टयम् ।।

प्राप्नोत्यत्र पुमान्सद्यो नात्र कार्या विचारणा ।। ६१ ।।

समर्च्य शांभवं लिंगमपिजन्मशतार्जितम् ।।

पापपुंजं जहात्येव पुमानत्र क्षणाद्ध्रुवम् ।। ६२ ।।

किंकिं न संभवेदत्र शिवलिंगसमर्चनात् ।।

पुत्राः कलत्र क्षेत्राणि स्वर्गो मोक्षोप्यसंशयम् ।। ६३ ।।

त्रैलोक्यैश्वर्यसंपत्तिर्मया प्राप्ता सहस्रगो ।।

शिवलिंगार्चनादेकात्सत्यंसत्यं पुनःपुनः ।। ६४ ।।

अयमेव परोयोगस्त्विदमेव परं तपः ।।

इदमेव परं ज्ञानं स्थाणुलिंगं यदर्च्यते ।। ६५।।

यैर्लिंगं सकृदप्यत्र पूजितं पार्वतीपतेः ।।

कुतो दुःखभयं तेषां संसारे दुःखभाजने ।। ६६ ।।

सर्वं परित्यज्य रवे यो लिंगं शरणं गतः ।।

न तं पापानि बाधंते महांत्यपि दिवाकर ।। ६७ ।।

लिंगार्चने भवेद्वृद्धिस्तेषामेवात्र भास्कर ।।

येषां पुनर्भवच्छेदं चिकीर्षति महेश्वरः ।।६८।।

न लिंगाराधनात्पुण्यं त्रिषुलोकेषु चापरम् ।।

सर्वतीर्थाभिषेकः स्याल्लिंगस्नानांबु सेवनात् ।। ६९ ।।

तस्माल्लिंगं त्वमप्यर्क समर्चय महेशितुः ।।

संप्राप्तं परमां लक्ष्मीं महातेजोभि जृंभणीम् ।। 4.2.51.७० ।।

इति श्रुत्वा हरेर्वाक्यं तदारभ्य सहस्रगुः ।।

विधाय स्फाटिकं लिंगं मुनेद्यापि समर्चयेत् ।। ७१ ।।

गुरुत्वेन तदाकल्य विवस्वानादिकेशवम् ।।

तत्रोपतिष्ठतेद्यापि उत्तरेणादिकेशवात् ।। ७२ ।।

अतः स केशवादित्यः काश्यां भक्ततमोनुदः ।।

समर्चितः सदा देयान्मनसो वांछितं फलम् ।। ७३ ।।

केशवादित्यमाराध्य वाराणस्यां नरोत्तमः ।।

परमं ज्ञानमाप्नोति येन निर्वाणभाग्भवेत् ।। ७४ ।।

तत्र पादोदके तीर्थेकृतसर्वोदकक्रियः ।।

विलोक्य केशवादित्यं मुच्यते जन्मपातकैः ।। ७५ ।।

अगस्ते रथसप्तम्यां रविवारो यदाप्यते ।।

तदा पादोदके तीर्थे आदिकेशव सन्निधौ ।।७६।।

स्नात्वोषसि नरो मौनी केशवादित्यपूजनात् ।।

सप्तजन्मार्जितात्पापान्मुक्तो भवति तत्क्षणात् ।। ७७।।

यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु ।।

तन्मे रोगं च शोकं च माकरी हंतु सप्तमी ।। ७८ ।।

एतज्जन्मकृतं पापं यच्च जन्मांतरार्जितम् ।।

मनोवाक्कायजं यच्च ज्ञाताज्ञाते च ये पुनः ।। ७९ ।।

इति सप्तविधं पापं स्नानान्मे सप्तसप्तिके ।।

सप्तव्याधिसमायुक्तं हर माकरि सप्तमि ।। 4.2.51.८० ।।

एतन्मंत्रत्रयं जप्त्वा स्नात्वा पादोदके नरः ।।

केशवादित्यमालोक्य क्षणान्निष्कलुषो भवेत् ।। ८१ ।।

केशवादित्यमाहात्म्यं शृण्वञ्श्रद्धासमन्वितः ।।

नरो न लिप्यते पापैः शिवभक्तिं च विंदति ।। ८२ ।।

।। स्कंद उवाच ।। ।।

अतः परं शृणु मुने विमलादित्यमुत्तमम् ।।

हरिकेशवने रम्ये वाराणस्यां व्यवस्थितम्।। ८३ ।।

उच्चदेशेभवत्पूर्वं विमलो नाम बाहुजः ।।

स प्राक्तनात्कर्मयोगाद्विमले पथ्यपि स्थितः ।। ८४ ।।

कुष्ठरोगमवाप्योच्चैस्त्यक्त्वा दारान्गृहं वसु ।।

वाराणसीं समासाद्य ब्रध्नमाराधयत्सुधीः ।। ८५ ।।

करवीरैर्जपाभिश्च गंधकैः किंशुकैः शुभैः ।।

रक्तोत्पलैरशोकैश्च स समानर्च भास्करम् ।। ८६ ।।

विचित्ररचनैर्माल्यैः पाटलाचंपकोद्भवैः ।।

कुंकुमागुरुकर्पूरमिश्रितैः शोणचंदनैः ।। ८७ ।।

देवमोहनधूपैश्च बह्वामोदततांबरैः ।।

कर्पूरवर्तिदीपैश्च नैवेद्यैर्घृतपायसैः ।। ८८ ।।

अर्घदानैश्च विधिवत्सौरेः स्तोत्रजपैरपि ।।

एवं समाराधयतस्तस्यार्को वरदोभवत् ।। ८९ ।।

उवाच च वरं ब्रूहि विमलामलचेष्टित ।।

कुष्ठश्च ते प्रयात्वेष प्रार्थयान्यं वरं पुनः ।। 4.2.51.९० ।।

आकर्ण्य विमलश्चेत्थमालापं रश्मिमालिनः ।।

प्रणतो दंडवद्भूमौ संप्रहष्टतनूरुहः । ९१ ।।

शनैर्विज्ञापयांचक्र एकचक्ररथं रविम् ।।

जगच्चक्षुरमेयात्मन्महाध्वांतविधूनन ।। ९२ ।।

यदि प्रसन्नो भगवन्यदि देयो वरो मम ।।

तदा त्वद्भक्तिनिष्ठा ये कुष्ठं मास्तु तदन्वये ।। ९३ ।।

अन्येपि रोगा मा संतु मास्तु तेषां दरिद्रता ।।

मास्तु कश्चन संतापस्त्वद्भक्तानां सहस्रगो ।। ९४ ।।

। श्रीसूर्य उवाच ।। ।।

तथास्त्विति महाप्राज्ञ शृण्वन्यं वरमुत्तमम् ।।

त्वयेयं पूजिता मूर्तिरेवं काश्यां महामते ।। ९५ ।।

अस्याः सान्निध्यमत्राहं न त्यक्ष्यामि कदाचन ।।

प्रथिता तव नाम्ना च प्रतिमैषा भविष्यति ।।९६।।

विमलादित्य इत्याख्या भक्तानां वरदा सदा ।।

सर्वव्याधि निहंत्री च सर्वपापक्षयंकरी ।।९७।।

इति दत्त्वा वरान्सूर्यस्तत्रैवांतरधीयत ।।

विमलो निर्मलतनुः सोपि स्वभवनं ययौ ।। ९८ ।।

इत्थं स विमलादित्यो वाराणस्यां शुभप्रदः ।।

तस्य दर्शनमात्रेण कुष्ठरोगः प्रणश्यति ।।९९।।

यश्चैतां विमलादित्यकथां वै शृणुयान्नरः ।।

प्राप्नोति निर्मलां शुद्धिं त्यज्यते च मनोमलैः ।।4.2.51.१००।।

।। स्कंद उवाच ।। ।।

गंगादित्योस्ति तत्रान्यो विश्वेशाद्दक्षिणेन वै ।।

तस्य दर्शनमात्रेण नरः शुद्धिमियादिह ।। १ ।।

यदा गंगा समायाता भगीरथपुरस्कृता ।।

तदा गंगां परिष्टोतुं रविस्तत्रैव संस्थितः ।। २ ।।

अद्याप्यहर्निशं गंगां संमुखीकृत्य भास्करः ।।

परिष्टौति प्रसन्नात्मा गंगाभक्तवरप्रदः ।। ३ ।।

गंगादित्यं समाराध्य वाराणस्यां नरोत्तमः ।।

दुर्गतिं जातु न क्वापि लभते न च रोगभाक् ।। ४

।। स्कंद उवाच ।।

अन्यच्छृणु महाभाग यमादित्यस्य संभवम्।।

यच्छ्रुत्वापि नरो जातु यमलोकं न पश्यति ।। ५ ।।

यमेशात्पश्चिमे भागे वीरेशात्पूर्वतो मुने ।।

यमादित्यं नरो दृष्ट्वा यमलोकं न पश्यति ।। ६ ।।

यमतीर्थे नरः स्नात्वा भूतायां भौमवासरे ।।

यमेश्वरं विलोक्याशु सर्वैः पापैः प्रमुच्यते ।। ७ ।।

यमतीर्थे यमः पूर्वं तप्त्वा सुविमलं तपः ।।

यमेशं च यमादित्यं प्रत्यष्ठाद्भक्तसिद्धिदम् ।। ८ ।।

यमेन स्थापितो यस्मादादित्यस्तत्र कुंभज ।।

अतः स हि यमादित्यो यामीं हरति यातनाम् ।। ९ ।।

यमेशं च यमादित्यं यमेन स्थापितं नमन् ।।

यमतीर्थे कृतस्नानो यमलोकं न पश्यति ।। 4.2.51.११० ।।

यमतीर्थे चतुर्दश्यां भरण्यां भौमवासरे ।।

तर्पणं पिंडदानं च कृत्वा पित्रनृणी भवेत् ।। ११ ।।

अभिलष्यंति सततं पितरो नरकौकसः ।।

भौमै भरण्यां भूतायां यदि योगोयमुत्तमम् ।। १२ ।।

काश्यां कश्चिद्यमे तीर्थे कृत्वा स्नानं महामतिः ।।

अपि यस्तर्पणंकुर्यात्सतिलं नो विमुक्तये ।। १३ ।।

किं गया गमनैः पुंसां किं श्राद्धैर्भूरिदक्षिणैः ।।

यदि काश्यां यमे तीर्थे योगेस्मिञ्श्राद्धमाप्यते।। १४ ।।

श्राद्धं कृत्वा यमे तीर्थे पूजयित्वा यमेश्वरम् ।।

यमादित्यं नमस्कृत्य पितॄणामनृणो भवेत् ।।१५।।

।। स्कंद उवाच ।। ।।

इति ते द्वादशादित्याः कथिता पापनाशनाः ।।

यत्संभवं समाकर्ण्य नरो न निरयी भवेत्।। १६ ।।

अन्येपि संति घटज रविभक्तैरनेकशः ।।

काश्यां संस्थापिताः सूर्या गुह्यकार्कादयः किल ।। १७ ।।

श्रुत्वाध्यायानिमान्पुण्यान्द्वादशादित्यसूचकान् ।।

श्रावयित्वापि नो मर्त्यो दुर्गतिं याति कुत्रचित् ।। ११८ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायामुत्तरार्द्धे चतुथें काशीखण्डे अरुणवृद्धकेशवविमलगंगायमादित्यवर्णनंनामैकपंचाशत्तमोऽध्यायः ।। ।। ५१ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 52

स्कंद उवाच ।। ।।

गभस्तिमालिनिगते काशीं त्रैलोक्यमोहिनीम् ।।

पुनश्चिंतामवापोच्चैर्मंदरस्थो मुने हरः ।। १ ।।

नाद्याप्यायांति योगिन्यो नाद्याप्यायाति तिग्मगुः ।।

प्रवृत्तिरपि मे काश्याश्चित्रमत्यंत दुर्लभा ।।२।।

किमत्र चित्रं यत्काशी मदीयमपिमानसम् ।।

निश्चलं चंचलयति गणना केतरेसुरे ।।३।।

अधाक्षिपमहं कामं त्रिजगज्जित्त्वरंदृशा ।।

अहो काश्यभिलाषोत्र मामेव दुनुयात्तराम्।।४।।

काशीप्रवृत्तिमन्वेष्टुं कं वा प्रहिणुयामितः ।।

ज्ञातुं क एव निपुणो यतः स चतुराननः ।। ५ ।।

इत्याहूय विधातारं बहुमानपुरःसरम् ।।

तत्रोपवेश्य श्रीकंठः प्रोवाच चतुराननम् ।। ६ ।।

योगिन्यः प्रेषिताः पूर्वं प्रेषितोथ सहस्रगुः ।।

नाद्यापि ते निवर्तंते काश्याः कलशसंभव ।। ७ ।।

सा समुत्सुकयेत्काशी लोकेश मम मानसम् ।।

प्राकृतस्य जनस्येव चंचलाक्षीव काचन ।। ८ ।।

मंदरेत्र रतिर्मे न भृशं सुंदरकंदरे ।।

अनच्छतुच्छपानीये नक्रस्येवाल्पपल्वले ।। ९ ।।

ना बाधिष्ट तथा मां स तापो हालाहलोद्भवः ।।

काशीविरहजन्मात्र यथा मामतिबाधते ।। 4.2.52.१० ।।

शीतरश्मिः शिरःस्थोपि वर्षन्पीयूषसीकरैः ।।

काशीविश्लेषजं तापं नाहो गमयितुं प्रभुः ।। ११ ।।

विधे विधेहि मे कार्यमार्य धुर्य महामते ।।

याहि काशीमितस्तूर्णं यतस्व च ममेहिते ।। १२ ।।

ब्रह्मंस्त्वमेव तद्वेत्सि काशी त्यजनकारणम् ।।

मंदोपि न त्यजेत्काशीं किमु यो वेत्ति किंचन ।।१३।।

अद्यैव किं न गच्छेयं काशीं ब्रह्मन्स्वमायया ।।

दिवोदासं स्वधर्मस्थं न तूल्लंघितुमुत्सहे ।। १४।।

विधे सर्वविधेयानि त्वमेव विदधासि यत् ।।

इति चेति च वक्तव्यं त्वय्यपार्थमतोखिलम् ।।१५।।

अरिष्टं गच्छ पंथास्ते शुभोदर्को भवत्वलम्।।

आदायाज्ञां विधि मूर्ध्नि ययौ वाराणसीं मुदा ।।१६।।

सितहंसरथस्तूर्णं प्राप्य वाराणसीं पुरीम् ।।

कृतकृत्यमिवात्मानममन्यत तदात्मभूः ।। ।। १७ ।।

हंसयानफलं मेद्य जातं काशीसमागमे ।।

काशी प्राप्तौ यतः प्रोक्ता अंतरायाः पदेपदे ।। १८ ।।

दृशि धातुरभूद्य मदृशो प्राप्य सान्वयः ।।

स्पष्टं दृष्टिपथं प्राप्ता यदेषाऽऽनंदवाटिका ।। १९ ।।

स्वयं सिंचति या मद्भिः स्वाभिः स्वर्गतरंगिणी ।।

यत्रानंदमया वृक्षा यत्रानंदमया जनाः।। 4.2.52.२० ।।

निर्विशंति सदा काश्यां फलान्यानंदवंत्यपि।।

सदैवानंदभूः काशी सदैवानंददः शिवः ।। २१ ।।

आनंदरूपा जायंते तेन काश्यां हि जंतवः ।।

चरणौ चरितुं वित्तस्तावेव कृतिनामिह ।। ।। २२ ।।

चरणौ विचरेतांयौ विश्वभर्तृ पुरी भुवि ।।

तावेव श्रवणौ श्रोतुं संविदा ते बहुश्रुतौ ।। २३ ।।

इह श्रुतिमतां पुंसां याभ्यां काशी श्रुता सकृत् ।।

तदेव मनुते सर्वं मनस्त्विह मनस्विनाम ।। २४ ।।

येनानुमन्यते चैषा काशी सर्वप्रमाणभूः ।।

बुद्धिर्बुध्यति सा सर्वमिह बुद्धिमतां सताम् ।।

ययैतद्धूर्जटेर्धाम धृतं स्व विषयीकृतम् ।। २५ ।।

वरं तृणानि धान्यानि तानि वात्याहतान्यपि ।।

काश्यां यान्या पतंतीह न जनाः काश्यदर्शनाः ।। २६ ।। ।

अद्य मे सफलं चायुः परार्धद्वय संमितम् ।।

यस्मिन्सति मया प्रापि दुष्प्रापा काशिका पुरी ।। २७ ।।

अहो मे धर्मसंपत्तिरहोमे भाग्यगौरवम् ।।

यदद्राक्षिषमद्याहं काशीं सुचिर चिंतिताम् ।। २८ ।।

अद्य मे स्वतपो वृक्षो मनोरथफलैरलम् ।।

शिवभक्त्यंबुना सिक्तः फलितोति बृहत्तरैः ।। २९ ।।

मया व्यधायि बहुधा सृष्टिः सृष्टिं वितन्वता ।।

परमन्यादृशी काशी स्वयं विश्वेश निर्मितिः।। 4.2.52.३० ।।

इति हृष्टमना वेधा दृष्ट्वा वाराणसीं पुरीम् ।।

वृद्धब्राह्मणरूपेण राजानं च ददर्श ह ।। ३१ ।।

जलार्द्राक्षतपाणिश्च स्वस्त्युक्त्वा पृथिवीभुजे ।।

कृतप्रणामो राज्ञाथ भेजे तद्दत्तमासनम् ।।३२।।

कृतमानो नृपतिना सोभ्युत्थानासनादिभिः ।।

विप्रो व्यजिज्ञपद्भूपं पृष्टागमनकारणम् ।। ३३ ।।

।। ब्राह्मण उवाच ।। ।।

भूपाल बहुकालीनोस्म्यहमत्र चिरंतनः ।।

त्वं तु मां नैव जानासि जाने त्वां हि रिपुंजयम् ।। ।। ३४ ।।

परःशता मया दृष्टा राजानो भूरिदक्षिणाः ।।

विजितानेकसंग्रामा यायजूका जितेंद्रियाः ।। ३५ ।।

विनिष्कृतारिषड्वर्गाः सुशीलाः सत्त्वशालिनः ।।

श्रुतस्यपारदृश्वानो राजनीतिविचक्षणाः ।। ३६ ।।

दयादाक्षिण्यनिपुणाः सत्यव्रतपरायणाः ।।

क्षमया क्षमयातुल्या गांभीर्यजितसागराः ।। ३७ ।।

जितरोषरयाः शूराः सौम्यसौंदर्यभूमयः ।।

इत्यादि गुणसंपन्नाः सुसंचितयशोधनाः ।।३८।।

परं द्वित्राः पवित्रा ये राजर्षे तव सद्गुणाः ।।

तेष्वेषु राजसु मम प्रायशो न दृशं गताः ।। ३९ ।।

प्रजानिजकुटुंबस्त्वं त्वं तु भूदेवदैवतः ।।

महातपः सहायस्त्वं पथानान्ये तथा नृपाः ।। 4.2.52.४० ।।

धन्यो मान्योसि च सतां पूजनीयोसि सद्गुणैः ।।

देवा अपि दिवोदास त्वत्त्रासान्न विमार्गगाः ।। ४१ ।।

किं नः स्तुत्या तव नृप द्विजानामस्पृहावताम् ।।

किं कुर्मस्त्वद्गुणग्रामाः स्तावकान्नः प्रकुर्वते ।।४२।।

गोष्ठी तिष्ठत्वियं तावत्प्रस्तुतं स्तौमि सांप्रतम् ।।

यष्टुकामोस्म्यहं राजंस्त्वां सहायमतो वृणे ।।४३।।

त्वया राजन्वती चैषाऽवनिः सर्वर्धिभाजनम् ।।

अहं चास्तिधनो राजन्न्यायोपात्तमहाधनः ।।४४।।

इयं च राजधानी ते कर्मभूमावनुत्तमा ।।

यस्यां कृतानां कार्याणां संवर्तेपि न संक्षयः ।।४९।।

संचितं यद्धनं पुंभिर्नयसन्मार्गगामिभिः ।।

तत्काश्यां विनियुज्येत क्लेशायेतरथा भवेत् ।।४६।।

महिमानं परं काश्याः कोपि वेद न भूपते ।।

ऋते त्रिनयनाच्छंभोः सर्वज्ञानप्रदायिनः ।।४७।।

मन्ये धन्यतरोसि त्वं बहुजन्मशतार्जितैः ।।

सुकृतैः पासि यत्काशीं विश्वभर्तुः परां तनुम् ।। ४८।।

काशी त्रिजगतीसारस्त्रिवेदी सार एव वै ।।

त्रिवर्गोत्तरसारश्च निर्णीतेति महर्षिभिः ।। ४९।।

विश्वेशानुग्रहेणैव त्वयैषा पाल्यते पुरी ।।

एकस्याप्यवनात्काश्यां त्रैलोक्यमवितं भवेत् ।।4.2.52.५०।।

अन्यच्च ते हितं वच्मि यदि ते रोचतेऽनघ ।।

प्रीणनीयः सदैवैको विश्वेशः सर्वकर्मभिः ।। ५१ ।।

अन्यदेवधिया राजन्विश्वेशं पश्य मा क्वचित् ।।

ब्रह्मविष्ण्विंद्र चंद्रार्का क्रीडेयं तस्य धूर्जटेः ।। ।। ५२ ।।

विप्रैरुदर्कमिच्छद्भिः शिक्षणीया यतो नृपाः ।।

अतस्तव हितं ख्यातं किं वा मे चिंतयानया ।। ५३ ।।

इति जोषं स्थितं विप्रं प्रत्युवाच नृपोत्तमः ।।

सर्वं मया हृदि धृतं यत्त्वयोक्तं द्विजोत्तम ।। ५४ ।।

।। राजोवाच ।। ।।

अहं यियक्षमाणस्य तव साहाय्यकर्मणि ।।

दासोस्मि यज्ञसंभारान्नयमेको शतोऽखिलान् ।। ५५ ।।

यदस्ति मेखिलं तत्र सप्तांगेपि भवान्प्रभुः ।।

यजस्वैकमनाब्रह्मन्सिद्धं मन्यस्व वांछितम् ।। ५६ ।।

राज्यं करोमि यद्ब्रह्मन्स्वार्थं तन्न मनागपि ।।

पुत्रैः कलत्रैर्देहेनपरोपकृतये यते ।। ५७।।

राज्ञां क्रतुक्रियाभ्योपि तीर्थेभ्योपि समंततः ।।

प्रजापालनमेवैको धर्मः प्रोक्तो मनीषिभिः ।। ५८ ।।

प्रजासंतापजोवह्निर्वज्राग्नेरपि दारुणः ।।

द्वित्रान्दहति वज्राग्निः पूर्वो राज्यं कुलं तनुम् ।। ५९ ।।

यदावभृथसिस्रासुर्भवेयं द्विजसत्तम ।।

तदा विप्रपदांभोभिरभिषेकं करोम्यहम् ।। 4.2.52.६० ।।

हवनं ब्राह्मणमुखे यत्करोमि द्विजोत्तम ।।

मन्ये क्रतुक्रियाभ्योपि तद्विशिष्टं महामते ।।६१।।

अभिलाषेषु सर्वेषु जागर्त्येको हृदीह मे ।।

अद्यापि मार्गणः कोपि द्रष्टव्यः स्वतनोरपि ।। ६२ ।।

अहो अहोभिर्बहुभिः फलितो मे मनोरथः ।।

यत्त्वं मेद्य गृहे प्राप्तः किंचित्प्रार्थयितुं द्विज ।। ६३ ।।

एकाग्रमानसो विप्र यज्ञान्विपुलदक्षिणान् ।।

बहून्यजकृतं विद्धि साहाय्यं सर्ववस्तुषु ।। ६४ ।।

इति राज्ञो महाबुद्धेर्धर्मशीलस्य भाषितम् ।।

श्रुत्वा तुष्टमनाः स्रष्टा क्रतुसंभारमाहरत् ।। ६५ ।।

साहाय्यं प्राप्य राजर्षेर्दिवोदासस्य पद्मभूः ।।

इयाज दशभिः काश्यामश्वमेधैर्महामखैः ।।६६ ।।

अद्यापि होमधूमोघैर्यद्व्याप्तं गगनांतरम् ।।

तदा प्रभृति न व्योम नीलिमानं जहात्यदः ।। ६७ ।।

तीर्थं दशाश्वमेधाख्यं प्रथितं जगतीतले ।।

तदा प्रभृति तत्रासीद्वाराणस्यां शुभप्रदम् ।। ६८ ।।

पुरा रुद्रसरो नाम तत्तीर्थं कलशोद्भव ।।

दशाश्वमेधिकं पश्चाज्जातं विधिपरिग्रहात् ।। ६९ ।।

स्वर्धुन्यथ ततः प्राप्ता भगीरथसमागमात् ।।

अतीव पुण्यवज्जातमतस्तत्तीर्थमुत्तमम् ।।4.2.52.७०।।

विधिर्दशाश्वमेधेशं लिंगं संस्थाप्य तत्र वै।।

स्थितवान्न गतोद्यापि क्वापि काशीं विहाय तु ।। ७१ ।।

राज्ञो धर्मरतेस्तस्य च्छिद्रं नावाप किंचन ।।

अतः पुरारेः पुरतो व्रजित्वा किं वदेद्विधिः ।। ७२ ।।

क्षेत्रप्रभावं विज्ञाय ध्यायन्विश्वेश्वरं शिवम् ।।

ब्रह्मेश्वरं च संस्थाप्य विधिस्तत्रैव संस्थितः ।। ७३ ।।

परातनुरियं काशी विश्वेशस्येति निश्चितम् ।।

अस्याः संसेवनाच्छंभुर्न कुप्यति पुरो मयि ।। ७४ ।।

कः प्राप्य काशीं दुर्मेधाः पुनस्त्यक्तुमिहेह ते ।।

अनेकजन्मजनितकर्मनिर्मूलनक्षमाम् ।। ७५ ।।

विश्वसंतापसंहर्तुः स्थाने विश्वपतेस्तनुः ।।

संताप्यतेतरां काश्या विश्लेषज महाग्निना ।। ७६ ।।

प्राप्य काशीं त्यजेद्यस्तु समस्ताघौघनाशिनीम्।।

नृपशुः स परिज्ञेयो महासौख्यपराङमुखः ।। ७७ ।।

निर्वाणलक्ष्मीं यः कांक्षेत्त्यक्त्वा संसारदुर्गतिम् ।।

तेन काशी न संत्याज्या यद्याप्तैशादनुग्रहात् ।। ७८ ।।

यः काशीं संपरित्यज्य गच्छेदन्यत्र दुर्मतिः ।।

तस्य हस्ततलाद्गच्छेच्चतुर्वर्गफलोदयः ।। ७९ ।।

निबर्हणी मधौघस्य सुपुण्य परिबृंहिणीम् ।।

कः प्राप्य काशीं दुर्मेधास्त्यजेन्मोक्षसुखप्रदाम्।। 4.2.52.८० ।।

सत्यलोके क्व तत्सौख्यं क्व सौख्यं वैष्णवे पदे ।।

यत्सौख्यं लभ्यते काश्यां निमेषार्धनिषेवणात् ।। ८१ ।।

वाराणसीगुणगणान्निर्णीय द्रुहिणस्त्विति ।।

व्यावृत्य मंदरगिरिं न पुनः प्रत्यगान्मुने ।।८२।।

।। स्कंद उवाच ।। ।।

मित्रावरुणयोः पुत्र महिमानं ब्रवीमि ते ।। ।।

काश्यां दशाश्वमेधस्य सर्वतीर्थशिरोमणेः ।। ८३ ।।

दशाश्वमेधिकं प्राप्य सर्वतीर्थोत्तमोत्तमम् ।।

यत्किंचित्क्रियते कर्म तदक्षयमिहेरितम् ।। ८४ ।।

स्नानं दानं जपो होमः स्वाध्यायो दे वतार्चनम् ।।

संध्योपास्तिस्तर्पणं च श्राद्धं पितृसमर्चनम्।।८५।।

दशाश्वमेधिके तीर्थे सकृत्स्नात्वा नरोत्तमः ।९।

दृष्ट्वा दशाश्वमेधेशं सर्वपापैः प्रमुच्यते ।।८६।।

ज्येष्ठे मासि सिते पक्षे प्राप्य प्रतिपदं तिथिम् ।।

दशाश्वमेधिके स्नात्वा मुच्यते जन्मपातकैः ।। ८७ ।।

ज्येष्ठे शुक्ल द्वितीयायां स्नात्वा रुद्रसरोवरे ।।

जन्मद्वयकृतं पापं तत्क्षणादेव नश्यति ।। ८८ ।।

एवं सर्वासु तिथिषु क्रमस्नायी नरोत्तमः ।।

आशुक्लपक्षदशमि प्रतिजन्माघमुत्सृजेत् ।। ८९ ।।

तिथिं दशहरां प्राप्य दशजन्माघहारिणीम् ।।

दशाश्वमेधिके स्नातो यामीं पश्येन्न यातनाम् ।।4.2.52.९०।।

लिंगं दशाश्वमेधेशं दृष्ट्वा दशहरा तिथौ ।।

दशजन्मार्जितैः पापैस्त्यज्यते नात्र संशयः ।। ९१ ।।

स्नातो दशहरायां यः पूजयेल्लिंगमुत्तमम् ।।

भक्त्या दशाश्वमेधेशं न तं गर्भदशा स्पृशेत् ।।९२।।

ज्येष्ठे मासि सिते पक्षे पक्षं रुद्रसरे नरः ।।

कुर्वन्वै वार्षिकीं यात्रां न विघ्नैरभिभूयते।।९३।।

दशाश्वमेधावभृथैर्यत्फलं सम्यगाप्यते ।।

दशाश्वमेधे तन्नूनं स्नात्वा दशहरा तिथौ ।। ९४ ।।

स्वर्धुन्याः पश्चिमे तीरे नत्वा दशहरेश्वरम् ।।

न दुर्दशामवाप्नोति पुमान्पुण्यतमः क्वचित् ।। ९५ ।।

यत्काश्यां दक्षिणद्वारमंतर्गेहस्य कीर्त्यते ।।

तत्र ब्रह्मेश्वरं दृष्ट्वा ब्रह्मलोके महीयते ।। ९६ ।।

इति ब्राह्मणवेषेण वाराणस्यां महाधिया ।।

द्रुहिणेन स्थितं तावद्यावद्विश्वेश्वरागमः ।। ९७ ।।

दिवोदासोपि राजेंद्रो वृद्धब्राह्मणरूपिणे ।।

ब्रह्मणे कृतयज्ञाय ब्रह्मशालामकल्पयत्।। ९८ ।।

ब्रह्मेश्वरसमीपे तु ब्रह्मशाला मनोहरा ।।

ब्रह्मा तत्रावसद्व्योम ब्रह्मघोषैर्निनादयन् ।। ९९ ।।

इति ते कथितो ब्रह्मन्महिमातिमहत्तरः ।।

दशाश्वमेधतीर्थस्य सर्वाघौघविनाशनः ।। 4.2.52.१०० ।।

श्रुत्वाध्यायमिमं पुण्यं श्रावयित्वा तथैव च ।।

ब्रह्मलोकमवाप्नोति श्रद्धया मानवोत्तमः ।। १०१ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायामुत्तरार्द्धे चतुर्थे काशीखंडे दशाश्वमेधवर्णनंनाम द्विपंचाशत्तमोऽध्यायः ।। ५२ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 53

।। अगस्तिरुवाच ।। ।।

अपूवेंयं कथा ख्याता ब्रह्मणो ब्रह्मवित्तम ।।

किं चकार पुनः शंभुस्तत्र ब्रह्मण्यपि स्थिते ।। १ ।।

।। स्कंद उवाच ।।

शृण्वगस्त्य महाभाग काश्यां ब्रह्मण्यपिस्थिते ।।

गिरिशश्चिंतयामास भृशमुद्विग्नमानसः ।। २ ।।

पुरी सा यादृशी काशी वशीकरणभूमिका ।।

न तादृशीदृशीहासीत्क्वचिन्मे प्रायशो ध्रुवम् ।। ३ ।।

यो यो याति पुरीं तां तु स स तत्रैव तिष्ठति ।।

अभूवन्ननुयोगिन्योऽयोगिन्यः काशिसंगताः ।। ४ ।।

अकिंचित्करतां प्राप्तः स सहस्रकरोप्यरम् ।।

विधिर्विधानदक्षोपि न मे स सविधोभवत् ।। ५ ।।

चिंतयन्निति देवेशो गणानारहूय भूरिशः ।।

प्रेषयामास भो यात क्षिप्रं वाराणसीं पुरीम् ।।६।।

किं कुर्वंति तु योगिन्यः किं करोति स भानुमान् ।।

गत्वा वित्त त्वरायुक्ता विधिश्च विदधाति किम् ।। ७ ।।

नामग्राहं ततःऽप्रैषीद्बहुमान पुरःसरम्।।

शंकुकर्ण महाकाल घटाकर्ण महोदर ।।८।।

सोमनंदिन्नंदिषेण काल पिंगल कुक्कुट ।।

कुंडोदर मयूराक्ष बाण गोकर्ण तारक ।। ९ ।।

तिलपर्ण स्मृलकर्ण दृमिचंड प्रभामय ।।

सुकेश विंदते छाग कपर्दिन्पिंगलाक्षक ।। 4.2.53.१० ।।

वीरभद्र किराताख्य चतुर्मुख निकुंभक ।।

पंचाक्षभारभूताख्य त्र्यक्ष क्षेमक लांगलिन्।।११।।

विराध सुमुखाषाढे भवंतो मम सूनवः ।।

यथेमौ स्कंदहेरंबौ नैगमेयो यथा त्वयम् ।।१२।।

यथा शाखविशाखौ च यथेमौ नंदिभृंगिणौ ।।

भवत्सु विद्यमानेषु महाविक्रमशालिषु ।। १३ ।।

काशीप्रवृत्तिं नो जाने दिवोदासनृपस्य च ।।

योगिन्यर्कविधीनां च तद्द्वौ यातं भवत्स्वमू ।। १४ ।।

शंकुकर्णमहाकालौ कालस्यापि प्रकंपनौ ।।

ज्ञातुं वाराणसीवार्तामायातं चत्वरान्वितौ ।। १५ ।।

कृतप्रतिज्ञौ तो(?) तूर्णं प्राप्य वाराणसीं पुरीम् ।।

शंकुकर्णमहाकालौ विस्मृत्य शांभवीं गिरम् ।। १६ ।।

यथैंद्रजालिकीं दृष्ट्वा मायामिह विचक्षणः ।।

क्षणेन मोहमायाति काशीं वीक्ष्य तथैव तौ ।। १७ ।।

अहो मोहस्य माहात्म्यमहो भाग्यविपर्ययः ।।

निर्वाणराशिं यत्काशीं प्राप्य यांत्यन्यतोऽबुधाः ।। १८ ।।

तत्यजे यैरियं काशी महाशीर्वादभूभिका ।।

तेषां करतलान्मुक्तिः प्राप्तापि परितो गता ।। १९ ।।

यत्र सर्वावभृथतः स्नानमात्रं विशिष्यते ।।

अप्युष्णीकृतपानीयैस्तां काशीं कः परित्यजेत् ।। 4.2.53.२० ।।

यत्रैकपुष्पदानेन शिवलिंगस्य मूर्धनि ।।

दशसौवर्णिकं पुण्यं कस्तां काशीं परित्यजेत् ।। २१ ।।

यत्र दंडप्रणामेन अप्येकेन शिवाग्रतः ।।

तुच्छमेंद्रपदंप्राहुस्तां काशीं को विमुंचति ।। २२ ।।

यत्रैकद्विजमात्रं तु भोजयित्वा यथेच्छया ।।

वाजपेयाधिकं पुण्यं तां काशीं को विमुंचति ।। २३ ।।

एकां गां यत्र दत्त्वा वै विधिवद्ब्राह्मणाय वै ।।

लभेदयुत गोपुण्यं कस्तां काशीं त्यजेत्सुधीः ।। २४ ।।

एकलिंगं प्रतिष्ठाप्य यत्र संस्थापितं भवेत् ।।

अपि त्रैलोक्यमखिलं तां काशीं कः समुज्झति ।। २५ ।।

परिनिश्चित्य तावित्थं लिंगे संस्थाप्य पुण्यदे ।।

तत्रैव संस्थितिं प्राप्तौ काशीं नाद्यापि मुंचतः ।। २६ ।।

शंकुकर्णेश्वरं लिंगं शंकुकर्ण ग णार्चितम् ।।

दृष्ट्वा न जायते जंतुर्जातु मातुर्महोदरे ।। २७ ।।

विश्वेशाद्वायुदिग्भागे शंकुकर्णेश्वरं नरः ।।

संपूज्य न विशेदत्र घोरे संसारसागरे ।। २८ ।।

महाकालेश्वरं लिंगं महाकालगणार्चितम् ।।

अर्चयित्वा च नत्वा च स्तुत्वा कालभयं कुतः ।। २९ ।।

।। स्कंद उवाच ।। ।।

शंकुकर्णे महाकाले चिरंतन विलंबिते ।।

ज्ञात्वा सर्वज्ञनाथोथ प्राहैपीदपरौ गणौ ।। 4.2.53.३० ।।

घंटाकर्ण त्वमागच्छ महोदर महामते ।।

काशीं यातं युवां तूर्णं ज्ञातुं तत्रत्य चेष्टितम् ।।३१।।

इत्यगस्ते गणौ तौ तु गत्वा काशीं महापुरीम्।।

व्यावृत्याद्यापि नो यातौ क्वापि तत्रैव संस्थितौ ।। ३२ ।।

घंटाकर्णेश्वरं लिंगं घंटाकर्ण गणोत्तमः ।।

काश्यां संस्थाप्य विधिवत्स्वयं तत्रैव निर्वृतः ।। ३३ ।।

कुंडं तत्रैव संस्थाप्य लिंगस्नपनकर्मणे ।।

नाद्यापि स त्यजेत्काशीं ध्यायँल्लिंगं तथैव हि ।। ३४ ।।

महोदरोपि तत्प्राच्यां शिवध्यानपरायणः ।।

महोदरेश्वरं लिंगं ध्यायेदद्यापि कुंभज ।। ३५ ।।

महोदरेश्वरं दृष्ट्वा वाराणस्यां द्विजोत्तम ।।

कदाचिदपि वै मातुः प्रविशेन्नौदरीं दरीम् ।। ।। ३६ ।।

घंटाकर्ण ह्रदे स्नात्वा दृष्ट्वा व्यासेश्वरं विभुम् ।।

यत्र कुत्र विपन्नोपि वाराणस्यां मृतो भवेत्।।३७।।

घंटाकर्णे महातीर्थे श्राद्धं कृत्वा विधानतः ।।

अपि दुर्गतिमापन्नानुद्धरेत्सप्तपूर्वजान् ।। ३८ ।।

निमज्ज्याद्यापि तत्कुंडे क्षण योवहितो भवेत् ।।

विश्वेश्वरमहापूजा घंटारावाञ्शृणोति सः ।।३९।।

वदंति पितरः काश्यां घंटाकर्णेमलेजले।।

दाता तिलोदकस्यापि वंशे नः कोपि जायते।।4.2.53.४०।।

यद्वंश्या मुनयः काश्यां घंटाकर्णे महाह्रदे।।

कृतोदकक्रियाः प्राप्ताः परां सिद्धिं घटोद्भव ।।४१।।

।। स्कंद उवाच।। ।।

घंटाकर्णे गणे याते प्रयाते च महोदरे ।।

विसिस्माय स्मरद्वेष्टा मौलिमांदोलयन्मुहुः ।।४२।।

उवाच च मनस्येव हरः स्मित्वा पुनःपुनः ।।

महामोहनविद्यासि काशि त्वां पर्यवैम्यहम् ।। ४३ ।।

पुराविदः प्रशंसंति त्वां महामोहहारिणीम् ।।

काशींत्विति न जानंति महामोहनभूरियम् ।। ४४ ।।

प्रेषयिष्याम्यहं सर्वान्भवती मोहयिष्यति ।।

इति सम्यग्विजानामि काशि त्वां मोहनोषधिम् ।। ४९ ।।

तथापि प्रेषयिष्यामि यावान्मेस्ति परिच्छदः ।।

नोद्यमाद्विरमंतीह ज्ञानिनः साध्यकर्मणि ।। ४६ ।।

नोद्यमाद्विरतिः कार्या क्वापि कार्ये विचक्षणैः ।।

प्रतिकूलोपि खिद्येत विधिस्तत्सततोद्यमात् ।। ४७ ।।

शीतोष्णभानू स्वर्भानु ग्रस्तावपि नभोंगणे ।।

गतिं न त्यजतोद्यापि प्रक्रांतव्य कृतोद्यमौ ।। ४८ ।।

एकत्र हंति कार्याणि प्रातिकूल्याद्विधिर्मुहुः ।।

एकत्रकरणीयानि सेत्स्यंत्यत्र भृशोद्यमात् ।। ४९ ।।

दैवं पूर्वकृतं कर्म कथ्यते नेतरत्पुनः ।।

तन्निराकरणे यत्नः स्वयं कार्यो विपश्चिता ।। 4.2.53.५० ।।

भाजनोपस्थितं दैवाद्भोज्यं नास्यं स्वयं विशेत् ।।

हस्तवक्त्रोद्यमात्तच्च प्रविशेदौदरीं दरीम् ।। ५१ ।।

इत्युद्यमं समर्थ्येशो निश्चितं दैवजित्वरम् ।।

पुनश्च प्रेषयांचक्रे गणान्पंचमहारयान् ।। ५२ ।।

सोमनंदी नंदिषेणः कालपिंगलकुक्कुटाः ।।

तेद्यापि न निवर्तंते काश्यां जीवामृता यथा ।।५३।।

तेपि स्वनाम्ना लिंगानि शंभुसंतुष्टि काम्यया।।

प्रतिष्ठाप्य स्थिताः काश्यां विश्वनिर्वाणजन्मनि ।। ५४ ।।

सोमनंदीश्वरं दृष्ट्वा लिंगं नंदवने परम् ।।

सोमलोके परानंदं प्राप्नुयाद्भक्तिमान्नरः ।। ५५ ।।

तदुत्तरे विलोक्याथ नंदिषेणेश्वरं नरः ।।

आनंदसेनां संप्राप्य जयेन्मृत्युमपि क्षणात् ।। ५६ ।।

कालेश्वरं महालिंगं गंगायाः पश्चिमोत्तरे ।।

प्रणम्य कालपाशेन नो बध्येत कदाचन ।। ।। ५७ ।।

पिंगलेश्वरमभ्यर्च्य कालेशात्किंचिदुत्तरे ।।

लभते पिंगलज्ञानं येन तन्मयतां व्रजेत् ।। ५८ ।।

कुक्कुटेश्वर लिंगस्य येत्र भक्तिं वितन्वते ।।

कुक्कुटांडाकृतेस्तस्य न ते गर्भमवाप्नुयुः ।। ५९ ।।

।। स्कंद उवाच ।। ।।

सोमनंदि प्रभृतिषु मुने पंचगणेष्वपि ।।

आनंदकाननं प्राप्य स्थितेषु स्थाणुरब्रवीत् ।। 4.2.53.६० ।।

कार्यमस्माकमेवैतद्यदि सम्यग्विमृश्यते ।।

अनेनोपाधिनाप्येते तत्र तिष्ठंतु मामकाः ।। ६१ ।।

प्रमथेषु प्रविष्टेषु मायावीर्यमहत्स्वपि ।।

अहमेव प्रविष्टोस्मि वाराणस्यां न संशयः ।। ६२ ।।

क्रमेण प्रेषयिष्यामि योस्ति मे स्वपरिच्छदः ।।

तत्र सर्वेषु यातेषु ततो यास्याम्यहं पुनः ।। ६३ ।।

संप्रधार्येति हृदये देवदेवेन शूलिना ।।

प्रैषिष्ट प्रमथानां तु ततो गणचतुष्टयम् ।। ६४ ।।

कुंडोदरो मयूराख्यो बाणो गोकर्ण एव च ।।

मायाबलं समाश्रित्य काशीं प्रविविशुर्गणाः ।। ६५ ।।

कृत्वोपायशतं तैस्तु दिवोदासस्य संभ्रमे

यदैकोपि समर्थो न तदा तत्रैव संस्थितम् ।।६६।।

अपराधशतेष्वीशः केन तुष्यति कर्मणा ।।

संप्रधार्येति ते चक्रुर्लिंगाराधनमुत्तमम् ।। ६७ ।।

एकस्मिञ्शांभवे लिंगे विधिनात्र समर्चिते ।।

क्षमेत्त्र्यक्षोपराधानां शतं मोक्षं च यच्छति ।।६८।।

न तुष्यति तथा शंभुर्यज्ञदानतपोव्रतैः ।।

यथा तुष्येत्सकृल्लिंगे विधिनाभ्यर्चिते सति ।। ६९ ।।

लिंगार्चनविधानज्ञो लिंगार्चनरतः सदा ।।

त्र्यक्ष एव स विज्ञेयः साक्षाद्द्व्यक्षोपि मानवः ।। 4.2.53.७० ।।

न गोशतप्रदानेन न स्वर्णशतदानतः ।।

तत्फलं लभ्यते पुंभिर्यत्सकृल्लिंगपूजनात् ।। ७१ ।।

अश्वमेधादिभिर्यागैर्न तत्फलमवाप्यते ।।

यत्फलं लभ्यते मर्त्यैर्नित्यं लिंगप्रपूजनात् ।। ७२ ।।

स्नापयित्वा विधानेन यो लिंगस्नपनोदकम् ।।

त्रिः पिबेत्त्रिविधं पापं तस्येहाशु प्रणश्यति ।। ७३ ।।

लिंग स्नपनवार्भिर्यः कुर्यान्मूर्ध्न्यभिषेचनम् ।।

गंगास्नानफलं तस्य जायतेत्र विपाप्मनः ।। ७४ ।।

लिंगं समर्चितं दृष्ट्वा यः कुर्यात्प्रणतिं सकृत् ।।

संदेहो जायते तस्य पुनर्देहनिबंधने ।। ७५ ।।

लिंगं यः स्थापयेद्भक्त्या सप्तजन्मकृतादघात् ।।

मुच्यते नात्र संदेहो विशुद्धः स्वर्गभाग्भवेत् ।। ।। ७६ ।।

विचार्येति गणैः काश्यां स्वामिद्रोहोपशांतये ।।

प्रतिष्ठितानि लिंगानि महापातकभिंद्यपि ।। ७७ ।।

कुंडोदरेश्वरं लिंगं दृष्ट्वा लोलार्कसन्निधौ ।।

सर्वपापविनिर्मुक्तः शिवलोके महीयते ।।७८।।

कुंडोदरेश्वराल्लिंगात्प्रतीच्यामसिरोधसि ।।

मयूरेश्वरमभ्यर्च्य न गर्भं प्रतिपद्यते ।।७९।।

मयूरेशप्रतीच्यां च लिंगं बाणेश्वरं महत् ।।

तस्य दर्शनमात्रेण सर्वैः पापैः प्रमुच्यते ।। 4.2.53.८० ।।

गोकर्णेशं महालिंगमंतर्गेहस्य पश्चिमे ।।

द्वारे समर्च्य वै काश्यां न विघ्नैरभिभूयते ।। ८१ ।।

गोकर्णेश्वर भक्तस्य पंचत्व समये सति ।।

ज्ञानभ्रंशो न जायेत क्वचिदप्यंतमृच्छतः ।।८२।।

।। स्कंद उवाच ।। ।।

चिरयत्सुगणेष्वेषु चतुर्ष्वपिगणेश्वरः ।।

महिमानं महत्त्वं तु तत्काश्याः पर्यवर्णयत् ।। ८३ ।।

वैष्णव्या मायया विश्वं भ्राम्येतात्र ययाखिलम्।।

ध्रुवं मूर्तिमती सैषा काशी विश्वैकमोहिनी ।। ८४ ।।

अपास्य सोदरान्दारान्पुत्रं क्षेत्रं गृहं वसु ।।

अप्यंगीकृत्य निधनं सर्वे काशीमुपासते ।। ८५।।

मरणादपि नो काश्यां भयं यत्र मनागपि ।।

गणास्तत्र तु तिष्ठंतः कुतो मत्तोपि बिभ्यति ।। ८६ ।।

मरणं मंगलं यत्र विभूतिर्यत्र भूषणम् ।।

कौपीनं यत्र कौशेयं काशी कुत्रोपमीयते ।। ८७ ।।

निर्वाणरमणी यत्र रंकं वाऽरंकमेव वा ।।

ब्राह्मणं वा श्वपाकं वा वृणीते प्रांत्यभूषणम् ।। ८८ ।।

मृतानां यत्र जंतूनां निर्वाणपदमृच्छताम् ।।

कोट्यंशेनापि न समा अपि शक्रादयः सुराः ।। ८९ ।।

यत्र काश्यां मृतो जंतुर्ब्रह्मनारायणादिभिः ।।

प्रबद्ध मूर्धांजलिभिर्नमस्येतातियत्नतः ।। 4.2.53.९० ।।

यत्र काश्यां शवत्वेपि जंतुर्नाशुचितां व्रजेत् ।।

अतस्तत्कर्णसंस्पर्शं करोम्यहमपि स्वयम् ।। ९१ ।।

यस्तु काशीति काशीति द्विस्त्रिर्जपति पुण्यवान् ।।

अपि सर्वपवित्रेभ्यः स पवित्रतरो महान् ।। ९२ ।।

येन काशी हृदि ध्याता येन काशीह सेविता ।।

तेनाहं हृदि संध्यातस्तेनाहं सेवितः सदा ।। ९३ ।।

काशीं यः सेवते जंतुर्निर्विकल्पेन चेतसा ।।

तमहं हृदये नित्यं धारयामि प्रयत्नतः ।। ९४ ।।

स्वयं वस्तुमशक्तोपि वासयेत्तीर्थवासिनम् ।।

अप्येकमपि मूल्येन स वस्तुःफलभाग्ध्रुवम् ।। ९५ ।।

काश्यां वसंति ये धीरा आपंचत्व विनिश्चयाः ।।

जीवन्मुक्तास्तु ते ज्ञेया वंद्याः पूज्यास्त एव हि ।। ९६ ।।

इत्थं विमृश्य बहुशः स्थाणुर्वाराणसीगुणान् ।।

गणानन्यान्समाहूय प्राहिणोत्प्रीतिपूर्वकम् ।। ।।९७।।

तारकत्वं समागच्छ गच्छाति स्वच्छमानस ।।

दिवोदासो वृषावासो यामधीष्टे वरां पुरीम् ।।९८।।

तिलपर्ण स्धूलकर्ण दृमिचंड प्रभामय ।।

सुकेश विंदते छाग कपर्दिन्पिंगलाक्षक ।।९९।।

वीरभद्र किराताख्य चतुर्मुख निकुंभक ।।

पंचाक्ष भारभूताख्य त्र्यक्ष क्षेमकलांगलिन् ।। 4.2.53.१०० ।।

विराध सुमुखाषाढे यांतु सर्वे पृथक्पृथक् ।।

एते गणा महाभागाः स्वामिभक्ता दृढव्रताः ।।१।।

कृत्वा माया बहुविधा बहुरूपा विचक्षणाः।।

अनिमेषेक्षणास्तस्थुः क्षोणीशच्छिद्रकांक्षिणः ।।२।।

अपरुज्ञात तच्छिद्रा विद्रावितयशोधनाः।।

आः किमेतदहोजातं निनिंदुः स्वमितीह ते ।।३।।

गणा ऊचुः ।। ।।

धिगस्मान्स्वामिना नित्यं कृतसंभावनान्मुहुः ।।

मनुष्यमात्रमप्यत्र यैरेकं न वशीकृतम् ।। ४ ।।

बहुमानेन दानेन सौहार्देन महीयसा ।।

कृतप्रसादांस्त्र्यक्षेण धिङ्नस्तत्कार्यवंचकान् ।।५।।

का गतिर्नो भवित्रीह स्वामिकृत्यप्रमादिनाम् ।।

अंधं तमोमये लोके ध्रुवं वासो भविष्यति ।। ६ ।।

अकृतस्वामिकार्याणामहो जीवितधारिणाम्।।

अक्षतेंद्रियवृत्तीनां दुर्गतिश्च पदे पदे ।। ७ ।।

लब्धसंभावनानां च न्यक्कृतस्वामिकर्मणाम् ।।

भृत्यानां भूरिभाजां च भंगुराः स्युर्मनोरथाः ।। ८ ।।

अनिष्पादितकार्यार्था ये मुखं प्रेक्षयंत्यहो ।।

अपत्रपाः पुरो भर्तुस्तैर्भूर्भारवतीत्वियम्।।९।।

नाद्रीणां न समुद्राणां न द्रुमाणां महीयसाम् ।।

भूतधात्र्यास्तथा भारो यथा स्वामिद्रुहां महान् ।। 4.2.53.११० ।।

अहो पौराणिकी गाथा स्मृतास्माभिरनिंदिता ।।

तदर्थमवलंब्येह स्थास्यामः कृतनिश्चयाः ।। ११ ।।

अनाकलितपुण्यानां परिक्षीणधनायुषाम् ।।

सर्वोपायविहीनानां गतिर्वाराणसीपुरी ।। १२ ।।

अपुण्यभारखिन्नानां पश्चात्तापमुपेयुषाम्।।

विष्वगूर्ध्वगतीनां च गतिर्वाराणसीपुरी ।। १३ ।।

स्वामिद्रुहः कृतघ्नाश्च ये च विश्रंभघातकाः ।।

तेषां क्वापि गतिर्नास्ति मुक्त्वा वाराणसीं पुरीम् ।। १४ ।।

इत्थं निश्चित्य गाथार्थं प्रमथा अवतस्थिरे ।।

अविज्ञातस्वरूपाश्च दिवोदासेन भूभुजा ।। ।। १५ ।।

न बुबोध स भूपालो नितरां बुद्धिमानपि ।।

विबुधान्विविधाकारैः स्थितानीशप्रभावतः ।। १६ ।।

चित्रं न चित्रगुप्तोपि वेत्ति वाराणसीस्थितान्।।

जंतून्का गणनान्येषां मर्त्यलोकनिवासिनाम् ।। १७ ।।

अविच्छिन्न प्रभावाणामपरिच्छिन्न तेजसाम् ।।

कृतलिंगप्रतिष्ठानां नांतं प्राप्नोति धर्मराट् ।। १८ ।।

इति ते प्रमथाः सर्वे घटोद्भव महामुने ।।

कृतलिंगार्चनाः काशीं नाद्याप्युज्झंति शर्मदाम् ।। १९ ।।

तारकेशं महालिंगं तारकाख्यो गणोत्तमः ।।

तारकज्ञानदं पुंसां मुनेऽद्यापि समर्चयेत् ।। 4.2.53.१२० ।।

तारकेश्वरलिंगस्य कृत्वा भक्तिसुनिश्चलाम् ।।

सुखेन तारकज्ञानं लभ्यते तैर्नरोत्तमैः ।।२१।।

तिलपर्णेश्वरं लिंगं तिलपर्ण प्रतिष्ठितम् ।।

तिलप्रमाणमप्यत्र दृष्ट्वा पापं न संभवेत् ।। २२ ।।

स्थूलकर्णेश्वरं लिंगं परिपूज्य नरोत्तमः ।।

न दुर्गतिमवाप्नोति पुण्यमाप्नोति चोत्तमम् ।। ।। २३ ।।

दृमिचंडेश्वरं लिंगं तथा लिंगं प्रभामयम् ।।

आराध्य तत्प्रतीच्यां च न पापैरभिभूयते ।। २४।।

प्रभामयेश्वरं लिंगं दृष्ट्वान्यत्रापि संस्थितः ।।

प्रभामयेन यानेन शिवलोके व्रजेत्सुधीः ।। २५ ।।

सुकेशेश्वरमभ्यर्च्य हरिकेशवने नरः ।।

षाट्कौशिकमयं देहं धारयेन्न पुनःपुनः ।। २६ ।।

विंदतीशं नरोभ्यर्च्य भीमचंडी समीपतः ।।

त्यक्त्वा प्रचंडमप्येनो मोक्षं विंदति शाश्वतम् ।। २७ ।।

छागलेशं महालिंगं पित्रीश्वरसमीपगम् ।।

विलोक्य पशुवत्कोपि न पापं प्राकृतं स्पृशेत् ।। २८ ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्द्धे वाराणसीवर्णनं गणप्रेषणं नाम त्रिपंचाशत्तमोऽध्यायः ।। ५३ ।। ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 54

स्कंद उवाच ।। ।।

कुंभसंभव वक्ष्यामि शृणोत्ववहितो भवान् ।।

कपर्दीशस्य लिंगस्य महामाहात्म्यमुत्तमम् ।। १ ।।

कपर्दी नाम गणपः शंभोरत्यंतवल्लभः ।।

पित्रीशादुत्तरे भागे लिंगं संस्थाप्य शांभवम् ।।२।।

कुंडं चखान तस्याग्रे विमलोदक संज्ञकम् ।।

यस्य तोयस्य संस्पर्शाद्विमलो जायते नरः ।। ३ ।।

इतिहासं प्रवक्ष्यामि तत्र त्रेतायुगे पुरा ।।

यथावृत्तं कुंभयोने श्रवणात्पातकापहम् ।। ४ ।।

एकः पाशुपत श्रेष्ठो वाल्मीकिरिति संज्ञितः ।।

तपश्चचार स मुनिः कपर्दीशं समर्चयन् ।। ५ ।।

एकदा स हि हेमंते मार्गे मासि तपोधनः ।।

स्नात्वा तत्र महातीर्थे मध्याह्ने विमलोदके ।। ६ ।।

चकार भस्मना स्नानमापादतलमस्तकम् ।।

लिंगस्य दक्षिणेभागे कृतमाध्याह्निकक्रियः ।। ७ ।।

न्यस्तमस्तकपांसुश्च संध्यामाध्यात्मिकीं स्मरन् ।।

जपन्पंचाक्षरीं विद्यां ध्यायन्देवं कपर्दिनम् ।। ८ ।।

कृत्वा संहारमार्गेण सप्रमाणं प्रदक्षिणाम् ।।

हुडुंकृत्य हुडुंकृत्य हुडुंकृत्य त्रिरुच्चकैः ।। ९ ।।

प्रणवं पुरतः कृत्वा षड्जादिस्वरभेदतः ।।

गीतं विधाय सानंदं सनृत्यं हस्तकान्वितम् ।। 4.2.54.१० ।।

अंगहारैर्मनोहारि चारी मंडलसंयुतम् ।।

क्षणं तत्र सरस्तीरे उपविष्टो महातपाः ।। ११ ।।

अद्राक्षीद्राक्षसं घोरमतीव विकृताकृतिम् ।।

शुष्कशंखकपोलास्यं निमग्ना पिंगलोचनम् ।।१२।।

रूक्षस्फुटितकेशाग्रं महालंब शिरोधरम् ।।

अतीव चिपिट घ्राणं शुष्कौष्ठमतिदंतुरम् ।। १३ ।।

महाविशालमौलिं च प्रोर्ध्वीभूतशिरोरुहम् ।।

प्रलंबकर्णपालीकं पिंगलश्मश्रुभीषणम् ।। ।। १४ ।।

प्रलंबित ललज्जिह्वमत्युत्कट कृकाटिकम् ।।

स्थूलास्थि जत्रु संस्थानं दीर्घस्कंधद्वयोत्कटम् ।। १५ ।।

निमग्नकक्षाकुहरं शुष्कह्रस्व भुजद्वयम् ।।

विरलांगुलिहस्ताग्रं नतपीन नखावलिम् ।। १६ ।।

विशुष्क पांसुलोत्क्रोडं पृष्ठलग्नोदरत्वचम् ।।

कटीतटेन विकटं निर्मांसत्रिकबंधनम् ।। १७ ।।

प्रलंब स्फिग्युगयुतं शुष्कमुष्काल्पमेहनम् ।।

दीर्घनिर्मांसलोरूकं स्थूलजान्वस्थिपंजरम् ।। १८ ।।

अस्थिचर्मावशेषं च शिराजालितविग्रहम् ।।

शिरालं दीर्घजंघं च स्थूलगुल्फास्थिभीषणम् ।। १९ ।।

अतिविस्तृत पादं च दीर्घवक्रकृशांगुलिम् ।।

अस्थिचर्मावशेषेण शिराताडितविग्रहम् ।। 4.2.54.२० ।।

विकटं भीषणाकारं क्षुत्क्षाममतिलोमशम् ।।

दावदग्धद्रुमाकारमति चंचललोचनम्।। २१ ।।

मूर्तं भयानकमिव सर्वप्राणिभयप्रदम् ।।

हृदयाकंपनं दृष्ट्वा तं प्रेतं वृद्धतापसः ।।

अतिदीनाननं कस्त्वमिति धैर्येण पृष्टवान्।। २२ ।।

कुतस्त्वमिह संप्राप्तः कस्मात्ते गतिरीदृशी ।।

अनुक्रोशधियारक्षः पृच्छामि वद निर्भयम् ।। २३ ।।

अस्माकं तापसानां च न भयं त्वद्विधान्मनाक् ।।

शिवनामसहस्राणां विभूतिकृतवर्मणाम् ।। २४ ।।

तापसोदीरितमिति तद्रक्षः प्रीतिपूवर्कम् ।।

निशम्य प्रांजलिः प्राह तं कृपालुं तपोधनम् ।। २५ ।।

।। राक्षस उवाच ।।

अनुक्रोशोस्ति यदि ते भगवंस्तापसोत्तम ।।

स्ववृत्तांतं तदा वच्मि शृणुष्वावहितः क्षणम् ।। २६ ।।

प्रतिष्ठानाभिधानोस्ति देशो गोदावरी तटे ।।

तीर्थप्रतिग्रहरुचिस्तत्रासं ब्राह्मणस्त्वहम् ।। २७ ।।

तेन कर्मविपाकेन प्राप्तोस्मि गतिमीदृशीम् ।।

मरुस्थले महाघोरे तरुतोयविवर्जिते ।। २८ ।।

गतो बहुतरः कालस्तत्र मे वसतो मुने ।।

क्षुधितस्य तृषार्तस्य शीततापसहस्य च ।। २९ ।।

वर्षत्यपि महामेघे धारासारैर्दिवानिशम् ।।

प्रावृट्कालेऽनिले वाति किंचित्प्रावरणं न मे ।। 4.2.54.३० ।।

पर्वण्यदत्तदाना ये कृततीर्थप्रतिग्रहाः ।।

त इमां योनिमृच्छंति महादुःख निबंधनीम् ।। ३१ ।।

गते बहुतिथे काले मरुभूमौ मुने मया ।।

दृष्टो ब्राह्मणदायाद एकदा कश्चिदागतः ।। ३२ ।।

सूर्योदयमनुप्राप्य संध्याविधिविवर्जितः ।।

कृत्वा मूत्रपुरीषे तु शौचाचमनवर्जितः ।। ३३ ।।

मुक्तकच्छमशौचं च संध्याकर्मविवर्जितम् ।।

तं दृष्ट्वा तच्छरीरेहं संक्रांतो भोगलिप्सया ।। ३४ ।।

स द्विजो मंदभाग्यान्मे केनचिद्वणिजा सह ।।

अर्थलोभेन संप्राप्तः पुरीं पुण्यामिमां मुने ।।३५।।

अंतःपुरि प्रविष्टोभूत्स द्विजो मुनिसत्तम ।।

तच्छरीराद्बहिर्भूतस्त्वहं पापैः समं क्षणात् ।।३६।।

प्रवेशो नास्ति चास्माकं प्रेतानां तपसां निधे ।।

महतां पातकानां च वाराणस्यां शिवाज्ञया ।।३७।।

अद्यापि तानि पापानि तद्बहिर्निर्गमेच्छया ।।

बहिरेव हि तिष्ठंति सीम्नि प्रमथसाध्वसात् ।।३८।।

अद्य श्वो वा परश्वो वा स बहिर्निर्गमिष्यति ।।

इत्याशया स्थिताः स्मो वै यावदद्य तपोधन ।। ३९ ।।

नाद्यापि स बहिर्गच्छेन्नाद्याप्याशा प्रयाति नः ।।

इत्यास्महे निराधारा आशापाश नियंत्रिताः ।। 4.2.54.४० ।।

चित्रमद्यतनं वच्मि तपस्विंस्तन्निशामय ।।

अतीव भावि कल्याणमिति मन्येऽधुनैव हि ।। ४१ ।।

आप्रयागं प्रतिदिनं प्रयामः क्षुधिता वयम्।।

आहारकाम्यया क्वापि परं नो किंचिदाप्नुमः ।। ४२ ।।

संति सर्वत्र फलिनः पादपाः प्रतिकाननम् ।।

जलाशयाश्च स्वच्छापाः संति भूम्यां पदेपदे ।। ४३ ।।

अन्यान्यपि च भक्ष्याणि सर्वेषां सुलभान्यहो ।।

पानान्यपि विचित्राणि संति भूयांसि सर्वतः ।। ४४ ।।

परं नो दृग्गतान्येव दूरे दूरे व्रजंत्यहो ।।

दैवादद्यैकमायांतं दृष्ट्वा कार्पटिकं मुने ।।४५।।

तस्यांतिकमहं प्राप्तः क्षुधया परिपीडितः ।।

प्रसह्य भक्षयाम्येनमिति मत्वा त्वरान्वितः ।। ४६ ।।

यावत्तं तु जिघृक्षामि तावत्तद्वदनांबुजात् ।।

शिवनामपवित्रा वाङ्निरगाद्विघ्नहारिणी ।। ४७ ।।

शिवनामस्मरणतो मदीयमपि पातकम् ।।

मंदीभूतं ततस्तेन प्रवेशं लब्धवानहम् ।। ४८ ।।

सीमस्थैः प्रमथैर्नाहं सद्यो दृग्गोचरीकृतः ।।

शिवनामश्रुतौ येषां तान्न पश्येद्यमोपि यत् ।। ४९ ।।

अंतर्गेहस्य सीमानं प्राप्तस्तेन सहाधुना ।।

स तु कार्पटिको मध्यं प्रविष्टोहमिहस्थितः ।। 4.2.54.५० ।।

आत्मानं बहुमन्येहं त्वां विलोक्याधुना मुने ।।

मामुद्धर कृपालो त्वं योनेरस्मात्सदारुणात् ।। ५१ ।।

इति प्रेतवचः श्रुत्वा स कृपालुस्तपोधनः ।।

मनसा चिंतयामास धिङ्निजार्थोद्यमान्नरान् ।। ५२ ।।

स्वोदरं भर यः सर्वे पशुपक्षिमृगादयः ।।

स एव धन्यः संसारे यः परार्थोद्यतः सदा ।।५३।।

तपसाद्य निजेनाहं प्रेतमेतमघातुरम्।।

मामेव शरणं प्राप्तमुद्धरिष्याम्यसंशयम् ।। ५४ ।।

विमृश्येति स वै चित्ते पिशाचं प्राह सत्तमः ।।

विमलोदे सरस्यस्मिन्स्नाहि रे पापनुत्तये ।। ५५ ।।

पिशाच ते पिशाचत्वं तीर्थस्यास्य प्रभावतः ।।

कपर्दीशेक्षणादद्य क्षणात्क्षीणं विनंक्ष्यति ।। ५६ ।।

श्रुत्वेति स मुनेर्वाक्यं प्रेतः प्राह प्रणम्य तम्।।

प्रीतात्मा प्रीतमनसं प्रबद्धकरसंपुटः ।।५७।।

पानीयं पातुमपि नो लभेयं मुनिसत्तम ।

स्नानस्य का कथा नाथ रक्षेयुर्जलदेवताः ।।५८।।

पानस्याप्यत्र का वार्ता जलस्पर्शोपि दुर्लभः ।।

इति प्रेतोक्तमाकर्ण्य स भृशं प्रीतिमानभूत् ।। ५९ ।।

उवाच च तपस्वी तं जगदुद्धरणक्षमः ।।

गृहाणेमां विभूतिं त्वं ललाटफलके कुरु ।। 4.2.54.६० ।।

अस्माद्विभूतिमाहात्म्यात्प्रेत कोपि न कुत्रचित् ।।

बाधा करोति कस्यापि महापातकिनोप्यहो ।।६१ ।।

भालं विभूतिधवलं विलोक्य यमकिंकराः ।।

पापिनोपि पलायंते भीताः पाशुपतास्त्रतः ।। ६२ ।।

अस्थिध्वजांकितं दृष्ट्वा यथा पांथा जलाशयम् ।।

दूरं यंति तथा भस्म भालांकं यमकिंकराः ।। ६३ ।।

कृतभूति तनुत्राणं शिवमंत्रैर्नरोत्तमम् ।।

नोपसर्पंति नियतमपि हिंस्राः समंततः ।। ६४ ।।

भक्त्या बिभर्ति यो भस्म शिवमंत्रपवित्रितम् ।।

भाले वक्षसि दोर्मूले न तं हिंसंति हिंसकाः ५५ ।।

सर्वेभ्यो दुष्टसत्त्वेभ्यो यतो रक्षेदहर्निशम् ।।

रक्षत्येषा ततः प्रोक्ता विभूतिर्भूतिकृद्यतः ।। ६६ ।।

भासनाद्भर्त्सनाद्भस्म पांसुः पांसुत्वदायतः ।।

पापानां क्षारणात्क्षारो बुधेरेवं निरुच्यते ।। ६७ ।।

गृहीत्वा धारमध्यात्स भस्म प्रेतकरेऽर्पयत् ।।

सोप्यादरात्समादाय भालदेशे न्यवेशयत् ।। ६८ ।।

विभूतिधारिणं वीक्ष्य पिशाचं जलदेवताः ।।

जलावगाहनपरं वारयांचक्रिरे न तम् ।। ६९ ।।

स्नात्वा पीत्वा स निर्गच्छेद्यावत्तस्माज्जलाशयात् ।।.

तावत्पैशाच्यमगमद्दिव्यदेहमवाप च ।। 4.2.54.७ ०।।

दिव्यमालांबरधरो दिव्यगंधानुलेपनः ।।

दिव्ययानं समारुह्य वर्त्म प्राप्तोथ पावनम् ।। ७१ । ।

गच्छता तेन गगने स तपस्वी नमस्कृतः ।।

प्रोच्चैः प्रोवाच भगवन्मोचितोस्मि त्वयानघ ।। ७२ ।।

तस्मात्कदर्ययोनित्वादतीव परिनिंदितात् ।।

अस्य तीर्थस्य माहात्म्याद्दिव्यदेहमवाप्तवान् ।।७३।।

पिशाचमोचनं तीर्थमद्यारभ्य समाख्यया ।।

अन्येषामपि पैशाच्यमिदं स्नानाद्धरिष्यति ।।७४।।

अस्मिंस्तीर्थे महापुण्ये ये स्नास्यंतीह मानवाः ।।

पिंडांश्च निर्वपिष्यंति संध्यातर्पणपूर्वकम् ।। ७५ ।।

दैवात्पैशाच्यमापन्नास्तेषां पितृपितामहाः ।।

तेपि पैशाच्यमुत्सृज्य यास्यंति परमां गतिम् ।। ७६।।

अद्यशुक्लचतुर्दश्यां मार्गेमासि तपोनिधे ।।

अत्र स्नानादिकं कार्यं पैशाच्यपरिमोचनम ।।७७ ।।

इमां सांवत्सरीं यात्रां ये करिष्यंति मानवाः ।।

तीर्थप्रतिग्रहात्पापान्निःसरिष्यंति ते नराः।।७८।।

पिशाचमोचने स्नात्वा कपर्दीशं समर्च्य च ।।

कृत्वा तत्रान्नदानं च नरोन्यत्रापि निर्भयाः ।। ७९ ।।

मार्गशुक्लचतुर्दश्यां कपर्दीश्वर संनिधौ ।।

स्नात्वान्यत्रापि मरणान्न पैशाच्यमवाप्नुयुः ।। 4.2.54.८० ।।

इत्युक्त्वा दिव्यपुरुषो भूयोभूयो नमस्य तम् ।।

तपोधनं महाभागो दिव्यां गतिमवाप्तवान् ।।८१।।

तपोधनोपि तं दृष्ट्वा महाश्चर्यं घटोद्भव ।।

कपर्दीश्वरमाराध्य कालान्निर्वाणमाप्तवान् ।। ८२ ।।

पिशाचमोचनं तीर्थं तदारभ्य महामुने ।।

वाराणस्यां परां ख्यातिमगमत्सर्वपापहृत् ।। ।। ८३ ।।

पैशाचमोचने तीर्थे संभोज्य शिवयोगिनम् ।।

कोटिभोज्यफलं सम्यगेकैक परिसंख्यया ।। ८ ४ ।।

श्रुत्वाध्यायमिमं पुण्यं नरो नियतमानसः ।।

भूतैः प्रेतैः पिशाचैश्च कदाचिन्नाभिभूयते ।। ८५ ।।

बालग्रहाभिभूतानां बालानां शांतिकारकम् ।।

पठनीयं प्रयत्नेन महाख्यानमिदं परम् ।। ८६ ।।

इदमाख्यानमाकर्ण्य गच्छन्देशांतरं नरः ।।

चोरव्याघ्रपिशाचाद्यैर्नाभिभूयेत कुत्रचित् ।। ८७ ।। ।।

इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्द्धे पिशाचमोचनमहिमाकथनं नाम चतुष्पंचाशत्तमोऽध्यायः ।।५४।।

खण्डः ४ (काशीखण्डः) — Adhyāya 55

।। स्कंद उवाच ।।

अन्येपि ये गणास्तत्र काश्यां लिंगानि चक्रिरे ।।

तांश्च ते कथयिष्यामि कुंभयोने निशामय ।। १ ।।

गणेन पिंगलाख्येन पिंगलाख्येशसंज्ञितम् ।।

लिंगं प्रतिष्ठितं शंभोः कपर्दीशादुदग्दिशि ।।२।।

तस्य दर्शनमात्रेण पापानां जायते क्षयः ।।

वीरभद्रो महाप्रीतो देवदेवस्य शूलिनः ।। ३ ।।

वीरभद्रेश्वरं लिंगं ध्यायेदद्यापि निश्चलः ।।

तस्य दर्शनमात्रेण वीरसिद्धिः प्रजायते ।। ४ ।।

अविमुक्तेश्वरात्पश्चाद्वीरभद्रेश्वरं नरः ।।

समर्च्य न रणे भंगं कदाचिदपि चाप्नुयात् ।। ५ ।।

वीरभद्रः स्वयं साक्षाद्वीरमूर्तिधरो मुने ।।

संहरेद्विप्रसंघातमविमुक्तनिवासिनाम ।। ६ ।।

भद्रया भद्रकाल्या च भार्यया शुभया युतम् ।।

वीरभद्रं नरोभ्यर्च्य काशीवासफलं लभेत् ।। ७ ।।

किरातेन किरातेशं लिंगं काश्यां प्रतिष्ठितम् ।।

केदाराद्दक्षिणे भागे भक्तानामभयप्रदम् ।। ८ ।।

चतुर्मुखो गणः श्रीमान्वृद्धकालेश सन्निधौ ।।

चतुर्मुखेश्वरं लिंगं ध्यायेदद्यापि निश्चलः ।। ९ ।।

भक्ताश्चतुर्मुखेशस्य चतुराननवद्दिवि ।।

पूज्यंते सुरसंघातैः सर्वभोगसमन्विताः।। 4.2.55.१ ०।।

निकुंभेश्वरमालोक्य निकुंभगणपूजितम् ।।

पूजयित्वा व्रजन्ग्रामं कार्यसिद्धिमवाप्नुयात् ।।

कुबेरेश समीपेतु शिवलोके महीयते ।। ११ ।।

पंचाक्षेशं महालिंगं महादेवस्य दक्षिणे ।।

समभ्यर्च्य नरः काश्यां जातिस्मृतिमवाप्नुयात् ।। १२ ।।

भारभूतेश्वरं लिंगं भारभूतगणार्चितम्।।

अंतर्गृहोत्तरद्वारि ध्यात्वा शिवपुरे वसेत् ।। १३ ।।

भारभूतेश्वरं लिंगं यैः काश्यां न विलोकितम् ।।

भारभूताः पृथिव्यास्तेऽवकेशिन इव द्रुमाः ।। १४ ।।

गणेन त्र्यक्षसंज्ञेन लिंगं त्र्यक्षेश्वरं परम् ।।

त्रिलोचनपुरोभागे शील्येताद्यापि कुंभज ।। १५ ।।

तस्य लिंगस्य ये भक्तास्ते तु देहावसानतः ।।

त्र्यक्षा एव प्रजायंते नात्र कार्या विचारणा ।। १६ ।।

क्षेमको नाम गणपः काश्यां मूर्तिधरः स्वयम् ।।

विश्वेश्वरं सर्वगतं ध्यायेदद्यापि निश्चलः ।।१७।।

क्षेमकं पूजयेद्यस्तु वाराणस्यां महागणम् ।।

विघ्नास्तस्य प्रलीयंते क्षेमं स्याच्च पदेपदे ।। १८ ।।

देशांतरं गतो यस्तु तस्यागमनकाम्यया ।।

क्षेमकं पूजनीयोत्र क्षेमेणाशु स आव्रजेत् ।।१९।।

लांगलीश्वरमालोक्य लिंगं लांगलिनार्चितम् ।।

विश्वेशादुत्तरेभागे न नरो रोगभाग्भवेत् ।।4.2.55.२० ।।

लांगलीशं सकृत्पूज्य पंचलांगलदानजम् ।।

फलं प्राप्नोत्यविकलं सर्वसंपत्करं परम् ।। २१ ।।

विराधेश्वरमाराध्य विराधगणपूजितम्।।

सर्वापराधयुक्तोपि नापराध्यति कुत्रचित् ।। २२ ।।

दिनेदिनेपराधो यः क्रियते काशिवासिभिः ।।

स याति संक्षयं क्षिप्रं विराधेश समर्चनात् ।। २३ ।।

नैर्ऋते दंढपाणस्तु विराधेशं प्रयत्नतः।।

नत्वा सर्वापराधेभ्यो मुच्यते नात्र संशयः।।२४।।

सुमुखेशं महालिंगं सुमुखाख्यगणार्चितम् ।।

पश्चिमाभिमुखं लिंगं दृष्ट्वा पापैः प्रमुच्यते ।। २५ ।।

स्नात्वा पिलिपिला तीर्थे सुमुखेशं विलोक्य च ।।

सदैव सुमुखं पश्येद्धर्मराजं न दुर्मुखम् ।। २६ ।।

आषाढिनार्चितं लिंगमाषाढीश्वरसंज्ञकम् ।।

दृष्ट्वाषाढयां नरो भक्त्या सर्वैः पापैः प्रमुच्यते ।। २७ ।।

उदीच्यां भारभूतेशादाषाढीशं समर्चयन् ।।

आषाढ्यां पंचदश्यां वै न पापैः परितप्यते ।। २८ ।।

शुचिशुक्लचतुर्दश्यां पंचदश्यामथापि वा ।।

कृत्वा सांवत्सरीं यात्रामनेना जायते नरः ।। २९ ।।

।। स्कंद उवाच ।। ।।

मुने गणेषु चैतेषु वाराणस्यां स्थितेष्विति ।।

स्वनाम्ना स्थाप्य लिंगानि विश्वेशपरितुष्टये ।। ।। 4.2.55.३० ।।

विश्वेशश्चिंतयां चक्रे पुनः काशीप्रवृत्तये ।।

कं वा हितं प्रहित्याद्य निर्वृतिं परमां भजे ।। ३१ ।।

योगिन्यस्तिग्मगुर्वेधाः शंकुकर्णमुखागणाः ।।

व्यावृत्त्यनागताः काश्याः सिंधुगा इव सिंधवः ।। ३२ ।।

धुवं काश्यां प्रविष्टा ये ते प्रविष्टा ममोदरे ।।

तेषां विनिर्गमो नास्ति दीप्तेग्नौ हविषामिव ।। ३३ ।।

येषां हि संस्थितिः काश्यां लिंगार्चनरतात्मनाम् ।।

त एव मम लिंगानि जंगमानि न संशयः ।। ३४ ।।

स्थावरा जंगमाः काश्यामचेतनसचेतनाः ।।

सर्वे ममैव लिंगानि तेभ्यो द्रुह्यंति दुर्धियः ।। ३५ ।।

वाचि वाराणसी येषां श्रुतौ वैश्वेश्वरी कथा ।।

त एव काशी लिंगानि वराण्यर्च्यान्यहं यथा ।। ३६ ।।

वाराणसीति काशीति रुद्रावास इति स्फुटम् ।।

मुखाद्विनिर्गतं येषां तेषां न प्रभवेद्यमः ।। ३७ ।।

आनंदकाननं प्राप्य ये निरानंदभूमिकाम् ।।

अन्यां हृदापि वांछंति निरानंदाः सदात्र ते ।। ३८ ।।

अद्यैव वास्तुमरणं बहुकालांतरेपि वा।।

कलिकाल भिया पुंसां काशी त्याज्या न कर्हिचित् ।। ३९ ।।

अवश्यंभाविनो भावा भविष्यंति पदेपदे ।।

सलक्ष्मीनिलयां काशीं ते त्यजंति कुतो धियः ।। 4.2.55.४० ।।

वरं विघ्नसहस्राणि सोढव्यानि पदेपदे ।।

काश्यां नान्यत्र निर्विघ्नं वांछेद्राज्यमपि क्वचित् ।। ४१ ।।

कियन्निमेषसंभोग्याः संति लक्ष्म्याः पदेपदे ।।

परं निरंतरसुखाऽमुत्राप्यत्रापि का शिका ।। ४२ ।।

विश्वनाथो ह्यहं नाथः काशिकामुक्तिकाशिका ।।

सुधातरंगा स्वर्गंगा त्रय्येषा किन्न यच्छति ।। ४३ ।।

पंचक्रोश्यापरिमिता तनुरेषा पुरी मम ।।

अविच्छिन्नप्रमाणर्धिर्भक्तनिर्वाणकारणम् ।। ४४ ।।

संसारभारखिन्नानां यातायातकृतां सदा ।।

एकैव मे पुरी काशी ध्रुवं विश्रामभृमिका ।। ४५ ।।

मंडपः कल्पवल्लीनां मनोरथफलैरलम् ।।

फलितः काशिकाख्योयं संसाराध्वजुषां सदा ।। ४६ ।।

चक्रवर्तेरियं छत्रं विचित्रं सर्वतापहृत् ।।

काशीनिर्वाणराजस्य ममशूलोच्च दंडवत् ।। ४७ ।।

निर्वाणलक्ष्मीं ये पुण्याः परिवांछंति लीलया ।।

निरंतरसुखप्राप्त्यै काशी त्याज्या न तै नृभिः ।। ४८ ।।

ममानंदवने ये वै निरं तर वनौकसः ।।

मोक्षलक्ष्मीफलान्यत्र सुस्वादूनि लभंति ते ।।४९।।

निर्ममं चापि निर्मोहं या मामपि विमोहयेत् ।।

कैर्न संस्मरणीया सा काशी विश्वविमोहिनी।। ।। 4.2.55.५० ।।

नामापि मधुरं यस्याः परानंदप्रकाशकम् ।।

काश्याः काशीति काशीति सा कैः पुण्यैर्न जप्यते ।। ५१ ।।

काशीनामसुधापानं ये कुर्वंति निरंतरम् ।।

तेषां वर्त्म भवत्येव सुधाम वसुधामयम् ।। ५२ ।।

ममतारहितस्यापि मम सर्वात्मनो ध्रुवम् ।।

त एव मामका लोके ये काशीनाम जापकाः ।। ५३ ।।

रहस्यमिति विज्ञाय वाराणस्या गणेश्वरैः ।।

सब्रह्मयोगिनी ब्रध्रैः स्थितं तत्रैव नान्यथा ।। ५४ ।।

अन्यथा ताश्च योगिन्यः सरविः सपितामहः ।।

ते गणा मां परित्यज्य कथं तिष्ठेयुरन्यतः ।। ५५ ।।

अतीव भद्रं संजातं काश्यां तिष्ठत्सु तेषु हि ।।

एकोपि भेद प्रभवेद्राज्ये राज्यांतरं विना ।। ५६ ।।

लब्धप्रवेशास्तावंतस्ते सर्वे मत्स्वरूपिणः ।।

यतिष्यंति यतोवश्यं मदागमनहेतवे ।।५७।।

अन्यानपि प्रेषयामि मत्पार्श्वपरिवर्तिनः ।।

ये ते तत्र स्थिताः श्रेष्ठा अपिगंतास्म्यहं ततः ।। ५८ ।।

विचार्येति महादेवः समाहूय गजाननम् ।।

प्राहिणोत्कथयित्वेति गच्छ काशीमितः सुत ।। ५९ ।।

तत्रस्थितोपि संसिद्धयै यतस्व सहितो गणैः ।।

निर्विघ्नं कुरु चास्माकं नृपे विघ्नं समाचर ।। 4.2.55.६० ।।

आधाय शासनं मूर्ध्नि गणाधीशोथ धूर्जटेः ।।

प्रतस्थे त्वरितः काशीं स्थितिज्ञः स्थितिहेतवे ।।६१।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्द्धे काशीवर्णन गणेशप्रेषणं नाम पंचपंचाशत्तमोऽध्यायः।।५५।।

खण्डः ४ (काशीखण्डः) — Adhyāya 56

।।स्कंद उवाच।। ।।

अथेशाज्ञां समादाय गजवक्त्रः प्रतस्थिवान् ।।

शंभोः काश्यागमोपायं चिंतयन्मंदराद्रितः ।। १ ।।

प्राप्य वाराणसीं तूर्णमाशु स्यंदनगो विभुः ।।

वाडवीं मूर्तिमालंब्य प्राविशच्छकुनैः स्तुतः ।। २ ।।

नक्षत्रपाठको भूत्वा वृद्धः प्रत्यवरोधगः ।।

चचार मध्ये नगरं पौराणां प्रीतिमावहन् ।।३।।

स्वयमेव निशाभागे स्वप्नं संदर्शयन्नृणाम् ।।

प्रातस्तेषां गृहान्गत्वा तेषां वक्ति बलाबलम् ।। ४ ।।

भवद्भिरद्य रात्रौ यद्दृष्टं स्वप्नविचेष्टितम् ।।

भवत्कौतूहलोत्पत्त्यै तदेव कथयाम्यहम् ।। ५ ।।

स्वपता भवता रात्रौ तुर्ये यामे महाह्रदः ।।

अदर्शि तत्र च भवान्मज्जन्मज्जंस्तटंगतः ।। ६ ।।

तदंबुपिच्छिले पंके मग्नोन्मग्नोसि भूरिशः ।।

दुःस्वप्नस्यास्य च महान्विपाकोति भयप्रदः ।। ७ ।।

काषायवसनो मुंडः प्रैक्ष्यहो भवतापि यः ।।

परितापं महानेष जनयिष्यति दारुणम् ।। ८ ।।

रात्रौ सूर्यग्रहो दृष्टो महानिष्टकरो ध्रुवम् ।।

ऐंद्रधनुर्द्वयं रात्रौ यदलोकि न तच्छुभम् ।। ९ ।।

प्रतीच्यां रविरागत्य प्रोद्यंतं व्योम्नि शीतगुम् ।।

पातयामास भूपृष्ठे तद्राज्यभयसूचकम् ।। 4.2.56.१० ।।

युगपत्केतुयुगलं युध्यमानं परस्परम् ।।

यददर्शि न तद्भद्रं राष्ट्रभंगाय केवलम् ।। ११ ।।

विशीर्यत्केशदशनं नीयमानं च दक्षिणे ।।

आत्मानं यत्समद्राक्षीः कुटुंबस्यापि भीषणम् ।। १२ ।।

प्रासादध्वजभंगोयस्त्वयैक्षत निशाक्षये ।।

राज्यक्षयकरं विद्धि महोत्पाताय निश्चितम् ।। १३ ।।

नगरी प्लाविता स्वप्ने तरंगैः क्षीरनीरधेः ।।

पक्षैस्त्रिचतुरैः शंके महाशंकां पुरौकसाम् ।। १४ ।।

स्वप्ने वानरयानेन यत्त्वमूढोसि दक्षिणाम् ।।

अतस्तद्वंचनोपायः पुरत्यागो महामते ।। १५ ।।

रुदती या त्वया दृष्टा महिलैका निशात्यये ।।

मुक्तकेशी विवसना सा नारी श्रीरिवोद्गता ।। १६ ।।

देवालयस्य कलशो यत्त्वया वीक्षितः पतन् ।।

दिनैः कतिपयैरेव राज्यभंगो भविष्यति ।। १७ ।।

पुरी परिवृता स्वप्ने मृगयूथैः समंततः ।।

रोरूयमाणैरत्यर्थं मासेनैवोद्वसी भवेत् ।। १८ ।।

आतायियूकगृध्राद्यैः पुरीमुपरिचारिभिः ।।

सूच्यतेत्याहितं किंचिद्ध्रुवमत्र निवासिनाम् ।।१९।।

स्वप्नोत्पातानिति बहूञ्शंसञ्शंसन्नितस्ततः ।।

बहूनुच्चाटयांचक्रे स विघ्नेशः पुरौकसः ।। 4.2.56.२० ।।

केषांचित्पुरतो वादीद्ग्रहचारं प्रदर्शयन् ।।

एकराशिस्थिताः सौरि सितभौमा न शोभनाः ।। २१ ।।

सोयं धूमग्रहो व्योम्नि भित्त्वा सप्तर्षिमंडलम् ।।

प्रयातः पश्चिमामाशां स नाशाय विशांपतेः ।। २२ ।।

अतिचारगतो मंदः पुनर्वक्राध्व संस्थितः ।।

पापग्रहसमायुक्तो न युक्तोयमिहेष्यते ।। २३ ।।

व्यतीते वासरे योयं भूकंपः समपद्यत ।।

कंपं जनयतेऽतीव हृदो मेपि पुरौकसः ।। २४ ।।

उदीच्यादक्षिणाशायां येयमुल्का प्रधाविता ।।

विलीना च वियत्येव स निर्घातं न सा शुभा ।। २५ ।।

उन्मूलितो महामूलो महानिलरयेण यः ।।

चत्वरे चैत्यवृक्षोयं महोत्पातं प्रशंसति ।। २६ ।।

सूर्योदयमनुप्राप्य प्राच्यां शुष्कतरूपरि ।।

करटो रारटीत्येष कटूत्कट भयप्रदः ।। २७ ।।

मध्ये विपणि यतूर्णं कौचिच्चारण्यचारिणौ ।।

मृगौ मृगयतां यातौ पौराणां पुरतोऽहितौ ।।२८।।

रसालशालमुकुलं वीक्ष्यते यच्छरद्यदः ।।

महाकालभयं मन्येप्यकालेपि पुरौकसाम् ।। २९ ।।

साध्वसंजनयित्वेति केचिदुच्चाटिताः पुरः ।।

तेन विघ्नकृतापौराः कपटद्विजरूपिणा।। 4.2.56.३० ।।

अथ मध्येवरोधं स प्रविश्य निजमायया ।।

दृष्टार्थमेव कथयन्स्त्रीणां विस्रंभभूरभूत् ।।३१।।

तव पुत्रशतं जज्ञे सप्तोनं शुभलक्षणे ।।

तेष्वेकस्तुरगारूढो बाह्याल्यां पतितो मृतः ।। ३२ ।।

अंतर्वत्नी त्वियं कन्या जनयिष्यति शोभनाम् ।।

एषा हि दुर्भगा पूर्वं सांप्रतं सुभगाऽभवत् ।। ३३ ।।

असौ हि राज्ञो राज्ञीनामत्यंतमिहवल्लभा।।

मुक्तालंकृतिरेतस्यै राज्ञा दत्ता निजोरसः ।। ३४ ।।

पंचसप्तदिनान्येव जातानीतीह तर्क्यते ।।

अस्यै राज्ञा प्रसादेन ग्रामौ दातुमुदीरितौ ।। ३५।।

इति दृष्टार्थकथनै राज्ञीमान्योभवद्द्विजः ।।

वर्णयंति च ता राज्ञः परोक्षेपि गुणान्बहून् ।। ३६ ।।

अहो यादृगसौ विप्रः सर्वत्रातिविचक्षणः ।।

सुशीलश्च सुरूपश्च सत्यवाङ्मितभाषणः ।। ३७ ।।

अलोलुप उदारश्च सदाचारो जितेंद्रियः ।।

अपि स्वल्पेन संतुष्टः प्रतिग्रहपराङ्मुखः ।। ३८ ।।

जितक्रोधः प्रसन्नास्यस्त्वनसूयुरवंचकः ।।

कृतज्ञः प्रीतिसुमुखः परिवादपराङ्मुखः ।।३९।।

पुण्योपदेष्टा पुण्यात्मा सर्वव्रतपरायणः ।।

शुचिः शुचिचरित्रश्च श्रुतिस्मृतिविशारदः ।। ।। 4.2.56.४० ।।

धीरः पुण्येतिहासज्ञः सर्वदृक्सर्वसंमतः ।।

कलाकलापकुशलो ज्योतिःशास्त्रविदुत्तमः ।। ४१ ।।

क्षमी कुलीनोऽकृपणो भोक्ता निर्मलमानसः ।।

इत्यादि गुणसंपन्नः कोपि क्वापि न दृग्गतः ।। ४२ ।।

इत्थं तास्तद्गुणग्रामं वर्णयंत्यः पदेपदे ।।

कालं विनोदयंति स्म अंतःपुरचराः स्त्रियः ।। ४३।।

एकदावसरं प्राप्य दिवोदासस्य भूभुजः ।।

राज्ञी लीलावती नाम राज्ञे तं विन्यवेदयत् ।। ४४ ।।

राजन्वृद्धो गुणैर्वृद्धो ब्राह्मणः सुविचक्षणः ।।

एकोस्ति स तु द्रष्टव्यो मूर्तो ब्रह्मनिधिः परः ।। ४५ ।।

राज्ञी राज्ञा कृतानुज्ञा सखीं प्रेष्य विचक्षणाम् ।।

आनिनाय च तं विप्रं ब्राह्मं तेज इवांगवत् ।। ४६ ।।

राजापि दूरादायांतं त विलोक्यमहीसुरम् ।।

यत्राकृतिर्गुणास्तत्र जहर्षेति वदन्हृदि ।। ४७ ।।

पदैर्द्वित्रैर्नृपतिना कृताभ्युत्थानसत्कृतिः ।।

चतुर्निगमजाभिः स तमाशीर्भिरनंदयत् ।। ४८ ।।

कृतप्रणामो राज्ञा स सादरं दत्तमासनम् ।।

भेजेथ कुशलं पृष्टः स राज्ञा तेन भूपतिः ।। ४९ ।।

परस्परं कुशलिनौ कुशलौ च कथागमे ।।

प्रश्नोत्तराभ्यां संतुष्टौ द्विजवर्य क्षमाभृतौ ।। 4.2.56.५० ।।

कथावसाने राज्ञाथ गेहं विससृजे द्विजः ।।

लब्धमानमहापूजः स स्वमाश्रममाविशत् ।। ५१ ।।

गतेऽथ स्वाश्रमं विप्रे दिवोदासो नरेश्वरः ।।

लीलावत्याः पुरो विप्रं वर्णयामास भूरिशः ।। ५२ ।।

महादेवि महाप्राज्ञे लीलावति गुणप्रिये ।।

यथाशंसि तथा विप्रस्ततोपि गुणवत्तरः ।। ५३ ।।

अतीतं वेत्ति सकलं वर्तमानमवैति च ।।

प्रष्टव्यः प्रातराहूय भविष्यं किंचिदेष वै ।। ५४ ।।

महाविभव संभारैर्महाभोगैरनेकधा ।।

व्युष्टायां स नृपो रात्र्यां प्रातराहूतवान्द्विजम् ।। ५५ ।।

सत्कृत्य तं द्विजं भक्त्या दुकूलादि प्रदानतः ।।

एकांते तं द्विजं राजा पप्रच्छ निजहृत्स्थितम् ।।५६।।

।।राजोवाच ।। ।।

द्विजवर्यो भवानेकः प्रतिभातीति निश्चितम् ।।

यथातत्त्ववती ते धीर्न तथान्यस्य मे मतिः ।।५७।।

दृष्ट्वा त्वां तु महाप्राज्ञं शांतं दांतं तपोनिधिम् ।।

किंचित्प्रष्टुमना विप्र तदाख्याहि यथार्थवत् ।। ५८ ।।

शासितेयं मया पृथ्वी न तथान्यैस्तु पार्थिवैः ।।

यावद्भूति मया भुक्ता दिव्या भोगा अनेकधा ।।५९।।

निजौरसेभ्योप्यधिकं रात्रिंदिवमतंद्रितम् ।।

विनिर्जित्य हठाद्दुष्टान्प्रजेयं परिपालिता ।।4.2.56.६०।।

द्विजपादार्चनात्किंचित्सुकृतं वेद्मि नापरम् ।।

अनेनापरिकथ्येन कथितेनेह किं मम ।। ६१ ।।

निर्विस्ममिव मे चेतः सांप्रतं सर्वकर्मसु ।।

विचार्यार्य शुभोदर्कमत आख्याहि सत्तम ।।६२।।

।। द्विज उवाच ।। ।।

अपि स्वल्पतरं कृत्यं यद्भवेद्भूभुजामिह ।।

एकांते तत्तु पृष्टेन वक्तव्यं सुधिया सदा ।। ६३ ।।

अमात्येनाप्यपृष्टेन न वक्तव्यं नृपाग्रतः ।।

महापमानभीतेन स्तोकमप्यत्र किंचन ।। ६४ ।।

पृष्टश्चेत्कथयामीह मा तत्र कुरु संशयम् ।।

तत्कृते तव गंता वै मनो निर्वेदकारणम् ।।६५।।

शृणु राजन्महाबुद्धे नायथार्थं ब्रवीम्यहम् ।।

विक्रांतोस्यतिशूरोसि भाग्यवानसि सर्वदा ।। ६६ ।।

पुण्येन यशसा बुद्ध्या संपन्नोस्ति भवान्यथा ।।

मन्ये तथामरावत्यां त्रिदशेशोपि नैव हि ।। ६७ ।।

सुधिया त्वां गुरुं मन्ये प्रसादेन सुधाकरम् ।।

तेजसास्ति भवानर्कः प्रतापेनाशुशुक्षणिः ।।६८।।

प्रभंजनो बलेनासि श्रीदोसि श्रीसमर्पणैः ।।

शासनेन भवान्रुद्रो निर्ऋतिस्त्वं रणांगणे ।।६९ ।।

दुष्टपाशयिता पाशी यमो नियमनेऽसताम् ।।

इंदनात्त्वं महेंद्रोसि क्षमया त्वमसि क्षमा ।। 4.2.56.७० ।।

मर्यादया भवानब्धिर्महत्त्वे हिमवानसि ।।

भार्गवो राजनीत्यासि राज्येन मनुना समः ।। ७१ ।।

संतापहर्तांबुदवत्पवित्रो गांगनामवत् ।।

सर्वेषामेव जंतूनां काशीव सुगतिप्रदः ।।७२।।

रुद्रः संहाररूपेण पालनेन चतुर्भुजः ।।

विधिवत्त्वं विधातासि भारती ते मुखांबुजे ।। ७३ ।।

त्वत्पाणिपद्मे कमला त्वत्क्रोधेस्ति हलाहलः ।।

अमृतं तव वागेव त्वद्भुजावश्विनीसुतौ ।। ७४ ।।

तत्किं यत्त्वयि भूजानौ सर्वदेवमयो ह्यसि ।।

तस्मात्तव शुभोदर्को मया ज्ञातोस्ति तत्त्वतः ।। ७५ ।।

आरभ्याद्य दिनाद्भूप ब्राह्मणोऽष्टादशेहनि ।।

उदीच्यः कश्चिदागत्य ध्रुवं त्वामुपदेक्ष्यति।।७६।।

तस्य वाक्यं त्वया राजन्कर्तव्यमविचारितम् ।।

ततस्ते हृत्स्थितं सर्वं सेत्स्यत्येव महामते ।। ७७ ।।

इत्युक्त्वा पृच्छ्य राजानं लब्धानुज्ञो द्विजोत्तमः ।।

विवेश स्वाश्रमं तुष्टो नृपोप्याश्चर्यवानभूत् ।। ७८ ।।

इत्थं विघ्नजिता सर्वा पुरी स्वात्मवशीकृता ।।

सपौरा सावरोधा च सनृपा निजमायया ।। ७९ ।।

कृतकृत्यमिवात्मानं ततो मत्वा स विघ्नजित् ।।

विधाय बहुधात्मानं काश्यां स्थितिमवाप च ।। 4.2.56.८० ।।

यदा स न दिवोदासः प्रागासीत्कुंभसंभव ।।

तदातनं निजं स्थानमलंचक्रे गणाधिपः ।। ८१ ।।

दिवोदासे नरपतौ विष्णुनोच्चाटिते सति ।।

पुनर्नवीकृतायां च नगर्यां विश्वकर्मणा ।। ८२ ।।

स्वयमागत्य देवेन मंदरात्सुंदरां पुरीम् ।।

वाराणसीं प्रथमतस्तुष्टुवे गणनायकम् ।। ८३ ।।

।। अगस्त्य उवाच ।। ।।

कथं स्तुतो भगवता देवदेवेन विघ्नजित् ।।

कथं च बहुधात्मानं स चकार विनायकः ।। ८४ ।।

केनकेन स वै नाम्ना काशिपुर्यां व्यवस्थितः ।।

इति सर्वं समासेन कथयस्व षडानन ।। ८५ ।।

इत्युदीरितमाकर्ण्य कुंभयोनेः षडाननः ।।

यथावत्कथयामास गणराज कथां शुभाम् ।। ८६ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्द्धे गणेशमाया प्रपंचो नाम षट्पंचाशत्तमोऽध्यायः ।। ५६।।

खण्डः ४ (काशीखण्डः) — Adhyāya 57

।। स्कंद उवाच ।। ।।

विश्वेशो विश्वया सार्धं मया च मुनिसत्तम ।।

महाशाखविशाखाभ्यां नंदिभृंगिपुरोगमः ।। १ ।।

नैगमेयेन सहितो रुद्रैः सर्वत्र संवृतः ।।

देवर्षिभिः समायुक्तः सनकाद्यैरभिष्टुतः ।। २ ।।

समस्तायतनाधीशैर्दिक्पालैरभिनंदितः ।।

तीर्थैर्दर्शित तीर्थश्च गंधर्वैर्गीतमंगलः ।। ३ ।।

कृतपूजोप्सरोभिश्च नृत्यहस्तकपल्लवैः ।।

वियत्यनाहतैर्वाद्यैः समंतादनुमोदितः ।। ४।।

ऋषीणां ब्रह्मनिर्घोषैर्बधिरीकृतदिङ्मुखः।।

कृतस्तुतिश्चारणौघैर्विमानैरभितोवृतः ।। ५ ।।

त्रिविष्टप वधूमुष्टिभ्रष्टैर्लाजैरितस्ततः ।।

अभिवृष्टो महादेवः संप्रहृष्टतनूरुहः ।। ६ ।।

दत्तमाल्योपहारश्च बहुविद्याधरी गणैः ।।

यक्षगुह्यकसिद्धैश्च खेचरैरभिनंदितः ।। ७ ।।

कृतप्रवेश शकुनो मृगैः शकुनिभिः पुरः ।।

किंनरीभिः प्रहष्टास्यैः किंनरैरुपवर्णितः ।। ८ ।।

विष्णुना च महालक्ष्म्या ब्रह्मणा विश्वकर्मणा ।।

नंदिनाथ गणेशेन आविष्कृतमहोत्सवः ।। ९ ।।

नागांगनाभिः परितः कृतनीराजनाविधिः ।।

प्रविवेश महादेवः पुरीं वाराणसीं शुभाम् ।। 4.2.57.१० ।।

पश्यतां सर्वदेवानामवरुह्य वृषेंद्रतः ।।

परिष्वज्य गणाधीशं प्रोवाच वृषभध्वजः ।। ११ ।।

यदहं प्राप्तवानस्मि पुरीं वाराणसीं शुभाम् ।।

मयाप्यतीव दुष्प्राप्यां स प्रसादो स्य वै शिशोः ।। १२ ।।

यद्दुष्प्रसाध्यं हि पितुरपि त्रिजगतीतले ।।

तत्सूनुना सुसाध्यं स्यादत्र दृष्टांतता मयि ।। १३ ।।

अनेन गजवक्त्रेण स्वबुद्धिविभवेरिह ।।

काशीप्राप्तिर्यथा मे स्यात्तथा किंचिदनुष्ठितम् ।। १४ ।।

पुत्रवानहमेवास्मि यच्च मे चिरचिंतितम् ।।

स्वपौरुषेण कृतवानभिलाषं करस्थितम् ।। १५ ।।

इत्युक्त्वा त्रिपुरीहर्ता पुरुहूतादिभिः स्तुतः ।।

परितुष्टावसंहृष्टः स्पष्टगीर्भिर्गजाननम् ।। १६ ।।

।। श्रीकंठ उवाच ।। ।।

जय विघ्नकृतामाद्य भक्तनिर्विघ्नकारक ।।

अविघ्नविघ्नशमन महाविघ्नैकविघ्नकृत् ।। १७ ।।

जय सर्वगणाधीश जय सर्व गणाग्रणीः ।।

गणप्रणतपादाब्ज गणनातीतसद्गुण ।। १८ ।।

जय सर्वग सर्वेश सर्वबुद्ध्येकशेवधे ।।

सर्वमायाप्रपंचज्ञ सर्वकर्माग्रपूजित ।। १९ ।।

सर्वमंगलमांगल्य जय त्वं सर्वमंगल ।।

अमंगलोपशमन महामंगलहेतुक ।। 4.2.57.२० ।।

जय सृष्टिकृतां वंद्य जय स्थितिकृतानत ।।

जय संहृतिकृत्स्तुत्य जयसत्कर्मसिद्धिद ।। २१ ।।

सिद्धवंद्यपदांभोज जयसिद्धिविधायक ।।

सर्वसिद्ध्येकनिलय महासिद्ध्यृद्धिसूचक ।।२२।।

अशेषगुणनिर्माण गुणातीत गुणाग्रणी ।।

परिपूर्णचरित्रार्थ जय त्वं गुणवर्णित ।। २३ ।।

जय सर्वबलाधीश बलाराति बलप्रद ।।

बलाकोज्ज्वल दंताग्र बालाबालपराकम ।। २४ ।।

अनंतमहिमाधार धराधर विदारण।।

दंताग्रप्रोतां दङ्नाग जयनागविभूषण।। २५।।

ये त्वांनमंति करुणामय दिव्य मूर्ते सर्वैनसामपि भुवो भुविमुक्तिभाजः।।

तेषां सदैव हरसीहमहोपसर्गान्स्वर्गापवर्गमपि संप्रददासि तेभ्यः ।। २६ ।।

ये विघ्नराज भवता करुणाकटाक्षैः संप्रेक्षिताः क्षितितले क्षणमात्रमत्र ।।

तेषां क्षयंति सकलान्यपिकिल्विषाणि लक्ष्मीः कटाक्षयतितान्पुरुषोत्तमान्हि ।। २७ ।।

ये त्वां स्तुवंति नतविघ्नविघातदक्ष दाक्षायणीहृदयपंकजतिग्मरश्मे ।।

श्रूयंत एव त इह प्रथिता न चित्रं चित्रं तदत्र गणपा यदहो त एव ।। २८ ।।

ये शीलयंति सततं भवतोंघ्रियुग्मं ते पुत्रपौत्रधनधान्यसमृद्धिभाजः ।।

संशीलितांघ्रिकमला बहुभृत्यवर्गैर्भूपालभोग्यकमलां विमलां लभंते ।। २९ ।।

त्वं कारणं परमकारणकारणानां वेद्योसि वेदविदुषां सततं त्वमेकः ।।

त्वं मार्गणीयमसि किंचन मूलवाचां वाचामगोचरचराचरदिव्यमूर्ते ।। 4.2.57.३० ।।

वेदा विदंति न यथार्थतया भवंतं ब्रह्मादयोपि न चराचर सूत्रधार ।।

त्वं हंसि पासि विदधासि समस्तमेकः कस्तेस्तुतिव्यतिकरो मनसाप्यगम्य ।। ३१ ।।

त्वद्दुष्टदृष्टिविशिखैर्निहतान्निहन्मि दैत्यान्पुरांधकजलंधरमुख्यकांश्च।।

कस्यास्ति शक्तिरिह यस्त्वदृतेपि तुच्छं वांछेद्विधातु मिह सिद्धिदकार्यजातम् ।। ३२ ।।

अन्वेषणे ढुंढिरयं प्रथितोस्तिधातुः सर्वार्थढुंढिततया तव ढुंढि नाम ।।

काशीप्रवेशमपि को लभतेत्र देही तोषं विना तव विनायकढुंढिराज ।। ३३ ।।

ढुंढे प्रणम्यपुरतस्तवपादपद्मं यो मां नमस्यति पुमानिह काशिवासी ।।

तत्कर्णमूलमधिगम्य पुरा दिशामि तत्किंचिदत्र न पुनर्भवतास्ति येन ।। ३४ ।।

स्नात्वा नरः प्रथमतो मणिकर्णिकायामुद्धूलितांघ्रियुगलस्तु सचैलमाशु ।।

देवर्षिमानवपितॄनपि तर्पयित्वा ज्ञानोदतीर्थमभिलभ्य भजेत्ततस्त्वाम् ।। ३५ ।।

सामोदमोदकभरैर्वरधूपदीपैर्माल्यैः सुगंधबहुलैरनुलेपनैश्च ।।

संप्रीण्यकाशिनगरीफलदानदक्षं प्रोक्त्वाथ मां क इह सिध्यति नैव ढुंढे ।। ३६ ।।

तीर्थांतराणि च ततः क्रमवर्जितोपि संसाधयन्निह भवत्करुणाकटाक्षैः ।।

दूरीकृतस्वहितघात्युपसर्गवर्गो ढुंढे लभेदविकलं फलमत्र काश्याम्।। ३७ ।।

यः प्रत्यहं नमति ढुं ढिविनायकं त्वां काश्यां प्रगे प्रतिहताखिलविघ्नसंघः ।।

नो तस्य जातु जगतीतलवर्ति वस्तु दुष्प्रापमत्र च परत्र च किंचनापि ।। ३८ ।।

यो नाम ते जपति ढुंढिविनायकस्य तं वै जपंत्यनुदिनं हृदि सिद्धयोष्टौ ।।

भोगान्विभुज्य विविधान्विबुधोपभोग्यान्निर्वाणया कमलया व्रियते स चांते ।। ३९ ।।

दूरे स्थितोप्यहरहस्तव पादपीठं यः संस्मरेत्सकलसिद्धिद ढुंढिराज ।।

काशीस्थिते रविकलं सफलं लभेत नैवान्यथा न वितथा मम वाक्कदाचित् ।। 4.2.57.४० ।।

जाने विघ्नानसंख्यातान्विनिहंतुमनेकधा ।।

क्षेत्रस्यास्य महाभाग नानारूपैरिहस्थितः ।। ४१ ।।

यानि यानि च रूपाणि यत्रयत्र च तेनघ ।।

तानि तत्र प्रवक्ष्यामि शृण्वंत्वेते दिवौकसः ।। ४२ ।।

प्रथमं ढुंढिराजोसि मम दक्षिणतो मनाक् ।।

-आढुंढ्य सर्वभक्तेभ्यः सर्वार्थान्संप्रयच्छसि ।। ४३ ।।

अंगारवासरवतीमिह यैश्चतुर्थीं संप्राप्य मोदकभरैः परिमोदवद्भिः ।।

पूजा व्यधायि विविधा तव गंधमाल्यैस्तानत्र पुत्रविदधामि गणान्गणेश ।। ४४ ।।

ये त्वामिह प्रति चतुर्थि समर्चयंति ढुंढे विगाढमतयः कृतिनस्त एव ।।

सर्वापदां शिरसि वामपदं निधाय सम्यग्गजानन गजाननतां लभंते ।। ४५ ।।

माघशुक्लचतुर्थ्यां तु नक्तव्रतपरायणाः ।।

ये त्वां ढुंढेर्चयिष्यंति तेऽर्च्याः स्युरसुरद्रुहाम् ।।४६।।

विधाय वार्षिकीं यात्रां चतुर्थीं प्राप्य तापसीम् ।।

शुक्लां शुक्लतिलैर्बद्ध्वा प्राश्नीयाल्लड्डुकान्व्रती ।। ४७ ।।

कार्या यात्रा प्रयत्नेन क्षेत्रसिद्धिमभीप्सुभिः ।।

तस्यां चतुर्थ्यां त्वत्प्रीत्यै ढुंढे सर्वोपसर्गहृत् ।। ४८ ।।

तां यात्रां नात्रयः कुर्यान्नैवेद्यतिललडुकैः ।।

उपसर्गसहस्रैस्तु स हंतव्यो ममाज्ञया ।। ४९ ।।

होमं तिलाज्यद्रव्येण यः करिष्यति भक्तितः ।।

तस्यां चतुर्थ्यां मंत्रज्ञस्तस्य मंत्रः प्रसेत्स्यति ।। 4.2.57.५० ।।

वैदिकोऽवैदिको वापि यो मंत्रस्ते गजानन ।।

जप्तस्त्वत्संनिधौ ढुंढे सिद्धिं दास्यति वांछिताम् ।। ५१ ।।

।। ईश्वर उवाच ।।

इमां स्तुतिं ममकृतिं यः पठिष्यति सन्मतिः ।।

न जातु तं तु विघ्नौघाः पीडयिष्यंति निश्चितम् ।। ५२ ।।

ढौंढीं स्तुतिमिमां पुण्यां यः पठेड्ढुंढि संनिधौ ।।

सान्निध्यं तस्य सततं भजेयुः सर्वसिद्धयः ।। ५३ ।।

इमां स्तुतिं नरो जप्त्वा परं नियतमानसः ।।

मानसैरपि पापैस्तैर्नाभिभूयेत कर्हिचित्।।५४।।

पुत्रान्कलत्रं क्षेत्राणि वराश्वान्वरमंदिरम्।।

प्राप्नुयाच्च धनं धान्यं ढुंढिस्तोत्रं जपन्नरः ।। ५५ ।।

सर्वसंपत्करं नाम स्तोत्रमेतन्मयेरितम् ।।

प्रजप्तव्यं प्रयत्नेन मुक्तिकामेन सर्वदा ।।५६।।

जप्त्वा स्तोत्रमिदं पुण्यं क्वापि कार्ये गमिष्यतः ।।

पुंसः पुरः समेष्यंति नियतं सर्वसिद्धयः ।।५७।।

अन्यच्च कथयाम्यत्र शृण्वंत्वेते दिवौकसः ।।

ढुंढिना क्षेत्ररक्षार्थं यत्रयत्र स्थितिः कृता ।। ५८ ।।

काश्यां गंगासि संभेदे नामतोर्कविनायकः ।।

दृष्टोर्कवासरे पुंभिः सर्वतापप्रशांतये ।। ५९ ।।

दुर्गो नाम गणाध्यक्षः सर्वदुर्गतिनाशनः ।।

क्षेत्रस्य दक्षिणे भागे पूजनीयः प्रयत्नतः ।। 4.2.57.६० ।।

भीमचंडी समीपे तु भीमचंडविनायकः ।।

क्षेत्रनैर्ऋतदेशस्थो दृष्टो हंति महाभयम् ।। ६१ ।।

क्षेत्रस्य पश्चिमे भागे स देहलिविनायकः ।।

सर्वान्निवारयेद्विघ्नान्भक्तानां नात्र संशयः ।। ६२ ।।

क्षेत्रवायव्यदिग्भागे उद्दंडाख्यो गजाननः ।।

उद्दंडानपि विघ्नौघान्भक्तानां दंडयेत्सदा ।। ६३ ।।

काश्याः सदोत्तराशायां पाशपाणिर्विनायकः ।।

विनायकान्पाशयति भक्त्या काशीनिवासिनाम् ।। ६४ ।।

गंगावरणयोः संगे रम्यः खर्वविनायकः ।।

अखर्वानपि विघ्नौघान्भक्तानां खर्वयेत्सताम् ।। ६५ ।।

प्राच्यां तु क्षेत्ररक्षार्थं सिद्धः सिद्धिविनायकः ।।

पश्चिमे यमतीर्थस्य साधकक्षिप्रसिद्धिदः ।। ६६ ।।

बाह्यावरणगाश्चैते काश्यामष्टौ विनायकाः ।।

उच्चाटयत्यभक्तांश्च भक्तानां सर्वसिद्धिदाः ।। ६७ ।।

द्वितीयावरणे चैव ये रक्षंति विनायकाः ।।

अविमुक्तमिदं क्षेत्रं तानहं कथयाम्यतः ।। ६८ ।।

स्वर्धुन्याः पश्चिमे कूले उत्तरेर्कविनायकात् ।।

लंबोदरो गणाध्यक्षः क्षालयेद्विघ्नकर्दमम् ।।६९।।

तत्पश्चिमेकूटदंत उदग्दुर्गविनायकात् ।।

दुर्गोपसर्गसंहर्ता रक्षेत्क्षेत्रमिदं सदा ।। ।। 4.2.57.७० ।।

भीमचंड गणाध्यक्षात्किंचिदीशानदिग्गतः ।।

क्षेत्ररक्षोगणाध्यक्षः पूज्यः शालकटंकटः ।। ७१ ।।

प्राच्या देहलिविघ्नेशात्कूश्मांडाख्यो विनायकः ।।

पूजनीयः सदा भक्तेर्महोत्पात प्रशांतये ।। ७२ ।।

उद्दंडाख्याद्गणपतेराशुशुक्षणिदिक्स्थितः ।।

महाप्रसिद्धः संपूज्यो भक्तैर्मुंडविनायकः ।। ७३ ।।

पाताले तस्य देहोस्ति मुंडं काश्यां व्यवस्थितम ।।

अतः स गीयते काश्यां देवो मुंडविनायकः ।। ७४ ।।

पाशपाणेर्गणेशानाद्दक्षिणे विकटद्विजम् ।।

पूजयित्वा गणपतिं गाणपत्यपदं लभेत् ।। ७५ ।।

खर्वाख्यान्नैर्ऋतेभागे राजपुत्रो विनायकः ।।

भ्रष्टराज्यं च राजानं राजानं कुरुतेऽर्चितः ।। ७६ ।।

गंगायाः पश्चिमे कूले प्रणवाख्यो गणाधिपः ।।

अवाच्यां राजपुत्राच्च प्रणतः प्रणयेद्दिवम् ।। ७७ ।।

द्वितीयावरणे काश्यामष्टावेते विनायकाः ।।

उत्सादयेयुर्विघ्नौघान्काशी स्थितिनिवासिनाम् ।। ७८ ।।

क्षेत्रे तृतीयावरणे क्षेत्ररक्षाकृतः सदा ।।

ये विघ्नराजाः संतीह ते वक्तव्या मयाधुना ।। ७९ ।।

उदग्वहायाः स्वर्धुन्या रम्ये रोधसि विघ्नराट् ।।

लंबोदरादुदीच्यां तु वक्रतुंडोघसंघहृत् ।। 4.2.57.८० ।।

कूटदंताद्गणपतेरुदीच्यामेकदंतकः ।।

सदोपसर्गसंसर्गात्पायादानंदकाननम् ।। ८१ ।।

काशीभयहरो नित्यमैश्यां शालकटंकटात् ।।

त्रिमुखो नाम विघ्नेशः कपिसिंहद्विपाननः ।।८२।।

कूश्मांडात्पूर्वदिग्भागे पंचास्यो नाम विघ्नराद् ।।

पंचास्यस्यंदनवरः पाति वाराणसीं पुरीम् ।। ८३ ।।

हेरंबाख्यः सदाग्नेय्यां पूज्यो मुंडविनायकात् ।।

अंबावत्पूरयेत्कामान्सर्वेषां काशिवासिनाम् ।। ८४ ।।

अवाच्यामर्चयेद्धीमान्सिद्ध्यै विकटदंततः ।।

विघ्नराजं गणपतिं सर्वविघ्नविनाशनम् ।। ८५ ।।

विनायकाद्राजपुत्रात्किंचिद्रक्षोदिशिस्थितः ।।

वरदाख्यो गणाध्यक्षः पूज्यो भक्तवरप्रदः ।। ८६ ।।

याम्यां प्रणवविघ्नेशाद्गणेशो मोदकप्रियः ।।

पूज्यः पिशंगिला तीर्थे देवनद्यास्तटे शुभे ।। ८७ ।।

चतुर्थावरणे काश्यां भक्तविघ्नविनाशकाः ।।

द्रष्टव्या हृष्टचेतोभिः स्पष्टमष्टौ विनायकाः ।। ८८ ।।

वक्रतुंडादुदग्दिक्स्थः स्वःसिंधो रोधसिस्थितः ।।

विनायकोस्त्यभयदः सर्वेषां भयनाशनः ।। ८९ ।।

कौबेर्यामेकदशनात्सिंहतुंडो विनायकः ।।

उपसर्गगजान्हंति वाराणसि निवासिनाम् ।। 4.2.57.९० ।।

कूणिताक्षो गणाध्यक्षस्त्रितुंडादीश दिक्स्थितः ।।

महाश्मशानं सततं पायाद्दुष्टकुदृष्टितः ।। ९१ ।।

प्राच्यां पंचास्यतः पायात्पुरीं क्षिप्रप्रसादनः ।।

क्षिप्रप्रसादनार्चातः क्षिप्रं सिध्यंति सिद्धयः ।। ९२ ।।

हेरंबाद्वह्निदिग्भागे चिंतामणि विनायकः ।।

भक्तचिंतामणिः साक्षाच्चिंतितार्थ समर्पकः ।। ९३ ।।

विघ्नराजादवाच्यां तु दंतहस्तो गणेश्वरः ।।

लिखेद्विघ्नसहस्राणि नृणां वाराणसीद्रुहाम् ।। ।। ९४ ।।

वरदाद्यातुधान्यां च यातुधानगणावृतः ।।

देवः पिचिंडिलो नाम पुरीं रक्षेदहर्निशम् ।। ९५ ।।

दृष्टः पिलिपिलातीर्थे दक्षिणे मोदकप्रियात् ।।

उद्दंड मुंडो हेरंबो भक्तेभ्यः किं न यच्छति ।। ९६ ।।

प्राकारे पंचमे काश्यां द्विचतुष्क विनायकाः ।।

कुर्वंति रक्षां क्षेत्रस्य ये तानत्र ब्रवीम्यहम् ।। ९७ ।।

तीरे स्वर्गतरंगिण्या उत्तरे चाभयप्रदात् ।।

स्थूलदंतो गणेशानः स्थूलाः सिद्धीर्दिशेत्सताम् ।। ९८ ।।

सिंहतुडादुदग्भागे कलिप्रिय विनायकः ।।

कलहं कारयेन्नित्यमन्योन्यं तैर्थिकद्रुहाम् ।। ९९ ।।

कूणिताक्षात्तथैशान्यां चतुर्दंतो विनायकः ।।

तस्य दर्शनमात्रेण विघ्नसंघः क्षयेत्स्वयम् ।। 4.2.57.१०० ।।

क्षिप्रप्रसादनादैंद्र्यां द्वितुंडो गणनायकः ।।

अग्रतः पृष्ठतश्चापि बिभर्ति सदृशीं श्रियम् ।। १ ।।

तस्य संदर्शनात्पुसां भवेच्छ्रीः सर्वतोमुखी ।।

ज्येष्ठो नाम गणाध्यक्षो ज्येष्ठो मे पुत्रसंपदि ।। २ ।।

ज्येष्ठशुक्लचतुर्दश्यां संपूज्यो ज्येष्ठताप्तये ।।

स्थितो वह्निदिशो भागे चिंतामणि विनायकात् ।। ३ ।।

दंतहस्ताद्यमाशायां पूज्यो गजविनायकः ।।

तस्य संपूजनाद्भक्त्या गजांता श्रीरवाप्यते ।। ४ ।।

पिचिण्डिलाद्गणपतेर्याम्यां कालविनायकः ।।

भयं न कालकलितं तस्य संसेवनान्नृणाम्।। ५ ।।

उद्दंडमुंडाद्गणपात्की नाशदिशि संस्थितम् ।।

नागेशं गणपं दृष्ट्वा नागलोके महीयते ।। ६ ।।

अथ षष्ठावरणगाः प्रोच्यंते विघ्ननायकाः ।।

तेषां नामश्रवादेव पुंसां सिद्धिः प्रजायते ।। ७ ।।

मणिकर्णो गणपतिः प्राच्यां विघ्नविघातकृत् ।।

आशाविनायको वह्न्यां भक्ताशां पूरयन्स्थितः ।। ८ ।।

याम्यांसृष्टिगणेशश्च सृष्टिसंहारसूचकः ।।

नैर्ऋत्यां यक्षविघ्नेशः सर्वविघ्नहरः परः ।। ९ [

प्रतीच्यां गजकर्णश्च सर्वेषां क्षेमकारकः ।।

चित्रघंटो गणपतिर्वायव्यां पालयेत्पुरीम् ।। 4.2.57.११० ।।

स्थूलजंघउदीच्यां च शमयेच्छमिनामघम् ।।

ऐश्यामैशीपुरीं पायात्समंगलविनायकः ।। ११ ।।

यमतीर्थादुदीच्यां च पूज्यो मित्रविनायकः ।।

सप्तमावरणे ये च तांश्च वक्ष्ये विनायकान् ।। १२ ।।

मोदाद्याः पंचविघ्नेशाः षष्ठो ज्ञानविनायकः ।।

सप्तमो द्वारविघ्नेशो महाद्वारपुरश्चरः ।। १३ ।।

अष्टमः सर्वकष्टौघानविमुक्तविनायकः ।।

अविमुक्ते मम क्षेत्रे हरेत्प्रणतचेतसाम् ।।१४।।

षट्पंचाशद्गजमुखानेतान्यः संस्मरिष्यति।।

दूरदेशांतरस्थोपि स मृतो ज्ञानमाप्नुयात् ।। १५ ।।

ढुंढिस्तुतिं महापुण्यां षट्पंचाशद्गजाननाम् ।।

यः पठिष्यति पुण्यात्मा तस्य सिद्धिः पदेपदे ।। १६ ।।

इमे गणेश्वराः सर्वे स्मर्तव्या यत्र कुत्रचित् ।।

महाविपत्समुद्रांतः पतंतं पांति मानवम् ।।१७।।

इति स्तुतिं महापुण्यां श्रुत्वा चैतान्विनायकान् ।।

जातुविघ्नैर्नबाध्येत पापेभ्योपि प्रहीयते ।। १८ ।।

इत्युक्त्वा देवदेवोपि महोत्सवितमानसः ।।

कृताभिषेको ब्रह्माद्यैस्तेभ्यो दत्त्वाभिवांछितम्।। १९ ।।

संप्रसाद्य यथायोगं सर्वानुचित चंचुरः ।।

अविशद्राजसदनं विश्वकर्मविनिर्मितम् ।। 4.2.57.१२०

।। स्कंद उवाच ।।

एवं स्तुतो भगवता देवदेवेन विघ्नजित् ।।

इत्थं च बहुधात्मानं स चकार विनायकः ।। २१ ।।

एतानि तस्य नामानि ढुंढिराजस्य कुंभज ।।

जपित्वा यानि मनुजो लप्स्यते निजवांछितम्।। २२ ।।

अन्येपि तत्र वै भेदास्तस्य ढुंढेर्गणेशितुः ।।

भक्तैः समर्चिता भक्त्या ह्यसंख्याताः सहस्रशः ।। २३ ।।

भगीरथगणाध्यक्षो हरिश्चंद्रविनायकः ।।

कपर्दाख्यो गणपतिस्तथा बिंदुविनायकः ।। २४ ।।

इत्याद्यास्तत्र विघ्नेशाः प्रतिभक्तप्रतिष्ठिताः ।।

तेषामप्यर्चनात्पुंसां जायंते सर्वसंपदः ।। २५ ।।

श्रुत्वाध्यायमिमं पुण्यं नरः श्रद्धासमन्वितः ।।

सर्वविघ्नान्समुत्सृज्य लभते वांछितं पदम् ।। १२६ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्द्धे ढुंढिविनायकप्रादुर्भावो नाम सप्तपंचाशत्तमोऽध्यायः ।। ५७

खण्डः ४ (काशीखण्डः) — Adhyāya 58

।। अगस्त्य उवाच ।।

किं चकार हरः स्कंद मंदराद्रिगतस्तदा ।।

विलंबमालंबयति तस्मिन्नपि गजानने ।। १ ।।

।। स्कंद उवाच ।। ।।

शृण्वगस्त्य कथां पुण्यां कथ्यमानां मयाधुना।।

वाराणस्येकविषयामशेषाघौघनाशिनीम् ।।२ ।।

करींद्रवदने तत्र क्षेत्रवर्येऽविमुक्तके।।

विलंबभाजित्र्यक्षेण प्रैक्षिक्षिप्रमधोक्षजः ।। ३ ।।

प्रोक्तोथ बहुशश्चेति बहुमानपुरःसरम् ।।

तथा त्वमपि माकार्षीर्यथा प्राक्प्रस्थितैः कृतम् ।। ४ ।।

।। श्रीविष्णुरुवाच ।। ।।

उद्यमः प्राणिभिः कार्यो यथाबुद्धि बलाबलम् ।।

परं फलंति कर्माणि त्वदधीनानि शंकर ।। ५ ।।

अचेतनानि कर्माणि स्वतंत्राः प्राणिनोपि न ।।

त्वं च तत्कर्मणां साक्षी त्वं च प्राणिप्रवर्तकः ।। ६ ।।

किंतु त्वत्पादभक्तानां तादृशी जायते मतिः ।।

यया त्वमेव कथयेः साध्वनेनत्वनुष्ठितम् ।। ७ ।।

यत्किंचिदिह वै कर्मस्तोकं वाऽस्तोकमेव वा ।।

तत्सिद्ध्यत्येव गिरिश त्वत्पादस्मृत्यनुष्ठितम् ।। ८ ।।

सुसिद्धमपि वै कार्यं सुबुद्ध्यापि स्वनुष्ठितम् ।।

अत्वत्पदस्मृतिकृतं विनश्यत्येव तत्क्षणात् ।। ९ ।।

शंभुना प्रेषितेनाद्य सूद्यमः क्रियते मया ।।

त्वद्भक्तिसंपत्तिमतां संपन्नप्राय एव नः ।। 4.2.58.१० ।।

अतीव यदसाध्यं स्यात्स्वबुद्धिबलपौरुषैः ।।

तत्कार्यं हि सुसिद्धं स्यात्त्वदनुध्यानतः शिव ।। ११ ।।

यांति प्रदक्षिणीकृत्य ये भवंतं भवं विभो ।।

भवंति तेषां कार्याणि पुरोभूतानि ते भयात् ।। १२ ।।

जातं विद्धि महादेव कार्यमेतत्सुनिश्चितम् ।।

काशीप्रावेशिकश्चिंत्य शुभलग्नोदयः परम् ।। १३ ।।

अथवा काशिसंप्राप्तौ न चिंत्यं हि शुभाशुभम् ।।

तदैव हि शुभः कालो यदैवाप्येत काशिका ।। १४ ।।

शंभुं प्रदक्षिणीकृत्य प्रणम्य च पुनःपुनः ।।

प्रतस्थेऽथ सलक्ष्मीको मंदराद्गरुडध्वजः ।। १५ ।।

दृशोरतिथितां नीत्वा विष्णुर्वाराणसीं ततः ।।

पुंडरीकाक्ष इत्याख्यां सफलीकृतवान्मुदा ।। १६ ।।

गंगावरणयोर्विष्णुः संभेदे स्वच्छमानसः ।।

प्रक्षाल्य पाणिचरणं सचैलः स्नातवानथ ।।१७।।

तदाप्रभृति तत्तीर्थं पादोदकमितीरितम् ।।

पादौ यदादौ शुभदौ क्षालितौ पीतवाससा ।। १८ ।।

तत्र पादोदके तीर्थे ये स्नास्यंतीह मानवाः ।।

तेषां विनश्यति क्षिप्रं पापं सप्तभवार्जितम् ।। १९ ।।

तत्र श्राद्धं नरः कृत्वा दत्त्वा चैव तिलोदकम्।।

सप्तसप्त तथा सप्त स्ववंश्यांस्तारयिष्यति ।। 4.2.58.२० ।।

गयायां यादृशी तृप्तिर्लभ्यते प्रपितामहैः ।।

तीर्थे पादोदके काश्यां तादृशी लभ्यते ध्रुवम् ।। २१ ।।

कृतपादोदक स्नानं पीतपादोदकोदकम् ।।

दत्तपादोदपानीयं नरं न निरयः स्पृशेत् ।। २२ ।।

विष्णुपादोदके तीर्थे प्राश्य पादोदकं सकृत् ।।

जातुचिज्जननीस्तन्यं न पिबेदिति निश्चितम् ।। २३ ।।

सचक्र शालग्रामस्य शंखेन स्नापितस्य च ।।

अद्भिः पादोदकस्यांबु पिबन्नमृततां व्रजेत् ।। २४ ।।

विष्णुपादोदके तीर्थे विष्णुपादोदकं पिबेत् ।।

यदि तत्सुधया किं नु बहुकालीनयातया ।। २५ ।।

काश्यां पादोदके तीर्थे यैः कृता नोदकक्रियाः ।।

जन्मैव विफलं तेषां जलबुद्बुद सश्रियाम् ।।२६।।

कृतनित्यक्रियो विष्णुः सलक्ष्मीकः सकाश्यपिः ।।

उपसंहृत्य तां मूर्तिं त्रैलोक्यव्यापिनीं तथा ।। २७ ।।

विधाय दार्षदीं मूर्तिं स्वहस्तेनादिकेशवः ।।

स्वयं संपूजयामास सर्वसिद्धिसमृद्धिदाम् ।। २८ ।।

आदिकेशवनाम्नीं तां श्रीमूर्तिं पारमेश्वरीम् ।।

संपूज्य मर्त्यो वैकुंठं मन्यते स्वगृहांगणम् ।। २९ ।।

श्वेतद्वीप इति ख्यातं तत्स्थानं काशिसीमनि ।।

श्वेतद्वीपे वसंत्येव नरास्तन्मूर्तिसेवकाः ।। 4.2.58.३० ।।

क्षीराब्धिसंज्ञं तत्रान्यत्तीर्थं केशवतोग्रतः ।।

कृतोदकक्रियस्तत्र वसेत्क्षीराब्धिरोधसि ।। ३१ ।।

तत्र श्राद्धं नरः कृत्वा गां दत्त्वा च पयस्विनीम् ।।

यथोक्तसर्वाभरणां क्षीरोदे वासयेत्पितॄन् ।। ३२ ।।

एकोत्तरशतं वंश्यान्नवेत्पायस कर्दमम् ।।

क्षीरोदरोधः पुण्यात्मा भक्त्या तत्रैकधेनुदः ।।३३।।

बह्वीश्च नैचिकीर्दत्त्वा श्रद्धयात्र सदक्षिणाः ।।

शय्योत्तरांश्च प्रत्येकं पितॄंस्तत्र सुवासयेत्।।३४।।

क्षीरोदाद्दक्षिणे तत्र शंखतीर्थमनुत्तमम् ।।

तत्रापि संतर्प्यपितॄन्विष्णुलोकेमहीयते ।। ३५ ।।

तद्याम्यां चक्रतीर्थं च पितॄणामपि दुर्लभम् ।।

तत्रापि विहितश्राद्धो मुच्यते पैतृकादृणात् ।।३६।।

तत्संन्निधौ गदातीर्थं विष्वगाधिनिबर्हणम् ।।

तारणं च पितॄणां वै कारणं चैनसां क्षये ।। ३७ ।।

पद्मतीर्थं तदग्रे तु तत्र स्नात्वा नरोत्तमः ।।

पितॄन्संतर्प्य विधिना पद्मयानेव हीयते ।। ३८ ।।

तत्रैव च महालक्ष्म्यास्तीर्थं त्रैलोक्यविश्रुतम् ।।

स्वयं यत्र महालक्ष्मीः स्नाता त्रैलोक्यहर्षदा ।।३९।।

तत्र तीर्थे कृतस्नानो दत्त्वा रत्नानि कांचनम् ।।

पट्टांबराणि विप्रेभ्यो न लक्ष्म्या परिहीयते ।।4.2.58.४०।।

यत्रयत्र हि जायेत तत्रतत्र समृद्धिमान् ।।

पितरोपि हि सुश्रीकास्तस्य स्युस्तीर्थगौरवात् ।।४१।।

तत्रास्ति हि महालक्ष्म्या मूर्तिस्त्रैलोक्यवंदिता ।।

तां प्रणम्य नरो भक्त्या न रोगी जायते क्वचित् ।। ४२ ।।

नभस्य बहुलाष्टम्यां कृत्वा जागरणं निशि।।

समभ्यर्च्य महालक्ष्मीं व्रती व्रतफलं लभेत् ।। ४३ ।।

तार्क्ष्य तीर्थं हि तत्रास्ति तार्क्ष्यकेशवसन्निधौ।।

तत्र स्नात्वा नरो भक्त्या संसाराहिं न पश्यति ।। ४४ ।।

तदग्रे नारदं तीर्थं महापातकनाशनम् ।।

ब्रह्मविद्योपदेशं च प्राप्तवान्यत्र नारदः ।।४५।।

तत्र स्नातो नरः सम्यग्ब्रह्मविद्यामवाप्नुयात् ।।

केशवात्तेन तत्रोक्तः काश्यां नारदकेशवः ।।४६ ।।

अर्चयित्वा नरो भक्त्या देवं नारदकेशवम् ।।

जनन्या जठरं पीठमध्यास्ते न कदाचन ।। ४७ ।।

प्रह्लादतीर्थं तस्याग्रे यत्र प्रह्लादकेशवः ।।

तत्र श्राद्धादिकं कृत्वा विप्णुलोके महीयते ।। ४८ ।।

आंबरीषमहातीर्थमघघ्नं तस्य सन्निधौ ।।

तत्रौदकीं क्रियां कुर्वन्निष्कालुष्यं लभेन्नरः ।।४९।।

आदित्यकेशवः पूज्य आदिकेशव पूर्वतः ।।

तस्य संदर्शनादेव मुच्यते चोच्चपातकैः ।। ।। 4.2.58.५० ।।

दत्तात्रेयेश्वरं तीर्थं तत्रैवादिगदाधरः ।।

पितॄन्संतर्प्य तत्रैव ज्ञानयोगमवाप्नुयात् ।।५१ ।।

भृगुकेशवपूर्वेण तीर्थं वै भार्गवं परम् ।।

तत्र स्नातो नरः प्राज्ञो भवेद्भार्गववत्सुधीः ।। ५२ ।।

तत्र वामनतीर्थं च प्राच्यां वामनकेशवात् ।।

पूजयित्वा च तं विष्णुं वसेद्वामनसन्निधौ ।। ५३ ।।

नरनारायणं तीर्थं नरनारायणात्पुरः ।।

तत्र तीर्थे कृतस्नानो नरो नारायणो भवेत् ।। ५४ ।।

यज्ञवाराह तीर्थं च तदग्रे पापनाशनम् ।।

प्रतिमज्जनतस्तत्र राजसूय क्रतोः फलम् ।। ५५ ।।

विदारनारसिंहाख्यं तत्र तीर्थं सुनिर्मलम् ।।

स्नातो विदारयेत्तत्र पापं जन्मशतार्जितम् ।। ५६ ।।

गोपिगोविंद तीर्थं च गोपिगोविंदपूर्वतः ।।

स्नात्वा तत्र समभ्यर्च्य विष्णुं विष्णुप्रियो भवेत् ।। ५७ ।।

तीर्थं लक्ष्मीनृसिंहाख्यं गोपिगोविंद दक्षिणे ।।

न लक्ष्म्या त्यज्यते क्वापि तत्तीर्थं परिमज्जनात् ।। ५८ ।।

तदग्रे शेषतीर्थं च शेषमाधवसन्निधौ ।।

तर्पितानां पितॄणां च यत्र तृप्तिर्न शिष्यते ।। ५९ ।।

शंखमाधवतीर्थं च तदवाच्यां सुनिर्मलम् ।।

कृतोदको नरस्तत्र भवेत्पापोपि निर्मलः ।। 4.2.58.६० ।।

तदग्रे च हयग्रीवं तीर्थं परमपावनम् ।।

तत्र स्नात्वा हयग्रीवं केशवं परिपूज्य च ।। ६१ ।।

पिंडं च तत्र निर्वाप्य हयग्रीवस्य सन्निधौ ।। ।।

हायग्रीवीं श्रियं प्राप्य समुच्येत सपूर्वजः ।। ६२ ।।

।। स्कंद उवाच ।। ।।

प्रसंगतो मयैतानि तीर्थानि कथितानि ते ।।

भूमौ तिलांतरायां यत्तत्र तीर्थान्यनेशः ।। ६३ ।।

उद्दिष्टानां तु तीर्थानामेतेषां कलशोद्भव ।।

नाममात्रमपि श्रुत्वा निष्पापो जायते नरः ।।

इदानीं प्रस्तुतं विप्र शृणु वक्ष्यामि तेग्रतः ।।

वैकुंठनाथो यच्चक्रे शंखचक्रगदाधरः ।। ६५ ।।

तस्यां मूर्तौ समावेश्य कैशव्यामथ केशवः ।।

शंभोः कार्ये कृतमना अंशांशांशेन निर्गतः ।। ६६ ।।

।। अगस्त्य उवाच ।। ।।

अंशांशांशेन निश्चक्रे कुतो भोश्चक्रपाणिना ।।

क्व निर्गतं च हरिणा प्राप्य काशीं षडानन ।। ६७ ।।

।। स्कंद उवाच ।। ।।

सामस्त्येन यदर्थं न निर्गतं विष्णुना मुने ।।

ब्रुवे तत्कारणमिति क्षणमात्रं निशामय ।। ६८ ।।

संप्राप्य पुण्यसंभारैः प्राज्ञो वाराणसीं पुरीम् ।।

न त्यजेत्सर्वभावेन महालाभैरपीरितः ।। ६९ ।।

अतः प्रतिकृतिः स्वीया तत्र काश्यां मुरारिणा ।।

प्रतितस्थे कलशजस्तोकांशेन च निर्गतम् ।। 4.2.58.७० ।।

किंचित्काश्या उदीच्यां च गत्वा देवेन चक्रिणा ।।

स्वस्थित्यै कल्पितं स्थानं धर्मक्षेत्रमितीरितम् ।। ७१ ।।

ततस्तु सौगतं रूपं शिश्राय श्रीपतिः स्वयम् ।।

अतीव सुंदरतरं त्रैलोक्यस्यापिमोहनम् ।। ७२ ।।

श्रीः परिव्राजिका जाता नितरां सुभगाकृतिः ।।

यामालोक्य जगत्सर्वं चित्रन्यस्तमिवास्थितम् ।। ७३ ।।

विश्वयोनिं जगद्धात्रीं न्यस्तहस्ताग्रपुस्तकाम् ।।

गरुत्मानपि तच्छिष्यो जातो लोकोत्तराकृतिः ।। ७४ ।।

अत्यद्भुत महाप्राज्ञो निःस्पृहः सर्ववस्तुषु ।।

गुरुशुश्रूषणपरो न्यस्तहस्ताग्रपुस्तकः ।। ७५ ।।

अपृच्छत्परमं धर्मं संसारविनिमोचकम् ।।

आचार्यवर्यं सौम्यास्यं प्रसन्नात्मानमुत्तमम् ।। ७६ ।।

धर्मार्थशास्त्रकुशलं ज्ञानविज्ञानशालिनम् ।।

सुस्वरं सुपदव्यक्ति सुस्निग्धमृदुभाषिणम् ।। ७७ ।।

स्तंभनोच्चाटनाकृष्टि वशीकर्मादिकोविदम् ।।

व्याख्यानसमयाकृष्ट पक्षिरोमांचकारिणम् ।। ७८ ।।

पीततद्गीतपीयूष मृगपूगैरुपासितम् ।।

महामोदभराक्रांत वातचांचल्यहारिणम्।। ७९ ।।

वृक्षैरपि पतत्पुष्पच्छलैःकृतसमर्चनम् ।।

ततःप्रोवाच पुण्यात्मा पुण्यकीर्तिः स सौगतः ।। 4.2.58.८० ।।

शिष्यं विनयकीर्तिं तं महाविनयभूषणम्।।८१।।

।। पुण्यकीर्तिरुवाच ।। ।।

त्वया विनयकीर्ते यो धर्मः पृष्टः सनातनः ।।

वक्ष्याम्यहमशेषेण शृणुष्व त्वं महामते ।। ५२ ।।

अनादिसिद्धः संसारः कर्तृकर्मविवर्जितः ।।

स्वयं प्रादुर्भवेदेष स्वयमेव विलीयते ।। ८३ ।।

ब्रह्मादिस्तंबपर्यंतं यावद्देहनिबंधनम् ।।

आत्मैवैकेश्वरस्तत्र न द्वितीयस्तदीशिता ।।८४ ।।

यद्ब्रह्मविष्णुरुद्राद्यास्तथाख्या देहिनामिमाः ।।

आख्या यथास्मदादीनां पुण्यकीर्त्यादिरुच्यते।।।८५।।

देहो यथा स्मदादीनां स्वकालेन विलीयते ।।

ब्रह्मादि मशकांतानां स्वकालाल्लीयते तथा ।।८६ ।।

विचार्यमाणे देहेस्मिन्नकिंचिदधिकं क्वचित् ।।

आहारो मैथुनं निद्रा भयं सर्वत्र यत्समम्।। ८७ ।।

निजाहारपरीमाणं प्राप्य सर्वोपि देहभृत् ।।

सदृशीमेव संतृप्तिं प्राप्नुयान्नाधिकेतराम् ।। ८८ ।।

यथा वितृषिताः स्याम पीत्वा पेयं मुदा वयम् ।।

तृषितास्तु तथान्येपि न विशेषोल्पकोधिकः ।।८९।।

संतु नार्यः सहस्राणि रूपलावण्यभूमयः ।।

परं निधुवने काले ह्येकैवेहोपयुज्यते ।। 4.2.58.९० ।।

अश्वाः परः शताः संतु संत्वनेकेप्यनेकषाः ।।

अधिरोहे तथाप्येको न द्वितीयस्तथात्मनः ।। ९१ ।।

पर्यंकशायिनां स्वापे सुखं यदुपपद्यते ।।

तदेव सौख्यं निद्रायामिह भूशायिनामपि ।। ९२ ।।

यथैव मरणाद्भीतिरस्मदादि वपुष्मताम् ।।

ब्रह्मादिकीटकांतानां तथा मरणतो भयम् ।। ९३ ।।

सर्वेतनुभृतस्तुल्या यदि बुद्ध्या विचार्यते ।।

इदं निश्चित्य केनापि नो हिंस्यः कोपि कुत्रचित् ।। ९४ ।।

धर्मो जीवदया तुल्यो न क्वापि जगतीतले ।।

तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः ।। ९५ ।।

एकस्मिन्रक्षिते जीवे त्रैलोक्यं रक्षितं भवेत् ।।

घातिते घातितं तद्वत्तस्माद्रक्षेन्न घातयेत् ।। ९६ ।।

अहिंसा परमो धर्म इहोक्तः पूर्वसूरिभिः ।।

तस्मान्न हिंसा कर्तव्या नरैर्नरकभीरुभिः ।। ९७ ।।

न हिंसा सदृशं पापं त्रैलोक्ये सचराचरे ।।

हिंसको नरकं गच्छेत्स्वर्गं गच्छेदहिंसकः ।। ९८ ।।

संति दानान्यनेकानि किं तैस्तुच्छ फलप्रदैः ।।

अभीति दानसदृशं परमेकमपीह न ।।९९।।

इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः ।।

विचार्य नानाशास्त्राणि शर्मणेत्र परत्र च ।।4.2.58.१००।।

भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् ।।

देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे ।। १ ।।

अविचिंत्य प्रभावं हि मणिमंत्रौषधीबलम् ।।

तदभ्यस्यं प्रयत्नेन नानार्थोपार्जनाय वै ।। २ ।।

अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै ।।

परितः परिपूज्यानि किमन्यैरिह पूजितैः ।। ३ ।।

पंचकर्मेंद्रियाण्येव पंचबुद्धींद्रियाणि च ।।

मनोबुद्धिरिह प्रोक्तं द्वादशायतनं शुभम् ।। ४ ।।

इहैव स्वर्गनरकौ प्राणिनां नान्यतः क्वचित् ।।

सुखं स्वर्गः समाख्यातो दुःखं नरक एव हि ।। ५ ।।

सुखेषु भुज्यमानेषु यत्स्याद्देह विसजर्नम् ।।

अयमेव परो मोक्षो न मोक्षोऽन्यः क्वचित्पुनः ।। ६ ।।

वासनासहितक्लेश समुच्छेदे सति ध्रुवम् ।।

विज्ञानो परमो मोक्षो विज्ञेयस्तत्त्वचिंतकैः ।। ७ ।।

प्रामाणिकी श्रुतिरियं प्रोच्यते वेदवादिभिः ।।

न हिंस्यात्सर्वभूतानि नान्या हिंसाप्रवर्तिका ।। ८ ।।

अग्नीषोमीयमिति या भ्रामिका साऽसतामिह।।

न सा प्रमाणं ज्ञातॄणां पश्वालंभनकारिका ।। ९ ।।

वृक्षांश्छित्त्वा पशून्हत्वा कृत्वा रुधिरकर्दमम ।।

दग्ध्वा वह्नौ तिलाज्यादि चित्रं स्वर्गोऽभिलप्यते ।। 4.2.58.११० ।।

इत्येवं धर्मजिज्ञासां पुण्यकीर्तौ प्रकुर्वति ।।

पारंपर्येण तच्छ्रुत्वा पौरा यात्रां प्रचक्रिरे ।।११।।

परिव्राजिक याप्येवं समाकृष्टाः पुरांगनाः ।।

तया विजानकौमुद्या सर्वविद्याविदग्धया ।। १२ ।।

ततस्तासां पुरस्तात्सा बौद्धधर्मानवीवदत् ।।

दृष्टार्थप्रत्ययकरान्देहसौख्यैकसाधनान ।। १३ ।। ।।

विज्ञानकौमुद्युवाच ।। ।।

आनंदं ब्रह्मणो रूपं श्रुत्यैवं यन्निगद्यते ।।

तत्तथैवेह मंतव्यं मिथ्या नानात्वकल्पना ।।१४।।

यावत्स्वस्थमिदं वर्ष्म यावन्नेंद्रियविक्लवः ।।

यावज्जरा च दूरेस्ति तावत्सौख्यं प्रसाधयेत् ।। १५।।

अस्वास्थ्येंद्रियवैकल्ये वार्धके तु कुतः सुखम् ।।

शरीरमपि दातव्यमर्थिभ्योतः सुखेप्सुभिः।। १६ ।।

याचमानमनोवृत्ति प्रीणनेयस्य नो जनिः ।।

तेन भूर्भारवत्येषा समुद्रागद्रुमैर्नहि।। १७ ।।

सत्वरो गत्वरो देहः संचयाः सपरिक्षयाः ।।

इति विज्ञाय विज्ञाता देहे सौख्यं प्रसाधयेत् ।। १८ ।।

श्व वायस कृमीणां च प्रतिभोज्यमिदं वपुः ।।

भस्मांतं तच्छरीरं च वेदे सत्यं प्रपद्यते ।। १९ ।।

मुधा जातिविकल्पोयं लोकेषु परिकल्प्यते ।।

मानुष्ये सति सामान्ये कोधमः कोथ चोत्तमः ।। 4.2.58.१२० ।।

ब्रह्मादि सृष्टिरेषेति प्रोच्यते वृद्धपूरुषैः ।।

तस्य स्रष्टुः सुतौ दक्ष मरीची चेति विश्रुतौ ।। २१ ।।

मारीचिना कश्यपेन दक्षकन्याः सुलोचनाः ।।

धर्म्येण किल मार्गेण परिणीतास्त्रयोदश ।। २२ ।।

अपीदानींतनैर्मर्त्यैरल्पबुद्धिपराक्रमैः।।

अयं गम्यस्त्वगम्योयं विचारः क्रियते मुधा ।। २३ ।।

मुखबाहूरुपज्जातं चातुर्वर्ण्यमिहोदितम् ।।

कल्पनेयं कृता पूर्वैर्न घटेत विचारतः ।। २४ ।।

एकस्यां च तनौ जाता एकस्माद्यदि वा क्वचित् ।।

चत्वारस्तनयास्तत्किं भिन्नवर्णत्वमाप्नुयुः ।। २५ ।।

वर्णावर्णविवेकोयं तस्मान्न प्रतिभासते।।

अतो भेदो न मंतव्यो मानुष्ये केनचित्क्वचित् ।। ।। २६ ।।

विज्ञानकौमुदीवाणीमित्याकर्ण्य पुरांगनाः ।।

भर्त्तृशुश्रूषणवतीं विजहुर्मतिमुत्तमाम् ।। २७ ।।

अभ्यस्याकर्षणीं विद्यां वशीकृतिमतीमपि ।।

पुरुषाः सफलीचक्रुः परदारेषु मोहिताः ।। २८ ।।

अंतःपुरचरा नार्यस्तथा राजकुमारकाः ।।

पौराः पुरांगनाश्चापि सर्वे ताभ्यां विमोहिताः ।। २९ ।।

वंध्यानां चापि वंध्यात्वं सा परिव्राजिकाहरत् ।।

तैस्तैश्च कार्मणोपायैरसौ भाग्यवतीः स्त्रियः ।। 4.2.58.१३० ।।

सौभाग्यभाग्यसंपन्ना व्यधाद्विज्ञानकौमुदी ।।

कस्यैचिदंजनं दत्तं कस्यैचित्तिलकौषधम् ।। ३१ ।।

वशीकरणमंत्रैश्च तथा बह्व्योपि दीक्षिताः ।।

मंत्राञ्जपेयुः काश्चिच्च यंत्राण्यन्या लिखंति च ।।३२।।

काश्चिज्जुह्वति कुंडाग्नौ नानाद्रव्याणि निश्चलाः ।।

एवं सर्वेषु पौरेषु निजधर्मेषु सर्वथा ।।

पराङ्मुखेषु जातेषु प्रोल्ललास वृषेतरः ।। ३३ ।।

सिद्धयोकृष्टपच्याद्या नष्टा एनः प्रवेशनात् ।।

आसीत्कुंठितसामर्थ्यो नृपोपि स मनाङ्मनाक् ।। ३४ ।।

दूरस्थितोपि विघ्नेशो नृपं निर्विण्णमानसम् ।।

चकार राज्यकरणे ढुंढिराजो रिपुंजयम् ।। ३५ ।।

अजीगणद्दिवोदासोप्यष्टादश दिनावधिम् ।।

कदा गंता स वै विप्रो यो मां समुपदेक्ष्यति ।। ३६ ।।

इत्थमष्टादशे प्राप्ते दिवसे दिवसेश्वरे ।।

प्राप्ते मध्यं नभोभागं द्वारं प्राप्तो द्विजोत्तमः ।। ३७ ।।

स एव पुण्यकीर्त्याख्यो धर्मक्षेत्रादधोक्षजः ।।

द्विजवेषं समालंब्य समायातो नृपांतिकम् ।। ३८ ।।

द्वित्रैः पवित्रैर्बहुधा जयजीवेति वादिभिः ।।

समेतः स इतो विप्रो मूर्तिमानिव पावकः ।। ३९ ।।

विलोक्य तं समायातं दूरादुत्कंठितो नृपः ।।

मेने भवेद्गुरुरयं युक्तो मदुपदेशने ।। 4.2.58.१४० ।।

अभिगम्य च तं राजा प्रणम्य च पुनःपुनः ।।

गृहीत स्वस्तिवचनो निनायांतःपुरं द्विजम् ।। ४१ ।।

मधुपर्केण विधिना तं संपूज्य जनाधिपः ।।

व्यपेताध्वश्रमं स्वस्थं प्रोल्लसन्मुखपंकजम् ।। ४२ ।।

निवेद्य खाद्यवस्तूनि कृतकृत्य क्रियाविधिम् ।।

परितृप्तं सुखासीनं पप्रच्छ ब्राह्मणं नृपः ।। ४३ ।।

।। राजोवाच ।। ।।

खिन्नोस्मि विप्रवर्याहं राज्यभारं समुद्वहन् ।।

खेदो नास्त्येव हि परं वैराग्यमिव जायते ।। ४४ ।।

किं करोमि क्व गच्छामि कथं मे निर्वृतिर्भवेत् ।।

पक्षद्वय्येव यातेति मम चिंतयतो द्विज ।।४५।।

असीमं सुखसंतानं भुक्तं राज्यं मया द्विज ।।

परिक्षीणविपक्षं च त्र्यक्षैश्वर्यमिव स्फुटम् ।। ४६ ।।

स्वसामर्थ्यादहं जातः पर्जन्याग्न्यनिलात्मकः ।।

प्रजाश्च पालिताः सम्यक्पुत्रा इव निजौरसाः ।। ४७।।

तर्पिताश्चापि भूदेवा वसुभिश्च दिनेदिने।।

एकमेवापराद्धं च मया राज्यं प्रशासता ।। ४८ ।।

देवास्तृणीकृताः सर्वे स्वतपोबलदर्पतः ।।

तच्च प्रजोपकारार्थं न स्वार्थं भवता शपे ।। ४९ ।।

अधुना गुरुरेधित्वं मम भाग्योदयागतः ।।

राज्यं तु प्रकरोम्येवं न्यक्कृतांतकसाध्वसम् ।। 4.2.58.१५० ।।

अकालकालकलनं मम राज्ये न कुत्रचित् ।।

जराव्याधिदरिद्रेभ्यो ममराज्येपि नो भयम् ।। ५१ ।।

कोपि धर्मेतरां वृत्तिं न श्रयेन्मयि शासति ।।

धर्मोदयाजनाः सर्वे सर्वे संति सुखोदयाः ।। ५२ ।।

सद्विद्याव्यसनाः सर्वे सर्वेसन्मार्ग चंचुराः ।।

अथवा यदि कल्पांतं तिष्ठेदायुस्ततोपि किम् ।। ५३ ।।

सर्वे भोग्यास्तथा भांति यथा चर्वित चर्वणम् ।।

किं पिष्टपेषणेनात्र राज्येन द्विजपुंगव ।। ५४ ।।

किमप्युपदिश प्राज्ञ गर्भवासोपशांतये ।।

अथवा त्वां प्रपन्नस्य मम किं चिंतनैरिमः ।। ५५ ।।

यदेव कथयस्यद्य तत्करिष्याम्यसंशयम् ।।

त्वद्विलोकनमात्रेण सर्व एव मनोरथाः ।। ५६ ।।

अन्येषामपि जायंते जातप्राया ममैव तु ।।

जाने देवविरोधेन के के न प्रलयं गताः ।। ५७ ।।

अवंतोपि प्रजाः स्वीया निजधर्ममनुव्रताः ।।

पुरा ते त्रिपुराः शूराः शिवभक्तिपरा अपि ।। ५८ ।।

धरामयं रथं कृत्वा धनुः कृत्वा हिमाचलम् ।।

वेदांश्च वाजिनः कृत्वा गुणं कृत्वा च वासुकिम् ।। ५९ ।।

विरिंचिं सारथिं कृत्वा कृत्वा विष्णुं च पत्त्रिणम्।।

रथचक्रे पुष्पवंतौ प्रतोदं प्रणवात्मकम् ।। 4.2.58.१६० ।।

ताराग्रहमयान्कीलान्वरूथं गगनात्मकम् ।।

ध्वजदंडसुमेरुं च प्रांशुकल्पतरुं ध्वजम् ।। ६१ ।।

योक्त्राणि चक्षुःश्रवसश्छंदास्यंगानि रक्षकान् ।।

भल्लं कालाग्निरुद्राख्यं पुंखीकृत्य प्रभंजनम् ।। ६२ ।।

हरेणैकेषुपातेन लीलया भस्मसात्कृताः ।।

बलिर्यज्ञकृतां श्रेष्ठः कृत्वा कपटखर्वताम् ।। ६३ ।।

पातालं गमितः पूर्वं हरिणा विक्रमैस्त्रिभिः ।।

वृत्तवानपि वै वृत्रः सुत्राम्णा विनिसूदितः ।।६४।।

दधीचिरपि विप्रेंद्रो देवैरस्थिकृते हतः ।।

पूर्ववैरमनुस्मृत्य जयार्थं युध्यतो हरेः ।।

कुशास्त्रैर्विजितस्याजौ तेनैव च दधीचिना ।। ६५ ।।

शिवभक्तस्य बाणस्य दोःसहस्रं पुरा हरिः ।।

चिच्छेद संख्ये किं तेनापराद्धं साधुवर्तिना ।। ६६ ।।

तस्माद्विरोधो भद्राय न भवेद्देवतैः सह ।।

देवेभ्यो मद्भयं नास्ति सत्पथीनस्य वै मनाक् ।। ६७ ।।

यज्ञैर्देवत्वमापन्ना गीर्वाणा वासवादयः ।।

यज्ञैर्दानैस्तपोभिश्च तेभ्योप्याधिक्यमस्ति मे ।। ६८ ।।

अस्तु न्यूनत्वमाधिक्यं किमनेनाधुना मम ।।

इंद्रियोपरमः प्राप्तः सुखदस्तवदर्शनात् ।। ६९ ।।

इदानीं दिश मे तात कर्मनिर्मूलनक्षमम् ।।

उपायं त्वमुपायज्ञ येन निर्वृतिमाप्नुयाम् ।। 4.2.58.१७० ।।

।। स्कंद उवाच ।। ।।

गणेशावेशवशतो राज्ञेति यदुदीरितम् ।।

तदाकर्ण्य हृषीकेशः प्राह ब्राह्मणवेषभृत् ।। ७१ ।।

।। श्रीविष्णुरुवाच ।। ।।

साधुसाधु महाप्राज्ञ नृपचूडामणेऽनघ ।।

मया यदुपदेष्टव्यं तत्त्वयैव निरूपितम् ।। ७२ ।।

त्वमादावेव निर्वृत्तः परं मे मानदो ह्यसि ।।

क्षालितेंद्रियपंकश्च सुतपः स्वच्छवारिभिः ।। ७३ ।।

यदुक्तं भवता भूप तत्सर्वं तथ्यमेव हि ।।

तव शक्तिं च जानामि विरक्तिं च महामते ।। ७४ ।।

न भवत्सदृशो राजा भुवि भूतो भविष्यति ।।

राज्यं भोक्तुं त्वयाज्ञायि युक्तं यत्तु मुमुक्षसि ।। ७५ ।।

विरोधेपि हि देवानां त्वया नापकृतं क्वचित् ।।

धर्मेतरप्रवेशश्च तव राष्ट्रेपि नोभवत् ।। ७६ ।।

प्रवर्तिताभिर्भवता प्रजाभिर्यदनुष्ठितम् ।।

धर्मे धर्मं स्वधर्मज्ञ तेन तृप्ता दिवौकसः ।। ७७ ।।

एक एव हि ते दोषो हृदि मे प्रतिभासते ।।

काश्या विश्वेश्वरो दूरं यत्कृतो भवता किल ।। ७८ ।।

महांतमपराधं ते जाने भूजानि सत्तम ।।

इमं तत्पापशांत्यै च वच्म्युपायं महत्तरम् ।। ७९ ।।

संख्यास्ति यावती देहे देहिनो रोमसंभवा ।।

तावतोप्यपराधा वै यांति लिंग प्रतिष्ठया ।। 4.2.58.१८० ।।

एकं प्रतिष्ठितं येन लिंगमत्रेशभक्तितः ।।

तेनात्मना समं विश्वं जगदेतत्प्रतिष्ठितम् ।। ८१ ।।

रत्नाकरे रत्नसंख्या संख्याविद्भिरपीष्यते ।।

लिंगप्रतिष्ठा पुण्यस्य न तु संख्येति लिख्यते ।। ८२ ।।

तस्मात्सर्वप्रयत्नेन कुरु लिंगं प्रतिष्ठितम् ।।

तया लिंग प्रतिष्ठित्या कृतकृत्यो भविष्यसि ।।८३।।

इत्युक्त्वा ब्राह्मणो दध्यौ क्षणं निश्चलमानसः ।।

उवाच च प्रहृष्टास्यो राजानं पाणिना स्पृशन् ।। ८४ ।।

।। श्रीविष्णुरुवाच ।। ।।

अन्यच्च किंचित्पश्यामि भूपाल ज्ञानचक्षुषा ।।

शृणुष्वावहितो भूत्वा तदपि प्राज्ञसत्तम ।। ८५ ।।

धन्योसि कृतकृत्योसि मान्योसि महतामपि ।।

जप्यं च तव नामेह प्रातः शुभफलेप्सुना ।। ।। ८६ ।।

दिवोदास त्वदभ्याशादपि धन्यतरा वयम् ।।

तेपि धन्यतरा मर्त्ये ये त्वदाख्यां प्रचक्षते ।।८७।।

स्मायं स्मायं जगौ विप्रो मौलिमांदोलयन्मुहुः ।।

हृद्येव बहुशो हृष्टः संप्रहृष्टतनूरुहः ।। ८८ ।।

अहो भाग्योदयश्चास्य अहो नैर्मल्यमस्य वै ।।

यदेनमनिशं ध्यायेद्ध्येयो विश्वेश्वरोऽखिलैः ।। ८९ ।।

अहो उदर्क एतस्य न कैश्चित्प्रतिपद्यते ।।

अस्माकमपि यद्दूरमदवीयस्तदस्य यत् ।। 4.2.58.१९० ।।

हृद्यालोच्येति विप्रोथ वर्णयित्वा क्षितीश्वरम् ।।

आविश्चकार तत्सर्वं यत्समाधावलोकयत् ।। ९१ ।।

।। ब्राह्मण उवाच ।। ।।

राजंस्तवाद्य फलितो मनोरथ महाद्रुमः ।।

अनेनैव शरीरेण त्वं गतासि परं पदम् ।। ९२ ।।

यथा विश्वेश्वरो नित्यं त्वामेव हृदि शीलयेत् ।।

तथास्मदादीनपि न द्विजांस्तत्पादलोचनान् ।। ९३ ।।

कृतलिंगप्रतिष्ठं त्वां सप्तमे ह्यद्य वासरात् ।।

दिव्यविमानमागत्य नेतुमेष्यति शांभवम् ।। ९४ ।।

राजंस्त्वं वेत्सि कस्यायं विपाकः सुकृतस्य ते ।।

वाराणस्याः पुरः सम्यक्सेवनादित्यवैम्यहम् ।। ९५ ।।

एकमप्यत्र यः पायाद्वाराणस्यां स्थितं जनम् ।।

तस्याप्येवं विपाकोस्ति देहांते राजसत्तम ।। ९६ ।।

इति श्रुत्वा स राजर्षिर्दिवोदासः प्रतापवान् ।।

ब्राह्मणाय सशिष्याय प्रादात्प्रीतोभिवांछितम् ।।९७।।

अथ संप्रीणितं विप्रं प्रणम्य च मुहर्मुहुः ।।

प्रोवाच राजा संहृष्टस्तारितोस्मि भवार्णवात् ।।९८।।

ब्राह्मणोपि प्रहृष्टात्मा परिपूर्णमनोरथः ।।

समापृच्छ्य महीनाथं स्वेष्टं देशं जगाम ह।।९९।।

विलोक्य काशीं परितो मायाद्विजवपुर्हरिः।।

भूयोभूयो विचार्यापि किमत्रातीव पावनम्।।4.2.58.२००।।

स्थानं यच्चाहमध्यास्य निजभक्तानशेषतः ।।

नेष्यामि परमं धाम विश्वेशानुग्रहात्परात्।।१।।

संप्रधार्येति भगवान्दृष्ट्वा पांचनदं ह्रदम्।।

तत्र कृत्वा विधिस्नानं ततस्तत्रैव संस्थितः।।२।।

प्रतीक्षमाणो लक्ष्मीशो मंक्षुत्र्यक्षसमागमम् ।।

तार्क्ष्यं प्रस्थापयांचक्रे राजवृत्तांतवेदिनम् ।। ३ ।।

दिवोदासोपि राजेंद्रो विप्रेंद्रं परिवर्णयन् ।।

आहूय प्रकृतीः सर्वाः सामात्यान्मंडलेश्वरान् ।। ४ ।।

अध्यक्षानपि सर्वांश्च कोशाश्वेभादिदेशितान् ।।

पुत्रान्पंचशतं प्राग्र्यं सुतं च समरंजयम् ।। ५ ।।

पुरोहितं प्रतीहारमृत्विजोगणकान्द्विजान् ।।

सामंतान्राजपुत्रांश्च सूपकारांश्चिकित्सकान् ।। ६ ।।

वैदेशिकानपि बहून्नानाकार्यसमागतान् ।। सांतपुरां च महिषीं वृद्धगोपालबालकान् ।। ७ ।।

सर्वान्प्रोवाच हृष्टात्मा प्रबद्धकरसंपुटः ।।

यथा स ब्राह्मणः प्राह दिनसप्तावधि स्थितिम् ।। ८ ।।

आश्चर्यं तेषु शृण्वत्सु विषण्णवदनेषु च ।।

स्वयं राजगृहं नीत्वा कुमारं समरंजयम् ।। ९ ।।

अभिषिच्य महाबुद्धिः पौराञ्जानपदानपि ।।

प्रसादीकृत्य पुण्यात्मा पुनः काशीमगान्नृपः ।। 4.2.58.२१० ।।

आगत्य काशीं मेधावी स भूपालो रिपुंजयः ।।

प्रासादं कारयामास स्वर्धुन्याः पश्चिमे तटे ।। ११ ।।

रिपून्प्रमथ्य समरे यावती श्रीरुपार्जिता ।।

तावत्या स हि भूपालः शिवालयमचीक्लृपत् ।। १२ ।।

भूपाललक्ष्मीरखिला यत्तत्र विनियोजिता ।।

भूपालश्रीरिति ख्याता ततः साभूरभूच्छुभा ।। ।। १३ ।।

दिवोदासेश्वरं लिंगं प्रतिष्ठाप्य रिपुंजयः ।।

कृतकृत्यमिवात्मानममन्यत नरेश्वरः ।। १४ ।।

अथैकस्मिन्दिने राजा तल्लिंगं विधिपूर्वकम् ।।

समभ्यर्च्य नमस्कृत्य यावत्तुष्टाव तुष्टिदम् ।। १५ ।।

तावन्नभोंगणादाशु दिव्यं यानमवातरत् ।।

पार्षदैः परितः कीर्णं शूलखट्वांगपाणिभिः ।। १६ ।।

अत्यादित्याग्नितेजोभिर्भालनेत्रैः कपर्दिभिः ।।

शुद्धस्फटिकसंकाशैरंगैर्दीप्तनभोंगणैः ।। १७ ।।

विभूषाहि फणारत्न ज्योतिः पूजित विग्रहैः ।।

नित्यप्रकाशसंत्रस्त तमःश्रित शिरोधरैः ।। १८ ।।

चामरव्यग्रहस्ताग्र रुद्रकन्याशतावृतम् ।।

अथ पारिषदै राजा दिव्यस्रगनुलेपनैः ।।१९।।

दिव्यैर्दुकूलनेपथ्यैरलंचक्रे मुदान्वितैः ।।

त्रिनेत्रीकृतसद्भाल श्यामीकृतशिरोधरम् ।। 4.2.58.२२० ।।

सुगौरीकृतसर्वांगं कपर्दीकृत मौलिजम् ।।

चतुर्भुजीकृततनुं भूषणीकृतपन्नगम् ।। २१ ।।

चंद्रार्धीकृतमूर्धानं निन्युस्तं पार्षदा दिवम्।। २२ ।।

तदा प्रभृति तत्तीर्थं भूपालश्रीरिति श्रुतम् ।।

तत्र श्राद्धादिकं कृत्वा दानं दत्त्वा स्वशक्तितः ।। २३ ।।

दिवोदासेश्वरं दृष्ट्वा समभ्यर्च्य च भक्तितः ।।

राज्ञश्चाख्यायिकां श्रुत्वा न नरो गर्भमाविशेत् ।। २४ ।।

आख्यानमेतन्नृपतेर्दिवोदासस्य पावनम् ।।

पठित्वा पाठयित्वापि नरः पापैः प्रमुच्यते ।। २५ ।।

दिवोदासशुभाख्यानं श्रुत्वा यः समरं विशेत् ।।

न जातु जायते तस्य भयं वैरिकृतं क्वचित् ।। २६ ।।

दिवोदास कथा पुण्या महोत्पात निकृंतनी ।।

पठनीया प्रयत्नेन सर्वविघ्नोपशांतये ।। २७ ।।

नावृष्टिर्जायते तत्र नाकालमरणाद्भयम् ।।

दैवोदासी कथा यत्र सर्वपातकनाशिनी ।। २८ ।।

अस्याख्यानस्य पठनाद्विष्णोरिव मनोरथाः ।।

संपूर्णतां गमिष्यंति शंभोश्चिंतितकारिणः ।।२२९।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्द्धे दिवोदासनिर्वाणप्राप्तिर्नामाष्टपंचाशत्तमोऽध्यायः ।।५८।।

खण्डः ४ (काशीखण्डः) — Adhyāya 59

अगस्त्य उवाच ।। ।।

सर्वज्ञ हृदयानंद गौरीचुंबितमूर्धज ।।

तारकांतक षड्वक्त्र तारिणे भद्रकारिणे ।। ।। १ ।।

सर्वज्ञाननिधे तुभ्यं नमः सर्वज्ञसूनवे ।।

सर्वथा जितमाराय कुमाराय महात्मने ।।२।।

कामारिमर्धनारीशं वीक्ष्य कामकृतं किल ।।

यो जिगाय कुमारोपि मारं तस्मै नमोस्तु ते ।। ३ ।।

यदुक्तं भवता स्कंद मायाद्विजवपुर्हरिः ।।

काश्यां पंचनदं तीर्थमध्यासातीव पावनम्।। ४ ।।

भूर्भुवःस्वः प्रदेशेषु काशीपरमपावनम्।।

तत्रापि हरिणाज्ञायि तीर्थं पंचनदं परम् ।। ५ ।।

कुतः पंचनदं नाम तस्य तीर्थस्य षण्मुख ।।

कुतश्च सर्वतीर्थेभ्यस्तदासीत्पावनं परम् ।। ६ ।।

कथं च भगवान्विष्णुरंतरात्मा जगत्पतिः ।।

सर्वेषां जगतां पाता कर्ता हर्ता च लीलया ।। ७ ।।

अरूपो रूपमापन्नो ह्यव्यक्तो व्यक्ततां गतः ।।

निराकारोपि साकारो निष्प्रपंचः प्रपंचभाक् ।। ८ ।।

अजन्मानेकजन्मा च त्वनामास्फुटनामभृत्।।

निरालंबोऽखिलालंबो निर्गुणोपि गुणास्पदम् ।। ९ ।।

अहृषीकोहृषीकेशो प्यनंघ्रिरपिसर्वगः ।।

उपसंहृत्य रूपं स्वं सर्वव्यापी जनार्दनः ।। 4.2.59.१० ।।

स्थितः सर्वात्मभावेन तीर्थे पंचनदे परे ।।

एतदाख्याहि षड्वक्त्र पंचवक्त्राद्यथा श्रुतम् ।।१ ३।।

स्कंद उवाच ।। ।।

कथयामि कथामेतां नमस्कृत्य महेश्वरम् ।।

सर्वाघौघ प्रशमनीं सर्वश्रेयोविधायिनीम् ।। ३२ ।।

यथा पंचनदं तीर्थं काश्यां प्रथितिमागतम् ।।

यन्नामग्रहणादेव पापं याति सहस्रधा ।। १३ ।।

प्रयागोपि च तीर्थेशो यत्र साक्षात्स्वयं स्थितः ।।

पापिनां पापसंघातं प्रसह्य निजतेजसा ।। १४ ।।

हरंति सर्वतीर्थानि प्रयागस्य बलेन हि ।।

तानि सर्वाणि तीर्थानि माघे मकरगे रवौ ।। १५ ।।

प्रत्यब्दं निर्मलानि स्युस्तीर्थराज समागमात् ।।

प्रयागश्चापि तीर्थेंद्रः सर्वतीर्थार्पितं मलम् ।। १६ ।।

महाघिनां महाघं च हरेत्पांचनदाद्बलात् ।।

यं संचयति पापौघमावर्षं तीर्थनायकः ।।

तमेकमज्जनादूर्जे त्यजेत्पंचनदे ध्रुवम् ।। १७ ।।

यथा पंचनदोत्पत्तिस्तथा च कथयाम्यहम् ।।

निशामय महाभाग मित्रावरुणनंदन ।। १८ ।।

पुरा वेदशिरा नाम मुनिरासीन्महातपाः ।।

भृगुवंश समुत्पन्नो मूर्तो वेद इवापरः ।। १९ ।।

तपस्यतस्तस्य मुनेः पुरोदृग्गोचरं गता ।।

शुचिरप्सरसां श्रेष्ठा रूपलावण्यशालिनी ।। 4.2.59.२० ।।

तस्या दर्शनमात्रेण परिक्षुब्धं मुनेर्मनः ।।

चस्कंद स मुनिस्तूर्णं साथ भीता वराप्सराः ।। २१ ।।

दूरादेव नमस्कृत्य तमृषिं साभ्यभाषत ।।

अतीव वेपमानांगी शुचिस्तच्छापभीतितः ।। २२ ।।

नापराध्नोम्यहं किंचिन्महोग्रतपसांनिधे ।।

क्षंतव्यं मे क्षमाधार क्षमारूपास्तपस्विनः ।। २३ ।।

मुनीनां मानसं प्रायो यत्पद्मादपि तन्मृदु ।।

स्त्रियः कठोरहृदयाः स्वरूपेणैव सत्तम ।। २४ ।।

इति श्रुत्वा वचस्तस्याः शुचेरप्सरसो मुनिः ।।

विवेकसेतुना स्तंभीन्महारोषनदीरयम् ।। २५ ।।

उवाच च प्रसन्नात्मा शुचे शुचिरसि ध्रुवम् ।।

न मेऽल्पोपि हि दोषोत्र न ते दोषोस्ति सुंदरि ।। ।। २६ ।।

वह्निस्वरूपा ललना नवनीत समः पुमान् ।।

अनभिज्ञा वदंतीति विचारान्महदंतरम् ।। २७ ।।

स्निह्येदुद्धृतसारोपि वह्नेः संस्पर्शमाप्य वै ।।

चित्रं स्त्र्याख्या समादानात्पुमान्स्निह्यति दूरतः ।। २८ ।।

अतः शुचे न भेतव्यं त्वया शुचि मनोगते ।।

अतर्कितोपस्थितया त्वया च स्खलितं मया ।। २९ ।।

स्खलनान्न तथा हानिरकामात्तपसो मुनेः ।।

यथा क्षणांधीकरणाद्धानिः कोपरयादरेः ।। 4.2.59.३० ।।

कोपात्तपः क्षयं याति संचितं यत्सुकृच्छ्रतः ।।

यथाभ्रपटलं प्राप्य प्रकाशः पुष्पवंतयोः ।। ३१ ।।

अनर्थकारिणः क्रोधात्क्वार्थानांपरिजृभणम् ।।

क्व वा खलजनोत्सेधात्साधूनां परिवर्धनम् ।। ३२ ।।

अमर्षे कर्षति मनो मनोभू संभवः कुतः ।।

विधुंतुदे तुदत्युच्चैर्विधुं कुत्रास्ति कौमुदी ।। ३३ ।।

ज्वलतो रोषदावाग्नेः क्व वा शांतितरोः स्थितिः ।।

दृष्टा केनापि किं क्वापि सिंहात्कलभसुस्थता ।। ३४ ।।

तस्मात्सर्वप्रयत्नेन प्रतीपः प्रतिघातुकः ।।

चतुर्वर्गस्य देहस्य परिहेयो विपश्चिता ।। ३५ ।।

इदानीं शृणु कल्याणि कर्तव्यं यत्त्वया शुचे ।।

अमोघबीजा हि वयं तद्बीजमुररी कुरु ।। ३६ ।।

एतस्मिन्रक्षिते वीर्ये परिस्कन्ने त्वदीक्षणात् ।। त्वया तव भवित्रेकं कन्यारत्नं महाशुचि ।। ३७ ।।

इत्युक्ता तेन मुनिना पुनर्जातेव साप्सराः ।।

महाप्रसाद इत्युक्त्वा मुनेः शुक्रमजीगिलत् ।। ३८ ।।

अथ कालेन दिव्यस्त्री कन्यारत्नमजीजनत् ।।

अतीव नयनानंदि निधानं रूपसंपदाम् ।। ३९ ।।

तस्यैव वेदशिरस आश्रमे तां निधाय सा ।।

शुचिरप्सरसां श्रेष्ठा जगाम च यथेप्सितम् ।।4.2.59.४०।।

तां च वेदशिराः कन्यां स्नेहेन समवर्धयत् ।।

क्षीरेण स्वाश्रमस्थाया हरिण्या हरिणीक्षणाम् ।।४१।।

मुनिर्नाम ददौ तस्यै धूतपापेति चार्थवत् ।।

यन्नामोच्चारणेनापि कंपते पातकावली ।।४२।।

सर्वलक्षणशोभाढ्यां सर्वावयव सुंदरीम् ।।

मुनिस्तत्याज नोत्संगात्क्षणमात्रमपि क्वचित् ।। ४३ ।।

दिनेदिने वर्धमानां तां पश्यन्मुमुदे भृशम् ।।

क्षीरनीरधिवद्रम्यां निशि चांद्रमसीं कलाम् ।। ४४ ।।

अथाष्टवार्षिकीं दृष्ट्वा तां कन्यां स मुनीश्वरः ।।

कस्मै देयेति संचित्य तामेव समपृच्छत ।। ४५।।

।। वेदशिरा उवाच ।। ।।

अयि पुत्रि महाभागे धूतपापे शुभेक्षणे ।।

कस्मै दद्यावराय त्वां त्वमेवाख्याहि तं वरम् ।। ४६ ।।

अतिस्नेहार्द्रचित्तस्य जनेतुश्चेति भाषितम् ।।

निशम्य धूतपापा सा प्रोवाच विनतानना ।। ४७ ।।

।। धूतपापोवाच।। ।।

जनेतर्यद्यहं देया सुंदराय वराय ते ।।

तदा तस्मै प्रयच्छ त्वं यमहं कथयामि ते ।। ४८ ।।

तुभ्यं च रोचते तात शृणोत्ववहितो भवान् ।।

सर्वेभ्योतिपवित्रो यो यः सर्वेषां नमस्कृतः ।। ४९ .।।

सर्वे यमभिलष्यंति यस्मात्सर्वसुखोदयः ।।

कदाचिद्यो न नश्येत यः सदैवानुवर्तते ।। 4.2.59.५० ।।

इहामुत्रापि यो रक्षेन्महापदुदयाद्ध्रुवम् ।।

सर्वे मनोरथा यस्मात्परिपूर्णा भवंति हि ।। ५१ ।।

दिनेदिने च सौभाग्यं वर्धते यस्य सन्निधौ ।।

नैरंतर्येण यत्सेवां कुर्वतो न भयं क्वचित् ।। ५२ ।।

यन्नामग्रहणादेव केपि वाधां न कुर्वते ।।

यदाधारेण तिष्ठंति भुवनानि चतुर्दश ।। ५३ ।।

एवमाद्या गुणा यस्य वरस्य वरचेष्टितम् ।।

तस्मै प्रयच्छ मां तात मम तेपीहशर्मणे ।। ५४ ।।

एतच्छ्रुत्वापि ता तस्या भृशं मुदमवाप ह ।।

धन्योस्मि धन्या मे पूर्वे येषामैषा सुतान्वये ।। ५५ ।।

ध्रुवा हि धूतपापासौ यस्या ईदृग्विधा मतिः ।।

ईदृग्विधैर्गुणगणैर्गरिम्णा कोत्र वै भवेत् ।। ५६ ।।

अथवा स कथं लभ्यो विना पुण्यभरोदयम् ।।

इति क्षणं समाधाय मनः स मुनिपुंगवः ।। ५७ ।।

ज्ञानेन तं समालोच्य वरमीदृग्गुणोदयम् ।।

धन्यां कन्यां बभाषेथ शृणु वत्से शुभैषिणि ।। ५८ ।।

।। पितोवाच ।। ।।

वरस्य ये त्वया प्रोक्ता गुणा एते विचक्षणे ।।

एषां गुणानामाधारो वरोस्तीति विनिश्चितम् ।। ५९ ।।

परं स सुखलभ्यो न नितरां सुभगाकृतिः ।।

तपः पणेन स क्रय्यः सुतीर्थविपणौ क्वचित् ।। 4.2.59.६० ।।

तीर्थभारैः स सुलभो न कौलीन्येन कन्यके ।।

न वेदशास्त्राभ्यसनैर्न चैश्वर्यबलेन वै ।। ६१ ।।

न सौंदर्येण वपुषा न बुद्ध्या न पराक्रमैः ।।

एकयैव मनः शुद्ध्या करणानां जयेन च ।। ६२ ।।

महातपः सहायेन दमदानदयायुजा ।।

लभ्यते स महाप्राज्ञो नान्यथा सदृशः पतिः ।। ६३ ।।

इति श्रुत्वाथ सा कन्या पितरं प्रणिपत्य च ।।

अनुज्ञां प्रार्थयामास तपसे कृतनिश्चया ।। ६४ ।।

।। स्कंद उवाच ।। ।।

कृतानुज्ञा जनेत्रा सा क्षेत्रे परमपावने ।।

तपस्तताप परमं यदसाध्यं तपस्विभिः ।। ६५ ।।

क्व सा बालातिमृद्वंगी क्व च तत्तादृशं तपः ।।

कठोरवर्ष्मसंसाध्यमहो सच्चेतसो धृतिः ।। ६६ ।।

धारासारा सुवर्षासु महावातवतीष्वलम् ।।

शिलासु सावकाशासु सा बह्वीरनयन्निशाः ।। ६७ ।।

श्रुत्वा गर्जरवं घोरं दृष्ट्वा विद्युच्चमत्कृतीः ।।

आसारसीकरैः क्लिन्ना न चकंपे मनाक्च सा ।। ६८ ।।

तडित्स्फुरंतीत्वसकृत्तमिस्रासु तपोवने ।।

यातायातं करोतीव द्रष्टुं तत्तपसः स्थितिम् ।।६९।।

तपर्तुरेव साक्षाच्च कुमारी कैतवात्किल।।

पंचाग्नीन्परिधायात्र तपस्यति तपोवने।।4.2.59.७०।।

जलाभिलाषिणी बाला न मनागपि सा पिबत्।।

कुशाग्रतोयपृषतं पंचाग्निपरितापिता।।७१।।

रोमांच कंचुकवती वेपमानतनुच्छदा।।

पर्यक्षिपत्क्षपाः क्षामा तपसा हैमनीश्च सा ।।७२।।

निशीथिनीषु शिशिरे श्रयंती सारसं रसम् ।।

मेने सा सारसैः केयमुद्यताद्येति पद्मिनी ।। ७३ ।।

मनस्विनामपि मनोरागतां सृजते मधौ ।।

तदोष्ठपल्लवाद्रागो जह्रे माकंदपल्लवैः ।। ७४ ।।

वसंते निवसंती सा वने बालाचलंमनः ।।

चक्रे तपस्यपि श्रुत्वा कोकिला काकलीरवम् ।। ७५ ।।

बंधुजीवेऽधररुचिं कलहंसे कलागतीः ।।

निक्षेपमिव सा क्षिप्त्वा शरद्यासीत्तपोरता।। ७६ ।।

अपास्तभोगसंपर्का भोगिनां वृत्तिमाश्रिता ।।

क्षुदुद्बोधनिरोधाय धूतपापा तपस्विनी ।। ।। ७७ ।।

शाणेन मणिवल्लीढा कृशाप्यायादनर्घताम् ।।

तथापि तपसा क्षामा दिदीपे तत्तनुस्तराम् ।। ७८ ।।

निरीक्ष्य तां तपस्यंतीं विधिः संशुद्धमानसाम् ।।

उपेत्योवाच सुप्रज्ञे प्रसन्नोस्मि वरं वृणु ।। ७९ ।।

सा चतुर्वक्त्रमालोक्य हंसयानोपरिस्थितम् ।।

प्रणम्य प्रांजलिः प्रीता प्रोवाचाथ प्रजापतिम् ।। 4.2.59.८० ।।

।। धूतपापोवाच ।। ।।

पितामह वरो मह्यं यदि देयो वरप्रद ।।

सर्वेभ्यः पावनेभ्योपि कुरु मामतिपावनीम् ।। ८१ ।।

स्रष्टा तदिष्टमाकर्ण्य नितरां तुष्टमानसः ।।

प्रत्युवाचाथ तां बालां विमलां विमलेषिणीम् ।। ८२ ।।

।। ब्रह्मोवाच ।। ।।

धूतपापे पवित्राणि यानि संत्यत्र सर्वतः ।।

तेभ्यः पवित्रमतुलं त्वमेधि वरतो मम ।। ८३ ।।

तिस्रः कोट्योऽर्धकोटी च संति तीर्थानि कन्यके ।।

दिवि भुव्यंतरिक्षे च पावनान्युत्तरोत्तरम् ।। ८४ ।।

तानि सर्वाणि तीर्थानि त्वत्तनौ प्रतिलोम वै ।।

वसंतु मम वाक्येन भव सर्वातिपावनी ।। ८५ ।।

इत्युक्त्वांतर्दधे वेधाः सापि निर्धूतकल्मषा ।।

धूतपापोटजं प्राप्ताथो वेदशिरसः पितुः ।। ८६ ।।

कदाचित्तां समालोक्य खेलंतीमुटजाजिरे ।।

धर्मस्तत्तपसाकृष्टः प्रार्थयामास कन्यकाम् ।। ८७ ।।

।।धर्म उवाच ।। ।।

पृथुश्रोणि विशालाक्षि क्षामोदरि शुभानने ।।

क्रीतः स्वरूपसंपत्त्या त्वयाहं देहि मे रहः ।। ८८ ।।

नितरां बाधते कामस्त्वत्कृते मां सुलोचने ।।

अज्ञातनाम्ना सा तेन प्रार्थितेत्यसकृद्ग्रहः ।। ८९ ।।

उवाच सा पिता दाता तं प्रार्थय सुदुर्मते ।।

पितृप्रदेया यत्कन्या श्रुतिरेषा सनातनी ।। 4.2.59.९० ।।

निशम्येति वचो धर्मो भाविनोर्थस्य गौरवात् ।।

पुनर्निबंधयांचक्रे ऽपधृतिर्धृतिशालिनीम् ।। ९१ ।।

।। धर्म उवाच ।। ।।

न प्रार्थयेहं सुभगे पितरं तव सुंदरि ।।

गांधर्वेण विवाहेन कुरु मे त्वं समीहितम् ।। ९२ ।।

इति निर्बंधवद्वाक्यं सा निशम्य कुमारिका ।।

पितुः कन्याफलंदित्सुः पुनराहेति तं द्विजम् ।। ९३ ।।

अरे जडमते मा त्वं पुनर्ब्रूहीति याह्यतः ।।

इत्युक्तोपि कुमार्या स नातिष्ठन्मदनातुरः ।। ९४ ।।

ततः शशाप तं बाला प्रबला तपसो बलात् ।।

जडोसि नितरां यस्माज्जलाधारो नदो भव ।। ९५ ।।

इति शप्तस्तया सोथ तां शशाप क्रुधान्वितः ।।

कठोरहृदये त्वं तु शिला भव सुदुर्मते ।। ९६ ।।

।। स्कंद उवाच ।। ।।

इत्यन्योन्यस्य शापेन मुने धर्मो नदोऽभवत् ।।

अविमुक्ते महाक्षेत्रे ख्यातो धर्मनदो महान् ।। ९७ ।।

साप्याह पितरं त्रस्ता स्वशिलात्वस्य कारणम्।।

ध्यानेन धर्मं विज्ञाय मुनिः कन्यामथाब्रवीत् ।। ९८ ।।

मा भैः पुत्रि करिष्यामि तव सर्वं शुभोदयम् ।।

तच्छापो नान्यथा भूयाच्चंद्रकांतशिला भव ।। ९९ ।।

चंद्रोदयमनुप्राप्य द्रवीभूततनुस्ततः ।।

धुनी भव सुते साध्वि धूतपापेति विश्रुता ।। 4.2.59.१०० ।।

स च धर्मनदः कन्ये तव भर्ता सुशोभनः ।।

तैर्गुणैः परिपूर्णांगो ये गुणाः प्रार्थितास्त्वया ।। १ ।।

अन्यच्च शृणु सद्बुद्धे ममापि तपसो बलात् ।।

द्वैरूप्यं भवतोर्भावि प्राकृतं च द्रवं च वै ।। २ ।।

इत्याश्वास्य पिता कन्यां धूतपापां परंतप ।।

चंद्रकांतशिलाभूतामनुजग्राह बुद्धिमान् ।।३।।

तदारभ्य मुने काश्यां ख्यातो धर्मनदो ह्रदः ।।

धर्मो द्रवस्वरूपेण महापातकनाशनः ।। ४ ।।

धुनी च धूतपापा सा सर्वतीर्थमयी शुभा ।।

हरेन्महाघसंघातान्कूलजानिव पादपान् ।। ।। ५ ।।

तत्र धर्मनदे तीर्थे धूतपापा समन्विते ।।

यदा न स्वर्धुनी तत्र तदा ब्रध्नस्तपो व्यधात् ।। ६ ।।

गभस्तिमाली भगवान्गभस्तीश्वर सन्निधौ ।।

शीलयन्मंगलां गौरीं तप उग्रं चचार ह ।। ७ ।।

नाम्ना मयूखादित्यस्य तीर्थे तत्र तपस्यतः ।।

किरणेभ्यः प्रववृते महास्वेदोतिखेदतः ।। ८ ।।

किरणेभ्यः प्रवृत्ताया महास्वेदस्य संततिः ।।

ततः सा किरणानाम जाता पुण्या तरंगिणी।।९।।

महापापांधतमसं किरणाख्या तरंगिणी।।

ध्वंसयेत्स्नानमात्रेण मिलिता धूतपापया ।।4.2.59.११०।।

आदौ धर्मनदः पुण्यो मिश्रितो धूतपापया ।।

यया धूतानि पापानि सर्वतीर्थीकृतात्मना ।। ११ ।।

ततोपि मिलितागत्य किरणा रविणैधिता ।।

यन्नामस्मरणादेव महामोहोंधतां व्रजेत्।।१२।।

किरणा धूतपापे च तस्मिन्धर्मनदे शुभे ।।

स्रवंत्यौ पापसंहर्त्र्यौ वाराणस्यां शुभद्रवे ।। १३ ।।

ततो भागीरथी प्राप्ता तेन दैलीपिना सह ।।

भागीरथी समायाता यमुना च सरस्वती ।। १४ ।।

किरणा धूतपापा च पुण्यतोया सरस्वती ।।

गंगा च यमुना चैव पंचनद्योत्र कीर्तिताः ।। १५ ।।

अतः पंचनदं नाम तीर्थं त्रैलोक्यविश्रुतम् ।।

तत्राप्लुतो न गृह्णीयाद्देहं ना पांचभौतिकम् ।। १६ ।।

अस्मिन्पंचनदीनां च संभेदेघौघभेदिनि ।।

स्नानमात्रात्प्रयात्येव भित्त्वा ब्रह्मांडमंडपम् ।। १७ ।।

तीर्थानि संति भूयांसि काश्यामत्र पदेपदे ।।

न पंचनदतीर्थस्य कोट्यंशेन समान्यपि ।। १८ ।।

प्रयागे माघमासे तु सम्यक्स्नातस्य यत्फलम् ।।

तत्फलं स्याद्दिनैकेन काश्यां पंचनदे ध्रुवम् ।। १९ ।।

स्नात्वा पंचनदे तीर्थे कृत्वा च पितृतर्पणम् ।।

बिंदुमाधवमभ्यर्च्य न भूयो जन्मभाग्भवेत् ।। 4.2.59.१२० ।।

यावत्संख्यास्तिलादत्ताः पितृभ्यो जलतर्पणे ।।

पुण्ये पंचनदे तीर्थे तृप्तिः स्यात्तावदाब्दिकी ।। २१ ।।

श्रद्धया यैः कृतं श्राद्धं तीथें पंचनदे शुभे ।।

तेषां पितामहा मुक्ता नानायोनि गता अपि ।। २२ ।।

यमलोके पितृगणैर्गाथेयं परिगीयते ।।

महिमानं पांचनदं दृष्ट्वा श्राद्धविधानतः ।।२३।।

अस्माकमपि वंश्योत्र कश्चिच्छ्राद्धं करिष्यति ।।

काश्यां पंचनदं प्राप्य येन मुच्यामहे वयम्।। २४ ।।

इयं गाथा प्रतिदिनं श्राद्धदेवस्य सन्निधौ ।।

पितृभिः परिगीयेत काश्यां पंचनदं प्रति ।। २५ ।।

तत्र पंचनदे तीर्थे यत्किंचिद्दीयते वसु ।।

कल्पक्षयेपि न भवेत्तस्य पुण्यस्य संक्षयः ।।२६।।

वंध्यापि वर्षपर्यंतं स्नात्वा पंचनदे ह्रदे ।।

समर्च्य मंगलां गौंरीं पुत्रं जनयति ध्रुवम् ।। २७ ।।

जलैः पांचनदैः पुण्यैर्वाससा पारिशोधितैः ।।

महाफलमवाप्नोति स्नपयित्वेष्टदेवताम् ।। २८ ।।

पंचामृतानां कलशैरष्टोत्तरशतोन्मितैः ।।

तुलितोधिकतां यातो बिंदुः पंचनदांभसः ।।२९।।

पंचकूर्चेन पीतेन यात्र शुद्धिरुदाहृता ।।

सा शुद्धिः श्रद्धया प्राश्य बिंदुं पांचनदांभसः ।। 4.2.59.१३० ।।

भवेदवभृथस्नानाद्राजसूयाश्वमेधयोः ।।

यत्फलं तच्छतगुणं स्नानात्पांचनदांभसा ।।३१।।

राजसूयाश्वमेधौ च भवेतां स्वर्गसाधनम् ।।

आब्रह्मघटिकाद्वंद्वं मुक्त्यै पांचनदाप्लुतिः ।।३२।।

स्वर्गराज्याभिषेकोपि न तथा संमतः सताम् ।।

अभिषेकः पांचनदो यथानल्पसुखप्रदः ।।३३।।

वरं वाराणसीं प्राप्य भृत्यः पंचनदोक्षिणाम् ।।

नान्यत्र सेवकीभूत भूपकोटिर्नरेश्वरः ।। ३४ ।।

यैर्न पंचनदे स्नातं कार्तिके पापहारिणि ।।

तेऽद्यापि गर्भे तिष्ठंति पुनस्ते गर्भवासिनः ।। ३५ ।।

कृते धर्मनदं नाम त्रेतायां धूतपापकम् ।।

द्वापरे बिंदुतीर्थं च कलौ पंचनदं स्मृतम्।। ३६ ।।

शतं समास्तपस्तप्त्वा कृते यत्प्राप्यते फलम् ।।

तत्कार्तिके पंचनदे सकृत्स्नानेन लभ्यते ।। ३७ ।।

इष्टापूर्तेषु धर्मेषु यावजन्मकृतेषु यत् ।।

अन्यत्र स्यात्फलं तत्स्यादूर्जे धर्मनदाप्लवात् ।। ३८ ।।

न धूतपाप सदृशं तीर्थं क्वापि महीतले ।।

यदेकस्नानतो नश्येदघं जन्मत्रयार्जितम् ।। ३९ ।।

बिंदुतीर्थे नरो दत्त्वा कांचनं कृष्णलोन्मितम् ।।

न दरिद्रो भवेत्क्वापि न स्वर्णेन वियुज्यते ।। 4.2.59.१४० ।।

गोभूतिलहिरण्याश्व वासोन्नस्रग्विभूषणम् ।।

यत्किंचिद्बिंदुतीर्थेत्र दत्त्वाक्षयमवाप्नुयात् ।। ४१ ।।

एकामप्याहुतिं दत्त्वा समिद्धेग्नौ विधानतः ।।

पुण्ये धर्मनदे तीर्थे कोटिहोमफलं लभेत् ।। ४२ ।।

न पंचनदतीर्थस्य महिमानमनंतकम् ।।

कोपि वर्णयितुं शक्तश्चतुर्वर्ग शुभौकसः ।। ४३ ।।

श्रुत्वाख्यानमिदं पुण्यं श्रावयित्वापि भक्तितः ।।

सर्वपापविशुद्धात्मा विष्णुलोके महीयते ।। ४४ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थें काशीखंड उत्तरार्धे पंचनदाविर्भावो नामैकोनषष्टितमोऽध्यायः ।। ५९ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 60

स्कंद उवाच ।।

उक्ता पंचनदोत्पत्तिर्मित्रावरुणनंदन ।।

इदानीं कथयिष्यामि माधवाविष्कृतिं पराम् ।। १ ।।

यां श्रुत्वा श्रद्धया धीमान्पापेभ्यो मुच्यते क्षणात् ।।

न च श्रिया वियुज्येत संयुज्येत वृषेण च ।। २ ।।

आगत्य मंदरादद्रेरुपेंद्रश्चंद्रशेखरम् ।।

आपृच्छ्य तार्क्ष्यरथगः क्षणाद्वाराणसीं पुरीम्।। ३ ।।

दिवो दासं महीपालं समुच्चाट्य स्वमायया ।।

स्थित्वा पादोदके तीर्थे केशवाख्य स्वरूपतः ।। ४ ।।

महिमानं परं काश्यां विचार्य सुविचार्य च ।।

दृष्ट्वा पंचनदं तीर्थं परां मुदमवाप ह ।। ५ ।।

उवाच च प्रसन्नात्मा पुंडरीकविलोचनः ।।

अगण्या अपि वैकुंठ गुणा विगणिता मया ।। ६ ।।

क्व क्षीरनीरधौ संति तावंतो निर्मला गुणाः ।।

यावंतो विजयं तेत्र काश्यां पंचनदे ह्रदे ।। ७ ।।

श्वेतद्वीपेपि सामग्री क्व गुणानां गरीयसी ।।

ईदृशी यादृशी काश्यां धूतपापेस्ति पावनी ।। ८ ।।

मुदे कौमोदकी स्पर्शस्तथा न मम जायते ।। धूतपापांबु संपर्को यथा भवति सर्वथा ।। ९ ।।

न क्षीरनीरधिजया सुखं मे श्लिष्टगात्रया ।।

तथा भवेद्यथात्र स्यात्स्पृष्टया धूतपापया ।। 4.2.60.१० ।।

इत्थं पंचनदे तीर्थे क्षीरनीरधिजाधवः ।।

संप्रेष्य तार्क्ष्यं त्र्यक्षाग्रे वृत्तांतविनिवेदितुम् ।। ११ ।।

आनंदकाननभवं दिवोदास क्षमापतेः ।।

संवर्णयन्गुणग्रामं पुण्यं पांचनदोद्भवम् ।। १२ ।।

सुखोपविष्टः संहृष्टः सुदृष्टिर्विष्टरश्रवाः ।।

दृष्टवांस्तपसा जुष्टमपुष्टांगं तपोधनम् ।। १३ ।।

स ऋषिस्तं समभ्येत्य पुंडरीकाक्षमच्युतम् ।।

उपोपविष्टकमलं वनमालाविराजितम् ।। १४ ।।

शंखपद्मगदाचक्र चंचत्करचतुष्टयम् ।।

कौस्तुभोद्भासितोरस्कं पीतकौशेयवाससम् ।। १५ ।।

सुनीलेंदीवररुचिं सुस्निग्ध मधुराकृतिम् ।।

नाभीह्रदलसत्पद्म सुपाटलरदच्छदम् ।। १६ ।।

दाडिमीबीजदशनं किरीटद्योतितांबरम् ।।

देवेंद्रवंदितपदं सनकादिपरिष्टुतम् ।। १७ ।।

दिव्यर्षिभिर्नारदाद्यैः परिगीतमहोदयम् ।।

प्रह्लादाद्यैर्भागवतैः परिनंदितमानसम् ।। १८ ।।

धृतशार्ङ्गधनुर्दंडं दंडिताखिलदानवम्।।

मधुकैटभहंतारं कंसविध्वंससूचकम्।। १९ ।।

कैवल्यं यत्परं ब्रह्म निराकारमगोचरम् ।।

तं पुं मूर्त्या परिणतं भक्तानां भक्तिहेतुतः ।।4.2.60.२०।।

वेदाविदुर्यदाकारं नैवोपनिषदोदितम्।।

ब्रह्माद्या न च गीर्वाणाश्चक्रे नेत्रातिथिं सतम् ।।२१।।

प्रणनाम मुदायुक्तः क्षितिविन्यस्तमस्तकः ।।

स ऋषिस्तं हृषीकेशमग्निबिंदुर्महातपाः ।। २२ ।।

तुष्टाव परया भक्त्या मौलिबद्धकरांजलिः ।।

अध्यस्तविस्तीर्णशिलं बलिध्वंसिनमच्युतम् ।। २३ ।।

तत्र पंचनदाभ्याशे मार्कंडेयादि सेविते ।।

गोविंदमग्निबिंदुः स स्तुतवांस्तुष्टमानसः ।। २४ ।।

।। अग्निबिंदुरुवाच ।। ।।

ओं नमः पुंडरीकाक्ष बाह्यांतः शौचदायिने ।।

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।। २५ ।।

नमामि ते पदद्वंद्वं सर्वद्वंद्वनिवारकम् ।।

निर्द्वंद्वया धिया विष्णो जिष्ण्वादि सुरवंदित ।। २६ ।।

यं स्तोतुं नाधिगच्छंति वाचो वाचस्पतेरपि ।।

तमीष्टे क इह स्तोतुं भक्तिरत्र बलीयसी ।। २७ ।।

अपि यो भगवानीशो मनःप्राचामगोचरः ।।

समादृशैरल्पधीभिः कथं स्तुत्यो वचः परः ।। २८ ।।

यं वाचो न विशंतीशं मनतीह मनो न यम् ।।

मनो गिरामतीतं तं कः स्तोतुं शक्तिमान्भवेत् ।। २९ ।।

यस्य निःश्वसितं वेदाः स षडंगपदक्रमाः ।।

तस्य देवस्य महिमा महान्कैरवगम्यते ।। 4.2.60.३० ।।

अतंद्रितमनोबुद्धींद्रिया यं सनकादयः ।।

ध्यायंतोपि हृदाकाशे न विंदंति यथार्थतः ।। ३१ ।।

नारदाद्यैर्मुनिवरैराबाल ब्रह्मचारिभिः ।।

गीयमानचरित्रोपि न सम्यग्योधिगम्यते ।। ३२ ।।

तंसूक्ष्मरूपमजमव्ययमेकमाद्यं बह्माद्यगोचरमजेयमनंतशक्तिम् ।।

नित्यं निरामयममूर्तमचिंत्यमूर्तिं कस्त्वां चराचर चराचरभिन्न वेत्ति ।। ३३ ।।

एकैकमेव तव नामहरेन्मुरारे जन्मार्जिताघमघिनां च महापदाढ्यम् ।।

दद्यात्फलं च महितं महतो मखस्य जप्तं मुकुंदमधुसूदनमाधवेति ।। ३४ ।।

नारायणेति नरकार्णव तारणेति दामोदरेति मधुहेति चतुर्भुजेति ।।

विश्वंभरेति विरजेति जनार्दनेति क्वास्तीह जन्म जपतां क्व कृतांतभीतिः ।। ३५ ।।

ये त्वां त्रिविक्रम सदा हृदि शीलयंति कादंबिनी रुचिर रोचिषमंबुजाक्षम् ।।

सौदामनीविलसितांशुकवीतमूर्ते तेपि स्पृशंति तव कांतिमचिंत्यरूपाम् ।। ३६ ।।

श्रीवत्सलांछनहरेच्युतकैटभारे गोविंदतार्क्ष्य रथकेशवचक्रपाणे ।।

लक्ष्मीपते दनुजसूदन शार्ङ्गपाणे त्वद्भक्तिभाजि न भयंक्वचिदस्ति पुंसि ।।३७।।

यैरर्चितोसि भगवंस्तुलसीप्रसूनैर्दूरीकृतैणमदसौरभदिव्यगंधैः ।।

तानर्चयंति दिवि देवगणाःसमस्ता मंदारदामभिरलं विमलस्वभावान् ।। ३८ ।।

यद्वाचि नाम तव कामदमब्जनेत्र यच्छ्रोत्रयोस्तव कथा मधुराक्षराणि ।।

यच्चित्तभित्तिलिखितं भवतोस्ति रूपं नीरूपभूपपदवी नहि तैर्दुरापा ।। ३९ ।।

ये त्वां भजंति सततं भुविशेषशायिंस्ताञ्छ्रीपते पितृपतींद्र कुबेरमुख्याः ।।

वृंदारका दिवि सदैव सभाजयंति स्वर्गापवर्गसुखसंततिदानदक्ष ।। 4.2.60.४० ।।

ये त्वां स्तुवंति सततं दिवितान्स्तुवंति सिद्धाप्सरोमरगणा लसदब्जपाणे ।।

विश्राणयत्यखिलसिद्धिदकोविना त्वां निर्वाणचारुकमलां कमलायताक्ष ।। ४१ ।।

त्वं हंसि पासि सृजसि क्षणतः स्वलीला लीलावपुर्धर विरिंचिनतांघ्रियुग्म।।

विश्वं त्वमेव परविश्वपतिस्त्वमेव विश्वस्यबीजमसि तत्प्रणतोस्मि नित्यम् ।। ४२ ।।

स्तोता त्वमेव दनुजेंद्ररिपो स्तुतिस्त्वं स्तुत्यस्त्वमेव सकलं हि भवानिहैकः ।।

त्वत्तो न किंचिदपि भिन्नमवैमि विष्णो तृष्णां सदा कृणुहि मे भवजांभवारे ।। ४३ ।।

इति स्तुत्वा हृषीकेशमग्निबिंदुर्महातपाः ।।

तस्थौ तूष्णीं ततो विष्णुरुवाच वरदो मुनिम् ।। ४४

।। श्रीविष्णुरुवाच ।।

अग्निबिंदो महाप्राज्ञ महता तपसांनिधे ।।

वरं वरय सुप्रीतस्तवादेयं न किंचन ।।४५।।

अग्निबिंदुरुवाच ।। ।।

यदि प्रीतोसि भगवन्वैकुंठेश जगत्पते ।।

कमलाकांत तद्देहि यदिह प्रार्थयाम्यहम्।। ।। ४६ ।।

कृतानुज्ञोथ हरिणा भ्रूभंगेन स तापसः ।।

कृतप्रणामो हृष्टात्मा वरयामास केशवम् ।। ४७ ।।

भगवन्सर्वगोपीह तिष्ठ पंचनदे ह्रदे ।।

हिताय सर्व जंतूनां मुमुक्षूणां विशेषतः ।। ४८ ।।

लक्ष्मीशे न वरो मह्यमेष देयोऽविचारतः ।।

नान्यं वरं समीहेहं भक्तिं च त्वपदांबुजे ।। ४९ ।।

इति श्रुत्वा वरं तस्याग्निबिंदोर्मधुसूदनः ।।

प्रीतः परोपकारार्थं तथेत्याहाब्धिजापतिः ।। 4.2.60.५० ।।

।। श्रीविष्णुरुवाच ।। ।।

अग्निबिंदो मुनिश्रेष्ठ स्थास्याम्यहमिह ध्रुवम् ।।

काशीभक्तिमतां पुंसां मुक्तिमार्गं समादिशन् ।। ५१ ।।

मुने पुनः प्रसन्नोस्मि वरं ब्रूहि ददामि ते ।।

अतीव मम भक्तोसि भक्तिस्तेस्तु दृढा मयि ।। ५२ ।।

आदावेव हि तिष्ठासुरहमत्र तपोनिधे ।।

ततस्त्वया समभ्यर्थि स्थास्याम्यत्र सदैव हि ।। ५३ ।।

प्राप्य काशीं सुदुर्मेधाः कस्त्यजेज्ज्ञानवान्यदि ।।

अनर्घ्यं प्राप्य माणिक्यं हित्वा काचं क ईहते ।। ५४ ।।

अल्पीयसा श्रमेणेह वपुषो व्ययमात्रतः ।।

अवश्यं गत्वरस्याशु यथामुक्तिस्तथा क्व हि ।। ५५ ।।

विनिमय्य जराजीर्णं देहं पार्थिवमत्र वै ।।

प्राज्ञाः किमु न गृह्णीयुरमृतं नैर्जरं वपुः ।। ५६ ।।

न तपोभिर्न वा दानैर्न यज्ञैर्बहुदक्षिणैः ।।

अन्यत्र लभ्यते मोक्षो यथा काश्यां तनु व्ययात् ।। ५७ ।।

अपि योगं हि युंजाना योगिनो यतमानसाः ।।

नैकेनजन्मना मुक्ताः काश्यां मुक्ता वपुर्व्ययात् ।। ५८ ।।

इदमेव महादानमिदमेव महत्तपः ।।

इदमेव व्रतं श्रेष्ठं यत्काश्यां म्रियते तनुः ।। ५९ ।।

स एव विद्वाञ्जगति स एव विजितेंद्रियः ।।

स एव पुण्यवान्धन्यो लब्ध्वा काशीं न यस्त्यजेत् ।। 4.2.60.६० ।।

तावत्स्थास्याम्यहं चात्र यावत्काशी मुने त्विह ।।

प्रलयेपि न नाशोस्याः शिवशूलाग्र सुस्थितेः ।। ६१ ।।

इत्याकर्ण्य गिरं विष्णोरग्निबिंदुर्महामुनिः ।।

प्रहृष्टरोमा प्रोवाच पुनरन्यं वरं वृणे ।। ६२ ।।

मापते मम नाम्नात्र तीर्थे पंचनदे शुभे ।।

अभक्तेभ्योपि भक्तेभ्यः स्थितो मुक्तिं सदादिश ।। ६३ ।।

येत्र पंचनदे स्नात्वा गत्वा देशांतरेष्वपि ।।

नरा पंचत्वमापन्ना मुक्तिं तेभ्योपि वै दिश ।। ६४ ।।

येतु पंचनदे स्नात्वा त्वां भजिष्यंति मानवाः ।।

चलाचलापि द्वैरूपा मा त्याक्षीच्छ्रीश्च तान्नरान् ।। ६५ ।।

।। श्रीविष्णुरुवाच ।। ।।

एवमस्त्वग्निबिंदोत्र भवता यद्वृतंमुने।।

त्वन्नाम्नोऽर्धेन मे नाम मया सह भविष्यति ।।६६।।

बिंदुमाधव इत्याख्या मम त्रैलोक्यविश्रुता ।।

काश्यां भविष्यति मुने महापापौघ घातिनी ।। ६७ ।।

ये मामत्र नराः पुण्याः पुण्ये पंचनदे ह्रदे ।।

सदा सपर्ययिष्यंति तेषां संसारभीः कुतः ।। ६८ ।।

वसुस्वरूपिणी लक्ष्मीर्लक्ष्मीर्निर्वाणसंज्ञिका ।।

तत्पार्श्वगा सदा येषां हृदि पंचनदे ह्यहम् ।। ६९ ।।

यैर्न पंचनदं प्राप्य वसुभिः प्रीणिता द्विजाः ।।

आशुलभ्यविपत्तीनां तेषां तद्वसुरोदिति ।। 4.2.60.७० ।।

त एव धन्या लोकेस्मिन्कृतकृत्यास्त एव हि ।।

प्राप्य यैर्मम सांनिध्यं वसवो मम सात्कृताः ।।७१ ।।

बिंदुतीर्थमिदं नाम तव नाम्ना भविष्यति ।।

अग्निबिंदो मुनिश्रेष्ठ सर्वपातकनाशनम् ।। ७२ ।।

कार्तिके बिंदुतीर्थे यो ब्रह्मचर्यपरायणः ।।

स्नास्यत्यनुदिते भानौ भानुजात्तस्य भीः कुतः।।७३।।

अपि पापसहस्राणि कृत्वा मोहेन मानवः ।।

ऊर्जे धर्मनदे स्नातो निष्पापो जायते क्षणात् ।। '७४ ।।

यावत्स्वस्थोस्ति देहोयं यावन्नेंद्रियविक्लवः ।।

तावद्व्रतानि कुर्वीत यतो देहफलं व्रतम् ।। ७५ ।।

एकभक्तेन नक्तेन तथैवायाचितेन च ।।

उपवासेन देहोयं संशोध्यो शुचिभाजनम् ।। ७६ ।।

कृच्छ्रचांद्रायणादीनि कर्तव्यानि प्रयत्नतः ।।

अशुचिः शुचितामेति कायो यद्व्रतधारणात् ।। ७७ ।।

व्रतैः संशोधिते देहे धर्मो वसति निश्चलः ।।

अर्थकामौ सनिर्वाणौ तत्र यत्र वृष स्थितिः ।। ७८ ।।

तस्माद्व्रतानि सततं चरितव्यानि मानवैः ।।

धर्मसान्निध्य कर्तृणि चतुर्वर्गफलेप्सुभिः ।। ७९ ।।

सदा कर्तुं न शक्नोति व्रतानि यदि मानवः ।।

चातुर्मास्यमनुप्राप्य तदा कुर्यात्प्रयत्नतः ।। 4.2.60.८० ।।

भूशय्या ब्रह्मचर्यं च किंचिद्भक्ष्यनिषेधनम् ।।

एकभक्तादि नियमो नित्यदानं स्वशक्तितः ।। ८१ ।।

पुराणश्रवणं चैव तदर्थाचरणं पुनः ।।

अखंडदीपोद्बोधश्च महापूजेष्टदैवते ।। ८२ ।।

प्रभूतांकुरबीजाढ्ये देशे चापि गतागतम् ।।

यत्नेन वर्जयेद्धीमान्महाधर्मविवृद्धये ।। ८३ ।।

असंभाष्या न संभाष्याश्चातुर्मास्य व्रतस्थितैः ।।

मौनं चापि सदा कार्यं तथ्यं वक्तव्यमेव वा ।।८४।।

निष्पावांश्च मसूरांश्च कोद्रवान्वर्जयेद्व्रती ।।

सदा शुचिभिरास्थेयं स्प्रष्टव्यो नाव्रती जनः ।। ८५ ।।

दंतकेशांबरादीनि नित्यं शोध्यानि यत्नतः ।।

अनिष्टचिंता नो कार्या व्रतिना हृद्यपि क्वचित् ।। ८६ ।।

द्वादशस्वपि मासेषु व्रतिनो यत्फलं भवेत् ।।

चातुर्मास्यव्रतभृतां तत्फलं स्यादखंडितम् ।। ८७ ।।

चतुर्ष्वपि च मासेषु न सामर्थ्यं व्रते यदि ।।

तदोर्जे व्रतिना भाव्यमप्यब्दफलमिच्छता ।। ८८ ।।

अव्रतः कार्तिको येषां गतो मूढधियामिह ।।

तेषां पुण्यस्य लेशोपि न भवेत्सूकरात्मनाम् ।। ८९ ।।

कृच्छ्रं वा चातिकृच्छ्रं वा प्राजापत्यमथापि वा ।।

संप्राप्ते कार्तिके मासि कुर्याच्छक्त्याति पुण्यवान् ।। 4.2.60.९० ।।

एकांतरं व्रतं कुर्यात्त्रिरात्र व्रतमेव वा ।।

पंचरात्रं सप्तरात्रं संप्राप्ते कार्तिके व्रती ।। ९१ ।।

पक्षव्रतं वा कुर्वीत मासोपोषणमेव वा ।।

नोर्जो वंध्यो विधातव्यो व्रतिना केनचित्क्वचित् ।। ९२।।

शाकाहारं पयोहारं फलाहारमथापि वा ।।

चरेद्यवान्नाहारं वा संप्राप्ते कार्तिके व्रती ।।९३।।

नित्यनैमित्तिकं स्नानं कुर्यादूर्जे व्रती नरः ।।

ब्रह्मचर्यं चरेदूर्जे महाव्रतफलार्थवान् ।। ९४ ।।

बाहुलं ब्रह्मचर्येण यः क्षिपेच्छुचिमानसः ।।

समस्तं हायनं तेन ब्रह्मचर्यकृतं भवेत् ।।९५।।

यस्तु कार्तिकिकं मासमुपवासैः समापयेत् ।।

अप्यब्दमपि तेनेह भवेत्सम्यगुपोषितम् ।। ९६ ।

शाकाहारपयोहारैरूर्जों यैरतिवाहितः ।।

अखंडिता शरत्तेन तदाहारेण यापिता ।। ९७ ।।

पत्रभोजी भवेदूर्जे कांस्यं त्याज्यं प्रयत्नतः ।।

यो व्रती कांस्यभोजी स्यान्न तद्व्रतफलं लभेत् ।।९८।।

कांस्यस्य नियमे दद्यात्कांस्यं सर्पिः प्रपूरितम् ।।

ऊर्जे न भक्षयेत्क्षौद्रमतिक्षुद्रगतिप्रदम् ।। ९९ ।।

मधुत्यागे घृतं दद्यात्पायसं च सशर्करम् ।।

अभ्यंगेऽभ्यवहारे च तैलमूर्जे विवर्जयेत् ।।4.2.60.१००।।

भूयात्स नारकी देही तत्राभ्यंगाद्यतोनघ ।।

तैलत्यागे तिलान्दद्याद्द्रोणमात्रान्स कांचनान् ।। १ ।।

कार्तिके मत्स्यभोजी यः स तैमीं योनिमृच्छति ।।

बाहुले मांसभोजी यः स कृमिःपूयशोणिते ।। २ ।।

मांसाशिनोपि ये भूपास्त्यजेयुस्तेपि कार्तिके ।।

मत्स्यमांसानि संत्यज्य कार्त्तिके व्रततत्परः ।। ३ ।।

मत्स्यमांसादनाद्दोषाद्बहिर्भवति निश्चितम् ।।

नियमे मत्स्यमांसानां दद्यात्कार्तिकिके व्रती ।।

कूश्मांडानि समाषाणि दशस्वर्णयुतान्यपि ।। ४ ।।

कार्तिके मीनभोजी यः सोश्नात्यमृतमेवहि ।।

सुघंटां सतिलां मौनी सहिरण्यां प्रदापयेत् ।। ५ ।।

कार्तिके लवणं त्यक्तं येन व्रतभृता सता ।।

त्यक्ताः सर्वे रसास्तेन तत्त्यागी गां प्रदापयेत् ।। ६ ।।

भूशय्यां कार्तिके कुर्वन्न भुवं संस्पृशेद्व्रती ।।

पर्यंकं भूशयो दद्यात्सतूलं सोपधानकम् ।। ७ ।।

दीपं यः कार्तिके दद्यादखंडं घृतवर्तिकम् ।।

मोहांध तमसं प्राप्य स न गच्छति दुर्गतिम् ।।८।।

यः कुर्यात्कार्तिके मासे रजन्यां दीपकौमुदीम् ।।

तामिस्रं चांधतामिस्रं न स पश्येत्कदाचन ।।९।।

पापांधकारसंक्रुद्धः कार्तिके दीपदानतः ।।

क्रोधांधकारितमुखं भास्करिं स न वीक्षते ।। 4.2.60.११० ।।

स उद्द्योतमयं पश्येत्त्रैलोक्यं सचराचरम् ।।

प्रबोधयेन्ममाग्रे यो दीपं सोज्वलवर्तिकम् ।। ११ ।।

पंचामृतानां कलशैरूर्जे मां स्नापयेन्नरः ।।

क्षीराब्धितटमासाद्य वसेत्कल्पं स पुण्यवान् ।। १२ ।।

प्रतिक्षपं कार्तिकिके कुर्वञ्ज्योत्स्नां प्रदीपजाम् ।।

ममाग्रे भक्तिसंयुक्तो गर्भध्वांतं न संविशेत् ।। १३ ।।

आज्यवर्तिकमूर्जे यो दीपं मेग्रे प्रबोधयेत् ।।

बुद्धिभ्रंशं न चाप्नोति महामृत्युभये सति ।। १४ ।।

कार्तिके मासि मे यात्रा यैः कृता भक्तितत्परैः ।।

बिंदुतीर्थे कृतस्नानैस्तेषां मुक्तिर्न दूरतः ।। १५ ।।

व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम ।।

दामोदरगृहाणार्घ्यं दनुजेंद्रनिषूदन ।। १६ ।।

स्नाने नैमित्तिके कृष्ण कार्तिके पापशोषणे ।।

गृह्णात्वर्घ्यं मया दत्तं राधया सहितो भवान् ।। १७ ।।

इमौ मंत्रौ समुच्चार्य योर्घ्यं मह्यं प्रयच्छति ।।

सुवर्णरत्न पुष्पांबु युजा शंखेन पुण्यवान् ।। १८ ।।

सुवर्णपूर्णपृथिवी संकल्पोदकपूर्वकम् ।।

तेन दत्ता भवेत्सम्यक्सुपात्राय सुपर्वणि ।। १९ ।।

एकादशीं समासाद्य प्रबोधकरणीं मम ।।

बिंदुतीर्थकृतस्नानो रात्रौ जागरणान्वितः ।। 4.2.60.१२० ।।

दीपान्प्रोबोध्य बहुशो ममालंकृत्य शक्तितः ।।

तौर्यत्रिकविनोदेन पुराणश्रवणादिभिः ।। २१ ।।

महामहोत्सवं कृत्वा यावत्पूर्णा तिथिर्भवेत् ।।

तत्रान्नदानं बहुशः कृत्वामत्प्रीतये नरः ।। २२ ।।

महापातकयुक्तोपि न विशेत्प्रमदोदरम् ।।

बिंदुमाधवनामानं यो मामत्र समर्चयेत् ।। २३ ।।

बिंदुतीर्थकृतस्नानो निर्वाणं स हि विंदति ।।

आदिमाधवनामाहं पूज्यः सत्ययुगे मुने ।। २४ ।।

अनंतमाधवो ज्ञेयस्त्रेतायां सर्वसिद्धिदः ।।

श्रीदमाधवसंज्ञोहं द्वापरे परमार्थकृत्।।२५।।

कलौ कलिमलध्वंसी ज्ञेयोहं बिंदुमाधवः ।।

कलौ कल्मषसंपन्ना न मां विंदंति मानवाः ।।२६।।

ममैव मायया मूढा भेदवादपरायणाः।।

मम भक्तिं प्रकुर्वाणा ये विश्वेशं द्विषंति वै ।। २७ ।।

विद्विषो मम ते ज्ञेयाः पिशाचपदगामिनः ।।

पैशाचीं योनिमाप्यापि कालभैरवशासनात् ।। २८ ।।

त्रिंशद्वर्ष सहस्राणि उषित्वा दुःखसागरे ।।

विश्वेशानुग्रहादेव ततो मोक्षमवाप्नुयुः ।। २९ ।।

तस्माद्द्वेषो न कर्तव्यो विश्वेशे परमात्मनि ।।

विश्वेश द्वेषिणां पुंसां प्रायश्चित्तं यतो नहि ।। 4.2.60.१३० ।।

मनसापि हि विश्वेशं विद्विषंतीह येऽधमाः ।।

अध्यासतेंधतामिस्रं मृतास्तेन्यत्र संततम् ।।३१।।

शिवनिंदापरा ये च ये पाशुपतनिंदकाः।।

विद्विषो मम ते ज्ञेया पततो नरकेऽशुचौ ।। ३२ ।।

अष्टाविंशति कोटीषु नरकेषु क्रमेण हि ।।

कल्पं कल्पं वसेयुस्ते ये विश्वेश्वरनिंदकाः ।। ३३ ।।

विश्वेशानुग्रहं प्राप्य मुनेहमपि मुक्तिदः ।।

मद्भक्तैस्तद्विशेषेण सेव्यो विश्वेश्वरोऽनिशम्।। ३४ ।।

इयं वाराणसी ज्ञेया मुने पाशुपतस्थली ।।

तस्मात्पशुपतिः सेव्यः काश्यां निश्रेयसार्थिभिः ।। ३५ ।।

अत्र पंचनदे तीर्थे स्नाति विश्वेश्वरः स्वयम् ।।

ऊर्जे सदैव सगणः सस्कंदः सपरिच्छदः ।। ३६ ।।

ब्रह्मा सवेदः समखो ब्रह्माण्याद्याश्च मातरः ।।

सप्ताब्धयः ससरितः स्नांत्यूर्जे धूतपापके ।।३७।।

सचेतना हि यावंतस्त्रैलोक्ये देहधारिणः ।।

तावंतः स्नातुमायांति कार्तिके धूतपापके ।।३८ ।।

यैर्न पंचनदे स्नातं प्राप्य कार्तिकिकं शुभम्।।

जलबुदुदवत्तेषां वृथाजन्म शरीरिणाम्।।३९।।

आनंदकाननं पुण्यं पुण्यं पांचनदं ततः ।।

ततोपि मम सान्निध्यमग्निबिंदो महामुने ।। 4.2.60.१४० ।।

अनेनैवानुमानेन विद्धि पंचनदस्य वै ।।

महिमानं महाप्राज्ञ सर्वतीर्थोत्तमोत्तमम् ।। ४१ ।।

श्रुत्वापि यं महाप्राज्ञो महापापैः प्रमुच्यते ।।

विष्णोर्मुखादिति श्रुत्वा सोग्निबिंदुर्महामुनिः ।। ४२ ।।

पुनः प्रणम्य पप्रच्छ बिंदुमाधवमच्युतम् ।।४३।।

अग्निबिंदुरुवाच ।।

भगवञ्छ्रोतुमिच्छामि बिंदुमाधव तद्वद ।।

कतिधा तव रूपाणि काश्यां संति जनार्दन ।। ४४ ।।

भविष्याण्यपि कानीह तानि मे कथयाच्युत ।।

यानि संपूज्यते भक्ताः प्राप्स्यंति कृतकृत्यताम् ।। १४५ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे बिंदुमाधवाविर्भावोनाम षष्टितमोऽध्यायः ।। ६० ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 61

।। अगस्त्य उवाच ।। ।।

षडास्य माधवाख्यानं श्रुतं मे पापनाशनम् ।।

महिमापि श्रुतः श्रेयान्सम्यक्पंचनदस्य वै ।। १ ।।

यदग्निबिंदुना पृच्छि माधवो दैत्यसूदनः ।।

तस्योत्तरं समाख्याहि यथाख्यातं मधुद्विषा ।। २ ।।

।। स्कंद उवाच ।। ।।

शृण्वगस्त्य महर्षे त्वं कथ्यमानं मयाधुना।।

माधवेन यथाचक्षि मुनये चाग्निबिंदवे ।।३।।

।। बिंदुमाधव उवाच ।।

आदौ पादोदके तीर्थे विद्धि मामादिकेशवम् ।।

अग्निबिंदो महाप्राज्ञ भक्तानां मुक्तिदायकम् ।। ४ ।।

अविमुक्तेऽमृते क्षेत्रे येर्चयंत्यादिकेशवम् ।।

तेऽमृतत्वं भजंत्येव सर्वदुःखविवर्जिताः ।। ५ ।।

संगमेशं महालिंगं प्रतिष्ठाप्यादिकेशवः ।।

दर्शनादघहं नृणां भुक्तिं मुक्तिं दिशेत्सदा ।। ६ ।।

याम्यां पादोदकाच्छ्वेतद्वीपतीर्थं महत्तरम् ।।

तत्राहं ज्ञानदो नृणां ज्ञानकेशवसंज्ञकः ।। ७ ।।

श्वेतद्वीपे नरः स्नात्वा ज्ञानकेशवसन्निधौ ।।

न ज्ञानाद्भ्रश्यते क्वापि ज्ञानकेशवपूजनात् ।। ८ ।।

तार्क्ष्यकेशवनामाहं तार्क्ष्यतीर्थे नरोत्तमैः ।।

पूजनीयः सदा भक्त्या तार्क्ष्य वत्ते प्रिया मम ।। ९ ।।

तत्रैव नारदे तीर्थेस्म्यहं नारदकेशवः ।।

ब्रह्मविद्योपदेष्टा च तत्तीर्थाप्लुत वर्ष्मणाम् ।।4.2.61.१०।।

प्रह्लादतीर्थं तत्रैव नाम्ना प्रह्लादकेशवः ।।

भक्तैः समर्चनीयोहं महाभक्ति समृद्धये ।। ११ ।।

तीर्थेंऽबरीषे तत्राहं नाम्नैवादित्यकेशवः ।।

पातकध्वांतनिचयं ध्वंसयामीक्षणादपि ।। १२ ।।

दत्तात्रेयेश्वराद्याम्यामहमादिगदाधरः ।।

हरामि तत्र भक्तानां संसारगदसंचयम् ।। १३ ।।

तत्रैव भार्गवे तीर्थे भृगुकेशव नामतः ।।

काशीनिवासिनः पुंसो बिभर्मि च मनोरथैः ।। १४ ।।

वामनाख्येमहातीर्थे मनःप्रार्थितदे शुभे ।।

पूज्योहं शुभमिच्छद्भिर्नाम्ना वामनकेशवः ।। १५ ।।

नरनारायणे तीर्थे नरनारायणात्मकम् ।।

भक्ताः समर्च्य मां स्युर्वै नरनारायणात्मकाः ।। १६ ।।

तीर्थे यज्ञवराहाख्ये यज्ञवाराहसंज्ञकः ।।

नरैः समर्चनीयोहं सर्वयज्ञफलेप्सुभिः ।।१७।।

विदारनरसिंहोहं काशीविघ्नविदारणः ।।

तन्नाम्नि तीर्थे संसेव्यस्तीर्थोपद्रवशांतये ।। १८ ।।

गोपीगोविंदतीर्थे तु गोपीगोविंदसंज्ञकम् ।।

समर्च्य मां नरो भक्त्या मम मायां न संस्पृशेत्।। १९ ।।

मुने लक्ष्मीनृसिंहोस्मि तीर्थे तन्नाम्नि पावने ।।

दिशामि भक्तियुक्तेभ्यः सदानैः श्रेयसीं श्रियम् ।। 4.2.61.२० ।।

शेषमाधवनामाहं शेषतीर्थेऽघहारिणि ।।

विश्राणयाम्यशेषाश्च विशेषान्भक्तचिंतितान् ।। २१ ।।

शंखमाधवतीर्थे च स्नात्वा मां शंखमाधवम् ।।

शंखोदकेन संस्नाप्य भवेच्छंखनिधेः पतिः ।।२२।।

हयग्रीवे महातीर्थे मां हयग्रीवकेशवम् ।।

प्रणम्य प्राप्नुयान्नूनं तद्विष्णोः परमंपदम् ।। २३ ।।

भीष्मकेशवनामाहं वृद्धकालेशपश्चिमे ।।

उपसर्गान्हरे भीष्मान्सेवितो भक्तियुक्तितः ।। २४ ।।

निर्वाणकेशवश्चाहं भक्तनिर्वाणसूचकः ।।

लोलार्कादुत्तरेभागे लोलत्वं चेतसो हरे ।। २५ ।।

वंद्यस्त्रिलोकसुंदर्या याम्यां यो मां समर्चयेत् ।।

काश्यां ख्यातं त्रिभुवनकेशवं न स गर्भभाक् ।। २६ ।।

ज्ञानवाप्याः पुरोभागे विद्धि मां ज्ञानमाधवम् ।।

तत्र मां भक्तितोभ्यर्च्य ज्ञानं प्राप्नोति शाश्वतम् ।। २७ ।।

श्वेतमाधवसंज्ञोहं विशालाक्ष्याः समीपतः ।।

श्वेतद्वीपेश्वरं रूपं कुर्यां भक्त्या समर्चितः ।। २८ ।।

उदग्दशाश्वमेधान्मां प्रयागाख्यं च माधवम् ।।

प्रयागतीर्थे सुस्नातो दृष्ट्वा पापैः प्रमुच्यते ।। २९ ।।

प्रयागगमने पुंसां यत्फलं तपसि श्रुतम् ।।

तत्फलं स्याद्दशगुणमत्र स्नात्वा ममाग्रतः ।। 4.2.61.३० ।।

गंगायमुनयोः संगे यत्पुण्यं स्नानकारिणाम् ।।

काश्यां मत्सन्निधावत्र तत्पुण्यं स्याद्दशोत्तरम् ।। ३१ ।।

दानानि राहुग्रस्तेर्के ददतां यत्फलं भवेत् ।।

कुरुक्षेत्रे हि तत्काश्यामत्रैव स्याद्दशाधिकम् ।। ३२ ।।

गंगोत्तरवहा यत्र यमुना पूर्ववाहिनी ।।

तत्संभेदं नरः प्राप्य मुच्यते ब्रह्महत्यया ।। ३३ ।।

वपनं तत्र कर्तव्यं पिंडदानं च भावतः ।।

देयानि तत्र दानानि महाफलमभीप्सुना ।। ३४ ।।

गुणाः प्रजापतिक्षेत्रे ये सर्वे समुदीरिताः ।।

अविमुक्ते महाक्षेत्रेऽसंख्याताश्च भवंति हि ।। ३५ ।।

प्रयागेशं महालिंगं तत्र तिष्ठति कामदम् ।।

तत्सान्निध्याच्च तत्तीर्थं कामदं परिकीर्तितम् ।। ३६ ।।

काश्यां माघः प्रयागे यैर्न स्नातो मकरार्कगः ।।

अरुणोदयमासाद्य तेषां निःश्रेयसं कुतः ।। ३७ ।।

काश्युद्भवे प्रयागे ये तपसि स्नांति संयताः ।।

दशाश्वमेधजनितं फलं तेषां भवेद्ध्रुवम् ।।३८।।

प्रयागमाधवं भक्त्या प्रयागेशं च कामदम् ।।

प्रयागे तपसि स्नात्वा येर्चयंत्यन्वहं सदा।।३९।।

धनधान्यसुतर्द्धीस्ते लब्ध्वा भोगान्मनोरमान् ।।

भुक्त्वेह परमानंदं परं मोक्षमवाप्नुयुः ।। 4.2.61.४० ।।

माघे सर्वाणि तीर्थानि प्रयागमवियांति हि ।।

प्राच्युदीची प्रतीचीतो दक्षिणाधस्तथोर्ध्वतः ।। ।। ४१ ।।

काशीस्थितानि तीर्थानि मुने यांति न कुत्रचित् ।।

यदि यांति तदा यांति तीर्थत्रयमनुत्तमम् ।। ४२ ।।

आयांत्यूर्जे पंचनदे प्रातःप्रातर्ममांतिकम् ।।

महाघौघप्रशमने महाश्रेयोविधायिनि ।। ४३ ।।

प्राप्य माघमघारिं च प्रयागेश समीपतः ।।

प्रातःप्रयागे संस्नांति सर्वतीर्थानि मामनु ।। ४४ ।।

समासाद्य च मध्याह्नमभियांति च नित्यशः ।।

संस्नातुं सर्वतीर्थानि मुक्तिदां मणिकर्णिकाम् ।। ४५ ।।

काश्यां रहस्यं परममेतत्ते कथितं मुने ।।

यथा तीर्थत्रयीश्रेष्ठा स्वस्वकाले विशेषतः ।। ४६ ।।

अन्यद्रहस्यं वक्ष्यामि न वाच्यं यत्रकुत्रचित् ।।

अभक्तेषु सदा गोप्यं न गोप्यं भक्तिमज्जने ।। ४७ ।।

काश्यां सर्वाणि तीर्थानि एकैकादुत्तरोत्तरम् ।।

महैनांसि प्रहंत्येव प्रसह्य निज तेजसा ।। ४८ ।।

एतदेव रहस्यं ते वाराणस्या उदीर्यते।।

उत्क्षिप्यैकांगुलिं तथ्यं श्रेष्ठैका मणिकर्णिका ।।४९।।

गर्जंति सर्वतीर्थानि स्वस्वधिष्ण्यगतान्यहो ।।

केवलं बलमासाद्य सुमहन्माणिकर्णिकम् ।। 4.2.61.५० ।।

पापानि पापिनां हत्वा महांत्यपि बहून्यपि ।।

काशीतीर्थानि मध्याह्ने प्रायश्चित्तचिकीर्षया ।। ५१ ।।

पर्वस्वपर्वस्वपि वा नित्यं नियमवं त्यहो ।।

निर्मलानि भवंत्येव विगाह्य मणिकर्णिकाम् ।। ५२ ।।

विश्वेशो विश्वया सार्धं सदोपमणिकर्णिकम् ।।

मध्यंदिनं समासाद्य संस्नाति प्रतिवासरम् ।। ५३ ।।

वैकुंठादप्यहं नित्यं मध्याह्ने मणिकर्णिकाम् ।।

विगाहे पद्मया सार्धं मुदा परमया मुने ।। ५४ ।।

सकृन्ममाख्यां गृणतां निर्हरन्यदघान्यहम् ।।

हरिनामसमापन्नस्तद्बलान्माणिकर्णिकात् ।। ५५ ।।

सत्यलोकात्प्रतिदिनं हं सयानः पितामहः ।।

माध्याह्निक विधानाय समायान्मणिकर्णिकाम् ।।५६।।

इंद्राद्या लोकपालाश्च मरीच्याद्या महर्षयः ।।

माध्याह्निकीं क्रियां कर्तुं समीयुर्मणिकर्णिकाम् ।। ५७ ।।

शेषवासुकिमुख्याश्च नागा वै नागलोकतः ।।

समायांतीह मध्याह्ने संस्नातुं मणिकर्णिकाम् ।। ५८ ।।

चराचरेषु सर्वेषु यावंतश्च सचेतनाः ।।

तावंतः स्नांति मध्याह्ने मणिकर्णी जलेमले ।। ५९ ।।

के माणिकर्णिकेयानां गुणानां सुगरीयसाम् ।।

शक्ता वर्णयितुं विप्राऽसंख्येयानां मदादिभिः ।। 4.2.61.६० ।।

चीर्णान्युग्राण्यरण्येषु तैस्तपांसि तपोधनैः ।।

यैरियं हि समासादि मुक्तिभूर्मणिकर्णिका ।। ६१ ।।

विश्राणितमहादानास्त एव नरपुंगवाः ।।

चरमे वयसि प्राप्ता यैरेषा मणिकर्णिका ।। ६२ ।।

चीर्णसर्वव्रतास्ते तु यथोक्तविधिना ध्रुवम् ।।

यैः स्वतल्पीकृता माणिकर्णिकेयी स्थली मृदुः ।।६३।।

त एव धन्या मर्त्येस्मिन्सर्वक्रतुषु दीक्षिताः ।।

त्यक्त्वा पुण्यार्जितां लक्ष्मीमैक्षियैर्मणिकर्णिका ।।६४।।

कृता नानाविधा धर्मा इष्टापूर्तास्तु तैर्नृभिः।।

वार्धकं समनुप्राप्य प्रापि यैर्मणिकर्णिका ।। ६५ ।।

रत्नानि सदुकूलानि कांचनं गजवाजिनः ।।

देयाः प्राज्ञेन यत्नेन सदोपमणिकर्णिकम् ।। ६६ ।।

पुण्येनोपार्जितं द्रव्यमत्यल्पमपि यैर्नरैः ।।

दत्तं तदक्षयं नित्यं मुनेधिमणिकणिंकम् ।। ६७ ।।

कुर्याद्यथोक्तमप्येकं प्राणायामं नरोत्तमः ।।

यस्तेन विहितो नूनं षडंगो योग उत्तमः ।। ६८ ।।

जप्त्वैकामपि गायत्रीं संप्राप्य मणिकर्णिकाम् ।।

लभेदयुतगायत्रीजपनस्य फलं स्फुटम् ।। ६९ ।।

एकामप्याहुतिं प्राज्ञो दत्त्वोपमणिकर्णिकम्।।

यावज्जीवाग्निहोत्रस्य लभेदविकलं फलम् ।। 4.2.61.७० ।।

इति श्रुत्वा हरेर्वाक्यमग्निबिंदुर्महातपाः ।।

प्रणिपत्य महाभक्त्या पुनः पप्रच्छ माधवम्।। ।। ७१ ।।

।। अग्निबिंदुरुवाच ।।

विष्णो कियत्परीमाणा पुण्यैषा मणिकर्णिका ।।

ब्रूहि मे पुंङरीकाक्ष नत्वत्तस्तत्त्ववित्परः ।। ७२ ।।

।। श्रीविष्णुरुवाच ।।

आगंगा केशवादा च हरिश्चंद्रस्य मंडपात् ।।

आमध्याद्देवसरितः स्वर्द्वारान्मणिकर्णिका ।। ७३ ।।

स्थूलमेतत्परीमाणं सूक्ष्मं च प्रवदामि ते ।।

हरिश्चंद्रस्य तीर्थाग्रे हरिश्चंद्रविनायकः ।। ७४ ।।

सीमाविनायकश्चात्र मणिकर्णी ह्रदोत्तरे ।।

सीमाविनायकं भक्त्या पूजयित्वा नरोत्तमः ।।७५ ।।

मोदकैः सोपचारैश्च प्राप्नुयान्मणिकर्णिकाम्।।

हरिश्चंद्रे महातीर्थे तर्पयेयुः पितामहान्।।७६।।

शतं समाःसु तृप्ताः स्युः प्रयच्छंति च वांच्छितम्।।

हरिश्चंद्रे महातीर्थे स्नात्वा श्रद्धान्वितो नरः ।। ७७ ।।

हरिश्चंद्रेश्वरं नत्वा न सत्यात्परिहीयते ।।

ततः पर्वततीर्थं च पर्वतेश्वर संनिधौ ।। ७८ ।।

अधिष्ठानं महामेरोर्महापातकनाशनम् ।।

तत्र स्नात्वार्चयित्वेशं किंचिद्दत्त्वा स्वशक्तितः ।। ७९ ।।

अध्यास्य मेरुशिखरं दिव्यान्भोगान्समश्नुते ।।

कंबलाश्वतरं तीर्थं पर्वतेश्वर दक्षिणे ।।4.2.61.८०।।

कंबलाश्वतरेशं च तत्तीर्थात्पश्चिमे शुभम् ।।

तस्मिंस्तीर्थे कृतस्नानस्तल्लिंगं यः समर्चयेत् ।। ८१ ।।

अपि तस्य कुले जाता गीतज्ञाः स्युः श्रियान्विताः ।।

चक्रपुष्करिणी तत्र योनिचक्र निवारिणी।।। ८२ ।।

संसारचक्रे गहने यत्र स्नातो विशेन्नना ।।

चक्रपुष्करिणी तीर्थ ममाधिष्ठानमुत्तमम् ।। ८३ ।।

समाः परार्धसंख्यातास्तत्र तप्तं महातपः ।।

तत्र प्रत्यक्षतां यातो मम विश्वेश्वरः परः ।। ८४।।

तत्र लब्धं मयैश्वर्यमविनाशि महत्तरम् ।।

चक्रपुष्करिणी चैव ख्याताभून्मणिकर्णिका ।। ८५ ।।

द्रवरूपं परित्यज्य ललनारूपधारिणी ।।

प्रत्यक्षरूपिणी तत्र मयैक्षि मणिकर्णिका ।। ८६ ।।

तस्या रूपं प्रवक्ष्यामि भक्तानां शुभदं परम् ।।

यद्रूपध्यानतः पुंभिराषण्मासं त्रिसंध्यतः ।। ८७ ।।

प्रत्यक्षरूपिणी देवी दृश्यते मणिकर्णिका ।।

चतुर्भुजा विशालाक्षी स्फुरद्भालविलोचना ।। ८८ ।।

पश्चिमाभिमुखी नित्यं प्रबद्धकरसंपुटा ।।

इंदीवरवतीं मालां दधती दक्षिणे करे ।। ८९ ।।

वरोद्यते करे सव्ये मातुलुंग फलं शुभम् ।।

कुमारीरूपिणी नित्यं नित्यं द्वादशवार्षिकी ।। 4.2.61.९० ।।

शुद्धस्फटिककांतिश्च सुनील स्निग्धमूर्द्धजा ।।

जितप्रवालमाणिक्य रमणीय रदच्छदा ।। ९१ ।।

प्रत्यग्रकेतकीपुष्पलसद्धम्मिल्ल मस्तका ।।

सर्वांग मुक्ताभरणा चंद्रकांत्यंशुकावृता ।। ।। ९२ ।।

पुंडरीकमयीं मालां सश्रीकां बिभ्रती हृदि ।।

ध्यातव्यानेन रूपेण मुमुक्षुभिरहर्निशम् ।। ९३ ।।

निर्वाणलक्ष्मीभवनं श्रीमतीमणिकर्णिका ।।

मंत्रं तस्याश्च वक्ष्यामि भक्तकल्पद्रुमाभिधम्।।

यस्यावर्तनतः सिद्ध्येदपि सिद्ध्यष्टकं नृणाम् ।। ९४ ।।

वाग्भवमायालक्ष्मीमदनप्रणवान्वदेत्पूर्वम् ।।

भांत्यं बिंदूपेतं मणिपदमथ कर्णिके सहृत्प्रणवपुटः ।। ९५ ।।

मंत्रःसुरद्रुमसमः समस्तसुखसंततिप्रदो जप्यः ।।

तिथिभिः परिमितवर्णः परमपदं दिशति निशितधियाम् ।। ९६ ।।

तारस्तारतृतीयो बिंद्वंतोमणिपदं ततः कर्णिके ।।

प्रणवात्मिपदं केन म इति मनुसंख्यवर्णमनुः ।। ९७ ।।

अयं मंत्रोऽनिशं जप्यः पुंभिर्मुक्तिमभीप्सुभिः ।।

होमो दशांशकः कार्यः श्रद्धाबद्धादरैर्नृभिः ।। ९८ ।।

परिप्लुतैः पुंडरीकैर्गव्येन हविषास्फुटैः ।।

सशर्करेण मेधावी सक्षौद्रेण सदाशुचिः ।। ९९ ।।

त्रिलक्षमंत्र जप्येन मृतो देशांतरेष्वपि ।।

अवश्यं मुक्तिमाप्नोति मंत्रस्यास्य प्रभावतः ।। 4.2.61.१०० ।।

सौवर्णीं प्रतिमा कार्या नवरत्नसमन्विता।।

पूर्वोक्तरूपसंपन्ना संपूज्या सा प्रयत्नतः ।। १ ।।

संपूज्यावा सदा गेहे नरैर्मोक्षैककांक्षिभिः ।।

मणिकर्ण्यामथाक्षेप्या समभ्यर्च्य प्रयत्नतः ।। २ ।।

संसारभीरुभिः पुंभिः श्रद्धाबद्धादरैरिह ।।

उपायः समनुष्ठेयो ह्यपि दूरनिवासिभिः ।। ३ ।।

मणिकर्ण्यां कृतस्नानो मणिकर्णीश वीक्षणात् ।।

जननी जठरावासे वसतिं न लभेन्नरः ।।४।।

मणिकर्णीश्वरं लिंगंं पुरासंस्थापितं मया ।।

प्राग्द्वारेंतर्गृहस्यात्र समर्च्यो मोक्षकांक्षिभिः ।।५।।

ततः पाशुपतं तीर्थमवाच्यां मणिकर्णितः ।।

कृतोदकक्रियस्तत्र पश्येत्पशुपतीश्वरम् ।। ६ ।।

यत्र पाशुपतो योग उपदिष्टः पिनाकिना ।।

ममापि विधिमुख्यानां सुराणां पशुपाशहृत् ।। ।। ७ ।।

अतः पशुपतिर्यत्र लिंगरूपधरः स्वयम्।।

पशुपाशविमोक्षाय नित्यं काश्यां प्रकाशते।। ८ ।।

तत्र चैत्र चतुर्दश्यां शुक्लायां शुचिमानसैः ।।

कार्या यात्रा प्रयत्नेन रात्रौ जागरणं तथा ।। ९ ।।

पूजयित्वा पशुपतिमुपोषणपरायणाः ।।

पशुपाशैर्न बध्यंते दर्शे विहितपारणाः ।। 4.2.61.११० ।।

रुद्रावासस्ततस्तीर्थं तीर्थात्पाशुपतात्पुरः ।।

तत्र स्नात्वा नरैरर्च्यो रुद्रावासेश्वरो हरः ।। ११ ।।

मणिकर्णीश्वराद्याम्यां रुद्रावासेश्वरं नरः ।।

समाराध्य वसेल्लोके रुद्रावासे न संशयः ।। १२ ।।

विश्वतीर्थं ततो याम्यां विश्वैस्तीर्थैरधिष्ठितम् ।।

तत्र स्नात्वा नरो भक्त्या विश्वनाथं विलोकयेत् ।। १३ ।।

विश्वां गौरीं च तदनु पूजयित्वाति भक्तितः ।।

विश्वस्य पूज्यो भवति ततो विश्वमयो भवेत् ।। १४ ।।

मुक्तितीर्थं च तदनु तत्रापि कृतमज्जनः ।।

मोक्षेश्वरं ततोभ्यर्च्य मोक्षमाप्नोत्यसंशयम् ।। १५ ।।

अविमुक्तेश्वरात्पश्चान्मोक्षेशं वीक्ष्य मानवः ।।

न पुनर्मानवेलोके यातायातं करोत्यहो ।। १६ ।।

अविमुक्तेश्वरं तीर्थं मुक्तितीर्थान्मनाक्परे ।।

तत्राप्लुत्याविमुक्तेशमर्चयित्वा विमुच्यते ।। १७ ।।

तत्परे तारकं तीर्थं यत्र विश्वेश्वरः स्वयम् ।।

आचष्टे तारकं ब्रह्ममृतकर्णेमृतात्मकम् ।। १८ ।।

सुस्नातस्तारके तीर्थे तारकेश्वर दर्शनात् ।।

संसारसागरं तीर्त्वा तारयेत्स्वपितॄनपि ।। १९ ।।

तत्राभ्याशे स्कंदतीर्थं तत्राप्लुत्य नरोत्तमः ।।

दृष्ट्वा षडाननं चैव जह्यात्षाट्कौशिकीं तनुम् ।। 4.2.61.१२० ।।

तारकेश्वर पूर्वेण दृष्ट्वा देवं षडाननम् ।।

वसेत्षडानने लोके कौमारं वपुरुद्वहन् ।। २१ ।।

ढुंढितीर्थं ततः पुण्यं नरस्तत्र कृतोदकः ।।

ढुंढिं गणपतिं स्तुत्वा न विघ्नैरभिभूयते ।। २२ ।।

भवानीतीर्थमतुलं ढुंढितीर्थस्य दक्षिणे ।।

तत्र स्नात्वा विधानेन भवानीं परिपूज्य च ।। २३।।

दुकूले रत्ननेपथ्यैर्नैवेद्यैर्बहुविस्तरैः ।।

पुष्पैर्धूपैः प्रदीपैश्च भवानी शो प्रपूज्य च ।। ५४ ।।

समस्तमर्चितं तेन त्रैलोक्यं सचराचरम् ।।

भवानीशंकरौ काश्यामर्चितौ श्रद्धया तु यैः ।। २५ ।।

चैत्राष्टम्यां महायात्रां भवान्याः कारयेत्सुधीः ।।

अष्टाधिकाः प्रकर्तव्याः शतकृत्वः प्रदक्षिणाः ।। २६ ।।

प्रदक्ष्रिणीकृतातेन सप्तद्वीपवती मही ।।

सशैला ससमुद्रा च साश्रमा च सकानना ।। २७ ।।

अष्टौ प्रदक्षिणा देयाः प्रत्यहं तुष्टितत्परैः ।।

नमनीयौ प्रयत्नेन भवानीशंकरौ सदा ।। २८ ।।

भक्तानां कामदा नित्यं भवानी वाससां प्रदा ।।

अतो भवानी संपूज्या काश्यां तीर्थनिवासिभिः ।। २९ ।।

योगक्षेमं सदा कुर्याद्भवानी काशिवासिनाम् ।।

तस्माद्भवानी संसेव्या सततं काशिवासिभिः ।। 4.2.61.१३० ।।

भिक्षणीया सदा भिक्षा भिक्षुणा मोक्षकांक्षिणा ।।

यतो भिक्षाप्रदा काश्यां विश्वेशस्य कुटुंबिनी ।। ३१ ।।

गृहमध्येत्र विश्वेशो भवानी तत्कुटुंबिनी ।।

सर्वेभ्यः काशिसंस्थेभ्यो मोक्षभिक्षां प्रयच्छति ।। ३२ ।।

दुष्प्रापमपि यत्किंचित्काशीक्षेत्रनिवासिनाम् ।।

तत्सुप्राप्यं करोत्येव भवानी पूजिता नृभिः ।। ३३ ।।

कुर्याज्जागरणं रात्रौ महाष्टम्यां व्रती नरः ।।

प्रातर्भवानीमभ्यर्च्य प्राप्नुयाद्वांछितं फलम् ।। ३४ ।।

शुक्रेशात्पश्चिमाशायां भवानीं योऽभिवीक्षते ।।

सर्वे मनोरथास्तस्य सिद्ध्यंतीह न सं शयः ।। ३५ ।।

काश्यां सदैव वस्तव्यं स्नातव्योत्तरवाहिनी ।।

भवानीशंकरौ सेव्यौ प्राप्तव्ये भुक्तिमुक्तिके ।। ३६ ।।

मातर्भवानि तव पादरजोभवानि मातर्भवानि तवदासतरो भवानि ।।

मातर्भवानि नभवानि यथाभवेस्मिंस्त्वद्भाग्भवान्यनुदिनं न पुनर्भवानि ।। ३७ ।।

तिष्ठता गच्छता वापि स्वपता जाग्रतापि वा ।।

अयमत्र सदा जप्यः सुखाप्त्यै काशिवासिना ।। ३८ ।।

ईशानतीर्थं तत्रैव भवानीतीर्थसन्निधौ ।।

तत्र स्नातो य ईशानमर्चयेन्न स जन्मभाक् ।। ३९ ।।

ज्ञानतीर्थं च तत्रैव ज्ञानदं सवर्दा नृणाम् ।।

कृताभिषेकस्तत्तीर्थे दृष्ट्वा ज्ञानेश्वरं शिवम् ।। 4.2.61.१४० ।।

ज्ञानवापीसमीपस्थो ज्ञानेशो यैः समर्चितः ।।

ज्ञानभ्रंशो न तेषां स्यादपि पंचत्वमृच्छताम्।। ४१ ।।

शैलादितीर्थं तत्रैव परमर्द्धि प्रकाशकम् ।।

तत्र श्राद्धादिकं कृत्वा दत्त्वा दानं स्वशक्तितः ।। ४२ ।।

शैलादीश्वरमालोक्य ज्ञानवाप्या उदग्दिशि ।।

लभेद्गणत्वपदवीं नात्र कार्या विचारणा ।। ४३ ।।

नंदितीर्थादवाच्यां तु विष्णुतीर्थं परं मम ।।

तत्र पिंडान्विनिर्वाप्य पितॄणामनृणो भवेत् ।। ४४ ।।

विष्णुतीर्थे कृतस्नानो यो मां विष्णुं विलोकयेत् ।।

विश्वेशाद्दक्षिणेपार्श्वे विष्णुलोकं स गच्छति ।। ४५ ।।

यः प्रत्येकादशीं प्राप्य शयनीं बोधिनीं तथा ।।

कुर्याज्जागरणं रात्रौ मम मूर्तिसमीपतः ।। ४६ ।।

प्रातः समर्च्य मां भक्त्या भोजयित्वा द्विजानपि ।।

दत्त्वा गाः कांचनं भूमिं न भूयो भूमिभाग्भवेत् ।।४७।।

कृत्वा तत्र व्रतोत्सर्गं वित्तशाठ्यविवर्जितः ।।

सम्यग्व्रतफलं धीमान्प्राप्नोत्येव ममाज्ञया ।।४८।।

मम तीर्थादवाच्यां तु ती र्थं पैतामहं शुभम् ।।

तत्र श्राद्धविधानेन तर्पयित्वा पितामहान्।।४९।।

पितामहेश्वरं लिंगं ब्रह्मनालोपरिस्थितम्।।

पूजयित्वा नरो भक्त्या ब्रह्मलोकमवाप्नुयात् ।। ।। 4.2.61.१५० ।।

ब्रह्मस्रोतः समीपे तु कृतं कर्म शुभाशुभम् ।।

परामक्षयतामेति शुभमेव ततश्चरेत् ।। ५१ ।।

अत्यल्पमपि यत्कर्म कृतमत्र शुभाशुभम् ।।

प्रलयेपि न तस्यास्ति प्रलयो मुनिसत्तम ।। ५२ ।।

नाभितीर्थमिदं प्रोक्तं नाभिभूतं यतः क्षितेः ।।

अपि ब्रह्मांडगोलस्य नाभिरेषा शुभोदया ।।५३।।

सा माणिकर्णिकेयीयं नाभिर्गांभीर्यभूमिका ।।

ब्रह्मांडगोलकं सर्वं यस्यामेति लयोदयम् ।। ५४ ।।

ब्रह्मनालं परं तीर्थं त्रिषु लोकेषु विश्रुतम् ।।

तत्संगमे नरः स्नात्वा कोटिजन्म मलं हरेत् ।। ५५ ।।

ब्रह्मनाले पतेद्येषामपि कीकसमात्रकम् ।।

ब्रह्मांडमंडपांतस्ते न विशंति कदाचन ।। ५६ ।।

ततो भागीरथेस्तीर्थं ब्रह्मनालाच्च दक्षिणे ।।

तत्र स्नात्वा नरः सम्यङ्मुच्यते ब्रह्महत्यया ।। ५७ ।।

भागीरथीश्वरं लिंगं स्वर्गद्वारस्य सन्निधौ ।।

दर्शनाद्ब्रह्महत्यायाः पुरश्चरणमुच्यते ।। ५८ ।।

अशुभां गतिमापन्ना यस्य पूर्वे पितामहाः ।।

तेन भागीरथी तीर्थे तर्पणीयाः प्रयत्नतः ।। ५९ ।।

तत्र भागीरथे तीर्थे श्राद्धं कृत्वा विधानतः ।।

ब्राह्मणान्भोजयित्वा तु ब्रह्मलोके नयेत्पितॄन् ।। 4.2.61.१६० ।।

तद्दक्षिणे महातीर्थं खुरकर्तरि संज्ञितम् ।।

गोलोकादागताभिश्च गोभिर्यत्खुरकोटिभिः ।। ६१ ।।

स्थपुटीकृतभूभागं ततस्तत्खुर कर्तरि ।।

तस्मिंस्तीर्थे कृतस्नानः कृतपिंडोदकक्रियः ।। ६२ ।।

खुरकर्तरीशं लिंगं दृष्ट्वा गोलोकमाप्नुयात् ।।

गोधनैर्न विमुच्येत तल्लिंगस्य समर्चनात् ।।६३।।

दक्षिणे खुरकर्तर्या मार्कंडं तीर्थमुत्तमम्।।

कृतश्राद्धविधानश्च तस्मिंस्तीर्थेऽघहारिणि ।। ६४ ।।

मार्कंडेयेश्वरं लिंगं दृष्ट्वायुर्दीर्घमाप्नुयात् ।।

ब्रह्मतेजोभिवृद्धिं च कीर्तिं च परमां भुवि ।। ६५ ।।

वसिष्ठतीर्थं परमं महापातकनाशनम् ।।

तर्पयित्वा पितॄंस्तत्र वसिष्ठेशं विलोक्य च ।। ६६ ।।

नरो न लिप्यते पापैर्जन्मत्रयसमर्जितैः ।।

वसिष्ठलोके वसति ब्रह्मतेज समन्वितः ।। ६७ ।।

तत्रैवारुधंती तीर्थं स्त्रीणां सौभाग्यवधर्नम् ।।

पतिव्रताभिस्तत्तीर्थं गाहनीयं विशेषतः ।। ६८ ।।

पौंश्चल्यजनितो दोषस्तत्तीर्थपरिमज्जनात्।।

क्षणाद्विनाश मागच्छेदरुंधत्याः प्रभावतः ।। ६९ ।।

मार्कंडेयेश्वरात्प्राच्यां वसिष्ठेश्वर पूजनात् ।।

निष्पापो जायते मर्त्यो महत्पुण्यमवाप्नुयात् ।। 4.2.61.१७० ।।

मूर्ती वसिष्ठारुंधत्योस्तत्र पूज्ये प्रयत्नतः।।

न स्त्री वैधव्यमाप्नोति न पुमान्स्त्री वियोगिताम् ।।७१।।

वसिष्ठतीर्थतो याम्यां नर्मदातीर्थमुत्तमम् ।।

विधाय श्राद्धं मेधावी नर्मदेशंविलोक्य च ।। ७२ ।।

तत्र दत्त्वा महादानं पद्मयानविमुच्यते ।।

ततस्त्रिसंध्यं वै तीर्थं त्रिसंध्येश्वर पूर्वतः ।। ७३ ।।

तत्र तीर्थे नरः स्नात्वा कृत्वा संध्यां विधानतः ।।

संध्याकाल विलोपोत्थपातकैर्नाभिभूयते ।। ७४ ।।

त्रिसंध्येश्वरमालोक्य कृतसंध्यस्त्त्रिकालतः ।।

त्रिवेदावर्तजं पुण्यं प्राप्नुयाच्छ्रद्धया द्विजः ।। ७५ ।।

ततोऽनुयोगिनीतीर्थं नरस्तत्र कृताप्लवः ।।

दृष्ट्वा तु योगिनीपीठं योगसिद्धिमवाप्नुयात् ।। ७६ ।।

अगस्ति तीर्थे तत्रास्ति महाघौघ विघातकृत् ।।

तत्र स्नात्वा प्रयत्नेन दृष्ट्वागस्तीचश्वरं विभुम् ।। ७७ ।।

अगस्तिकुंडे च ततः संतर्प्य च पितामहान् ।।

अगस्तिना समेतां च लोपामुद्रां प्रणम्य च ।। ७८ ।।।

सर्वपापविनिर्मुक्तः सर्वक्लेशविवर्जितः ।।

गच्छेत्स पूर्वजैः सार्धं शिवलोकं नरोत्तमः ।।७९।।

दक्षिणेऽगस्त्यतीर्थाच्च तीर्थमस्त्यतिपावनम्।।

गंगाकेशवसंज्ञं च सर्वपातकनाशनम् ।। ।।4.2.61.१८०।।

तत्र मे शुभदां मूर्तिं मुने तत्तीर्थसंज्ञिकाम् ।।

संपूज्य श्रद्धया धीमान्मम लोके महीयते ।।८१।।

तत्र पिंडान्विनिर्वाप्य दत्त्वा दानं स्वशक्तितः ।।

शतसांवत्सरीं तृप्तिं पितॄणां स समर्पयेत् ।। ८२ ।।

मणिकर्णी परीमाणमेतत्ते कीर्तितं महत् ।।

सीमाविनायकाद्याम्यां सर्वविघ्नविघातनात् ।। ८३ ।।

वैरोचनेश्वरात्प्राच्यामहं वैकुंठमाधवः ।।

तत्र मां भक्तितोभ्यर्च्य वैकुंठार्चामवाप्नुयात् ।। ८४ ।।

वीरमाधवसंज्ञोहं वीरेशात्पश्चिमे मुने ।।

तत्र व्रती समभ्यर्च्य न यामीं यातनां लभेत् ।। ८५ ।।

कालमाधवनामाहं कालभैरव सन्निधौ ।।

कलिः कालो न कलयेन्मद्भक्तमिति निश्चितम् ।।८६।।

मार्गशीर्षस्य शुक्लायामेकादश्यामुपोषितः ।।

तत्र जागरणं कृत्वा यमं नालोकयेत्क्वचित् ।। ८७ ।।

निर्वाणनरसिंहोहं पुलस्तीश्वरदक्षिणे ।।

भक्तो निर्वाणमाप्नोति तन्मृर्तिनमनादपि ।।८८।।

महाबलनृसिंहोहमोंकारात्पूर्वतो मुने ।।

दूतान्महाबलान्याम्यान्न पश्येत्तु तदर्चकः ।।६९।।

प्रचंडनरसिंहोहं चंडभैरवपूर्वतः ।

प्रचंडमप्यघं कृत्वा निष्पाप्मा स्यात्तदर्चनात् ।। 4.2.61.१९० ।।

अहं गिरिनृसिंहोस्मि तद्देहलिविनायकात् ।।

प्राच्यां प्रबलपापौ घगजानां प्रविदारणः ।। ९१ ।।

महाभयहरश्चाहं नरसिंहो महामुने ।।

पितामहेश्वरात्पश्चाद्भक्त साध्वससाध्वसः ।। ९२ ।।

अत्युग्रनरसिंहोहं कलशेश्वरपश्चिमे ।।

अत्युग्रमपि पापौघं हरामि श्रद्धयार्चितः ।। ९३ ।।

ज्वालामालीनृसिंहोऽहं ज्वालामुख्याः समीपतः ।।

संज्वालयामि पापौघ तृणानि परिपूजितः ।। ।। ९४ ।।

कोलाहलनृसिंहोस्मि दैत्यदानवमर्दनः ।।

ममनामसमुच्चारादघकोलाहलो यतः ।। ९५ ।।

कंकालभैरवो यत्र काशीरक्षणदक्षधीः ।।

तत्र मां भक्तितोभ्यर्च्य नोपसर्गैर्निरुध्यते ।। ९६ ।।

विटंकनरसिंहोस्मि नीलकंठेश्वरादनु ।।

तत्र मां श्रद्धया पूज्य नरो भवति निर्भयः ।।९७।।

अनंतवामनश्चाहमनंतेश्वरसन्निधौ ।।

अनंतान्यपि भक्तस्य कलुषाणि हरेऽर्चितः ।। ९८।।

दधिवामनसंज्ञोहं भक्तानां दधिभक्तदः ।।

यन्नामस्मरणादेव न दरिद्रो नरो भवेत् ।। ९९ ।।

त्रिविक्रमोस्म्यहं काश्यामुदीच्यां च त्रिलोचनात् ।।

ददामि पूजितो लक्ष्मीं हरामि वृजिनान्यपि ।।4.2.61.२००।।

बलिवामननामाहं बलिना परिपूजितः ।।

बलिभद्रेश्वरात्प्राच्यां भक्तानां बलवर्धनः ।। ११ ।।

दक्षिणे भवतीर्थाच्च ताम्रद्वीपादिहागतः ।।

नाम्ना ताम्रवराहोस्मि भक्तानां चिंतितार्थदः ।। २ ।।

मुने धरणिवाराहः प्रयागेश्वरसन्निधौ ।।

स्नात्वा वाराहतीर्थेत्र दृष्ट्वा मां किटि रूपिणम् ।।३।।

संपूज्य बहुभावेन न विशेद्योनिसंकटम् ।।

तत्राल्पमपि दत्त्वान्नं धरादानफलं लभेत्।। ।। ४ ।।

महाकलुषगंभीर सागरे निपतञ्जनः ।।

मम भक्त्युडुपं प्राप्य प्रलयेपि न मज्जति ।। ५ ।।

अहं कोकावराहोस्मि किटीश्वरसमीपतः ।।

तत्र मां पूजयन्मर्त्यो लभते चिंतितफलम् ।। ६ ।।

नारायणाः शतं पंच शतं च जलशायिनः ।।

त्रिंशत्कमठरूपाणि मत्स्यरूपाणि विंशतिः ।। ७ ।।

गोपालाश्च शतं साष्टं बुद्धाः संति सहस्रशः ।।

त्रिंशतरामाश्च रामा एकोत्तरंशतम् ।। ८ ।।

विष्णुरूपोस्म्यहं चैको मुक्तिमंडपमध्यतः ।।

मुनेकृतप्रसादेन विश्वेशेन श्रितः स्वयम् ।। ९ ।।

नारायणस्वरूपेण गणाश्चक्रगदोद्यताः ।।

कुर्वंति रक्षां क्षेत्रस्य परितो नियुतानि षट् ।। 4.2.61.२१० ।।

सोग्निबिंदुरिति श्रुत्वा संप्रहृष्टतनूरुहः ।।

पुनः पप्रच्छ मेधावी मूर्तिभेदान्वद प्रभो ।। ११ ।।

हिताय निजभक्तानां मम संदेहशांतये ।।

कति ते मूर्तयोनंत कथं ज्ञेयास्तथा वद ।। १२ ।।

इत्याकर्ण्य वचस्तस्याग्निबिंदोस्तपसां निधेः ।।

उवाच भगवान्विष्णुर्मूर्तिभेदाननुक्रमात ।। १३ ।।

याञ्श्रुत्वापि हि नो मर्त्यो यमगोचरतां व्रजेत् ।।

केशवादींश्चतुर्विंशद्भेदानाह प्रजापतिः ।। १४ ।।

।। श्रीविष्णुरुवाच ।। ।।

अग्निबिंदो महाप्राज्ञ शृणु ते कथयाम्यहम् ।।

आद्यदक्षिणहस्ताच्च विद्धि सृष्टिक्रमान्मुने ।। १५ ।।

शंखचक्रगदापद्मैर्मूर्तिं जानीहि कैशवीम् ।।

पूजिता या नृणां कुर्याच्चिंतितार्थमसंशयम्।। ।। १६ ।।

मधुहा परिचेतव्यः शंखपद्मगदासिभिः ।।

वैरिणो नाशमायांति तन्मूर्तिपरिसेवनात् ।। १७ ।।

संकर्षणः समर्च्योत्र शंखाब्जारिगदायुधः ।।

तन्मूर्तिपूजनाज्जातु जंतुर्न स्यात्पुनर्भवी ।। १८ ।।

शंखकौमोदकीचक्रपद्मैर्दामोदरोर्च्यते ।।

ददाति वित्तं पुत्रांश्च गोधनं धान्यमेव हि ।। १९ ।।

वामनः शंखचक्राब्जगदाभिरुपलक्षितः ।।

लक्ष्मीवंतं जनं कुर्याद्गृहेपि परिधारितः ।। 4.2.61.२२० ।।

पांचजन्यं गदांपद्मं चित्रमूर्ति सुदर्शनम् ।।

प्रद्युम्नः पूज्यते मर्त्यैर्बहुद्युम्नं प्रयच्छति ।। २१ ।।

ऊर्ध्ववामकरात्सृष्ट्या विष्ण्वाद्यं षट्कमुच्यते ।।

यस्य स्मरणमात्रेण विलीयंतेघराशयः ।। २२ ।।

शंखारिभ्यां गदाब्जाभ्यां पूज्यो विष्णुः श्रिये नरैः ।।

शंखपद्मगदाचक्रैर्माधवः परमर्द्धिदः ।। २३ ।।

ध्येयोऽनिरुद्धः संसिद्ध्यै शंखाब्जारिगदोद्यतः ।।

शंखेन गदया चक्रांबुजाभ्यां पुरुषोत्तमः ।। ।। २४ ।।

अधोक्षजो जनिहरः शंखार्यब्जगदो मुने ।।

शंखकौमोदकीपद्मचक्रैर्ध्येयो जनार्दनः ।। २५ ।।

अधोवामकरात्सृष्ट्या षडगोंविदादि मूर्तयः ।।

शंखं चक्रं गदां पद्मं गोविंदो बिभृयात्सदा ।। २६ ।।

शंखपद्मगदाचक्रैरर्च्यो लक्ष्म्यै त्रिविक्रमः ।।

शंखाब्जचक्रं बिभ्राणो गदावाञ्श्रीधरः श्रिये ।। २७ ।।

हृषीकेशश्च शंखेन गदाचक्रांबुजैर्मतः ।।

नृसिंहः शंखचक्राभ्यां पद्मेन गदयोह्यते ।।२८।।

अच्युत शंखभृन्नित्यं गदापद्मरथांगवान् ।।

दक्षिणाधः करादूह्या वासुदेवादयश्च षट् ।।२९।।

वासुदेवश्च शंखारि गदाजलजभृत्सदा।।

शंखांबुज गदाचक्री ध्येयो नारायणो नृभिः ।।4.2.61.२३०।।

thumb|गदाधर नारायण

शंखी पद्मी पद्मनाभो ज्ञेयश्चक्री गदी मुने ।।

उपेंद्रः शंखवान्नित्यं गदारि कमलायुधः ।। ३१ ।।

हरिर्हरेदघं शंखी चक्री पद्मी गदी नृणाम् ।।

शंखेन गदया पद्मचक्राभ्यां कृष्ण उच्यते ।।३२।।

एते भेदा मया ख्याताः स्वमूर्तीनां महामुने ।।

यान्विज्ञाय ध्रुवं मर्त्यो भुक्तिं मुक्तिं च विंदति ।। ३३ ।।

एवं वदति गोविंदे मुनये चाग्निबिंदवे ।।

पक्षींद्रः पक्षविक्षिप्तविपक्षोऽक्षिपथं गतः ।। ३४ ।।

प्राह च प्रणिपत्याशु त्र्यक्षस्यागमनं मुदा ।।

संभ्रमेण हृषीकेशः क्वेश इत्यवदत्ततः ।।३५।।

।। गरुड उवाच ।। ।।

प्रत्यक्षः क्रियतामेष महावृषभकेतनः ।।

यस्य ध्वजस्य रत्नार्चिः पूरयेद्रोदसीमिमाम् ।। ३६ ।।

लोकलोचननिर्माण सफलीकरणक्षमम् ।।

कोटिमार्तंडविद्योत प्रद्योतित दिगाननम् ।। ३७ ।।

निरीक्ष्य पुंडरीकाक्षस्त्र्यक्षस्य वृषभध्वजम् ।।

विमानिनां विमानौघैः परीतगगनांगणम् ।। ३८ ।।

महावाद्यनि नादौघैःप्रतिस्वानित कंदरम् ।।

विद्याधरी परिक्षिप्त पुष्पांजलि सुगंधितम् ।।३९।।

प्रणम्य दूरादपिच संप्रहृष्टतनूरुहः ।।

अभ्युत्थातुं मनश्चक्रे शंखचक्रगदाधरः ।। 4.2.61.२४० ।।

अग्निबिंदुमथ प्राह मुक्तिदस्तु मुदांनिधिः ।।

इदं सुदर्शनं चक्रं स्पृशासव्येनपाणिना ।। ४१ ।।

अग्निबिंदुरितिप्रोक्तः स्पृशेद्यावत्सुदर्शनम्।।

तावत्सुदर्शनो जातः परमानुग्रहाद्धरेः ।। ४२ ।।

।। स्कंद उवाच ।। ।।

ज्योतीरूपोथ स मुनिः कौस्तुभे ज्योतिषां तनौ ।।

एकीभूतः कलशज बिंदुमाधवसेवनात्।। ४३ ।।

बिंदुमाधवपादाब्ज भ्रमरीकृतमानसाः ।।

अग्निबिंदूपमांयांति कलशोद्भव निश्चितम् ।। ४४ ।।

काश्यां सदैव वस्तव्यं द्रष्टव्यो बिंदुमाधवः ।।

श्रोतव्यमिदमाख्यानं जेतव्या जगतां गतिः ।।४५।।

पुण्या पंचनदोत्पत्तिः पुण्या माधवसंकथा ।।

पुण्यो वाराणसी वासः संभवेत्पुण्यजन्मनाम्।। ४६ ।।

अग्निबिंदोः स्तुतिं योत्र माधवाग्रे पठिष्यति ।।

समृद्धसर्वकामः स मोक्षलक्ष्मीपतिर्भवेत् ।। ४७ ।।

श्राद्धकाले सदा जप्यमिदमाख्यानमुत्तमम् ।।

द्विजानां भुंजमानानां पुरस्तात्परतृप्तये ।। ४८ ।।

जप्तव्यमिदमाख्यानं पर्वकाले विशेषतः ।।

पुण्ये पंचनदाभ्याशे पुण्यलक्ष्मीविवृद्धये ।। ४९ ।।

पठितव्यः प्रयत्नेन बिंदुमाधवसंभवः ।।

श्रोतव्यः परया भक्त्या भुक्तिमुक्तिसमृद्धये ।।4.2.61.२५०।।

संप्राप्ते वासरे विष्णो रात्रौ जागरणान्वितः ।।

श्रुत्वाख्यानमिदं पुण्यं वैकुंठे वसतिं लभेत् ।। २५१ ।। ।।

इति श्रीस्कांदे महापुरण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्द्धे बिंदुमाधवाविर्भावो माधवाग्निबिंदुसंवाद वैष्णवतीर्थमाहात्म्यवर्णनं नामैकषष्टितमोध्यायः ।। ६१ ।। ।। ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 62

।। अगस्त्य उवाच ।।

श्रुत्वा स्कंद न तृप्तोस्मि तव वक्त्रेरितां कथाम् ।।

अत्याश्चर्यकरं प्रोक्तमाख्यानं बैंदुमाधवम् ।। १ ।।

इदानीं श्रोतुमिच्छामि देवदेवसमागमम् ।।

तार्क्ष्यात्त्र्यक्षः समाकर्ण्य दिवोदासस्य चेष्टितम् ।।२ ।।

विष्णुमायाप्रपंचं च किमाह गरुडध्वजम् ।।

के के च शंभुना सार्धं समीयुर्मंदराद्गिरेः ।।३।।

ब्रह्मणेशः कथं दृष्टस्त्रपाकुलित चक्षुषा ।।

किमाह देव ब्रह्माणं किमुक्तं भास्वतापि च ।। ४ ।।

योगिनीभिः किमाख्यायि गणाह्रीणाः किमब्रुवन् ।।

एतदाख्याहि मे स्कंद महत्कौतूहलं मयि ।।५।।

इमं प्रश्नं निशम्यैशिर्मुनेः कलशजन्मनः ।।

प्रत्युवाच नमस्कृत्य शिवौ प्रणतसिद्धिदौ।।६।।

।। स्कंद उवाच ।। ।।

मुने शृणु कथामेतां सर्वपातकनाशिनीम्।।

अशेषविघ्नशमनीं महाश्रेयोभिवर्धिनीम्।। ७ ।।

अथ देवोऽसुररिपुः श्रुत्वा शंभुसमागमम् ।।

द्विजराजाय स मुदा समदात्पारितोषिकम् ।। ८ ।।

आयानं शंसते शंभोरुपवाराणसिप्रियम् ।।

ब्रह्माणमग्रतः कृत्वा ततश्चाभ्युद्ययौ हरिः ।। ९ ।।

विवस्वता समेतश्च तैर्गणैः परितो वृतः ।।

योगिनीभिरनूद्यातो गणेशमुपसंस्थितः ।। 4.2.62.१० ।।

अथनेत्रातिथीकृत्य देवदेवं वृषध्वजम् ।।

मंक्षु तार्क्ष्यादवारुह्य प्रणनाम श्रियः पतिः ।। ११ ।।

पितामहोपि स्थविरो भृशं नम्रशिरोधरः ।।

प्रणतेन मृडेनैव प्रणमन्विनिवारितः ।। १२ ।।

स्वस्त्यभ्युदितपाणिश्च रुद्रसूक्तैरमंत्रयत् ।।

अक्षतान्यथ सार्द्राणि दर्शयन्सफलान्यजः ।। १३।।

मौलिं पादाब्जयोः कृत्वा गणेशः सत्वरो नतः ।।

मूर्ध्न्युपाजिघ्रयांचक्रे हरो हर्षाद्गजाननम् ।। १४ ।।

अभ्युपावेशयच्चापि परिष्वज्य निजासने ।।

सोमनंदि प्रभृतयः प्रणेमुर्दंडवद्गणाः ।। १५ ।।

योगिन्योपि प्रणम्येशं चक्रुर्मंगलगायनम् ।।

तरणिः प्रणनामाथ प्रमथाधिपतिं हरम् ।। १६ ।।

खंडेंदुशेखरश्चाथ उपसिंहासनं हरिम् ।।

समुपावेशयद्वामपार्श्वे मानपुरःसरम् ।। १७ ।।

ब्रह्माणं दक्षिणे भागे परिविश्राणितासनम् ।।

दृष्ट्वा संभाविताः सर्वे शर्वेण प्रणता गणाः ।। १८।।

मौलिचालनमात्रेण योगिन्योपि प्रसादिताः ।।

संतोषितो रविश्चापि विशेति करसंज्ञया ।। १९ ।।

अथ शंभुं शतधृतिः प्रबद्धकरसंपुटः ।।

परिविज्ञापयांचक्रे प्रसन्नवदनांबुजम् ।। 4.2.62.२० ।।

।। ब्रह्मोवाच ।। ।।

भगवन्देवदेवेश क्षंतव्यं गिरिजापते ।।

वाराणसीं समासाद्य यदहं नागतः पुनः ।। २१ ।।

प्रसंगतोपि कः काशीं प्राप्य चंद्रविभूषण ।।

किंचिद्विधातुं शक्तोपि त्यजेत्स्थविरतां दधत्।। २२ ।।

स्वरूपतो ब्राह्मणत्वादपाकर्तुं न शक्यते ।।

अथ शक्तो व्यपाकर्तुं कः पुण्ये संचिकीर्षति ।। २३।।

विभोरपि समाज्ञेयं धर्मवर्त्मानुसारिणि ।।

न किंचिदपकर्तव्यं जानता केनचित्क्वचित ।। २४।।

कस्तादृशि महीजानौ पुण्यवर्त्मन्यतंद्रिते ।।

काशीपाले दिवोदासे मनागपि विरुद्धधीः ।।२५।।

निशम्येति वचस्तुष्टः श्रीकंठोति विशुद्धधीः ।।

हसन्प्रोवाच धातारं ब्रह्मन्सर्वमवैम्यहम् ।।२६।।

।। देवदेव उवाच ।। ।।

आदौ तावददोषं हि ब्रह्मत्वं ब्राह्मणस्य ते ।।

वाजिमेधाध्वराणां च ततोपि दशकं कृतम् ।। २७ ।।

ततोपि विहितं ब्रह्मन्भवता परमं हितम् ।।

अपराधसहस्राणि यल्लिंगं स्थापितं मम ।।२८।।

येनैकमपि मे लिंगं स्थापितं यत्र कुत्रचित् ।।

तस्यापराधलेशोपि नास्ति सर्वापराधिनः ।। २९।।

अपराधसहस्रेपि ब्राह्मणं योपराध्नुयात् ।।

दिनैः कतिपयैरेव तस्यैश्वर्यं विनश्यति ।। 4.2.62.३० ।।

इति ब्रुवति देवेशेप्यंतरुच्छ्वसितं गणैः ।।

समातृभिः समंताच्च विलोक्यास्यं परस्परम् ।। ३१ ।।

अर्कोप्यवसरं ज्ञात्वा नत्वा शंभुं व्यजिज्ञपत् ।।

प्रसन्नास्यमुमाकांतं दृष्ट्वा दृष्टचराचरः ।। ३२ ।।

।। अर्क उवाच ।। ।।

नाथ काशीमितो गत्वा यथाशक्ति कृतोपधिः ।।

अकिंचित्करतां प्राप्तः सहस्रकरवानपि ।। ३३ ।।

स्वधर्मपालके तस्मिन्दिवोदासे धरापतौ ।।

निश्चितागमनं ज्ञात्वा देवस्याहमिह स्थितः ।।३४।।

प्रतीक्षमाणो देवेश त्वदामनमुत्तमम्।।

विभज्य बहुधात्मानं त्वदाराधनतत्परः ।। ३५ ।।

मनोरथद्रुमश्चाद्य फलितः श्रीमदीक्षशात् ।।

किंचिद्भक्तिलवांभोभिः सिक्तो ध्यानेन पुष्पितः ।। ३६ ।।

इत्युदीरितमाकर्ण्य रवेर्वैरविलोचनः ।।

प्रोवाच देवदेवेशो नापराध्यसि भास्कर ।।३७।।

ममैव कार्यं विह्तिं त्वं यदत्र व्यवस्थितः ।।

यस्यां सुरप्रवेशो न तस्मिन्राजनि शासति ।। ३८ ।।

इति सूरं समाश्वास्य देवदेव कृपानिधिः ।।

गणानाश्वासयामास व्रीडा नम्रशिरोधरान् ।।३९।।

योगिन्योपि सुदृष्ट्वाथ शंभुना संप्रसादिताः ।।

त्रपाभरसमाक्रांत कंधरा इव सं गताः ।। 4.2.62.४० ।।

ततो व्यापारयांचक्रे त्र्यक्षो नेत्राणि चक्रिणि ।।

हरिर्न किंचिदप्यूचे सर्वज्ञाग्रे महामनाः ।। ४१ ।।

ईशोपि श्रुतवृत्तांतस्तार्क्ष्याद्गणप शार्ङ्गिणोः ।।

मनसैव प्रसन्नोभून्न किंचित्पर्यभाषत ।। ४२ ।।

एतस्मिन्नंतरे प्राप्ता गोलोकात्पंच धेनवः ।।

सुनंदा सुमनाश्चापि सुशीला सुरभिस्तथा ।। ।। ४३ ।।

पंचमी कपिला चापि सर्वाघौघविघट्टिनी ।।

वात्सल्यदृष्ट्या भर्गस्य तासामूधांसि सुस्रुवुः।।४४।।

ववर्षुः पयसां पूरैस्तदूधांसि पयोधराः ।।

धारासारैरविच्छिन्नैस्तावद्यावद्ध्रदोऽभवत् ।।४५।।

पयःपयोधिरिव स द्वितीयः प्रैक्षि पार्षदैः ।।

देवेश समधिष्ठानात्तत्तीर्थमभवत्परम् ।।४६।।

कपिला ह्रद इत्याख्यां चक्रे तस्य महेश्वरः ।।

ततो देवाज्ञया सर्वे स्नातास्तत्र दिवौकसः ।। ४७ ।।

आविरासुस्ततस्तीर्थादथ दिव्यपितामहाः ।।

तान्दृष्ट्वा ते सुराः सर्वे तर्पयांचक्रिरे मुदा ।। ४८ ।।

अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।।

इत्याद्या दिव्यपितरस्तृप्ताः शंभुं व्यजिज्ञपन् ।।४९।।

देवदेव जगन्नाथ भक्तानामभयप्रद ।।

अस्मिंस्तीर्थे त्वदभ्याशाज्जाता नस्तृप्तिरक्षया ।। 4.2.62.५० ।।

तस्माच्छंभो वरं देहि प्रसन्नेनांतरात्मना ।।

इति दिव्यपितॄणां स श्रुत्वा वाक्यं वृषध्वजः ।। ५१ ।।

शृण्वतां सर्वदेवानामिदं वचनमब्रवीत् ।।

शर्वः सर्वपितॄणां वै परतृप्तिकरं परम् ।। ५२ ।।

।। श्रीदेवदेव उवाच ।। ।।

शृणु विष्णो महाबाहो शृणु त्वं च पि तामह ।।

एतस्मिन्कापिले तीर्थे कापिलेय पयोभृते ।। ५३ ।।

ये पिंडान्निर्वपिष्यंति श्रद्धया श्राद्धदानतः ।।

तेषां पितॄणां संतृप्तिर्भविष्यति ममाज्ञया ।।५४।।

अन्यं विशेषं वक्ष्यामि महातृप्तिकरं परम् ।।

कुहूसोमसमायोगे दत्तं श्राद्धमिहाक्षयम्।।५५।।

संवर्तकाले संप्राप्ते जलराशिर्जलान्यपि ।।

क्षीयंते न क्षयत्यत्र श्राद्धं सोमकुहू कृतम् ।। ५६।।

अमासोमसमायोगे श्राद्धं यद्यत्र लभ्यते ।।

तीर्थे कापिलधारेस्मिन्गयया पुष्करेण किम् ।। ५७ ।।

गदाधरभवान्यत्र यत्र त्वं च पितामह ।।

वृषध्वजोस्म्यहं यत्र फल्गुस्तत्र न संशयः ।। ५८ ।।

दिव्यांतरिक्षभौमानि यानि तीर्थानि सर्वतः ।।

तान्यत्र निवसिष्यंति दर्शे सोमदिनान्विते ।। ९९ ।।

कुरुक्षेत्रे नैमिषे च गंगासागरसंगमे ।।

ग्रहणे श्राद्धतो यत्स्यात्तत्तीर्थे वार्षभध्वजे ।। 4.2.62.६० ।।

अस्य तीर्थस्य नामानि यानि दिव्य पितामहाः ।।

तान्यहं कथयिष्यामि भवतां तृप्तिदान्यलम् ।।६१।।

मधुस्रवेति प्रथममेषा पुष्करिणी स्मृता ।।

कृतकृत्या ततो ज्ञेया ततोऽसौ क्षीरनीरधिः ।। ६२ ।।

वृषभध्वजतीर्थं च तीर्थं पैतामहं ततः ।।

ततो गदाधराख्यं च पितृतीर्थं ततः परम् ।। ।। ६३ ।।

ततः कापिलधारं वै सुधाखनिरियं पुनः ।।

ततः शिवगयाख्यं च ज्ञेयं तीर्थमिदं शुभम् ।।६४।।

एतानि दश नामानि तीर्थस्यास्य पितामहाः ।।

भवतां तृप्तिकारीणि विनापि श्राद्धतर्पणैः ।। ६५ ।।

सूर्येंदु संगमे येत्र पितॄणां तृप्तिकामुकाः ।।

ब्राह्मणान्भोजयिष्यंति तेषां श्राद्धमनंतकम् ।। ६६ ।।

श्राद्धे पितॄणां संतृप्त्यै दास्यंति कपिलां शुभाम् ।।

येत्र तेषां पितृगणो वसेत्क्षीरोदरोधसि ।। ६७ ।।

वृषोत्सर्गः कृतो यैस्तु तीर्थेस्मिन्वार्षभध्वजे ।।

अश्वमेधपुरोडाशैः पितरस्तेन तर्पिताः ।। ६८ ।।

गयातोष्टगुणं पुण्यमस्मिंस्तीर्थे पितामहाः ।।

अमायां सोमयुक्तायां श्राद्धैः कापिलधारिके ।। ६९ ।।

येषां गर्भेऽभवत्स्रावो येऽ दंतजननामृताः ।।

तेषां तृप्तिर्भवेन्नूनं तीर्थे कापिलधारिके।। 4.2.62.७० ।।

अदत्तमौंजीदाना ये ये चादारपरिग्रहाः ।।

तेभ्यो निर्वापितं पिंडमिह ह्यक्षयतां व्रजेत् ।। ।। ७१ ।।

अग्निदाहमृता ये वै नाग्निदाहश्च येषु वै ।।

ते सर्वे तृप्तिमायांति तीर्थे कापिलधारिके ।। ७२ ।।

और्द्ध्वदैहिकहीना ये षोडश श्राद्धवर्जिताः ।।

ते तृप्तिमधिगच्छंति घृतकुल्यां निवापतः ।। ७३ ।।

अपुत्राश्च मृता ये वै येषां नास्त्युकप्रदः ।।

तेपि तृप्तिं परां यांति मधुस्रवसि तर्पिताः ।। ७४ ।।

अपमृत्युमृता ये वै चोरविद्युज्जलादिभिः ।।

तेषामिह कृतं श्राद्धं जायते सुगतिप्रदम् ।। ७५ ।।

आत्मघातेन निधनं यैषामिहविकमर्णाम् ।।

तेपि तृप्तिं लभंतेत्र पिंडैः शिवगयाकृतैः।। ।। ७६ ।।

पितृगोत्रे मृता ये वै मातृपक्षे च ये मृताः ।।

तेषामत्र कृतः पिंडो भवेदक्षयतृप्तिदः ।। ७७ ।।

पत्नीवर्गे मृता ये वै मित्रवर्गे च ये मृताः ।।

ते सर्वे तृप्तिमायांति तर्पिता वार्षभध्वजे ।। ७८ ।।

ब्रह्मक्षत्रविशां वंशे शूद्रवंशेंऽत्यजेषु च ।।

येषां नामगृहीत्वात्र दीयते ते समुद्धृताः ।। ९ ।।

तिर्यग्योनि मृता ये वै ये पिशाचत्वमागताः ।।

तेप्यूर्ध्वगतिमायांति तृप्ताः कापिलधारिके ।। 4.2.62.८० ।।

ये तु मानुषलोकेस्मिन्पितरो मर्त्ययोनयः ।।

ते दिव्ययोनयः स्युर्वै मधुस्रवसि तर्पिताः ।। ।। ८१ ।।

ये दिव्यलोके पितरः पुण्यैर्देवत्वमागताः ।।

ते ब्रह्मलोके गच्छंति तृप्तास्तीर्थे वृषध्वजे ।। ८२।।

कृते क्षीरमयं तीर्थं त्रेतायां मधुमत्पुनः ।।

द्वापरे सर्पिषा पूर्णं कलौ जलमयं भवेत्।। ८३ ।।

सीमाबहिर्गतमपि ज्ञेयं तीर्थमिदं शुभम् ।।

मध्ये वाराणसि श्रेष्ठं मम सान्निध्यतो नरैः ।। ८४ ।।

काशीस्थितैर्यतो दर्शि ध्वजो मेषवृषलांछनः ।।

वृषध्वजेन नाम्नातः स्थास्याम्यत्र पितामहाः।। ८५ ।।

पितामहेन सहितो गदाधरसमन्वितः ।।

रविणा पार्षदैः सार्धं तुष्टये वः पितामहाः ।। ८६ ।।

इति यावद्वरं दत्ते पितृभ्यो वृषभध्वजः ।।

तावन्नदी समागत्य प्रणम्येशं व्यजिज्ञपत् ।।८७।।

।। नंदिकेश्वर उवाच ।। ।।

विहितः स्यदनः सज्जस्ततोस्तु विजयोदयः ।।

अष्टौ कंठीरवा यत्र यत्रोक्ष्णामष्टकं शुभम् ।। ८८ ।।

यत्रेभाः परिभांत्यष्टौ यत्राष्टौ जविनो हयाः ।।

मनः संयमनं यत्र कशापाणि व्यवस्थितम् ।। ८९ ।।

गंगायमुनयोरीषे चक्रे पवनदेवता ।।

सायंप्रातर्मये चक्रे छत्रं द्यौर्मंडलं शुचि ।।4.2.62.९०।।

तारावलीमयाः कीला आहेया उपनायकाः ।।

श्रुतयो मार्गदर्शिन्यः स्मृतयो रथगुप्तयः ।। ९१ ।।

दक्षिणाधूर्दृढा यत्र मखा यत्राभिरक्षकाः ।।

आसनं प्रणवो यत्र गायत्रीपादपीठभूः ।। ९२ ।।

सांगा व्याहृतयो यत्र शुभा सोपानवीथिकाः ।।

सूर्याचंद्रमसौ यत्र सततं द्वाररक्षकौ ।।९३।।

अग्निर्मकरतुंडश्च रथभूः कौमुदीमयी ।।

ध्वजदंडो महामेरुः पताका हस्करप्रभा ।। ९४ ।।

स्वयं वाग्देवता यत्र चंचच्चामरधारिणी ।।

।। स्कंद उवाच ।। ।।

शैलादिनेति विज्ञप्तो देवदेव उमापतिः ।। ९५ ।।

कृतनीराजनविधिरष्टभिर्देवमातृभिः ।।

पिनाकपाणिरुत्तस्थौ दत्तहस्तोथ शार्ङ्गिणा ।। ९६ ।।

निनादो दिव्यवाद्यानां रोदसी पर्यपूरयत् ।।

गीतमंगलगीर्भिश्च चारणैरनुवर्धितः ।। ९७ ।।

तेन दिव्यनिनादेन बधिरीकृतदिङ्मुखाः ।।

आहूता इव आजग्मुर्विष्वग्भुवनवासिनः ।। ९८ ।।

देवाकोट्यस्त्रयस्त्रिंशद्गणाः कोट्ययुतद्वयम् ।।

नवकोट्यस्तु चामुंडा भैरव्यः कोटिसंमिताः ।। ९९ ।।

षडाननाः कुमाराश्च मयूरवरवाहनाः ।।

ममानुगाः समायाताः कोटयोष्टौ महाबलाः ।। 4.2.62.१०० ।।

आययुः कोटयः सप्त स्फुरत्परशुपाणयः ।।

पिचंडिला महावेगा विघ्नविघ्ना गजाननाः ।। १ ।।

षडशीतिसहस्राणि मुनयो ब्रह्मवादिनः ।।

तावतोपि समाजग्मुस्तत्रत्ये गृहमेधिनः ।। २ ।।

नागानां कोटयस्तिस्रः पातालतलवासिनाम् ।।

दानवानां च दैत्यानां द्वे द्वे कोटी शिवात्मनाम् ।। ३ ।।

गंधर्वा नियुतान्यष्टौ कोट्यर्धं यक्षरक्षसाम् ।।

विद्याधराणामयुतं नियुतद्वयसंयुतम् ।। ४ ।।

तथा षष्टिसहस्राणि दिव्याश्चाप्सरसः शुभाः ।।

गोमातरोऽष्टौ लक्षाणि सुपर्णान्ययुतानि षट् ।। ५ ।।

सागराः सप्त संप्राप्ता नानारत्नोपदप्रदाः ।।

सरितां च सहस्राणि त्रीणि पंचायुतानि च ।। ६ ।।

गिरयोऽष्टौ सहस्राणि वनस्पतिशतत्रयम्।।

आजग्मुर्दिग्गजा अष्टौ यत्र देवः पिनाकधृक् ।।७।।

एतैः समेतः संतुष्टः परिष्टुत इतस्ततः ।।

श्रीकंठो रथमारुह्य काशीं प्राविशदुत्तमाम् ।।।७।।।

स गिरींद्रसुतस्त्र्यक्षो मुदां धाम मुदां खनिः ।।

काशीं प्रैक्षिष्ट संहृष्टस्त्रिविष्टप समुत्कटाम् ।।९।।

।। स्कंद उवाच ।। ।।

श्रुत्वाख्यानमिदं पुण्यं कोटिजन्माघनाशनम् ।।

पठित्वा पाठयित्वा च शिवसायुज्यमाप्नुयात् ।। 4.2.62.११० ।।

श्राद्धकाले विशेषेण पठनीयं प्रयत्नतः ।।

अक्षयं तद्भवेच्छ्राद्धं पितृतुष्टिकरं परम् ।। ११ ।।

वृषभध्वज माहात्म्यं पठित्वा शिवसन्निधौ ।।

प्रत्यहं वर्षमात्रं तु ह्यपुत्रः पुत्रवान्भवेत् ।। १२ ।।

विश्वेशितुः संप्रवेशो यः काश्यां समुदाहृतः ।।

परमानंदकंदस्य बीजमेतत्सुनिश्चितम् ।। १३ ।।

पठित्वैतन्मुदाख्यानं प्रविशेद्यो नवं गृहम् ।।

स सर्वसौख्यनिलयो भवेदेव न संशयः ।।१४।।

त्रैलोक्यानंदजनकमेतदाख्यानमुत्तमम् ।।

अस्य श्रवणमात्रेण विश्वेशः संप्रसीदति ।। १५ ।।

अलभ्यलाभो देवस्य जातोत्र हि यतः परः ।।

ततः काशी प्रवेशाख्यं जप्यमाख्यानमुत्तमम् ।। ११६ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्द्धे वृषभध्वजप्रादुर्भावोनाम द्विषष्टितमोऽध्यायः ।। ६२ ।। ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 63

अगस्त्य उवाच ।। ।।

दृष्ट्वा काशीं दृगानंदां तारकारे पुरारिणा ।।

किमकारि समाचक्ष्व प्राप्तां बहुमनोरथैः ।। १ ।।

।। स्कंद उवाच ।। ।।

पतिव्रतापते ऽगस्त्य शृणु वक्ष्याम्यशेषतः ।।

मृगांकलक्ष्मणोत्कंठं काशी नेत्रातिथीकृता ।। २ ।।

अथ सर्वज्ञनाथेन भक्तवत्सलचेतसा ।।

जैगीषव्यो मुनिश्रेष्ठो गुहां तस्थो निरीक्षितः ।। ३ ।।

यमनेहसमारभ्य मदंराद्रिं विनिर्ययौ ।।

अद्रींद्र सुतया सार्धं रुद्रेणोक्षेंद्रगामिना ।। ४ ।।

तं वासरं पुरस्कृत्य जग्राह नियमं दृढम् ।।

जैगीषव्यो महामेधाः कुंभयोने महाकृती ।।५।।

विषमेक्षण पादाब्जं समीक्षिष्ये यदा पुनः ।।

तदांबुविप्रुषमपि भक्षयिष्यामि चेत्यहो ।।६।।

कुतश्चिद्धारणायोगादथवा शंभ्वनुग्रहात ।।

अनश्नन्नपिबन्योगी जैगीषव्यः स्थितो मुने ।। ७ ।।

तं शंभुरेव जानाति नान्यो जानाति कश्चन ।।

अतएव ततः प्राप्तः प्रथमं प्रमथाधिपः ।। ८ ।।

ज्येष्ठशुक्लचतुर्दश्यां सोमवारानुराधयोः ।।

तत्पर्वणि महायात्रा कर्तव्या तत्र मानवैः ।। ९ ।।

ज्येष्ठस्थानं ततः काश्यां तदाभूदपि पुण्यदम् ।।

तत्र लिंगं समभवत्स्वयं ज्येष्ठेश्वराभिधम् ।। 4.2.63.१० ।।

तल्लिंगदर्शनात्पुंसां पापं जन्मशतार्जितम् ।।

तमोर्कोदयमाप्येव तत्क्षणादेव नश्यति ।।११।।

ज्येष्ठवाप्यां नरः स्नात्वा तर्पयित्वा पितामहान् ।।

ज्येष्ठेश्वरं समालोक्य न भूयो जायते भुवि ।। १२ ।।

आविरासीत्स्वयं तत्र ज्येष्ठेश्वर समीपतः ।।

सर्वसिद्धिप्रदा गौरी ज्येष्ठाश्रेष्ठा समंततः ।। १३ ।।

ज्येष्ठे मासि सिताष्टम्यां तत्र कार्यो महोत्सवः ।।

रात्रौ जागरणं कार्यं सर्वसंपत्समृद्धये ।। १४ ।।

ज्येष्ठां गौरीं नमस्कृत्य ज्येष्ठवापी परिप्लुता ।।

सौभाग्यभाजनं भूयाद्योषा सौभाग्यभागपि।। १५ ।।

निवासं कृतवाञ्शंभुस्तस्मिन्स्थाने यतः स्वयम् ।।

निवासेश इति ख्यातं लिंगं तत्र परं ततः ।। ।। १६ ।।

निवासेश्वरलिंगस्य सेवनात्सर्वसंपदः ।।

निवसंति गृहे नित्यं नित्यं प्रतिपदं पुनः ।। १७ ।।

कृत्वा श्राद्धं विधानेन ज्येष्ठस्थाने नरोत्तमः ।।

ज्येष्ठां तृप्तिं ददात्येव पितृभ्यो मधुसर्पिषा ।। १८ ।।

ज्येष्ठतीर्थे नरः काश्यां दत्त्वा दानानि शक्तितः ।।

ज्येष्ठान्स्वर्गानवाप्नोति नरो मोक्षं च गच्छति ।। १९ ।।

ज्येष्ठेश्वरो र्च्यः प्रथमं काश्यां श्रेयोर्थिभिर्नरैः ।।

ज्येष्ठागौरी ततोभ्यर्च्या सर्वज्येष्ठमभीप्सुभिः ।। 4.2.63.२० ।।

अथ नंदिनमाहूय धूर्जटिः स कृपानिधिः ।।

शृण्वतां सर्वदेवानामिदं वचनमब्रवीत् ।। २१ ।।

।। ईश्वर उवाच ।। ।।

शैलादे प्रविशाशु त्वं गुहास्त्यत्र मनोहरा ।।

तदंतरेस्ति मे भक्तो जैगीषव्यस्तपोधनः ।। २२ ।।

महानियमवान्नंदिस्त्वगस्थिस्नायु शेषितः ।।

तमिहानय मद्भक्तं मद्दर्शन दृढव्रतम् ।। २३ ।।

यदाप्रभृत्यगां काश्या मंदरं सर्वसुंदरम् ।।

महानियमवानेष तदारभ्योज्झिताशनः ।। २४ ।।

गृहाण लीलाकमलमिदं पीयूषपोषणम् ।।

अनेन तस्य गात्राणि स्पृश सद्यः सुबृंहिणा ।। २५ ।।

ततो नंदी समादाय तल्लीलाकमलं विभोः ।।

प्रणम्य देवदेवेशमाविशद्गह्वरां गुहाम् ।।२६।।

नंदी दृष्ट्वाथ तं तत्र धारणादृढमानसम् ।।

तपोग्नि परिशुष्कांगं कमलेन समस्पृशत् ।। २७ ।।

तपांते वृष्टिसंयोगाच्छालूर इव कोटरे ।।

उल्ललास स योगींद्रः स्पर्शमात्रात्तदब्जजात् ।। २८ ।।

अथ नंदी समादाय सत्वरं मुनिपुंगवम् ।।

देवदेवस्य पादाग्रे नमस्कृत्य न्यपातयत् ।। २९ ।।

जैगीषव्योथ संभ्रांतः पुरतो वीक्ष्य शंकरम् ।।

वामांगसन्निविष्टाद्रितनयं प्रणनाम ह ।। 4.2.63.३० ।।

प्रणम्य दंडवद्भूमौ परिलुठ्य समंततः ।।

तुष्टाव परया भक्त्या स मुनिश्चंद्रशेखरम् ।।३१।।

।। जैगीषव्य उवाच ।। ।।

नमः शिवाय शांताय सर्वज्ञाय शुभात्मने।।

जगदानंदकंदाय परमानंदहेतवे ।। ३२ ।।

अरूपाय सरूपाय नानारूपधराय च ।।

विरूपाक्षाय विधये विधिविष्णुस्तुताय च ।।३३।।

स्थावराय नमस्तुभ्यं जंगमाय नमोस्तुते ।।

सर्वात्मने नमस्तुभ्यं नमस्ते परमात्मने ।। ३४ ।।

नमस्त्रैलोक्यकाम्याय कामांगदहनाय च ।।

नमो शेषविशेषाय नमः शेषांगदाय ते ।। ।। ३५ ।।

श्रीकंठाय नमस्तुभ्यं विषकंठाय ते नमः ।।

वैकुंठवंद्यपादाय नमोऽकुंठितशक्तये ।।३६।।

नमः शक्त्यर्धदेहाय विदेहाय सुदेहिने ।।

सकृत्प्रणाममात्रेण देहिदेहनिवारिणे।। ३७ ।।

कालाय कालकालाय कालकूट विषादिने ।।

व्यालयज्ञोपवीताय व्यालभूषणधारिणे ।। ३८ ।।

नमस्ते खंडपरशो नमः खंडें दुधारिणे ।।

खंडिताशेष दुःखाय खड्गखेटकधारिणे ।। ३९ ।।

गीर्वाणगीतनाथाय गंगाकल्लोलमालिने ।।

गौरीशाय गिरीशाय गिरिशाय गुहारणे ।। ।। 4.2.63.४० ।।

चंद्रार्धशुद्धभूषाय चंद्रसूर्याग्निचक्षुषे ।।

नमस्ते चर्मवसन नमो दिग्वसनायते ।। ४१ ।।

जगदीशाय जीर्णाय जराजन्महराय ते ।।

जीवायते नमस्तुभ्यं जंजपूकादिहारिणे ।। ४२ ।।

नमो डमरुहस्ताय धनुर्हस्ताय ते नमः ।।

त्रिनेत्राय नमस्तुभ्यं जगन्नेत्राय ते नमः ।। ४३ ।।

त्रिशूलव्यग्रहस्ताय नमस्त्रिपथगाधर ।।

त्रिविष्टपाधिनाथाय त्रिवेदीपठिताय च ।। ४४ ।।

त्रयीमयाय तुष्टाय भक्ततुष्टिप्रदाय च ।।

दीक्षिताय नमस्तुभ्यं देवदेवाय ते नमः ।। ४५ ।।

दारिताशेषपापाय नमस्ते दीर्घदर्शिने ।।

दूराय दुरवाप्याय दोषनिर्दलनाय च ।। ४६ ।।

दोषाकर कलाधार त्यक्तदोषागमाय च ।।

नमो धूर्जटये तुभ्यं धत्तूरकुसुमप्रिय ।।४७।।

नमो धीराय धर्माय धर्मपालाय ते नमः ।।

नीलग्रीव नमस्तुभ्यं नमस्ते नीललोहित ।। ४८ ।।

नाममात्रस्मृतिकृतां त्रैलोक्यैश्वर्यपूरक ।।

नमः प्रमथनाथाय पिनाकोद्यतपाणये ।। ।। ४९ ।।

पशुपाशविमोक्षाय पशूनां पतये नमः ।।

नामोच्चारणमात्रेण महापातकहारिणे ।। 4.2.63.५० ।।

परात्पराय पाराय परापरपराय च ।।

नमोऽपारचरित्राय सुपवित्रकथाय च ।। ५१ ।।

वामदेवाय वामार्धधारिणे वृषगामिने ।।

नमो भर्गाय भीमाय नतभीतिहराय च ।। ५२ ।।

भवाय भवनाशाय भूतानांपतये नमः ।।

महादेव नमस्तुभ्यं महेश महसांपते ।। ५३ ।।

नमो मृडानीपतये नमो मृत्युंजयाय ते ।।

यज्ञारये नमस्तुभ्यं यक्षराजप्रियाय च ।। ५४।।

यायजूकाय यज्ञाय यज्ञानां फलदायिने ।।

रुद्राय रुद्रपतये कद्रुद्राय रमाय च ।। ५५ ।।

शूलिने शाश्वतेशाय श्मशानावनिचारिणे ।।

शिवाप्रियाय शर्वाय सर्वज्ञाय नमोस्तु ते ।। ५६ ।।

हराय क्षांतिरूपाय क्षेत्रज्ञाय क्षमाकर ।।

क्षमाय क्षितिहर्त्रे च क्षीरगौराय ते नमः ।। ५७ ।।

अंधकारे नमस्तुभ्यमाद्यंतरहिताय च ।।

इडाधाराय ईशाय उपेद्रेंद्रस्तुताय च ।। ५८ ।।

उमाकांताय उग्राय नमस्ते ऊर्ध्वरेतसे ।।

एकरूपाय चैकाय महदैश्वर्यरूपिणे ।। ५९ ।।

अनंतकारिणे तुभ्यमंबिकापतये नमः ।।

त्वमोंकारो वषट्कारो भूर्भुवःस्वस्त्वमेव हि ।।4.2.63.६०।।

दृश्यादृश्य यदत्रास्ति तत्सर्वं त्वमु माधव ।।

स्तुतिं कर्तुं न जानामि स्तुतिकर्ता त्वमेव हि ।। ।। ६१ ।।

वाच्यस्त्वं वाचकस्त्वं हि वाक्च त्वं प्रणतोस्मि ते ।।

नान्यं वेद्मि महादेव नान्यं स्तौमि महेश्वर ।। ६२ ।।

नान्यं नमामि गौरीश नान्याख्यामाददे शिव ।।

मूकोन्यनामग्रहणे बधिरोन्यकथाश्रुतौ ।।६३।।

पंगुरन्याभिगमनेऽस्म्यंधोऽन्यपरिवीक्षणे।।

एक एव भवानीश एककर्ता त्वमेव हि।। ६४ ।।

पाता हर्ता त्वमेवैको नानात्वं मूढकल्पना ।।

अतस्त्वमेव शरणं भूयोभूयः पुनःपुनः ।।६५।।

संसारसागरे मग्नं मामुद्धर महेश्वर ।।

इति स्तुत्वा महेशानं जैगीषव्यो महामुनिः ।। ६६ ।।

वाचंयमो भवत्स्थाणोः पुरतः स्थाणुसन्निभः ।।

इति स्तुतिं समाकर्ण्य मुनेश्चंद्रविभूषणः ।।

उवाच च प्रसन्नात्मा वरं ब्रूहीति तं मुनिम् ।। ६७ ।।

।। जैगीषव्य उवाच ।। ।।

यदि प्रसन्नो देवेश ततस्तव पदांबुजात् ।।

मा भवानि भवानीश दूरं दूरपदप्रद ।।६८।।

अपरश्च वरो नाथ देयोयमविचारतः ।।

यन्मया स्थापितं लिंगं तत्र सान्निध्यमस्तु ते ।।६९।।

।। ईश्वर उवाच ।। ।।

जैगीषव्य महाभाग यदुक्तं भवतानघ ।।

तदस्तु सर्वं तेभीष्टं वरमन्यं ददामि च ।। 4.2.63.७० ।।

योगशास्त्रं मया दत्तं तव निर्वाणसाधकम् ।।

सर्वेषां योगिनां मध्ये योगाचार्योऽस्तु वै भवान् ।। ७१ ।।

रहस्यं योगविद्याया यथावत्त्वं तपोधन ।।

संवेत्स्यसे प्रसादान्मे येन निर्वाणमाप्स्यसि ।। ७२ ।।

यथा नदी यथा भृंगी सोमनंदी यथा तथा ।।

त्वं भविष्यसि भक्तो मे जरामरणवर्जितः ।। ७३ ।।

संति व्रतानि भूयांसि नियमाः संत्यनेकधा ।।

तपांसि नाना संत्यत्र संति दानान्यनेकशः ।। ७४ ।।

श्रेयसां साधनान्यत्र पापघ्नान्यपि सर्वथा ।।

परं हि परमश्चैष नियमो यस्त्वया कृतः ।। ७५।।

परो हि नियमश्चैष मां विलोक्य यदश्यते ।।

मामनालोक्य यद्भुक्तं तद्भुक्तं केवलत्वघम् ।। ७६ ।।

असमर्च्य च यो भुङ्क्ते पत्रपुष्पफलैरपि ।।

रेतोभक्षी भवेन्मूढः स जन्मान्येकविंशतिम् ।। ७७ ।।

महतो नियमस्यास्य भवतानुष्ठितस्य वै ।।

नार्हंति षोडशी मात्रामप्यन्ये नियमा यमाः ।। ७८ ।।

अतो मच्चरणाभ्याशे त्वं निवत्स्यसि सर्वथा ।।

अतो नैःश्रेयसीं लक्ष्मीं तत्रैव प्राप्स्यसि ध्रुवम् ।। ७९ ।।

जैगीषव्येश्वरं नाम लिंगं काश्यां सुदुर्लभम् ।।

त्रीणि वर्षाणि संसेव्य लभेद्योगं न संशयः ।। 4.2.63.८० ।।

जैगीषव्यगुहां प्राप्य योगाभ्यसनतत्परः ।।

षण्मासेन लभेत्सिद्धिं वाञ्छितां मदनुग्रहात् ।। ८१ ।।

तव लिंगमिदं भक्तैः पूजनीयं प्रयत्नतः ।।

विलोक्या च गुहा रम्या परासिद्धिमभीप्सुभिः ।। ८२ ।।

अत्र ज्येष्ठेश्वरक्षेत्रे त्वल्लिंगं सर्वसिद्धिदम् ।।

नाशयेदघसंघानि दृष्टं स्पृष्टं समर्चितम् ।। ८३ ।।

अस्मिञ्ज्येष्ठेश्वरक्षेत्रे संभोज्य शिवयोगिनः ।।

कोटिभोज्यफलं सम्यगेकैकपरिसंख्यया।।८४ ।।

जैगीषव्येश्वरं लिंगं गोपनीयं प्रयत्नतः ।।

कलौ कलुषबुद्धीनां पुरतश्च विशेषतः ।। ८५ ।।

करिष्याम्यत्र सांनिध्यमस्मिँल्लिंगे तपोधन।।

योगसिद्धिप्रदानाय साधकेभ्यः सदैव हि ।।८६।।

ददे शृणु महाभाग जैगीषव्यापरं वरम् ।।

त्वयेदं यत्कृतं स्तोत्रं योगसिद्धिकरं परम् ।। ८७ ।।

महापापौघशमनं महापुण्यप्रवर्धनम् ।।

महाभीतिप्रशमनं महाभक्तिविवर्धनम् ।। ८८ ।।

एतत्स्तोत्रजपात्पुंसामसाध्यं नैव किंचन ।।

तस्मात्सर्वप्रयत्नेन जपनीयं सुसाधकैः ४।। ८९ ।।

इति दत्त्वा वरं तस्मै स्मरारिः स्मेरलोचनः ।।

ददर्श ब्राह्मणां स्तत्र समेतान्क्षेत्रवासिनः ।। 4.2.63.९० ।।

।। स्कंद उवाच ।। ।।

निशम्याख्यानमतुलमेतत्प्राज्ञः प्रयत्नतः ।।

निष्पापो जायते मर्त्यो नोपसर्गैः प्रबाध्यते ।।९१ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे ज्येष्ठेशाख्यानं नाम त्रिषष्टितमोऽध्यायः ।। ६३ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 64

।। अगस्त्य उवाच ।।

दृष्ट्वा भूदेवताः शंभुं किमाचख्युः षडानन ।।

कानिकानि च लिंगानि तत्र तान्यपिचक्ष्व मे ।। १ ।।

ज्येष्ठस्थाने महापुण्ये देवदेवस्य वल्लभे ।।

आश्चर्यं किमभूत्तत्र तदाचक्ष्व षडानन ।।२ ।।

।। स्कंद उवाच ।। ।।

शृण्वगस्त्य यथा पृच्छि भवता तद्ब्रवीम्यहम् ।।

मंदराद्रिं यदा देवो गतवान्ब्रह्मगौरवात् ।। ३ ।।

तदा निराश्रया विप्राः क्षेत्रसंन्यासिनोनघाः ।।

उपाकृताश्चाविरतं महाक्षेत्रप्रतिग्रहात् ।। ४ ।।

खातंखातं च दंडाग्रैर्भूमिं कंदादिवृत्तयः ।।

चक्रुः पुष्करिणीं रम्यां दंडखाताभिधां मुने ।। ५ ।।

तत्तीर्थं परितः स्थाप्य महालिंगान्यनेकशः ।।

महेशाराधनपरास्तपश्चक्रुः प्रयत्नतः ।। ६ ।।

विभूतिधारिणो नित्यं नित्यरुद्राक्षधारिणः ।।

लिंगपूजारता नित्यं शतरुद्रियजापिनः ।। ७ ।।

ते श्रुत्वा देवदेवस्य पुनरागमनं मुने ।।

तपःकृशा अतितरामासुरानंद मेदुराः ।। ८ ।।

द्विजाः पंचसहस्राणि चरतो विपुलं तपः ।।

दंडखातान्महातीर्थादाजग्मुर्देवदर्शने ।। ९ ।।

तीर्थान्मंदाकिनी नाम्नो द्विजाः पाशुपतव्रताः ।।

शिवैकाराधनपराः समेता अयुतोन्मिताः ।। 4.2.64.१० ।।

हंसतीर्थात्परिप्राप्ता अयुतं त्रिशतोत्तरम् ।।

शतदुर्वाससस्तीर्थादेकादश शताधिकम् ।। ११ ।।

मत्स्योदर्याः परापेतुः सहस्राणि षडेव हि ।।

कपालमोचनात्सप्त शतान्यभ्यागता द्विजाः ।। १२।।

ऋणमोचनतस्तीर्थात्सहस्रं द्विशताधिकम् ।।

वैतरण्या अपि मुने द्विजानामयुतार्धकम् ।।१३।।

ततः पृथूदकात्कुंडात्पृथुना परिखानितात् ।।

अयासिषुर्द्विजानां च शतान्येव त्रयोदश ।।१४।।

तथैवाप्सरसः कुंडान्मेनकाख्याच्छतद्वयम् ।।

उर्वशीकुंडतः प्राप्ताः सहस्रं द्विशताधिकम् ।। १५ ।।

तथैरावतकुंडाच्च ब्राह्मणास्त्रिशतानि च ।।

गंधर्वाप्सरसः सप्त शतानि द्विशतानि च ।। १६ ।।

वृषेशतीर्थादाजग्मुर्नवतिः सशतत्रया ।।

यक्षिणीकुंडतः प्राप्ताः सहस्रं त्रिशतोत्तरम् ।। १७ ।।

लक्ष्मीतीर्थात्परं जग्मुः षोडशैव शतानि च ।।

पिशाचमोचनात्सप्त सहस्राणि द्विजोत्तमाः ।। १८ ।।

पितृकुंडाच्छतंसाग्रं ध्रुवतीर्थाच्छतानि षट् ।।

मानसाख्याच्च सरसो द्विशती सशतत्रया ।। १९ ।।

ब्राह्मणा वासुकिहृदात्सहस्राणि दशैव तु ।।

तथैवाष्टशतं द्रष्टुं जानकीकुंडतो द्विजाः ।। 4.2.64.२० ।।

काशीनाथमनुप्राप्ताः परमानंददायिनम् ।।

तथा गौतमकुंडाच्च शतानिनव चागताः ।।२१।।

तीर्थाद्दुर्गतिसंहर्तुर्बाह्मणाः प्रतिपेदिरे ।।

एकादशशतान्येव द्रष्टुं देवमुमापतिम् ।। २२ ।।

असीसंभेदमारभ्य गंगातीरस्थिता द्विजाः ।।

आसंगमेश्वरात्तत्र परिप्राप्ता घटोद्भव ।। २३ ।।

अष्टादशसहस्राणि तथा पंचशतान्यपि ।।

ब्राह्मणाः पंचपंचाशद्गंगातीरात्समागताः ।। २४ ।।

सार्द्रदूर्वाक्षतकरैः सपुष्पफलपाणिभिः ।।

सुगंधमाल्यहस्तैश्च ब्राह्मणैर्जयवादिभिः ।। २५ ।।

स्तुतो मंगलसूक्तैश्च प्रणतश्च पुनःपुनः ।।

तेभ्यो दत्ताभयः शंभुः पप्रच्छ कुशलं मुदा ।। २६ ।।

ततस्ते ब्राह्मणाः प्रोचुः प्रबद्धकरसंपुटाः ।।

क्षेत्रे निवसतां नाथ सदानः कुशलोदयः ।। २७ ।।

विशेषतः कृतोऽस्माभिः साक्षान्नयनगोचरः।।

त्वं यत्स्वरूपं श्रुतयो न विदुः परमार्थतः ।। २८ ।।

सदैवाकुशलं तेषां ये त्वत्क्षेत्रपराङ्मुखाः ।।

चतुर्दशापि वै लोकास्तेषां नित्यं पराङ्मुखाः ।। २९ ।।

येषां हृदि सदैवास्ते काशीत्वाशीविषां गद ।।

संसाराशीविषविषं न तेषां प्रभवेत्क्वचित् ।। 4.2.64.३० ।।

गर्भरक्षामणिर्मंत्रः काशीवर्णद्वयात्मकः ।।

यस्य कंठे सदा तिष्ठेत्तस्याकुशलता कुतः ।। ३१ ।।

सुधां पिबति यो नित्यं काशीवर्णद्वयात्मिकाम् ।।

स नैर्जरीं दशां हित्वा सुधैव परिजायते ।। ३२ ।।

श्रुतं कर्णामृतं येन काशीत्यक्षरयुग्मकम् ।।

न समाकणर्यत्येव स पुनर्गर्भजां कथाम्।। ३३ ।।

काशी रजोपि यन्मूर्ध्नि पतेदप्यनिलाहतम् ।।

चंद्रशेखरतन्मूर्धा भवेच्चंद्रकलांकितः ।। ३४ ।।

प्रसंगतोपि यन्नेत्रपथमानंदकाननम् ।।

यातं तेत्र न जायंते नेक्षेरन्पितृकान(व?)नम् ।।३५।।

गच्छता तिष्ठता वापि स्वपता जाग्रताथवा ।।

काशीत्येष महामंत्रो येन जप्तः सनिर्भयः ।। ३६ ।।

येन बीजाक्षरयुगं काशीति हृदि धारितम् ।।

अबीजानि भवंत्येव कर्मबीजानि तस्य वै ।। ३७ ।।

काशी काशीति काशीति जपतो यस्य संस्थितिः ।।

अन्यत्रापि सतस्तस्य पुरो मुक्तिः प्रकाशते ।। ३८ ।।

क्षेममूर्तिरियं काशी क्षेममूर्तिर्भवान्भव ।।

क्षेममूर्तिस्त्रिपथगा नान्यत्क्षेमत्रयं क्वचित् ।। ३९ ।।

ब्राह्मणानामिति वचः क्षेत्रभक्तिविबृंहितम् ।।

निशम्य गिरिजाकांतस्तुतोष नितरां हरः ।। 4.2.64.४० ।।

प्रोवाच च प्रसन्नात्मा धन्या यूयं द्विजर्षभाः ।।

येषामिहेदृशी भक्तिर्मम क्षेत्रेतिपावने ।। ४१ ।।

जाने सत्त्वमया जाताः क्षेत्रस्यास्य निषेवणात् ।।

नीरजस्का वितमसः संसारार्णवपारगाः ।। ४२ ।।

वाराणस्यास्तु ये भक्तास्ते भक्ता मम निश्चितम्।।

जीवन्मुक्ता हि ते नूनं मोक्षलक्ष्म्या कटाक्षिताः ।। ४३ ।।

यैश्च काशीस्थितो जंतुरल्पकोपि विरोधितः ।।

तैर्वै विश्वंभरा सर्वा मया सह विरोधिता ।। ।। ४४ ।।

वाराणस्याः स्तुतिमपि यो निशम्यानुमोदते ।।

अपि ब्रह्मांडमखिलं ध्रुवं तेनानुमोदितम् ।।४५।।

निवसंति हि ये मर्त्या अस्मिन्नानंदकानने ।।

ममांतःकरणे ते वै निवसेयुरकल्मषाः ।। ४६ ।।

निवसंति मम क्षेत्रे मम भक्तिं प्रकुर्वते ।।

मम लिंगधरा ये तु तानेवोपदिशाम्यहम् ।। ४७ ।।

निवसंति मम क्षेत्रे मम भक्तिं न कुर्वते ।।

मम लिंगधरा ये नो न तानुपदिशाम्यहम् ।।४८।।

काशी निर्वाणनगरी येषां चित्ते प्रकाशते ।।

ते मत्पुरः प्रकाशंते नैःश्रेयस्या श्रिया वृताः ।। ४९ ।।

मोक्षलक्ष्मीरियं काशी न येभ्यः परिरोचते ।।

स्वर्लक्ष्मीं कांक्षमाणेभ्यः पतितास्ते न संशयः ।। 4.2.64.५० ।।

काथीं संकाक्षमाणानां पुरुषार्थचतुष्टयम् ।।

पुरः किंकरवत्तिष्ठेन्ममानुग्रहतो द्विजाः ।। ५१ ।।

आनंदकानने ह्यत्र ज्वलद्दावानलोस्म्यहम् ।।

कर्मबीजानि जंतूनां ज्वालये न प्ररोहये ।। ५२ ।।

वस्तव्यं सततं काश्यां यष्टव्योहं प्रयत्नतः ।।

जेतव्यौ कलिकालौ च रंतव्या मुक्तिरंगना ।५३।।

प्राप्यापि काशीं दुर्बुद्धिर्यो न मां परिसेवते।।

तस्य हस्तगताप्याशु कैवल्यश्रीः प्रणश्यति ।। ५४ ।।

धन्या मद्भक्तिलक्ष्माणो ब्राह्मणाः काशिवासिनः ।।

यूयं यच्चेतसो वृत्तेर्न दूरेहं न काशिका ।। ५५ ।।

दातव्यो वो वरः कोत्र व्रियतां मे यथारुचि ।।

प्रेयांसो मे यतो यूयं क्षेत्रसंन्यासकारिणः ।। ५६ ।।

इति पीत्वा महेशानमुखक्षीराब्धिजां सुधाम् ।।

परितृप्ता द्विजाः सर्वे वव्रुर्वरमनुत्तमम् ।। ५७ ।।

ब्राह्मणा ऊचुः ।। ।।

उमापते महेशान सर्वज्ञ वर एष नः ।।

काशी कदापि न त्याज्या भवता भवतापहृत् ।। ५८ ।।

वचनाद्ब्राह्मणानां तु शापो मा प्रभवत्विह ।।

कदाचिदपि केषांचित्काश्यां मोक्षांतरायकः ।। ५९ ।।

तव पादाबुंजद्वंद्वे निर्द्वंद्वा भक्तिरस्तु नः ।।

आ कलेवरपातं च काशीवासोस्तु नोनिशम् ।।4.2.64.६०।।

किमन्येन वरेणेश देय एष वरो हि नः ।।

अवधेह्यंधकध्वंसिन्वरमन्यं वृणीमहे ।। ६१ ।।

तव प्रतिनिधी कृत्यास्माभिस्त्वद्भक्तिभावितैः ।।

प्रतिष्ठितेषु लिंगेषु सान्निध्यं भवतोऽस्त्विह।।६२।।

श्रुत्वेति तेषां वाक्यानि तथास्त्विति पिनाकिना ।।

प्रोचेऽन्योपि वरो दत्तो ज्ञानं वश्च भविष्यति ।।६३।।

पुनः प्रोवाच देवेशो निशामयत भो द्विजाः ।।

हितं वः कथयाम्यत्र तदनुष्ठीयतां ध्रुवम् ।। ६४ ।।

सेव्योत्तरवहा नित्यं लिंगमर्च्यं प्रयत्नतः ।।

दमो दानं दया नित्यं कर्तव्यं मुक्तिकांक्षिभिः ।। ६५ ।।

इदमेव रहस्यं च कथितं क्षेत्रवासिनाम् ।।

मतिः परहिता कार्या वाच्यं नोद्वेगकृद्वचः ।।६६।।

मनसापि न कर्तव्यमेनोत्र विजिगीषुणा।।

अत्रत्यमक्षयं यस्मात्सुकृतं सुकृतेतरम् ।। ६७ ।।

अन्यत्र यत्कृतं पापं तत्काश्यां परिणश्यति ।।

वाराणस्यां कृतं पापमंतर्गेहे प्रणश्यति ।। ६८ ।।

अंतर्गेहे कृतं पापं पैशाच्यनरकावहम् ।।

पिशाचनरकप्राप्तिर्गच्छत्येव बहिर्यदि ।। ६९ ।।

न कल्पकोटिभिः काश्यां कृतं कर्म प्रमृज्यते ।।

किंतु रुद्रपिशाचत्वं जायतेऽत्रायुतत्रयम्.।। 4.2.64.७०. ।।

वाराणस्यां स्थितो यो वै पातकेषु रतः सदा ।।

योनिं प्राप्यापि पैशाचीं वर्षाणामयुतत्रयम् ।। ७१ ।।

पुनरत्रैव निवसञ्ज्ञानं प्राप्स्यत्यनुत्तमम् ।।

तेन ज्ञानेथ संप्राप्ते(?) मोक्षमाप्स्यत्यनुत्तमम् ।। ७२ ।। (संप्रांते)

दुष्कृतानि विधायेह बहिः पंचत्वमागताः ।।

तेषां गतिं प्रवक्ष्यामि शृणुत द्विजसत्तमाः ।। ७३ ।।

यामाख्या मे गणाः संति घोरा विकृतमूर्त्तयः ।।

मूषायां ते धमंत्यादौ क्षेत्रदुष्कृतकारिणः ।। ७४ ।।

नयंत्यनूपप्रायां च ततः प्राचीं दुरासदाम् ।।

वर्षाकाले दुराचारान्पातयंति महाजले ।। ७५ ।।

जलौकाभिः सपक्षाभिर्दंदशूकैर्जलोद्भवैः ।।

दुर्निवारैश्च मशकैर्दश्यंते ते दिवानिशम् ।। ७६ ।।

ततो यामैर्हिमर्तौ ते नीयंतेऽद्रौ हिमालये ।।

अशनावरणैर्हीनाः क्लेश्यंते ते दिवानिशम् ।। ७७ ।।

मरुस्थले ततो ग्रीष्मे वारिवृक्षविवर्जिते ।।

दिवाकरकरैस्तीव्रैस्ताप्यंते ते पिपासिताः ।। ७८ ।।

क्लेशितास्ते गणैरुग्रैर्यातनाभिः समंततः ।।

इत्थं कालमसंख्यातमानीयंते ततस्त्विह ।। ७९ ।।

निवेदयंति ते यामाः कालराजांतिके ततः ।।

कालराजोपि तान्द्रष्ट्वा कर्मसंस्मार्य दुष्कृतम् ।। 4.2.64.८० ।।

विवस्त्रान्क्षुत्तृषार्तांश्च लग्नपृष्ठोदरत्वचः ।।

अन्यै रुद्रपिशाचैश्च सहसंयोजयत्यपि ।। ८१ ।।

ततो रुद्रपिशाचास्ते भैरवानुचराः सदा ।।

सहंते क्लममत्यर्थं क्षुत्तृष्णोग्रत्वसंभवम् ।। ८२ ।।

आहारं रुधिरोन्मिश्रं ते लभंते कदाचन ।।

एवं त्र्ययुतसंख्याकं कालं तत्रातिदुःखिताः ।। ८३ ।।

श्मशानस्तंभमभितो नीयंते कंठपाशिताः ।।

पिपासिता अपि न तेंऽबुस्पर्शमपि चाप्नुयुः ।। ८४ ।।

अथ संक्षीणपापास्ते कालभैरवदर्शनात् ।।

इहैव देहिनो भूत्वा मुच्यंते ते ममाज्ञया ।। ८५ ।।

तस्मान्न कामयेतात्र वाङ्मनःकर्मणाप्यघह(?)म् ।।

शुचौ पथि सदा स्थेयं महालाभमभीप्सुभिः ।। ८६ ।।

नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी ।।

ममानुग्रहमासाद्य गच्छत्येव परां गतिम् ।। ८७ ।।

अनाशनं यः कुरुते मद्भक्त इह सुव्रतः ।।

न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।। ८८ ।।

अशाश्वतमिदं ज्ञात्वा मानुष्यं बहुकिल्विषम् ।।

अविमुक्तं सदा सेव्यं संसारभयमोचकम् ।। ८९ ।।

नान्यत्पश्यामि जंतूनां मुक्त्वा वाराणसीं पुरीम् ।।

सर्वपापप्रशमनीं प्रायश्चित्तं कलौ युगे ।। 4.2.64.९० ।।

जन्मांतरसहस्रेषु यत्पापं समुपार्जितम् ।।

अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ।। ९१ ।।

जन्मांतरसहस्रेषु युंजन्योगी यदाप्नुयात् ।।

तदिहैव परो मोक्षो मरणादधि गम्यते ।। ९२ ।।

तिर्यग्योनिगताः सत्त्वा ये विमुक्तकृतालयाः ।।

कालेन निधनं प्राप्तास्तेपि यांति परां गतिम् ।। ९३ ।।

अविमुक्तं न सेवंते ये मूढास्तमसावृताः ।।

विण्मूत्ररेतसां मध्ये ते वसंति पुनः पुनः ।। ९४ ।।

अविमुक्तं समासाद्य यो लिंगं स्थापयेत्सुधीः ।।

कल्पकोटिशतैर्वापि नास्ति तस्य पुनर्भवः ।। ९५ ।।

ग्रहनक्षत्रताराणां कालेन पतनं ध्रुवम् ।।

अविमुक्ते मृतानां तु पतनं नैव विद्यते।। ९६ ।।

ब्रह्महत्यां नरः कृत्वा पश्चात्संयतमानसः ।।

प्राणांस्त्यजति यः काश्यां स मुक्तो नात्र संशयः ।। ९७ ।।

स्त्रियः पतिव्रता याश्च मम भक्तिसमाहिताः ।।

अविमुक्ते मृता विप्रा यांति ताः परमां गतिम् ।। ९८ ।।

अत्रोत्क्रमणकालेहं स्वयमेव द्विजोत्तमाः ।।

दिशामि तारकं ब्रह्म देही स्याद्येन तन्मयः ।। ९९ ।।

मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः ।।

यथा मोक्षमिहाप्नोति न तथान्यत्रकुत्रचित् ।। 4.2.64.१०० ।।

मरणं निश्चितं ज्ञात्वा गतिं चासुखरूपिणीम् ।।

चलमागंतुकं सर्वं ततः काशीं समाश्रयेत् ।। १ ।।

काशी समाश्रिता यैस्तु मनोवाक्कायकर्मभिः ।।

तानत्र निर्मलधियो निवार्णश्रीः समाश्रयेत् ।। २ ।।

काशीस्थितैकमपि यः प्रीणयेन्न्यायजैर्धनैः ।।

तेन त्रैलोक्यमखिलं प्रीणितं तु मया सह ।। ३ ।।

यः प्रीणयति पुण्यात्मा निर्वाणनगरी नरम् ।।

पुमर्थेन स्थितेर्नित्यं ब्राह्मणाः प्रीणयामि तम् ।। ४ ।।

दिवोदासोपि राजर्षिः काशीं धर्मेण पालयन् ।।

सदेहो मत्पदं प्राप्तो यतो न पुनरागतिः ।। ५।।

अत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ।।

अतो विमुक्तमासाद्य नान्यद्गच्छेत्तपोवनम् ।। ६ ।।

मोक्षं सुदुर्लभं ज्ञात्वा संसारं चातिभीषणम् ।।

अश्मना चरणौ हत्वा कालमत्र प्रतीक्षयेत् ।। ७ ।।

अविमुक्तं परित्यज्य यदा यास्यंति दुर्धियः ।।

हसिष्यंति तदा भूतान्यन्योन्यकरताडनैः ।। ८ ।।

प्राप्य वाराणसीं पुण्यां सिद्धिक्षेत्रमनुत्तमम् ।।

परिनिष्क्रांतुमन्यत्र कस्य जंतोर्मतिर्भवेत् ।। ९ ।।

महादानेन चान्यत्र यत्फलं लभ्यते नरैः ।।

अविमुक्ते तु काकिण्यां दत्तायां तदवाप्यते ।। 4.2.64.११० ।।

एकं समर्चयेल्लिंगं तपस्तप्येत चापरः ।।

तयोर्मध्ये तु स श्रेष्ठो यो लिंगं पूजयेदिह ।। ११ ।।

तीर्थांतरे गवां कोटिं विधिवद्यः प्रयच्छति।।

एकाहं यो वसेत्काश्यां काशीवासी तयोर्वरः।। ।। १२ ।।

अन्यत्र ब्राह्मणानां तु कोटिं संभोज्य यत्फलम्।।

वाराणस्यां तु चैकेन भोजितेन तदाप्यते।। १३ ।।

सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे ।।

तुलापुरुषदानेन काशीभिक्षा समा भवेत्।। १४ ।।

ममेह परमं ज्योतिरापातालाद्व्यवस्थितम् ।।

अतीत्य सप्तलोकादीननंतं लिंगरूपधृक् ।। १५ ।।

पृथिव्यंतेपि ये लिंगमविमुक्तं स्मरंति मे ।।

कलुषैस्ते विमुच्यंते महद्भिरिति निश्चितम् ।। १६ ।।

अस्मिन्क्षेत्रे तु ये नाहं दृष्टः स्पृष्टः समर्चितः ।।

संप्राप्य तारकं ज्ञानं न स भूयोभिजायते ।। १७ ।।

यो मामिह समभ्यर्च्य म्रियतेन्यत्रकुत्रचित् ।।

जन्मांतरेपि मां प्राप्य स विमुक्तो भविष्यति ।।१८।।

इत्युक्त्वा क्षेत्रमाहात्म्यं द्विजानामग्रतो हरः ।।

पश्यतामेव तेषां तु तत्रैवांतर्हितोभवत् ।। १९ ।।

तेपि साक्षाद्विरूपाक्षं प्रत्यक्षीकृत्य वाडवाः ।।

प्रहृष्टमनसोऽत्यंतं प्रययुः स्वस्वमाश्रयम् ।। 4.2.64.१२० ।।

शंभोर्वाक्यं विनिश्चित्य सर्वज्ञस्य कृपानिधेः ।।

त्यक्त्वा कार्यांतरं विप्रा लिंगान्येव समर्चिषुः ।। २१ ।।

।। स्कंद उवाच ।। ।।

पठित्वा पाठयित्वा च रहस्याख्यानमुत्तमम् ।।

श्रद्धालुः पातकैर्मुक्तः शिवलोके महीयते ।। १२२ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्द्धे क्षेत्ररहस्यकथनंनाम चतुःषष्टितमोऽध्यायः ।। ६४ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 65

।। स्कंद उवाच ।। ।।

ज्येष्ठेश्वरस्य परितो यानि लिंगानि कुंभज।।

तानि पंचसहस्राणि मुनीनां सिद्धिदान्यलम् ।। १ ।।

पराशरेश्वरं लिंगं ज्येष्ठेशादुत्तरे महत्।।

तस्य दर्शनमात्रेण निर्मलं ज्ञानमाप्यते ।। २ ।।

तत्रैव सिद्धिदं लिंगं मांडव्येश्वरसंज्ञितम् ।।

न तस्य दर्शनाज्जातु दुर्बुद्धिं प्राप्नुयान्नरः ।। ३ ।।

लिंगं च शंकरेशाख्यं तत्रैव शुभदं सदा ।।

भृगुनारायणस्तत्र भक्तानां सर्वसिद्धिदः ।। ४ ।।

जाबालीश्वर संज्ञं च लिंगं तत्रातिसिद्धिदम् ।।

तस्य संदर्शनाज्जातु न जंतुर्दुर्गतिं व्रजेत् ।। ५ ।।

सुमंतु मुनिना श्रेष्ठस्तत्रादित्यः प्रतिष्ठितः ।।

तस्य संदर्शनादेव कुष्ठव्याधिः प्रशाम्यति ।। ६ ।।

भैरेवी भीषणा नाम तत्र भीषणरूपिणी ।।

क्षेत्रस्य भीषणं सर्वं नाशयेद्भावतोर्चिता ।। ७ ।।

तत्रोपजंघने लिंगं कर्मबंधविमोक्षणम् ।।

नृभिः संसेवितं भक्त्या षण्मासात्सिद्धिदं परम्।।८।।

भारद्वाजेश्वरं लिंगं लिंगं माद्रीश्वरं वरम् ।।

एकत्र संस्थिते द्वे तु द्रष्टव्ये सुकृतात्मना ।।९।।

अरुणि स्थापितं लिंगं तत्रैव कलशोद्भव ।।

तस्य लिंगस्य सेवातः सर्वामृद्धिमवाप्नुयात्।।4.2.65.१०।।

लिंगं वाजसनेयाख्यं तत्रास्त्यतिमनोहृरम् ।।

तस्य संदर्शनात्पुंसां वाजपेयफलं भवेत्।।११।।

कण्वेश्वरं शुभं लिंगं लिंगं कात्यायनेश्वरम् ।।

वामदेवेश्वरं लिंगमौतथ्येश्वरमेव च ।। १२ ।।

हारीतेश्वरसंज्ञं च लिंगं वै गालवेश्वरम् ।।

कुंभेर्लिंगं महापुण्यं तथा वै कौसुमेश्वरम् ।। १३ ।।

अग्निवर्णेश्वरं चैव नैध्रुवेश्वरमेव च ।।

वत्सेश्वरं महालिंगं पर्णादेश्वरमेव च ।। १४ ।।

सक्तुप्रस्थेश्वरं लिंगं कणादेशं तथैव च ।।

अन्यत्तत्र महालिंगं मांडूकाय निरूपितम् ।। १५ ।।

वाभ्रवेयेश्वरं लिंगं शिलावृत्तीश्वरं तथा ।।

च्यवनेश्वर लिंगं च शालंकायनकेश्वरम् ।। १६ ।।

कलिंदमेश्वरं लिंगं लिंगमक्रोधनेश्वरम् ।।

लिंगं कपोतवृत्तीशं कंकेशं कुंतलेश्वरम ।। १७ ।।

कंठेश्वरं कहोलेशं लिंगं तुंबुरुपूजितम् ।।

मतगेशं मरुत्तेशं मगधेयेश्वरं तथा ।। १८ ।।

जातूकर्णेश्वरं लिंगं जंबूकेश्वरमेव च ।।

जारुधीशं जलेशं च जाल्मेशं जालकेश्वरम् ।। १९ ।।

एवमादीनि लिंगानि अयुतार्धानि कुंभज ।।

स्मरणाद्दर्शनात्स्पर्शादर्चनान्नमनात्स्तुतेः ।। 4.2.65.२० ।।

न जातु जायते जंतोः कलुषस्य समुद्भवः ।।

एतेषां शुभलिंगानां ज्येष्ठस्थानेति पावने ।। २१ ।।

।। स्कंद उवाच ।। ।।

एकदा तत्र यद्वृत्तं ज्येष्ठस्थाने महामुने ।।

तदहं ते प्रवक्ष्यामि शृणुष्वाघविनाशनम् ।। २२ ।।

स्वैरं विहरतस्तत्र ज्येष्ठस्थाने महेशितुः ।।

कौतुकेनैव चिक्रीड शिवा कंदुकलीलया ।। २३ ।।

उदंच न्न्यंचदंगानां लाघवं परितन्वती ।।

निःश्वासामोदमुदित भ्रमराकुलितेक्षणा ।। २४ ।।

भ्रश्यद्ध म्मिल्लसन्माल्य स्थपुटीकृत भूमिका ।।

स्विद्यत्कपोलपत्राली स्रवदंबुकणोज्ज्वला ।। २५ ।।

स्फुटच्चोलांशुकपथनिर्यदंगप्रभावृता ।।

उल्लसत्कंदुकास्फालातिशोणितकरांबुजा ।। २६ ।।

कंदुकानुग सदृष्टि नर्तित भ्रूचलतांचला ।।

मृडानी किल खेलंती ददृशे जगदंबिका ।। २७ ।।

अंतरिक्षचराभ्यां च दितिजाभ्यां मनोहरा ।।

कटाक्षिताभ्यामिव वै समुपस्थितमृत्युना ।। २८ ।।

विदलोत्पल संज्ञाभ्यां दृप्ताभ्यां वरतो विधेः ।।

तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्बलात् ।। २९ ।।

देवीं परिजिहीर्षू तौ विषमेषु प्रपीडितौ ।।

दिवोवतेरतुः क्षिप्रं मायां स्वीकृत्य शांबरीम् ।। 4.2.65.३० ।।

धृत्वा पारषदीं मूर्तिमायातावंबिकांतिकम् ।।

तावत्यंतं सुदुर्वृत्तावतिचंचलमानसा ।। ३१ ।।

सर्वज्ञेन परिज्ञातौ चांचल्याल्लोचनोद्भवात् ।।

कटाक्षिताथ देवेन दुर्गादुर्गारिघातिनी ।। ३२।।।

विज्ञाय नेत्रसंज्ञां तु सर्वज्ञार्ध शरीरिणी ।।

तेनैव कंदुकेनाथ युगपन्निजघान तौ ।। ३३।।

महाबलौ महादेव्या कंदुकेन समाहतौ।।

परिभ्रम्य परिभ्रम्य तौ दुष्टौ विनिपेततुः ।। ३४ ।।

वृंतादिव फले पक्वे तालादनिललोलिते ।।

दंभोलिना परिहते शृंगेइव महागिरेः ।। ३५ ।।

तौ निपात्य महादैत्यावकार्यकरणोद्यतौ ।।

ततः परिणतिं यातो लिंगरूपेण कंदुकः ।।३६।।

कंदुकेश्वरसंज्ञं च तल्लिंगमभवत्तदा ।।

ज्येष्ठेश्वर समीपे तु सर्वदुष्टनिवारणम् ।।३७।।

कंदुकेश समुत्पत्तिं यः श्रोष्यति मुदान्वितः ।।

पूजयिष्यति यो भक्तस्तस्य दुःखभयं कुतः ।। ३८ ।।

कंदुकेश्वर भक्तानां मानवानां निरेनसाम् ।।

योगक्षेमं सदा कुर्याद्भवानी भयनाशिनी ।। ३९ ।।

मृडानी तस्य लिंगस्य पूजां कुर्यात्सदैव हि ।।

तत्रैव देव्या सान्निध्यं पार्वत्या भक्तसिद्धिदम् ।। 4.2.65.४० ।।

कंदुकेशं महालिंगं काश्यां यैर्न समर्चितम् ।।

कथं तेषां भवनीशौ स्यातां सर्वेप्सितप्रदौ ।। ४१ ।।

द्रष्टव्यं च प्रयत्नेन तल्लिंगं कंदुकेश्वरम् ।।

सर्वोपसर्गसंघातविघातकरणं परम् ।। ४२ ।।

कंदुकेश्वर नामापि श्रुत्वा वृजिनसंततिः ।।

क्षिप्रं क्षयमवाप्नोति तमः प्राप्योष्णगुं यथा ।। ४३ ।।

।। स्कंद उवाच ।। ।।

संशृणुष्व महाभाग ज्येष्ठेश्वर समीपतः ।।

यद्वृत्तांतमभूद्विप्र परमाश्चर्यकृद्ध्रुवम् ।। ४४ ।।

दंडखाते महातीर्थे देवर्षिपितृतृप्तिदे ।।

तप्यमानेषु विप्रेषु निष्कामं परमं तपः ।। ४५ ।।

दैत्यो दुंदुभिनिर्ह्रादो दुष्टः प्रह्लादमातुलः ।।

देवाः कथं सुजेयाः स्युरित्युपायमचिंतयत् ।। ४६ ।।

किं बलाश्च किमाहाराः किमाधारा हि देवताः ।।

विचार्य बहुशो दैत्यस्तत्त्वं विज्ञाय निश्चितम् ।। ४७ ।।

अवश्यमग्रजन्मानो हेतवोत्र विचारतः ।।

ब्राह्मणान्हंतुमसकृत्कृतवानुद्यमं ततः ।। ४८ ।।

यतः क्रतुभुजो देवाः क्रतवो वेदसंभवाः ।।

ते वेदा ब्राह्मणाधीनास्ततो देवबलं द्विजाः ।। ४९ ।।

निश्चितं ब्राह्मणाधाराः सर्वे वेदाः सवासवाः ।।

गीर्वाणा ब्राह्मणबला नात्र कार्या विचारणा ।। 4.2.65.५० ।।

ब्राह्मणा यदि नष्टाः स्युर्वेदा नष्टास्ततः स्वयम् ।।

आम्नायेषु प्रणष्टेषु विनष्टाः शततंतवः ।। ५१ ।।

यज्ञेषु नाशं गच्छत्सु हृताहारास्ततः सुराः ।।

निर्बलाः सुखजेयाः स्युर्जितेषु त्रिदशेष्वथ ।। ५२ ।।

अहमेव भविष्यामि मान्यस्त्रिजगतीपतिः ।।

आहरिष्यामि देवानामक्षयाः सर्वसंपदः ।। ५३ ।।

निर्वेक्ष्यामि सुखान्येव राज्ये निहतकंटके ।।

इति निश्चित्य दुर्बुद्धिः पुनश्चिंतितवान्मुने ।। ५४ ।।

द्विजाः क्व संति भूयांसो ब्रह्मतेजोतिबृंहिताः ।।

श्रुत्यध्ययन संपन्नास्तपोबल समन्विताः ।। ५५ ।।

भूयसां ब्राह्मणानां तु स्थानं वाराणसी भवेत् ।।

तानादावुपसंहृत्य यामि तीर्थांतरं ततः ।। ५६ ।।

यत्रयत्र हि तीर्थेषु यत्रयत्राश्रमेषु च ।।

संति सर्वेऽग्रजन्मानस्ते मयाद्याः समंततः ।। ५७ ।।

इति दुंदुभिनिर्ह्रादो मतिं कृत्वा कुलोचिताम् ।।

प्राप्यापि काशीं दुर्वृत्तो मायावी न्यवधीद्द्विजान् ।। ५८ ।।

समित्कुशान्समादातुं यत्र यांति द्धिजोत्तमाः ।।

अरण्ये तत्र तान्सर्वान्स भक्षयति दुर्मतिः ।। ९।।

यथा कोपि न वेत्त्येव तथाच्छन्नोऽभवत्पुनः ।।

वने वनेचरो भूत्वा यादोरूपी जलाशये ।। 4.2.65.६० ।।

अदृश्यरूपी मायावी देवानामप्यगोचरः ।।

दिवाध्यानपरस्तिष्ठेन्मुनिवन्मुनिमध्यगः ।। ६१ ।।

प्रवेशमुटजानां च निर्गमं च विलोकयन् ।।

यामिन्यां व्याघ्ररूपेण ब्राह्मणान्भक्षयेद्बहून् ।। ६२ ।।

निःशब्दमेव नयति नत्यजेदपि कीकसम् ।।

इत्थं निपातिता विप्रास्तेन दुष्टेन भूरिशः ।। ६३ ।।

एकदा शिवरात्रौ तु भक्तस्त्वेको निजोटजे ।।

सपर्यां देवदेवस्य कृत्वा ध्यानस्थितोभवत् ।। ६४ ।।

स च दुंदुभिनिर्ह्राद दैत्येंद्रो बलदर्पितः ।।

व्याघ्र रूपं समास्थाय तमादातुं मतिं दधे ।।६५।।

तं भक्तं ध्यानमापन्नं दृढचित्तं शिवेक्षणे।।

कृतास्त्रमंत्रविन्यासं तं क्रांतुमशकन्न सः ।। ६६ ।।

अथ सर्वगतः शंभुर्ज्ञात्वा तस्याशयं हरः ।।

दैत्यस्य दुष्टरूपस्य वधाय विदधे धियम् ।। ६७ ।।

यावदादित्सति व्याघ्रस्तावदाविरभूद्धरः ।।

जगद्रक्षामणिस्त्र्यक्षो भक्तरक्षण दक्षधीः ।। ६८ ।।

रुद्रमायांतमालोक्य तद्भक्तार्चित लिंगतः ।।

दैत्यस्तेनैव रूपेण ववृधे भूधरोपमः ।। ६९ ।।

सावज्ञमथसर्वज्ञं यावत्पश्यति दानवः ।।

तावदायांतमादाय कक्षायंत्रे न्यपीडयत् ।। 4.2.65.७० ।।

पंचास्यस्त्वथ पंचास्यं मुष्ट्या मूर्धन्यताडयत् ।।

स च तेनैव रूपेण कक्षानिष्पेषणेन च ।।७१ ।।

अत्यार्तमरटद्व्याघ्रो रोदसी परिपूरयन् ।।

तेन नादेन सहसा सं प्रवेपितमानसाः ।।७२।।

तपोधनाः समाजग्मुर्निशि शब्दानुसारतः ।।

तत्रेश्वरं समालोक्य कक्षीकृत मृगेश्वरम्।।७३।।

तुष्टुवुः प्रणता सर्वे शर्वं जयजयाक्षरैः ।।

परित्राता जगत्त्रातः प्रत्यूहाद्दारुणादितः ।।७४ ।।

अनुग्रहं कुरुध्वेश तिष्ठात्रैव जगद्गुरो ।।

अनेनैव हि रूपेण व्याघ्रेश इति नामतः ।। ७५ ।।

कुरु रक्षां महादेव ज्येष्ठस्थानस्य सर्वदा ।।

अन्येभ्योप्युपसर्गेभ्यो रक्ष नस्तीर्थवासिनः ।। ७६ ।।

इति श्रुत्वा वचस्तेषां देवश्चंद्रविभूषणः ।।

तथेत्युक्त्वा पुनः प्राह शृणुध्वं द्विजपुंगवाः ।। ७७ ।।

यो मामनेन रूपेण द्रक्ष्यति श्रद्धयात्र वै ।।

तस्योपसर्गसंघातं घातयिष्याम्यसंशयम् ।। ७८ ।।

एतल्लिंगं समभ्यर्च्य यो याति पथि मानवः ।।

चौरव्याघ्रादिसंभूत भयं तस्य कुतो भवेत् ।। ७९ ।।

मच्चरित्रमिदं श्रुत्वा स्मृत्वा लिंगमिदं हृदि ।।

संग्रामे प्रविशन्मर्त्यो जयमाप्नोति नान्यथा ।।4.2.65.८०।।

इत्युक्त्वा देवदेवशस्तस्मिँल्लिंगे लयं ययौ ।।

सविस्मयास्ततो विप्राः प्रातर्याता यथागतम् ।। ८१ ।।

।। स्कन्द उवाच ।। ।।

तदा प्रभृति कुंभोत्थ लिंगं व्याघ्रेश्वराभिधम् ।।

ज्येष्ठेशादुत्तरेभागे दृष्टं स्पृष्टं भयापहम् ।। ८२ ।।

व्याघ्रेश्वरस्य ये भक्तास्तेभ्यो बिभ्यति किंकराः ।।

यामा अपि महाक्रूरा जयजीवेति वादिनः।। ८३ ।।

पराशरेश्वरादीनां लिंगानामिह संभवम् ।।

श्रुत्वा नरो न लिप्येत महापातककर्दमैः।। ८४ ।।

कंदुकेश समुत्पत्तिं व्याघ्रे शाविर्भवं तथा।।

समाकर्ण्य नरो जातु नोपसर्गैः प्रदूयते ।। ८५ ।।

उटजेश्वर लिंगं तु व्याघ्रेशात्पश्चिमे स्थितम् ।।

भक्तरक्षार्थमुद्भूतं स्यात्समभ्यर्च्य निर्भयः ।। ८६ ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्धे पराशरेश्वरादिलिंगसंभवोनाम पंचषष्टितमोऽध्यायः ।। ६५ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 66

।। स्कन्द उवाच ।। ।।

ज्येष्ठेश्वरस्य परितो लिंगान्यन्यानि यानि तु ।।

तानि ते कथयिष्यामि शृणु वातापितापन ।। १ ।।

ज्येष्ठेशाद्दक्षिणे भागे लिंगमप्सरसां शुभम् ।।

तत्रैवाप्सरसः कूपः सौभाग्योदकसंज्ञकः ।। २ ।।

तत्कूपजलसुस्नातो विलोक्याप्सरसेश्वरम् ।।

न दौर्भाग्यमवाप्नोति नारी वा पुरुषोथवा ।। ३ ।।

तत्रैव कुक्कुटेशाख्यं लिंगं वापीसमीपगम्।।

तस्य पूजनतः पुंसां कुटुंबं परिवर्धते ।। ४ ।।

पितामहेश्वरं लिंगं ज्येष्ठवापीतटे शुभम् ।।

तत्र श्राद्धं नरः कृत्वा पितॄणां मुदमर्पयेत्।। ५ ।।

पितामहेशान्नैर्ऋत्यां पूजनीयं प्रयत्नतः ।।

गदाधरेश्वरं लिंगं पितॄणां परितृप्तिदम् ।। ६ ।।

दिशि पुण्यजनाख्यायां लिंगाज्ज्येष्ठेश्वरान्मुने।।

वासुकीश्वरसंज्ञं च लिंगमर्च्यं समंततः।। ७ ।।

तत्र वासुकिकुंडे च स्नानदानादिकाः क्रियाः ।।

सर्पभीतिहराः पुंसां वासुकीशप्रभावतः।। ८ ।।

यः स्नातो नागपंचम्यां कुंडे वासुकिसंज्ञिते ।।

न तस्य विषसंसर्गो भवेत्सर्पसमुद्भवः।। ९।।

कर्तव्या नागपञ्चम्यां यात्रा वर्षासु तत्र वै।।

नागाः प्रसन्ना जायंते कुले तस्यापि सर्वदा।। 4.2.66.१०।।

तत्कुण्डात्पश्चिमे भागे लिंगं वै तक्षकेश्वरम्।।

पूजनीयं प्रयत्नेन भक्तानां सर्वसिद्धिदम् ।। ११।।

मुनेस्तस्योत्तरे भागे कुण्डं तक्षकसंज्ञितम् ।।

कृतोदकक्रियस्तत्र न सर्पैरभिभूयते।। १२।।

तत्कुण्डादुत्तरे भागे क्षेत्रं क्षेमकरः सदा।।

भक्तानां साध्वसध्वंसी कपाली नाम भैरवः।। १३।।

भैरवस्य महाक्षेत्रं तद्वै साधकसिद्धिदम्।।

तत्र संसाधिता विद्याः षण्मासातत्सिद्धिमाप्नुयुः।। १४।।

तत्र चण्डी महामुण्डा भक्तविघ्नोपशांतिदा।

बलिपूजोपहाराद्यैः पूज्या स्वाभीष्टसिद्धये।।१५।।

तस्या यात्रां तु यः कुर्यान्महाष्टम्यां नरोत्तमः ।।

यशस्वी पुत्रपौत्राढ्यो लक्ष्मीवाँश्चापि जायते ।। १६ ।।

महामुण्डा प्रतीच्यां तु चतुःसागरवापिका ।।

तस्यां स्नातो भवेत्स्नातः सागरेषु चतुर्ष्वपि ।। १७ ।।

महाप्रसिद्धं तत्स्थानं चतुःसागरसंज्ञितम्।।

चत्वारि तत्र लिंगानि सागरैः स्थापितानि च ।। १८ ।।

तस्या वाप्याश्चतुर्दिक्षु पूजितानि दहंत्यघम् ।।

तदुत्तरे महालिंगं वृषभेश्वरसंज्ञितम् ।। १९ ।।

हरस्य वृषभेणैव स्थापितं तत्स्वभक्तितः ।।

तस्य दर्शनतः पुंसां षण्मासान्मुक्तिरुद्भवेत् ।। 4.2.66.२० ।।

वृषेश्वरादुदीच्यां तु गंधर्वेश्वरसंज्ञितम् ।।

गंधर्वकुण्डं तत्प्राच्यां तत्र स्नात्वा नरोत्तमः ।। २१ ।।

गंधर्वेश्वरमभ्यर्च्य दत्त्वा दानानि शक्तितः ।।

सन्तर्प्य पितॄदेवांश्च गंधर्वैः सह मोदते ।। २२ ।।

कर्कोटनामा नागोस्ति गन्धर्वेश्वरपूर्वतः ।।

तत्र कर्कोटवापी च लिंगं कर्कोटकेश्वरम् ।। २३ ।।

तस्यां वाप्यां नरः स्नात्वा कर्कोटेशं समर्च्य च ।।

कर्कोटनागमाराध्य नागलोके महीयते ।। २४ ।।

कर्कोट नागो यैर्दृष्टस्तद्वाप्यां विहितोदकैः ।।

क्रमते न विषं तेषां देहे स्थावरजंगमम् ।। २५ ।।

कर्कोटेशात्प्रतीच्यां तु धुंधुमारीश्वराभिधम् ।।

तल्लिंगाभ्यर्चनात्पुंसां न भवेद्वैरिजं भयम् ।। २६ ।।

पुरूरवेश्वरं लिंगं तदुदीच्यां व्यवस्थितम् ।।

द्रष्टव्यं तत्प्रयत्नेन चतुर्वर्गफलप्रदम् ।। २७ ।।

दिग्गजेनार्चितं लिंगं सुप्रतीकेन तत्पुरः ।।

सुप्रतीकेश्वरं नाम्ना यशोबलविवर्धनम् ।। २८ ।।

सरश्च सुप्रतीकाख्यं तत्पुरो भासते महत् ।।

तत्र स्नात्वा च तल्लिंगं दृष्ट्वा दिक्पतितां लभेत् ।। २९ ।।

तत्रास्त्येका महागौरी नाम्ना विजयभैरवी ।।

रक्षार्थमुत्तराद्वारि स्थिता पूज्येष्टसिद्धये ।। 4.2.66.३० ।।

वरणायास्तटे रम्ये गणौ हुंडनमुंडनौ ।।

क्षेत्ररक्षां विधत्तस्तौ विघ्नस्तंभन कारकौ ।। ३१ ।।

तौ द्रष्टव्यौ प्रयत्नेन क्षेत्रनिर्विघ्न हेतवे ।।

हुंडनेशं मुंडनेशं तत्र दृष्ट्वा सुखी भवेत् ।। ३२

।। स्कंद उवाच ।। ।।

इल्वलारे कथामेकां शृणुष्वावहितो भव ।।

वरणायास्तटे रम्ये यद्वृत्त पूर्वमुत्तमम् ।। ३३ ।।

एकदाद्रींद्रमालोक्य मेना संहृष्टमानसम् ।।

उमां संस्मृत्य निःश्वस्य प्रोवाचेति पतिव्रता ।। ३४ ।।

।। मेनोवाच ।। ।।

आर्यपुत्र न जानामि प्रवृत्तिमपि कांचन ।।

विवाहसमयादूर्ध्वं तस्या गौर्या गिरीश्वर ।। ३५ ।।

स वृषेंद्रगतिर्देवो भस्मोरग विभूषणः ।।

महापितृवनावासो दिग्वासाः क्वास्ति संप्रति ।। ३६ ।।

अष्टौ या मातरो दृष्टा ब्राह्मी प्रभृतयः प्रिय ।।

स्वस्वरूपास्ता मन्येऽहं बालिकाः कष्टहेतवः ।। ३७ ।।

तस्यैकस्य न कोप्यन्योस्त्यद्वितीयस्य शूलिनः ।।

तदुदंतप्रवृत्त्यै च क्रियतामुद्यमो विभो ।। ३८ ।।

तस्याः प्रियाया वाक्येन तदपत्यप्रियो गिरिः ।।

उवाच वचनं सास्रमुमा वात्सल्यसन्नगीः ।।३९।।

।। गिरिराज उवाच ।। ।।

अहमेव गमिष्यामि तस्या मेने गवेषणे ।।

नितरां बाधते प्रेम तददृष्ट्यग्निदूषितम् ।।4.2.66.४०।।

यदा प्रभृति सा गौरी निर्गता मम सद्मतः ।।

मन्ये मेने तदारभ्य पद्मसद्मा विनिर्ययौ ।। ४१।।

तदालापामृतधयौ न मे शब्दग्रहौ प्रिये ।।

प्राणेश्वरि तदारभ्य स्यातां शब्दांतरग्रहौ ।। ४२ ।।

जैवातृकी यतोह्नः स्याद्दूरीभूता दृशोर्मम ।।

अहो जैवातृकी ज्योत्स्ना ततोह्नोति दुनोति माम् ।। ४३ ।।

इत्युक्त्वादाय रत्नानि वासांसि विविधानि च ।।

धराधरेंद्रो निर्यातः शुभलग्नबलोदये ।। ४४

।। अगस्त्य उवाच ।। ।।

कानि कानि च रत्नानि कियंत्यपि च षण्मुख ।।

यान्यादाय प्रतस्थे स तानि मे ब्रूहि पृच्छतः ।। ४५ ।।

।। स्कंद उवाच ।।

तुला मुक्ताफलानां तु कोटिद्वय परीमिताः ।।

तथा वारितराणां च हीरकाणां तुला शतम् ।। ४६ ।।

नवलक्षाधिकं विप्र षडस्राणां सुतेजसाम् ।।

लक्षद्वयं विदूराणां तुलाविमलवर्चसाम ।। ४७ ।।

कोटयः पद्मरागाणां पंचावैहि तुला मुने ।।

पुष्पराग तुलालक्षं गुणितं नवसंख्यया ।। ४८ ।।

तथा गोमेद रत्नानां तुलालक्षमिता मुनै ।।

इंद्रनीलमणीनां च तुलाः कोट्यर्ध संमिताः ।। ४९ ।।

गरुडोद्गाररत्नानां तुलाः प्रयुतसंमिताः ।।

शुद्धविद्रुमरत्नानां तुलाश्च नवकोटयः ।। 4.2.66.५० ।।

अष्टांगाभरणानां च संख्या कर्तुं न शक्यते ।।

वाससां च विचित्राणां कोमलानां तथा मुने ।। ५१ ।।

चामराणि च भूयांसि द्रव्याण्यामोदवंति च ।।

सुवर्णदासदास्यादीन्यसंख्यातानि वै मुने ।। ५२ ।।

सर्वाण्यपि समादाय प्रतस्थे भूधरेश्वरः ।।

आगत्य वरणातीरं दूरात्काशीमलोकयत् ।। ५३ ।।

अनेकरत्ननिचयैः खचिताऽखिलभूमिकाम् ।।

नानाप्रासादमाणिक्यज्योतिस्ततततांबराम् ।। ५४ ।।

सौधाग्रविविधस्वर्णकलशोज्वलदिङ्मुखाम् ।।

जयंतीवैजयंतीनां निकरैस्त्रिदिवस्थलीम् ।। ५५ ।।

महासिद्ध्यष्टकस्यापि क्रीडाभवनमद्भुतम् ।।

जितकल्पदुमवनां वनैः सर्वफलावनैः ।। ५६ ।।

इति काशीसमृद्धिं स विलोक्याभूद्विलज्जितः ।।

उवाच च मनस्येव भूधरेंद्र इदं वचः ।। ५७ ।।

प्रासादेषु प्रतोलीषु प्राकारेषु गृहेषु च ।।

गोपुरेषु विचित्रेषु कपाटेषु तटेष्वपि ।। ५८ ।।

मणिमाणिक्यरत्नानामुच्छलच्चारुरोचिषाम् ।।

ज्योतिर्जालैर्जटिलितं ययेदमवलोक्यते ।। ५९ ।।

द्यावाभूम्योरंतरालं तथेति समवैम्यहम् ।।

ईदृक्संपत्तिसंभारः कुवेरस्यापि नो गृहे ।। 4.2.66.६० ।।

अपि वैकुंठभुवने नेतरस्येह का कथा ।।

इति यावद्गिरींद्रोसौ संभावयति चेतसि ।। ६१ ।।

तावत्कार्पटिकः कश्चित्तल्लोचनपथं गतः ।।

आहूय बहुमानं तमपृच्छच्चाचलेश्वरः ।। ६२ ।।

।। हिमवानुवाच ।। ।।

हंहो कार्पटिक श्रेष्ठ अध्यास्वैतदिहासनम् ।।

स्वपुरोदंतमाख्याहि किमपूर्वमिहाध्वग ।। ६३ ।।

कोत्र संप्रत्यधिष्ठाता किमधिष्ठातृ चेष्टितम् ।।

यदि जानासि तत्सर्वमिहाचक्ष्व ममाग्रतः ।। ६४ ।।

सोपि कार्पटिकस्तस्य गिरिराजस्य भाषितम् ।।

समाकर्ण्य समाचष्टुं मुने समुपचक्रमे ।। ६५ ।।

।। कार्पटिक उवाच ।। ।।

आचक्षे शृणु राजेंद्र यत्पृष्टोस्मि त्वयाखिलम् ।।

अहानि पंचषाण्येव व्यतिक्रांतानि मानद।।६६।।

समायाते जगन्नाथे पर्वतेंद्र सुतापतौ ।।

सुंदरान्मंदरादद्रेर्दिवोदासे गते दिवि ।।६७।।

यो वै जगदधिष्ठाता सोधिष्ठातात्र सर्वगः ।।

सर्वदृक्सर्वदः शर्वः कथं न ज्ञायते विभो ।।६८।।

मन्ये दृषत्स्वरूपोसि दृषदोपि कठोरधीः ।।

यतो विश्वेश्वरं काश्यां न वेत्सि गिरिजापतिम् ।।६९।।

स्वभावकठिनात्मापि स वरं हिमवान्गिरिः ।।

प्राणाधिक सुता दानाद्यो धिनोद्विश्वनायकम् ।। 4.2.66.७० ।।

बिभ्रत्सहज काठिन्यं जातो गौरीगुरुर्गुरुः ।।

शंभुं प्रपूज्य सुतया स्रजा विश्वगुरोरपि ।। ७१ ।।

चेष्टितं तस्य को वेद वेदवेद्यस्य चेशितुः ।।

मनागिति च जानेहं तच्चेष्टितमिदं जगत् ।।७२।।

अधिष्ठाता मया ख्यातस्तथाधिष्ठातृ चेष्टितम् ।।

अपूर्वं यत्त्वयापृष्टं तदाख्यामि च तच्छृणु ।। ७३ ।।

शुभे ज्येष्ठेश्वरस्थाने सांप्रतं स उमापतिः ।।

काशीं प्राप्य मुदा तिष्ठेद्गिरिराजांगजा सखः ।। ७४ ।।

।। स्कंद उवाच ।। ।।

यदा यदा स गिरिजा मृदुनामाक्षरामृतम् ।।

आविष्करोति पथिकोऽद्रींद्रो हृष्येत्तदातदा ।। ७५ ।।

उमानामामृतं पीतं येनेह जगतीतले ।।

न जातु जननीस्तन्यं स पिबेत्कुंभसंभव ।। ७६ ।।

उमेतिद्व्यक्षरं मंत्रं योऽहर्निशमनुस्मरेत् ।।

न स्मरेच्चित्रगुप्तस्तं कृतपापमपि द्विज ।। ७७ ।।

पुनः शुश्राव हिमवान्हृष्टः कार्पटिकोदितम् ।।

।। कार्पटिक उवाच ।। ।।

राजन्विश्वेश्वरार्थेयः प्रासादो विश्वकर्मणा ।। ७८ ।।

निर्मीयते सुनिर्माणो जन्मि निर्वाणदायिनः ।।

तदपूर्वं न कर्णाभ्यामप्याकर्णितवानहम् ।। ७९ ।।

यत्रातिमित्रतेजोभिः शलाकाभिः समंततः ।।

मणिमाणिक्यरत्नानां प्रासादेभित्तयः कृताः ।।4.2.66.८० ।।

यत्र संति शतं स्तंभा भास्वंतो द्वादशोत्तराः ।।

एकैकं भुवनं धर्तुमष्टाष्टाविति कल्पिताः ।। ८१ ।।

चतुर्दशसु या शोभा विष्टपेषु समंततः ।।

तस्मिन्विमाने सास्तीह शतकोटिगुणोत्तरा ।। ८२ ।।

चंद्रकांतमणीनां च स्तंभाधार शिलाश्च याः ।।

चित्ररत्नमयैस्तंभैः स्तंभितास्तत्प्रभाभराः ।। ८३ ।।

पद्मरागेंद्रनीलानां शालीनाः शालभंजिकाः ।।

नीराजयंत्यहोरात्रं यत्र रजप्रदीपकैः ।। ८४ ।।

स्फुरत्स्फटिकनिर्माण श्लक्ष्ण पद्मशिलातले ।।

अनेकरत्नरूपाणि विचित्राणि समंततः ।।८५।।

आरक्तपीतमंजिष्ठ नीलकिर्मीरवर्णकैः ।।

विन्यस्तानीव भासंते चित्रे चित्रकृतायतः ।। ८६ ।।

दृक्पिच्छिला विलोक्यंते माणिक्यस्तंभराजयः ।।

यतोऽविमुक्ते स्वक्षेत्रे मोक्षलक्ष्म्यंकुरा इव ।। ८७ ।।

रत्नाकरेभ्यः सर्वेभ्यो गणा रत्नोच्चयान्बहून् ।।

राशींश्चक्रुः समानीय यत्राद्रिशिखरोपमान् ।। ८८ ।।

यत्र पातालतलतो नागानां कोशवेश्मतः।।

गणैर्मणिगणाः सर्वे समाहृत्य गिरीकृताः ।। ८९ ।।

शिवभक्तः स्वयं यत्र पौलस्त्यः स्वद्रिकूटतः ।।

कोटिहाटककूटानि आनयामास राक्षसैः ।। 4.2.66.९० ।।

प्रासादनिर्मितिं श्रुत्वा भक्ता द्वीपांतरस्थिताः ।।

माणिक्यानि समाजह्रुर्यथासंख्यान्यहो नृप ।। ९१ ।।

चिंतामणिः स्वयं यत्र कमर्णे विश्वकर्मणे ।।

विश्राणयेदहोरात्रं विचित्रांश्चिं तितान्मणीन्।। ९२ ।।

नानावर्णपताकाश्च यत्र कल्पमहीरुहः ।।

अनल्पाः कल्पयंत्येव नित्यभक्तिसमन्विताः ।। ९३ ।।

अब्धयो यत्र सततं दधिक्षीरेक्षुसर्पिषाम् ।।

पंचामृतानां कलशैः स्नपयंति दिनेदिने ।। ९४ ।।

यत्र कामदुघा नित्यं स्नपयेन्मधुधारया ।।

स्वदुग्धया स्वयं भक्त्या विश्वेशं लिंगरूपिणम् ।। ९५ ।।

गंधसाररसैर्यं च सेवते मलयाचलः ।।

कर्पूररंभा कर्पूरपूरैर्भक्त्या निषेवते ।। ९६ ।।

इत्याद्य पूर्वं यत्रास्ति प्रत्यहं शंकरालये ।।

कथं तं त्वमुमाकातं न वेत्सि कठिनाशय ।। ९७ ।।

इति तस्य समृद्धिं तां दृष्ट्वा जामातुरद्रिराट ।।

त्रपया परिभूतोभून्नितरां कुंभसंभव ।। ९८ ।।

तस्मै कार्पटिकायाथ स दत्त्वा पारितोषिकम् ।।

पुनश्चिंतापरोजातोऽद्रिराट्कार्पटिके गते ।। ९९ ।।

उवाचेति मनस्येव विस्मयोत्फुल्ललोचनः ।।

अहो भद्रमिदं जातं यत्त्वया श्रावि शर्मभाक् ।। 4.2.66.१०० ।।

यावत्संपत्तिसंभारः श्रूयते दृश्यतेत्र वै ।।

जामातुरत्र सदने लीला त्रिजगतीपतेः ।। १ ।।

ततः प्राभृतकस्तुच्छो नितरां प्रतिभाति मे ।।

कन्यार्थं यो मया नीतो जामातुः परितोषकृत् ।। २ ।।

अहं मन्ये तथैवासौ यथादर्शि मया पुरा ।।

वृद्धोक्षमात्रसंपत्तिः सर्वकर्मपराङ्मुखः ।। ३ ।।

नैनं कोपि विजानीयान्नान्वयोस्य कदाऽचन ।।

नामापि यस्य नैकं च किंदेशीयश्च नोह्यते ।। ४ ।।

किंवृत्तश्च किमाचारो नाममात्रेण चेश्वरः ।।

ऐश्वर्यसूचकं वस्तु यस्य किंचिन्न लक्ष्यते ।। ५ ।।

सोसौ निर्वाणसंपत्तिं रंकायापि ददात्यहो ।।

सुमुखः सर्वकर्माणि फलवंति करोति सः ।। ६ ।।

वेदवेद्यो हि सर्वज्ञो यत्संतानोऽखिलं जगत् ।।

यं न कोपि हि वेदादौ वेदवेद्यः स एष वै ।।७ ।।

योनभिज्ञः सदाज्ञातः स सर्वज्ञोयमेव हि ।।

यस्यैकमपि नो नाम पुंसा ज्ञेयं न केनचित् ।।८।।

सर्वेषां सर्वनामानि यस्य नामानि निश्चितम् ।।

सोसौ हि सर्वदेशीयः सर्वेभ्यः सर्वसिद्धिदः ।।९।।

यस्य देशो न विदितो यस्तु वृत्तिपराङ्मुखः।।

आचारहीनमिव यं पुराऽपश्यं कठोरधीः ।। 4.2.66.११० ।।

श्रुतिस्मृती यतः सर्वमाचारं वित्त एव हि ।।

नाममात्रेण नियतं यमज्ञासिषमीश्वरम् ।। ११ ।।

साक्षादीश्वर एवैष सोन्येष्वैश्वर्यसूचकः ।।

अपि सर्वगुणाधारो गुणातीतः परापरः ।। १२ ।।

अर्वाचीन इहाप्येष पराचीनः परात्परः ।।

भूधराणामहं नाथो विश्वनाथ उमापतिः ।।१३।।

अहं प्रमितसंपत्तिरप्रमेय धनोह्यसौ ।।

तुच्छप्राभृत कस्तस्मान्नेदानीमस्य दर्शनम् ।। १४ ।।

करिष्येथ करिष्यामि व्यावृत्त्यागत्य कर्हिचित् ।।

संप्रधार्येति मनसि सायं स च गिरीश्वरः ।। १५ ।।

आहूय सर्वाननुगान्पार्वतीयान्महाबलान् ।।

आदिष्टवानिदं वाक्यं सर्वे यूयं बलाधिकाः ।। १६ ।।

कुर्वंत्वेकं ममादेशं यावन्नोद्यति भानुमान् ।।

तावच्छिवालयं चैकं विदधत्वत्र सत्वरम्।। १७।।

यस्मिन्कृते कृतार्थः स्यामिह लोके परत्र च ।।

समागत्येह काश्यां यः कुर्यादेकं शिवालयम् ।। १८ ।।

तेन त्रैलोक्यमखिलं सालयं कृतमेव हि ।।

तेन दत्तानि दानानि महांति विधिपूर्वकम् ।। १९ ।।

सुपर्वणि सुपात्राय सुताथ श्रद्धयाधिकम् ।।

येन स्ववित्तमानेन धर्मोपार्जित वित्ततः ।। 4.2.66.१२० ।।

कृतं शंभोर्महासद्म न तं पद्मा त्यजेत्क्वचित् ।।

तपांसि तेन तप्तानि शीर्णपर्णाशनान्यपि ।। २१ ।।

वाराणसीं समासाद्य येनाकारि शिवालयः ।।

अशेषाः सुविशेषाढ्या इष्टांस्तेन महामखाः।। २२ ।।

आनंदकानने येन देवदेवालयः कृतः ।।

इति तस्य समादेशं समाकर्ण्यानुगास्ततः ।।। २३ ।।

चक्रुर्देवालयं श्रेष्ठं यावद्व्युष्टा न यामिनी ।।

तावच्छैलेश्वरं लिंगं शैलेशेन प्रतिष्ठितम् ।।

चंद्रकांतमणेश्चंचत्कांतिश्चेतितमंडपम् ।। २४ ।।

अलेखयत्प्रशस्तिं च प्रशस्ताक्षरमालिनीम् ।।

व्याचक्षाणां निजां सर्वं गोत्रेभ्योप्यधिकोन्नतिम् ।। २५ ।।

ततोऽरुणोदये जाते स्नात्वा पंचनदे ह्रदे ।।

शैलराजः कालराजं नमस्कृत्य समर्च्य च ।। २६ ।।

तत्र राशिं समुत्सृज्य परितस्तवरितो ययौ ।।

पार्वतीयैरनुगतः सर्वैरपि निजालयम् ।। २७ ।।

ततः प्रातः समालोक्य गणौ हुंडनमुंडनो ।।

हृष्टौ देवालयं रम्यं वरणायास्तटे शुभे ।। २८ ।।

अदृष्टपूर्वदेवाय निवेदयितुमागतौ ।।

तौ तु दृष्ट्वा महादेवमुमादर्शितदर्पणम् ।। २९ ।।

प्रणम्य दंडवद्भूमौ कृतांजलिपुटौ गणौ ।।

कृताभ्यनुज्ञो भ्रूक्षेपाद्विज्ञप्तिमथ चक्रतुः ।। 4.2.66.१३० ।।

देवदेव न जानीवः केनचिद्दृढभक्तिना ।।

अतीव रम्यः प्रासादो निर्मितो वरणातटे ।। ३१ ।।

आसायं नैक्षिचावाभ्यां दृष्टोद्यैव प्रगे विभो।।

गणोदितमितीशानो निशम्याह गिरींद्रजाम् ।। ३२ ।।

विज्ञातसर्ववृत्तांतः सर्वज्ञोप्यनभिज्ञवत् ।।

अचलेंद्रागजेयावस्तत्प्रासादविलोकने ।।३७।।

इत्युक्त्वेशः सगिरिजो निरगात्सगणो मुने।।

महास्यंदनमारुह्य प्रासादं द्रष्टुमुत्सुकः ।। ३४ ।।

अथालुलोके गिरिशः प्रासादं वरणातटे ।।

अतीव रम्यरचनं यामिनीमात्रनिर्मितम्।।३५ ।।

स्यंदनादवरुह्याथ गर्भागारमवीविशत् ।।

ददर्श च महालिंगं चंद्रकांतशिलामयम् ।। ३६ ।।

देदीप्यमानं महसा मोक्षलक्ष्म्यंकुराकृति ।।

दृष्टिप्रसादजननं पुनर्जननशातनम् ।। ३७ ।।

केनेदं स्थापितं लिंगं यावज्जिज्ञासतीश्वरः ।।

तावद्दर्श पुरतः प्रशस्तिं कर्तृसूचिकाम्।।

वाचयित्वेव च मनाङ्मनस्येव मनोजहृत् ।।

उवाच देवो दिष्ट्येति प्रेक्षस्वात्मपितुः कृतिम् ।। ३९ ।।

उमा श्रुत्येति संहृष्टा कदंबकुसुमश्रियम् ।।

आनंदांकुरलक्ष्मीवदंगेषु परिबिभ्रती ।। 4.2.66.१४० ।।

ततो व्यजिज्ञपद्देवं देवी पादौ प्रणम्य च ।।

अस्मिँल्लिंगवरे नाथ त्वया स्थेयमहर्निशम् ।। ४१ ।।

अस्य लिंगस्य ये भक्ता शैलेशस्य महेशितुः ।।

तेभ्यस्त्वं महतीमृद्धिं दास्यसीह परत्र च ।। ४२ ।।

तथेति देव उक्त्वा तां पार्वतीं पुनरब्रवीत् ।।

वरणायां कृतस्नानैः शैलेशो यैः समर्चितः ।। ४३ ।।

पितॄन्संतर्प्य च मुदा दत्त्वा दानानि शक्तितः ।।

न तेषां पुनरावृत्तिरत्र संसारवर्त्मनि।। ४४ ।।

शैलैश्वरे महालिंगे नित्यं स्थास्याम्यहं शुभे ।।

प्रदास्यामि परां मुक्तिमेतल्लिंगार्चके जने।। ४५।।

शैलेश्वरं ये द्रक्ष्यंति वरणायाः सुरोधसि ।।

तेषां काश्यां निवसतां दुःखं नाभिभविष्यति ।। ४६।।

उमयापि वरो दत्तस्तत्र लिंगे घटोद्भव ।।

शैलेश्वरस्य ये भक्तास्ते मे पुत्रा न संशयः ।। ४७

।। स्कंद उवाव । ।।

इति शैलेश्वरं लिंगं कथितं ते महामुने ।।

इदानीं कथयिष्यामि रत्नेश्वरसमुद्भवम् ।। ४८।।

श्रुत्वा शैलेश माहात्म्यं श्रद्धया परया नरः ।।

पापकंचुकमुत्सृज्य शिवलोकमवाप्नुयात् ।। १४९ ।।. ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशाखंडे उत्तरार्धे शैलेशादि लिंगनिर्णयोनाम षट्षष्टितमोऽध्यायः ।। ६६ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 67

।। अगस्त्य उवाच ।। ।।

रत्नेश्वरसमुत्पतिं कथयस्व षडानन ।।

रत्नभूतं महालिंगं यत्काश्यां परिवर्ण्यते ।। १ ।।

कोस्य लिंगस्य महिमा केनैतच्च प्रतिष्ठितम् ।।

एतं विस्तरतो ब्रूहि गौरीहृदयनंदन ।। २ ।।

।। स्कंद उवाच ।।

रत्नेश्वरस्य माहात्म्यं कथयिष्यामि ते मुने।।

यथा च रत्नलिंगस्य प्रादुर्भावोऽभवद्भुवि ।। ३ ।।

श्रुतं नामापि लिंगस्य यस्य जन्मत्रयार्जितम्।।

वृजिनं नाशयेत्तस्य प्रादुर्भावं ब्रुवे मुने ।। ४।।

शैलराजेन रत्नानि यानि पुंजीकृतान्यहो।।

उत्तरे कालराजस्य तानि तस्य गिरेर्वृषात्।। ५ ।।

सर्वरत्नमयं लिंगं जातं तत्सुकृतात्मनः ।।

शक्रचापसमच्छायं सर्वरत्नद्युतिप्रभम् ।। ६ ।।

तल्लिंगदर्शनादेव ज्ञानरत्नमवाप्यते ।।

शैलेश्वरं समालोक्य शिवौ तत्र समागतौ ।। ७।।

यत्र रत्नमयं लिंगमाविर्भूतं स्वयं मुने ।।

तस्य स्फुरत्प्रभाजालैस्ततमंबरमंडलम् ।। ८ ।।

तत्र दृष्ट्वा शुभं लिंगं सर्वरत्नसमुद्भवम् ।।

भवान्यदृष्टपूर्वा हि परिपप्रच्छ शंकरम् ।। ९ ।।

देवदेव जगन्नाथ सर्वभक्ताभयप्रद ।।

कुतस्त्यमेतल्लिंगं द्विसप्तपातालमूलवत् ।। 4.2.67.१० ।।

ज्वालाजटिलिताकाशं प्रभाभासित दिङ्मुखम् ।।

किमाख्यं किं स्वरूपं च किं प्रभावं भवांतक ।। ११ ।।

यस्य संवीक्षणादेव मनोमेतीव हृष्टवत् ।।

इहैव रमते नाथ कथयैतत्प्रसादतः ।। १२ ।।

।। देवदेव उवाच ।। ।।

शृण्वपर्णे समाख्यामि यत्त्वया पृच्छि पार्वति ।।

स्वरूपमेतल्लिंगस्य सर्वतेजोनिधेः परम् ।। १३ ।।

तव पित्रा हिमवता गिरिराजेन भामिनि ।।

त्वामुद्दिश्य महारत्नसंभारोत्राप्यनायि हि ।। १४ ।।

अत्र तानि च रत्नानि राशीकृत्य हिमाद्रिणा ।।

सुकृतोपार्जितान्येव ययौ स्वसदनं पुनः ।। १५ ।।

तवार्थं वाममार्थं वा श्रद्धया यत्समर्प्यते ।।

काश्यां तस्य परीपाको भवेदीदृग्विधोऽनघे ।। १६ ।।

लिंगं रत्नेश्वराख्यं वै मत्स्वरूपं हि केवलम् ।।

अस्य प्रभावो हि महान्वाराणस्यामुमे ध्रुवम् ।। १७ ।।

सर्वेषामिह लिंगानां रत्नभूतमिदं परम् ।।

अतो रत्नेश्वरं नाम परं निर्वाणरत्नदम् ।। १८ ।।

अनेनैव सुवर्णेन पित्रा राशीकृतेन च ।।

प्रासादमस्य लिंगस्य विधापय महेश्वरि ।।१९।।

लिंगप्रासादकरणात्खंडस्फुटित संस्कृतेः ।।

लिंगस्थापनजं पुण्यं हेलयैवेह लभ्यते ।। 4.2.67.२०।।

तथेति भगवत्योक्त्वा गणाः प्रासादनिर्मितौ ।।

सोमनंदि प्रभृतयो ऽसंख्या व्यापारिता मुने ।। २१ ।।

गणैश्च कांचनमयो नानाकौतुकचित्रितः ।।

निर्ममे याममात्रेण प्रासादो मेरुशृंगवत् ।।२२।।

देवी प्रदृष्टवदना दृष्ट्वा प्रासादनिर्मितिम् ।।

गणेभ्यो व्यतरद्भूरि समानं पारितोषिकम् ।। २३ ।।

पुनश्च देवी पप्रच्छ प्रणिपातपुरःसरम् ।।

महिमानं महादेवं लिंगस्यास्य महामुने ।।२४।।

।। देवदेव उवाच ।। ।।

लिंगं त्वनादिसंसिद्धमेतद्देवि शुभप्रदम् ।।

आविर्भूतमिदानीं च त्वत्पितुः पुण्यगौरवात् ।। २५ ।।

गुह्यानां परमं गुह्यं क्षेत्रेऽस्मिश्चिंतितप्रदम् ।।

कलौ कलुषबुद्धीनां गोपनीयं प्रयत्नतः ।। २६ ।।

यथा रत्नं गृहे गुप्तं न कैश्चिज्ज्ञायते परैः ।।

अविमुक्ते तथा लिंगं रत्नभूतं गृहे मम ।। २७ ।।

यानि ब्रह्मांडमध्येत्र संति लिंगानि पार्वति ।।

तैरर्चितानि सर्वाणि रत्नेशो यैः समर्चितः।।२८।।

प्रमादेनापि यैर्गौरि लिंगं रत्नेशमर्चितम् ।।

ते भवंत्येव नियतं सप्तद्वीपेश्वरा नृपाः ।। २९ ।।

त्रैलोक्ये यानि वस्तूनि रत्नभूतानि तानि तु ।।

रत्नेश्वरं समभ्यर्च्य सकृत्प्राप्नोति मानवः ।। 4.2.67.३० ।।

पूजयिष्यंति ये लिंगं रत्नेशं कामवर्जिताः ।।

ते सर्वे मद्गणा भूत्वा प्रांते द्रक्ष्यंति मामिह ।। ३१ ।।

रुद्राणां कोटिजप्येन यत्फलं परिकीर्तितम् ।।

तत्फलं लभ्यते देवि रत्नेशस्य समर्चनात् ।। ३२ ।।

लिंगे चानादिसंसिद्धे यद्वृत्तं तद्ब्रवीमि ते ।।

इतिहासं महाश्चर्यं सर्वपापनिकृंतनम् ।। ३३ ।।

पुरेह नर्तकी काचिदासीन्नाट्यार्थकोविदा ।।

सैकदा फाल्गुने मासि शिवरात्र्यां कलावती ।।३४।।

ननर्त जागरं प्राप्य जगौ गीतं च पेशलम् ।।

स्वयं च वादयामास नानावाद्यानि वाद्यवित् ।।३५।।

तेन तौर्यत्रिकेणापि प्रीणयित्वाथ सा नटी।।

रत्नेश्वरं महालिंगं देशमिष्टं जगाम ह ।। ३६ ।।

कालधर्मवशंयाता तत्र सा वरनर्तकी ।।

सुता गंधर्वराजस्य वसुभूतेर्बभूव ह ।। ३७ ।।

संगीतस्य सवाद्यस्य तस्य लास्यस्यपुण्यतः ।।

तत्रेशाग्रे कृतस्येह जागरे शिवरात्रिजे ।। ३८ ।।

रम्या रत्नावली नाम रूपलावण्यशालिनी ।।

कलाकलापकुशला मधुरालापवादिनी ।। ३९ ।।

पितुरानंदकृन्नित्यं वसुभूतेर्घटोद्भव ।।

सर्वगांधर्वकुशला गुणरत्नमहाखनिः ।। 4.2.67.४० ।।

मुने सखीत्रयं तस्याश्चारु चातुर्यभाजनम् ।।

शशिलेखानंगलेखा चित्रलेखेति नामतः ।। ४१ ।।

तिसृभिस्ताभिरेकत्र वाग्देवीपरिशीलिता ।।

ताभ्यः सर्वाः कलाः प्रादात्परिप्रीता सरस्वती ।। ४२ ।।

प्राप्य रत्नावली गौरि सा जन्मांतरवासनाम् ।।

रत्नेश्वरस्य लिंगस्य जग्राह नियमं शुभम् ।। ४३।।

रत्नभूतस्य लिंगस्य काश्यां रत्नेश्वरस्य वै ।।

नित्यं संदर्शनं प्राप्य वक्ष्याम्यपि वचो मुखे ।। ४४ ।।

इत्थं नियमवत्यासीत्सा गंधर्वसुतोत्तमा ।।

ताभिः सखीभिः सहिता नित्यं लिंगं च पश्यति ।। ४५।।

एकदाराध्य रत्नेशं ममैतल्लिंगमुत्तमम् ।।

समानर्च च सा बाला रम्यया गीतमालया ।। ४६ ।।

सख्यः प्रदक्षिणीकर्तुं लिंगं तिस्रोऽप्युमे गताः ।।

तस्या गीतेन तुष्टोहं लिंगस्थो वरदोभवम् ।। ४७ ।।

यस्त्वया रंस्यते रात्रावद्य गंधर्वकन्यके ।।

तवनामसमानाख्यः स ते भर्ता भविष्यति ।। ४८ ।।

इति लिंगांबुधेर्जातां परिपीय वचःसुधाम् ।।

बभूवानंदसंदोह मंथरातीव ह्रीमती ।। ४९ ।।

गताथ व्योममार्गेण सखीभिः स्वपितुर्गृहम् ।।

कथयंती निजोदंतं तमालीनां पुरो मुदा ।। 4.2.67.५० ।।

ताभिर्दिष्ट्येति दिष्ट्येति सखीभिः परिनंदिता ।।

अद्य ते वांछितं भावि रत्नेशस्य समर्चनात् ।। ५१ ।।

यद्यायाति स ते रात्रावद्य कौमारहारकः ।।

चोरो बाहुलतापाशैः पाशितव्योतियत्नतः ।। ५२ ।।

गोचरीक्रियतेस्माभिर्यथा स सुकृतैकभूः ।।

प्रातरेव तव प्रेयान्रत्नेशादिष्ट इष्टकृत् ।।५३ ।।

यातास्वस्मासु हृष्टासु भवती शयगौरवात् ।।

अहो रत्नेश्वरं लिंगं प्रत्यक्षीकृतवत्यसि ।। ५४ ।।

अहोभाग्योदयो नृणामहो पुण्यसमुच्छ्रयः ।।

एकस्यैव भवेत्सिद्धिर्यदेकत्रापि तिष्ठताम् ।। ५५ ।।

सत्यं वदंति नासत्यं दैवप्राधान्यवादिनः ।।

दैवमेव फलेदेकं नोद्यमो नापरं बलम् ।। ५६ ।।

भवत्या अपि चास्माकमेक एव हि चोद्यमः ।।

परं दैवं फलत्येकं यथा तव न नः पुरः ।। ५७ ।।

लोकानां व्यवहारोयमालिप्रोक्तप्रसंगतः ।।

परं मनोरथावाप्तिस्तव या सैव नः स्फुटम् ।।५८।।

इति संव्याहरंतीनामनंतोध्वाऽतितुच्छवत् ।।

क्षणात्तासां व्यतिक्रांतः प्राप्ताश्च स्वंस्वमालयम् ।। ५९ ।।

अथ प्रातः समुत्थाय पुनरेकत्र संगताः ।।

सा च मौनवती ताभिः परिभुक्तेव लक्षिता ।। ।। 4.2.67.६० ।।

तूष्णीं प्राप्याथ काशीं सा स्नात्वा मंदाकिनीजले ।।

सखीभिः सहितापश्यल्लिंगं रत्नेश्वरं मम ।। ६१ ।।

निर्वर्त्य नियमं साथ लज्जामुकुलितेक्षणा ।।

निर्बंधेन वयस्याभिः परिपृष्टा जगाद ह ।। ६२ ।।

।। रत्नावल्युवाच ।। ।।

अथ रत्नेश यात्रायाः प्रयातासु स्वमंदिरम् ।।

भवतीषु स्मरंत्येव तद्रत्नेशवचोऽमृतम्।। ६३ ।।

सविशेषांगसंस्काराऽविशं संवेशमंदिरम् ।।

निद्रादरिद्रनयना तद्विलोकनलालसा ।।६४।।

बलात्स्वप्नदशां प्राप्ता भाविनोर्थस्य गौरवात् ।।

आत्मविस्मरणे हेतू ततो मे द्वौ बभूवतुः ।। ६५ ।।

तंद्री तदंगसंस्पर्शौ मम बोधापहारकौ ।।

तंद्र्या परवशा चासं ततस्तत्स्पर्शनेन च ।। ६६ ।।

न जाने त्वथ किं वृत्तं काहं क्वाहं स चाथ कः ।।

तं निर्जिगमिषुं सख्यो यावद्धर्तुं प्रसारितः ।।६७।।

दोः कंकणेन रिपुणा क्वणितं तावदुत्कटम् ।।

महता सिंजितेनाहं तेनाल्पपरिबोधिता ।। ६८ ।।

सुखसंतानपीयूष ह्रदे परिनिमज्य वै ।।

क्षणेन तद्वियोगाग्निकीलासु पतिता बलात् ।।६९।।

किंकुलीयः स नो वेद्मि किंदेशीयः किमाख्यकः ।।

दुनोति नितरां सख्यस्तद्विश्लेषानलो महान् ।। 4.2.67.७० ।।

अनल्पोत्कलितं चेतः पुनस्तत्संगमाशया ।।

प्राणानां मे यियासूनामेकमेव महौषधम् ।। ७१ ।।

वयस्या निशिभुक्तस्य तस्यैव पुनरीक्षणम् ।।

भवतीनामधीनं च तत्पुनर्दर्शनं मम ।।७२।।

काऽलीकमालयो वक्ति स्निग्धमुग्धेसखीजने ।।

तद्दर्शनेन स्थास्यंति प्राणा यास्यंति चान्यथा ।। ७३ ।।

दशम्यवस्था सन्नह्येद्बाधितुं माधुना भृशम् ।।

इति तस्या गिरः श्रुत्वा दूनाया नितरां च ताः ।। ७४ ।।

प्रवेपमानहृदयाः प्रोचुर्वीक्ष्य परस्परम् ।। ७५ ।।

।। सख्य ऊचुः ।। ।।

यस्य ग्रामो न नो नाम नान्वयो नापि बुध्यते ।।

स कथं प्राप्यते भद्रे क उपायो विधीयताम् ।। ७६ ।।

इति रत्नावली श्रुत्वा ससंदेहां च तद्गिरम् ।।

वयस्यास्तदवाप्तौ मे यूयं कुंठि मुमूर्छ ह ।। ७७ ।।

इत्यर्धोक्तेन सा बाला यूयं कुंठितशक्तयः ।।

यद्वक्तव्यं त्विति तया यूयं कुंठीति भाषितम् ।। ७८ ।।

ततस्तास्त्वरिताः सख्यः परितापोपहारकान् ।।

बहुशः शीतलोपायान्व्यधुर्मोहप्रशांतये ।। ७९ ।।

व्यपैति न यदा मूर्छा तत्तच्छीतोपचारतः ।।

तस्यास्तदैकयानीतं रत्नेशस्नपनोदकम् ।। 4.2.67.८० ।।

तदुक्षणात्क्षणादेव तन्मूर्छा विरराम ह ।।

सुप्तोत्थितेव सावादीन्मुहुः शिवशिवेति च ।। ८१ ।।

।। स्कदं उवाच ।।

श्रद्धावतां स्वभक्तानामुपसर्गे महत्यपि ।।

नोपायांतरमस्त्येव विनेश चरणोदकम् ।। ८२।।

ये व्याधयोपि दुःसाध्या बहिरंतः शरीरगाः ।।

श्रद्धयेशोदकस्पर्शात्ते नश्यंत्येव नान्यथा ।। ८३ ।।

सेवितं येन सततं भगवच्चरणोदकम्।।

तं बाह्याभ्यंतरशुचिं नोपसर्पति दुर्गतिः ।। ८४ ।।

आधिभौतिकतापं च तापं वाप्याधिदैविकम् ।।

आध्यात्मिकं तथा तापं हरेच्छ्रीचरणोदकम् ।। ८५ ।।

व्यपेतसंज्वरा चाथ गंधर्वतनया मुने ।।

उचितज्ञेति होवाच ताः सखीः स्रिग्धधो(धी?)रधीः ।। ८६ ।।

।। रत्नावल्युवाच ।। ।।

शशिलेखेनंगलेखे चित्रलेखे मदीहितं ।।

यूयं कुंठितसामर्थ्याः कुतो वस्ताः कलाः क्व वा ।।८७।।

मत्प्रियप्राप्तये सम्यगुपायोऽस्ति मयेक्षितः ।।

रत्नेश्वरानुग्रहतोऽनुतिष्ठत हि तं हिताः ।। ८८ ।।

शशिलेखेभिलषितप्राप्त्यै लेखांस्त्वमालिख ।।

संलिखानंगलेखे त्वं यूनः सर्वावनीचरान् ।। ८९ ।।

चित्रगे चित्रलेखे त्वं पातालतलशायिनः ।।

किंचिदाविर्भवच्चारु तारुण्यालंकृतीँल्लिख ।। 4.2.67.९० ।।

अथाकण्येति ताः सख्यस्तच्चातुर्यं प्रवर्ण्य च ।।

लिलिखुः क्रमशः सख्यो यूनो यौवन शेवधीन् ।। ९१ ।।

निर्यत्कौमारलक्ष्मीकान्पुंवत्त्व श्रीसमावृतान् ।।

प्रातःसंध्येव गंधर्वी नृपाद्यांस्तानवैक्षत ।। ९२ ।।

सर्वान्सुरनिकायान्सा व्यलोकत शुभेक्षणा ।।

न चांचल्यं जहावक्ष्णोस्तेषु स्वर्लोकवासिषु ।। ९३ ।।

ततो मध्यमलोकस्थान्मुनिराजकुमारकान् ।।

विलोक्यापि न सा प्रीतिं क्वाप्याप प्रेमनिर्भरा ।। ९४ ।।

अथ रत्नावली बाला कर्णाभ्यर्णविलोचना ।।

दृशौ व्यापारयामास बलिसद्मयुवस्वपि ।। ९५ ।।

दितिजान्दनुजान्वीक्ष्य सा गंधर्वी कुमारकान् ।।

रतिं बबंध न क्वापि तापिता मान्मथैः शरैः ।। ९६ ।।

सुधाकर करस्पृष्टाप्यतिदूनांगयष्टिका ।।

पश्यंती नागयूनः सा किंचिदुच्छ्वसिताऽभवत् ।। ९७ ।।

भोगिनस्तान्विलोक्यापि चित्रंचित्रगतानथ ।।

मनात्संभुक्तभोगेव क्षणमासीत्कुमारिका ।। ९८ ।।

यूनः प्रत्येकमद्राक्षीदशेषाञ्छेष वंशजान् ।।

तक्षकान्वयगांस्तद्वदथ वासुकिगोत्रजान् ।। ९९ ।।

पुलीकानंत कर्कोट भद्रसंतानगानपि ।।

दृष्ट्वा नागकुमारांस्ताञ्छंखचूडमथैक्षत ।। 4.2.67.१०० ।।

शंखचूडेक्षणादेव परां लज्जां बभार सा ।।

उद्भिन्नपुलकाप्यासीदंगप्रत्यंग संधिषु ।। १ ।।

तत्त्रपाभरतोऽज्ञायि तत्कौमारहरो वरः ।।

तया वैदग्ध्यवरया क्षणतश्चित्रलेखया ।। २ ।।

अथ चित्रपटी चित्रलेखा चित्रपटांचलम् ।।

परिक्षिप्यावृणोत्तूर्णं परिहासैकपेशला ।। ३ ।।

रत्नावली चित्रलेखां ह्रिया मौनावलंबिनी ।।

दृशा कुटिलयाद्राक्षीत्प्रस्फुरद्दशनांबरा ।। ४ ।।

कटाक्षितानंगलेखा तयाथ शशिलेखया ।।

चित्रलेखापरिक्षिप्त पटांचलमपाकरोत् ।। ५ ।।

वसुभूतिसुता साथ कन्या रत्नावली शुभा ।।

शंखचूडान्ववाये तं रत्नचूडमवैक्षत ।। ६ ।।

तदीक्षणक्षणाद्दृष्टिरानंदाश्रुभिरावृता ।।

कपोलभित्तिरभवत्स्वेदोदकणिकांचिता ।। ७ ।।

चकंपे गात्रलतिका धृतरोमांचकंचुका ।।

चित्रन्यस्तेव तस्तंभ क्षणं मुकुलितानना।। ८ ।।

ततः सा चित्रलेखा तामेत्याश्वासयदातुराम्।।

मौत्सुक्यं व्रज गंधर्वि सिद्धस्तेद्य मनोरथः ।।९।।

एतस्यावगतं सर्वं देशनामान्वयादिकम्।।

मा विषीदालिसुलभस्त्वेष रत्नेश्वरार्पितः ।।4.2.67.११०।।

अहो सदृग्वरावाप्त्या रत्नेशेनासि तोषिता ।।

उत्तिष्ठ यामः सदनं रत्नेशः सर्वदोहिनः ।। ११ ।।

अथ देववशाद्यांत्यस्ता दृष्टा गगनाध्वगाः ।।

सुबाहुना दानवेन पातालतलवासिना ।। १२ ।।

गृहीत्वा ताश्चतस्रोपि निरगाद्दानवो गृहम्।।

हरिर्विकटदंष्ट्रास्यः प्रांतरे हरिणीरिव ।। १३ ।।

तास्तं विलोक्य गंधर्व्यो दंष्ट्राविकटिताननम् ।।

रुधिरारुणनेत्रं च जाता वेपथुभूमयः ।। १४ ।।

हा मातर्हा पितस्त्राहि हा विधे मा विधेहि तत् ।।

यदेतत्कर्तुमारब्धमनाथास्वतिनिष्ठुरम् ।। १५ ।।

हा दैव मंदभाग्याभिः किमस्माभिरनुष्ठितम् ।।

सुकृतेतरवार्तापि नो चित्ते व्याहृता क्वचित् ।। १६ ।।

शिशुक्रीडनकं हित्वा हित्वा रत्नेश्वरार्चनम् ।।

पित्रोः स्वाधीन सच्चेष्टा इष्टं विद्मो न किंचन ।।१७।।

अधोभुवनगा दीना हीनानाथेन कोत्र नः ।।

त्राति त्राणार्थिनीर्बालाः शंभो रत्नेश सर्वग ।। १८ ।।

इत्थं गंधर्वतनया विलपंतीः कृपातुरम् ।।

शुश्राव नागराजोसौ रत्नचूडो महामनाः ।। १९ ।।

कोसौ मत्स्वामिनो नाम रत्नेशस्य महेशितुः ।।

लिंगराजस्य गृह्णाति कर्मबंधनभेदिनः ।। 4.2.67.१२० ।।

पुनरप्यार्तरावं स श्रुत्वा बालामुखेरितम् ।।

रत्नेश रक्षरक्षेति गृहीतास्त्रो विनिर्ययौ ।।२१ ।।

तं वसारसपानेन महामांसनिषेवणात् ।।

अत्यंतोन्मत्त दुश्चेष्टं रत्नचूडो निरैक्षत।। २२ ।।

अध्याक्षिपच्च रे दुष्ट शिष्टकन्यापहारक ।।

मद्दृष्टिगोचरं यातः क्व यास्यस्यद्य रेऽधम ।। २३ ।।

मम बाणहतप्राणः प्रयाणं कुरु दुर्मते ।।

आर्तत्राणोद्यतमते वैवस्वतपुरं प्रति ।। २४ ।।

रत्नेश्वरस्य यैर्नाम प्रलयापद्यपि स्फुटम् ।।

गृहीतं न भवादृग्भ्यस्तेषु भीतिर्भयात्मसु ।। २५ ।।

रत्नेश्वरमहानाम कृतत्राणास्तु ये नराः ।।

तेषां जन्मजराव्याधि कलिकालभयं कुतः ।।२६।।

इत्युक्त्वा ता भयत्रस्तास्तन्मुखप्रहितेक्षणाः ।।

व्याघ्रघ्राता इव मृगीर्माभैषिष्टेत्युवाच सः ।। २७ ।।

इत्याश्वास्याथ गंधर्वीः स वै भुजगराजजः ।।

आकर्णपूर्णमाकृष्य कोदंडं प्राहिणोच्छरम् ।। २८ ।।

सोपि क्रुद्धो दनुजराट्पदास्पृष्टभुजंगवत् ।।

आविद्ध्य कालदंडाभं परिघं व्यसृजन्महत् ।।२९।।

हृदि रत्नेश्वरं लिंगं यस्य सम्यग्विजृंभते ।।

अलातदंडवत्तस्मिन्कालदंडोपि जायते ।। ।। 4.2.67.१३० ।।

अंतरेव स चिच्छेद परिघं स्वमहेषुभिः ।।

दुर्वृतस्य यथेहायुर्विच्छिद्येतांतरैव हि ।। ३१ ।।

ततोस्य बाणं चिक्षेप कालानलसमप्रभम् ।।

स बाणस्तस्य हृदयं प्रविश्य प्रगवेष्य च ।। ३२ ।।

प्राणानस्य विनिर्यात्य स्वयं तूणमगात्पुनः ।।

हृदिस्थं तस्य दौरात्म्यं सर्वं विज्ञाय तत्त्वतः ।। ३३ ।।

दिगंगनापुरः ख्यातुमिव नागाशुगो गतः ।। ३४ ।।

अन्यायोपार्जितैर्द्रव्यैर्यः सुखं भोक्तुमिच्छति ।।

तानि द्रव्याणि यांत्येव स प्राणानि कुतः सुखम ।। ३५ ।।

इति तं दानवं हत्वा नागराजो महाबली ।।

प्रत्युवाचाथ ताः कन्याः का यूयं कस्य चात्मजाः ।। ३६ ।।

दुरात्मना कुतोनेन संगता दनुजन्मना ।।

क्व वा रत्नेश्वरं लिंगं भवतीभिर्विलोकितम् ।। ३७ ।।

यस्य नामाक्षरोच्चाराद्व्यपेत परमापदः ।।

यृयमाशु तदाख्यात येन जानामि तत्त्वतः ।।२८।।

इति श्रुत्वा गिरस्तस्य नितरां प्रेमनिर्भराः।।

परस्परं मुखं वीक्ष्य कोसौ स्याद्दृष्टपूर्ववत् ।। ३९ ।।

अकारण सखा कोसौ प्रांतरे समुपस्थितः ।।

निजप्राणान्पणीकृत्य येन त्राता स्म बालिकाः ।। 4.2.67.१४० ।।

अस्य संदर्शनादेव स्वभाव चपलान्यपि ।।

मंथराणींद्रियाणिस्तु परिपीय सुधामिव ।। ४१ ।।

यातुमन्यत्र नो नेत्रे प्रोत्सहेते यथा तथा ।।

अन्यद्वस्त्वंतरं प्रेक्ष्य रमणीयतरंत्वपि ।। ४२।।

वचःपीयूषमाधुर्य नितरां प्राप्य नः श्रुती ।।

शब्दांतरग्रहापेक्षां न कुर्वाते स्वजन्मनः ।। ४३ ।।

आप्नुतः पंगुतामेतौ पादौ नश्चंचलावपि ।।

अमुं युवानमालोक्य चोरं नः सन्मनोमणेः ।। ४४ ।।

इति ब्रुवंत्यस्ता बालाः परस्परमनुल्बणम् ।।

दृष्ट्वापि चित्रमध्यस्थं विविदुस्तन्न बालिकाः ।। ४५ ।।

अतीव भीषणाकार दनुजस्यातिसाध्वसात् ।।

अंधीभूतेक्षणास्तं नाज्ञासिषुर्हरिणीक्षणाः ।। ४६ ।।

ऊचुश्च तं युवानं ता निजजीवितरक्षिणम्।।

यदंग भवता पृष्टं स्नेहनिर्भरचेतसा ।। ४७ ।।

तदाचक्षामहे सर्वमवधेहि क्षणं मनः ।।

इयं गंधर्वराजस्य वसुभूतेस्तनूद्भवा ।। ।। ४८ ।।

कन्या रत्नावली नाम गुणरत्नमहाखनिः ।।

वयं वयस्या एतस्याश्छायेवानुगताः सदा ।। ४९ ।।

आरभ्य बाल्यमप्येषा लिंगं रत्नेश्वराभिधम् ।।

यांति पित्राप्यनुज्ञाता काश्यामर्चयितुं सदा ।। 4.2.67.१५० ।।

वरोपि दत्तस्तेनास्यै प्रसन्नेनाथ शंभुना ।।

हरिष्यतीति यः स्वप्ने कौमारं ते कुमारिके ।। ५१ ।।

तव नामसमानाख्यः स ते भर्ता भविष्यति ।।

युवानं स्वप्नभोक्तारं प्राप्याप्येषा सुदुःखिता ।।५२।।

पुनस्तद्विरहोत्थेन वह्निनातीव तापिता।।

कलाकौशल्यतोऽस्माभिः सोपि चित्रे प्रदर्शितः ।। ५३ ।।

यस्य न ग्राम नामापि नान्वयोप्यवबुध्यते ।।

तं दृष्ट्वा चित्रलिखितमप्येषा जीविता पुनः ।। ५४ ।।

ततो रत्नेश्वरं नत्वा स्वगृहायोत्सुकाभवत् ।।

यांतीस्ततोऽनया सार्धं प्रांतरे गगना ध्वनि ।। ५५।।

अतर्किता यमश्चास्मान्धृत्वा पातालमाविशत् ।।

अनंतरं भवानेव तं वेत्ति दनुजाधमम् ।। ।।५६।।

अंग इत्येव वृत्तांतो निजोऽस्माभिरुदीरितः ।।

प्रसादं कुरु चास्माकं पुरः कोसि कृपानिधे ।।५७।।

यदा प्रभृति चास्माभिः स दृष्टो दुष्टदानवः ।।

तदाप्रभृति नो नेत्रे विद्युतेव हतप्रभे ।। ५८ ।।

कांदिशीका भयत्रातर्न विद्मः किंचिदेव हि ।।

क्व वयं का वयं कस्त्वं किं जातं किं भविष्यति ।। ५९ ।।

निशम्येति स पुण्यात्मा नागराजकुमारकः ।।

आश्वास्य ता भयत्रस्ताः प्रोवाचेदं च पुण्यधीः ।। 4.2.67.१६० ।।

मया सह समायात रत्नेशं दर्थयामि वः ।।

इत्याहूय स ता निन्ये क्रीडावापीं सुखोदकाम् ।।६१।।

वित्रित्रमणिसोपानां हंसकोककृतारवाम्।।

कवीनां वासितव्याजात्स्वागतं कुर्वतीमिव ।।६२।।

तत्र तेनाभ्यनुज्ञाताः क्रीडावाप्यां निमज्ज्य ताः ।।

सचैलपुष्पाभरणाः प्रोन्ममज्जुस्ततः पुनः ।। ६३ ।।

बहिर्निर्गत्य गंधर्व्यः पश्यंत्यः स्थगिता इव ।।

रत्नेशालयमालोक्य कालराजसमीपतः ।। ६४।।

परस्परं ततः प्रोचुर्गंधर्व्यो विस्मिता इव ।।

स्वप्नोयं किं नु वा सत्यं खेलो रत्नेश्वरस्य वा ।। ६५ ।।

वयमेव हि वा भ्रांता गंधर्व्यो न वयं किमु ।।

किमेतन्नैव जानीम ऐंद्रजालिक खेलवत्।। ६६।।

एषोत्तरवहा गंगा स्फुटमेव भवेदिह।।

शंखचूडस्य वाप्येषा शंखचूडालयस्त्वसौ ।। ६७ ।।

एतत्पंचनदं तीर्थमेष वागीश्वरालयः ।।

यस्य संदर्शनादेव वाग्विभूतिर्विजृंभते ।। ६८ ।।

शंखचूडेश्वरश्चैष शंखचूडप्रतिष्ठितः ।।

यस्य संदर्शनात्पुंसां न भयं कालसर्पजम् ।। ६९ ।।

एषा मंदाकिनी नाम दीर्घिका पुण्यतोयभूः ।।

यस्यां कृतोदका मर्त्या मर्त्यलोके विशंति न ।। 4.2.67.१७० ।। ।

असावाशापुरी देवी या स्तुता त्रिपुरारिणा ।।

त्रिपुरं जेतुकामेन मंदाकिन्यास्तटे शुभे ।। ७१ ।।

याद्यापि पूजिता मर्त्यैराशां पूरयतेर्थिनाम्।।

मंदाकिन्याः प्रतीच्यां तु एष सिद्ध्यष्टकेश्वरः ।। ७२ ।।

भवेद्यस्य सपर्यातो गृहे सिद्ध्यष्टकं स्फुटम् ।।

कुंडसिद्ध्यष्टकाख्यं च तत्रैव विरजोदकम् ।। ७३ ।।

यत्र स्नात्वा कृतश्राद्धो विरजस्को दिवं व्रजेत् ।।

मूर्त्यस्ताः सिद्धयश्चाष्टौ याः काश्यां सर्वसिद्धिदाः ।। ७४ ।।

सर्वसिद्धिप्रदश्चासौ महाराजविनायकः ।।

विनायकाः प्रणश्यंति यस्मै प्रणमतां नृणाम् ।। ७५ ।।

असौ सिद्धेश्वरस्योच्चैः प्रासादः कांचनोज्ज्वलः ।।

रत्नध्वजपताकाश्च सिद्धिः स्याद्यद्विलोकनात् ।। ७६ ।।

क्षेत्रस्य मध्यमे ।। भागे मध्यमेश्वर एष वै ।।

मध्याधोलोकयोर्मध्ये न वसेद्यस्य वीक्षणात् ।। ७७ ।।

मध्यमेशं समभ्यर्च्य नरो मध्यमविष्टपे ।।

आसमुद्रक्षितींद्रः स्यात्ततो मोक्षं च विंदति ।। ७८ ।।

ऐरावतेश्वरं लिंगं तत्प्राच्यामिष्टसिद्धिकृत् ।।

दृश्यते यत्पताकायां रम्य ऐरावतो गजः ।।७९ ।।

वृद्धकालेश्वरस्यैष प्रासादो रत्ननिर्मितः ।। ।

प्रतिदर्शं वसेद्यत्र रात्रौ चंद्रः सतारकः ।। 4.2.67.१८० ।।

यस्य संदर्शनान्नृणां न कालः प्रभवेद्भवे ।।

न कलिः प्रभवेत्सत्यं न च कल्मषराशयः ।। ८१ ।।

इति यावत्कथां चक्रुः संभ्रांता इव बालिकाः।।

तावद्वसुविभूतिः स गंधर्वस्त्वरया ययौ ।।८२।।

नारदाच्छ्रुतवृत्तांतः सुबाहुदनुजन्मनः ।।

रत्नावली सुता प्रीता ससखीका यथाहृता ।। ८३ ।।

रत्नेश्वरात्समायांती शून्ये गगनवर्त्मनि ।।

यथानयच्च पातालं यथा युद्धमभूत्पुनः ।। ८४ ।।

यथा रत्नेश भक्तेन रत्नचूडेन घातितः ।।

स सुबाहुर्दनुजनुर्महेष्वासेन चेषुणा ।। ८५ ।।

यथा च पृष्टवृत्तांतो वापीमार्गेण चानयत् ।।

शंखचूडस्य वापीं तां पातालेषु प्रवर्तिनीम् ।। ८६ ।।

यथा च प्राप्य निर्याताः काशीं दृष्ट्वापि बालिकाः ।।

भृशं संभ्रांतिमापन्नाः पश्यंत्योपि समुत्सुकाः ।। ८७ ।।

दृष्ट्वा गंधर्वराजस्तां पुनर्जातामिवात्मजाम् ।।

सवयस्यामनाम्लानमुखपंकजसुश्रियम्।। ८८ ।।

परिष्वज्य समाघ्राय ललाटफलकं मुहुः ।।

अंकमारोप्य पप्रच्छ सर्वं वृत्तांतमादरात्।।८९।।

अथ सा कथयामास दनुजापहृतेः कथाम्।। ।।

रत्नेश्वरं वरावाप्तिं स्वप्नावस्थां विहाय च।।4.2.67.१९०।।

रत्नावलीमनोवृत्तिं विज्ञायाथ मुखेंगितैः ।। शशिलेखा समाचष्ट स्पष्टवर्णैः सविस्तरम्।। ९१ ।।

तुतोष नितरां सोथ गंधर्वाधिपतिः कृती ।।

प्रभावं वर्णयामास मुदा रत्नेश्वरस्य च ।। ९२

।। स्कंद उवाच ।। ।।

आकर्णय मुनिश्रेष्ठ विंध्यवृद्धि विवर्धन ।।

प्रत्यहं रत्नचूडोपि वापीमार्गेण संयमी ।।९३।।

नागलोकात्समागत्य स्नात्वा मंदाकिनी जले ।।

रत्नेश्वरं समभ्यर्च्य रत्नांजल्यष्टकेन वै ।। ९४ ।।

सुवर्णपंकजान्यष्टौ समर्पयति हृष्टवत् ।।

एकदा स्वप्नसमये रत्नेशो लिंगरूपधृक् ।। ९५ ।।

रत्नचूडमुवाचेदं निजभक्तं दृढव्रतम् ।।

दानवेन हृतां कन्यां मोचयिष्यति यां भवान् ।। ९६ ।।

तं दानवं रणे जित्वा सा ते पत्नी भविष्यति ।।

इति स्मरन्वरं सोथ नागराजो महामनाः ।।९७।।

तां कन्यां दानवं हत्वा विमोच्य निज वीर्यतः ।।

वापीमार्गेण पातालादानिनाय पुनर्महीम् ।।९८।।

स्वयं च साधयांचक्रे प्रत्यहं नियमं सुधीः।।

लिंगं समर्चयित्वाथ कृत्वा चापि प्रदक्षिणम् ।। ९९ ।।

यावद्बहिः समागच्छेद्रम्याद्रत्नेशमंडपात ।।

तावद्गंधर्वराजाय ताभिः स वसुभूतये ।। 4.2.67.२०० ।।

सोयं सोयं युवा धन्यस्तर्जन्यग्रेण दर्शितः ।।

गंधर्वराजस्तं दृष्ट्वा नागराजकुमारकम्।। १ ।।

अतीवस्मेरनयनः संप्रहृष्टतनूरुहः ।।

मनस्येनं च संवर्ण्य तद्रूपं सवयोन्वयम्।। २ ।।

धन्योस्म्यनुगृहीतोस्मि रत्नेशेन वरार्पणात् ।।

कन्या धन्यतरा चेयमनुरूपोस्ति यत्पतिः ।। ३ ।।

संप्रधार्येति हृद्येनं समाकार्य च सुंदरम् ।।

पृष्ट्वा तन्नामगोत्रं च गणयित्वा बलाबलम् ।। ४ ।।

रत्नेश्वरस्य पुरतस्तस्मै कन्यां ददौ मुदा ।।

नीत्वा गंधर्वलोकं च कृतकौतुकमंगलम् ।। ५ ।।

मधुपर्केण संपूज्य पाणिमग्राहयत्ततः ।।

वैवाहिकेन विधिना ददौ रत्नान्यनेकशः ।। ६ ।।

शशिलेखानंगलेखा चित्रलेखापि कुंभज ।।

विज्ञाप्य स्वजनेतारं वरयामास तं पतिम् ।।७ ।।

उपयम्य चतस्रोपि स गंधर्वसुताः शुभाः ।।

रत्नचूडो जगामाथ ताभिः स्वपितृमंदिरम् ।। ८ ।।

यथा चतसृभिः सार्धं श्रुतिभिः प्रणवः शिवम् ।।

स्वपित्रोश्चरणौ नत्वा नवोढाभिः स नागराट् ।।९।।

विनिवेदितवृत्तांतो रत्नेशानुग्रहस्य च ।।

उवास ताभिः ससुखं पितृभ्यामभिनंदितः ।।4.2.67.२१०।।

।। ईश्वर उवाच ।। ।।

रत्नेश्वरस्य लिंगस्य मम स्थावररूपिणः ।।

सर्वेषां सर्वदस्यास्य प्रभावो गिरिजेऽतुलः ।। ११ ।।

अस्मिँल्लिंगे परां सिद्धि प्राप्ताः सिद्धाः सहस्रशः ।।

गुप्तमासीदिदं लिंगमद्य यावत्सुमध्यमे ।। ।। १२ ।।

तव पित्रा हिमवता मम भक्तेन सर्वथा ।।

पुण्यार्जितैर्महारत्नै रत्नेशः प्रकटीकृतः ।। १३ ।।

अस्मिँल्लिंगे मम प्रीतिर्नितरामद्रिराजजे ।।

वाराणस्यामिदं लिंगं पूजनीयं प्रयत्नतः ।। १४ ।।

नाना रत्नानि लभ्यंते रत्नेशानुग्रहादुमे ।।

स्त्रीरत्नपुत्ररत्नादि स्वर्गमोक्षावपि प्रिये ।। १५ ।।

योऽत्र रत्नेश्वरं नत्वा मृतो देशांतरेष्वपि ।।

न स स्वर्गादिहागच्छेत्कल्पकोटिशतैरपि ।।१६।।

असितायां चतुर्दश्यामुपोष्य निशि जागरात्।।

रत्नेशसन्निधौ देवि मम सान्निध्यमाप्नुयात् ।। ।। १७ ।।

अस्य लिंगस्य पूर्वेण त्वया जन्मांतरे प्रिये ।।

दाक्षायणीश्वरं लिगं मद्भक्त्यात्र प्रतिष्ठितम् ।। १८ ।।

तस्य संदर्शनादेव न नरो याति दुर्गतिम् ।।

अंबिका नाम गौरी त्वं तत्राहं चांबिकेश्वरः ।। १९ ।।

मूर्तः षडाननस्तत्र तव पुत्रः सुमध्यमे ।।

एतत्त्रयं नरो दृष्ट्वा न गर्भं प्रविशेदुमे ।। 4.2.67.२२० ।।

रत्नेश्वरस्य माहात्म्यं मया ते समुदीरितम् ।।

गोपनीयं प्रयत्नेन कलिकल्मषचेतसाम् ।। २१ ।।

इदं रत्नेश्वराख्यानं यः पठिष्यति सर्वदा ।।

सपुत्रपौत्रपशुभिर्न वियुज्येत कर्हिचित् ।। २२ ।।

श्रुत्वा रत्नेश्वरोत्पतिं सेतिहासां नरोत्तमः ।।

अनूढो लभते सत्यं कन्यारत्नं कुलोचितम् ।। २३ ।।

कन्यापीमं समाकर्ण्य त्वितिहासं मनोरमम् ।।

श्रद्धया सत्पतिं प्राप्य भविष्यति पतिव्रता ।। २४ ।।

इतिहासमिमं श्रुत्वा नारी वा पुरुषोपिवा ।।

न जात्विष्टवियोगाग्नि तापेन परितप्यते ।।२२५।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे रत्नेश्वरप्रशंसनं नाम सप्तषष्टितमोऽध्यायः ।। ६७ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 68

।। स्कंद उवाच ।।

अन्यच्च शृणु विप्रेंद्र वृत्तातं तत्र संभवम् ।।

महाश्चर्यप्रजननं महापातकहारि च ।। १ ।।

इत्थं कथां प्रकुर्वाणे रत्नशेस्य महेश्वरे ।।

कोलाहलो महानासीत्त्रातत्रातेति सर्वतः ।। २ ।।

महिषासुरपुत्रोसौ समायाति गजासुरः ।।

प्रमथन्प्रमथान्सर्वान्निजवीर्य मदोद्धतः ।। ३ ।।

यत्रयत्र धरायां स चरणं प्रमिणोति हि ।।

अचलोल्लोलयांचक्रे तत्रतत्रास्य भारतः ।। ४ ।।

ऊरुवेगेन तरवः पतंति शिखरैः सह ।।

यस्य दोर्दंडघातेन चूर्णाः स्युश्च शिलोच्चयाः ।। ५ ।।

यस्य मौलिजसंघर्षाद्घ(?)नाव्योम त्यजंत्यपि।।

नीलिमानं न चाद्यापि जह्युस्तक्लेशसंगजम् ।। ६ ।।

यस्य निःश्वाससंभारैरुत्तरंगा महाब्धयः ।।

नद्योप्यमंदकल्लोला भवंति तिमिभिः सह ।। ७ ।।

योजनानां सहस्राणि नवयस्य समुच्छ्रयः ।।

तावानेव हि विस्तारस्तनोर्मायाविनोस्य हि ।। ।। ८ ।।

यन्नेत्रयोः पिंगलिमा तथा तरलिमा पुनः ।।

विद्युता नोज्झ्यतेऽद्यापि सोयमायाति सत्वरः ।। ९ ।।

यांयां दिशं समभ्येति सोयं दुःसह दानवः ।।

सासा समी भवेदस्य साध्वसादिव दिग्ध्रुवम् ।। 4.2.68.१० ।।

ब्रह्मलब्धवरश्चायं तृणीकृतजगत्त्रयः ।।

अवध्योहं भवामीति स्त्रीपुंसैः कामनिर्जितैः ।। ११ ।।

ततस्त्रिशूलहेतिस्तमायांतं दैत्यपुंगवम् ।।

विज्ञायावध्यमन्येन शूलेनाभिजघान तम् ।। १२ ।।

प्रोतस्तेन त्रिशूलेन स च दैत्यो गजासुरः ।।

छत्रीकृतमिवात्मानं मन्यमानो जगौ हरम् ।। १३ ।।

।। गजासुर उवाच ।। ।।

त्रिशूलपाणे देवेश जाने त्वां स्मरहारिणम् ।।

तव हस्ते मम वधः श्रेयानेव पुरांतक ।। १४ ।।

किंचिद्विज्ञप्तुमिच्छामि अवधेहि ममेरितम्।।

सत्यं ब्रवीमि नासत्यं मृत्युंजय विचारय ।।१५।।

त्वमेको जगतां वंद्यो विश्वस्योपरि संस्थितः ।।

अहं त्वदुपरिष्टाच्च स्थितोस्मी ति जितं मया ।। १६ ।।

धन्योस्म्यनुगृहीतोस्मि त्वत्त्रिशूलाग्रसंस्थितः ।।

कालेन सर्वैर्मर्तव्यं श्रेयसे मृत्युरीदृशः ।। १७ ।।

इति तस्य वचः श्रुत्वा देवदेवः कृपानिधिः ।।

प्रोवाच प्रहसञ्छंभुर्घटोद्भव गजासुरम् ।। १८ ।।

।। ईश्वर उवाच।। ।।

गजासुर प्रसन्नोस्मि महापौरुषशेवधे ।।

स्वानुकूल वरं ब्रूहि ददामि सुमतेऽसुर ।। १९ ।।

इत्याकर्ण्य स दैत्येंद्रः प्रत्युवाच महेश्वरम् ।।

।। गजासुर उवाच ।। ।।

यदि प्रसन्नो दिग्वासस्तदा नित्यं वसान मे ।। 4.2.68.२० ।।

इमां कृत्तिं विरूपाक्ष त्वत्त्रिशूलाग्निपाविताम् ।।

स्वप्रमाणां सुखस्पर्शां रणांगणपणीकृताम् ।। २१ ।।

इष्टगंधिः सदैवास्तु सदैवास्त्वतिकोमला ।।

सदैव निर्मला चास्तु सदैवास्त्वतिमंडनम् ।। २२ ।।

महातपोऽनलज्वालाः प्राप्यापि सुचिरं विभो ।।

न दग्धा कृत्तिरेषा मे पुण्यगंधनिधिस्ततः ।। २३ ।।

यदि पुण्यवती नैषा ममकृत्तिर्दिगंबर ।।

तदा त्वदंगसंगोस्याः कथं जातो रणांगणे ।। २४ ।।

अन्यं च मे वरं देहि यदि तुष्टोसि शंकर ।।

नामास्तु कृत्तिवासास्ते प्रारभ्याद्यतनं दिनम् ।। २५ ।।

इति तस्य वचः श्रुत्वा तथेत्युक्त्वा च शंकरः ।।

पुनःप्रोवाच तं दैत्यं भक्तिनिर्मलमानसम् ।। २६ ।।

।। ईश्वर उवाच ।। ।। ।।

शृणु पुण्यनिधे दैत्य वरमन्यं सुदुर्लभम् ।।

अविमुक्ते महाक्षेत्रे रण त्यक्त कलेवर ।।२७।।

इदं पुण्यशरीरं ते क्षेत्रेस्मिन्मुक्तिसाधने ।।

मम लिंगं भवत्वत्र सर्वेषांमुक्तिदायकम् ।। २८ ।।

कृत्तिवासेश्वरं नाम महापातकनाशनम् ।।

सर्वेषामेव लिंगानां शिरोभूतमिदं वरम् ।।२९ ।।

यावंति संति लिंगानि वाराणस्यां महांत्यपि ।।

उत्तमं तावतामेतदुत्तमांगवदुत्तमम् ।। 4.2.68.३० ।।

मानवानां हितायात्र स्थास्येहं सपरिग्रहः ।।

दृष्टेनानेन लिंगेन पूजितेन स्तुतेन च।।

कृतकृत्यो भवेन्मर्त्यः संसारं न विशेत्पुनः ।। ३१ ।।

रुद्राः पाशुपताः सिद्धा ऋषयस्तत्त्वचिंतकाः ।।

शांता दांता जितक्रोधा निर्द्वंद्वा निष्परिग्रहाः ।। ३२ ।।

अविमुक्ते स्थिता ये तु मम भक्ता मुमुक्षवः ।।

मानापमानयोस्तुल्याः समलोष्टाश्मकांचनाः ।।३३।।

कृत्तिवासेश्वरे लिंगे स्थास्येहं तदनुग्रहे ।।

दशकोटिसहस्राणि तीर्थानि प्रतिवासरम् ।। ।। ३४ ।।

त्रिकालमागमिष्यंति कृत्तिवासे न संशयः ।।

कलिद्वापरसंभूता नराः कल्मषबुद्धयः ।। ३५ ।।

सदाचारविनिर्मुक्ताः सत्यशौचपराङ्मुखाः ।।

मायया दंभलोभाभ्यां मोहाहंकृतिसंयुताः ।। ३६ ।।

शूद्रान्नसेविनो विप्रा जिह्वाला अतिलालसाः ।।

संध्यास्नानजपेज्यासु दूरीकृत मनोधियः ।। ३७ ।।

कृत्तिवासेश्वरं प्राप्य सर्वपापविवर्जिताः ।।

सुखेन मोक्षमेष्यंति यथा सुकृतिनस्तथा ।। ३८ ।।

कृत्तिवासेश्वरं लिंगं सेव्यं काश्यां ततो नरैः ।।

जन्मांतरसहस्रेषु मोक्षोन्यत्र सुदुर्लभः ।। ३९ ।।

कृत्तिवासेश्वरे लिंगे लभ्यस्त्वेकेन जन्मना ।।

पृर्वजन्मकृतं पापं तपोदानादिभिः शनैः ।।

नश्येत्सद्यो विनश्येत कृत्तिवासे श्वरेक्षणात् ।।4.2.68.४०।।

कृत्तिवासेश्वरं लिंगं येर्चयिष्यंति मानवाः ।।

प्रविष्टास्ते शरीरे मे तेषां नास्ति पुनर्भवः ।।४१।।

अविमुक्तेऽत्र वस्तव्यं जप्तव्यं शतरुद्रियम्।।

कृत्तिवासेश्वरो देवो द्रष्टव्यश्च पुनःपुनः ।। ४२ ।।

सप्तकोटिमहारुद्रैः सुजप्तैर्यत्फलं भवेत् ।।

तत्फलं लभ्यते काश्यां पूजनात्कृत्तिवाससः ।। ४३ ।।

माघ कृष्णचतुर्दश्यामुपोष्य निशि जागृयात् ।।

कृत्तिवासेशमभ्यर्च्य यः स यायात्परां गतिम्।। ४४ ।।

शुक्लायां पंचदश्यां यश्चैत्र्यां कर्ता महोत्सवम्।।

कृत्तिवासेश्वरे लिंगे न स गर्भं प्रवक्ष्येते ।। ४५ ।।

कथयित्वेति देवेशस्तत्कृत्तिं परिगृह्य च ।।

गजासुरस्य महतीं प्रावृणोद्धरिदंबरः ।। ४६ ।।

महामहोत्सवो जातस्तस्मिन्नहनि कुंभज ।।

कृत्तिवासत्वमापेदे यस्मिन्देवो दिगंबरः ।। ४७ ।।

यत्रच्छत्रीकृतो दैत्यः शूलमारोप्य भूतले ।।

तच्छूलोत्पाटनाज्जातं तत्र कुंडं महत्तरम् ।।४८।।

तस्मिन्कुंडे नरः स्नात्वा कृत्वा च पितृतर्पणम् ।।

कृत्तिवासेश्वरं दृष्ट्वा कृतकृत्यो नरो भवेत् ।।४९।।

स्कंद उवाच ।।

तस्मिंस्तीर्थे तु यद्वृत्तं तदगस्ते निशामय ।।

काका हंसत्वमापन्नास्तत्तीर्थस्य प्रभावतः ।। 4.2.68.५० ।।

एकदा कृत्तिवासे तु चैत्र्यां यात्राऽभवत्पुरा ।।

अन्नं राशीकृतं तत्र ह्युपहारसमुद्भवम् ।। ५१ ।।

बहुदेवलकैर्विप्र तं दृष्ट्वा पक्षिणो मिलन् ।।

परस्परं तदन्नार्थं युध्यंतो व्योमवर्त्मनि ।। ५२ ।।

बलिपुष्टैरपुष्टांगा रटतः करटाः कटु ।।

वलिभिश्चातिपुष्टांगैरबलाश्चंचुभिर्हताः ।। ५३ ।।

ते हन्यमाना न्यपतंस्तस्मिन्कुंडे नभोंगणात् ।।

आयुःशेषेण संत्राता हंसीभूतास्तु वायसाः ।। ५४ ।।

आश्चर्यवंतस्तत्रत्या यात्रायां मिलिता जनाः ।।

ऊचुरंगुलिनिर्देशैरहो पश्यत पश्यत ।। ५५ ।।

अस्मासु वीक्षमाणेषु काकाः कुंडेत्र ये पतन् ।।

धार्तराष्ट्रास्तु ते जातास्तीर्थस्यास्य प्रभावतः ।। ५६ ।।

हंसतीर्थं तदारभ्य कृत्तिवास समीपतः ।।

नाम्ना ख्यातमभूल्लोके तत्कुंडं कलशोद्भव।। ।। ५७ ।।

अतीव मलिनात्मानो महामलिन कर्मभिः ।।

क्षणान्निर्मलतां यांति हंसतीर्थकृतोदकाः ।। ५८ ।।

काश्यां सदैव वस्तव्यं स्नातव्यं हंसतीर्थके ।।

द्रष्टव्यः कृत्तिवासेशः प्राप्तव्यं परमं पदम् ।। ५९ ।।

काश्यां लिंगान्यनेकानि मुने संति पदेपदे ।।

कृत्तिवासेश्वरं लिंगं सर्वलिंगशिरः स्मृतम् ।। 4.2.68.६० ।।

कृत्तिवासं समाराध्य भक्तियुक्तेन चेतसा ।।

सर्वलिंगाराधनजं फलं काश्यामवाप्यते ।। ६१ ।।

जपो दानं तपो होमस्तर्पणं देवतार्चनम् ।।

समीपे कृत्तिवासस्य कृतं सर्वमनंतकम् ।। ६२ ।।

तीर्थं त्वनादिसंसिद्धमेतत्कलशसंभव ।।

पुनर्देवस्य सान्निध्यादाविरासीन्महेशितुः ।। ६३ ।।

एतानि सिद्धलिंगानिच्छन्नानि स्युर्युगेयुगे ।।

अवाप्य शंभुसान्निध्यं पुनराविर्भवंति हि ।। ६४ ।।

हंसतीर्थस्य परितो लिंगानामयुतं मुने ।।

प्रतिष्ठितं मुनिवरैरत्रास्ति द्विशतोत्तरम् ।।६५।।

एकैकं सिद्धिदं नृणामविमुक्तनिवासिनाम् ।।

लिंगं कात्यायनेशादि च्यवनेशां तमेव हि ।। ६६ ।।

लोमशेशं महालिंगं लोमशेन प्रतिष्ठितम् ।।

कृत्तिवासः प्रतीच्यां तु तद्दृष्ट्वा क्वांतकाद्भयम् ।। ६७ ।।

मालतीशं शुभं लिंगं कृत्तिवासोत्तरे महत् ।।

सपर्ययित्वा तल्लिंगं राजा गजपतिर्भवेत् ।। ६८ ।।

अंतकेश्वर संज्ञं च लिंगं तद्रुद्रदिक्स्थितम् ।।

अतिपापोपि निष्पापो जायते तद्विलोकनात् ।।६९।।

जनकेशं महालिंगं तत्पार्श्वे ज्ञानदं परम् ।।

तल्लिंग वरिवस्यातो ब्रह्मज्ञानमवाप्यते ।।4.2.68.७० ।।

तदुत्तरे महामूर्तिरसितांगोस्ति भैरवः ।।

तस्य दर्शनतः पुंसां न भवेद्यमदर्शनम् ।।७१।।

शुष्कोदरी च तत्रास्ति देवी विकटलोचना ।।

कृत्तिवासादुदीच्यां तु काशीप्रत्यूह भक्षिणी ।। ७२ ।।

अग्निजिह्वोस्ति वेतालस्तस्या देव्यास्तु नैर्ऋते ।।

ददाति वांछितां सिद्धिं सोर्चितो भौमवासरे ।। ७३ ।।

वेतालकुंडं तत्रास्ति सर्वव्याधिविघातकृत् ।।

तत्कुंडोदकसंस्पर्शाद्व्रणविस्फोटरुग्व्रजेत् ।। ७४ ।।

वेतालकुंडे सुस्नातो वेतालं प्रणिपत्य च ।।

लभेत वांछितां सिद्धिं दुर्लभां सर्वदेहिभिः ।। ७५ ।।

गणोस्ति तत्र द्विभुजश्चतुष्पात्पंचशीर्षकः ।।

तस्य संवीक्षणादेव पापं याति सहस्रधा ।। ७६ ।।

तदुत्तरे मुने रुद्रश्तुःशृंगोस्ति भीषणः ।।

त्रिपादस्तु द्विशीर्षा च हस्ताः स्युः सप्त एव हि ।।।७७ ।।

रोरूयते वृषाकारस्त्रिधा बद्धः स कुंभज ।।

काशीविघ्रकरा ये च ये काश्यां पापबुद्धयः ।। ७८ ।।

तेषां च संछिदां कर्तुमहं धृतकुठारकः ।।

ये काश्यां विघ्नहर्तारो ये काश्यां धर्मबुद्धयः ।। ७९ ।।

सुधाघटकरश्चाहं तद्वंशपरिषेककृत् ।।

तं दृष्ट्वा वृषरुद्रं वै पूजयित्वा तु भक्तितः ।। 4.2.68.८० ।।

महामहोपचारैश्च न विघ्नैरभिभूयते ।।

मणिप्रदीपो नागोऽस्ति तस्माद्रुद्रादुदग्दिशि ।। ८१ ।।

मणिकुंडं तदग्रे तु विषव्याधिहरं परम् ।।

तस्मिन्कुंडे कृतस्नानस्तं नागं परिवीक्ष्य च ।। ८२ ।।

मणिमाणिक्यसंपूर्ण गजाश्वरथसंकुलम् ।।

स्त्रीरत्नपुत्ररत्नैश्च समृद्धं राज्यमाप्नुयात् ।। ८३ ।।

कृत्तिवासेश्वरं लिंगं काश्यां यैर्न विलोकितम् ।।

ते मर्त्यलोके भाराय भुवो भूता न संशयः ।। ८४ ।।

।। स्कंद उवाच ।। ।।

कृत्तिवासः समुत्पत्तिं ये श्रोष्यंतीह मानवाः ।।

तल्लिंगदर्शनाच्छ्रेयो लप्स्यंते नात्र संशयः ।। ८५ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तराधें कृत्तिवासः समुद्भवो नामाष्टषष्टितमोऽप्यायः ।।६८।।

खण्डः ४ (काशीखण्डः) — Adhyāya 69

।। स्कंद उवाच ।। ।।

शृण्वगस्त्य तपोराशे काश्यां लिंगानि यानि वै ।।

सेवितानि नृणां मुक्त्यै भवेयुर्भावितात्मनाम् ।। १ ।।

कृत्तिप्रावरणं यत्र कृतं देवेन लीलया ।।

रुद्रावास इति ख्यातं तत्स्थानं सर्वसिद्धिदम् ।। २ ।।

स्थिते तत्रोमया सार्धं स्वेच्छया कृत्तिवाससि ।।

आगत्य नंदी विज्ञप्तिं चक्रे प्रणतिपूर्वकम् ।। ३ ।।

देवदेवेश विश्वेश प्रासादाः सुमनोहराः ।।

सर्वरत्नमया रम्याः साष्टाषष्टिरभूदिह ।। ४ ।।

भूर्भुवःस्वस्तले यानि शुभान्यायतनानि हि ।।

मुक्तिदान्यपि तानीह मयानीतानि सर्वतः ।। ५ ।।

यतो यच्च समानीतं यत्र यच्च कृतास्पदम् ।।

कथयिष्याम्यहं नाथ क्षणं तदवधार्यताम् ।। ६ ।।

स्थाणुर्नाम महालिंगं देवदेवस्य मोक्षदम् ।।

कुरुक्षेत्रादिहोद्भूतं कलाशेषोस्ति तत्र वै ।। ७ ।।

तदग्रे सन्निहत्याख्या महापुष्करिणी शुभा ।।

लोलार्क पश्चिमे भागे कुरुक्षेत्रस्थली तु सा ।। ८ ।।

तत्र स्नातं हुतं जप्तं तप्तं दत्तं शुभार्थिभिः ।।

कुरुक्षेत्राद्भवेत्सत्यं कोटिकोटिगुणाधिकम् ।। ९ ।।

नैमिषाद्देवदेवोत्र ब्रह्मावर्तेन संयुतः ।।

तत्रांशमात्रं संस्थाप्य काश्यामाविरभूद्विभो ।। 4.2.69.१० ।।

ढुंढिराजोत्तरेभागे सिद्धिदं साधकस्य वै ।।

लिंगं वै देवदेवाख्यं तदग्रे कूप उत्तमः ।। ११ ।।

ब्रह्मावर्त इति ख्यातः पुनरावृत्तिहृन्नृणाम् ।।

तत्कूपाद्भिः कृतस्नानो देवदेवं समर्च्य च ।। १२ ।।

तत्पुण्यं नैमिषारण्यात्कोटिकोटिगुणं स्मृतम् ।।

गोकर्णायतनादत्र स्वयमाविरभून्महत् ।। १३ ।।

लिंगं महाबलं नाम सांबादित्यसमीपतः ।।

दर्शनात्स्पर्शनाद्यस्य क्षणादेनो महाबलम् ।। १४ ।।

वाताहतस्तूलराशिरिव विद्राति दूरतः ।।

कपालमोचनपुरो दृष्ट्वा लिंगं महाबलम् ।। १५ ।।

महाबलमवाप्नोति निवार्णनगरं व्रजेत् ।।

ऋणमोचनतः प्राच्यां प्रभासात्क्षेत्रसत्तमात् ।। १६ ।।

शशिभूषणसंज्ञं तु लिंगमत्र प्रतिष्ठितम् ।।

तल्लिंगसेवनान्मर्त्यः शाशिभूषणतां व्रजेत् ।। १७ ।।

प्रभासक्षेत्रयात्रायाः पुण्यं प्राप्नोति कोटिकृत् ।।

उज्जयिन्या महाकालः स्वयमत्रागतो विभुः ।। १८ ।।

यन्नामस्मरणादेव न भयं कलिकालतः ।।

प्रणवाख्यान्महालिंगात्प्राच्यां कल्मषनाशनम् ।। १९ ।।

महाकालाभिधं लिंगं दर्शनान्मोक्षदं परम् ।।

अयोगंधेश्वरं लिंगं पुष्करात्तीर्थसत्तमात् ।। 4.2.69.२० ।।

आविरासीदिह महत्पुष्करेण सहैव तु ।।

मत्स्योदर्युत्तरेभागे दृष्ट्वा ऽयोगंधमीश्वरम् ।। २१ ।।

स्नात्वाऽयोगंधकुंडे तु भवात्तारयते पितॄन् ।।

महानादेश्वरं लिंगमट्टहासादिहागतम् ।। २२ ।।

त्रिलोचनादुदीच्यां तु तद्दृष्टमुक्तये मतम् ।।

महोत्कटेश्वरं लिंगं मरुत्कोटादिहागतम् ।।

कामेश्वरोत्तरे भागे दृष्टं विमलसिद्धिदम् ।। २३ ।।

विश्वस्थानादिहायातं लिंगं वै विमलेश्वरम् ।।

स्वर्लीनात्पश्चिमे भागे दृष्टं विमलसिद्धिदम् ।। २४ ।।

महाव्रतं महालिंगं महेंद्रादिह संस्थितम् ।।

स्कंदेश्वर समीपे तु महाव्रतफलप्रदम् ।। २५ ।।

वृंदारकर्षिवृंदानां स्तुवतां प्रथमे युगे ।।

उत्पन्नं यन्महालिंगं भूमिं भित्त्वा सुदुर्भिदाम् ।। २६ ।।

महादेवेति तैरुक्तं यन्मनोरथपूरणात ।।

वाराणस्यां महादेवस्तदारभ्याभवच्च यत् ।। २७ ।।

मुक्तिक्षेत्रं कृतं येन महालिंगेन काशिका ।।

अविमुक्ते महादेवं यो द्रक्ष्यत्यत्रमानवः ।। २८ ।।

शंभुलोके गमस्तस्य यत्रतत्र मृतस्य हि ।।

अविमुक्ते प्रयत्नेन तत्संसेव्यं मुमुक्षुभिः ।। २९ ।।

कल्पांतरेपि न त्यक्तं कदाप्यानंदकाननम् ।।

येन लिंगस्वरूपेण महादेवेन सर्वथा ।। 4.2.69.३० ।।

तत्प्रसादोयमतुलः सर्वरत्नमयः शुभः ।।

हिरण्यगर्भतीर्थाच्च प्रतीच्यां क्षेत्ररक्षकम् ।। ३१ ।।

वाराणस्यामधिष्ठात्री देवता साभिलाषदा ।।

महादेवेति संज्ञा वै सर्वलिंगस्वरूपिणी ।। ३२ ।।

वाराणस्यां महादेवो दृष्टो यैर्लिंगरूपधृक् ।।

तेन त्रैलोक्यलिंगानि दृष्टानीह न संशयः ।। ३३ ।।

वाराणस्यां महादेवं समभ्यर्च्य सकृन्नरः ।।

आभूतसंप्लवं यावच्छिवलोके वसेन्मुदा ।।३४।।

पवित्रपर्वणि सदा श्रावणे मासि यत्नतः ।।

लिंगे पवित्रमारोप्य महादेवे न गर्भभाक् ।।३५।।

पितामहेश्वरं लिंगं गयातीर्थादिहागतम् ।।

फल्ग्रुप्रभृतिभिस्तीर्थैः सार्धकोट्यष्टसंमितैः ।।३६।।

धर्मेण यत्र वै तप्तं युगानामयुतं शतम् ।।

साक्षीकृत्य महालिंगं श्रीमद्धर्मेश्वराभिधम् ।। ३७ ।।

पितामहेश्वरं लिंगं तत्राभ्यर्च्य नरो मुदा ।।

त्रिःसप्तकुलसंयुक्तो मुच्यते नात्र संशयः ।।३८।।

प्रयागात्तीर्थराजाच्च शूलटंको महेश्वरः ।।

तीर्थराजेन सहितः स्थित आगत्य वै स्वयम्।। ३९ ।।

निर्वाणमंडपाद्रम्यादवाच्यामतिनिर्मलः ।।

प्रासादो मेरुणा यस्य स्पर्धते कांचनोज्वलः ।। 4.2.69.४० ।।

देवेनैव वरो दत्तो यत्र पूर्वं युगांतरे ।।

पूज्यो महेश्वरः काश्यां प्रथमं कलुषापहः ।। ४१ ।।

यः प्रयाग इह स्नातो नमस्यति महेश्वरम् ।।

समभ्यर्च्य विधानेन महासंभारविस्तरैः ।। ४२ ।।

प्रयागस्नानजात्पुण्याच्छूलटंक विलोकनात् ।।

स प्राप्नुयान्न संदेहः पुण्यं कोटिगुणोत्तरम् ।। ४३ ।।

शंकुकर्णान्महाक्षेत्रान्महातेज इतीरितम् ।।

लिंगमाविरभूदत्र महातेजोविवृद्धिदम् ।। ४४ ।।

महातेजोनिधिस्तस्य प्रासादोतीवनिर्मलः ।।

ज्वालाजटिलिताकाशो माणिक्यैरेव निर्मितः ।। ४५ ।।

तल्लिंगदर्शनात्स्पर्शात्स्तवनाच्च समर्चनात् ।।

प्राप्यते तत्परं धाम यत्र गत्वा न शोचते ।। ४६ ।।

विनायकेश्वरात्पूर्वं महातेजः समर्चनात् ।।

तेजोमयेन यानेन याति माहेश्वरं पदम् ।। ४७ ।।

रुद्रकोटिसमाख्यातात्तीर्थात्परमपावनात् ।।

महायोगीश्वरं लिंगमाविश्चक्रे स्वयं परम् ।। ४८ ।।

पार्वतीश्वर लिंगस्य समीपे सर्वसिद्धिकृत् ।।

तल्लिंगदर्शनात्पुंसां कोटिलिंग फलं भवेत् ।। ४९ ।।

तत्प्रासादस्य परितो रुद्राणां कोटिसंमिताः ।।

प्रासादारम्यसंस्थाना निर्मिता रुद्रमूर्तिभिः ।। 4.2.69.५० ।।

काश्यां रुद्रस्थली सा तु पठ्यते वेदवादिभिः।।

रुद्रस्थल्यां मृता ये वै कृमिकीटपतंगकाः ।। ।। ५१ ।।

पशुपक्षिमृगा मर्त्या म्लेच्छा वाप्यथ दीक्षिताः ।।

तेषां तु रुद्रीभूतानां पुनरावृत्तिरत्र न ।। ५२ ।।

जन्मांतरसहस्रेषु यत्पापं समुपार्जितम् ।।

रुद्रस्थलीं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ।। ५३ ।।

अकामो वा सकामो वा तिर्यग्योनिगतोपि वा ।।

रुद्रस्थल्यां त्यजन्प्राणान्परं निर्वाणमाप्नुयात् ।। ५४ ।।

स्वयमेकांबरात्क्षेत्रात्कृत्तिवासा इहागतः ।।

कृत्तिवाससि लिंगेत्र स्वयमेव व्यवस्थितः ।। ५५ ।।

अस्मिन्स्थाने स्वभक्तानां सांबः सर्षिगणो विभुः ।।

स्वयं चोपदिशेद्ब्रह्म श्रुतौ श्रुतिभिरीडितम् ।। ५६ ।।

क्षेत्रेत्र सिद्धिदे प्राप्तश्चंडीशो मरुजांगलात् ।।

प्रचंडपापसंघातं खंडयेच्छतधेक्षणात् ।। ५७ ।।

पाशपाणिगणाध्यक्ष समीपे यः प्रपश्यति ।।

चंडीश्वरं महालिंगं स याति परमां गतिम् ।। ५८ ।।

कालंजरान्नीलकंठस्तिष्ठेदत्र स्वयं विभुः ।।

गणेशाद्दंतकूटाख्यात्समीपे भवनाशनः ।। ५९ ।।

नीलकंठेश्वरं लिंगं काश्यां यैः परिपूजितम् ।।

नीलकंठास्त एव स्युस्तएव शशिभूषणाः ।। 4.2.69.६० ।।

काश्मीरादिह संप्राप्तं लिंगं विजयसंज्ञितम् ।।

सदा विजयदं पुंसां प्राच्यां शालकटंकटात् ।। ६१ ।।

रणे राजकुले द्यूते विवादे सर्वदैव हि ।।

विजयो जायते पुंसां विजयेश समर्चनात् ।। ।। ६२ ।।

ऊर्ध्वरेतास्त्रिदंडायाः संप्राप्तोत्र स्वयं विभुः ।।

कूश्मांडकं गणाध्यक्षं पुरस्कृत्य व्यवस्थितः ।। ६३ ।।

ऊर्ध्वां गतिमवाप्नोति वीक्षणादूर्ध्वरेतसः ।।

ऊर्ध्वरेतसि ये भक्ता न हि तेषामधोगतिः ।। ६४ ।।

मंडलेश्वरतः क्षेत्राल्लिंगं श्रीकंठसंज्ञितम् ।।

विनायकान्मंडसंज्ञादुत्तरस्यां व्यवस्थितम् ।। ६५ ।।

श्रीकंठस्य च ये भक्ताः श्रीकंठा एव ते नराः ।।

नेह श्रिया वियुज्यंते न परत्र कदाचन ।। ६६ ।।

छागलांडान्महातीर्थात्कपर्दीश्ववरसंज्ञितः ।।

पिशाचमोचने तीर्थे स्वयमाविरभूद्विभुः ।। ६७ ।।

कपर्दीशं समभ्यर्च्य न नरो निरयं व्रजेत् ।।

न पिशाचत्वमाप्नोति कृत्वात्राप्यघमुत्तमम् ।। ६८ ।।

आम्रातकेश्वरात्क्षेत्राल्लिंगं सूक्ष्मेश संज्ञितम् ।।

स्वयमभ्यागतं चात्र क्षेत्रे वै श्रेयसांपदे ।। ६९ ।।

विकट द्विजसंज्ञस्य गणेशस्य समीपतः ।।

दृष्ट्वा सूक्ष्मेश्वरं लिंगं गतिं सूक्ष्मामवाप्नुयात्।।4.2.69.७०।। ।

संप्राप्तमिह देवेशं जयंतं मधुकेश्वरात् ।।

लंबोदराद्गणपतेः पुरस्तात्तदवस्थितम् ।। ७१ ।।

जयंतेश्वरमालोक्य स्नात्वा गंगाजले शुभे ।।

प्राप्नुयाद्वांछितां सिद्धिं सर्वत्र विजयी भवेत् ।। ७२ ।।

प्रादुश्चकार देवेशः श्रीशैलात्त्रिपुरांतकः ।।

श्रीशैलशिखरं दृष्ट्वा यत्फलं समुदीरितम् ।। ७३ ।।

त्रिपुरांतकमालोक्य तत्फलं हेलयाप्यते ।।

विश्वेरात्पश्चिमे भागे त्रिपुरांतकमीश्वरम् ।। ७४ ।।

संपूज्य परया भक्त्या न नरो गर्भमाविशेत् ।।

सौम्यस्थानादिहायातो भगवान्कुक्कुटेश्वरः ।। ।। ७९ ।।

वक्रतुंड गणाध्यक्ष समीपे सोपतिष्ठते ।।

तद्दर्शनादर्चनाच्च करस्थाः सर्वसिद्धयः ।।७६।।

जालेश्वरात्त्रिशूली च स्वयमीशः समागतः ।।

कूटदंताद्गणपतेः पुरस्तात्सर्वसिद्धिदः ।। ७७ ।।

रामेश्वरान्महाक्षेत्राज्जटीदेवः समागतः ।।

एकदंतोत्तरे भागे सोर्चितः सर्वकामदः ।। ७८ ।।

त्रिसंध्यात्क्षेत्रतो देवस्त्र्यंबकोस्ति समागतः ।।

त्रिमुखात्पूर्वदिग्भागे पूजितस्त्र्यंबकत्वकृत् ।। ७९ ।।

हरेश्वरो हरिश्चंद्रात्क्षेत्रादत्र समागतः ।।

हरिश्चंद्रेश्वरपुरः पूजितो जयदः सदा ।। 4.2.69.८० ।।

इह शर्वः समायातः स्थानान्मध्यमकेश्वरात् ।।

चतुर्वेदेश्वरं लिंगं पुरोधाय व्यवस्थितम् ।। ८१ ।।

शर्वं लिंगं समभ्यर्च्य काश्यां परमसिद्धिकृत् ।।

न जातु जंतुपदवीं प्राप्नुयात्क्वापि मानवः ।। ८२ ।।

स्थलेश्वरान्महालिंगं प्रादुर्भूतं परंत्विह ।।

यत्र यज्ञेश्वरं लिंगं सर्वलिंगफलप्रदम् ।। ८३ ।।

महालिंगं समभ्यर्च्य महाश्रद्धासमन्वितः ।।

महतीं श्रियमाप्नोति लोकेत्र च परत्र च ।। ८४ ।।

इह लिंगं सहस्राक्षं सुवर्णाख्यात्समागतम् ।।

यस्य संदर्शनात्पुंसां ज्ञानचक्षुः प्रजायते ।। ८५।।

शैलेश्वरादवाच्यां तु सहस्राक्षेश्वरं विभुम् ।।

दृष्ट्वा जन्मसहस्राणां शतानां पातकं त्यजेत् ।। ८६ ।।

हर्षिताद्धर्षितं चात्र प्रादुरासीत्तमोहरम् ।।

लिंगंहर्षप्रदं पुंसां दर्शनात्स्पर्शनादपि ।। ८७ ।।

मंत्रेश्वर समीपे तु प्रासादो हर्षितेशितुः ।।

तद्विलोकनतः पुंसां नित्यं हर्ष परंपरा ।। ८८ ।।

इह स्वयं समायातो रुद्रो रुद्रमहालयात् ।।

यस्य दर्शनतो यांति रुद्रलोके नराः स्फुटम् ।। ८९ ।।

यैस्तु रुद्रेश्वरं लिंगं काश्यामत्र समर्चितम् ।।

ते रुद्ररूपिणो मर्त्या विज्ञेया नात्र संशयः ।। 4.2.69.९० ।।

त्रिपुरेश समीपे तु दृष्ट्वा रुद्रेश्वरं विभुम् ।।

रुद्रास्त इव विज्ञेया जीवंतोपि मृता अपि ।।९१।।

आगादिह महादेवो वृषेशो वृषभध्वजात् ।।

बाणेश्वरस्य लिंगस्य समीपे वृषदः सदा ।।९२।।

इहागतं तु केदारादीशानेश्वर संज्ञितम् ।।

तद्द्रष्टव्यं प्रतीच्यां च लिंगं प्रह्लादकेशवात्।। ९३ ।।

ईशानेशं समभ्यर्च्य स्नात्वोत्तरवहांभसि ।।

वसेदीशाननगरे ईशानसदृशप्रभः ।। ९४ ।।

भैरवाद्भैरवी मूर्तिरत्रायाता मनोहरा ।।

संहारभैरवो नाम द्रष्टव्यः स प्रयत्नतः ।। ९५ ।।

पूजनात्सर्वसिद्ध्यै स प्राच्यां खर्वविनायकात् ।।

संहारभैरवः काश्यां संहरेदघसंततिम् ।। ९६ ।।

उग्रः कनखलात्तीर्थादाविरासेह सिद्धिदः ।।

तद्विलोकनतो नृणामुग्रं पापं प्रणश्यति ।। ९७ ।।

उग्रं लिंगं सदा सेव्यं प्राच्यामर्कविनायकात् ।।

अत्युग्रा अपि नश्येयुरुपसर्गास्तदर्चनात् ।। ९८ ।।

वस्त्रापथान्महाक्षेत्राद्भवो नाम स्वयं विभुः ।।

भीमचंडी समीपे तु प्रादुरासीदिह प्रभो ।। ९९ ।।

भवेश्वरं समभ्यर्च्य भवेनाविर्भवेन्नरः ।।

प्रभुर्भवति सर्वेषां राज्ञामाज्ञाकृतामिह ।। 4.2.69.१०० ।।

देवदारुवनाद्दंडी दंडयन्पातकावलीः ।।

वाराणस्यां समागत्य स्थितो लिंगाकृतिर्विभुः ।।१।।

प्राच्यां दंडीश्वरः पूज्यः स देहलिविनायकात् ।।

तस्यार्चनेन मर्त्त्यानां न पुनर्भव ईक्ष्यते ।। २ ।।

भद्रकर्णह्रदादत्र भद्रकर्णह्रदान्वितः।।

शिवः साक्षादिहायातः सर्वेषां शिवदोर्चितः ।। ३ ।।

उद्दंडाख्याद्गणपतेः प्राच्यां तत्तीर्थमुत्तमम् ।।

भद्रकर्णह्रदे स्नात्वाभ्यर्च्य लिंगं शिवाह्वयम् ।। ४ ।।

सर्वत्र शिवमाप्नोति भद्रकर्णेश पूजनात् ।।

शृणुयात्सर्वभूतानां भद्रं पश्यति चाक्षिभिः।। ५ ।।

शंकरश्च हरिश्चंद्रात्त्वत्पुरः प्रतिभासते ।।

तत्पूजनाज्जनानां न जननीजठरे जनिः ।। ६ ।।

यमलिंगान्महातीर्थात्काललिंगमिह स्थितम् ।।

कलशेश इति ख्यातं चंद्रेशात्पश्चिमेन च ।। ७ ।।

यमतीर्थे नरः स्नात्वा मित्रावरुणदक्षिणे ।।

काललिंगं समालोक्य कलिकाल भयं कुतः ।। ८ ।।

तत्र भौमचतुर्दश्यां यस्तु यात्रां करिष्यति ।।

अपि पातक युक्तः स यमयात्रां न यास्यति ।। ९ ।।

नैपालाच्च महाक्षेत्रादायात्पशुपतिस्त्विह ।।

यत्र पाशुपतो योग उपदिष्टः पिनाकिना ।। 4.2.69.११० ।।

भवता देवदेवेन ब्रह्मादिभ्यो विमुक्तये ।।

तस्य संदर्शनादेव पशुपाशैर्वियुज्यते ।। ११ ।।

करवीरकतीर्थाच्च कपालीश इहागतः ।।

कपालमोचने तीर्थे द्रष्टव्यः स प्रयत्नतः ।। १२ ।।

तद्विलोकनमात्रेण ब्रह्महत्या विलीयते।।

उमापतिर्देविकाया इहागत्य व्यवस्थितः ।। १३ ।।

दृष्टः पशुपतिः प्राच्यां हरेत्पापं चिरार्जितम् ।।

लिंगं महेश्वरक्षेत्रादिह दीप्तेश संज्ञितम् ।। १४ ।।

उपोमापति तिष्ठेत दीप्त्यै चेह परत्र च ।।

भुक्तिमुक्ति प्र दं लिंगं दीप्तेशं काशिमध्गम् ।।१५।।

कायारोहणतः क्षेत्रादाचार्यो नकुलीश्वरः ।।

शिष्यैः परिवृतस्तिष्ठेन्महापाशुपतव्रतैः ।। १६ ।।

दक्षिणे हि महादेवादृष्टो ज्ञानं प्रयच्छति ।।

अज्ञानं नाशयेत्क्षिप्रं गर्भसंसृतिहेतुकम् ।। १७ ।।

गंगासागरतश्चायादमरेश इतीरितम् ।।

लिंगं यद्दर्शनादेव नामरत्वं हि दुर्लभम् ।।१८।।

सप्तगोदावरीतीर्थाद्देवो भीमेश्वरः प्रभुः ।।

प्रकाशते लिंगरूपी भुक्त्यै मुक्त्यै नृणामिह ।। १९ ।।

नकुलीशात्पुरोभागे दृष्टा भीमेश्वरं प्रभुम्।।

महाभीमानि पापानि प्रणश्यंति हि तत्क्षणात् ।। 4.2.69.१२० ।।

भूतेश्वराद्भस्मगात्रं प्रादुरासीदिह स्वयम् ।।

भीमेशाद्दक्षिणे भागे तदभ्यर्च्य प्रयत्नतः ।। २१ ।।

सम्यक्पाशुपताद्यो गादभ्यस्ताच्च समाः शतम् ।।

यत्प्राप्यते फलं तत्स्याद्भस्मगात्रविलोकनात् ।। २२ ।।

नकुलीश्वरतो देवः स्वयंभूरिति विश्रुतः ।।

आत्मनाप्रकटीभूतः काश्यां लिंगाकृतिर्हरः ।। २३ ।।

स्वयंभु लिंगं संपूज्य स्नात्वा सिद्धिह्रदे नरः ।।

महालक्ष्मीश्वर पुरो न भूयो जन्मभाग्भवेत् ।। २४ ।।

प्रयागतीर्थनिकषा प्रासादो विद्रुमप्रभः ।।

वाराहस्य महानेष धरणीनाम्न एव हि ।। २५ ।।

विंध्यपर्वततः प्राप्तो देवं श्रुत्वा समागतम्।।

सगणं सर्षिदेवं च मंदरादत्र कंदरात्।।२६।।

काश्यां धरणिवाराहो द्रष्टव्यः स प्रयत्नतः।।

आपत्समुद्रसंमग्नमुद्धरेच्छरणागतम्।। २७ ।।

कर्णिकाराद्गणाध्यक्षः कर्णिकारप्रसूनरुक्।।

समर्च्योयं गदाहस्त उपसर्गसहस्रहृत् ।।२८।।

तस्माद्धरणिवाराहात्प्रतीच्यां दिशि संस्थितम् ।।

पूजयित्वा गणाध्यक्षं गाणपत्यपदं लभेत् ।। २९ ।।

हेमकूटाद्विरूपाक्षं लिंगमत्राविरास ह ।।

महेश्वरादवाच्यां च दृष्टं संसारतारकम् ।। 4.2.69.१३० ।।

गंगाद्वाराद्धिमस्थेशं लिंगं हिमसमप्रभम् ।।

ब्रह्मनालात्प्रतीच्यां च द्रष्टव्यमिह सिद्धिदम् ।। ३१ ।।

गणाधिपश्च कैलासाद्गणा अन्ये महाबलाः ।।

कैलासाद्रेः समायाताः सप्तकोटिमिताः प्रभो ।। ३२ ।।

दुर्गाणि तैः कृतानीह सप्तस्वर्गसमानि च ।।

सद्वाराणि सयंत्राणि कपाटविकटानि च ।।३३।।

कोटिकोटिभटाढ्यानि सर्वर्द्धिसहितान्यपि ।।

सुवर्णरूप्यताम्रैश्च कांस्यरीतिकसीसकैः ।। ३४ ।।

अयस्कांतेन कांतानि दृढान्यभ्रंलिहान्यपि ।।

ततः शैलं महादुर्गं तैः काशीपरितः कृतम्।। ३५ ।।

परिखापि कृता निम्ना मत्स्योदर्याजलाविला ।।

मत्स्योदरी द्विधा जाता बहिरंतश्चरा पुनः ।। ३६ ।।

तच्च तीर्थं महत्ख्यातं मिलितं गांगवारिभिः ।।

यदा संहारमार्गेण गंगाभः प्रसरेदिह ।। ३७ ।।

तदा मत्स्योदरी तीर्थं लभ्यते पुण्यगौरवात् ।।

सूर्याचंद्रमसोः पर्वतदाकोटिगुणं शतम् ।। ३८ ।।

सर्वपर्वाणि तत्रैव सर्वतीर्थानि तत्र वै ।।

तत्रैव सर्वलिंगानि गंगामत्स्योदरीयतः ।। ३९ ।।

मत्स्योदर्यां हि ये स्नाता यत्रकुत्रापि मानवाः ।।

कृतपिंडप्रदानास्ते न मातुरुदरेशयाः ।। 4.2.69.१४० ।।

अविमुक्तमिदं क्षेत्रं मत्स्याकारत्वमाप्नुयात् ।।

परितः स्वर्धुनीवारि संसारि परिवीक्ष्यते ।। ४१ ।।

मत्स्योदर्यां कृतस्नाना ये नरास्ते नरोत्तमाः ।।

कृत्वापि बहुपापानि नेक्षंते भास्करेः पुरीम् ।।४२।।

किं स्नात्वा बहुतीर्थेषु किं तप्त्वा दुष्करं तपः ।।

यदि मत्स्योदरी स्नाता कुतो गर्भभयं ततः।। ।। ४३।।

यत्रयत्र हि लिंगानि नृदेवर्षिकृतान्यपि ।।

तत्र मत्स्योदरीं प्राप्य सुस्नातो मोक्षभाजनम् ।।४४।।

संति तीर्थान्यनेकानि भूर्भुवःस्वर्गतान्यपि ।।

न समानि परं तानि कोट्यंशेनापि निश्चितम्।।४५।।

इत्थं तीर्थं कृतं तेन विभो कैलासवासिना।।

गणाधिपेन सुमहत्सुमहोदारकर्मणा।।४६ ।।

भूर्भुवःसंज्ञकं लिंगं पर्वताद्गंधमादनात्।।

स्वयमाविरभूदत्र तस्मात्प्राच्यां गणाधिपात्।। ४७ ।।

विलोक्य भूर्भुवं लिंगं भूर्भुवःस्वर्महः परे ।।

निवसंति जनाः पुण्याः सुचिरं दिव्यभोगिनः ।। ४८ ।।

हाटकेशं महालिंगं भोगवत्या समायुतम् ।।

सप्तपातालतलत इहायातं स्वयं विभो ।। ४९ ।।

शेषवासुकिमुख्यैश्च तत्प्रासादो महानिह ।।

मणिमाणिक्यरत्नौघैर्निरमायि प्रयत्नतः ।। 4.2.69.१५० ।।

तल्लिंगं हाटकमयं रत्नमालाभिरर्चितम् ।।

ईशानेश्वरतः प्राच्यां पूजनीय प्रयत्नतः ।। ।। ५१ ।।

भक्तितोऽभ्यर्च्य तल्लिंगं नरः सर्वसमृद्धिमान् ।।

भुक्त्वा भोगानसंख्यातानंते निवार्णमृच्छति।।५२।।

आकाशात्तारकाल्लिगं ज्योतीरूपमिहागतम्।।

ज्ञानवाप्याः पुरोभागे तल्लिंगं तारकेश्वरम् ।। ।। ५३।।

तारकं ज्ञानमाप्येत तल्लिंगस्य समर्चनात् ।।

ज्ञानवाप्यां नरः स्नात्वा तारकेशं विलोक्य च ।। ५४ ।।

कृतसंध्यादि नियमः परितर्प्य पितामहान्।।

धृतमौनव्रतो धीमान्यावल्लिंग विलोकनम् ।। ५५ ।।

मुच्यते सर्वपापेभ्यः पुण्यं प्राप्नोति शाश्वतम् ।।

प्रांते च तारकं ज्ञानं यस्माज्ज्ञानाद्विमुच्यते ।। ५६ ।।

किराताच्च किरातेश इहचाविर्बभूव ह ।।

किरातरूपो भगवान्यत्र देवोऽभवत्पुरा ।। ५७ ।।

तत्किरातेश्वरं लिंगं भारभूतेश्वरादनु ।।

नमस्कृत्य नरो जातु न मातुरुदरेशयः ।। ५८।।

लंकापुर्याः समागच्छन्मरुकेश्वरसंज्ञकम् ।।

लिंगं यदर्चनात्पुंसां न भयं रक्षसां भवेत् ।। ५९ ।।

नैर्कत्यां दिशि तल्लिंगं निर्ऋतेश्वरसंज्ञकम् ।।

पौलस्त्यराघवात्पश्चात्पूजितं सर्वदुष्टहृत् ।। 4.2.69.१६० ।।

पुण्यजलप्रियं लिंगं जललिंगस्थलादपि ।।

आयातं तच्च गङ्गाया जलमध्ये व्यवस्थितम्।। ६१ ।।

तत्प्रासादोऽद्भुततरो मध्ये गंगं निरीक्ष्यते ।।

सर्वधातुमयः श्रेष्ठः सर्वरत्नमयः शुभः ।। ६२ ।।

अद्यापि दृश्यते कैश्चित्पुण्यसंभारगौरवात् ।।

श्रेष्ठं लिंगमिहायातं तीर्थात्कोटीश्वरादपि ।। ६३ ।।

कोटिलिंगे क्षणे पुण्यं तल्लिंगस्य निरीक्षणात् ।।

श्रेष्ठं ज्येष्ठेश्वरात्पश्चाच्छ्रेष्ठ सिद्धिप्रदायकम्।। ६४ ।।

वडवास्यात्समुद्भूतं लिंगमत्रानलेश्वरम् ।।

नलेश्वर पुरोभागे पूजितं सर्वसिद्धिदम्।। ६५ ।।

आगत्य विरजस्तीर्थाद्देवदेवस्त्रिलोचनः ।।

लिंगे त्वनादिसंसिद्धे ह्यवतस्थे त्रिविष्टपे ।। ६६ ।।

पुण्ये पिलिपिला तीर्थे सर्वेषां तारकप्रदे ।।

आविश्चक्रे स्वयदेव ओंकारोमरकंटकात् ।। ६७ ।।

तदाद्यं तारकक्षेत्रं यदा गंगा न चागता ।।

यदैवाविरभूत्काशी त्रैलोक्योद्धणाय वै ।।६८।।

तदाकृतिमहल्लिंगं स्वयमाविरभूत्ततः।।

महिमानं न तस्यान्यः परिवेत्ति विभोर्ऋते ।। ६९ ।।

एतान्यायतनानीश आनिनाय महांति च ।।

शेषयित्वांशमात्रं च तस्मिन्क्षेत्रे निजे निजे ।। 4.2.69.१७० ।।

इहायातानि पुण्यानि सर्वभावेन नान्यथा।।

प्रासादाः सर्वतश्चैषां रम्या अभ्रंलिहा विभो ।।७१।।

बहुधातुमयाश्चित्राः सर्वरत्नसमु्ज्ज्वलाः ।।

येषां कलशमात्रस्य दर्शनान्मुक्तिराप्यते।।७२।।

श्रुत्वापि नाम चैतेषां लिंगानां सुरसत्तम ।।

अपि जन्मसहस्रोत्थाः क्षीयंते पापराशयः ।। ७३ ।।

इदानीं को निदेशोत्र मयानुष्ठेय ईशितः ।।

प्रसादी क्रियतांसो पि सिद्धो मंतव्य एव हि ।। ७४ ।।

।। स्कंद उवाच ।। ।।

श्रुत्वेति नंदिनो वाक्यं देवदेवेश्वरो हरः ।।

श्रद्धा प्रसाद्य शैलादिमिदं प्रोवाच कुंभज ।। ७५ ।।

।। श्रीदेवदेव उवाच ।। ।।

साधूकृतं त्वया नंदिन्सदानंद विधायक ।।

विधेहि मे निदेशं च चंडीर्व्यापारयाधुना ।।७६।।

नवकोट्यस्तु चामुंडायायत्र निवसंति हि ।।

स्वदेवताभिः सहिता भूतवेताल भैरवैः ।। ७७ ।।

ताः पुरी रक्षणार्थाय सवाहनबलायुधाः ।।

प्रतिदुर्गं दुर्गरूपाः परितः परिवासय ।। ७८ ।।

।। स्कंद उवाच ।।

नंदिनं संनिदेश्येति मृडान्या सहितो मृडः ।।

ययौ त्रैविष्टपं क्षेत्रं मुक्तिबीजप्ररोहणम् ।। ७९ ।।

शिलादतनयोप्यैशीं मूर्द्धन्याज्ञां विधाय च ।।

आहूय सर्वतो दुर्गाः प्रतिदुर्गं न्यवेशयत् ।। 4.2.69.१८० ।।

निशम्याध्यायमेतं च पुण्यायतन गर्भिणम्।।

नरः स्वर्गापवर्गौ च प्राप्नुयाच्छ्रद्धया क्रमात् ।। ८१ ।।

श्रुत्वाष्टषष्टिमेतां वै महायतन संश्रयाम् ।।

न जातु प्रविशेन्मर्त्यो जनन्या जाठरीं दरीम् ।। १८२ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्धेऽष्टषष्ट्यायतनसमागमो नामैकोनसप्ततितमोध्यायः ।। ६९ ।। ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 70

अगस्त्य उवाच ।।

कात्यायनेय कथय नंदिना विश्वनंदिना ।।

यथा व्यापारिता देव्यो देवदेवनिदेशतः ।। १ ।।

अविमुक्तस्य रक्षार्थं यत्र या देवताः स्थिताः ।।

प्रसादं कुरु मे देव ताः समाचक्ष्व तत्त्वतः ।। २ ।।

इत्यगस्त्युदितं श्रुत्वा महादेवतनूद्भवः ।।

कथयामास या यत्र स्थिताऽऽनंदवने मुदा ।। ३ ।।

स्कंद उवाच ।। ।।

वाराणस्यां विशालाक्षी क्षेत्रस्य परमेष्टदा ।।

विशालतीर्थं गंगायां कृत्वा पृष्ठे व्यवस्थिता ।। ४ ।।

स्नात्वा विशालतीर्थे वै विशालाक्षीं प्रणम्य च ।।

विशालां लभते लक्ष्मीं परत्रेह च शर्मदाम् ।। ५ ।।

भाद्रकृष्णतृतीयायामुपोषणपरैर्नृभिः ।।

कृत्वा जागरणं रात्रौ विशालाक्षीसमीपतः ।। ६ ।।

प्रातर्भोज्याः प्रयत्नेन चतुर्दशकुमारिकाः ।।

अलंकृता यथाशक्त्या स्रगंबरविभूषणैः ।।७।।

विधाय पारणं पश्चात्पुत्रभृत्यसमन्वितैः।।

सम्यग्वाराणसीवासफलं लभ्येत कुंभज ।। ८ ।।

तस्यां तिथौ महायात्रा कार्या क्षेत्रनिवासिभिः ।।

उपसर्ग प्रशांत्यर्थं निर्वाणकमलाप्तये ।। ९ ।।

वाराणस्यां विशालाक्षी पूजनीया प्रयत्नतः ।।

धूपदीपैः शुभैर्माल्यैरुपहारैर्मनोहरैः ।।4.2.70.१०।।

मणिमुक्ताद्यलंकारैर्विचित्रोल्लोच चामरैः ।।

शुभैरनुपभुक्तैश्च दुकूलैर्गंधवासितैः ।। ११।।

मोक्षलक्ष्मी समृद्ध्यर्थं यत्रकुत्र निवासिभिः ।।

अप्यल्पमपि यद्दत्तं विशालाक्ष्यै नरोत्तमैः ।। १२ ।।

तदानंत्याय जायंत मुने लोकद्वयेपि हि ।।

विशालाक्षी महापीठे दत्तं जप्तं हुतं स्तुतम् ।। १३ ।।

मोक्षस्तस्य परीपाको नात्र कार्या विचाणा ।।

विशालाक्षी समर्चातो रूपसंपत्तियुक्पतिः ।।१४ ।।

प्राप्यतेत्र कुमारीभिर्गुणशीलाद्यलंकृतः ।।

गुर्विणीभिः सुतनयो वंध्याभिगर्भसंभवः ।। १५ ।।

असौभाग्यवतीभिश्च सौभाग्यं महदाप्यते ।।

विधवाभिर्न वैधव्यं पुनर्जन्मांतरे क्वचित्।। ।। १६ ।।

सीमंतिनीभिः पुंभिर्वा परं निर्वाणमिच्छुभिः ।।

श्रुता दृष्टार्चिता काश्यां विशालाक्ष्यभिलाषदा ।।१७।।

ततोन्यल्ललितातीर्थं गंगाकेशवसन्निधौ ।।

तत्रास्ति ललिता देवी क्षेत्ररक्षाकरी परा ।। १८ ।।

सा च पूज्या प्रयत्नेन सर्वसंपत्समृद्धये ।।

ललितापूजकानां च जातु विघ्नो न जायते ।। १९ ।।

इषे कृष्णद्वितीयायां ललितां परिपूज्य वै ।।

नारी वा पुरुषो वापि लभते वांछितं पदम् ।। 4.2.70.२० ।।

स्नात्वा च ललिता तीर्थे ललितां प्रणिपत्य वै ।।

लभेत्सर्वत्र लालित्यं यद्वा तद्वाऽनुलप्य च ।। २१ ।।

मुने विश्वभुजा गौरी विशालाक्षी पुरः स्थिता ।।

संहरंती महाविघ्नं क्षेत्रभक्तिजुषां सदा ।। २२ ।।

शारदं नवरात्रं च कार्या यात्रा प्रयत्नतः ।।

देव्या विश्वभुजाया वै सर्वकामसमृद्धये ।।२३।।

यो न विश्वभुजां देवीं वाराणस्यां नमेन्नरः ।।

कुतो महोपसर्गेभ्यस्तस्य शांतिर्दुरात्मनः ।। २४ ।।

यैस्तु विश्वभुजा देवी वाराणस्यां स्तुतार्चिता ।।

न हि तान्विघ्नसंघातो बाधते सुकृतात्मनः ।। २५ ।।

अन्यास्ति काश्यां वाराही क्रतुवाराहसन्निधौ ।।

तां प्रणम्य नरो भक्त्या विपदब्धौ न मज्जति ।। २६ ।।

शिवदूती तु तत्रैव द्रष्टव्याऽऽपद्विनाशिनी ।।

आनंदवनरक्षार्थमुद्यच्छूलारितर्जनी ।। २७ ।।

वज्रहस्ता तथा चैंद्री गजराज रथास्थिता ।।

इंद्रेशाद्दक्षिणेभागेऽर्चिता संपत्करी सदा ।। २८ ।।

स्कंदेश्वर समीपे तु कौमारी बर्हियानगा ।।

प्रेक्षणीया प्रयत्नेन महाफलसमृद्धये ।। २९ ।।

महेश्वराद्दक्षिणतो देवी माहेश्वरी नरैः ।।

वृषयानवती पूज्या महावृषसमृद्धिदा ।। 4.2.70.३० ।।

निर्वाणनरसिंहस्य समीपे मोक्षकांक्षिभिः ।।

नारसिंही समर्च्या च समुद्यच्चक्र रम्यदोः ।। ३१ ।।

हंसयानवती ब्राह्मी ब्रह्मेशात्पश्चिमे स्थिता ।।

गलत्कमंडलुजल चुलका ताडिता हिता ।। ३२ ।।

ब्रह्मविद्या प्रबोधार्थं काश्यां पूज्या दिनेदिने ।।

ब्राह्मणैर्यतिभिर्नित्यं निजतत्त्वावबोधिभिः ।। ३३ ।।

शार्ङ्गचापविनिर्मुक्त महेषुभिरितस्ततः ।।

उत्सादयंतीं प्रत्यूहान्काश्यां नारायणीं श्रयेत् ।। ३४ ।।

प्रतीच्यांगोपिगोविंदाद्भ्राम्यच्चक्रोच्च तर्जनीम्।।

नारायणीं यः प्रणमेत्तस्य काश्यां महोदयः।।३५।।

ततो गौरीं विरूपाक्ष देवयान्या उदग्दिशि ।।

पूजयित्वा नरो भक्त्या वांछितां लभते श्रियम् ।। ३६ ।।

शैलेश्वरी समभ्यर्च्या शैलेश्वर समीपगा ।।

तर्जयंती च तर्जन्या संसर्गमुपसर्गजम् ।। ३७ ।।

चित्रकूपे नरः स्नात्वा विचित्रफलदे नृणाम् ।।

चित्रगुप्तेश्वरं वीक्ष्य चित्रघंटां प्रपूज्य च ।। ३८ ।।

बहुपातकयुक्तोपि त्यक्तधर्मपथोपि वा ।।

न चित्रगुप्तलेख्यः स्याच्चित्रघंटार्चको नरः ।। ३९ ।।

योषिद्वा पुरुषो वापि चित्रघंटां न योर्चयेत् ।।

काश्यां विघ्नसहस्राणि तं सेवंते पदेपदे ।।4.2.70.४०।।

चैत्रशुक्लतृतीयायां कार्या यात्रा प्रयत्नतः ।।

महामहोत्सवः कार्यो निशि जागरणं तथा ।। ४१ ।।

महापूजोपकरणैश्चित्रघंटां समर्च्य च ।।

शृणोति नांतकस्येह घंटां महिषकंठगाम् ।। ४२ ।।

चित्रांगदेश्वरप्राच्यां चित्रग्रीवां प्रणम्य च ।।

न जातु जंतुर्वीक्षेत विचित्रां यमयातनाम् ।। ४३ ।।

भद्रकालीं नरो दृष्ट्वा नाभद्रं पश्यति क्वचित्।।

भद्रनागस्य पुरतो भद्रवाप्यां कृतोदकः ।। ४४ ।।

हरसिद्धिं प्रयत्नेन पूजयित्वा नरोत्तमः ।।

महासिद्धिमवाप्नोति प्राच्यां सिद्धिविनायकात् ।। ४५ ।।

विधिं संपूज्य विधिवद्विविधैरुपहारकैः ।।

विविधां लभते सिद्धिं विधीश्वरसमीपगाम् ।। ४६ ।।

प्रयागतीर्थे सुस्नातो जनो निगडभंजनीम् ।।

सभाजयित्वा नो जातु निगडैः परिबाध्यते ।। ४७ ।।

भौमवारे सदा पूज्या देवीनिगडभंजनी ।।

कृत्वैकभुक्तं भक्त्यात्र बंदीमोक्षणकाम्यया ।। ४८ ।।

संसारबंधविच्छित्तिमपि यच्छति सार्चिता ।।

गणना शृंखलादीनां का च तस्याः समर्चनात् ।।४९।।

दूरस्थोपि हि यो बंधुः सोपि क्षिप्रं समेष्यति ।।

बंदी पदजुषां पुंसां श्रद्धया नात्र संशयः ।। 4.2.70.५० ।।

किंचिन्नियममालंब्य यदि सा परिषेविता ।।

कामान्पूरयति क्षिप्रं काशी संदेहहारिणी ।। ५१ ।।

घनटंककरा देवी भक्तबंधनभेदिनी ।।

कं कं न पूरयेत्कामं तीर्थराजसमीपगा ।। ५२ ।।

देवी पशुऽपतेः पश्चादमृतेश्वर सन्निधौ ।।

स्नात्वा चैवामृते कूपे नमनीया प्रयत्नतः ।। ५३ ।।

पूजयित्वा नरो भक्त्या देवताममृतेश्वरीम् ।।

अमृतत्वं भजेदेव तत्पादांबुज सेवनात् ।। ५४ ।।

धारयंतीं महामायाममृतस्य कमंडलुम् ।।

दक्षिणेऽभयदां वामे ध्यात्वा को नाऽमृतत्वभाक् ।।५५।।

सिद्धलक्ष्मी जगद्धात्री प्रतीच्याममृतेश्वरात् ।।

प्रपितामह लिंगस्य पुरतः सिद्धिदार्चिता ।।५६।।

प्रासादं सिद्धलक्ष्म्याश्च विलोक्य कमलाकृतिम् ।।

लक्ष्मीविलाससंज्ञं च को न लक्ष्मीं समाप्नुयात् ।।५७।।

ततः कुब्जा जगन्माता नलकूवरलिंगतः ।।

पूजनीया पुरोभागे प्रपितामहपश्चिमे ।। ५८ ।।

उपसर्गा न शेषांश्च कुब्जा हरति पूजिता ।।

तस्मात्कुब्जा प्रयत्नेन पूज्या काश्यां शुभार्थिभिः ।। ५९ ।।

कुब्जांबरेश्वरं लिंगं नलकूबर पश्चिमे ।।

त्रिलोकसुंदरी गौरी तत्रार्च्याभीष्टदायिनी ।। 4.2.70.६० ।।

त्रिलोकसुंदरी सिद्धिं दद्यात्त्रैलोक्यसुंदरीम् ।।

वैधव्यं नाप्यते क्वापि तस्या देव्याः समर्चनात् ।। ६१ ।।

दीप्ता नाम महाशक्तिः सांबादित्यसमीपगा ।।

देदीप्यमान लक्ष्मीका जायंते तत्समर्चनात् ।। ६२ ।।

श्रीकंठ सन्निधौ देवी महालक्ष्मीर्जगज्जनिः ।।

स्नात्वा श्रीकुंड तीर्थे तु समर्च्या जगदंबिका ।। ६३ ।।

पितॄन्संतर्प्य विधिवत्तीर्थे श्रीकुंडसंज्ञिते ।।

दत्त्वा दानानि विधिवन्न लक्ष्म्या परिमुच्यते ।। ६४ ।।

लक्ष्मीक्षेत्रं महापीठं साधकस्यैव सिद्धिदम् ।।

साधकस्तत्र मंत्रांश्च नरः सिद्धिमवाप्नुयात् ।। ६५ ।।

संति पीठन्यनेकानि काश्यां सिद्धिकराण्यपि ।।

महालक्ष्मीपीठसमं नान्यल्लक्ष्मीकरं परम् ।। ६६ ।।

महालक्ष्म्यष्टमीं प्राप्य तत्र यात्रा कृतां नृणाम् ।।

संपूजितेह विधिवत्पद्मा सद्म न मुंचति ।। ६७ ।।

उत्तरे तु महालक्ष्म्या हयकंठीकुठारधृक् ।।

काशीविघ्रमहावृक्षांश्छिनत्ति प्रतिवासरम् ।। ६८ ।।

कौर्मी शक्तिर्महालक्ष्मी दक्षिणे पाशपाणिका ।।

बध्नाति विघ्नसंघातं क्षेत्रस्यास्य प्रतिक्षणम्।। ६९ ।।

सा पूजितास्तुता मर्त्यैः क्षेत्रसिद्धिं प्रयच्छति।।

वायव्यां च शिखी चंडी क्षेत्ररक्षाकरी परा ।। 4.2.70.७० ।।

खादंती विघ्नसंघातं शिखी शब्दं करोति च ।।

तस्याः संदर्शनात्पुंसां नश्यंति व्याधयोखिलाः।। ७१ ।।

भीमचंड्युत्तरद्वारं सदा रक्षेदतंद्रिता ।।

भीमेश्वरस्य पुरतः पाशमुद्गरधारिणीम् ।। ७२ ।।

भीमचंडीं नरो दृष्ट्वा भीमकुंडे कृतोदकः ।।

भीमाकृतीन्न वै पश्येद्याम्यान्दूतान्क्वचित्कृती ।।७३।।

छागवक्त्रेश्वरी देवी दक्षिणे वृषभध्वजात् ।।

अहर्निशं भक्षयति विघ्नौघतरुपल्लवान्।। ।। ७४ ।।

तस्या देव्याः प्रसादेन काशीवासः प्रलभ्यते ।।

अतश्छागेश्वरीं देवीं महाष्टम्यां प्रपूजयेत् ।।७५।।

तालजंघेश्वरी देवी तालवृक्षकृतायुधा ।।

उत्सादयति विघ्नौघानानंदवन मध्यगान् ।। ७६ ।।

संगमेश्वर लिंगस्य दक्षिणे विकटाननाम् ।।

तालजंघेश्वरीं नत्वा न विघ्नैरभिभूयते ।।७७।।

उद्दालकेश्वराल्लिंगात्तीर्थं उद्दालकाभिधे ।।

याम्यां च यमदंष्ट्राख्या चर्वयेद्विघ्नसंहतिम् ।। ७८ ।।

प्रणता यमदंष्ट्रायैस्तीर्थेचोद्दालकाभिधे ।।

कृत्वापि पापसंघातं न यमाद्बिभ्यतीहते ।। ।। ७९ ।।

दारुकेश्वर तीर्थे तु दारुकेशसमीपतः ।।

पातालतालुवदनामाकाशोष्ठीं धराधराम् ।। 4.2.70.८० ।।

कपालकर्त्रीं हस्तां च ब्रह्मांडकवलप्रियाम् ।।

शुष्कोदरीं स्नायुबद्धां चर्ममुंडेति विश्रुताम् ।। ८१ ।।

क्षेत्रस्य पूर्वदिग्भागं रक्षंती विघ्नसंघतः ।।

लसत्सहस्रदोर्दंडां ज्वलत्केकरवीक्षणाम् ।। ८२ ।।

पारावारप्रसृमर हस्त न्यस्तारि मोदकाम् ।।

द्वीपि कृत्तिपरीधानां कटुकाट्टाट्टहासिनीम् ।। ८३ ।।

मृणालनालवत्तीव्रं चर्वंतीमस्थि पापिनः ।।

शूलाग्रप्रोत दुर्वृत्त क्षेत्रद्रोहिकलेवराम् ।। ८४ ।।

कपालमालाभरणां महाभीषणरूपिणीम् ।।

चर्ममुंडां नरो नत्वा क्षेत्रविघ्नैर्न बाध्यते ।। ८५ ।।

यथैव चर्ममुंडैषा महारुंडापि तादृशी।।

एतावानेव भेदोस्या रुंडस्रग्भूषणात्वियम् ।। ८६ ।।

क्षेत्ररक्षां प्रकुरुत उभेदेव्यौ महाबले ।।

हसंत्यौ करतालीभिरन्योन्यं दोः प्रसारणात् ।।८७।।

हयग्रीवेश्वरे तीर्थे लोलार्कादुत्तरे सदा ।।

महारुंडा प्रचंडास्या तिष्ठते भक्तविघ्नहृत् ।।८८।।

चर्ममुंडा महारुंडा कथिते ये तु देवते ।।

तयोरंतरतस्तिष्ठेच्चामुंडा मुंडरूपिणी ।। ८९ ।।

एतास्तिस्रः प्रयत्नेन पूज्याः क्षेत्रनिवासिभिः ।।

धनधान्यप्रदाश्चैताः पुत्रपौत्रप्रदा इमाः ।। 4.2.70.९० ।।

उपसर्गानमूर्घ्नंति दद्युर्नैःश्रेयसीं श्रियम् ।।

स्मृता दृष्टा न ताः स्पृष्टाः पूजिताः श्रद्धया नरैः ।। ९१ ।।

महारुंडा प्रतीच्यां च देवी स्वप्नेश्वरी शुभा ।।

भविष्यं कथयेत्स्वप्ने भक्तस्याग्रे शुभाशुभम् ।। ९२ ।।

तत्र स्वप्नेश्वरं लिंगं देवीं स्वप्नेश्वरीं तथा।।

स्नात्वासिसंगमे पुण्ये यस्मिन्कस्मिंस्तिथावपि ।। ९३ ।।

उपोषणपरो धीमान्नारीवा पुरुषोपि वा ।।

संपूज्य स्थंडिलशयः स्वप्ने भावि विलोकयेत् ।।९४।।

अद्यापि प्रत्ययस्तत्र कार्य एष विजानता ।।

भूतं भावि भवत्सर्वं वदेत्स्वप्नेश्वरी निशि।।९५।।

अष्टम्यां च चतुर्दश्यां नवम्यां निशि वा दिवा।।

प्रयत्नतः समर्च्या सा काश्यां ज्ञानार्थिभिर्नरैः ।। ९६ ।।

स्वप्नेश्वर्याश्च वारुण्यां दुर्गादेवी व्यवस्थिता ।।

क्षेत्रस्य दक्षिणं भागं सा सदैवाभिरक्षति ।। ९७ ।।

इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे देवताधिष्ठानंनाम सप्ततितमोऽध्यायः ।। ७० ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 71

।। अगस्त्य उवाच ।। ।।

कथं दुर्गेति वै नाम देव्या जातंमुमासुत ।।

कथं च काश्यां सा सेव्या समाचक्ष्वेति मामिह ।। १।। ।।

स्कंद उवाच ।। ।।

कथयामि महाबुद्धे यथा कलशसंभव ।।

दुर्गा नामाभवद्देव्या यथा सेव्या च साधकैः ।। २ ।।

दुर्गो नाम मदादैत्यो रुरु दैत्यांगजोभवत्।।

यश्च तप्त्वा तपस्तीव्रं पुंभ्योजेयत्वमाप्तवान् ।। ३ ।।

ततस्तेनाखिला लोका भूर्भुवःस्वर्मुखा अपि ।।

स्वसात्कृता विनिर्जित्य रणे स्वभुजसारतः ।। ४ ।।

स्वयमिंद्रः स्वयं वायुः स्वयं चंद्रः स्वयं यमः ।।

स्वयमग्निः स्वयं पाशी धनदोभूत्स्वयं बली ।। ५ ।।

स्वयमीशानरुद्रार्क वसूनां पदमाददे ।।

तत्साध्वसाद्विमुक्तानि तपांस्यति तपस्विभिः।।६ ।।

न वेदाध्ययनं चक्रुर्ब्राह्मणास्तद्भयादिताः ।।

यज्ञवाटा विनिर्ध्वस्तास्तद्भटैरतिदुःसहैः ।। ७ ।।

विध्वस्ता बहुशः साध्व्यस्तैरमार्गकृतास्पदैः ।।

प्रसभं च परस्वानि अपहृत्य दुरासदाः ।। ८ ।।

अभोक्षिषुर्दुराचाराः क्रूरकर्मपरिग्रहाः ।।

नद्यो विमार्गगा आसञ्ज्वलंति न तथाग्नयः।।९।।

ज्योतींषि न प्रदीप्यंति तद्भयाकुलितान्यहो ।।

दिग्वधूवसनन्यासन्विच्छायानि समंततः ।। 4.2.71.१० ।।

धर्मक्रियाविलुप्ताश्च प्रवृत्ताः सुकृतेतराः ।।

त एव जलदीभूय ववृषुर्निज लीलया ।। ११ ।।

सस्यानि तद्भयात्सूते त्वनुप्तापि वसुंधरा।।

सदैव फलिनो जातास्तरवोप्यवकेशिनः ।।१२।।

बंदीकृताः सुरर्षीणां पत्न्यस्तेनातिदर्पिणा ।।

दिवौकसः कृतास्तेन समस्ताः काननौकसः ।। १३ ।।

मर्त्या अमर्त्यान्स्वगृहं प्राप्तानपि भयार्दिताः ।।

अपि संभाषमात्रेण नार्च्चयंति विपज्जुषः ।। १४ ।। ।।

स्कंद उवाच ।।

न कौलीन्यं न सद्वृत्तं महत्त्वाय प्रकल्पते ।।

एकमेव पदं श्रेयः पदभ्रंशो हि लाघवम् ।। १५ ।।

विपद्यपि हि ते धन्या न ये दैन्यप्रणोदिताः ।।

धनैर्मलिनचित्तानामालभंतेंगणं क्वचित् ।। १६ ।।

पंचत्वमेव हि वरं लोके लाघववर्ज्जितम् ।।

नामरत्वमपि श्रेयो लाघवेन समन्वितम् ।। १७ ।।

त एव लोके जीवंति पुण्यभाजस्त एव वै ।।

विपद्यपि न गांभीर्यं यच्चेतोब्धिः परित्यजेत् ।। १८ ।।

कदाचित्संपदुदयः कदाचिद्विपदुद्गमः ।।

दैवाद्द्वयमपि प्राप्य धीरो धैर्यं न हापयेत् ।। १९ ।।

उदयानुदयौ प्राज्ञैर्द्रष्टव्यौ पुष्पवंतयोः ।।

सदैकरूपताऽत्याज्या हर्षाहर्षौ ततोऽध्रुवौ ।। 4.2.71.२० ।।

यस्त्वापदं समासाद्य दैन्यग्रस्तो विपद्यते ।।

तस्य लोकद्वयं नष्टं तस्माद्दैन्यं विवर्जयेत् ।। २१ ।।

आपद्यपि हि ये धीरा इह लोके परत्र च ।।

न तान्पुनः स्पृशेदापत्तद्धैर्येणावधीरिता ।। २२ ।।

भ्रष्टराज्याश्च विबुधा महेशं शरणं गताः ।।

सर्वज्ञेन ततो देवीप्रेरिताऽसुरमर्दने ।।२३।।

माहेश्वरीं समासाद्य भवान्याज्ञां प्रहृष्टवत् ।।

अमर्त्यायाऽभयं दत्त्वा समरायोपचक्रमे ।।२४।।

कालरात्रीं समाहूय कांत्या त्रैलोक्यसुंदरीम् ।।

प्रेषयामास रुद्राणी तमाह्वातुं सुरद्रुहम् ।। २५ ।।

कालरात्री समासाद्य तं दैत्यं दुष्टचेष्टितम् ।।

उवाच दैत्याधिपते त्यज त्रैलोक्यसंपदम् ।। २६ ।।

त्रिलोकीं लभतामिंद्रस्त्वं तु याहि रसातलम् ।।

प्रवर्तंतां क्रियाः सर्वा वेदोक्ता वेदवादिनाम् ।। २७ ।।

अथ चेद्गर्वलेशोऽस्ति तदायाहि समाजये ।।

अथवा जीविताकांक्षी तदिंद्रं शरणं व्रज ।। २८ ।।

इति वक्तुं महादेव्या महामंगलरूपया ।।

त्वदंतिके प्रेषिताहं मृत्युस्ते तदुपेक्षया ।।२९।।

अतो यदुचितं कर्तुं तद्विधेहि महासुर ।।

परं हितं चेच्छृणुयाज्जीवग्राहं ततो व्रज ।। 4.2.71.३० ।।

इत्याकर्ण्य वचो देव्या महाकाल्याः स दैत्यराट् ।।

प्रजज्वाल तदा क्रोधाद्गृह्यतां गृह्यतामियम् ।। ३१ ।।

त्रैलोक्यमोहिनी ह्येषा प्राप्ता मद्भाग्यगौरवैः ।।

त्रैलोक्यराज्यसंपत्ति वल्ल्याः फलमिदं महत् ।। ३२ ।।

एतदर्थं हि देवर्षि नृपा बंदी कृता मया ।।

अनायासेन मे प्राप्ता गृहमेषा शुभोदयात् ।। ३३ ।।

अवश्यं यस्य योग्यं यत्तत्तस्येहोपतिष्ठते ।।

अरण्ये वा गृहे वापि यतो भाग्यस्य गौरवात् ।। ३४ ।।

अंतःपुरचरा एतां नयंत्वंतःपुरं महत् ।।

अनया सदलं कृत्या मम राष्ट्रमलंकृतम् ।। ३५ ।।

अहो महोदयश्चाद्य जातो मम महामते ।।

केवलं न ममैकस्य सर्वदैत्यान्वयस्य च ।। ३६ ।।

नृत्यंतु पितरश्चाद्य मोदंतां बांधवाः सुखम् ।।

मृत्युः कालोंऽतको देवाः प्राप्नुवंत्वद्य मे भयम् ।। ३७ ।।

इति यावत्समायातास्तां नेतुं सौविदल्लकाः ।।

तावत्तया कालरात्र्या प्रत्युक्तो दैत्यपुंगवः।। ।। ३८ ।। ।।

कालरात्र्युवाच ।। ।।

दैत्यराज महाप्राज्ञ नैतद्युक्तं भवादृशाम् ।।

वयं दूत्यः परवशा राजनीतिविदुत्तम ।। ३९ ।।

अल्पोपि दूतसंबाधां न विदध्यात्कदाचन ।।

किं पुनर्ये भवादृक्षा महांतो बलिनोऽधिपाः ।। 4.2.71.४० ।।

दूतीषु कोनुरागोयं महाराजाल्पिकास्विह ।।

अनायासेन च वयमायास्यामस्तदागमात् ।। ४१ ।।

विजित्य समरे तां तु स्वामिनीं मम दैत्यप ।।

मादृशीनां सहस्रणि परिभुंक्ष्व यथेच्छया ।।४२।।

अद्यैव ते महासौख्यं भावितस्याविलोकनात्।।

बांधवानां सुखं तेद्य भविता सह पूर्वजैः ।। ४३ ।।

संपत्स्यंतेऽद्य ते कामाः सर्वे ये चिरचिंतिताः ।।

अबला सा च मुग्धा च तस्यास्त्राता न कश्चन ।। ४४ ।।

सर्वरूपमयी चैव तां भवान्द्रष्टुमर्हति ।।

अहं हि दर्शयिष्यामि यत्र साऽस्ति जगत्खनिः ।। ४५ ।।

धृतायामपि चैकस्यां कस्ते कामो भविष्यति ।।

अहं ते सन्निधिं नैव त्यक्ष्याम्यद्य दिनावधि ।। ४६ ।।

ततो निवारयैतान्मामादित्सून्सौविदल्लकान् ।।

इति श्रुत्वा वचस्तस्याः स कामक्रोधमोहितः ।। ४७ ।।

तामेव बह्वमंस्तैकां दूतीं मृत्योरिवासुरः ।।

शुद्धांतरक्षिणश्चैतां शुद्धां तं प्रापयंत्वरम् ।। ४८ ।।

इति तेन समादिष्टाः सर्वे वर्पवरा मुने ।।

तां धर्तुमुद्यमं चक्रुर्बलेन बलवत्तराः ।। ४९ ।।

सा तान्भस्मीचकाराशु हुंकारजनिताग्निना ।।

ततो दैत्यपतिः क्रुद्धो दृष्ट्वा तान्भस्मसात्कृतान् ।। 4.2.71.५० ।।

क्षणेनैव तया दूत्या दैत्त्यास्त्र्ययुतसंमितान् ।।

दृशा व्यापारयामास दुर्धरं दुर्मुखं खरम् ।। ५१ ।।

सीरपाणिं पाशपाणिं सुरेंद्रदमनं हनुम् ।।

यज्ञारिं खङ्गलोमानमुग्रास्यं देवकंपनम् ।। ।। ५२ ।।

बद्ध्वा पाशैरिमां दुष्टामानयंत्वाशु दानवाः ।।

विध्वस्तकेशवेशां च विस्त्रस्तांबरभूषणाम् ।। ५३ ।।

इति दैत्याधिपादेशाद्दुर्धरप्रमुखास्ततः ।।

पाशासिमुद्गरधरास्तामादातुं कृतोद्यमाः ।। ५४ ।।

गिरींद्रगुरुवर्ष्माणः शस्त्रास्त्रोद्यतपाणयः ।।

दिगंतं ते परिप्राप्तास्तदुच्छ्वासानिलाहताः ।। ५५ ।।

तेषूड्डीनेषु दैत्येषु शतकोटिमितेषु च ।।

निर्जगाम ततः सा तु कालरात्रिर्नभोध्वगा ।। ५६ ।।

ततस्तां तु विनिर्यांतीमनुजग्मुर्महासुराः।।

कोटिकोटिसहस्राणि पूरयित्वा तु रोदसी ।। ५७ ।।

दुर्गोनाम महादैत्यः शतकोटि रथावृतः ।।

गजानामर्बुदशतद्वयेनपारिवारितः ।। ५८ ।।

कोट्यर्बुदेन सहितो हयानां वातरंहसाम् ।।

पदातिभिरसंख्यातैः पच्चूर्णितशिलोच्चयैः ।। ५९ ।।

उदायुधैर्महाभीमैःकृतत्रिजगतीभयैः ।।

समेतः स महादैत्यो दुर्गः क्रुद्धो विनिर्ययौ ।। 4.2.71.६० ।।

अथ दृष्ट्वा महादेवी विंध्याचलकृतालयाम् ।।

आगत्य कालरात्र्यां च निवेदित तदागसम् ।। ६१ ।।

महाभुजसहस्राढयां महातेजोभिबृंहिताम् ।।

तत्तद्घोरप्रहरणां रणकौतुकसादराम् ।। ६२ ।।

प्रौद्यच्चंद्रसहस्रांशु निर्मार्जित शुभाननाम् ।।

लावण्यवार्धि निर्गच्छच्चंचच्चंद्रैकचंद्रिकाम् ।। ६३ ।।

महामाणिक्यनिचय रोचिःखचितविग्रहाम् ।।

त्रैलोक्यरम्यनगरी सुप्रकाशप्रदीपिकाम् ।।६४।।

हरनेत्राग्निनिर्दग्ध कामजीवातुवीरुधम् ।।

लसत्सौंदर्यसंभार जगन्मोहमहौषधिम् ।। ६५ ।।

विषमेषु शरैर्भिन्नहृदयो दैत्यपुंगवः ।।

आदिष्टवान्महासैन्यनायकानुप्रशासनः ।। ६६ ।।

अयि जंभ महाजंभ कुजंभ विकटानन ।।

लंबोदर महाकाय महादंष्ट्र महाहनो ।। ६७ ।।

पिंगाक्ष महिषग्रीव महोग्रात्युग्रविग्रह ।।

क्रूराक्ष क्रोधनाक्रंद संक्रंदन महाभय ।। ६८ ।।

जितांतक महाबाहो महावक्त्र महीधर ।।

दुंदुभे दुंदुभिरव महादुंदुभिनासिक ।। ६९ ।।

उग्रास्य दीर्घदशनमेवकेश वृकानन ।।

सिंहास्य सूकरमुख शिवाराव महोत्कट ।। 4.2.71.७० ।।

शुकतुंड प्रचंडास्य भीमाक्ष क्षुदमानस ।।

उलूकनेत्र कंकास्य काकतुंड करालवाक् ।।७१।।

दीर्घग्रीव महाजंघ क्रमेलक शिरोधर ।।

रक्तबिंदो जपानेत्र विद्युज्जिह्वाग्नितापन ।। ७२ ।।

धूम्राक्ष धूमनिःश्वास चंडचंडांशुतापन ।।

महाभीषणमुख्याश्च शृण्वंत्वाज्ञां ममादरात् ।। ७३ ।।

भवत्स्वेतेषु चान्येषु एतां विंध्यवासिनीम्।।

धृत्यानेष्यति बुद्ध्या वा बलेनापि च्छलेन वा ।।७४।।

तस्याहमिंद्रपदवीमद्य दास्याम्यसंशयम्।।

दृष्ट्वैतां सुंदरीमद्य मनो मे व्याकुलं भवेत् ।। ७२।।

यांतु क्षिप्रं नयावन्मे पंचेषु शरपीडितम् ।।

मनोविह्वलतां गच्छेदेतत्प्राप्तेरभावतः ।।७६।।

इत्याकर्ण्य वचस्तस्य दुर्गस्य दनुजेशितुः ।।

प्रोचुः सर्वे तदा दैत्याः प्रबद्धकरसंपुटाः ।। ७७ ।।

अवधेहि महाराज किमेतत्कर्मदुष्करम् ।।

अनाथायास्तथैकस्या अबलया विशेषतः ।। ७८।।

अस्या आनयने कोयं महायत्नविधिः प्रभो ।।

कोऽस्मान्प्रलयकालाग्निमहाज्वालावलीसमान् ।। ७९ ।।

सहेत त्रिषु लोकेषु त्वत्प्रसादात्कृतोद्यमान् ।।

यद्यादेशो भवेदद्य तदेंद्रं स मरुद्गणम् ।। 4.2.71.८० ।।

सांतःपुरं समानीय क्षिप्नुमस्त्वत्पदाग्रतः ।।

भूर्भुवःस्वरिदं सर्वं त्वदाज्ञावशवर्तितम् ।। ८१ ।।

महर्जनस्तपःसत्यलोकास्त्वदधिकारिणः ।।

तत्राप्यसाध्यं नास्माकं त्वन्निदेशान्महासुर ।। ८२ ।।

वैकुंठनायको नित्यं त्वदाज्ञापरिपालकः ।।

यानि रम्याणि रत्नानि तानि संप्रेषयन्मुदा ।।८३।।

अस्माभिरेव संत्यक्तः कैलासाधिपतिः स वै ।।

विपाशी चातिनिःस्वत्वाद्भस्मकृत्त्यहिभूषणः।। ८४ ।।

अर्धांगेनास्मद्भयतो योषिदेका निगूहिता ।।

तस्य ग्रामेपि सकले द्वितीयो न चतुष्पदः ।। ८५ ।।

एकोऽजरद्गवः सोपि नान्यस्मात्परिजीवति ।।

श्मशानवासिनः सर्वे सर्वे कौपीनवाससः ।।८६।।

सर्वे विभूतिधवला सर्वेप्येक कपर्द्दिनः ।।

समस्ते नगरे तस्य वसंत्येवंविधा गणाः।।८७।।

तेषां गणानां किं कुर्मो दरिद्राणां वयं विभो ।।

समुद्रा रत्नसंभारं प्रत्यहं प्रेषयंति च ।। ८८ ।।

नागा वराकाश्चास्माकं सायंसायं स्वयं प्रभो ।।

प्रदीपयंति सततं फणा रत्नप्रदीपकान् ।। ८९ ।।

कल्पद्रुमः कामगवी चिंतामणिगणा बहु ।।

तव प्रसादादस्माकमपि तिष्ठंति वेश्मसु ।। 4.2.71.९० ।।

वायुर्व्यजनतां यातस्त्वां सेवेत प्रयत्नतः ।।

स्वच्छान्यंबूनि वरुणः प्रत्यहं पूरयत्यहो ।। ९१ ।।

वासांसि क्षालयेदग्निश्चंद्रश्छत्रधरः स्वयम् ।।

सूर्यः प्रकाशयेन्नित्यं क्रीडावाप्यंबुजानि च ।।९२।।

कस्त्वत्प्रसादं नेक्षेत मर्त्यामर्त्योरगेषु च ।।

सर्वे त्वामुपजीवंति सुराऽसुरखगादयः ।। ।। ९३ ।।

पश्य नः पौरुषं राजन्नानयामो बलादिमाम्।।

इत्युक्त्वा युगपत्सर्वे क्षुब्धास्तोयधयो यथा ।।९४।।

संवर्तकालमासाद्य प्लावितुं जगतीमिमाम्।।

रणतूर्य निनादश्च समुत्तस्थौ समंततः ।। ९५ ।।

रोमांचिता यच्छ्रवणात्कातरा अप्यकातराः ।।

ततो देवा भयत्रस्ताश्चकंपे च वसुंधरा ।। ९६ ।।

क्षुब्धा अंबुधयः सर्वे पेतुर्नक्षत्रमालिकाः ।।

रोदसीमंडलं व्याप्तं तेन तूर्यरवेण वै ।। ९७ ।।

ततो भगवती देवी स्वशरीरसमुद्भवाः ।।

शक्तीरुत्पादयामास शतशोऽथ सहस्रशः ।।९८।।

ताभिः शक्तिभिरेतेषां बलिनां दितिजन्मनाम् ।।

प्रत्येकं परितो रुद्ध उद्वेलः सैन्यसागरः ।। ९९ ।।

शस्त्रास्त्राणि महादैत्यैर्यान्युत्सृष्टानि संगरे।।

ताभिः शक्तिभिरुग्राणि तृणीकृत्योज्झितान्यरम् ।। 4.2.71.१०० ।।

ततोतिकोपपूर्णास्ते जंभमुख्याः सुरारयः ।।

असि चक्र भुशुंडीभिर्गदामुद्गरतोमरैः ।। १ ।।

भिंदिपालैश्च परिघैः कुंतैः शल्यैश्च शक्तिभिः ।।

अर्धचंद्रैः क्षुरप्रैश्च नाराचैश्च शिलीमुखैः ।। २ ।।

महाभल्लैः परशुभिर्भिंदुरैर्मर्मभेदिभिः ।।

वृक्षोपलमहावर्षैर्ववृषुर्जलदा इव ।। ३ ।।

अथ सा विंध्यनिलया महामाया महेश्वरी ।।

आदायोद्दंडकोदंडं वायव्यास्त्रेण हेलया ।। ४ ।।

दैत्यास्त्रशस्त्रजालानि परिचिक्षेप दूरतः ।।

ततो महासुरो दुर्गो वीक्ष्य सैन्यं निरायुधम् ।। ५ ।।

ज्वलंतीं शक्तिमादाय तां देवीं प्रति सोऽक्षिपत् ।।

तां तु शक्तिं समायांतीं महावेगवतीं रणे ।। ६ ।।

निजचापविनिर्मुक्तैर्बाणैश्चूर्णी चकार सा ।।

भग्नां शक्तिं समालोक्य ततो दुर्गो महासुरः ।। ७ ।।

चक्रं च प्रेषयामास दैत्यचक्रातिहर्षदम् ।।

तच्च देव्या शरशतैरंतरैवाणुवत्कृतम् ।। ८ ।।

ततः शार्ङ्गं समादाय धनुः शक्रधनुर्यथा ।।

हृदि विव्याध बाणेन तां देवीममरार्दनः ।। ९ ।।

स च बाणस्तया देव्या निज बाणैर्महाजवैः ।।

निवारितोपि वेगेन तां देवीमभ्यगान्मुने ।। 4.2.71.११० ।।

ततः कोदंडदंडेन आषुगेन तमाशुगम् ।।

हत्वा निवारयामास कालदंडमिवापरम् ।। ११ ।।

तस्मिन्विमुखतां याते मार्गणे दुर्गमासुरः ।।

क्रुद्धः शूलं समादाय संवर्तानलसुप्रभम् ।। १२ ।।

महावेगन चिक्षेप तां देवीमभि दैत्यपः ।।

परापतच्च तच्छूलं निजशूलेन चंडिका ।। १३ ।।

अंतरैव प्रचिच्छेद सह दैत्यजयाशया ।।

तस्मिन्नपि महाशूले देवीशूलावहेलिते ।। १४ ।।

गदामादाय दैत्येंद्रः सहसाभिपपात ह ।।

आजघान च तं देवीं भुजमूले महाबलः ।। १५ ।।

सापि देवी भुजं प्राप्य गिरींद्रशिखराकृतिः ।।

गदाशुपरिपुस्फोट शतधा च सहस्रधा ।। १६ ।।

तदा देव्या स दैत्येंद्रो वामपादतलेन हि ।।

आताडितः पपातोर्व्यां हृदि गाढं प्रपीडितः ।।१७।।

तत्क्षणादेव दैत्येंद्रः पतित्वा पुनरुत्थितः ।।

बभूव सहसा दृश्यो दीपो वातहतो यथा ।। १८ ।।

तावञ्जगज्जनन्याताः प्रेरिता निज शक्तयः ।।

विचेरुर्दैत्यसैन्येषु संवर्ते मृत्युसैन्यवत् ।। ११९ ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे दुर्गपराक्रमो नामैकसप्ततितमोऽध्यायः ।। ७१ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 72

।। अगस्त्य उवाच ।।

पार्वतीहृदयानंद स्कंद सर्वज्ञनंदन ।।

काः कास्तु शक्तयस्ता वै तासां नामानि मे वद ।।१।। ।।

स्कंद उवाच ।। ।।

तासां परमशक्तीनामुमावयवसंभुवाम् ।।

आख्याम्याख्यां शृणु मुने कुंभसंभव तत्त्वतः ।। २ ।।

त्रैलोक्यविजया तारा क्षमा त्रैलोक्यसुंदरी ।।

त्रिपुरा त्रिजगन्माता भीमा त्रिपुरभैरवी ।। ३ ।।

कामाख्या कमलाक्षी च धृतिस्त्रिपुरतापनी ।।

जया जयंती विजया जलेशी चापराजिता ।४।।

शंखिनी गजवक्त्रा च महिषघ्नी रणप्रिया ।।

शुभानंदा कोटराक्षी विद्युज्जिह्वा शिवारवा ।। ५ ।।

त्रिनेत्रा च त्रिवक्त्रा च त्रिपदा सर्वमंगला ।।

हुंकारहेतिस्तालेशी सर्पास्या सर्वसुंदरी ।। ६ ।।

सिद्धिर्बुद्धिः स्वधा स्वाहा महानिद्रा शराशना ।।

पाशपाणिः खरमुखी वज्रतारा षडानना।। ७ ।।

मयूरवदना काकी शुकी भासी गरुत्मती ।।

पद्मावती पद्मकेशी पद्मास्या पद्मवासिनी ।। ८ ।।

अक्षरा त्र्यक्षरा तंतुः प्रणवेशी स्वरात्मिका ।।

त्रिवर्गा गर्वरहिता अजपा जपहारिणी ।। ९ ।।

जपसिद्धिस्तपःसिद्धिर्योगसिद्धिः परामृता ।।

मैत्रीकृन्मित्रनेत्रा च रक्षोघ्नी दैत्यतापनी ।। 4.2.72.१० ।।

स्तंभनी मोहनीमाया बहुमाया बलोत्कटा ।।

उच्चाटनी महोल्कास्या दनुजेंद्रक्षयंकरी ।।११।।

क्षेमकरी सिद्धिकरी छिन्नमस्ता शुभानना ।।

शाकंभरी मोक्षलक्ष्मीस्त्रिवर्गफलदायिनी ।। १२ ।।

वार्ताली जंभली क्लिन्ना अश्वारूढा सुरेश्वरी ।।

ज्वालामुखी प्रभृतयो नवकोट्यौ महाबलाः ।। १३ ।।

बलानि बलिनां ताभिर्दानवानां स्वलीलया ।।

संक्षिप्ता निजगंतीव प्रलयानलहेतेभिः ।। १४ ।।

तावत्स दुर्गो दैत्येंद्रः पयोदांतरतो बली ।।

चकार करकावृष्टिं वात्या वेगवतीं बहु ।।१५।।

ततो भगवती देवी शोषणास्त्र प्रयोगतः ।।

वृष्टिं निवारयामास सवर्षोपलमयी क्षणात् ।। १६ ।।

योषिन्मनोरथवती षंढं प्राप्य यथाऽफला ।।

सा दैत्यकरकावृष्टिर्देवीं प्राप्य तथाभवत् ।। १७ ।।

अथ दैतेयराजेन बाहुसंकर्षकोपतः ।।

उत्पाट्य शैलशिखरं परिक्षिप्तं नभोंगणात् ।। १८ ।।

अद्रेः शृंगं सुविस्तीर्णमापतत्परिवीक्ष्य सा ।।

शतकोटिप्रहारेण कोटिशः सकलं व्यधात् ।। १९ ।।

आंदोल्य मौलिमसकृत्कुंडलाभ्यां विराजितम्।।

गजीभूयाशु दुद्राव तां देवीं समरेऽसुरः ।।4.2.72.२०।।

शैलाकारं तमायांतं दृष्ट्वा भगवती गजम् ।।

बद्ध्वा पाशेन जवतः खङ्गेन करमच्छिनत् ।। २१ ।।

ततोत्यंतं स चीत्कृत्य देव्याकृत्तकरःकरी ।।

अकिंचित्करतां प्राप्य माहिषं वपुराददे ।। २२ ।।

अचलां सचलां सर्वां स चक्रे सुरघाततः ।।

शिलोच्चयांश्च बहुशः शृंगाभ्यां सोक्षिपद्बली ।।२३।।

निःश्वासवातनिहताः पेतुरुर्व्यां महाद्रुमाः ।।

उद्वेलिताः समभवन्सप्तापि जलराशयः ।।५४।।

महामहिषरूपेण तेन त्रैलोक्यमंडपः ।।

आंदोलितोति बलिना युगांते वात्यया यथा ।। २५ ।।

ब्रह्मांडमप्यकांडेन तद्भयेन समाकुलम् ।।

दृष्ट्वा भगवती क्रुद्धा त्रिशूलेन जघान तम् ।। २६ ।।

त्रिशूलघातविभ्रांतः पतित्वा पुनरुत्थितः ।।

तं त्यक्त्वा माहिषं वेषमभूद्बाहुसहस्रभृत् ।। २७ ।।

स दुर्गो नितरां दुर्गो विबभौ समराजिरे।।

आयुधानां सहस्राणि बिभ्रत्कालांतकोपमः ।। २८ ।।

अथ तूर्णं स दैत्येंद्रस्तां देवीं रणकोविदाम् ।।

महाबलः प्रगृह्याशु नीतवानान्गगनांगणम् ।। ।। २९ ।।

ततो नभोंगणाद्दूरात्क्षिप्त्वा स जगदंबिकाम् ।।

क्षणात्कलंबजालेन च्छादयामास वेगवान् ।। 4.2.72.३० ।।

अथांतरिक्षगा देवी तस्य मार्गणमध्यगा ।।

विद्युन्मालेव विबभौ महाभ्रपटलीधृता ।।३१।।

तं विधूय शरत्रातं निजेषु निकरैरलम् ।।

महेषुणाथ विव्याध सा तं दैत्यजनेश्वरम् ।। ३२ ।।

हृदि विद्धस्तया देव्या स च तेन महेषुणा ।।

व्याघूर्णमाननयनः क्षितिमापाति विह्वलः ।।३३।।

महारुधिरधाराभिः स्रवंतीं च प्रवर्तयन् ।।

तस्मिन्निपतिते दुर्गे महादुर्गपराक्रमे।। ।।३४ ।।

देवदुंदुभयो नेदुः प्रहृष्टानि जगंति च ।।

सूर्याचंद्रमसौ साग्नी तेजो निजमवापतुः ।। ३५ ।।

पुष्पवृष्टिं प्रकुर्वंतः प्राप्ता देवा महर्षिभिः ।।

तुष्टुवुश्च महादेवीं महास्तुतिभिरादरात् ।। ३६ ।। ।।

देवा ऊचुः ।। ।।

नमो देवि जगद्धात्रि जगत्रयमहारणे ।।

महेश्वर महाशक्ते दैत्यद्रुमकुठारके ।। ३७ ।।

त्रैलोक्यव्यापिनि शिवे शंखचक्रगदाधरि ।।

स्वशार्ङ्गव्यग्रहस्ताग्रे नमो विष्णुस्वरूपिणि ।। ३८ ।।

हंसयाने नमस्तुभ्यं सर्वसृष्टिविधायिनि।।

प्राचां वाचां जन्मभूमे चतुराननरूपिणि।। ३९ ।।

त्वमैंद्री त्वं च कौबेरी वायवी त्वं त्वमंबुपा ।।

त्वं यामी नैर्ऋती त्वं च त्वमैशी त्वं च पावकी ।। 4.2.72.४० ।।

शशांककौमुदी त्वं च सौरी शक्तिस्त्वमेव च ।।

सर्वदेवमयी शक्तिस्त्वमेव परमेश्वरी ।। ४१ ।।

त्वं गौरी त्वं च सावित्री त्वं गायत्री सरस्वती ।।

प्रकृतिस्त्वं मतिस्त्वं च त्वमहंकृतिरूपिणी ।। ।। ४२ ।।

चेतः स्वरूपिणी त्वं वै त्वं सर्वेंद्रियरूपिणी ।।

पंचतन्मात्ररूपा त्वं महाभूतात्मिकेंबिके ।। ४३ ।।

शब्दादि रूपिणी त्वं वै करणानुग्रहा त्वमु ।।

ब्रह्मांडकर्त्री त्वं देवि ब्रह्मांडांतस्त्वमेव हि ।। ४४ ।।

त्वं परासि महादेवि त्वं च देवि परापरा ।।

परापराणां परमा परमात्मस्वरूपिणी ।। ४५ ।।

सर्वरूपा त्वमीशानि त्वमरूपासि सर्वगे ।।

त्वं चिच्छक्तिर्महामाये त्वं स्वाहा त्वं स्वधामृते ।। ४६ ।।

वषड्वौषट्स्वरूपासि त्वमेव प्रणवात्मिका ।।

सर्वमंत्रमयी त्वं वै ब्रह्माद्यास्त्वत्समुद्भवाः ।। ४७ ।।

चतुर्वर्गात्मिका त्वं वै चतुर्वर्गफलोदये ।।

त्वत्तः सर्वमिदं विश्वं त्वयि सर्वं जगन्निधे ।। ४८ ।।

यद्दृश्यं यददृश्यं च स्थूलसूक्ष्मस्वरूपतः ।।

तत्र त्वं शक्तिरूपेण किंचिन्न त्वदृते क्वचित् ।। ४९ ।।

मातस्त्वयाद्य विनिहत्य महासुरेंद्रं दुर्गं निसर्गविबुधार्पितदैत्यसैन्यम् ।।

त्राताः स्म देवि सततं नमतां शरण्ये त्वत्तोऽपरः क इह यं शरणं व्रजामः ।। 4.2.72.५० ।।

लोके त एव धनधान्यसमृद्धिभाजस्ते पुत्रपौत्रसुकलत्र सुमित्रवंतः ।।

तेषां यशः प्रसरचंद्रकरावदातं विश्वं भवेद्भवसि येषु सुदृक्त्वमीशे ।। ।। ५१ ।।

त्वद्भक्तिचेतसि जनेन विपत्तिलेशः क्लेशः क्व वानुभवती नतिकृत्सु पुंसु ।।

त्वन्नामसंसृतिजुषां सकलायुषां क्व भूयः पुनर्जनिरिह त्रिपुरारिपत्नि ।। ५२ ।।

चित्रं यदत्र समरे स हि दुर्गदैत्यस्त्वद्दृष्टिपातमधिगम्य सुधानिधानम्।।

मृत्योर्वशत्वमगमद्विदितं भवानि दुष्टोपि ते दृशिगतः कुगतिं न याति ।। ५३ ।।

त्वच्छस्त्रवह्निशलभत्वमिता अपीह दैत्याः पतंगरुचिमाप्य दिवं व्रजंति ।।

संतः खलेष्वपि न दुष्टधियो यतः स्युः साधुष्विव प्रणयिनः स्वपथं दिशंति ।। ५४ ।।

प्राच्यां मृडानि परिपाहि सदा नतान्नो याम्यामव प्रतिपदं विपदो भवानि ।।

प्रत्यग्दिशि त्रिपुरतापन पत्नि रक्ष त्वं पाह्युदीचि निजभक्तजनान्महेशि ।। ५५ ।।

ब्रह्माणि रक्ष सततं नतमौलिदेशं त्वं वैष्णवि प्रतिकुलं परिपालयाधः ।।

रुद्राग्नि नैर्ऋति सदागति दिक्षु पांतु मृत्युंजया त्रिनयना त्रिपुरा त्रिशक्त्यः ।। ५६ ।।

पातु त्रिशूलममले तव मौलिजान्नो भालस्थलं शशिकला मृदुमाभ्रुवौ च ।।

नेत्रे त्रिलोचनवधूर्गिरिजा च नासामोष्ठं जया च विजयात्वधरप्रदेशम् ।। ५७ ।।

श्रोत्रद्वयं श्रुतिरवा दशनावलिं श्रीश्चंडी कपोलयुगलं रसनां च वाणी ।।

पायात्सदैव चिबुकं जयमंगला नः कात्यायनी वदनमंडलमेव सर्वम् ।। ५८ ।।

कंठप्रदेशमवतादिह नीलकंठी भूदारशक्तिरनिशं च कृकाटिकायाम् ।।

कौर्म्यं सदेशमनिशं भुजदंडमैंद्री पद्मा च पाणिफलकं नतिकारिणां नः ।। ५९ ।।

हस्तांगुलीः कमलजा विरजा नखांश्च कक्षांतरं तरणिमंडलगा तमोघ्नी ।।

वक्षःस्थलं स्थलचरी हृदयं धरित्री कुशिद्वयं त्ववतु नः क्षणदाचरघ्नी ।।4.2.72.६०।।

अव्यात्सदा दरदरीं जगदीश्वरी नो नाभिं नभोगतिरजात्वथ पृष्ठदेशम् ।।

पायात्कटिं च विकटा परमास्फिचौ नो गुह्यं गुहारणिरपानमपाय हंत्री ।।६१ ।।

ऊरुद्वयं च विपुला ललिता च जानू जंघे जवाऽवतु कठोरतरात्र गुल्फौ।।

पादौ रसातलचरांगुलिदेशमुग्रा चांद्री नखान्त्पदतलं तलवासिनी च ।।६२।।

गृहं रक्षतु नो लक्ष्मीः क्षेत्रं क्षेमकरी सदा ।।

पातु पुत्रान्प्रियकरी पायादायुः सनातनी ।। ६३ ।।

यशः पातु महादेवी धर्मं पातु धनुर्धरी ।।

कुलदेवी कुलं पातु सद्गतिं सद्गतिप्रदा ।। ६४ ।।

रणे राजकुले द्यूते संग्रामे शत्रुसंकटे ।।

गृहे वने जलादौ च शर्वाणी सर्वतोऽवतु ।। ६५ ।।

इति स्तुत्वा जगद्धात्रीं प्रणेमुश्च पुनःपुनः ।।

सर्वे सवासवा देवाः सर्षिगंधर्वचारणाः ।। ६६ ।।

ततस्तुष्टा जगन्माता तानाह सुरसत्तमान् ।।

स्वाधिकारान्सुराः सर्वे शासतु प्राग्यथायथा ।। ६७।।

तुष्टाहमनया स्तुत्या नितरां तु यथार्थया ।।

वरमन्यं प्रदास्यामि तच्छृणुध्वं सुरोत्तमाः ।। ६८ ।। ।।

दुर्गोवाच ।। ।।

यः स्तोष्यति तु मां भक्त्या नरः स्तुत्यानया शुचिः ।।

तस्याहं नाशयिष्यामि विपदं च पदे पदे ।।६९।।

एतत्स्तोत्रस्य कवचं परिधास्यति यो नरः ।।

तस्य क्वचिद्भयं नास्ति वज्रपंजरगस्य हि ।।4.2.72.७०।।

अद्यप्रभृति मे नाम दुर्गेति ख्यातिमेष्यति ।।

दुर्गदैत्यस्य समरे पातनादति दुर्गमात्।।७१।।

ये मां दुर्गां शरणगा न तेषां दुर्गतिः क्वचित् ।।

दुर्गास्तुतिरियं पुण्या वज्रपंजरसंज्ञिका ।।७२।।

अनया कवचं कृत्वा मा बिभेतु यमादपि ।।

भूतप्रेतपिशाचाश्च शाकिनीडाकिनी गणाः।।७३।।

झोटिंगा राक्षसाः क्रूरा विष सर्पाग्नि दस्यवः ।।

वेतालाश्चापि कंकाल ग्रहा बालग्रहा अपि।।७४।।

वातपित्तादि जनितास्तथा च विषमज्वराः ।।

दूरादेव पलायंते श्रुत्वा स्तुतिमिमां शुभाम् ।।७५।।

वज्रपंजर नामैतत्स्तोत्रं दुर्गाप्रशंसनम् ।।

एतत्स्तोत्रकृतत्राणे वज्रादपि भयं नहि ।। ७६ ।।

अष्टजप्तेन चानेन योभिमंत्र्य जलं पिबेत् ।।

तस्योदरगतापीडा क्वापि नो संभविष्यति।।७७।।

गर्भपीडा तु नो जातु भविष्यत्यभिमंत्रणात् ।।

बालानां परमा शांतिरेतत्स्तोत्रांबुपानतः ।। ७८ ।।

यत्र सान्निध्यमेतस्य स्तवस्येह भविष्यति ।।

एतास्तु शक्तयः सर्वा सर्वत्र सहिता मया ।। ७९ ।।

रक्षां परिकरिष्यंति मद्भक्तानां ममाज्ञया ।।

इति दत्त्वा वरान्देवी देवेभ्यो तर्हि ता तदा ।। 4.2.72.८० ।।

तेपि स्वर्गौकसः सर्वे स्वंस्वं स्वर्गं ययुर्मुदा ।। ।।

स्कंद उवाच ।।

इत्थं दुर्गाभवन्नाम तया देव्या महामुने ।।

काश्यां सेव्या यथा सा च तच्छृणुष्व वदामि ते ।।८१।।

अष्टम्यां च चतुर्दश्यां भौमवारे विशेषतः ।।

संपूज्या सततं काश्यां दुर्गा दुर्गतिनाशिनी ।। ८२ ।।

नवरात्रं प्रयत्नेन प्रत्यहं सा समर्चिता ।।

नाशयिष्यति विघ्नौघान्सुमतिं च प्रदास्यति ।। ८३ ।।

महापूजोपहारैश्च महाबलिनिवेदनैः ।।

दास्यत्यभीष्टदा सिद्धिं दुर्गा काश्यां न संशयः ।। ८४ ।।

प्रतिसंवत्सरं तस्याः कार्या यात्रा प्रयत्नतः ।।

शारदं नवरात्रं च सकुटुंबैः शुभार्थिभिः ।।८५।।

यो न सांवत्सरीं यात्रां दुर्गायाः कुरुते कुधीः ।।

काश्यां विघ्न सहस्राणि तस्य स्युश्च पदेपदे ।। ८६ ।।

दुर्गाकुंडे नरः स्नात्वा सर्वदुर्गार्तिहारिणीम् ।।

दुर्गां संपूज्य विधिवन्नवजन्माघमुत्सृजेत् ।। ८७ ।।

सा दुर्गाशक्तिभिः सार्धं काशीं रक्षति सर्वतः ।।

ताः प्रयत्नेन संपूज्या कालरात्रिमुखा नरैः ।।८८।।

रक्षंति क्षेत्रमेतद्वै तथान्या नवशक्तयः ।।

उपसर्गसहस्रेभ्यस्ता वैदिग्देवताक्रमात् ।। ८९ ।।

शतनेत्रा सहस्रास्या तथायुतभुजापरा ।।

अश्वारूढा गजास्या च त्वरिता शववाहिनी ।। 4.2.72.९० ।।

विश्वा सौभाग्यगौरी च सृष्टाः प्राच्यादिमध्यतः ।।

एता यत्नेन संपूज्याः क्षेत्ररक्षणदेवताः ।।९१।।

तथैव भैरवाश्चाष्टौ दिक्ष्वष्टासु प्रतिष्ठिताः ।।

रक्षंति सततं काशीं निर्वाणश्रीनिकेतनम् ।। ९२ ।।

रुरुश्चंडोसितांगश्च कपाली क्रोधनस्तथा ।।

उन्मत्तभैरवस्तद्वत्क्रमात्संहारभीषणौ ।। ९३ ।।

चतुःषष्टिस्तु वेताला महाभीषणमूर्तयः ।।

रुंडमुंडस्रजः सर्वे कर्त्रीखर्परपाणयः ।। ९४ ।।

श्ववाहना रक्तमुखा महादंष्ट्रा महाभुजाः ।।

नग्ना विमुक्तकेशाश्च प्रमत्ता रुधिरासवैः ।। ९५ ।।

नानारूपधराः सर्वे नानाशस्त्रास्त्र पाणयः ।।

तदाकारैश्च तद्भृत्यैः कोटिशः परिवारिताः ।। ९६ ।।

विद्युज्जिह्वो ललज्जिह्वः क्रूरास्यः क्रूरलोचनः।।

उग्रो विकटदंष्ट्रश्च वक्रास्यो वक्रनासिकः ।। ९७ ।।

जंभको जृंभणमुखो ज्वालानेत्रो वृकोदरः ।।

गर्तनेत्रो महानेत्रस्तुच्छनेत्रोंऽत्रमण्डनः ।। ९८ ।।

ज्वलत्केशः कंबुशिराः खर्वग्रीवो महाहनुः ।।

महानासो लंबकर्णः कर्णप्रावरणोनसः ।।९९।।

इत्यादयो मुने क्षेत्रं दुर्वृत्तरुधिरप्रियाः ।।

त्रासयंतो दुराचारान्रक्षंति परितः सदा ।।4.2.72.१००।।

त्रैलोक्यविजयाद्याश्च ज्वालामुख्यंतगाश्च याः ।।

शक्तयोऽत्र मया ख्याता मुने कलशसंभव ।। १ ।।

ताः काशीं परिरक्षंति चतुर्दिक्षूद्यतायुधाः ।।

ताः समर्च्याः प्रयत्नेन महाविघ्न प्रशांतये ।।२।।

भैरवा रुरुमुख्याश्च महाभयनिवारकाः ।।

संपूज्याः सर्वदा काश्यां सर्वसंपत्तिहेतवः ।।३।।

विद्युज्जिह्वप्रभृतयो वेताला उग्ररूपिणः ।।

अत्युग्रानपि विघ्नौघान्हरिष्यंत्यर्चिता इह ।। ४ ।।

तथा भूतावली चात्र नानाभीषणरूपिणी ।।

उदायुधाऽवति पुरीं शतकोटिमिता मुने ।। ५ ।।

निर्वाणलक्ष्मीक्षेत्रस्य पालयित्री पदेपदे ।।

एता वै देवताः पूज्याः काश्यां निर्वाणकांक्षिभिः ।। ६ ।।

श्रुत्वाध्यायमिमं पुण्यं नरो दुर्गजयाभिधम् ।।

नानाशक्तिसमायुक्तं दुर्गमाशु तरिष्यति ।। ७ ।।

य एते भैरवाः प्रोक्ता ये वेताला उदाहृताः ।।

तेषां नामानि चाकर्ण्य नरो विप्रैर्न दूयते ।। ८ ।।

अदृष्टा अपि ते भूता एतदाख्यानपाठकम् ।।

रक्षिष्यंति प्रयत्नेन सह श्रोतृजनेन च ।। ९ ।।

तस्मात्सर्वप्रयत्नेन काशीभक्तिपरैर्नरैः ।।

श्रोतव्यमिदमाख्यानं महाविघ्ननिवारणम् ।। ।। 4.2.72.११० ।।

गृहेपि यस्य लिखितमेतत्स्थास्यति पूजितम् ।

तस्यापदां सहस्राणि नाशयिष्यंति देवताः ।। ११ ।।

काश्यां यस्यास्ति वै प्रेम तेन कृत्वाऽऽदरं गुरुम् ।।

श्रोतव्यमिदमाख्यानं वज्रपंजरसन्निभम् ।।११२ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे दुर्गाविजयो नाम द्विसप्ततितमोऽध्यायः ।। ७२ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 73

अगस्त्य उवाच ।।

त्रिलोचनं समासाद्य देवदेवः षडाननः ।।

जगदंबिकयायुक्तः किं चकाराशु तद्वद ।। १ ।।

।। स्कन्द उवाच ।। ।।

मुने कलशजाख्यामि यत्पृष्टं तन्निशामय ।।

विरजःसंज्ञकं पीठं यत्प्रोक्तं सर्वसिद्धिदम् ।। २ ।।

तत्पीठदर्शनादेव विरजा जायते नरः ।।

यत्रास्ति तन्महालिंगं वाराणस्यां त्रिलोचनम् ।। ३ ।।

तीर्थं पिलिपिलाख्यं तद्द्युनद्यंभसि विश्रुतम् ।।

सर्वतीर्थमयं तीर्थं तत्काश्यां परिगीयते ।। ४ ।।

विष्टपत्रितयांतर्ये देवर्षिमनुजोरगाः ।।

ससरित्पर्वतारण्याः संति ते तत्र यन्मुने ।। ५ ।।

तदारभ्य च तत्तीर्थं तच्च लिंगं त्रिलोचनम् ।।

त्रिविष्टपमिति ख्यातमतोहेतोर्महत्तरम् ।। ६ ।।

त्रिविष्टपस्य लिंगस्य महिमोक्ताः पिनाकिना ।।

जगज्जनन्याः पुरतो यथा वच्मि तथा मुने ।।७।।

।। देव्युवाच ।। ।।

देवदेव जगन्नाथ शर्व सर्वद सर्वग ।।

सर्वदृक्सर्वजनक किंचित्पृच्छामि तद्वद ।। ।।८।।

इदं तव प्रियं क्षेत्रं कर्मबीजमहौषधम् ।।

नैःश्रेयस्याः श्रियो गेहं ममापि प्रीतिदं महत् ।।९।।

यत्क्षेत्ररजसोप्यग्रे त्रिलोक्यपि तृणायते ।।

तस्याखिलस्य महिमा विष्वक्केनावगम्यते ।। 4.2.73.१० ।।

यानीह संति लिंगानि तानि सर्वाण्यसंशयम् ।।

निर्वाणकारणान्येव स्वयंभून्यपि तान्यपि ।। ११ ।।

यद्यप्येवं तथापीश विशेषं वक्तुमर्हसि ।।

काश्यामनादिसिद्धानि कानि लिंगानि शंकर ।।१२।।

यत्र देवः सदा तिष्ठेत्संवर्तेऽपि स वल्लभः ।।

यैरियं प्रथितिं प्राप्ता काशी मुक्तिपुरीति च।। ।। १३ ।।

येषां स्मरणतोप्यत्र भवेत्पापस्य संक्षयः।।

दर्शनस्पर्शनाभ्यां च स्यातां स्वर्गापवर्गकौ ।। १४ ।।

येषां समर्चनादेव मध्ये जन्म सकृद्विभो ।।

लिंगानि पूजितानि स्युः काश्यां सर्वाणि निश्चितम् ।।१५।।

विधाय मय्यनुक्रोशं कारुण्यामृतसागर ।।

एतदाचक्ष्व मे शंभो पादयोः प्रणतास्म्यहम् ।।१६।।

इत्याकर्ण्य महेशानस्तस्या देव्याः सुभाषितम्।।

कथयामास र्विध्यारे महालिंगानि सत्तम ।।१७।।

यन्नामाकर्णनादेव क्षीयंते पापराशयः ।।

प्राप्यते पुण्यसंभारः काश्यां निवार्णकारणम् ।। १८ ।।

।। देवदेव उवाच ।। ।।

शृणु देवि परं गुह्यं क्षेत्रेऽस्मिन्मुक्तिकारणम् ।।

इदं विदंति नैवापि ब्रह्मनारायणादयः ।। १९ ।।

असंख्यातानि लिंगानि पार्वत्यानंदकानने ।।

स्थूलान्यपि च सूक्ष्माणि नानारत्नमयानि च ।। 4.2.73.२० ।।

नानाधातुमयानीशे दार्षदान्यप्यनेकशः ।।

स्वयंभून्यप्यनेकानि देवर्षिस्थापितान्यहो ।।२१।।

सिद्धचारणगंधर्व यक्षरक्षोर्चितान्यपि ।।

असुरोरगमर्त्यैश्च दानवैरप्सरोगणैः ।।२२।।

दिग्गजेर्गिरिभिस्तीर्थेर्ऋक्ष वानर किन्नरैः ।।

पतत्रिप्रमुखैर्देवि स्वस्वनामांकितानि वै ।।२३।।

प्रतिष्ठितानि यानीह मुक्तिहेतूनि तान्यपि ।।

अदृश्यान्यपि दृश्यानि दुरवस्थान्यपि प्रिये ।।२४।।

भग्नान्यपि च कालेन तानि पूज्यानि सुंदरि।।

परार्धशतसंख्यानि गणितान्येकदा मया।। २५।।

गंगाभस्यपि तिष्ठंति षष्टिकोटिमितानिहि।।

सिद्धलिंगानि तानीशे तिष्येऽदृश्यत्वमाययुः ।। २६ ।।

गणनादिवसादवार्ङ्ममभक्तजनैःप्रिये ।।

प्रतिष्ठितानि यानीह तेषां संख्या न विद्यते ।।२७।।

त्वया तु यानि पृष्टानि यैरिदं क्षेत्रमुत्तमम् ।।

तानि लिंगानि वक्ष्यामि मुक्तिहेतूनि सुंदरि ।। २८ ।।

कलावतीव गोप्यानि भविष्यंति गिरींद्रजे ।।

परं तेषां प्रभावो यः स्वस्वस्थानं न हास्यति ।। २९ ।।

कलिकल्मषपुष्टा ये ये दुष्टा नास्तिकाः शठाः ।।

एतेषां सिद्धलिंगानां ज्ञास्यंत्याख्यामपीह न ।। 4.2.73.३० ।।

नामश्रवणतोपीह यल्लिंगानां शुभानने ।।

वृजिनानि क्षयं यांति वर्धंते पुण्यराशयः ।। ३१ ।।

ओंकारः प्रथमं लिंगं द्वितीयं च त्रिलोचनम् ।।

तृतीयश्च महादेवः कृत्तिवासाश्चतुर्थकम् ।। ।। ३२ ।।

रत्नेशः पंचमं लिंगं षष्ठं चंद्रेश्वराभिधम् ।।

केदारः सप्तमं लिंगं धर्मेशश्चाष्टमं प्रिये ।। ३३ ।।

वीरेश्वरं च नवमं कामेशं दशमं विदुः ।।

विश्वकर्मेश्वरं लिंगं शुभमेकादशं परम् ।। ३४ ।।

द्वादशं मणिकर्णीशमविमुक्तं त्रयोदशम् ।।

चतुर्दशं महालिंगं मम विश्वेश्वराभिधम् ।। ३५ ।।

प्रिये चतुर्दशैतानि श्रियोहेतूनि सुंदरि ।।

एतेषां समवायोयं मुक्तिक्षेत्रमिहेरितम् ।। ३६ ।।

देवताः समधिष्ठात्र्यः क्षेत्रस्यास्य परा इमाः ।।

आराधिताः प्रयच्छंति नृभ्यो नैःश्रेयसीं श्रियम् ।।३७ ।।

आनंदकानने मुक्त्यै प्रोक्तान्येतानि सुंदरि ।।

प्रिये चतुर्दशेज्यानि महालिंगानि देहिनाम् ।। ३८ ।।

प्रतिमासं समारभ्य तिथिं प्रतिपदं शुभाम् ।।

एतेषां लिंगमुख्यानां कार्या यात्रा प्रयत्नतः ।।३९।।

अनाराध्य महादेवमेषु लिंगेषु कुंभज ।।

कः काश्यां मोक्षमाप्नोति सत्यं सत्यं पुनःपुनः ।।4.2.73.४०।।

तस्मात्सर्वप्रयत्नेन काशीफलमभीप्सुभिः ।।

पूज्यान्येतानि लिंगानि भक्त्या परमया मुने ।।४१।।

।। अगस्त्य उवाच ।। ।।

एतान्येव किमन्यानि महालिंगानि षण्मुख ।।

निर्वाणकारणानीह यदि संति तदा वद ।। ४२ ।।

।। स्कंद उवाच ।। ।।

अन्यान्यपि च संतीह महालिंगानि सुव्रत ।।

कलिप्रभावाद्गुप्तानि भविष्यंत्येव तानि वै ।। ।। ४३ ।।

यस्येश्वरे सदाभक्तिर्यः काशीतत्त्ववित्तमः ।।

स एवैतानि लिंगानि वेत्स्यत्यन्यो न कश्चन ।। ४४ ।।

येषां नामग्रहेणापि कलिकल्मष संक्षयः ।।

अमृतेशस्तारकेशो ज्ञानेशः करुणेश्वरः ।। ४५ ।।

मोक्षद्वारेश्वरश्चैव स्वर्गद्वारेश्वरस्तथा ।।

ब्रह्मेशो लांगलश्चैव वृद्धकालेश्वरस्तथा ।। ४६ ।।

वृषेशश्चैव चंडीशो नंदिकेशो महेश्वरः ।।

ज्योतीरूपेश्वरं लिंगं ख्यातमत्र चतुर्दशम् ।। ४७ ।।

काश्यां चतुर्दशैतानि महालिंगानि सुंदरि ।।

इमानि मुक्तिहेतूनि लिंगान्यानंदकानने ।। ४८ ।।

कलिकल्मषबुद्धीनां नाख्येयानि कदाचन ।।

एतान्याराधयेद्यस्तु लिंगानीह चतुर्दश ।। ४९ ।।

न तस्य पुनरावृत्तिः संसाराध्वनि कर्हिचित् ।।

काशीकोशोयमतुलो न प्रकाश्यो यतस्ततः ।। ।। 4.2.73.५० ।।

एतल्लिंगाभिधा देवि महापद्यपि दुःखहृत् ।।

रहस्यं परमं चैतत्क्षेत्रस्यास्य वरानने ।। ५१ ।।

चतुर्दशापि लिंगानि मत्सान्निध्यकराणि हि ।।

अविमुक्तस्य हृदयमेतदेव गिरींद्रजे ।। ५२ ।।

इमानि यानि लिंगानि सर्वेषां मुक्तिदानि हि ।।

एकैकभुवनस्येह सारमादाय सर्वतः ।।

मयैतानि कृतान्येव महाभक्तिकृपावशात् ।। ५३ ।।

अस्मिन्क्षेत्रे ध्रुवं मुक्तिरिति या प्रथिति प्रिये ।।

कारणं तत्र लिंगानि ममैतानि चतुर्दश ।।५४।।

त एव व्रतिनः कांते त एव च तपस्विनः।।

ध्यातान्येतानि यैर्भक्तैर्लिंगान्यानंदकानने ।।५५।।

त एवाभ्यस्तसद्योगा दत्तदानास्त एव हि ।।

काश्यामिमानि लिंगानि यैर्दृष्टान्यपि दूरतः ।। ५६।।

इष्टापूर्ताश्च ये धर्माः प्रणीता मुनिसत्तमैः ।।

ते सर्वे तेन विहिता यावज्जीवं निरेनसा ।। ५७ ।।

येनाविमुक्तमासाद्य महालिंगानि पार्वति ।।

सकृदभ्यर्चितानीह स मुक्तो नात्र संशयः ।। ५८ ।।

।। स्कंद उवाच ।। ।।

अन्यान्यपि च विंध्यारे देव्यै प्रोक्तानि शंभुना ।।

स्वभक्तानां हिताथार्य तान्यथाकर्णयाग्रज ।। ५९ ।।

शैलेशः संगमेशश्च स्वर्लीनो मध्यमेश्वरः ।।

हिरण्यगर्भ ईशानो गोप्रेक्षो वृषभध्वजः ।। 4.2.73.६० ।।

उपशांत शिवो ज्येष्ठो निवासेश्वर एव च ।।

शुक्रेशो व्याघ्रलिंगं च जंबुकेशं चतुर्दशम् ।। ६१ ।।

मुने चतुर्दशैतानि महांत्यायतनानि वै ।।

एतेषामपि सेवातो नरो मोक्षमवाप्नुयात् ।। ६२ ।।

चैत्रकृष्णप्रतिपदं समारभ्य प्रयत्नतः ।।

आ चतुर्दशिपूज्यानि लिंगान्येतानि सत्तमैः ।। ६३ ।।

एतेषां वार्षिकी यात्रा सुमहोत्सवपूर्वकम् ।।

कार्या मुमुक्षुभिः सम्यक्क्षेत्रसंसिद्धिदायिनी ।। ।। ६४ ।।

मुने चतुर्दशैतानि महालिंगानि यत्नतः ।।

दृष्ट्वा न जायते जंतुः संसारे दुःखसागरे ।।६५।।

क्षेत्रस्य परमं तत्त्वमेतदेव प्रिये ध्रुवम् ।।

संसाररोगग्रस्तानामिदमेव महौषधम् ।। ६६ ।।

क्षेत्रस्योपनिषच्चैषा मुक्तिबीजमिदं परम् ।।

कर्मकाननदावाग्निरेषा लिंगावलिः प्रिये ।। ६७ ।।

एकैकस्यास्य लिंगस्य महिमाद्यंत वर्जितः ।।

मयैव ज्ञायते देवि सम्यङ्नान्येन केनचित् ।।६८।।

इति श्रुत्वा मुने प्राह देवी हृष्टतनूरुहा ।।

प्रणम्य देवमीशानं सर्वज्ञं सर्वदं शिवम् ।। ६९ ।।

।। देव्युवाच ।। ।।

रहस्यं परमं काश्यां यदेतत्समुदीरितम् ।।

तच्छ्रुत्वोत्सुकतां प्राप्तं मनो मेतीव वल्लभ ।। 4.2.73.७० ।।

यदुक्तं लिगमेकैकं महासारतरं परम् ।।

काश्यां परमनिर्वाणकारणं कारणेश्वर ।। ७१ ।।

प्रत्येकं महिमानं मे ब्रूह्येषां भुवनेश्वर ।।

चतुर्दशानां लिंगानां श्रवणादघहारिणाम् ।। ।। ७२ ।।

ओंकारेशस्य लिंगस्य कथमत्र समागमः ।।

अतिपुण्यतमात्तस्मात्क्षेत्रादमरकंटकात् ।। ७३ ।।

किमात्मकोऽयमोंकारो महिमास्य च को हर ।।

केनाराधि पुरा चैष ददावाराधितश्च किम् ।। ७४ ।।

मृडानीवाक्सुधामेतां विधाय श्रुतिगोचराम् ।।

कथामकथयद्देव ओंकारस्यमहाद्भुताम् ।। ७५ ।।

।। देवदेव उवाच ।। ।।

कथामाकर्णयापर्णे वर्णयामि तवाग्रतः ।।

यथोंकारस्य लिंगस्य प्रादुर्भाव इहाभवत् ।।७६।।

पुरानंदवने चात्र ब्रह्मणा विश्वयोनिना ।।

तपस्तप्तं महादेवि समाधिं दधतापरम् ।। ७७ ।।

पूर्णे युगसहस्रेऽथ भित्त्वा पातालसप्तकम्।।

उदतिष्ठत्पुरोज्योतिर्विद्योतित हरिन्मुखम् ।। ७८ ।।

यदंतराविरभवन्निर्व्याजेन समाधिना।।

तदेव परमं धाम बहिराविरभूद्विधेः ।।७९।।

योभूच्चटचटाशब्दः स्फुटतो भूमिभागतः।।

तच्छब्दाद्व्यसृजद्वेधाः समाधिं क्रमतो वशी ।। ।। 4.2.73.८० ।।

स्रष्टाविसृष्ट तद्ध्यानो यावदुन्मील्यलोचने ।।

पुरः पश्येद्ददर्शाग्रे तावदक्षरमादिमम् ।। ८१ ।।

अकारं सत्त्वसंपन्नमृक्क्षेत्रं सृष्टिपालकम् ।।

नारायणात्मकं साक्षात्तमः पारे प्रतिष्ठितम् ।। ८२ ।।

उकारमथ तस्याग्रे रजोरूपं यजुर्जनिम् ।।

विधातारं समस्तस्य स्वाकारमिव बिंबितम् ।। ८३ ।।

नीरवध्वांतसंकेत सदनाभं तदग्रतः ।।

मकारं स ददर्शाथ तमोरूपं विशेषतः ।। ८४ ।।

साम्नो योनिं लये हेतुं साक्षाद्रुद्रस्वरूपिणम् ।।

अथ तत्पुरतो ध्याता व्यधात्स्वनयनातिथिम् ।। ८५ ।।

विश्वरूपमयाकारं सगुणं वापि निर्गुणम्।।

अनाख्यनादसदनं परमानंदविग्रहम् ।।८६।।

शव्दब्रह्मेति यत्ख्यातं सर्ववाङ्मयकारणम् ।।

अथोपरिष्टान्नादस्य बिंदुरूपं परात्परम् ।। ८७ ।।

कारणं कारणानां च जगद्योनिं च तं परम् ।।

विधिर्विलोकयांचक्रे तपसागोचरीकृतम् ।। ८८ ।।

अवनादोमिति ख्यातं सर्वस्यास्य प्रभावतः ।।

भक्तमुन्नयते यस्मात्तदोमिति य ईरितः ।। ८९ ।।

अरूपोपि सरूपाढ्यः स धात्रा नेत्रगीकृतः ।।

तारयेद्यद्भवांभोधेः स्वजपासक्तमानसम् ।।

ततस्तार इति ख्यातो यस्तं ब्रह्मा व्यलोकयत् ।। 4.2.73.९० ।।

प्रणूयते यतः सर्वैः परनिर्वाणकामुकैः ।।

सर्वेभ्योभ्यधिकस्तस्मात्प्रणवो यैः प्रकीर्तितः ।। ९१ ।।

स्वसेवितारं पुरुषं प्रणयेद्यः परंपदम् ।।

अतस्तप्रणवं शांतं प्रत्यक्षीकृतवान्विधिः ।। ९२ ।।

त्रयीमयस्तुरीयोयस्तुर्यातीतोखिलात्मकः ।।

नादबिंदुस्वरूपो यः स प्रैक्षि द्विजगामिना ।। ९३ ।।

प्रावर्तंत यतो वेदाः सांगाः सर्वस्य योनयः ।।

सवेदादिः पद्मभुवा पुरस्तादवलोकितः ।। ९४ ।।

वृषभो यस्त्रिधाबद्धो रोरवीति महोमयः ।।

सनेत्रविषयी चक्रे परमः परमेष्ठिना ।। ९५ ।।

शृंगश्चत्वारि यस्यासन्हस्तासः सप्त एव च ।।

द्वे शीर्षे च त्रयः पादाः स देवो विधिनैक्षत ।। ९६ ।।

यदंतर्लीनमखिलं भूतं भावि भवत्पुनः ।।

तद्बीजं बीजरहितं द्रुहिणेन विलोकितम् ।। ९७ ।।

लीनं मृग्येत यत्रैतदाब्रह्मस्तंबभाजनम्।।

अतः स भाज्यते सद्भिर्यल्लिंगं तद्विलोकितम् ।।९८।।

पंचार्था यत्र भासंते पंचब्रह्ममयं हि यत् ।।

आदिपंचस्वरूपंयन्निरैक्षि ब्रह्मणा हि तत् ।। ९९ ।।

तमालोक्य ततो वेधा लिंगरूपिणमीश्वरम् ।।

पंचाक्षरं प्रपंचाच्च भिन्नं तुष्टाव शंकरम् ।। 4.2.73.१०० ।।

ब्रह्मोवाच ।। ।

नम ओंकाररूपाय नमोऽक्षरवपुर्धृते ।।

नमोऽकारादिवर्णानां प्रभवाय सदाशिव ।। १ ।।

अकारस्त्वमुकारस्त्वं मकारस्त्वमनाकृते ।।

ऋग्यजुः सामरूपाय रूपातीताय ते नमः ।। २ ।।

नमो नादात्मने तुभ्यं नमो बिंदुकलात्मने ।।

अलिंगलिंगरूपाय सर्वरूपस्वरूपिणे ।। ३ ।।

नमस्ते धाम निधये निधनादिविवर्जित ।।

नमो भवाय रुद्राय शर्वाय च नमोस्तुते ।। ४ ।।

नम उग्राय भीमाय पशूनां पतये नमः ।।

नमस्तारस्वरूपाय संभवाय नमोस्तु ते ।। ५ ।।

अमायाय नमस्तुभ्यं नमः शिवतराय ते ।।

कपर्दिने नमस्तुभ्यं शितिकंठ नमोस्तु ते ।। ६ ।।

मीढुष्टमाय गिरिश शिपिविष्टाय ते नमः ।।

नमोऽह्रस्वाय खर्वाय बृहते वृद्धरूपिणे ।। ७ ।।

कुमारगुरवे तुभ्यं कुमारवपुषे नमः ।।

नमः श्वेताय कृष्णाय पीतायारुणमूर्तये ।। ८ ।।

धूम्रवर्णाय पिंगाय नमः किर्मीरवर्चसे ।।

नमः पाटलवर्णाय नमो हरिततेजसे ।। ९ ।।

नानावर्णस्वरूपाय वर्णानां पतये नमः ।।

नमस्ते स्वररूपाय नमो व्यंजनरूपिणे ।। 4.2.73.११० ।।

उदात्तायानुदात्ताय स्वरिताय नमो नमः ।।

ह्रस्वदीर्घप्लुतेशाय सविसर्गाय ते नमः ।। ।। ११ ।।

अनुस्वारस्वरूपाय नमस्ते सानुनासिक ।।

नमो निरनुनासाय दंत्यतालव्यरूपिणे ।। १२ ।।

ओष्ठ्योरस्यस्वरूपाय नम ऊष्मस्वरूपिणे ।।

अंतस्थाय नमस्तुभ्यं पंचमाय पिनाकिने ।। १३ ।।

निषादाय नमस्तुभ्यं निषादपतये नमः ।।

वीणावेणुमृदंगादि वाद्यरूपाय ते नमः ।। १४ ।।

नमस्ताराय मंद्राय घोरायाघोरमूर्तये ।।

नमस्तानस्वरूपाय मूर्च्छनां पतये नमः ।। १५ ।।

स्थायिसंचारिभेदेन नमो भावस्वरूपिणे ।।

तालप्रियाय तालाय लास्यतांडवजन्मने ।। १६ ।।

तौर्यत्रिकस्वरूपाय तौर्यत्रिकमहाप्रिय ।। तौर्यत्रिककृतांभक्त्या निर्वाणश्रीप्रदायक ।।१७।।

स्थूलसूक्ष्मस्वरूपाय दृश्यादृश्य स्वरूपिणे ।।

अर्वाचीनाय च नमः पराचीनाय ते नमः ।। १८ ।।

वाक्प्रपंच स्वरूपाय वाक्प्रपंच पराय च ।।

एकायानेकभेदाय सदसत्पतये नमः ।।१९।।

शब्दब्रह्म नमस्तुभ्यं परब्रह्म नमोस्तुते ।।

नमो वेदांतवेद्याय वेदानां पतये नमः ।। 4.2.73.१२० ।।

नमो वेदस्वरूपाय वेदगोचरमूर्तये ।।

पार्वतीश नमस्तुभ्यं जगदीश नमोस्तु ते ।। २१ ।।

नमस्ते देवदेवेश देव दिव्यपदप्रद ।।

शंकराय नमस्तुभ्यं नमस्तुभ्यं महेश्वर ।। २२ ।।

नमस्ते जगदानंद नमस्ते शशिशेखर ।।

मृत्युंजय नमस्तुभ्यं नमस्ते त्र्यंबकाय च ।। २३ ।।

नमः पिनाकहस्ताय त्रिशूलायुधधारिणे ।।

नमस्त्रिपुरहंत्रे च नमोंधक निषूदन ।। २४ ।।

कंदर्पदर्पदलन नमोजालंधरारये ।।

कालाय कालकालाय कालकूटविषादिने ।। २५ ।।

विषादहंत्रे भक्तानामभक्तैक विषादद ।।

ज्ञानाय ज्ञानरूपाय सर्वज्ञाय नमोऽस्तुते ।। ।। २६ ।।

योगसिद्धिप्रदोसि त्वं योगिनां योगसत्तम ।।

तपसां फलदोसि त्वं तपस्विभ्यस्तपोधन ।। २७ ।।

त्वमेव मंत्ररूपोसि मंत्राणां फलदो भवान् ।।

महादानफलं त्वं वै महादानप्रदो भवान् ।। २६ ।।

महायज्ञस्त्वमेवेश महायज्ञ फलप्रद ।।

त्वं सर्वः सर्वगस्त्वं वै सर्वदः सर्वदृग्भवान् ।।२९।।

सर्वभुक्सर्वकर्ता त्वं सर्वसंहारकारक ।।

योगिनां हृदयाकाश कृतालय नमोस्तु ते ।। 4.2.73.१३० ।।

त्वमेव विष्णुरूपेण शंखचक्रगदाधर ।।

त्रिलोकीं त्रायसे त्रातः सत्त्वमूर्ते नमोस्तु ते ।। ३१।।

त्वमेव विदधास्ये तद्विधिर्भूत्वा विधानवित् ।।

रजोरूपं समालंब्य नीरजस्कपदप्रद ।। ३२ ।।

त्वमेव हि महारुद्रस्त्वं महोग्रो भुजंगभृत् ।।

त्वमेव हि महाभीमो महापितृवनेचर ।। ३३ ।।

तामसीं तनुमाश्रित्य त्वं कृतांत कृतांतक ।।

कालाग्निरुद्रो भूऽत्वांते त्वं संवर्त प्रवर्तकः ।। ३४ ।।

त्वं पुंप्रकृतिरूपाभ्यां महदाद्यखिलं जगत् ।।

अक्षिपक्ष्मसमुत्क्षेपात्पुनराविः करोप्यज ।।३५।।

उन्मेषविनिमेषौ ते सर्गासर्गैककारणम् ।।

कपालमालाखेलोयं भवतः स्वैरचारिणः ।। ३६ ।।

त्वत्कंठे नृकरोटीयं धूर्जटे या विभासते ।।

सर्वेषामंतदग्धानां सास्फुटं बीजमालिका ।। ३७ ।।

त्वत्तः सर्वमिदं शंभो त्वयि सर्वं चराचरम् ।।

कस्त्वां स्तोतुं विजानाति पुरां वाचामगोचरम् ।। ३८ ।।

स्तोता त्वं हि स्तुतिस्त्वं हि नित्यं स्तुत्यस्त्वमेव च ।।

वेद्म्यों नमः शिवायेति नान्यद्वेऽद्म्येव किंचन ।। ३९ ।।

त्वमेव हि शरण्यं मे त्वमेव हि गतिः परा ।।

त्वामेव प्रणमामीश नमस्तुभ्यं नमो नमः ।। 4.2.73.१४० ।।

इत्युदीर्यासकृद्वेधाः प्रणनाम महेश्वरम् ।।

प्रणवाख्यं महालिंगरूपिणं दंडवत्क्षितौ ।। ४१ ।।

।। ईश्वर उवाच ।। ।।

ततो गिरींद्रतनये श्रुत्वा ब्रह्मस्तुतिं पराम् ।।

परमैश्वर्यसंपत्ति हेतुं तुष्टोहमद्भुतम् ।। ४२ ।।

अमूर्तोऽहं ततो लिंगान्मूर्तिमास्थाय शांकरीम् ।।

प्रसन्नोस्मि वरं ब्रूहीत्युवाच चतुराननम् ।। ४३ ।।

चतुर्वक्त्रः समुत्थाय प्रत्यक्षं वीक्ष्य मामथ ।।

पुनर्जयजयेत्युक्त्वा प्रणनाम कृतांजलिः ।। ४४ ।।

आनंदबाष्पसलिलनेत्रो हृष्टतनूरुहः ।।

गद्गदेन स्वरेणाथ प्रोवाच जलजासनः ।। ४५ ।।

ब्रह्मोवाच ।। ।।

यदि प्रसन्नो देवेश यदि देयो वरो मम ।।

तदेतस्मिन्महालिंगे सान्निध्यं तेऽस्तु शंकर ।। ४६ ।।

अयमेव वरो देयो नान्यं वरमहं वृणे ।।

ओंकारेश्वरनामैतदस्तु भक्तैकमुक्तिदम् ।। ४७ ।।

।। स्कंद उवाच ।। ।।

विध्युक्तमिति विप्रर्षे समाकर्ण्य तदेशिता ।।

उवाच वचनं चैतत्तथास्तु चतुराननम् ।।४८।।

वरानन्यानपि विभुः प्रसन्नस्तत्क्षणाद्ददौ।।

विधये दीर्घतपसे तया स्तुत्यातितोषितः ।।४९।।

।। ईश्वर उवाच ।।

सुरश्रेष्ठ तपःश्रेष्ठ सर्वाम्नाय निधिर्भव ।।

सृष्टेःकरणसामर्थ्यं तवास्तु मदनुग्रहात् ।।4.2.73.१५०।।

पितामहस्त्वं सर्वेषां सर्वेषां मान्यभूर्भवान् ।।

त्वत्तपःफलदानार्थं यदेतल्लिंगमुत्थितम् ।। ५१ ।।

परमोंकाररूपं च शब्दब्रह्ममयं विधे ।।

अस्याराधनतः पुंसां न दूरं ब्रह्मणः पदम् ।।५२।।

अकाराख्यमिदं लिंगमुकाराख्यमिदं परम् ।।

मकाराह्वयमेतच्च नादाख्यं बिंदुसंज्ञकम् ।। ५३ ।।

पंचायतनमीशानमित्थमेतदुदीरितम् ।।

मोक्षाय सर्वजंतूनामस्मिन्नानंदकानने ।। ५४ ।।

स्नात्वा मत्स्योदरी तीर्थे विलोक्योंकारमीश्वरम् ।।

न जातु जायते जंतुर्जननी जठरे क्वचित् ।। ५५ ।।

एतन्नादेश्वरं लिंगमेतल्लिंगं सुदुर्लभम् ।।

रम्ये मत्स्योदरी तीरे दृष्टं स्पृष्टं विमुक्तिदम् ।। ५६ ।।

यदेतत्कापिलं ज्योतिरेतल्लिंगे विलोक्यते ।।

अतस्तु कपिलेशाख्यमेतल्लिंगं सुदुर्लभम् ।।५७।।

मत्स्योदरी यदा गंगा कपिलेश्वर सन्निधौ ।।

तदा तत्र नरः स्नात्वा ब्रह्महत्यां व्यपोहति ।। ५८ ।।

वरणोत्सिक्तपानीये द्युनदीतोयमिश्रिते ।।

स्नात्वा नादेश्वरं दृष्ट्वा नरः किमनुशोचति ।। ५९ ।।

अष्टम्यां च चतुर्दश्यां तीर्थानि सह सागरैः ।।

षष्टि कोटि सहस्राणि मत्स्योदर्यां विशंति हि ।।4.2.73.१६०।।

प्रणवेश समीपे तु यदा गंगा समेष्यति ।।

तदा पुण्यतमः कालो देवर्षि पितृवल्लभः ।। ६१ ।।

तत्र स्नानं जपोदानं हवनं देवतार्चनम् ।।

मत्स्योदर्यामक्षयं स्यादोंकारेश्वरसन्निधौ ।। ६२ ।।

ओंकारदर्शनादेव वाजिमेधफलं लभेत् ।।

तस्मात्काश्यां प्रयत्नेन दृश्य ओंकार ईश्वरः ।। ६३ ।।

दुर्लभं मानवं जन्म चतुर्वर्गैकसाधनम् ।।

जलबुद्बुदवत्तत्स्यान्नादेशो येन नेक्षितः ।। ६४ ।।

निरीक्ष्य कपिलेशानं स्नात्वा मत्स्योदरीजले ।।

कृत्वा पिंडप्रदानानि पितॄणामनृणो भवेत् ।। ६५ ।।

कृत्वापि मोहात्पापानि भूरीण्येव महांत्यपि ।।

काश्यामोंकारमालोक्य कुतस्त्रस्यति वै यमात् ।। ६६ ।।

ओंकारयात्राभिमुखं नरं वीक्ष्य पितामहाः ।।

परिनृत्यंति मुदिताः स्वसंतानसमुद्भवम् ।। ६७ ।।

यस्य यस्य च वै नाम स्मृत्वा स्मृत्वा नमस्यति ।।

तं तमुन्नयते प्राज्ञः पितरं ब्रह्मणः पदम् ।। ६८ ।।

रुद्राणां नियुतं जप्त्वा यत्फलं सम्यगाप्यते ।।

तत्फलं लभते नूनं भक्त्योंकार विलोकनात् ।। ६९ ।।

केवलं भूमिभाराय जन्मिनो जन्म तस्य वै ।।

येनानंदवने दृष्टो नोंकारः सर्वकामदः ।। 4.2.73.१७० ।।

एकमोंकारमालोक्य समस्ते क्षोणिमंडले ।। लिं

गजातानि सर्वाणि दृष्टानि स्युर्न संशयः ।। ७१ ।।

प्रणवेशं प्रणम्याथ यद्यन्यत्र विपद्यते ।।

स्वर्गलोकमवाप्याथ काश्यां मुक्तिमवाप्नुयात् ।। ७२ ।।

अस्मिँल्लिंगे सदा ब्रह्मन्स्थास्यामीति विनिश्चितम् ।।

दास्यामि च सदा मोक्षमेतल्लिंगार्चकाय वै ।। ७३ ।।

ओंकारं सकृदप्यत्र नरो नत्वा प्रयत्नतः ।।

कृतकृत्यो भवेन्नूनं परमान्मदनुग्रहात ।। ७४ ।।

ओंकारपश्चिमे भागे तारतीर्थमनुत्तमम् ।।

कृतोदकक्रियस्तत्र नरस्तरति दुर्गतिम् ।। ७५ ।।

ओंकारेशस्य ये भक्ता ज्ञेयास्ते नैव मानवाः ।।

मनुष्यचर्मणा नद्धास्ते रुद्रा मोक्षगामिनः ।। ७६ ।।

अस्य लिंगस्य महिमा नान्यैरत्रावगम्यते ।।

त्वत्पुण्योदयतो यस्माद्विधेत्राविरभूदिदम् ।। ७७ ।।

एतल्लिंगप्रभावाच्च सर्वं ज्ञास्यसि तत्त्वतः ।।

विधे विधेहि तस्मात्त्वं सर्वमेतच्चराचरम् ।।७८।।

इति दत्त्वा वरं तस्मै ब्रह्मणे पद्मसंभवे।

तस्मिन्नेव महालिंगे शंभुर्लीनो बभूव ह ।।७९।।

।। स्कंद उवाच ।। ।।

ब्रह्मापि भजतेद्यापि तल्लिंगं कलशोद्भव ।।

स्तुवन्ब्रह्म स्तवेनैव स्वात्मना विहितेन हि ।।4.2.73.१८०।।

ब्रह्मस्तवं जपन्मर्त्यः सर्वैः पापैः प्रमुच्यते ।।

पूर्यते च महापुण्यैर्ज्ञानं प्राप्नोति सत्तमम् ।। ८१ ।।

ब्रह्मस्तवमिमं जप्त्वा त्रिकालं परिवत्सरम् ।।

अंतकाले भवेज्ज्ञानं येन बंधात्प्रमुच्यते ।। ।। १८२ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संह्तिायां चतुर्थे काशीखंड उत्तरार्ध ओंकारमहिमवर्णनंनाम त्रिसप्ततितमोऽध्यायः ।। ७३ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 74

।। स्कंद उवाच ।। ।।

शृणु वातापि संहर्तः काश्यां पातकतंकिनी ।।

पद्मकल्पे तु या वृत्ता दमनस्य द्विजन्मनः ।।१।।

भारद्वाजस्य तनयो दमनो नाम नामतः ।।

कृतमौंजीविधिः सोथ विद्याजातं प्रगृह्य च ।। २ ।।

संसारदुःखबहुलं जीवितं चापि चंचलम् ।।

विज्ञाय दमनो विद्वान्निर्जगाम गृहान्निजात् ।। ३ ।।

कांचिद्दिशं समालंब्य निर्वेदं परमं गतः ।।

प्रत्याश्रमं प्रतिनगं प्रत्यब्धि प्रतिकाननम् ।। ४ ।।

प्रतितीर्थं प्रतिनदि स बभ्राम तपोयुतः ।।

यावंत्यायतनानीह तिष्ठंति परितो भुवम् ।।५।।

अध्युवास स तावंति संयतेंद्रियमानसः ।।

परं न मनसः स्थैर्यं क्वापि प्रापि च तेन वै ।। ६ ।।

मनोरथोपदेष्टा च कुत्रचित्क्वापि नेक्षितः ।।

कदाचिद्दैवयोगात्स दमनो नाम तापसः ।।७।।

रेवातटे निरैक्षिष्ट तीर्थं चामरकंटकम् ।।

महदायतनं पुण्यमोंकारस्यापि तत्र वै ।।८।।

दृष्ट्वा हृष्टमना आसीच्चेतः स्थैर्यमवाप ह ।।

अथ पाशुपतांस्तत्र स निरीक्ष्य तपोधनान् ।। ९ ।।

विभूतिभूषिततनून्कृतलिंगसमर्चनान् ।।

विहितप्राणयात्रांश्च कृतागमविचारणान् ।। 4.2.74.१० ।।

स्वस्थोपविष्टान्स्वपुरोरग्रतोऽचलमानसान् ।।

प्रणम्योपाविशत्तत्र तदाचार्यस्य सन्निधौ ।। ११ ।।

प्रबद्धहस्तयुगलः प्रणमतरकंधरः ।।

अथ पाशुपताचार्यो गर्गो नाम महामुनिः ।। १२ ।।

वार्धकेन समाक्रांतस्तपसा कृशविग्रहः ।।

शंभोराराधनेनिष्ठः श्रेष्ठः सर्वतपस्विषु ।।१३।।

पप्रच्छ दमनं चेति कस्त्वं कस्मादिहागतः ।।

तरुणोपि विरक्तोसि कुतस्तद्वद सत्तम ।।।१४।।।

इति प्रणयपूर्वं स निशम्य दमनोऽब्रवीत् ।।

भगोः पाशुपताचार्य सर्वज्ञाराधनप्रिय ।। १५ ।।

कथयामि यथार्थं ते निजचेतोविचेष्टितम् ।।

अहं ब्राह्मणदायादो वेदशास्त्रकृतश्रमः ।। १६ ।।

संसारासारतां ज्ञात्वा वानप्रस्थमशिश्रियम् ।।

अनेनैव शरीरेण महासिद्धिमभीप्सता ।।१७।।

स्नातं बहुषु तीर्थेषु मंत्रा जप्तास्तु कोटिशः ।।

देवताः सेविता बह्व्यो हवनं च कृतं बहु ।। १८ ।।

शुश्रूषिताश्च गुरवो बहवो बह्वनेहसम् ।।

महाश्मशानेषु निशा भूयस्योप्यतिवाहिताः ।। १९ ।।

शिखराणि गिरींद्राणां मया चाध्युषितान्यहो ।।

दिव्यौषधि सहस्राणि मया संसाधितान्यपि ।।4.2.74.२०।।

रसायनानि बहुशः सेवितानि मया पुनः ।।

महासाहसमालंब्य सिद्धाध्युषितकंदराः ।। २१ ।।

मया प्रविष्टा बहुशः कृतांतवदनोपमाः ।।

तपश्चापि महत्तप्तं बहुभिर्नियमैर्यमैः ।। २२ ।।

परं किंचित्क्वचिन्नैक्षि सिद्ध्यंकुरमपि प्रभो ।।

इदानीं त्वामनुप्राप्य महीं पर्यटता मया ।। २३ ।।

मनसः स्थैर्यमापन्नमिव संप्राप्तसिद्धिना ।।

अवश्यं त्वन्मुखांभोजाद्यद्वचो निःसरिष्यति ।। ।। २४ ।।

तेनैव महती सिद्धिर्भवित्री मम नान्यथा ।।

तद्ब्रूहि सूपदेशं च कथं सिद्धिर्भवेन्मम ।। २५ ।।

अनेनैव शरीरेण पार्थिवेन प्रथीयसी ।।

दमनस्य निशम्येति गर्गाचार्यो वचस्तदा ।। २६ ।।

प्रत्यक्षदृष्टं प्रोवाच महदाश्चर्यमुत्तमम् ।।

सर्वेषां शृण्वतां तत्र शिष्याणां स्थिरचेतसाम् ।।

मुमुक्षूणां धृतवतां महापाशुपतं व्रतम् ।।२७।।

।। गर्ग उवाच ।। ।।

अनेनैवेह देहेन यदि त्वं सिद्धिकामुकः ।।

शृणुष्वावहितो भूत्वा तदा ते कथयाम्यहम् ।।२८।।

अविमुक्ते महाक्षेत्रे सर्वसिद्धिप्रदे सताम् ।।

धर्मार्थकाममोक्षाख्य रत्नानां परमाकरे ।। २९ ।।

समाश्रितानां जंतूनां सर्वेषां सर्वकर्मणाम् ।।

शलभानां प्रदीपाभे तमःस्तोम महाद्विपि ।। 4.2.74.३० ।।

कर्मभूरुह दावाग्नौ संसाराब्ध्यौर्वशोचिपि ।।

निर्वाणलक्ष्मी क्षीराब्धौ सुखसंकेतसद्मनि ।। ३१ ।।

दीर्घनिद्रा प्रसुप्तानां परमोद्बोधदायिनि ।।

यातायातश्रमापन्नप्राणिमार्गमहीरुहि ।। ३२ ।।

अनेकजन्मजनित महापापाद्रिवज्रिणि ।।

नामोच्चारकृतां पुंसां महाश्रेयो विधायिनि ।। ३३ ।।

विश्वेशितुः परेधाम्नि सीम्नि स्वर्गापवर्गयोः ।।

स्वर्धुनी लोलकल्लोला नित्यक्षालित भूतले ।। ३४ ।।

एवंविधे महाक्षेत्रे सर्वदुःखौघहारिणि ।।

प्रत्यक्षं मम यद्वृत्तं तद्ब्रवीमि महामते ।। ३५ ।।

यत्र कालभयं नास्ति यत्र नास्त्येनसो भयम् ।।

तत्क्षेत्रमहिमानं कः सम्यग्वर्णयितुं क्षमः ।। ३६ ।।

तीर्थानि यानि लोकेस्मिञ्जंतूनामघहान्यहो ।।

तानि सर्वाणि शुद्ध्यर्थं काशीमायांति नित्यशः ।। ३७ ।।

अपि काश्यां वसेद्यस्तु सर्वाशी सर्वविक्रयी ।।

स यां गतिं लभेन्मर्त्यो यज्ञैर्दानैर्न सान्यतः ।। ३८ ।।

रागबीजसमुद्भूतः संसारविटपो महान् ।।

दीर्घस्वाप कुठारेण च्छिन्नः काश्यां न वर्धते ।। ३९ ।।

सर्वेषामूषराणां तु काशी परम ऊषरः ।।

वप्तुर्बीजमिदं तस्मिन्नुप्तं नैव प्ररोहति ।। 4.2.74.४० ।।

स्मरिष्यंतीह ये काशीमवश्यं तेपि साधवः ।।

तेप्यघौघ विनिर्मुक्ता यास्यंति गतिमुत्तमाम् ।। ४१ ।।

विभूतिः सर्वलोकानां सत्यादीनां सुभंगुरा ।।

अभंगुरा विमुक्तस्य सा तु लभ्या शिवाज्ञया ।। ४२ ।।

कृमिकीटपतंगानामविमुक्ते तनुत्यजाम् ।।

विभूतिर्दृश्यते या सा क्वास्ति ब्रह्मांडमंडले ।। ४३ ।।

वाराणसी यदा प्राप्ता कदाचित्कालपर्ययात् ।।

स उपायो विधातव्यो येन नो निष्क्रमो बहिः ।। ४४ ।।

पूर्वतो मणिकर्णीशो ब्रह्मेशो दक्षिणे स्थितः ।।

पश्चिमे चैव गोकर्णो भारभूतस्तथोत्तरे ।।४५।।

इत्येतदुत्तमं क्षेत्रमविमुक्ते महाफलम् ।।

मणिकर्णी ह्रदे स्नात्वा दृष्ट्वा विश्वेश्वरंविभुम् ।।४६।।

क्षेत्रं प्रदक्षिणीकृत्य राजसूयफलं लभेत् ।।

तत्र श्राद्धप्रदातुश्च मुच्यंते प्रपितामहाः ।। ४७ ।।

अविमुक्त समं क्षेत्रमपि ब्रह्मांडगोलके ।।

न विद्यते क्वचित्सत्यं सत्यं साधकसिद्धिदम् ।।४८।।

रक्षंति सततं क्षेत्रं यत्र पाशासिपाणयः ।।

महापारिषदा उग्राः क्रूरेभ्योऽक्रूरबुद्धयः ।। ४९ ।।

प्राग्द्वारमट्टहासश्च गणकोटिपरीवृतः ।।

रक्षेदहर्निशं क्षेत्रं दुर्वृत्तेभ्यो विभीषणः ।। 4.2.74.५० ।।

तथैव भूतधात्रीशः क्षेत्रदक्षिणरक्षकः ।।

गोकर्णः पश्चिमद्वारं पाति कोटिगणावृतः ।। ५१ ।।

उदग्द्वारं तथा रक्षेद्घंटाकर्णो महागणः ।।

ऐशंकोणं छागवक्त्रो भीषणो वह्निदिग्दलम् ।।५२ ।।

रक्षः काष्ठां शंकुकर्णो दृमिचंडो मरुद्दिशम् ।।

इत्थं क्षेत्रं सदा पांति गणा एतेऽति भास्वराः ।।५३।।

कालाक्षोरण भद्रस्तु कौलेयः कालकंपनः ।।

एते पूर्वेण रक्षंति गंगापारे स्थिता गणाः ।। ५४ ।।

वीरभद्रो नभश्चैव कर्दमालिप्तविग्रहः ।।

स्थूलकर्णो महाबाहुरसिपारे व्यवस्थिताः ।। ५५ ।।

विशालाक्षो महाभीमः कुंडोदरमहोदरौ ।।

रक्षंति पश्चिमद्वारं देहलीदेशसंस्थिताः ।।५६।।

नंदिसेनश्च पंचालः खरपादकरंटकः ।।

आनंदोगोपको बभ्रू रक्षंति वरणातटे ।।।। ५७ ।।

तस्मिन्क्षेत्रे महापुण्ये लिंगमोंकारसंज्ञकम्।।

तत्र सिद्धिं परां प्राप्ता देहेनानेन साधकाः ।। ५८ ।।

कपिलश्चैव सावर्णिः श्रीकंठः पिगलोंशुमान् ।।

एते पाशुपताः सिद्धास्तल्लिंगाराधनेन हि ।। ५९ ।।

एकदा तस्य लिंगस्य कृत्वा पंचापिपूजनम् ।।

नृत्यतः सहुडुत्कारं तस्मिँल्लिंगे लयं ययुः ।। 4.2.74.६० ।।

अन्यच्च ते प्रवक्ष्यामि तत्र यद्वृत्तमद्भुतम् ।।

निशामय महाबुद्धे दमन द्विजसत्तम ।। ६१ ।।

एका भेकी मुने तत्र चरंती लिंग सन्निधौ ।।

प्रदक्षिणं सदा कुर्यान्निर्माल्याक्षतभक्षिणी ।। ६२ ।।

सा तत्र मृत्युं न प्राप शिवनिर्माल्यभक्षणात् ।।

क्षेत्रादन्यत्र मरणं जातं तस्यास्तदेनसः ।। ६३ ।।

वरं विषमपिप्राश्यं शिवस्वं नैव भक्षयेत् ।।

विषमेकाकिनं हंति थिवस्वं पुत्रपौवकम् ।। ६४।।

शिवस्य परिपुष्टांगाः स्पर्शनीया न साधुभिः ।।

तेन कर्मविपाकेन ततस्ते रौरवौकसः ।।६५।।

कश्चित्काकः समालोक्य मंडूकीं तामितस्ततः ।।

पोप्लूयमानामादाय चंच्वा क्षेत्राद्बहिर्गतः ।।६६ ।।

वर्षाभ्वी तेन सा क्षिप्ता काकेन क्षेत्रबाह्यतः ।।

अथ सा कालतो भेकी तत्रैव क्षेत्रसत्तमे ।। ६७ ।।

प्रदक्षिणीकरणतो लिंगस्यस्पर्शनादपि।।

पुण्यापुण्यवतीजाता कन्यापुष्पबटोर्गृहे ।। ६८ ।।

शुभावयवसंस्थाना शुभलक्षणलक्षिता ।।

परं गृध्रमुखी जाता निर्माल्याक्षतभक्षणात् ।। ६९ ।।

सम्यग्गीतरहस्यज्ञा नितरां मधुरस्वरा ।।

सप्तस्वरास्त्रयो ग्रामा मूर्च्छनास्त्वैकविंशतिः ।।4.2.74.७० ।।

ताना एकोनपंचाश ताला एकोत्तरंशतम् ।।

रागाः षडेव तेषां तु पंचपंचापि चांगनाः।।७१ ।।

षड्विंशद्रागरागिण्य इति रागि मुदावहाः ।।

देशकाल विभेदेन पंचषष्टिस्तथा पराः ।। ७२ ।।

यावंत एव तालाः स्यु रागास्तावंत एव हि ।।

इति गीतोपनिषदा प्रत्यहं सा शुभव्रता ।। ७३ ।।

माधवी मधुरालापा सदोंकारं समर्चयेत् ।।

प्राप्याप्यनर्घ्यतारुण्यं सा तु पुष्पबटोः सुता ।। ७४ ।।

प्राग्जन्मवासनायोगादोंकारं बह्वमंस्त वै ।।

स्वभाव चंचलं चेतस्तस्यास्तल्लिंग सेवनात् ।। ७५ ।।

दमनस्थैर्यमगमद्योगेनेव महात्मनः ।।

न दिवा बाधयांचक्रे क्षुत्तृण्निद्रा क्षपा सुताम् ।। ७६ ।।

अतंद्रितमना आसीत्सा तल्लिंग निरीक्षणे ।।

अक्ष्णोर्निमेषा यावंतस्तस्या आसन्दिवानिशम् ।। ७७ ।।

तावत्कालस्तया साध्व्या महान्विघ्नोऽनुमीयते ।।

निमेषांतरितः कालो यो यो व्यथोंगतो मम ।।

लिंगानवेक्षणात्तत्र प्रायश्चित्तं कथं भवेत ।। ७८ ।।

इति संचितयंत्येव सेवां तत्याज नोंकृतेः ।।

जलाभिलाषिणी सा तु लिंगनामामृतं पिबेत् ।। ७९ ।।

नान्य द्दिदृक्षिणी तस्या अक्षिणी श्रुतिगे अपि ।।

विहाय लिंगमोंकारं हृद्विहायः स्थितं सताम् ।। 4.2.74.८० ।।

तस्याः शब्दग्रहौ नान्य शब्दग्रहणतत्परौ ।।

अतीव निपुणौ जातौ तत्सन्माल्यकरौकरौ ।। ८१ ।।

नान्यत्र चरणौ तस्याश्चरतः सुखवांछया ।।

त्यक्त्वोंकाराजिरक्षोणीं क्षुण्णां निर्वाणपद्मया ।। ८२ ।।

ओंकारं प्रणवं सारं परब्रह्मप्रकाशकम् ।।

शब्दब्रह्मत्रयीरूपं नादबिंदुकलालयम् ।। ८३ ।।

सदक्षरं चादिरूपं विश्वरूपं परावरम् ।।

वरं वरेण्यं वरदं शाश्वतं शांतमीश्वरम् ।। ८४ ।।

सर्वलोकैकजनकं सर्वलोकैकरक्षकम् ।।

सर्वलोकैकसंहर्तृ सर्वलोकैकवंदितम् ।। ८५ ।।

आद्यंतरहितं नित्यं र्शिवं शंकरमव्ययम् ।।

एकगुणत्रयातीतं भक्तस्वांतकृतास्पदम् ।। ८६ ।।

निरुपाधिं निराकारं निर्विकारं निरंजनम् ।।

निर्मलं निरहंकारं निष्प्रपंचं निजोदयम् ।। ८७ ।।

स्वात्माराममनंतं च सर्वगं सर्वदर्शिनम् ।।

सर्वदं सर्वभोक्तारं सर्वं सर्वसुखास्पदम् ।।८८।।

वागिंद्रियं तदीयं च प्रोच्चरत्तदहर्निशम् ।।

नामांतरं न गृह्णाति क्वचिदन्यस्यकस्यचित्।।८९।।

एतन्नामाक्षररसं रसयंती दिवानिशम् ।।

रसना नैव जानाति तस्या अन्यद्रसांतरम् ।। 4.2.74.९० ।।

संमार्जनं रंगमालाः प्रासादं परितः सदा ।।

विदध्यान्माधवी तत्र तथार्चा पात्रशोधनम् ।। ९१ ।।

तत्र पाशुपता ये वै प्रणवेशार्चने रताः ।।

तांश्च शुश्रूषयेन्नित्यं पितृबुद्ध्याति भक्तितः ।। ९२ ।।

वैशाखस्य चतुर्दश्यामेकदा सा तु माधवी ।।

रात्रौ जागरणं कृत्वा दिवोपवसान्विता ।। ९३ ।।

यात्रामिलितभक्तेषु प्रातर्यातेषु सर्वतः ।।

संमार्जनादिकं कृत्वा लिंगमभ्यर्च्य हर्षतः ।। ९४ ।।

गायंती मधुरं गीतं नृत्यंती निजलीलया।।

ध्यायंती लिंगमोंकारं तत्र लिंगे लयं ययौ ।। ९५ ।।

अनेनैव शरीरेण पार्थिवेन महामतिः ।।

अस्मदाचार्यमुख्यानां पश्यतां च तपस्विनाम् ।। ९६ ।।

प्रादुर्बभूव यल्लिंगाज्ज्योतिर्जटिलितांबरम् ।।

तत्र ज्योतिषि सा बाला ज्योतिर्मय्यपि साप्यभूत् ।। ९७ ।।

राधशुक्लचतुर्दश्यामद्यापि क्षेत्रवासिनः ।।

तत्र यात्रां प्रकुर्वंति महोत्सवपुरःसराः ।। ९८ ।।

तत्र जागरणं कृत्वा चतुर्दश्यामुपोषिताः ।।

प्राप्नुवंति परं ज्ञानं यत्रकुत्रापि वै मृताः ।। ९९ ।।

ब्रह्मांडोदर मध्ये तु यानि तीर्थानि सर्वतः ।।

तानि वैशाखभूतायामायांत्योंकृति दर्शने ।।4.2.74.१००।।

लिंगाग्रे श्रीमुखी नाम्नी गुहास्ति परमोत्तमा ।।

पातालस्य च तद्द्वारं तत्र सिद्धा वसंति हि ।। १ ।।

तिष्ठेयुः पंचरात्रं ये गुहायां तत्र सुव्रताः ।।

ते नागकन्याः पश्यंति ब्रूयुस्ताश्च शुभाशुभम् ।। २ ।।

कंदरोत्तरदिग्भागे तत्र कूपो रसोदकः ।।

आषण्मासं च तत्पीत्वा पिबेद्ब्रह्मरसायनम् ।। ३ ।।

तत्र नादेश्वरं लिंगं दृष्ट्वा नादनिदानभूः ।।

सर्वनादात्मकं विश्वं तच्छ्रवो गोचरी भवेत् ।। ४ ।।

तत्र मत्स्योदरीं स्नात्वा स्वर्धुनीं वरुणाप्लुताम् ।।

कृतकृत्यो भवेज्जंतुर्नैव शोचति कुत्रचित् ।। ५ ।।

असंख्याता गताः सिद्धिमोंकारेश्वरसेवकाः ।।

पार्थिवेनैव देहेन दिव्यभूतेन तत्क्षणात् ।। ६ ।।

अविमुक्तं परं क्षेत्रं ब्रह्मांडादपि सर्वतः ।।

ततोपि पर ओंकार उक्तो मत्स्योदरी तटे ।। ७ ।।

प्रणवेशोंऽग यैः काश्यां न नतो नापि चार्चितः ।।

किमर्थं ते समुत्पन्ना मातृतारुण्यहारिणः ।। ८ ।।

यदा प्रभृति विश्वेशो मंदरादागतोऽभवत् ।।

तस्मिन्नानंद गहने तदाप्रभृति सत्तम ।। ९ ।।

सर्वाण्यायतनान्याशु साब्धीनि स गिरीण्यपि ।।

स नदीनि स तीर्थानि स द्वीपानि ययुस्ततः ।। ।। 4.2.74.११० ।।

इदानीं मम भाग्येन स्मारितोहं त्वया मुने ।।

अहमप्यागमिष्यामि यामः काशीं शनैः शनैः ।। ११ ।।

एतेपि मम शिष्या ये महापाशुपतव्रताः ।।

काशीं यियासवस्तेपि यतः सर्वे मुमुक्षवः ।। १२ ।।

अपि वार्धकमासाद्य यैः काशी नैव शीलिता ।।

मानुषे दुर्लभे नष्टे कुतस्तेषां महासुखम् ।। १३ ।।

यावन्नेंद्रिय वैकल्यं यावन्नैवायुषः क्षयः ।।

तावत्सेव्यं प्रयत्नेन शंभोरानंदकाननम्।। १४ ।।

य आनंदवनं शंभोः शिश्रियुः श्रीनिकेतनम् ।।

अचलाश्रीर्न मुंचेत्तान्महासौख्यैकशेवधीन् ।। १५ ।।

इत्याख्याय कथां रम्यां गर्गः पाशुपतोत्तमः ।।

भारद्वाजेन सहितः प्राप वाराणसीं पुरीम् ।। १६ ।।

दमनोपि हि धर्मात्मा गर्गाचार्येण संयुतः ।।

आराध्य श्रीमदोंकारं तस्मिँल्लिंगे लयं गतः ।। १७ ।।

।। स्कंद उवाच ।। ।।

इल्वलारे परं स्थानमोंकारमविमुक्तके ।।

तत्र सिद्धिपरां जग्मुः साधका बहुशो मुने ।। १८ ।।

कलौ कलुषचित्तानां पुरो नाख्येयमेव हि ।।

प्रणवेश्वरमाहात्म्यं नास्तिकानां विशेषतः ।। १९ ।।

ये निंदंति महादेवं क्षेत्रं निंदंति येऽधियः ।।

पुराणं ये च निंदंति ते संभाष्या न कुत्रचित् ।। 4.2.74.१२० ।।

ओंकारसदृशं लिंगं न क्वचिज्जगतीतले ।।

इति गौर्यै समाख्यातं देवदेवेन निश्चितम् ।। १२१ ।।

इममध्यायमाकर्ण्य नरस्तद्गतमानसः ।।

विमुक्तः सर्वपापेभ्यः शिवलोकमवाप्नुयात् ।। १२२ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थेकाशीखंड उत्तरार्ध ओंकारमाहात्म्यं नाम चतुःसप्ततितमोऽध्यायः ।। ७४ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 75

।। अगस्त्य उवाच ।। ।।

श्रुत्वोंकारकथामेतां महापातकनाशिनीम् ।।

न तृप्तोस्मि विशाखाथ ब्रूहि त्रैविष्टपीं कथाम् ।। १ ।।

कथं च कथिता देव्यै देवदेवेन षण्मुख ।।

आविर्भूतिर्महाबुद्धे पुण्या त्रैलोचनी परा ।। २ ।।

स्कंद उवाच ।। ।।

आकर्णय मुने वच्मि कथां श्रमनिवारिणीम् ।।

यथा देवेन कथितां त्रिविष्टपसमुद्भवाम् ।। ३ ।।

विरजाख्यं हि तत्पीठं तत्र लिंगं त्रिविष्टपम् ।।

तत्पीठदर्शनादेव विरजा जायते नरः ।। ४ ।।

तिस्रस्तु संगतास्तत्र स्रोतस्विन्यो घटोद्भव ।।

तिस्रः कल्मषहारिण्यो दक्षिणे हि त्रिलोचनात् ।। ५ ।।

स्रोतोमूर्तिधराः साक्षाल्लिंगस्नपनहेतवे ।।

सरस्वत्यथ कालिंदी नर्मदा चातिशर्मदा ।। ६ ।।

तिस्रोपि हि त्रिसंध्यं ताः सरितः कुंभपाणयः ।।

स्नपयंति महाधाम लिंगं त्रैविष्टपं महत् ।। ७ ।।

लिंगानि परितस्ताभिः स्वनाम्नास्थापि तान्यपि ।।

तेषां संदर्शनात्पुंसां तासां स्नानफलं भवेत् ।। ८ ।।

सरस्वतीश्वरं लिंगं दक्षिणेन त्रिविष्टपात् ।।

सारस्वतं पदं दद्याद्दृष्टं स्पृष्टं च जाड्यहृत् ।। ९ ।।

यमुनेशं प्रतीच्यां च नरैर्भक्त्या समर्चितम् ।।

अपि किल्बिषवद्भिश्च यमलोकनिवारणम् ।। 4.2.75.१०।।।

दृष्टं त्रिलोचनात्प्राच्यां नर्मदेशं सुशर्मदम् ।।

तल्लिंगार्चनतो नृणां गर्भवासो निषिध्यते ।। ११ ।।

स्नात्वा पिलिपिला तीर्थे त्रिविष्टपसमीपतः ।।

दृष्ट्वा त्रिलोचनं लिंगं किं भूयः परिशोचति ।। १२ ।।

त्रिविष्टपस्य लिंगस्य स्मरणादपि मानवः ।।

त्रिविष्टप पतिर्भूयान्नात्र कार्या विचारणा ।। १३ ।।

त्रिविष्टपस्य द्रष्टारः स्रष्टारः स्युर्न संशयः ।।

कृतकृत्यास्त एवात्र त एवात्र महाधियः ।। १४ ।।

आनंदकानने लिंगं प्रणतं यैस्त्रिविष्टपम् ।।

त्रिलोचनस्य नामापि यैः श्रुतं शुद्धबुद्धिभिः ।। १५ ।।

सप्तजन्मार्जितात्पापात्ते पूता नात्र संशयः ।।

पृथिव्यां यानि लिंगानि तेषु दृष्टेषु यत्फलम् ।। १६ ।।

तत्स्यात्रिविष्टपे दृष्टे काश्यां मन्ये ततोधिकम् ।।

काश्यां त्रिविष्टपे दृष्टे दृष्टं सर्वं त्रिविष्टपम् ।। १७ ।।

क्षणान्निर्धूत पापोसौ न पुनर्गर्भभाग्भवेत ।।

स स्नातः सर्वतीर्थेषु सर्वावभृथवान्स च ।। १८ ।।

यो वै पिलिपिला तीर्थे स्नात्वोत्तरवहांभसि ।।

सरित्त्रयं महापुण्यं यत्र साक्षाद्वसेत्सदा ।। १९ ।।

तत्र श्राद्धादिकं कृत्वा गयायां किं करिष्यति ।।

स्नात्वा पिलिपिला तीर्थे कृत्वा वै पिंडपातनम् ।। 4.2.75.२० ।।

दृष्ट्वा त्रिविष्टपं लिंगं कोटितीर्थफलं लभेत् ।।

यदन्यत्रार्जितं पापं तत्काशी दर्शनाद्व्रजेत् ।। २१ ।।

काश्यां तु यत्कृतं पापं तत्पैशाचपदप्रदम् ।।

प्रमादात्पातकं कृत्वा शंभोरानंदकानने ।। २२।।

दृष्ट्वा त्रिविष्टपं लिंगं तत्पापमपि हास्यति ।।

सर्वस्मिन्नपि भूपृष्ठे श्रेष्ठमानंदकाननम् ।। २३ ।।

तत्रापि सर्वतीर्थानि ततोप्योंकारभूमिका ।।

ओंकारादपि सल्लिंगान्मोक्षवर्त्म प्रकाशकात् ।। २४ ।।

अतिश्रेष्ठतरं लिंगं श्रेयोरूपं त्रिलोचनम् ।। २५ ।।

तेजस्विषु यथा भानुर्दृश्येषु च यथा शशी ।।

तथा लिंगेषु सर्वेषु परं लिंगं त्रिलोचनम् ।। २६ ।।

त्रिलोचनार्चकानां सा पदवी न दवीयसी ।।

परं निर्वाणपद्माया महासौख्यैकशेवधेः ।।२७।।

सकृत्त्रिलोचनार्चातो यच्छ्रेयः समुपार्ज्यते ।।

न तदा जन्मसंपूंज्य लिंगान्यन्यानि लभ्यते ।।२८।।

काश्यां त्रिलोचनं लिंगं येर्चयंति महाधियः ।।

तेर्च्यास्त्रिभुवनौकोभिर्ममप्रीतिमभीप्सुभिः ।। २९ ।।

कृत्वापि सर्वसंन्यासं कृत्वा पाशुपतव्रतम् ।।

नियमेभ्यः स्खलित्वापि कुतो बिभ्यति मानवाः ।। 4.2.75.३० ।।

विद्यमाने महालिंगे महापापौघहारिणि।।

त्रिविष्टपे पुण्यराशौ मोक्षनिक्षेपसद्मनि ।।३१।।

समभ्यर्च्य महालिंगं सकृदेव त्रिलोचनम् ।।ऽ

मुच्यते कलुषैः सर्वैरपिजन्मशतार्जितैः।।। ३२ ।।

ब्रह्महापि सुरापो वा स्तेयी वा गुरुतल्पगः ।।

तत्संयोग्यपि वा वर्षं महापापी प्रकीर्तितः ।। ३३ ।।

परदाररतश्चापि परहिंसा रतोपि वा ।।

परापवादशीलोपि तथा विस्रंभघातकः ।। ३४ ।

कृतघ्नोपि भ्रूणहापि वृषलीपतिरेव वा ।।

मातापितृगुरुत्यागी वह्निदो गरदोपि वा ।। ३५ ।।

गोघ्नः स्त्रीघ्नोपि शूद्रघ्नः कन्यादूषयितापि च ।।

क्रूरो वा पिशुनो वापि निजधर्मपराङ्मुखः ।। ३६।।

निंदको नास्तिको वापि कूटसाक्ष्यप्रवादकः।।

अभक्ष्यभक्षको वापि तथाऽविक्रेय विक्रयी ।। ३७ ।।

इत्यादि पापशीलोपि मुक्त्वैकं शिवनिंदकम ।।

पापान्निष्कृतिमाप्नोति नत्वा लिंगं त्रिलोचनम् ।। ३८ ।।

शिवनिंदारतो मूढः शिवशास्त्रविनिंदकः ।।

तस्य नो निष्कृतिर्दृष्टा क्वापि शास्त्रेपि केनचित् ।। ३९ ।।

आत्मघाती स विज्ञेयः सदा त्रैलोक्यघातकः ।।

शिवनिंदां विधत्ते यः स नाभाष्योऽधमाधमः।। 4.2.75.४०।।

शिवनिंदारता ये च शिवभक्तजनेष्वपि।।

ते यांति नरके घोरे यावच्चंद्रदिवाकरौ।।४१।।

शैवाः पूज्याः प्रयत्नेन काश्या मोक्षमभीप्सुभिः।।

तेष्वर्चितेष्वपि शिवः प्रीतो भवत्यसंशयः ।। ४२ ।।

सर्वेषामिह पापानां प्रायश्चित्तचिकीर्षया ।।

निःशंकैरेव वक्तव्यं प्रमाणज्ञैरिदं वचः ।। ४३ ।।

पुरश्चरणकामश्चेद्भीतोसि यदि पापतः ।।

मन्यसे यदि नः सत्यं वाक्यशास्त्रप्रमाणतः ।। ४४ ।।

ततः सर्वं परित्यज्य कृत्वा मनसि निश्चयम् ।।

आनंदकाननं याहि यत्र विश्वेश्वरः स्वयम् ।। ४५ ।।

यत्र क्षेत्रप्रविष्टानां नराणां निश्चितात्मनाम् ।।

न बाधतेऽघनिचयः प्राप्येत च परोवृषः ।। ४६ ।।

तत्राद्यापि महातीर्थं त्रिस्रोतस्यतिनिर्मले ।।

पुण्ये पिलिपिलानाम्नि त्रिसरित्परिसेविते ।। ४७ ।।

त्रिलोचनाक्षिविक्षेप परिक्षिप्त महैनसि ।।

स्नात्वा गृह्योक्तविधिना तर्पणीयान्प्रतर्प्य च ।। ४८ ।।

दत्त्वा देयं यथाशक्ति वित्तशाठ्यविवर्जितः ।।

दृष्ट्वा त्रिविष्टपं लिंगं समभ्यर्च्यातिभक्तितः ।। ४९ ।।

गंधाद्यैर्विविधैर्माल्यैः पंचामृतपुरःसरैः ।।

धूपैर्दीपैः सनैवेद्यैर्वासोभिर्बहुभूषणैः ।। 4.2.75.५० ।।

पूजोपकरणैर्द्रव्यैर्घंटादर्पणचामरैः ।।

चित्रध्वजपताकाभिर्नृत्यवाद्यसुगायनैः ।। ५१ ।।

जपैः प्रदक्षिणाभिश्च नमस्कारैर्मुदायुतैः ।।

परिचारकसंतोषैः कृत्वेति परिपूजनम् ।। ५२ ।।

ब्राह्मणान्वाचयेत्पश्चान्निष्पापोहमिति ब्रुवन् ।।

एवं कुर्वन्नरः प्राज्ञो निरेना जायते क्षणात् ।। ५३ ।।

ततः पंचनदे स्नात्वा मणिकर्णी ह्रदे ततः ।।

ततो विश्वेशमभ्यर्च्य प्राप्नोति सुकृतं महत् ।।५४ ।।

प्रायश्चित्तमिदं प्रोक्तं महापापविशोधनम् ।।

नास्तिके न प्रवक्तव्यं काशीमाहात्म्य निंदके ।। ५५ ।।

ददच्च द्रव्यलोभेन प्रायश्चित्तमिदं शुभम्।।

दाता नरकमाप्नोति सत्यंसत्यं घटोद्भव ।। ५५ ।।

क्षमां प्रदक्षिणीकृन्य यत्फलं सम्यगाप्यते ।।

प्रदोषे तत्फलं काश्यां सप्तकृत्वस्त्रिलोचने ।। ५७ ।।

भुजंगमेखलं लिंगं काश्यां दृष्ट्वा त्रिविष्टपम् ।।

जन्मांतरेपि मुक्तः स्यादन्यत्र मरणे सति ।। ५८ ।।

अन्यत्र सर्वलिंगेषु पुण्यकालो विशिष्यते ।।

त्रिविष्टपे पुण्यकालः सदा रात्रिदिवं नृणाम् ।। ५९ ।।

लिंगान्योंकारमुख्यानि सर्वपापप्रकृंत्यलम् ।।

परं त्रैलोचनी शक्तिः काचिदन्यैव पार्वति ।। 4.2.75.६० ।।

यतः सर्वेषु लिंगेषु लिंगमेतदनुत्तमम् ।।

तत्कारणं शृण्व पर्णे कर्णे कुरु वदाम्यहम् ।। ६१ ।।

पुरा मे योगयुक्तस्य लिंगमेतद्भुवस्तलात् ।।

उद्भिद्य सप्तपातालं निरगात्पुरतो महत् ।। ६२ ।।

अस्मिँल्लिगे पुरा गौरि सुगुप्तं तिष्ठता मया ।।

तुभ्यं नेत्रत्रयं दत्तं निरैक्षिष्ठास्तथोत्तमम् ।। ६३ ।।

तदा प्रभृति देवेशि लिंगमेतत्त्रिलोचनम ।।

विष्टपत्रितयांतस्थैर्गीयते ज्ञानदृष्टिदम् ।। ५४ ।।

त्रिलोचनस्य ये भक्तास्तेपि सर्वे त्रिलोचनाः ।।

मम पारिषदास्ते तु जीवन्मुक्ताऽस्त एव हि ।। ६५ ।।

त्रिलोचनस्य लिंगस्य महिमानं न कश्चन ।।

सम्यग्वेत्ति महेशानि मयैव परिगोपितम् ।।६६।।

शुक्लराधतृतीयायां स्नात्वा पैलिपिले ह्रदे ।।

उपोषणपरा भक्त्या रात्रौ जागरणान्विताः ।।६७।।

त्रिलोचनं पूजयित्वा प्रातः स्नात्वापि तत्र वै ।।

पुनर्लिंगं समभ्यर्च्य दत्त्वा धर्मघटानपि ।। ६८ ।।

सान्नान्सदक्षिणान्देवि पितॄनुद्दिश्य हर्षिताः ।।

विधाय पारणं पश्चाच्छिवभक्तजनैः सह ।। ६९ ।।

विसृज्य पार्थिवं देहं तेन पुण्येन नोदिताः ।।

भवंति देवि नियतं गणा मम पुरोगमाः ।। 4.2.75.७० ।।

तावद्धमंति संसारे देवा मर्त्या महोरगाः ।।

गौरि यावन्न पश्यंति काश्यां लिंगं त्रिलोचनम् ।।७१।।

सकृत्त्रिविष्टपं दृष्ट्वा स्नात्वा पैलिपिले ह्रदे ।।

न जातुः मातुस्तनपो जायते जंतुरत्र हि ।।७२।।

प्रतिमासं सदाष्टम्यां चतुर्दश्यां च भामिनि ।।

आयांति सर्वतीर्थानि द्रष्टुं देवं त्रिविष्टपम् ।।७३।।

त्रिविष्टपाद्दक्षिणतः स्नातः पैलिपिलेंऽभसि ।।

तत्र संध्यामुपास्यैकां राजसूयफलं लभेत् ।। ७४ ।।

पादोदकाख्यस्तत्रैव कूपः पापविनाशकः ।।

प्राश्य तस्योदकं मर्त्यो न मर्त्यो जायते पुनः ।।७५ ।।

तस्य लिंगस्य पार्श्वे तु संति लिंगान्यनेकशः ।।

कैवल्यदानि तान्यत्र दर्शनात्स्पर्शनादपि।।७६।।

तत्र शांतनवं लिंगं गंगातीरे प्रतिष्ठितम् ।।

तद्दृष्ट्वा शांतिमाप्नोति नरः संसारतापितः ।।७७।।

तद्दक्षिणे महालिंगं मुने भीष्मेश संज्ञितम् ।।

कलिः कालश्च कामश्च बाधंते न तदीक्षणात् ।। ७८ ।।

तत्प्रतीच्यां महालिंगं द्रोणेश इति कीर्तितम् ।।

यल्लिंगपूजनाद्द्रोणो ज्योतीरूपं पुनर्दधौ ।। ७९ ।।

अश्वत्थामेश्वरं लिंगं तदग्रे चातिपुण्यदम् ।।

यदर्चनवशाद्द्रौणिर्न बिभेत्यपि कालतः ।। 4.2.75.८० ।।

द्रोणेशाद्वायु दिग्भागे वालखिल्येश्वरं परम् ।।

तल्लिंगं श्रद्धया दृष्ट्वा सर्वक्रतुफलं लभेत् ।। ८१ ।।

तद्वामे लिंगमालोक्य वाल्मीकेश्वरसंज्ञितम् ।।

तस्य संदर्शनादेव विशोको जायते नरः ।। ८२ ।।

अन्यच्चात्रैव यद्वृत्तं तद्ब्रवीमि घटोद्भव ।।

त्रिविष्टपस्य माहात्म्यं देव्यै देवेन भाषितम् ।। ८३ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे पंचसप्ततितमोऽध्यायः ।। ७५ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 76

।। स्कंद उवाच ।। ।।

शृणुष्व मैत्रावरुणे पुराकल्पे रथंतरे ।।

इतिहास इहासीद्यः पीठे विरजसंज्ञिते ।। १ ।।

त्रिलोचनस्य प्रासादे मणिमाणिक्यनिर्मिते ।।

नानाभंगि गवाक्षाढ्ये रत्नसानाविवायते ।। २ ।।

कदाचिदपि कल्पांते द्यो लोके भ्रंशति क्षये ।।

प्रोत्तंभनं स्तंभ इव दत्तो विश्वकृता स्वयम् ।। ३ ।।

मरुत्तरंगिताग्राभिः पताकाभिरितस्ततः ।।

सन्निवारयतीवेत्थमघौघान्विशतो मुने ।। ४ ।।

देदीप्यमान सौवर्ण कलशेन विराजिते ।।

पार्वणेन शशांकेन खेदादिव समाश्रिते ।। ५ ।।

तत्र पारावतद्वंद्वं वसेत्स्वैरं कृतालयम् ।।

प्रातःसायं च मध्याह्ने कुर्वन्नित्यं प्रदक्षिणम् ।। ६ ।।

उड्डीयमानं परितः पक्षवातेरितस्ततः ।।

रजःप्रासादसंलग्नं दूरीकुर्वद्दिनेदिने ।। ७ ।।

त्रिलोचनेति सततं नाम भक्तैरुदाहृतम् ।।

त्रिविष्टपेति च तथा तयोः कर्णातिथी भवेत् ।। ८ ।।

चतुर्विधानि वाद्यानि शंभुप्रीतिकराण्यलम् ।।

तयोः कर्णगुहां प्राप्य प्रतिशब्दं प्रतन्वते ।। ९ ।।

मंगलारार्तिकज्योतिस्त्रिसंध्यं पक्षिणोस्तयोः ।।

नेत्रांत निर्विशन्नित्यं भक्तचेष्टां प्रदर्शयेत् ।।4.2.76.१०।।

प्राणयात्रां विहायापि कदाचित्स्थिरमानसौ ।।

नोड्डीयवांछितं यातः पश्यंतौ कौतुकं खगौ ।। ११ ।।

तत्र भक्तजनाकीर्णं प्रासादं परितो मुने ।।

तंडुलादि चरंतौ तौ कुर्वाते च प्रदक्षिणम् ।। १२ ।।

देवदक्षिणदिग्भागे चतुःस्रोतस्विनी जलम् ।।

तृषार्तौ धयतो विप्र स्नातौ जातु चिदंडजौ ।। १३ ।।

तयोरित्थं विचरतोस्त्रिलोचनसमीपतः ।।

अगाद्बहुतिथः कालो द्विजयोः साधुचेष्टयोः ।। १४ ।।

अथ देवालयस्कंधे गवाक्षांतर्गतौ च तौ ।।

श्येनेन केनचिद्दृष्टौ क्रूरदृष्ट्या सुखस्थितौ ।। १५ ।।

तच्च पारावतद्वंद्वं श्येनः परिजिघृक्षुकः ।।

अवतीर्यांबरादाशु प्रविष्टोन्यशिवालये ।। १६ ।।

ततो विलोकयामास तदागमविनिर्गमौ ।।

केन मार्गेण विशतो दुर्गमेतौ पतत्त्रिणौ ।। १७ ।।

केनाध्वना च निर्यातः क्व काले कुरुतश्च किम् ।।

कथं युगपदे तौ मे ग्राह्यौ स्वैरं भविष्यतः ।। १८ ।।

मध्ये दुर्गप्रविष्टौ च ममवश्याविमौ न यत् ।।

एकदृष्टिः क्षणं तस्थौ श्येन इत्थं विचिंतयन् ।। १९ ।।

अहो दुर्गबलं प्राज्ञाः शंसंत्येवेति हेतुतः ।।

दुर्बलोप्याकलयितुं सहसारिर्न शक्यते ।।4.2.76.२० ।।

करिणां तु सहस्रेण वराश्वानां न लक्षतः ।।

तत्कर्मसिद्धिर्नृपतेर्दुर्गेणैकेन यद्भवेत् ।। २१ ।।

दुर्गस्थो नाभिभूयेत विपक्षः केनचित्क्वचित् ।।

स्वतंत्रं यदि दुर्गं स्यादमर्मज्ञप्रकाशितम् ।। २२ ।।

इति दुर्गबलं शंसञ्श्येनो रोषारुणेक्षणः ।।

असाध्वसौ कलरवौ वीक्ष्य यातो नभोंगणम् ।। २३ ।।

अथ पारावतीदक्षा विपक्षं प्रेक्ष्य पक्षिणम् ।।

महाबलं दुर्गबला प्राह पारावतं पतिम् ।। २४ ।। ।।

कलरव्युवाच ।। ।।

प्रिय पारावत प्राज्ञ सर्वकामि सुखारव ।।

तव दृग्विषयं प्राप्तः श्येनोय प्रबलो रिपुः ।। २५ ।।

सावज्ञं वाक्यमाकर्ण्य पारावत्याः स तत्पतिः ।।

पारावतीमुवाचेदं का चिंतेति तव प्रिये ।। २६ ।।

।। पारावत उवाच ।। ।।

कति नाम न संतीह सुभगे व्योमचारिणः ।।

कति देवालयेष्वेषु खगा नोपविशंति हि ।। २७ ।।

कति चैव न पश्यंति नौ सुखस्थाविह प्रिये ।।

तेभ्यो यदीह भेतव्यं कुतो नौ तत्सुखं प्रिये ।। २८ ।।

रमस्व त्वं मया सार्धं त्यज चिंतामिमां शुभे ।।

अस्य श्येनवराकस्य गणनापि न मे हृदि ।। २९ ।।

इत्थं पारावतवचः श्रुत्वा पारावती ततः ।।

मौनमालंब्य संतस्थे पत्युः पादार्पितेक्षणा ।। 4.2.76.३० ।।

हितवर्त्मोपदिश्यापि प्रिय प्रियचिकीर्षया ।।

साध्व्या जोषं समास्थेयं कार्यं पत्युर्वचः सदा ।। ३१ ।।

अन्येद्युरप्यथायातः श्येनो पश्यत्स दंपती ।।

अपरिच्छिन्नया दृष्ट्या यथा मृत्युर्गतायुषम् ।। ३२ ।।

अथ मंडलगत्या स प्रासादं परितो भ्रमन् ।।

निरीक्ष्य तद्गतायातौ यातो गगनमार्गतः ।। ३३ ।।

गतेऽथ नभसि श्येने पुनः पारावतांगना ।।

प्रोवाच प्रेयसी नाथ दृष्टो दुष्टस्त्वयाऽहितः ।। ३४ ।।

तस्या वाक्यं समाकर्ण्य पुनः कलरवोब्रवीत् ।।

किं करिष्यत्यसौ मुग्धे मम व्योमविहारिणः ।। ३५ ।।

दुर्गं च स्वर्गतुल्यं मे यत्र नास्त्यरितो भयम् ।।

अयं न ता गतीर्वेत्ति या वेदाहं नभोंगणे ।। ३६ ।।

प्रडीनोड्डीन संडीन कांडव्याडकपाटिकाः ।।।

स्रंसनी मंडलवती गतयोष्टावुदाहृताः ।। ३७ ।।

यथैतास्विह कौशल्यं मयि पारावति प्रिये ।।

गतिषु क्वापि कस्यापि पक्षिणो न तथांबरे ।। ३८ ।।

सुखेन तिष्ठ का चिंता मयि जीवति ते प्रिये ।।

इति तद्वचनं श्रुत्वा सास्थिता मूकवत्सती ।। ३९ ।।

अपरेद्युरपि श्येनस्तत्र भारशिलातले ।।

कियदंतरमासाद्योपविष्टोऽतिप्रहृष्टवत् ।।4.2.76.४०।।

आयामं तत्र संस्थित्वा तत्कुलायं विलोक्य च ।।

पुनर्विनिर्गतः श्येनः सापि भीताब्रवीत्पुनः ।।४१।।

प्रियस्थानमिदं त्याज्यं दुष्टदृष्टिविदूषितम् ।।

असौ क्रूरोति निकटमुपविष्टोऽतिहृष्टवत् ।। ४२ ।।

सावज्ञं स पुनः प्राह किं करिष्यत्यसौ प्रिये ।।

मृगाक्षीणां स्वभावोयं प्रायशो भीरुवृत्तयः ।। ४३ ।।

इतरेद्युरपि प्राप्तः स च श्येनो महाबलः ।।

तयोरभिमुखं तत्र स्थितो याम द्वयावधि ।।४४।।

पुनर्विलोक्य तद्वर्त्म शीघ्रं यातो यथागतम्।।

गतेथ शकुनौ तस्मिन्सा बभाषे विहंगमी।। ।।४५।।

नाथ स्थानांतरं यावो मृत्युर्नौ निकटोत्र यत् ।।

पुनर्दुष्टे प्रणष्टेस्मिन्नावां स्यावः सुखं प्रिय ।।४६।।

प्रिय यस्य सपक्षस्य गतिः सर्वत्र सिद्धिदा ।।

स किं स्वदेशरागेण नाशं प्राप्नोति बुद्धिमान्।। ४७ ।।

सोपसर्गं निजं देशं त्यक्त्वा योन्यत्र न व्रजेत् ।।

स पंगुर्नाशमाप्नोति कूलस्थित इव द्रुमः ।। ४८ ।।

प्रियोदितं निशम्येति स भवित्री दशार्दितः ।।

सरीढं पुनरप्याह प्रिये मा भैः खगात्ततः ।। ४९ ।।

अथापरस्मिन्नहनि स श्येनः प्रातरेव हि ।।

तद्द्वारदेशमासाद्य सायं यावत्स्थितो बलः ।। 4.2.76.५० ।।

अस्ताचलस्य शिखरं याते भानौ गते खगे ।।

कुलायाद्बाह्यमागत्योवाच पारावती पतिम् ।। ५१ ।।

नाथ निर्गमनस्यायं कालः कालोऽतिदूरतः ।।

यावत्तावद्विनिर्याहि त्यक्त्वा मामपि सन्मते ।। ५२ ।।

त्वयि जीवति दुष्प्राप्यं न किंचिज्जगतीतले ।।

पुनर्दाराः पुनर्मित्रं पुनर्वसु पुनर्गृहम् ।। ।। ५३ ।।

यद्यात्मा रक्षितः पुंसा दारैरपि धनैरपि ।।

तदा सर्वं हरिश्चंद्रभूपेनेवेह लभ्यते ।। ५४ ।।

अयमात्मा प्रियो बंधुरयमात्मा महद्धनम् ।।

धमार्थकाममोक्षाणामयमात्मार्जकः परः ।। ५५ ।।

यावदात्मनि वै क्षेमं तावत्क्षेमं जगत्त्रये ।।

सोपि क्षेमः सुमतिना यशसा सह वांछ्यते ।। ५६ ।।

यशोहीनं तु यत्क्षेमं तत्क्षेमान्निधनं वरम् ।।

तद्यशः प्राप्यते पुंभिर्नीतिमार्गप्रवर्तने ।। ५७ ।।

अतो नीतिपथं श्रुत्वा नाथ स्थानादितो व्रज ।।

न गमिष्यसि चेत्प्रातस्ततो मे संस्मरिष्यसि ।। ५८ ।।

इत्युक्तोपि स वै पत्न्या पारावत्या सुमेधया ।।

न निर्ययौ प्रतिस्थानाद्भवित्र्या प्रतिवारितः ।। ५९ ।।

अथोषसि समागत्य श्येनेन बलिना तदा ।।

तन्निर्गमाध्वा संरुद्धः किंचिद्भक्ष्यवता मुने ।। 4.2.76.६० ।।

दिनानि कतिचित्तत्र स्थित्वा श्येनो महामतिः ।।

पारावतमुवाचेदं धिक्त्वां पौरुषवर्जितम् ।। ६१ ।।

किंवा युध्यस्व दुर्बुद्धे किंवा निर्याहि मे गिरा ।।

क्षुधाक्षीणो मृतः पश्चान्निरयं यास्यसि ध्रुवम्।। ६२ ।।

द्वौ भवंतावहं चैकश्चलौ जयपराजयौ !।

स्थानार्थं युध्यतः सत्त्वात्स्वर्गो वा दुर्गमेव वा ।। ६३ ।।

पुरुपार्थं समालंब्य ये यतंते महाधियः ।।

विधिरेव हि साहाय्यं कुर्यात्तत्सत्त्वचोदितः ।। ६४ ।।

इत्थं स श्येनसंप्रोक्तः पत्न्याप्युत्साहितः खगः ।।

अयुध्यत्तेन श्येनेन स्वदुर्गद्वारमाश्रितः ।। ६५ ।।

क्षुधितस्तृषितः सोथ श्येनेन बलिना धृतः ।।

चरणेन दृढेनाशु चंच्वा सापि धृता खगी।। ६६ ।।

तावादायोड्डयांचक्रे श्येनो व्योमनि सत्वरम् ।।

चिंतयद्भक्षणस्थानमन्यपक्षिविवर्जितम् ।। ६७ ।।

अथ पत्न्या कलरवः प्रोक्तस्तत्र सुमेधया ।।

वचोवमानितं नाथ त्वया मे स्त्रीति बुद्धितः ।। ६८ ।।

अतोऽवस्थामिमां प्राप्तः किं कुर्यामबलायतः ।।

अधुनापि वचश्चैकं करोषि यदि मे प्रिय ।। ६५ ।।

तदा हितं ते वक्ष्यामि कुरु चैवाविचारितम् ।।

ममैकवाक्यकरणात्स्त्रीजितो न भविप्यसि ।। 4.2.76.७० ।।

यावदास्यगतास्म्यस्य यावत्खस्थो न भूमिगः ।।

तावदात्मविमुक्त्यैवमरेः पादं दृढं दश ।।।७१।।।

इति पत्नीवचः श्रुत्वा तथा स कृतवान्खगः ।।

सपीडितो दृढं पादे श्येनश्चीत्कृतवान्बहु ।। ७२ ।।

तेन चीत्करणेनाथ मुक्ता सा मुखसंपुटात्।।

पादांगुलि श्लथत्वेन सोपि पारावतोऽपतत्।। ७३ ।।

विपद्यपि च न प्राज्ञैः संत्या ज्यः क्वचिदुद्यमः ।।

क्व चंचुपुटस्तस्य क्व च तत्पादपीडनम् ।।७४।।

क्व च द्वयोस्तथाभूता दरेर्मोक्षणमद्भुतम् ।।

दुर्बलेप्युद्यमवति फलं भाग्यं यतोऽर्पयेत् ।। ।। ७५ ।।

तस्माद्भाग्यानुसारेण फलत्येव सदोद्यमः ।।

प्रशंसंत्युद्यमं चातो विपद्यपि मनीषिणः ।। ७६ ।।

अथ तौ कालयोगेन विपन्नौ सरयूतटे ।।

मुक्तिपुर्यामयोध्यायामेको विद्याधरोऽभवत् ।। ७७ ।।

मृतानां यत्र जंतूनां काशीप्राप्तिर्भवेद्ध्रुवम् ।।

मंदारदामतनयो नाम्ना परिमलालयः ।। ७८ ।।

अनेकविद्यानिलयः कलाकौशलभाजनम्।।

कौमारं वय आसाद्य शिवभक्तिपरोभवत् ।। ७९ ।।

नियमं चातिजग्राह विजितेंद्रियमानसः ।।

एकपत्नीव्रतं नित्यं चरिष्यामीति निश्चितम्।। 4.2.76.८० ।।

परयोषित्समासक्तिरायुः कीर्ति बलं सुखम् ।।

हरेत्स्वर्ग गतिं चापि तस्मात्तां वर्जयेत्सुधीः ।। ८१ ।।

अपरं चापि नियमं स शुचिष्मान्समाददे ।।

गतजन्मांतराभ्यासात्त्रिलोचनसमाश्रयात् ।। ८२ ।।

समस्तपुण्यनिलयं समस्तार्थप्रकाशकम् ।।

समस्तकामजनकं परानंदैककारणम् ।। ।। ८३ ।।

यावच्छरीरमरुजं यावन्नेंद्रियविप्लवः ।।

तावत्त्रिलोचनं काश्यामनर्च्याश्नामि नाण्वपि ।।८४।।

इत्थं मांदारदामिः स नित्यं परिमलालयः ।।

काश्यां त्रिविष्टपं द्रष्टुं समागच्छेत्प्रयत्नवान् ।। ८५ ।।

पारावत्यपि सा जाता रत्नदीपस्य मंदिरे ।।

नागराजस्य पाताले नाम्ना रत्नावलीति च ।। ८६ ।।

समस्तनागकन्यानां रूपशीलकलागुणैः ।।

एकैव रत्नभूतासीद्रत्नदीपोरगात्मजा ।। ८७ ।।

तस्या सखीद्वयं चासीदेका नाम्ना प्रभावती ।।

कलावती तथान्या च नित्यं तदनुगे उभे ।। ८८।।

स्वदेहादनपायिन्यौ छायाकांती यथा तया ।।

ते द्वे सख्यावभूतांहि रत्नावल्या घटोद्भव ।। ८९ ।।

सा तु बाल्ये व्यतिक्रांते किंचिदुद्रिन्नयौवना ।।

शिवभक्तं स्वपितरं दृष्ट्वा नियममग्रहीत् ।। 4.2.76.९० ।।

पितस्त्रिलोचनं काश्यामर्चयित्वा दिनेदिने ।।

आभ्यां सखीभ्यां सहिता मौनं त्यक्ष्यामि नान्यथा ।। ।। ९१ ।।

एवं नागकुमारी सा सखीद्वयसमन्विता ।।

त्रिलोचनं समभ्यर्च्य गृहानहरहोव्रजेत् ।। ९२ ।।

दिनेदिने सा प्रत्यग्रैः कुसुमैरिष्टगंधिभिः ।।

सुविचित्राणि माल्यानि परिगुंफ्यार्चयेद्विभुम् ।। ९३ ।।

तिस्रोपि गीतं गायंति लसद्गांधारसुंदरम् ।।

रासमंडलभेदेन लास्यं तिस्रोपि कुर्वते ।। ९४ ।।

वीणावेणुमृदंगांश्च लयतालविचक्षणाः ।।

वादयंति मुदा युक्तास्तिस्रोपीश्वरसन्निधौ ।।९५।।

इत्थमाराधयंतीशं तिस्रो नागकुमारिकाः ।।

विचित्रगंधमालाभिः संमार्जनविलेपनैः ।। ९६ ।।

एकदा माधवे मासि तृतीयायामुपोषिताः ।।

रात्रौ जागरणं कृत्वा नृत्यगीतकथादिभिः ।। ९७ ।।

प्रातश्चतुर्थीं स्नात्वाथ तीर्थं पैलिपिले शुभे ।।

त्रिलोचनं समर्च्याथ प्रसुप्ता रंगमंडपे ।। ९८ ।।

सुप्तासु तासु बालासु त्रिनेत्रः शशिभूषणः ।।

शुद्धकर्पूरगौरांगो जटामुकुटमंडलः ।। ९९ ।।

तमालनीलसुग्रीवः स्फुरत्फणिविभूषणः ।।

वामार्धविलसच्छक्तिर्नागयज्ञोपवीतवान् ।।।4.2.76.१००।।

तस्मादेव विनिष्क्रम्य लिंगात्पन्नगमेखलात् ।।

उवाच च ततो बाला विभुरुत्तिष्ठतेति सः ।। १ ।।

उत्थाय ता विनिर्मार्ज्य लोचने श्रुतिसंगते ।।

अंगमोटनवत्यश्च जृंभाभिः क्वणिताननाः ।। २ ।।

यावत्पश्यंति पुरतः संभ्रमापन्नमानसाः ।।

अतर्कितागमस्तावत्ताभिर्दृष्टस्त्रिलोचनः ।।३।।

ववंदुरथ ता बाला ज्ञात्वा लक्ष्मभिरीश्वरम् ।।

तुष्ट्वुश्च प्रहृष्टास्याः सन्नकंठ्योतिगद्गदम्।। ।। ४ ।।

जयशंभो जयेशान जय सर्वग सर्वद ।।

जय त्रिपुरसंहर्तर्जयांधकनिषूदन ।। ५ ।।

जय जालंधरहर जय कंदर्पदर्पहृत् ।।

जय त्रैलोक्यजनक जय त्रैलोक्यवर्धन ।। ६ ।।

जय त्रैलोक्यनिलय जय त्रैलोक्यवंदित ।।

जय भक्तजनाधीन जय प्रमथनायक ।। ७ ।।

जय त्रिपथगापाथः प्रक्षालितजटातट ।।

जय चंद्रकलाज्योतिर्विद्योतितजगत्त्रय ।। ८ ।।

जय सर्पफणारत्न प्रभाभासितविग्रह ।।

जयाद्रिराजतनया तपःक्रीतार्धदेहक ।। ९ ।।

जय श्मशाननिलय जय वाराणसीप्रिय ।।

जयानंदवनाध्यासि प्राणिनिर्वाणदायक ।। 4.2.76.११० ।।

जय विश्वपते शर्व शर्वरीपरिवर्जित ।।

जय नृत्यप्रियेशोग्र जय गीतविशारद ।। ११ ।।

जय प्रणवसद्वास जय धाम महानिधे ।।

जय शूलिन्विरूपाक्ष जय प्रणतसर्वद ।। १२ ।।

विधिः सर्वविधिज्ञोपि न त्वां स्तोतुं विचक्षणः ।।

वाचो वाचस्पतेर्नाथ त्वत्स्तुतौ परिकुंठिताः ।। १३ ।।

विदंति वेदाः सर्वज्ञ न त्वां नाथ यथार्थतः ।।

मनतीह मनो न त्वामनंतं चादिवर्जितम् ।। १४ ।।

नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ।।

त्रिलोचन नमस्तुभ्यं त्रिविष्टप नमोस्तु ते ।। १५ ।।

इत्युक्त्वा दंडवद्भूमौ प्रणिपेतुः कुमारिकाः ।।

अथोत्थाप्य कुमारीस्ताः प्रोवाच शशिभूषणः ।। १६।।

सुतो मंदारदाम्नश्च नाम्ना परिमलालयः ।।

पतिर्विद्याधरवरो भवतीनां भविष्यति ।। १७ ।।

चिरं विद्याधरे लोके भोगान्भुक्त्वा समंततः ।।

ततो निर्वेदमापन्नाः काशीसिद्धिमवाप्स्यथ ।। ।। १८ ।।

यूयं तिस्रोपि मे भक्ताः स च विद्याधरो युवा ।।

चत्वारोप्येत एवात्र प्रतिमोक्षमवाप्स्यथ ।। १९ ।।

जन्मांतरेपि मे सेवा भवतीभिश्च तेन च ।।

विहिता तेन वो जन्म निर्मलं भक्तिभावितम् ।। 4.2.76.१२० ।।

एतच्च भवती स्तोत्रं यः पठिष्यति मे पुरः ।।

तस्य कामं प्रदास्यामि भवतीनामिव स्फुटम् ।। २१ ।।

त्यजेत्क्षपाकृतं पापं शुचिः प्रातः पठन्नरः ।।

दिवाकृतमलं हंति सायं पठनतः स्फुटम् ।।२२।।

इत्युक्तवति देवेशे ताः कन्या हृष्टमानसाः ।।

प्रणम्य प्रोचुरीशानं प्रबद्धकरसंपुटाः ।। ।। २३ ।।

नागकन्या ऊचुः ।। ।।

पृच्छामो ब्रूहि नो नाथ करुणाकर शंकर ।।

जन्मांतरे कथं सेवा चतुर्भिर्भवतः कृता ।। २४ ।।

भवप्राग्भव वृत्तांतं तस्यापि सुकृतात्मनः ।।

अस्माकमपि चाख्याहि कृपां कुरु कृपानिधे ।।२५।।

इति श्रुत्वा प्रणयतो बालोदीरितमीशिता ।।

प्रोवाच तासां तस्यापि भवांतरविचेष्टितम् ।। ।। २६ ।।

।। ईश्वर उवाव ।। ।।

शृणुध्वं नागतनयास्तिस्रोपि हि समाहिताः ।।

प्राग्भवे भवतीनां च तस्यापि कथयाम्यहम् ।। ९७ ।।

एषा रत्नावली पूर्वमासीत्पारावती खगी ।।

स च विद्याधरवरः पतिरस्याः खगोभवत् ।। २८ ।।

प्रासादेत्र ममैताभ्यामुषितं सुचिरं सुखम्।।

रजःप्रासादसंलग्नं नुन्नं पक्षानिलैः पुनः ।। २९ ।।

उपरिष्टादधस्ताच्च कृता बह्व्यः प्रदक्षिणाः ।।

व्योम्ना संचरमाणाभ्यां संचरद्भ्यां ममाजिरे ।। 4.2.76.१३० ।।

स्नातं चतुर्नदे तीर्थे पीतं तत्रांबु चासकृत् ।।

आभ्यां कलरवाभ्यां च कृतः कलरवो मुदे ।। ३१ ।।

एताभ्यां स्थिरचेतोभ्यां मुदिताभ्यामतीव हि ।।

दृष्टानि कौतुकान्यत्र मम भक्तैः कृतानि वै ।।३२।।

अमूभ्यां बहुशो दृष्टा मम मंगलदीपिकाः ।।

पीतं श्रुतिपुटाभ्यां च मम नामाक्षरामृतम् ।। ३३ ।।

तिर्यग्योनिप्रभावेन न मृतौ मम सन्निधौ ।।

मृतं पुर्यामयोध्यायां काशीप्राप्तिकृति ध्रुवम् ।। ३४ ।।

अयोध्यानिधनादेषा रत्नदीपसुताभवत् ।।

पतिः पारावतोऽस्याः स जातो विद्याधरांगजः ।।३५।।

एषा प्रभावती नागी नागराजस्य पद्मिनः ।।

इह जन्मनि कन्यासीत्पूर्वं जन्म ब्रवीमि वः ।।३६।।

त्रिशिखस्योरगेंद्रस्य सुता चेयं कलावती ।।

एतस्या अपि वृत्तांतं निशामयत वच्म्यहम्।। ३७ ।।

भवांतरे तृतीयेऽतः कन्ये चारायणस्य ह ।।

आस्तां महर्षेः शीलाढ्ये प्रेमवत्यौ परस्परम् ।।३८।।

पित्रा चारायणेनापि ताभ्यां संप्रेरितेन ते ।।

आमुष्यायण पुत्राय दत्ते नारायणाय हि ।।३९।।

अप्राप्तयौवनः सोथ समिदाहरणाय वै ।।

गतो विधिवशाद्दष्टो दंदशूकेन कानने ।।4.2.76.१४०।।

भवानीगौतमी नाम्न्यो ते तु चारायणांगजे ।।

वैधव्य दुःखमापन्ने दैन्यग्रस्ते बभूवतुः ।। ४१ ।।

अतएव प्रयत्नेन परिणेता विवर्जयेत् ।।

देवतासरिदाह्वानां कन्या पाणिग्रहे सुधीः ।। ४२ ।।

अथर्षेः कस्यचिद्दैवादाश्रमे परमाद्भुते ।।

रंभाफलान्यदत्तानि मोहाज्जगृहतुस्तदा ।।४३।।

कृत्वा मासोपवासादि व्रतानि ब्राह्मणांगजे ।।

अवाप्य निधनं कालाच्छाखामृग्यौ बभूवतुः ।। ४४ ।।

फलचौर्यविपाकेन वानरीत्वं तयोरभूत् ।।

शीलरक्षणधर्मेण काश्यां जनिमवापतुः ।।४५।।

स च नारायणो विप्रः पितृशुश्रूषणव्रतः।।

दष्टोपि दंदशूकेन काश्यां पारावतोभवत् ।। ४६ ।।

एवं भवांतरेचासीदेतयोः पतिरेष कः ।।

तिसृणां भवतीनां च भावी भर्ताधुनापि हि ।। ४७ ।।

प्रासादस्यास्य पार्श्वे तु न्यग्रोधस्तु महानभूत् ।।

तस्मिञ्शाखिनि शाखाढ्ये शाखामृग्यौ बभूवतुः ।। ४८ ।।

चतुःस्रोतस्विनी तीर्थे क्रीडया च ममज्जतुः ।।

पपतुश्चापि पानीयं तस्मिंस्तीर्थं तृषातुरे ।। ४९ ।।

जातिस्वभावचापल्यात्क्रीडंत्यौ च प्रदक्षिणम् ।।

चक्रतुर्बहुकृत्वश्च लिंगं ददृशतुर्बहु ।। 4.2.76.१५० ।।

विचरंत्याविति स्वैरं तत्र न्यग्रोध सन्निधौ ।।

केनचिद्योगिवेषेण पाशेन च नियंत्रिते ।। ५१ ।।

भिक्षार्थं शिक्षिते तेन तदुत्प्लुत्यादि नर्तनम्।।

अथ ते क्वापि मर्कट्यौ कालधर्मवशंगते।। ।। ५२ ।।

काशीवासज पुण्येन त्रैलोचन्यानुसेवया ।।

प्रादक्षिण्यादिरूपिण्या जाते नागसुते इति ।।५३।।

अधुना तं पतिं प्राप्य विद्याधरकुमारकम् ।।

निर्विश्य स्वर्गभोगांश्च काश्यां निर्वृतिमेष्यथ ।। ५४ ।।

यदल्पमपि वै काश्यां कृतं कर्म शुभावहम् ।।

तस्य मोक्षः परीपाको निश्चितं मदनुग्रहात् ।।५५।।

त्रिलोक्या अपि सर्वस्याः श्रेष्ठा वाराणसी पुरी ।।

ततोपि लिंगमोंकारं ततोप्यत्र त्रिलोचनम् ।।५६।।

तिष्ठमानोत्र लिंगेहं भक्तमुक्तिं दिशाम्यहम् ।।

ततः सर्वप्रयत्नेन काश्यां पूज्यस्त्रिलोचनः ।। ५७ ।।

इत्युक्त्वा देवदेवेशस्तत्प्रासादांतरं विशत् ।।

अवाच्यरूपमासाद्य स्थूलं त्रिभुवनादपि ।। ५८ ।।

ताश्च स्वं स्वं पदं प्राप्य तद्वृत्तांतमशेषतः ।।

स्वमातृपुरतश्चोक्त्वा कृतकृत्या इवाभवन्।।५९।।

एकदा माधवे मासि महायात्रा समागता ।।

विद्याधरास्तथा नागा मिलिताः सपरिच्छदाः ।।4.2.76.१६०।।

विरजस्के महाक्षेत्रे त्रिलोचनसमीपतः ।।

देवस्य वरदानाच्च पृष्ट्वान्योन्यं कुलावलीम् ।।६१।।

विद्याधराय ता नागैः कन्यास्तिस्रोपि कल्पिताः ।।

मंदारदामा संतुष्टः प्राप्य तच्च स्नुषात्रयम्।। ६२ ।।

रत्नदीपश्च नागेंद्रः पद्मी च भुजगेश्वरः ।।

त्रिशिखोपि फणींद्रश्च हृष्टा एते त्रयोपि च ।। ६३ ।।

जामातरं समासाद्य शुभं परिमलालयम् ।।

अन्योन्यं स्वजनास्ते तु मुदा विकसितेक्षणाः ।। ६४ ।।

विवाहोत्सव माकल्प्य स्वं स्वं भुवनमाविशन् ।।

त्रिलोचनस्य लिंगस्य वर्णयंतोतिगौरवम् ।। ६५ ।।

स च विद्याधरः श्रीमान्नागीभिर्विपुलं सुखम् ।।

भुक्त्वा वाराणसीं प्राप्य संसेव्याथ त्रिलोचनम् ।। ६६ ।।

गायन्गीतं सुमधुरं नागीभिः सहितः कृती ।।

आत्मानं चातिसंस्मृत्य मध्ये लिंगं लयं गतः ।। ६७ ।।

।। स्कंद उवाच ।। ।।

त्रिलोचनस्य महिमा कलौ देवेन गोपितः ।।

अतोल्पसत्त्वा मनुजा न तल्लिंगमुपासते ।। ६८ ।।

त्रिलोचनकथामेतां श्रुत्वा पापान्वितोप्यहो ।।

विपाप्मा जायते मर्त्यो लभते च परां गतिम् ।। १६९ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे त्रिलोचनप्रभावोनाम षट्सप्ततितमोऽध्यायः ।। ७६ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 77

।। पार्वत्युवाच ।। ।।

नमस्ते देवदेवेश प्रणमत्करुणानिधे ।।

वद केदारमाहात्म्यं भक्तानामनुकंपया ।।१।।

तस्मिँल्लिंगे महाप्रीतिस्तव काश्यामनुत्तमा ।।

तद्भक्ताश्च जना नित्यं देवदेवमहाधियः ।। २ ।।

।। देवदेव उवाच ।। ।।

शृण्वपर्णेभिधास्यामि केदारेश्वर संकथाम् ।।

समाकर्ण्यापि यां पापोप्यपापो जायते क्षणात् ।। ३ ।।

केदारं यातुकामस्य पुंसो निश्चितचेतसः ।।

आजन्मसंचितं पापं तत्क्षणादेव नश्यति ।। ४ ।।

गृहाद्विनिर्गते पुंसि केदारमभिनिश्चितम् ।। जन्मद्वयार्जितं पापं शरीरादपि निर्व्रजेत् ।। ५ ।।

मध्ये मार्गं प्रपन्नस्य त्रिजन्मजनितं त्वघम् ।।

देहगेहाद्विनिःसृत्य निराशं याति निःश्वसत् ।। ६ ।।

सायंकेदारकेदारकेदारेति त्रिरुच्चरन्।।

गृहेपि निवसन्नूनं यात्राफलमवाप्नुयात् ।। ७ ।।

दृष्ट्वा केदारशिखरं पीत्वा तत्रत्यमंबु च ।।

सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ।।८।।

हरपापह्रदे स्नात्वा केदारेशं प्रपूज्य च ।।

कोटिजन्मार्जितैनोभिर्मुच्यते नात्र संशयः ।।९।।

सकृत्प्रणम्य केदारं हरपापकृतोदकः ।।

स्थाप्य लिंगं हृदंभोजे प्रांते मोक्षं गमिष्यति।।4.2.77.१०।।

हरपापह्रदे श्राद्धं श्रद्धया यः करिष्यति ।।

उद्धृत्य सप्तपुरुषान्स मे लोकं गमिष्यति ।। ११ ।।

पुरा राथंतरे कल्पे यदभूदत्र तच्छृणु ।।

अपर्णे दत्तकर्णा त्वं वर्णयामि तवाग्रतः ।।१२।।

एको ब्राह्मणदायाद उज्जयिन्या इहागतः ।।

कृतोपनयनः पित्रा ब्रह्मचर्यव्रतेस्थितः ।।१३।।

स्थलीं पाशुपतीं काशीं स विलोक्य समंततः।।

द्विजैः पाशुपतैः कीर्णां जटामुकुटभूषितैः ।। १४ ।।

कृतलिंगसमर्चैश्च भूतिभूषितवर्ष्मभिः ।।

भिक्षाहृतान्नसंतुष्टैः पुष्टैर्गंगामृतोदकैः ।। १५ ।।

बभूवानंदितमना व्रतं जग्राह चोत्तमम्।।

हिरण्यगर्भादाचार्यान्महत्पाशुपताभिधम् ।। १६ ।।

स च शिष्यो वशिष्ठोभूत्सर्वपाशुपतोत्तमः ।।

स्नात्वा ह्रदे हरपापे नित्यप्रातः समुत्थितः ।।१७।।

विभूत्याहरहः स्नाति त्रिकालं लिंगमर्चयन् ।।

नांतरं स विजानाति शिवलिंगे गुरौ तथा ।।१८।।

स द्वादशाब्ददेशीयो वशिष्ठो गुरुणा सह ।।

ययौ केदारयात्रार्थं गिरिं गौरीगुरोर्गुरुम् ।।१९।।

यत्र गत्वा न शोचंति किंचित्संसारिणः क्वचित ।।

प्राश्योदकं लिंगरूपं लिंगरूपत्वमागताः ।।4.2.77.२०।।

असिधारं गिरिं प्राप्य वशिष्ठस्य तपस्विनः ।।

गुरुर्हिरण्यगर्भाख्यः पंचत्वमगमत्तदा ।। २१ ।।

पश्यतां तापसानां च विमाने सार्वकामिके ।।

आरोप्य तं पारिषदाः कैलासमनयन्मुदा ।। २२ ।।

यस्तु केदारमुद्दिश्य गेहादर्धपथेप्यहो ।।

अकातरस्त्यजेत्प्राणान्कैलासे स चिरं वसेत् ।। २३ ।।

तदाश्चर्यं समालोक्य स वशिष्ठस्तपोधनः ।।

केदारमेव लिंगेषु बह्वमंस्त सुनिश्चितम् ।। २४।।

अथ कृत्वा स कैदारीं यात्रां वाराणसीमगात् ।।

अग्रहीन्नियमं चापि यथार्थं चाकरोत्पुनः ।। ।। २५ ।।

प्रति चैत्रं सदा चैत्र्यां यावज्जीवमहं ध्रुवम् ।।

विलोकयिष्ये केदारं वसन्वाराणसीं पुरीम् ।। २६ ।।

तेन यात्राः कृताः सम्यक् षष्टिरेकाधिका मुदा ।।

आनंदकानने नित्यं वसता ब्रह्मचारिणा ।। २७ ।।

पुनर्यात्रां स वै चक्रे मधौ निकटवर्तिनि ।।

परमोत्साहसंतुष्टः पलिता कलितोप्यलम्।। २८ ।।

तपोधनैस्तन्निधनं शंकमानैर्निवारितः ।।

कारुण्यपूर्णहृदयैरन्यैरपि च संगिभिः ।। २९ ।।

ततोपि न तदुत्साहभंगोभूद्दृढचेतसः ।।

मध्ये मार्गं मृतस्यापि गुरोरिव गतिर्मम ।। 4.2.77.३० ।।

इति निश्चितचेतस्के वशिष्ठे तापसे शुचौ ।।

अशूद्रान्न परीपुष्टे तुष्टोहं चंडिकेऽभवम् ।। ३१ ।।

स्वप्रेमया स संप्रोक्तो वशिष्ठस्तापसोत्तमः ।।

दृढव्रत प्रसन्नोस्मि केदारं विद्धि मामिह ।। ३२ ।।

अभीष्टं च वरं मत्तः प्रार्थयस्वाविचारितम् ।।

इत्युक्तवत्यपि मयि स्वप्नो मिथ्येति सोब्रवीत्।। ३३ ।।

ततोपि स मया प्रोक्तः स्वप्नो मिथ्याऽशुचिष्मताम् ।।

भवादृशाममिथ्यैव स्वाख्या सदृशवर्तिनाम् ।। ३४ ।।

वरं ब्रूहि प्रसन्नोस्मि स्वप्नशंकां त्यज द्विज ।।

तव सत्त्ववतः किंचिन्मयादेयं न किंचन ।। ३५ ।।

इत्युक्तं मे समाकर्ण्य वरयामास मामिति ।।

शिष्यो हिरण्यगर्भस्य तपस्विजनसत्तमः ।। ३६ ।।

यदि प्रसन्नो देवेश तदा मे सानुगा इमे ।।

सर्वे शूलिन्नुग्राह्या एष एव वरो मम ।। ३७ ।।

देवि तस्येदमाकर्ण्य परोपकृतिशालिनः ।।

वचनं नितरां प्रीतस्तथेति तमुवाच ह ।। ३८ ।।

पुनः परोपकरणात्तत्तपो द्विगुणीकृतम् ।।

तेन पुण्येन स मया पुनः प्रोक्तो वरं वृणु ।। ३९ ।।

स वशिष्ठो महाप्राज्ञो दृढ पाशुपतव्रतः ।।

देवि मे प्रार्थयामास हिमशैलादिह स्थितिम् ।। 4.2.77.४० ।।

ततस्तत्तपसाकृष्टः कलामात्रेण तत्र हि ।।

हिमशैले ततश्चात्र सर्वभावेन संस्थितः ।। ४१ ।।

ततः प्रभाते संजाते सर्वेषां पश्यतामहम् ।।

हिमाद्रे प्रस्थितः प्राप्तस्तूयमानः सुरर्षिभिः ।।४२।।

वशिष्ठं पुरतः कृत्वा सर्वसार्थसमायुतम् ।।

हरपापह्रदे तीर्थे स्थितोहं तद्नुग्रहात् ।। ४३ ।।

मत्परिग्रहतः सर्वे हरपापे कृतोदकाः ।।

आराध्य मामनेनैव वपुषा सिद्धिमागताः ।। ४४ ।।

तदा प्रभृति लिंगेस्मिन्स्थितः साधकसिद्धये ।।

अविमुक्ते परे क्षेत्रे कलिकाले विशेषतः ।। ४५।।

तुषाराद्रिं समारुह्य केदारं वीक्ष्य यत्फलम् ।।

तत्फलं सप्तगुणितं काश्यां केदारदर्शने ।। ४६ ।।

गौरीकुंडं यथा तत्र हंसतीर्थं च निर्मलम् ।।

यथा मधुस्रवा गंगा काश्यां तदखिलं तथा ।। ४७ ।।

इदं तीर्थं हरपापं सप्तजन्माघनाशनम् ।।

गंगायां मिलितं पश्चाज्जन्मकोटिकृताघहम् ।। ४८ ।।

अत्र पूर्वं तु काकोलौ युध्यतौ खान्निपेततुः ।।

पश्यतां तत्र संस्थानां हंसौ भूत्वा विनिर्गतौ ।।४९।।

गौरि त्वया कृतं पूर्वं स्नानमत्र महाह्रदे ।।

गौरीतीर्थं ततः ख्यातं सर्वतीर्थोत्तमोत्तमम् ।। 4.2.77.५० ।।

अत्रामृतस्रवा गंगा महामोहांधकारहृत् ।।

अनेकजन्मजनित जाड्यध्वंसविधायिनी ।। ५१ ।।

सरसा मानसेनात्र पूर्वं तप्तं महातपः ।।

अतस्तु मानसं तीर्थं जने ख्यातिमिदं गतम् ।।५२।।

अत्र पूर्वं जनः स्नानमात्रेणैव प्रमुच्यते ।।

पश्चात्प्रसादितश्चाहं त्रिदशैर्मुक्तिदुर्दृशैः ।। ५३ ।।

सर्वे मुक्तिं गमिष्यंति यदि देवेह मानवाः ।।

केदारकुंडे सुस्नातास्तदोच्छित्तिर्भविष्यति ।। ५४ ।।

सर्वेषामेव वर्णानामाश्रमाणां च धर्मिणाम्।।

तस्मात्तनुविसर्गेत्र मोक्षं दास्यति नान्यथा ।। ५५ ।।

ततस्तदुपरोधेन तथेति च मयोदितम् ।।

तदारभ्य महादेवि स्नानात्केदारकुंडतः।।।। ५६ ।।

समर्चनाच्च भक्त्या वै मम नाम जपादपि ।।

नैःश्रेयसीं श्रियं दद्यामन्यत्रापि तनुत्यजाम ।। ५७ ।।

केदारतीर्थे यः स्नात्वा पिंडान्दास्यति चात्वरः ।।

एकोत्तरशतं वंश्यास्तस्य तीर्णा भवांबुधिम्।। ५८ ।।

भौमवारे यदा दर्शस्तदा यः श्राद्धदो नरः ।।

केदारकुंडमासाद्य गयाश्राद्धेन किं ततः ।। ५९ ।।

केदारं गंतुकामस्य बुद्धिर्देया नरैरियम् ।।

काश्यां स्पृशंस्त्वं केदारं कृतकृत्यो भविष्यसि ।। 4.2.77.६० ।।

चैत्रकृष्णचतुर्दश्यामुपवासं विधाय च ।।

त्रिगंडूषान्पिबन्प्रातर्हृल्लिंगमधितिष्ठति ।। ६१ ।।

केदारोदकपानेन यथा तत्र फलं भवेत् ।।

तथात्र जायते पुंसां स्त्रीणां चापि न संशयः ।। ६२ ।।

केदारभक्तं संपूज्य वासोन्नद्रविणादिभिः ।।

आजन्मजनितं पापं त्यक्त्वा याति ममालयम् ।। ।। ६३ ।।

आषण्मासं त्रिकालं यः केदारेशं नमस्यति ।।

तं नमस्यंति सततं लोकपाला यमादयः ।। ६४ ।।

कलौ केदारमाहात्म्यं योपि कोपि न वेत्स्यति ।।

यो वेत्स्यति सुपुण्यात्मा सर्वं वेत्स्यति स ध्रुवम् ।। ६५ ।।

केदारेशं सकृद्दृष्ट्वा देवि मेऽनुचरो भवेत् ।।

तस्मात्काश्यां प्रयत्नेन केदारेशं विलोकयेत् ।।६६।।

चित्रांगदेश्वरं लिंगं केदारादुत्तरे शुभम् ।।

तस्यार्चनान्नरो नित्यं स्वर्गभोगानुपाश्नुते ।। ६७ ।।

केदाराद्दक्षिणे भागे नीलकंठ विलोकनात् ।।

संसारोरगदष्टस्य तस्य नास्ति विषाद्भयम् ।। ६८ ।।

तद्वायव्यंबरीषेशो नरस्तदवलोकनात् ।।

गर्भवासं न चाप्नोति संसारे दुःखसंकुले ।।६९।।

इंद्रद्युम्नेश्वरं लिंगं तत्समीपे समर्च्य च ।।

तेजोमयेन यानेन स स्वर्ग भुवि मोदते ।। 4.2.77.७० ।।

तद्दक्षिणे नरो दृष्ट्वा लिंगं कालंजरेश्वरम् ।।

जरां कालं विनिर्जित्य मम लोके वसेच्चिरम् ।।७१।।

दृष्ट्वा क्षेमेश्वरं लिंगमुद्क्चित्रांगदेश्वरात् ।।

सर्वत्र क्षेममाप्नोति लोकेऽत्र च परत्र च ।।७२।।

।। स्कंद उवाच ।। ।।

देवदेवेन विंध्यारे केदार महिमा महान् ।।

इत्याख्यायि पुरांबायै मया तेपि निरूपितः ।। ७३ ।।

केदारेश्वरलिंगस्य श्रुत्वोत्पत्तिं कृती नरः ।।

शिवलोकमवाप्नोति निष्पापो जायते क्षणात् ।। ७४ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे केदारमहिमाख्यानं नाम सप्तसप्ततितमोऽध्यायः ।।७७।।

खण्डः ४ (काशीखण्डः) — Adhyāya 78

।। पार्वत्युवाच ।।

आनंदकानने शंभो यल्लिंगं पुण्यवर्धनम् ।।

यन्नामस्मरणादेव महापातकसंक्षयः ।। १ ।।

यत्सेव्यं साधकैर्नित्यं यत्र प्रीतिरनुत्तमा ।।

यत्र दत्तं हुतं जप्तं ध्यातं भवति चाक्षयम् ।। २ ।।

यस्य संस्मरणादेव यल्लिंगस्य विलोकनात् ।।

यल्लिंगप्रणतेश्चापि यस्य संस्पर्शनादपि ।। ३ ।।

पंचामृतादि स्नपनपूर्वाद्यस्यार्चनादपि ।।

तल्लिंगं कथयेशान भवेच्छ्रेयः परंपरा ।।४।।

।। स्कंद उवाच ।। ।।

इति देवीसमुदितं समाकर्ण्य वटोद्भव ।।

सर्वज्ञेन यदाख्यातं तदाख्यास्यामि ते शृणु ।। ९ ।।

देवदेव उवाच ।। ।।

उमे भवत्या यत्पृष्टं भवबंधविमोक्षकृत् ।।

ततोऽहं कथयिष्यामि लिंगं स्थिरमना भव ।। ६ ।।

आनंदकानने चात्र रहस्यं परमं मम ।।

न मया कस्यचित्ख्यातं न प्रष्टुं वेत्ति कश्चन ।।७।।

संति लिंगान्यनेकानि ममानंदवने प्रिये।।

परं त्वया यथा पृष्टं यथावत्तद्ब्रवीमि ते ।। ८ ।।

यत्र मुक्तिस्वरूपा त्वं स्वयं तिष्ठसि विश्वगे ।।

यत्र ते नंदनश्चास्ति क्षेत्रं विघ्नविघातकृत् ।। ९ ।।

ममापि येन त्रिपुरं समरे जयकांक्षिणः ।।

जयाशा पूरिता स्तुत्या बहुमोदकदानतः ।। 4.2.78.१० ।।

यत्रास्ति तीर्थमघहृत्पितृप्रीतिविवर्धनम् ।।

यत्स्नानाद्वृत्रहा वृत्रवधपापाद्विमुक्तवान् ।। ११ ।।

धर्माधिकरणं यत्र धर्मराजोप्यवाप्तवान् ।।

सुदुष्करं तपस्तप्त्वा परमेण समाधिना ।। १२ ।।

पक्षिणोपि हि यत्रापुर्ज्ञानं संसारमोचनम् ।।

रम्यो हिरण्मयो यत्र बभूव बहुपाद्द्रुमः ।। ।। १३ ।।

यल्लिंगदर्शनादेव दुर्दमो नाम पार्थिवः ।।

उद्वेजकोपि लोकानां क्षणाद्धर्ममतिस्त्वभूत् ।। १४ ।।

तस्य लिंगस्य माहात्म्यमाविर्भावं च सुंदरि ।।

निशामयाभिधास्यामि महापातक नाशनम् ।। १५ ।।

धर्मपीठं तदुद्दिष्टमत्रानंदवने मम ।।

तत्पीठदर्शनादेव नरः पापैः प्रमुच्यते ।। १६ ।।

पुरा विवस्वतः पुत्रो यमः परमसंयमी ।।

तपस्तताप विपुलं विशालाक्षि तवाग्रतः ।। १७ ।।

शिशिरे जलमध्यस्थो वर्षास्वभ्रावकाशकः ।।

तपर्तौ पंचवह्निस्थः कदाचिदिति तप्तवान् ।। १८ ।।

पादाग्रांगुष्ठभूस्पर्शी बहुकालं स तस्थिवान् ।।

एकपादस्थितः सोपि कदाचिद्बह्वनेहसम् ।। १९ ।।

समीराभ्यवहर्तासीद्बहुदिष्टं सदिष्टवान् ।।

पपौ स तु पिपासुः सन्कुशाग्रजलविप्रुषः ।। 4.2.78.२० ।।

दिव्यां चतुर्युगीमित्थं स निनाय तपश्चरन् ।।

चतुर्गुणं दिदृक्षुर्मां परमेण समाधिना ।। २१ ।।

ततोहं तस्य तपसा संतुष्टः स्थिरचेतसः ।।

ययौ तस्मै वरान्दातुं शमनाय महात्मने ।।२२।।

वटः कांचनशाखाख्यो यस्तपस्तापसंततिम् ।।

दूरीचकार सुच्छायो बहुद्विजसमाश्रयः ।। २३ ।।

मंदमद मरुल्लोल पल्लवैः करपल्लवैः ।।

योध्वगानध्वसंतप्तानाह्वये दिवतापहृत् ।। २४ ।।

स्वानुरागैः सुरभिभिः स्वादुभिश्च पचेलिमैः ।।

प्रीणयेदर्थिसार्थं यो वृत्तैर्निजफलैरलम् ।।२५।।

तदधस्तात्परं वीक्ष्य तमहं तपनांगजम् ।।

स्थाणुनिश्चल वर्ष्माणं नासाग्रन्यस्तलोचनम् ।। २६ ।।

तपस्तेजोभिरुद्यद्भिः परितः परिधीकृतम् ।।

भानुमंतमिवाकाशे सुनीले स्वेन तेजसा ।। २७ ।।

स्वाख्यांकितं महालिंगं प्रतिष्ठाप्यातिभक्तितः ।।

स्वच्छ सूर्योपलमयतेजः पुंजैरिवार्चितम् ।। २८ ।।

साक्षीकृत्येव तल्लिंगं तप्यमानं महत्तपः ।।

प्रत्यवोचं धर्मराजं वरं ब्रूहीति भास्करे ।। २९ ।।

अलं तप्त्वा महाभाग प्रसन्नोस्मि शुभव्रत ।।

निशम्य शमनश्चेति दृष्ट्वा मां प्रणनाम ह ।। 4.2.78.३० ।।

चकार स्तवनं चापि परिहृष्टेंद्रियेश्वरः ।।

निर्व्याजं स समाधिं च विसृज्य ब्रध्ननंदनः ।। ३१ ।।

धर्म उवाच ।। ।।

नमोनमः कारणकारणानां नमोनमः कारणवर्जिताय ।।

नमोनमः कार्यमयाय तुभ्यं नमोनमः कार्यविभिन्नरूप ।। ३२ ।।

अरूपरूपाय समस्तरूपिणे पराणुरूपाय परापराय ।।

अपारपाराय पराब्धिपार प्रदाय तुभ्यं शशिमौलये नमः।। ।। ३३ ।।

अनीश्वरस्त्वं जगदीश्वरस्त्वं गुणात्मकस्त्वं गुणवर्जितस्त्वम् ।।

कालात्परस्त्वं प्रकृतेः परस्त्वं कालाय कालात्प्रकृते नमस्ते ।।३४ ।।

त्वमेव निर्वाणपद प्रदोसि त्वमेव निर्वाणमनंतशक्ते ।।

त्वमात्मरूपः परमात्मरूपस्त्वमंतरात्मासि चराचरस्य ।। ३५ ।।

त्वत्तो जगत्त्वं जगदेवसाक्षाज्जगत्त्वदीयं जगदेकबंधो ।।

हर्ताविता त्वं प्रथमो विधाता विधातृविष्ण्वीश नमो नमस्ते ।। ३६ ।।

मृडस्त्वमेव श्रुतिवर्त्मगेषु त्वमेव भीमोऽश्रुतिवर्त्मगेषु ।।

त्वं शंकरः सोमसुभक्तिभाजामुग्रोसि रुद्र त्वमभक्तिभाजाम् ।। ३७ ।।

त्वमेव शूली द्विषतां त्वमेव विनम्रचेतो वचसां शिवोसि ।।

श्रीकंठ एकः स्वपदश्रितानां दुरात्मनां हालहलोग्रकंठः ।। ३८ ।।

नमोस्तु ते शंकर शांतशंभो नमोस्तु ते चंद्रकलावतंस ।।

नमोस्तु तुभ्यं फणिभूषणाय पिनाकपाणेंऽधकवैरिणे नमः ।। ३९ ।।

स एव धन्यस्तव भक्तिभाग्यस्तवार्चको यः सुकृती स एव ।।

तवस्तुतिं यः कुरुते सदैव स स्तूयते दुश्च्यवनादि देवैः ।। 4.2.78.४० ।।

कस्त्वामिह स्तोतुमनंतशक्ते शक्नोति मादृग्लघुबुद्धिवैभवः ।।

प्राचां न वाचामिहगोचरो यः स्तुतिस्त्वयीयं नतिरेव यावत् ।। ४१ ।।

स्कंद उवाच।। ।।

उदीर्य सूर्यस्य सुतोतिभक्त्या नमः शिवायेति समुच्चरन्सः ।।

इलामिलन्मौलिरतीव हृष्टः सहस्रकृत्वः प्रणनाम शंभुम् ।।४२।।

ततः शिवस्तं तपसातिखिन्नं निवार्य ताभ्यः प्रणतिभ्य ईश्वरः ।।

वरान्ददौ सप्ततुरंगसूनवे त्वं धर्मराजो भव नामतोपि ।। ४३ ।।

त्वमेव धर्माधिकृतौ समस्त शरीरिणां स्थावरजंगमानाम् ।।

मया नियुक्तोद्य दिनादिकृत्यः प्रशाधि सर्वान्मम शासनेन ।।४४।।

त्वं दक्षिणायाश्च दिशोधिनाथस्त्वं कर्मसाक्षी भव सर्वजंतोः ।।

त्वद्दर्शिताध्वान इतो व्रजंतु स्वकर्मयोग्यां गतिमुत्तमाधमाः ।। ४५ ।।

त्वया यदेतन्ममभक्तिभाजा लिंगं समाराधितमत्र धर्म ।।

तद्दर्शनात्स्पर्शनतोऽर्चनाच्च सिद्धिर्भविष्यत्यचिरेण पुंसाम्।। ४६ ।।

धर्मेश्वरं यः सकृदेव मर्त्यो विलोकयिष्यत्यवदातबुद्धिः ।।

स्नात्वा पुरस्तेऽत्र च धर्मतीर्थे न तस्य दूरे पुरुषार्थसिद्धिः ।। ४७ ।।

कृत्वाप्यघानामिह यः सहस्रं धर्मेश्वरं पश्यति दैवयोगात्।।

सहेतनो जातु स नारकीं व्यथां कथां तदीयां दिविकुर्वतेमराः ।। ४८ ।।

यो धर्मपीठं प्रतिलभ्य काश्यां स्वश्रेयसे नो यततेऽत्र मर्त्यः ।।

कथं स धर्मत्वमिवातितेजाः करिष्यति स्वं कृतकृत्यमेव ।।

त्वया यथाप्ता इह धर्मराज मनोरथास्ते गुरुभिस्तपोभिः ।।

तथैव धर्मेश्वरभक्तिभाजां कामाः फलिष्यंति न संशयोत्र ।। 4.2.78.५० ।।

कृत्वाप्यघान्येव महांत्यपीह धर्मेश्वरार्चां सकृदेव कुर्वन् ।।

कुतो बिभेति प्रियबंधुरेव तव त्वदीयार्चित लिंगभक्तः ।। ५१ ।।

पत्रेण पुष्पेण जलेन दूर्वया यो धर्मधर्मेश्वरमर्चयिष्यति ।।

समर्चयिष्यंत्यमृतांधसस्तं मंदारमालाभिरतिप्रहृष्टाः ।। ५२ ।।

त्वत्तो विभेष्यंति कृतैनसो ये भयं न तेषां भविता कदाचित् ।।

धर्मेश्वरार्चा रचनां करिष्यतां हरिष्यतां बंधुतयामनस्ते ।। ५३ ।।

यदत्र दास्यंति हि धर्मपीठे नरा द्युनद्यां कृतमज्जनाश्च ।।

तदक्षयं भावि युगांतरेपि कृतप्रणामास्तव धर्मलिंगे ।। ५४ ।।

ये कार्तिके मासि सिताष्टमी तिथौ यात्रां करिष्यंति नरा उपोषिताः ।।

रात्रौ च वै जागरणं महोत्सवैर्धर्मेश्वरे तेन पुनर्भवा भुवि ।। ५५ ।।

स्तुतिं च ये वै त्वदुदीरितामिमां नराः पठिष्यंति तवाग्रतः क्वचित् ।।

निरेनसस्ते मम लोकगामिनः प्राप्स्यंति ते वैभवतः सखित्वम् ।। ५६ ।।

पुनर्वरं ब्रूहि यथेप्सितं ददे तेजोनिधेर्नंदन धर्मराज ।।

अदेयमत्रास्ति न किंचिदेव ते विधेहि वागुद्यममात्रमेव ।। ५७ ।।

प्रसन्नमूर्तिं स विलोक्य शंकरं कारुण्यपूर्णं स्वमनोरथाभिदम् ।।

आनंदसंदोहसरोनिमग्नो वक्तुं क्षणं नैव शशाक किंचित् ।। ५८ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे धर्मेशमहिमाख्यानं नामाष्टसप्ततितमोऽध्यायः ।। ७८ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 79

।। स्कंद उवाच ।।

आनंदबाष्पसलिलरुद्धकंठं विलोक्य तम्।।

मृडः पस्पर्श पाणिभ्यां सौधाभ्यां तु सुधांबुधिः ।। १ ।।

अथ तत्स्पर्शसौख्येन धर्मराजो महातपाः ।।

पुनरंकुरयामास तपोग्नि ज्वलितां तनुम् ।। २ ।।

ततः प्रोवाच स ब्राध्निर्देव देवमुमापतिम् ।।

प्रसन्नवदनं शांतं शांतपारिषदावृतम् ।। ३ ।।

प्रसन्नोसि यदीशान सर्वज्ञ करुणानिधे ।।

किमन्येन वरेणात्र यत्त्वं साक्षात्कृतो मया ।। ४ ।।

यं न वेदा विदुः सम्यङ्न च तौ वेदपूरुषौ ।।

ततोपि वरयोग्योस्मि तन्नाथ प्रार्थयाम्यहम् ।। ५ ।।

श्रीकंठांडज डिंभानाममीषां मधुरब्रुवाम् ।।

मत्तपश्चिरसाक्षीणां मत्पुरः प्राप्तजन्मनाम् ।। ६ ।।

पितृभ्यां परिहीनानामितिहास कथाविदाम् ।।

त्यक्ताहारविहाराणां कीराणां वरदो भव ।।७।।

एतत्प्रसूतिसमये आमयेन प्रपीडिता ।।

शुकी पंचत्वमापन्ना शुकः श्येनेन भक्षितः ।। ८ ।।

रक्षितानामनाथानां सदा मन्मुखदर्शिनाम् ।।

अनाथनाथ भवता ह्यायुःशेषस्वरूपिणा ।। ९ ।।

इति धर्मवचः श्रुत्वा परोपकृतिनिर्मलम् ।।

तानाहूय मुने शंभुर्विनयावनताननान् ।।4.2.79.१ ०।।

उवाच धर्मेति प्रीतः शुकशावानिदं वचः ।।

अयि पत्त्ररथा ब्रूत साधवो धर्मसंगताः ।। ११ ।।

को वरो भवता देयो धर्मेश परिचारिणाम् ।।

साधुसंसर्गसंक्षीण जन्मांतरमहैनसाम् ।। १२ ।।

इति श्रुत्वा महेशस्य वचनं ते पतत्त्रिणः ।।

प्रोचुः प्रणम्य देवेशं नमस्ते भवनाशन ।। १३ ।।

।। पक्षिण ऊचुः ।। ।।

अनाथनाथ सर्वज्ञ को वरो नः समीहितः ।।

इतोपि त्र्यक्ष यत्साक्षात्तिर्यक्त्वेपि समीक्षिताः ।। १४ ।।

लाभाः संतूद्यमवतां गिरीशेह परः शताः ।।

परं परोयं लाभोत्र यत्त्वं दृग्गोचरी भवेः ।। १५ ।।

यदेतद्दृश्यते नाथ तत्सर्वं क्षणभंगुरम् ।।

अभंगुरो भवानेकस्त्वत्सपर्याप्यभंगुरा ।। १६ ।।

विचित्रजन्मकोटीनां स्मृतिर्नोत्र परिस्फुरेत् ।।

एतत्तपस्विरचितलिंगपूजा विलोकनात् ।। १७ ।।

देवयोनिरपि प्राप्ता चिरमस्माभिरीशितः ।।

दिव्यांगना सहस्राणि तत्र भुक्त्वा स्वलीलया।। १८ ।।

आसुरी दानवी नागी नैर्ऋती चापि कैन्नरी ।।

विद्याधरी च गांधर्वी योनिरस्माभिरर्जिता ।। ।। १९ ।।

नरत्वे भूपतित्वं च परिप्राप्तमनेकशः ।।

जले जलचरत्वं च स्थले च स्थलचारिता ।। 4.2.79.२० ।।

वने वनौकसो जाता ग्रामेषु ग्रामवासिनः ।।

दातारो याचितारश्च रक्षितारश्च घातुकाः ।। २१ ।।

सुखिनोपि वयं जाता दुःखिनो वयमास्म च ।।

जेतारश्च वयं जाताः पराजेतार एव च ।। २२ ।।

अधीतिनोपि मूर्खाश्च स्वामिनः सेवका अपि ।।

चतुर्षु भूतग्रामेषु उत्तमाधममध्यमाः ।। २३ ।।

अभूम भूरिशः शंभो न क्वापि स्थैर्यमागताः ।।

इतोयोनेस्ततो योनौ ततो योनेस्ततोन्यतः ।। २४ ।।

पिनाकिन्क्वापि न प्रापि सुखलेशो मनागपि ।।

इदानीं पुण्यसंभारैर्धर्मेश्वरविलोकनात् ।।२५।।

तापनेःसुतपो वह्निज्वालाप्रज्वलितैनसः ।।

संवीक्ष्य त्र्यक्ष साक्षात्त्वां कृतकृत्या बभूविम ।। २६ ।।

तथापि चेद्वरो देयस्तिर्यक्ष्वस्मासु धूर्जटे ।।

कृपणेष्वपि शोच्येषु ज्ञानं सर्वज्ञ देहि तत् ।। २७ ।।

येन ज्ञानेन मुक्ताः स्मोऽमुष्मात्संसारबंधनात् ।।

यंत्रिताः प्राकृतैः पाशैरदुर्भेद्यैश्च मादृशैः ।। २८ ।।

ऐंद्रं पदं न वांछामो न चांद्रं नान्यदेव हि ।।

वाञ्छामः केवलं मृत्युं काश्यां शंभोऽपुनर्भवम् ।। २९ ।।

त्वत्सान्निध्याद्विजानीमः सर्वज्ञ सकलं वयम् ।।

यथा चंदनसंसर्गात्सर्वे सुरभयो द्रुमाः ।। 4.2.79.३० ।।

एतदेव परं ज्ञानं संसारोच्छित्तिकारणम् ।।

वपुर्विसर्जनं काले यत्तवानंदकानने ।। ३१ ।।

निर्मथ्य विष्वग्वाग्जालं सारभूतमिदं परम् ।।

ब्रह्मणोदीरितं पूर्वं काश्यां मुक्तिस्तनुत्यजाम् ।।३२।।

यद्वाच्यं बहुभिर्ग्रंथैस्तदष्टाभिरिहाक्षरैः ।।

हरिणोक्तं रविपुरः कैवल्यं काशिसंस्थितौ ।। ३३ ।।

याज्ञवल्क्यो मुनिवरः प्रोक्तवान्मुनिसंसदि ।।

रवेरधीत्य निगमान्काश्यामंते परं पदम् ।। ३४ ।।

स्वामिनापि जगद्धात्री पुरतो मंदराचले ।।

इदमेव पुरा प्रोक्तं काशीनिर्वाणजन्मभूः ।। ३५ ।।

कृष्णद्वैपायनोप्येवं शंभो वक्ष्यति नान्यथा।।

यत्रविश्वेश्वरः साक्षान्मुक्तिस्तत्र पदेपदे ।।३६।।

वदंत्यन्येपि मुनयस्तीर्थसंन्यासकारिणः।।

चिरंतना लोमशाद्याः काशिका मुक्तिकाशिका ।। ३७ ।।

वयमप्येवं जानीमो यत्र स्वर्गतरंगिणी।।

आनंदकानने शंर्भोमोक्षस्तत्रैव निश्चितम् ।। ३८ ।।

भूतं भावि भविष्यं यत्स्वर्गे मर्त्ये रसातले ।।

तत्सर्वमेव जानीमो धर्मेशानुग्रहात्परात् ।।३९।।

अतो हिरण्यगर्भोक्तं हरिप्रोक्तं मुनीरितम् ।।

भवतोक्तं च निखिलं शंभो जानीमहे वयम्।।4.2.79.४०।।

करामलकवत्सर्वमेतद्ब्रह्मांडगोलकम् ।।

अस्मद्वाग्गोचरेऽस्त्येव धर्मपीठनिषेवणात् ।। ४१ ।।

धर्मराजस्य तपसा तिर्यञ्चोपि वयं विभो ।।

जाताः स्म निर्विकल्पं हि सर्वज्ञानस्य भाजनम् ।। ४२ ।।

मधुरं मृदुलं सत्यं स्वप्रमाणं सुसंस्कृतम् ।।

हितं मितं सदृष्टांतं श्रुत्वा पक्षिसुभाषितम् ।। ४३ ।।

देवोतिविस्मयापन्नो ऽवर्णयत्पीठगौरवम् ।।

त्रैलोक्यनगरे चात्र काशीराजगृहं मम ।। ४४ ।।

तत्रापि भोगभवनमनर्घ्यमणिनिर्मितम् ।।

मोक्षलक्ष्मीविलासाख्यः प्रासादो मेति शर्मभूः ।। ४५ ।।

पतत्त्रिणो पिमुच्यंते यं कुर्वाणाः प्रदक्षिणम् ।।

स्वेच्छया विचरंतः खे खेचरा अपि देवताः ।।४६।।

मोक्षलक्ष्मीविलासाख्य प्रासादस्य विलोकनात् ।।

शरीराद्दूरतो याति ब्रह्महत्यापि नान्यथा ।। ४७ ।।

मोक्षलक्ष्मीविलासस्य कलशो यैर्निरीक्षतः ।।

निधानकलशास्तांस्तु न मुंचंति पदेपदे ।। ४८ ।।

दूरतोपि पताकापि मम प्रासादमूर्धगा ।।

नेत्रातिथी कृता यैस्तु नित्यं तेऽतिथयो मम ।। ४९ ।।

भूमिं भित्त्वा स्वयं जातस्तत्प्रासादमिषेण हि ।।

आनंदाख्यस्य कंदस्य कोप्येष परमोंकुरः ।।4.2.79.५०।।

ब्रह्मादिस्थावरांतानि यत्र रूपण्यनेकशः ।।

मामेवोपासते नित्यं चित्रं चित्रगतान्यपि ।।५१।।

ससौधो मेखिले लोके स्थानं परमनिर्वृतेः ।।

रतिशाला स मे रम्या स मे विश्वासभूमिका ।।५२।।

मम सर्वगतस्यापि प्रासादोयं परास्पदम् ।।

परं ब्रह्म यदाम्नातं परमोपनिषद्गिरा ।।

अमूर्तं तदहं मूर्तो भूयां भक्तकृपावशात् ।। ५३ ।।

नैःश्रेयस्याः श्रियो धाम तद्याम्यां मंडपोस्ति मे ।।

तत्राहं सततं तिष्ठे तत्सदोमंडपं मम ।। ५४ ।।

निमेषार्धप्रमाणं च कालं तिष्ठति निश्चलः ।।

तत्र यस्तेन वै योगः समभ्यस्तः समाः शतम् ।। ५५ ।।

निर्वाणमंडपं नाम तत्स्थानं जगतीतले ।।

तत्रर्चं संजपन्नेकां लभेत्सर्वश्रुतेः फलम् ।। ।। ५६ ।।

प्राणायामं तु यः कुर्यादप्येकं मुक्तिमंडपे ।।

तेनाष्टांगः समभ्यस्तो योगोऽन्यत्रायुतं समाः ।। ५७ ।।

निर्वाणमंडपे यस्तु जपेदेकं षडक्षरम् ।।

कोटिरुद्रेण जप्तेन यत्फलं तस्य तद्भवेत् ।।५८।।

शुचिर्गंगांभसि स्नातो यो जपेच्छतरुद्रियम् ।।

निर्वाणमंडपे ज्ञेयः स रुद्रो द्विजवेषभृत् ।। ५९ ।।

ब्रह्मयज्ञसकृत्कृत्वा मम दक्षिणमंडपे ।।

ब्रह्मलोकमवाप्याथ परं ब्रह्माधिगच्छति ।। 4.2.79.६० ।।

धर्मशास्त्रं पुराणानि सेतिहासानि तत्र यः ।।

पठेन्निरभिलाषुः सन्स वसेन्मम वेश्मनि ।। ६१ ।।

तिष्ठेदिंद्रियचापल्यं यो निवार्य क्षणं कृती ।।

निर्वाणमंडपेन्यत्र तेन तप्तं महत्तपः ।। ६२ ।।

वायुभक्षणतोन्यत्र यत्पुण्यं शरदां शतम् ।।

तत्पुण्यं घटिकार्धेन मौनं दक्षिणमंडपे ।। ६३ ।।

मितं कृष्णलकेनापि योदद्यान्मुक्तिमंडपे ।।

स्वर्णं सौवर्णयानेन स तु संचरते दिवि ।। ६४ ।।

तत्रैकं जागरं कुर्याद्यस्मिन्कस्मिन्दिनेपि यः ।।

उपोषितोर्चयेल्लिंगं स सर्वव्रतपुण्यभाक् ।। ६५ ।।

तत्र दत्त्वा महादानं तत्र कृत्वा महाव्रतम् ।।

तत्राधीत्याखिलं वेदं च्यवते न नरो दिवः ।। ६६ ।।

प्रयाणं कुर्वते यस्य प्राणा मे मुक्तिमंडपे ।।

समामनुप्रविष्टोत्र तिष्ठेद्यावदहं खलु ।। ६७ ।।

जलक्रीडां सदा कुर्यां ज्ञानवाप्यां सहोमया ।।

यदंबुपानमात्रेण ज्ञानं जायेत निमर्लम् ।। ६८ ।।

तज्जलक्रीडनस्थानं मम प्रीतिकरं महत् ।।

अमुष्मिन्राजसदने जाड्यहृज्जलपूरितम् ।। ६९ ।।

तत्प्रासादपुरोभागे मम शृंगारमंडपः ।। श्री

पीठं तद्धि विज्ञेयं निःश्रीकश्रीसमर्पणम् ।।4.2.79.७०।।

मदर्थं तत्र यो दद्याद्दुकूलानि शुचीन्यहो ।।

माल्यानि सुविचित्राणि यक्षकर्दमवंति च ।। ७१ ।।

नाना नेपथ्यवस्तूनि पूजोपकरणाऽन्यपि ।।

स श्रियालंकृतस्तिष्ठेद्यत्र कुत्रापि सत्तमः ।।७२।।

निर्वाणलक्ष्मीर्वृणुते तं निर्वाणपदाप्तये ।।

यत्र कुत्रापि निधनं प्राप्नुयादपि स ध्रुवम् ।। ७३ ।।

मोक्षलक्ष्मीविलासाख्य प्रासादस्योत्तरे मम ।।

ऐश्वर्यमडपं रम्यं तत्रैश्वर्यं ददाम्यहम् ।। ७४ ।।

मत्प्रासादैंद्रदिग्भागे ज्ञानमंडपमस्ति यत् ।।

ज्ञानं दिशामि सततं तत्र मां ध्यायतां सताम् ।। ७५ ।।

भवानि राजसदने ममास्ति हि महानसम् ।।

यत्तत्रोपहृतं पुण्यं निर्विशामि मुदैव तत् ।। ७६ ।।

विशालाक्ष्या महासौधे मम विश्रामभूमिका ।।

तत्र संसृतिखिन्नानां विश्रामं श्राणयाम्यहम् ।। ।। ७७ ।।

नियमस्नानतीर्थं च चक्रपुष्करिणी मम ।।

तत्र स्नानवतां पुंसां तन्नैर्मल्यं दिशाम्यहम् ।। ७८ ।।

यदाहुः परमं तत्त्वं यदाहुर्ब्रह्मसत्तमम् ।।

स्वसंवेद्यं यदाहुश्च तत्तत्रांते दिशाम्यहम् ।।७९।।

यदाहुस्तारकं ज्ञानं यदाहुरतिनिर्मलम् ।।

स्वात्मारामं यदाहुश्च तत्तत्रांते दिशाम्यहम् ।। 4.2.79.८० ।।

जगन्मंगलभूर्यात्र परमा मणिकर्णिका ।।

विपाशयामि तत्राहं कर्मभिः पाशितान्पशून् ।। ८१ ।।

निर्वाणश्राणने यत्र पात्रापात्रं न चिंतये ।।

आनंदकानने तन्मे दानस्थानं दिवानिशम् ।। ८२ ।।

भवांबुधौ महागाधे प्राणिनः परिमज्जतः ।।

भूत्वैव कर्णधारोंते यत्र संतारयाम्यहम् ।। ८३ ।।

सौभाग्यभाग्यभूर्या वै विख्याता मणिकर्णिका ।।

ददामि तस्यां सर्वस्वमग्रजायांत्यजाय वा ।।८४।।

महासमाधिसंपन्नैर्वेदांतार्थ निषेविभिः ।।

दुष्प्रापोन्यत्र यो मोक्षः शोच्यैरपि स लभ्यते ।। ८५ ।।

दीक्षितो वा दिवाकीर्तिः पंडितो वाप्यपंडितः ।।

तुल्यो मे मोक्षदीक्षायां संप्राप्य मणिकर्णिकाम् ।। ८६ ।।

यत्त्यागेन्यत्र कृपणस्तत्प्राप्य मणिकर्णिकाम् ।।

ददामि जंतुमात्राय सर्वस्वं चिरसंचितम् ।। ८७ ।।

यदि दैवादिह प्राप्तस्त्रिसंयोगोऽतिदुर्घटः ।।

अविचारं तदा देयं सर्वस्वं चिरसंचितम् ।। ८८ ।।

शरीरमथ संपत्तिरथ सा मणिकर्णिका ।।

त्रिसंयोगोयमप्राप्यो देवैरिंद्रादिकैरपि ।। ८९ ।।

पुनः पुनर्विचार्येति जंतुमात्रेभ्य एव च ।।

निर्वाणलक्ष्मीं यच्छामि सदोपमणिकर्णिकम् ।। 4.2.79.९० ।।

मुक्तिदा न मही सा मे वाराणस्यां महीयसी ।।

तन्मही रजसा साम्यं त्रिलोक्यपि न चोद्वहेत् ।। ९१ ।।

परं लिंगार्चनस्थानमविमुक्तेश्वरेश्वरम् ।।

तत्र पूजां सकृत्कृत्वा कृतकृत्यो नरो भवेत् ।। ९२ ।।

सायं पाशुपतीं संध्यां कुर्यां पशुपतीश्वरे ।।

विभूतिधारणात्तत्र पशुपाशैर्न बध्यते ।। ९३ ।।

प्रातःसध्याकरोम्येव सदोंकारनिकेतने ।।

तत्रैकापि कृता संध्या सर्वपातककृंतनी ।। ९४ ।।

वसामि कृत्तिवासेहं सदा प्रति चतुर्दशि ।।

अत्र जागरणं कृत्वा चतुर्दश्यां न गर्भभाक् ।। ९९ ।।

रत्नेश्वरोर्चितो दद्यान्महारत्नानि भक्तितः ।।

रत्नैः समर्च्य तल्लिंगं स्त्रीरत्नादि लभेन्नरः ।। ९६ ।।

विष्टपत्रितयांतःस्थोप्यहं लिंगे त्रिविष्टपे ।।

तिष्ठामि सततं भक्तमनोरथसमृद्धये ।। ९७ ।।

विरजस्कं महापीठं तत्र संसेव्य मानवः ।।

विरजा जायते नूनं चतुर्नद कृतोदकः ।। ९८ ।।

महादेवे महापीठं मम साधकसिद्धिदम् ।।

तत्पीठदर्शनादेव महापापैः प्रमुच्यते ।। ९९ ।।

पितृप्रीतिप्रदं पीठं वृषभध्वजसंज्ञकम् ।।

पितृतर्पणकृत्तत्र पितॄंस्तारयति क्षणात् ।। 4.2.79.१०० ।।

आदिकेशवपीठेहमादिकेशवरूपधृक् ।।

श्वेतद्वीपं नये भक्तान्वैष्णवानतिवल्लभान् ।। १ ।।

तत्रैव मंगलापीठे सर्वमंगलदायिनि ।।

उप पंचनदे तीर्थे भक्तान्संतारयाम्यहम् ।। २ ।।

बिंदुमाधवरूपेण यत्राहं वैष्णवाञ्जनान् ।।

नये पंचनदस्नातांस्तद्विष्णोः परमं पदम् ।। ३ ।।

पंचमुद्रे महापीठे ये वीरेश्वरसेवकाः ।।

तेषां परमनिर्वाणं कालेनाल्पेन जायते ।।।। ४ ।।

तत्र सिद्धेश्वरीपीठे चंद्रेश्वर समीपतः ।।

तत्र संनिधिकर्तॄणां सिद्धिः षण्मासतो भवेत् ।। ५ ।।

काश्यां च योगिनीपीठे योगसिद्धिविधायिनि ।।

सिद्धीरुच्चाटनाद्याश्च कैर्न लब्धाः सुसाधकैः ।। ६ ।।

अनेकानीह पीठानि संति काश्यां पदेपदे ।।

परं धर्मेशपीठस्य काचिच्छक्तिरनुत्तमा ।। ७ ।।

यत्रामी बालकीराश्च निर्मलज्ञानभाजनम् ।।

आसुः सदुपदेशान्मे त्रातत्रातेति भाषिणः ।। ८ ।।

एतद्धर्मेश्वरं पीठं त्यजाम्यद्यदिनावधि ।।

न कदाचित्तरणिजत्वत्तपोवनमुत्तमम् ।। ९ ।।

ममानुग्रहतः कीरानेतान्पश्य रवेः सुत ।।

दिव्यविमानमारुह्य गंतारो मत्पुरं महत् ।। 4.2.79.११० ।।

तत्र भुक्त्वा चिरं भोगाञ्ज्ञानं प्राप्य मयेरितम् ।।

इह मुक्तिमवाप्स्यंति त्वत्संसर्गातिनिर्मलाः ।। ११ ।।

इत्युक्तवति देवेशे कैलासशिखरोपमम् ।।

दिव्यं विमानमापन्नं रुद्रकन्यापरिष्कृतम् ।। १२ ।।

आरुह्यते न यानेन दिव्यरूपवराः खगाः ।।

कैलासमभिसंजग्मुर्धर्ममापृच्छ्यतेऽमलाः ।।११३।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे धर्मेशाख्याननामैकोनाशीतितमोऽध्यायः ।। ७९ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 80

।। स्कंद उवाच ।। ।।

कुंभोद्भूत तदाश्चर्यं विलोक्य जगदंबिका ।।

उवाच शंभुं प्रणता प्रणतार्तिहरं परम् ।।१।।

।। अंबिकोवाच।। ।।

अस्य पीठस्य माहात्म्यं महादेव महेश्वर ।।

तिरश्चामपि यज्जातं ज्ञानं संसारमोचनम् ।। २ ।।

अतः प्रभावं विज्ञाय धर्मपीठस्य धूर्जटे ।।

धर्मेश्वरसमीपेहं स्थास्याम्यद्य दिनावधि ।। ३ ।।

अत्र लिंगे तु ये भक्ताः स्त्रियो वा पुरुषास्तु वा ।।

तेषामभीष्टां संसिद्धिं साधयिष्याम्यहं सदा ।। ४ ।।

।। ईश्वर उवाच ।। ।।

साधुकृतं त्वया देवि कृतवत्या परिग्रहम् ।।

अस्येह धर्मपीठस्य मनोरथकृतः सताम् ।। ५ ।।

त एव विश्वभोक्तारो विश्वमान्यास्त एव हि ।।

ये त्वां विश्वभुजामत्र पूजयिष्यंति मानवाः ।। ६ ।।

विश्वे विश्वभुजे विश्वस्थित्युत्पत्तिलयप्रदे ।।

नरास्त्वदर्चकाश्चात्र भविष्यंत्यमलात्मकाः ।।७।।

मनोरथतृतीयायां यस्ते भक्तिं विधास्यति ।।

तन्मनोरथसंसिद्धिर्भवित्री मदनुग्रहात् ।। ८ ।।

नारी वा पुरुषो वाथ त्वद्व्रताचरणात्प्रिये ।।

मनोरथानिह प्राप्य ज्ञानमंते च लप्स्यते ।। ९ ।।

।। देव्युवाच ।। ।।

मनोरथतृतीयायां व्रतं कीदृक्कथा कथम् ।।

किं फलं कैः कृतं नाथ कथयैतत्कृपां कुरु ।। 4.2.80.१० ।।

।। ईश्वर उवाच ।। ।।

शृणु देवि यथा पृष्टं भवत्या भवतारिणि ।।

मनोरथव्रतं चैतद्गुह्याद्गुह्यतरं परम् ।। ११ ।।

पुलोमतनया पूर्वं तताप परमं तपः ।।

किंचिन्मनोरथं प्राप्तुं न चाप तपसः फलम् ।। १२ ।।

अपूपुजत्ततो मां सा भक्त्या परमया मुदा ।।

गीतेन सरहस्येन कलकंठीकलेन हि ।। १३ ।।

तद्गानेनातिसंतुष्टो मृदुना मधुरेण च ।।

सुतालेन सुरंगेण धातुमात्राकलावता ।। १४ ।।

प्रोवाच तां वरं ब्रूहि प्रसन्नोस्मि पुलोमजे ।।

अनेन च सुगीतेन त्वनया लिंगपूजया ।। १५ ।।

।।पुलोमजोवाच ।। ।।

यदि प्रसन्नो देवेश तदा यो मे मनोरथः ।।

तं पूरय महादेव महादेवी महाप्रिय ।। १६ ।।

सर्वदेवेषु यो मान्यः सर्वदेवेषु सुंदरः ।।

यायजूकेषु सर्वेषु यः श्रेष्ठः सोस्तु मे पतिः ।। १७ ।।

यथाभिलषितं रूपं यथाभिलषितं सुखम् ।।

यथाभिलषितं चायुः प्रसन्नो देहि मे भव ।। १८ ।।

यदायदा च पत्या मे संगः स्याद्धृत्सुखेच्छया ।।

तदातदा च तं देहं त्यक्त्वान्यं देहमाप्नुयाम्।। ।। १९ ।।

सदा च लिंगपूजायां मम भक्तिरनुत्तमा ।।

भव भूयाद्भवहर जरामरणहारिणी ।। 4.2.80.२० ।।

भर्तुर्व्ययेपि वैधव्यं क्षणमात्रमपीह न ।।

मम भावि महादेव पातिव्रत्यं च यातु मा ।। २१ ।।

।। स्कंद उवाच ।। ।।

इमं मनोरथं तस्याः पौलोम्याः पुरसूदनः ।।

समाकर्ण्य क्षणं स्मित्वा प्राहेशो विस्मयान्वितः ।। २६ ।।

ईश्वर उवाच ।। ।।

पुलोमकन्ये यश्चैष त्वयाकारि मनोरथः ।।

लप्स्यसे व्रतचर्यातस्तत्कुरुष्व जितेंद्रिये ।। २३ ।।

मनोरथतृतीयायाश्चरणेन भविष्यति ।।

तत्प्राप्तये व्रतं वक्ष्ये तद्विधेहि यथोदितम्।। २४ ।।

तेन व्रतेन चीर्णेन महासौभाग्यदेन तु ।।

अवश्यं भविता बाले तव चैवं मनोरथः ।। २५ ।।

।। पुलोमकन्यावोच ।। ।।

कारुण्यवारिधे शंभो प्रणतप्राणि सर्वद ।।

किमात्मिकाथ का शक्तिः का पूज्या तत्र देवता ।। २६ ।।

कदा च तद्विधातव्यमिति कर्तव्यता च का ।।

इत्याकर्ण्य शिवो वाक्यं तां तु प्रणिजगाद ह ।। २७।।

।। ईश्वर उवाच ।। ।।

मनोरथतृतीयायां व्रतं पौलोमि तच्छुभम्।।

पूज्या विश्वभुजा गौरी भुजविंशतिशालिनी ।। २८ ।।

वरदोऽभयहस्तश्च साक्षसूत्रः समोदकः ।।

देव्याः पुरस्ताद्व्रतिना पूज्य आशाविनायकः।।२९।।

चैत्रशुक्ल तृतीयायां कृत्वा वै दंतधावनम् ।।

सायंतनीं च निर्वर्त्य नातितृप्त्या भुजिक्रियाम् ।।4.2.80.३०।।

नियमं चेति गृह्णीयाज्जितक्रोधो जितेंद्रियः ।।

संत्यक्तास्पृश्य संस्पर्शः शुचिस्तद्गतमानसः ।। ३१ ।।

प्रातर्व्रतं चरिष्यामि मातर्विश्वभुजेनघे ।।

विधेहि तत्र सांनिध्यं मन्मनोरथसिद्धये ।। ३२ ।।

नियमं चेति संगृह्य स्वपेद्रात्रौ शुभं स्मरन्।।

प्रातरुत्थाय मेधावी विधायावश्यकं विधिम् ।। ३३ ।।

शौचमाचमनं कृत्वा दंतकाष्ठं समाददेत् ।।

अशोकवृक्षस्य शुभं सर्वशोकनिशातनम् ।।३४।।

नित्यंतनं च निष्पाद्य विधिं विधिविदांवरः ।।

स्नात्वा शुद्धांबरः सायं गौरीपूजां समाचरेत् ।। ३५ ।।

आदौ विनायकं पूज्य घृतपूरान्निवेद्य च ।।

ततोर्चयेद्विश्वभुजामशोककुसुमैः शुभैः ।। ३६ ।।

अशोकवर्तिनैवेद्यैर्धूपैश्चागुरुसंभवैः ।।

कुंकुमेनानुलिप्यादावेकभक्तं ततश्चरेत् ।। ३७ ।।

अशोकवर्तिसहितैर्घृतपूरैर्मनोहरैः ।।

एवं चैत्रतृतीयायां व्यतीतायां पुलोमजे ।।३८।।

राधादिफाल्गुनांतासु तृतीयासु व्रतं चरेत् ।।

क्रमेण दंतकाष्ठानि कथयामि तवानघे ।।३९।।

अनुलेपनवस्तूनि कुसुमानि तथैव च ।।

नैवेद्यानि गजास्यस्य देव्याश्चापि शुभव्रते ।। 4.2.80.४० ।।

अन्नानि चैकभक्तस्य शृणुतानि फलाप्तये ।।

जंब्वपामार्ग खदिर जाती चूतकदंबकम्।।४१।।

प्लक्षोदुंबरखर्जूरी बीजपूरी सदाडिमी ।।

दंतकाष्ठ द्रुमा एते व्रतिनः समुदाहृताः ।।४२।।

सिंदूरागुरु कस्तूरी चंदनं रक्तचंदनम् ।।

गोरोचना देवदारु पद्माक्षं च निशाद्वयम् ।।४३।।

प्रीत्यानुलेपनं बाले यक्षकर्दमसंभवम् ।।

सर्वेषामप्यलाभे च प्रशस्तो यक्षकर्दमः ।।४४।।

कस्तूरिकाया द्वौ भागौ द्वौ भागौ कुंकुमस्य च ।।

चंदनस्य त्रयो भागाः शशिनस्त्वेक एव हि ।। ४५ ।।

यक्षकर्दम इत्येष समस्तसुरवल्लभः ।।

अनुलिप्याथ कुसुमैरर्चयेद्वच्मि तान्यपि ।। ४६ ।।

पाटला मल्लिका पद्म केतकी करवीरकः ।।

उत्पलै राजचंपैश्च नंद्यावर्तैश्च जातिभिः ।। ४७ ।।

कुमारीभिः कर्णिकारैरलाभेतच्छदैः सह ।।

सुगंधिभिः प्रसूनोघैः सर्वालाभेपि पूजयेत् ।। ४८ ।।

करंभो दधिभक्तं च सचूतरसमंडकाः ।।

फेणिका वटकाश्चैव पायसं च सशर्करम् ।। ४९ ।।

समुद्गं सघृतं भक्तं कार्त्तिके विनिवेदयेत् ।।

इंडेरिकाश्च लड्डूका माघे लंपसिका शुभा ।। 4.2.80.५० ।।

मुष्टिकाः शर्करागर्भाः सर्पिषा परिसाधिताः ।।

निवेद्याः फाल्गुने देव्यै सार्धं विघ्नजिता मुदा ।। ५१ ।।

निवेदयेद्यदन्नं हि एकभक्तपि तत्स्मृतम् ।।

अन्यन्निवेद्य संमूढो भुंजानोऽन्यत्पतेदधः ।। ५२ ।।

प्रतिमासं तृतीयायामेवमाराध्य वत्सरम् ।।

व्रतसंपूर्तये कुर्यात्स्थंडिलेऽग्निसमर्चनम् ।। ५३ ।।

जातवेदसमंत्रेण तिलाज्यद्रविणेन च ।।

शतमष्टाधिकं होमं कारयेद्विधिना व्रती ।।५४।।

सदैव नक्ते पूजोक्ता सदा नक्ते तु भोजनम् ।।

नक्त एव हि होमोऽयं नक्त एव क्षमापनम् ।। ५५ ।।

गृहाण पूजां मे भक्त्या मातर्विघ्नजिता सह ।।

नमोस्तु ते विश्वभुजे पूरयाशु मनोरथम् ।। ५६ ।।

नमो विघ्नकृते तुभ्यं नम आशाविनायक ।।

त्वं विश्वभुजया सार्धं मम देहि मनोरथम् ।।५७।।

एतौ मंत्रौ समुच्चार्य पूज्या गौरीविनायकौ ।।

व्रतक्षमापने देयः पर्यंकस्तूलिकान्वितः ।। ५८ ।।

उपधान्या समायुक्तो दीपीदपर्णसंयुतः ।।

आचार्यं च सपत्नीकं पर्यंक उपवेश्य च ।। ५९ ।।

व्रती समर्चयेद्वस्त्रैः करकर्णविभूषणैः ।।

सुगंधचंदनैर्माल्यैर्दक्षिणाभिर्मुदान्वितः ।। 4.2.80.६० ।।

दद्यात्पयस्विनीं गां च व्रतस्यपरिपूर्तये ।।

तथोपभोगवस्तूनिच्छत्रोपानत्कमंडलुम् ।। ६१ ।।

मनोरथतृतीयाया व्रतमेतन्मया कृतम् ।।

न्यूनातिरिक्तं संपूर्णमेतदस्तु भवद्गिरा ।।६२।।

इत्याचार्यं समापृच्छ्य तथेत्युक्तश्च तेन वै ।।

आसीमांतमनुव्रज्य दत्त्वान्येभ्योपि शक्तितः ।। ६३ ।।

नक्तं समाचरेत्पोष्यैः सार्धं सुप्रीतमानसः ।।

प्रातश्चतुर्थ्यां संभोज्य चतुरश्च कुमारकान् ।। ६४ ।।

अभ्यर्च्य गंधमाल्याद्यैर्द्वादशापि कुमारिकाः ।।

एवं संपूर्णतां याति व्रतमेतत्सुनिर्मलम् ।।६५।।

कार्यं मनोरथावाप्त्यै सर्वैरेतद्व्रतं शुभम् ।।

पत्नीं मनोरमां कुल्यां मनोवृत्त्यनुसारिणीम् ।।६६।।

तारिणीं दुःखसंसारसागरस्य पतिव्रताम् ।।

कुर्वन्नेतद्व्रतं वर्षं कुमारः प्राप्नुयात्स्फुटम् ।। ६७ ।।

कुमारी पतिमाप्नोति स्वाढ्यं सर्वगुणाधिकम् ।।

सुवासिनी लभेत्पुत्रान्पत्युः सौख्यमखंडितम् ।। ६८ ।।

दुर्भगा सुभगास्याच्च धनाढ्या स्याद्दरिद्रिणी ।।

विधवापि न वैधव्यं पुनराप्नोति कुत्रचित् ।। ६९ ।।

गुर्विणी च शुभं पुत्रं लभते सुचिरायुषम् ।।

ब्राह्मणो लभते विद्यां सर्वसौभाग्यदायिनीम् ।। 4.2.80.७० ।।

राज्यभ्रष्टो लभेद्राज्यं वैश्यो लाभं च विंदति ।।

चिंतितं लभते शूद्रो व्रतस्यास्य निषेवणात् ।। ७ ।।।

धर्मार्थी धर्ममाप्नोति धनार्थी धनमाप्नुयात् ।।

कामी कामानवाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ।। ७२ ।।

यो यो मनोरथो यस्य स तं तं विंदते ध्रुवम् ।।

मनोरथतृतीयाया व्रतस्य चरणाद्व्रती ।। ७३ ।।

।। स्कंद उवाच ।। ।।

इत्थं निशम्य शिवतः शिवा संतुष्टमानसा ।।

पुनः पप्रच्छ विश्वेशं प्रबद्धकरसंपुटा ।। ७४ ।।

अन्यत्र ये व्रतं चैतत्करिष्यंति सदाशिव ।।

ते कथं पूजयिष्यंति मां च आशाविनायकम् ।। ७५ ।। ।।

शिव उवाच ।। ।।

साधु पृष्टं त्वया देवि सर्वसंदेहभेदिनि ।।

वाराणस्यां समर्च्या त्वं विश्वे प्रत्यक्षरूपिणी ।।७६।।

आशा विघ्नजिता सार्धं सर्वाशापूर्तिकारिणा ।।

हारिणानंतविघ्नानां मम क्षेत्र शुभार्थिना ।। ७७ ।।

क्षिप्रमागमयित्वा च नत्वा दूरंगतानपि ।।

कृतकृत्यान्विधायाथ चिंतितैः समनोरथैः ।। ७८ ।।

अन्यत्र व्रतिभिर्विश्वे कांचनीप्रतिमा तव ।।

पंचकृष्णलकादूर्ध्वं कार्या विघ्नहृतोपि च ।। ७९ ।।

आचार्याय व्रती दद्याद् व्रतांते प्रतिमा द्वयम् ।।

सकृत्कृते व्रती चास्मिन्कृतकृत्यो व्रती भवेत् ।। 4.2.80.८० ।।

ततः पुलोमजा देवि श्रुत्वैतद्व्रतमुत्तमम् ।।

कृत्वा मनोरथं प्राप यथाभिवांछितं हृदि ।।८१।।

अरुंधत्या वसिष्ठोपि लब्धोऽत्रिऽनसूयया ।।

सुनीत्योत्तानपादाच्च ध्रुवः प्राप्तोंऽगजोत्तमः ।। ८२ ।।

सुनीतेदुर्भर्गत्वं च पुनरस्माद्व्रताद्गतम् ।।

चतुर्भुजः पतिः प्राप्तः क्षीरनीरधिजन्मना ।। ८३ ।।

किं बहूक्तेन सुश्रोणि कृतंयेन व्रतं त्विदम् ।।

व्रतानि तेन सर्वाणि कृतानि व्रतिना ध्रुवम् ।। ८४ ।।

श्रुत्वा धीमान्कथां पुण्यां पुनस्तद्गतमानसः ।।

शुभबुद्धिमवाप्नोति पापैरपि विमुच्यते ।। ८५ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्धे धर्मेश्वराख्याने विश्वभुजाशाविनायकप्रशंसने मनोरथतृतीयाव्रताख्यानं नामाशीतितमोध्यायः ।। ८० ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 81

।। अगस्त्य उवाच ।। ।।

धर्मतीर्थस्य माहात्म्यं कीदृग्देवेन शंभुना ।।

स्कंद देव्यै समाख्यातं तदाख्याहि कृपां कुरु ।। १ ।।

।। स्कंद उवाच ।। ।।

विंध्योन्नतिहृदाख्यामि धर्मतीर्थसमुद्भवम् ।।

आकर्णय महाप्राज्ञ यथा देवेन भाषितम् ।। २ ।।

वृत्रं निहत्य वृत्रारिर्ब्रह्महत्यामवाप्तवान् ।।

अनुतप्तोथ पप्रच्छ प्रायश्चित्तं पुरोहितम् ।। ३ ।।

।। बृहस्पतिरुवाच ।। ।।

यदि त्वं देवराजेमां ब्रह्महत्यां सुदुस्त्यजाम् ।।

अपानुनुत्सुस्तद्याहि काशीं विश्वेशपालिताम् ।। ४ ।।

नान्यत्किंचित्क्वचिद्दृष्टं ब्रह्महत्यामहौषधम् ।।

राजधानीं परित्यज्य शक्र विश्वेशितुः पराम् ।। ५ ।।

भैरवस्यापिहस्ताग्रादपतद्वैधसं शिरः ।।

यत्रानंदवने तत्र वृत्रशत्रो व्रज द्रुतम् ।।६।।

सीमानमपि संप्राप्य शक्रानंदवनस्य हि ।।

ब्रह्महत्या पलायेत वेपमाना निराश्रया ।। ७ ।।

अन्येषामपि पापानां महापापजुषामपि ।।

नाशयित्री परा काशी विश्वेश समधिष्ठिता ।। ८ ।।

महापातकतो मुक्तिः काश्यामे व शतक्रतो ।।

महासंसारतो मुक्तिः काश्यामेव न चान्यतः ।।९।।

निर्वाणनगरी काशी काशी सर्वाघसंघहृत् ।।

विश्वेशितुः प्रिया काशी द्यौः काशी सदृशी नहि ।। ।। 4.2.81.१० ।।

ब्रह्महत्याभयं यस्य यस्य संसारतो भयम्।।

जातुचित्तेन न त्याज्या काशिका मुक्तिकाशिका ।।११।।

जंतूनां कर्मबीजानां यत्र देहविसर्जने ।।

न जातुचित्प्ररोहोस्ति हरदृष्ट्याप्तशुष्मणाम् ।। १२ ।।

तां काशीं प्राप्य वृत्रारे वृत्रहत्यापनुत्तये ।।

समाराधय विश्वेशं विश्वमुक्तिप्रदायकम् ।। १३ ।।

बृहस्पतेरिति वचो निशम्य स सहस्रदृक् ।।

आयाद्द्रुततरं काशीं महापातकघातुकाम् ।। १४ ।।

स्नात्वोत्तरवहायां च धर्मेशं परितः स्थितः ।।

आराधयन्महादेवं ब्रह्मद्वत्याप नुत्तये ।। १५ ।।

महारुद्रजपासक्तः सुत्रामाथ त्रिलोचनम् ।।

ददर्श लिंगमध्यस्थं स्वभासा दीपितांबरम् ।। १६ ।।

पुनस्तुष्टाव वेदोक्तै रुद्रसूक्तैरनेकधा ।।

विनिष्क्रम्य ततो लिंगादाविर्भूय भवोवदत् ।। १७ ।।

शचीपते प्रसन्नोस्मि वरं वरय सुव्रत ।।

किं देयं द्रुतमाख्याहि धर्मपीठकृतास्पद ।। १८ ।।

श्रुत्वेति देवदेवस्य स प्रेमवचनं हरिः ।।

सर्वज्ञ किंतेऽविदितं तमुवाचेति वृत्रहा ।। १९ ।।

ततस्तत्कृपयानुन्नो धर्मपीठनिषेवणात् ।।

निष्पाद्य तीर्थं तत्रेशोऽत्र स्नाहींद्रेति चाब्रवीत् ।।4.2.81.२०।।

तत्रेंद्रः स्नानमात्रेण दिव्यगंधोऽभवत्क्षणात् ।।

अवाप च रुचिं चारुं प्राक्तनीं शातयाज्ञिकीम् ।।२१।।

तदाश्चर्यमथो दृष्ट्वा मुनयो नारदादयः ।।

परिसस्नुर्मुदायुक्ता धर्मतीर्थेऽघहारिणि ।। २२ ।।

अतर्पयन्पितॄन्दिव्यान्व्यधुः श्राद्धानि श्रद्धया ।।

धर्मेशं स्नापयामासुस्तत्तीर्थाम्बुभृतैर्घटैः ।। २३ ।।

तदा प्रभृति तत्तीर्थं धर्मांधुरिति विश्रुतम् ।।

ब्रह्महत्यादि पापानामक्लेशं क्षालनं परम् ।। २४ ।।

यत्फलं तीर्थराजस्य स्नानेन परिकीर्त्यते ।।

सहस्रगुणितं तत्स्याद्धर्मांधु स्नानमात्रतः ।। २५ ।।

गंगाद्वारे कुरुक्षेत्रे गंगासागरसंगमे ।।

यत्फलं लभते मर्त्यो धर्मतीर्थे तदाप्नुयात् ।। २६ ।।

नर्मदायां सरस्वत्यां गौतम्यां सिंहगे गुरौ ।।

स्नात्वा यत्फलमाप्येत धर्मकूपे तदाप्नुयात्।। २७ ।।

मानसे पुष्करे चैव द्वारिके सागरे तथा ।।

तीर्थे स्नात्वा फलं यत्स्यात्तत्स्याद्धर्मजलाशये ।।२८।।

कार्तिक्यां सूकरक्षेत्रे चैत्र्यां गौरीमहाह्रदे ।।

शंखोद्धारे हरिदिने यत्फलं तत्फलं त्विह ।।२९।।

तीर्थद्वयं प्रतीक्षंते सिस्नासून्पितरो नरान् ।।

गंगायां धर्मकूपे च पिंडनिर्वपणाशया ।।4.2.81.३०।।

पितामहसमीपे वा धर्मेशस्याग्रतोथ वा ।।

फल्गौ च धर्मकूपे च माद्यंति प्रपितामहाः ।। ३१ ।।

धर्मकूपे नरः स्नात्वा परितर्प्य पितामहान् ।।

गयां गत्वा किमधिकं कर्ता पितृमुदावहम् ।। ३२ ।।

यथा गयायां तृप्ताः स्युः पिंडदाने पितामहाः ।।

धर्मतीर्थे तथैव स्युर्न न्यूनं नैव चाधिकम् ।। ३३ ।

ते धन्याः पितृभक्तास्ते प्रीणितास्तैः पितामहाः।।

पैत्रादृणाद्धर्मतीर्थे निष्कृतिर्यैः कृता सुतैः ।। ।। ३४ ।।

तत्तीर्थस्य प्रभावेण निष्पापोभूत्क्षणेन च ।।

प्रणम्य देवदेवेशमिंद्रोऽगादमरावतीम् ।।३५।।

अपारो महिमा तस्य धर्मतीर्थस्य कुंभज ।।

तत्कूपे स्वं निरीक्ष्यापि श्राद्धदानफलं लभेत् ।। ३६ ।।

तत्रापि काकिणी मात्रं यच्छेत्पितृमुदे नरः ।।

अक्षयं फलमाप्नोति धर्मपीठप्रभावतः ।। ३७ ।।

तत्र यो भोजयेद्विप्रान्यतिनोथ तपस्विनः ।।

सिक्थे सिक्थे लभेत्सोथ वाजपेयफलं स्फुटम् ।। ३८ ।।

प्राप्यामरावतीं शक्रस्ततो दिविषदां पुरः ।।

धर्मपीठस्य माहात्म्यं महत्काश्यामवर्णयत् ।। ३९ ।।

आगत्य पुनरप्यत्र शंभोरानंदकानने ।।

मुनिवृंदारकैः सार्धं लिंगमस्थापयद्धरिः ।।4.2.81.४०।।

तारकेशात्पश्चिमत इंद्रेश्वरमितीरितम् ।।

तस्य संदर्शनात्पुंसामैंद्रलोको न दूरतः ।।४१।।

तद्दक्षिणे शचीशश्च स्वयं शच्या प्रतिष्ठितः ।।

शचीशार्चनतः स्त्रीणां सौभाग्यमतुलं भवेत् ।। ४२ ।।

तत्समीपेस्ति रंभेशो बहुसौख्यसमृद्धिदः ।।

इंद्रेश्वरस्य परितो लोकपालेश्वरो परः ।। ४३ ।।

तदर्चनात्प्रसीदंति लोकपालाः समृद्धिदाः ।।

धर्मेशात्पश्चिमाशायां धरणीशः प्रकीर्तितः ।।

तद्दर्शनेन धैर्यं स्याद्राज्ये राजकुलादिषु ।। ४४ ।।

धर्मेशाद्दक्षिणे पूज्यं तत्त्वेशाख्यं परं नरैः ।।

तत्त्वज्ञानं प्रवर्तेत तल्लिंगस्य समर्चनात् ।। ४५ ।।

धर्मेशात्पूर्वदिग्भागे वैराग्येशं समर्चयेत् ।।

निवृत्तिश्चेतसस्तस्य लिंगस्य स्पर्शनादपि ।। ४६ ।।

ज्ञानेश्वरं तथैशान्यां ज्ञानदं सर्वदेहिनाम् ।।

ऐश्वर्येशमुदीच्यां च लिंगाद्धर्मेश्वराच्छुभात् ।। ४७ ।।

तद्दर्शनाद्भवेन्नृणामैश्वर्यं मनसेप्सितम् ।।

पंचवक्त्रस्य रूपाणि लिंगान्येतानि कुंभज ।।४८।।

एतान्यवश्यं संसेव्य नरः प्राप्नोति शाश्वतम् ।।

अन्यत्तत्रैव यद्वृत्तं तदाख्यामि मुने शृणु ।।४९।।

यच्छ्रुत्वापि नरो घोरे संसाराब्धौ न मज्जति ।।

कदंबशिखरो नाम विंध्यपादो महानिह ।। 4.2.81.५० ।।

दमस्य पुत्रस्तत्रासीद्दुर्दमो नाम पार्थिवः ।।

पितर्युपरते राज्यं संप्राप्याविजितेंद्रियः ।। ५१ ।।

हरेत्पुरंध्रीः प्रसभं पौराणां काममोहितः ।।

असाधवः प्रियास्तस्य साधवोऽप्रियतां ययुः ।। ५२ ।।

अदंड्यान्दंडयांचक्रे दंड्येष्वासीत्पराङमुखः ।।

सदैव मृगयाशीलः सोऽभून्मृगयु संगतः ।। ।। ५३ ।।

विवासिताः स्वविषयात्तेन सन्मतिदायिनः ।।

धर्माधिकारिणः शूद्रा ब्राह्मणाः करदीकृताः ।।५४।।

परदारेषुसंतुष्टः स्वदारेषु पराङ्मुखः ।।

आनर्च जातुचिन्नैव देवौ दुःखांतकारिणौ ।। ५५ ।।

हारिणौ सर्वपापानां सर्ववांछितदायिनौ ।।

सर्वेषां जगतीसारौ श्रीकंठश्रीपतीपती ।। ५६ ।।

स्वप्रजास्वेक उदितो धूमकेतुरिवापरः ।।

दुर्दमो नाम भूपालः क्षयाया कांड एव हि ।।५७।।

स कदाचिन्मृगयुभिः पापर्धि व्यसनातुरः ।।

सार्धं विवेशारण्यानि गृष्टिपृष्ठानुगो हयी ।। ।। ५८ ।।

एकाकी दैवयोगेन दुर्दमः सोऽवनीपतिः ।

धन्वी तुरंगमारुढोऽविशदानंदकाननम् ।। ५९ ।।

स विलोक्याथ सर्वत्र पादपा नवकेशिनः ।।

सुच्छायांश्च सुविस्तारान्गतश्रम इवाभवत् ।। 4.2.81.६० ।।

सुगंधेन सुशीतेन सुमदेन सुवायुना ।।

क्षणं संवीजितो राजा पल्लवव्यजनैः कुजैः ।। ६३ ।।

केवलं मृगया जातस्तत्खेदो न व्यपाव्रजत् ।।

आजन्मजनितः खेदो निरगात्तद्वनेक्षणात् ।। ६२ ।।

मध्ये वनं स चापश्यत्प्रासादं चुंबितांबरम् ।।

महारत्नशलाकानां रम्यमेकमिवाकरम् ।।६३।।

अथावरुह्य तुरगात्स भूपालोतिविस्मितः ।।

धर्मेशमंडपं प्राप्य स्वात्मानं प्रशशंस ह ।।६४।।

धन्योस्म्यहं प्रसन्नोस्मि धन्ये मेद्य विलोचने ।।

धन्यमद्यतनं चाहर्यदपश्यमिमां भुवम् ।। ६५ ।।

पुनर्निनिंद चात्मानं धर्मपीठ प्रभावतः ।।

धिङ्मां दुर्जनसंसर्गं त्यक्तसज्जनसंगमम् ।। ६६ ।।

जंतूद्वेगकरं मूढं प्रजापीडनपंडितम् ।।

परदारपरद्रव्यापहृत्यासुखमानिनम् ।।६७।।

अद्ययावन्मम गतं वृथाजन्माल्पमेधस ।।

धर्मस्थानानीदृशानि यद्दृष्टानि न कुत्रचित् ।। ६८ ।।

एवं बहु विनिंद्य स्वं नत्वा धर्मेश्वरं विभुम् ।।

आरुह्याश्वं ययौ राजा दुर्दमो विषयं स्वकम् ।। ६९ ।।

ततोमात्यान्समाहूय क्रमायातांश्चिरंतनान् ।।

नवीनान्परिनिर्वास्य पौरांश्चापि समाह्वयत् ।। 4.2.81.७० ।।

ब्राह्मणांश्चनमस्कृत्य तेभ्यो वृत्तीः प्रदाय च ।।

पुत्रे राज्यं समारोप्य प्रजाधर्मे निवेश्य च ।। ७१ ।।

परिदंड्य च दंडार्हान्साधूंश्च परितोष्य च ।।

दारानपि परित्यज्य विषयेषु पराङ्मुखः ।। ७२ ।।

समागच्छदथैकाकी काशीं श्रेयोविकासिनीम् ।।

धर्मेश्वरं समाराध्य कालान्निर्वाणमाप्तवान् ।। ७३ ।।

धर्मेशदर्शनान्नित्यं तथाभूतः स दुर्दमः ।।

बभूव दमिनां श्रेष्ठः प्रांते मोक्षं च लब्धवान् ।। ७४ ।।

इत्थं धर्मेश माहात्म्यं मया स्वल्पं निरूपितम् ।।

धर्मपीठस्य माहात्म्यं सम्यक्को वेद कुंभज ।। ७९ ।।

इदं धर्मेश्वराख्यानं यः श्रोष्यति नरोत्तमः ।।

आजन्मसंचितात्पापात्स मुक्तो भवति क्षणात् ।।७६।।

श्राद्धकाले विशेषेण धर्मेशाख्यानमुत्तमम्।।

श्रावयेद्ब्राह्मणान्धीमान्पितॄणां तृप्तिकारणम् ।। ७७ ।।

धर्माख्यानमिदं शृण्वन्नपि दूरस्थितः सुधीः ।।

सर्वपापर्विनिर्मुक्तो गंतांते शिवमंदिरम् ।। ७८ ।। ।।

इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्धे धर्मेश्वराख्याननामैकाशीतितमोध्यायः ।। ८१ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 82

।। पार्वत्युवाच ।। ।।

वीरेशस्य महेशान श्रूयते महिमा महान् ।।

परां सिद्धिं परोपतुस्तत्र सिद्धाः परः शताः ।।१।।

कथमाविर्भवस्तस्य काश्यां लिंगवरस्य तु ।।

आशुसिद्धिप्रदस्येह तन्मे ब्रूहि जगत्पते ।। ।। २ ।।

।। महेश्वर उवाच ।। ।।

निशामय महादेवि वीरेशाविर्भवं परम् ।।

यं श्रुत्वापि नरः पुण्यं प्राप्नोति विपुलं शिवे ।।३।।

आसीदमित्रजिन्नाम राजा परपुरंजयः ।।

धार्मिकः सत्त्वसंपन्नः प्रजारंजनतत्परः ।। ४ ।।

यशोधनो वदान्यश्च सुधीर्ब्राह्मणदैवतः ।।

सदैवावभृथस्नानपरिक्लिन्न शिरोरुहः ।। ५ ।।

विनीतो नीतिसंपन्नः कुशलः सर्वकर्मसु ।।

विद्याब्धिपारदृश्वा च गुणवान्गुणिवत्सलः ।। ६ ।।

कृतज्ञो मधुरालापः पापकर्मपराङ्मुखः ।।

सत्यवाक्छौचनिलयः स्वल्पवाग्विजितेंद्रियः ।। ७ ।।

रणांगणे कृतांताभः संख्यावांश्च सदोजिरे ।।

कामिनीकामकेलिज्ञो युवापि स्थविरप्रियः ।। ८ ।।

धर्मार्थैधितकोशश्च समृद्धबलवाहनः ।।

सुभगश्च सुरूपश्च सुमेधाः सुप्रजाश्रयः ।।९।।

स्थैर्य धैर्य समापन्नो देशकालविचक्षणः ।।

मन्यमानप्रदो नित्यं सर्वदूषणवर्जितः ।। 4.2.82.१० ।।

वासुदेवांघ्रियुगले चेतोवृत्तिं निधाय सः ।।

चकार राज्यं निर्द्वंद्वं विष्वगीति विवर्जितम् ।। ११ ।।

अलंघ्यशासनः श्रीमान्विष्णुभक्तिपरायणः ।।

अभुनक्प्रचुरान्भोगान्समंताद्विष्णुसात्कृतान् ।। १२ ।।

हरेरायतनान्युच्चैः प्रतिसौधं पदेपदे ।।

तस्य राज्ये समभवन्महाभाग्यनिधेः शिवे ।।१३।।

गोविंदगोपगोपाल गोपीजनमनोहर ।।

गदापाणे गुणातीत गुणाढ्य गरुडध्वज ।। १४ ।।

केशिहृत्कैटभाराते कंसारे कमलापते ।।

कृष्णकेशव कंजाक्ष कीनाश भयनाशन ।। १५ ।।

पुरुषोत्तम पापारे पुंडरीकविलोचन ।।

पीतकौशेयवसन पद्मनाभ परात्पर ।। १६ ।।

जनार्दन जगन्नाथ जाह्नवीजलजन्मभूः ।।

जन्मिनां जन्महरण जंजपूकाघनाशन ।। १७ ।।

श्रीवत्सवक्षः श्रीकांत श्रीकर श्रेयसां निधे ।।

श्रीरंगशार्ङ्गकोदंड शौरे शीतांशुलोचन ।। १८ ।।

दैत्यारे दानवाराते दामोदर दुरंतक ।।

देवकीहृदयानंद दंदशूकेश्वरेशय ।। १९।।

विष्णो वैकुंठनिलय बाणारे विष्टरश्रवः ।।

विष्वक्सेन विराधारे वनमालिन्वनप्रिय ।। 4.2.82.२० ।।

त्रिविक्रमत्रिलोकीश चक्रपाणे चतुर्भुज ।।

इत्यादीनि पवित्राणि नामानि प्रतिमंदिरम् ।। २१ ।।

स्त्रीवृद्धबालगोपाल वदनोदीरितानि तु ।।

श्रूयते यत्रकुत्रापि रम्याणि मधुविद्विषः ।। २२ ।।

सुरसाकाननान्येव विलोक्यंते गृहेगृहे।।

चरित्राणि विचित्राणि पवित्राण्यब्धिजापतेः ।। २३ ।।

सौधभित्तिषु दृश्यंते चित्रकृन्निर्मितानि तु ।।

ऋते हरिकथायास्तु नान्या वार्ता निशम्यते ।। ।। २४ ।।

हरिणा नैव विध्यंते हरिनामांशधारिणः ।।

तस्य राज्ञो भयाद्व्याधैररण्यसुखचारिणः ।। २५ ।।

न मत्स्या नैव कमठा न वराहाश्च केनचित् ।।

हन्यंते क्वापि तद्भीत्या मत्स्यमांसाशिनापि वै ।। २६ ।।

अप्युत्तानशयास्तस्य राष्ट्रे मित्रजितः क्वचित् ।।

स्तनपानं न कुर्वंति संप्राप्य हरिवासरम् ।। २७ ।।

पशवोपि तृणाहारं परित्यज्य हरेर्दिने ।।

उपोषणपरा जाता अन्येषां का कथा नृणाम् ।। २८ ।।

महामहोत्सवः सर्वैः पुरौकोभिर्वितन्यते ।।

तस्मिन्प्रशासति भुवं संप्राप्ते हरिवासरे ।। २९ ।।

स एव दंड्योऽभूत्तस्य राज्ञो मित्रजितः क्षितौ ।।

यो विष्णुभक्तिरहितः प्राणैरपि धनैरपि ।। 4.2.82.३० ।।

अंत्यजा अपि तद्राष्ट्रे शंखचक्रांकधारिणः ।।

संप्राप्य वैष्णवीं दीक्षां दीक्षिता इव संबभुः ।। ३१ ।।

शुभानि यानि कर्माणि क्रियंतेऽनुदिनं जनैः ।।

वासुदेवे समर्प्यंते तानि तैरफलेप्सुभिः ।। ३२ ।।

विना मुकुंदं गोविदं परमानंदमच्युतम् ।।

नान्यो जप्येतमन्येत न भज्येत जनैः क्वचित् ।। ३३ ।।

कृष्ण एव परो देव कृष्णएव परागतिः ।।

कृष्ण एव परो बंधुस्तस्यासीदवनीपतेः ।।३४।।

एवं तस्मिन्महीपाले राज्यं सम्यक्प्रशासति ।।

एकदा नारदः श्रीमांस्तं दिदृक्षुः समाययौ ।।३५।।

राज्ञा समर्चितः सोथ मधुपर्क विधानतः ।।

नारदो वर्णयामास तममित्रजितं नृपम् ।। ३६ ।।

।। नारद उवाच ।। ।।

धन्योसि कृतकृत्योसि मान्योप्यसि दिवौकसाम् ।।

सर्वभूतेषु गोविंदं परिपश्यन्विशांपते ।। ३७ ।।

यो वेद पुरुषो विष्णुर्यो यज्ञपुरुषो हरिः ।।

योंतरात्मास्य जगतः कर्ता हर्ताविता विभुः ।। ३८ ।।

तन्मयं पश्यतो विश्वं तव भूपालसत्तम ।।

दर्शनं प्राप्य शुभदं शुचित्वमगमं परम् ।। ३९ ।।

एक एव हि सारोत्र संसारे क्षणभंगुरे ।।

कमलाकांत पादाब्ज भक्तिभावोऽखिलप्रदः ।। 4.2.82.४० ।।

परित्यज्य हि यः सर्वं विप्णुमेकं सदा भजेत् ।।

सुमेधसं भजंते तं पदार्थाः सर्व एव हि ।। ४१ ।।

हृषीकेशे हृषीकाणि यस्य स्थैर्यं गतान्यहो ।।

स एव स्थैर्यमाप्नोति ब्रह्मांडेऽतीव चंचले ।। ४२ ।।

यौवनं धनमायुष्यं पद्मिनीजलबिंदुवत् ।।

अतीव चपलं ज्ञात्वाऽच्युतमेकं समाश्रयेत् ।। ४३ ।।

वाचि चेतसि सर्वत्र यस्य देवो जनार्दनः ।।

स एव सर्वदा वंद्यो नररूपी जनार्दनः ।। ४४ ।।

निर्व्याज प्रणिधानेन शीलयित्वा श्रियःपतिम् ।।

पुरुषोत्तमतां को न प्राप्तवानिह भूतले ।। ४५ ।।

अनया विष्णुभक्त्या ते संतुष्टेंद्रियमानसः ।।

उपकर्तुमना ब्रूयां तन्निशामय भूपते ।। ४६ ।।

बाला विद्याधरसुता नाम्ना मलयगंधिनी ।।

क्रीडंती पितुराक्रोडे हृता कंकालकेतुना ।। ४७ ।।

कपालकेतुपुत्रेण दानवेन बलीयसा ।।

आगामिन्यां तृतीयायां तस्याः पाणिग्रहृं किल ।। ४८ ।।

पाताले चंपकावत्यां नगर्यां सास्ति सांप्रतम् ।।

हाटकेशात्समागच्छंस्तया हंसाश्रुनेत्रया ।। ४९ ।।

दृष्टः प्रणम्य विज्ञप्तो यथा तच्च निथामय ।।

ब्रह्मचारिन्मुनिश्रेष्ठ गंधमादनशैलतः ।। 4.2.82.५० ।।

बालक्रीडनकासक्तां मोहयित्वा निनाय सः ।।

कंकालकेतुर्दुर्वृत्तो दुर्जयोन्यास्त्रघाततः ।। ५१ ।।

स्वस्य त्रिशूलघातेन म्रियते नान्यथा रणे ।।

जगत्पर्याकुलीकृत्य निद्रात्यत्रविनिर्भयः ।। ५२ ।।

यदि कोपि कृतज्ञो मां हत्वेमं दुष्टदानवम् ।।

मद्दत्तेन त्रिशूलेन नयेद्भद्रं भवेन्नरः ।। ५३ ।।

यदत्रोपचिकीर्षुस्त्वं रक्ष मां दुष्टदानवात् ।।

ममापि हि वरो दत्तो भगवत्या महामुने ।। ५४ ।।

विष्णुभक्तो युवा धीमान्पुत्रि त्वां परिणेष्यति ।।

आ तृतीया तिथि यथा तद्वाक्यं तथ्यतां व्रजेत् ।। ५५ ।।

तथा निमित्तमात्रं त्वं भव यत्नं समाचर ।।

इति तद्वचनाद्राजन्विष्णुभक्तिपरायणम् ।।

युवानं चापि धीमंतं त्वामनु प्राप्तवानहम् ।।५६।।

तद्गच्छ कार्यसिद्ध्यै त्वं हत्वा तं दुष्टदानवम् ।।

आनयाशु महाबाहो शुभां मलयगंधिनीम् ।। ५७ ।।

सा तु विद्याधरी जीवेद्विलोक्य त्वां नरेश्वर ।।

पार्वतीवचनाद्दुष्टं घातयिष्यत्ययत्नतः ।। ५८ ।।

इति नारदवाक्यं स निशम्यामित्रजिन्नृपः ।।

अनल्पोत्कलिको जातो विद्याधरसुतां प्रति ।। ५९ ।।

उपायं चापि पप्रच्छ गंतुं तां चंपकावतीम् ।।

नारदेन पुनः प्रोक्तः स राजा गिरिराजजे ।। 4.2.82.६० ।।

तूर्णमर्णवमासाद्य पूर्णिमादिवसे नृप ।।

भवान्द्रक्ष्यति पोतस्थः कल्पवृंदारथस्थितम् ।।६१।।

तत्र दिव्यांगना काचिद्दिव्यपर्यंक संस्थिता ।।

वीणामादाय गायंती गाथां गास्यति सुस्वरम् ।। ६२ ।।

यत्कर्मविहितं येन शुभं वाथ शुभेतरम् ।।

स एव भुंक्ते तत्तथ्यं विधिसूत्रनियंत्रितः ।। ६३ ।।

गाथामिमां सा संगीय सरथा स महीरुहा ।।

सपर्यंका क्षणादेव मध्ये सिंधुं प्रवेक्ष्यति ।।६४।।

भवानप्यविशंकं च ततः पोतान्महार्णवे ।।

तामनु व्रजतु क्षिप्रं यज्ञवाराहमास्तुवन् ।।६५।।

ततो द्रक्ष्यसि पाताले नगरीं चंपकावतीम् ।।

महामनोहरा राजन्सहितां बालयानया ।।६६।।

इत्युक्त्वांतर्हितो देवि स चतुर्मुखनंदनः ।।

राजाप्यर्णवमासाद्य यथोक्तं परिलक्ष्य च ।। ६७ ।।

विवेशांतःसमुद्रं च नगरीमाससाद ताम् ।।

साथ विद्याधरी बाला नेत्रप्राघुणकी कृता ।। ६८ ।।

तेन राज्ञा त्रिजगती सौंदर्यश्रीरिवैकिका ।।

पातालदेवतेयं वा ममनेत्रोत्सवाय किम् ।।६९।।

निरणायि मधुद्वेष्ट्रा स्रष्टुः सृष्टिविलक्षणा ।।

कुहूराहुभयादेषा कांतिश्चांद्रमसी किमु ।।4.2.82.७०।।

योषिद्रूपं समाश्रित्य तिष्ठतेऽत्राकुतोऽभया ।।

इत्थं क्षणं तां निर्वर्ण्य स राजागात्तदंतिकम् ।। ७१ ।।

सा विलोक्याथ तं बाला नितरां मधुराकृतिम् ।।

विशालोरस्थलतलं प्रलंबतुलसीस्रजम् ।। ७२ ।।

शंखचक्रांकसुभग भुजद्वयविराजितम् ।।

हरिनामाक्षरसुधा सुधौत रदनावलिम् ।। ७३ ।।

भवानीभक्तिबीजोत्थं भूरुहं पुरुषाकृतिम् ।।

मनोरथफलैः पूर्णमासीद्धृष्टतनूरुहा ।।७४।।

दोलापर्यंकमुत्सृज्य ह्रीभरा नम्रकंधरा ।।

वेपथुं च परिष्टभ्य बाला प्रोवाच भूपतिम् ।।७५ ।।

कस्त्वमत्र कृतांतस्य भवनं मधुराकृते ।।

प्राप्तो मे मंदभाग्यायाश्चेतोवृत्तिं निरुंधयन् ।। ७६ ।।

यावन्नायाति सुभग स कठोरतराकृतिः ।।

अतिपर्याकुलीकृत्य त्रिलोकीं दानवो मुहुः ।।७७।।

कंकालकेतुर्दुर्वृत्तस्त्ववध्यः परहेतिभिः ।।

तावद्गुप्तं समातिष्ठ शस्त्रागारेति गह्वरे ।।७८।।

न मे कन्याव्रतं भंक्तुं स समर्थ उमा वरात्।।

आगामिन्यां तृतीयायां परश्वः पाणिपीडनम् ।। ७९ ।।

संचिकीर्षति दुष्टात्मा गतायुर्मम शापतः ।।

मा तद्भीतिं कुरु युवंस्तत्कार्यं भविताचिरम् ।। 4.2.82.८० ।।

विद्याधर्येति चोक्तः स शस्त्रागारे निगूढवत् ।।

स्थितो वीरो महाबाहुर्दानवागमने क्षणः ।।८१।।

अथ सायं समायातो दानवो भीषणाकृतिः।।

त्रिशूलं कलयन्पाणौ मृत्योरपि भयावहम् ।। ८२ ।।

आगत्य दानवो रौद्रः प्रलयांबुदनिस्वनः ।।

विद्याधरीं जगादेति मदाघूर्णितलोचनः ।।८३।।

गृहाणेमानि रत्नानि दिव्यानि वरवर्णिनि ।।

कन्यात्वं च परश्वस्ते पाणिग्राहादपैष्यति ।। ८४ ।।

दासीनामयुतं प्रातर्दास्यामि तव सुंदरि ।।

आसुरीणां सुरीणां च दानवीनां मनोहरम् ।। ८५ ।।

गंधर्वीणां नरीणां च किन्नरीणां शतंशतम् ।।

विद्याधरीणां नागीनां यक्षिणीनां शतानि षट् ।। ८६ ।।

राक्षसीनां शतान्यष्टौ शतमप्सरसां वरम् ।।

एतास्ते परिचारिण्यो भविष्यंत्यमलाशये ।। ८७ ।।

यावत्संपत्तिसंभारो दिक्पालानां गृहेषु वै ।।

मत्परिग्रहतां प्राप्य तावतस्त्वमिहेश्वरी ।। ८८ ।।

दिव्यान्भोगान्मया सार्धं भोक्ष्यसे मत्परिग्रहात् ।।

कदा परश्वो भविता यस्मिन्वैवाहिको विधिः ।। ८९ ।।

त्वदंगसंगसंस्पर्श सुखसंदोह मेदुरः ।।

परां निर्वृतिमाप्स्यामि परश्वो निकटं यदि ।। 4.2.82.९० ।।

मनोरथाश्चिरं यावद्यं मे हृदि समेधिताः ।।

तान्कृतार्थी करिष्यामि परश्वस्तव संगमात् ।। ९१ ।।

जित्वा देवान्रणे सर्वानिंद्रादीन्मृगलोचने ।।

त्रैलोक्यैश्वर्यसंपत्तेस्त्वां करिष्यामि चेश्वरीम् ।। ९२ ।।

आधायांके त्रिशूलं स्वे सुष्वापेति प्रलप्य सः ।।

नरमांसवसास्वाद प्रमत्तो वीतसाध्वसः ।। ।।९३।।

वरं स्मरंती सा गौर्या विद्याधरकुमारिका ।।

विज्ञाय तं प्रमत्तं च सुसुप्तं चातिनिर्भयम् ।। ९४ ।।

आहूय तं नरवरं वरं सर्वांगसुंदरम् ।।।

विष्णुभक्तिकृतत्राणं प्राणनाथेति जल्प्य च ।। ९५ ।।

शूलं तदंकादादाय गृहाणेमं जहि द्रुतम् ।।

इति त्रिशूलं बालातो बालार्कसदृशद्युति ।। ९६ ।।

समादाय महाबाहुः स तदा मित्रजिन्नृपः ।।

जहर्ष च जगादोच्चैर्बालायाश्चाभयं दिशन् ।। ९७ ।।

वामपादप्रहारेण तमाताड्य स निर्भयः ।।

संस्मरंश्चक्रिणं चित्ते जगद्रक्षामणिं हरिम् ।। ९८ ।।

जर्गाद तिष्ठ रे दुष्ट कन्याधर्षणलालस ।।

युध्यस्वात्र मया सार्धं न सुप्तं हन्म्यहं रिपुम् ।।९९।।

इति संश्रुत्य संभ्रांत उत्थाय स दनोः सुतः ।।

त्रिशूलं देहि मे कांते प्रोवाचेति मुहुर्मुहुः ।। 4.2.82.१०० ।।

कोयं मृत्युगृहं प्राप्तः कस्य रुष्टोऽद्य चांतकः ।।

क आयुषाद्य संत्यक्तो यः प्राप्तो मम गोचरम् ।।१ ।।

मम प्रचंड दोर्दंड कंडू कंडूयन क्षमः ।।

नाल्पो नरोयं भविता किं त्रिशूलेन सुंदरि ।।२।।

माभैर्मे कौतुकं पश्य भक्ष्योऽयं मम सांप्रतम् ।।

कालेन मत्तो भीतेन स्वयमेवोपढौकितः ।६ ३ ।।

इत्युक्त्वा मुष्टिघातेन तेनोच्चैर्दनुसूनुना ।।

हृदये निहतो राजा शिलातिकठिने द्रुतम् ।। ४ ।।

स चक्रिणा कृतत्राणः पीडामल्पीयसीमपि ।।

नो वेद कठिनोरस्कस्तत्करं प्रत्युतानुदत् ।। ५ ।।

अथ कोपवता राज्ञा हतो वक्त्रे चपेटया ।।

आघूर्णितशिरा भूमौ पतित्वा पुनरुत्थितः ।। ६ ।।

उवाच च वचो धैर्यमवष्टभ्य महाबली ।। ७ ।।

।। दानव उवाच ।। ।।

ज्ञातं न त्वं मनुष्योसि नृरूपेण चतुर्भुजः ।।

आयातश्छिद्रमासाद्य हंतुं मां दानवांतकः ।। ८ ।।

एकं विधेहि मधुभिद्यदि त्वं बलवानसि ।।

विहायैतन्महच्छूलं युध्यस्व स्वायुधैर्मया ।।९।।

त्वया कपटरूपेण बलिनः कैटभादयः ।।

न बलेन हताः संख्ये हता एवच्छलेन हि ।। 4.2.82.११० ।

बलिं पातालमनयस्त्वं नृवामनतां दधत् ।।

नृमृगत्वेन भवता हिरण्यकशिपुर्हतः ।। ११ ।।

त्वया जटिलरूपेण लंकेशो विनिपातितः ।।

गोपालवेषमासाद्य कंसाद्या घातितास्त्वया ।। १२ ।।

स्त्रीरूपेणाहरस्त्वं तु विप्रलाप्या सुरान्सुधाम् ।।

यादो रूपेण भवता शंखाद्यानि हता बहु ।।१३।।

मायाविनामग्रगण्य सर्वमर्मज्ञसाधक ।।

न त्वत्तोहं बिभेम्यद्य यदि शूलं विहास्यसि ।। १४ ।।

अथवा दैन्यवचनः किमेभिः कातरोचितैः ।।

न त्यक्ष्यसि त्रिशूलं त्वं न त्वां जेष्याम्यहं रणे ।। १५ ।।

अवश्यमेव मर्तव्यमद्य प्रातः शरीरिणा ।।

त्वत्करेण वरं मृत्युर्बलेनापिच्छलेन वा ।। १६ ।।

इयं विद्याधरी कन्या न मया दूषिता सती ।।

साक्षाच्छ्रीरेव मंतव्या तवार्थं रक्षिता मया ।। १७ ।।

इत्युक्त्वा वामदोर्दंडप्रहारेणातिनिष्ठुरम् ।।

निजघान दनोः सूनुस्तं शिलोच्चयकंपिना ।। १८ ।।

नृपो वक्षः प्रहारं तं विषह्य रण मूर्द्धनि ।।

लक्षीचकार तद्वक्षस्त्रिशूलं तोलयन्करे ।। १९ ।।

निजघान महाबाहुः स च प्राणाञ्जहौ क्षणात् ।।

इत्थं कंकालकेतुं स निहत्य सुरकंपनम् ।। 4.2.82.१२० ।।

विद्याधरीं प्रपश्यंतीं प्राह हृष्टतनूरुहाम् ।।

नारदस्य मुनेर्वाक्यात्तव सुश्रोणि वांछितम् ।। २१ ।।

कृतं मया कृतज्ञे किं करवाण्यधुना वद ।।

श्रुत्वेति तस्य सा वाक्यं प्राह गंभीरचेतसः ।। २२ ।।

मलयगंधिन्युवाच ।। ।।

अथोदारमते वीर निज प्राणैः पणीकृताम् ।।

किं मां पृच्छसि जीवातो कुलकन्या प्रदूषिताम् ।। २३ ।।

इति ब्रुवत्यां कन्यायां पुनः स्वैरचरो मुनिः ।।

अतर्कितागमः प्राप्तो नारदो देवलोकतः ।।२४।।

ततस्तुतुषतुस्तौ तु दृष्ट्वा तं मुनिसत्तमम् ।।

कृतप्रणामौ मुनिना परिविश्राणिताशिषौ ।।२५।।

पाणिग्रहेण विधिनाऽभिषिक्तौ नारदेन तु ।।

जग्मतुर्नारदादिष्ट वर्त्मना कृतमंगलौ ।। २६ ।।

तया मलयगंधिन्या युतः सोऽमित्रजिन्नृपः ।।

पुरीं वाराणसीं प्राप्य पौरैर्विहितमंगलाम् ।। २७ ।।

यद्वीक्षणादपि नरो नारकी नैव जातुचित् ।।

गतिमाप्नोति मेधावी तां पुरीमविशन्नृपः ।। २८ ।।

यस्यां पुर्यां प्रवेशं न लभंते वासवादयः ।।

कैवल्यजनयित्र्यां हि तां पुरीमविशन्नृपः ।।२९।।

अपि स्मृत्वा पुरीं यां वै काशीं त्रैलोक्यकांक्षिताम् ।।

न नरो लिप्यते पापैस्तां विवेश स भूपतिः ।।।। 4.2.82.१३० ।।

यस्यां पुर्यां प्रविष्टो ना महद्भिरपि पातकैः ।।

नाभिभूयेत तां काशीं प्राविशत्स विशांपतिः ।। ३१ ।।

सापि विद्याधरी काशी समृद्धिं वीक्ष्य दूरतः ।।

निनिंद स्वर्गलोकं च पातालनगरीमपि ।। ३२ ।।

प्राप्या मित्रजितं कांतं तथा हृष्टा न सा वधूः ।।

यथा दृष्ट्वाप्यहो काशीं परमानंदकेतनम् ।। ३३ ।।

सा कृतार्थमिवात्मानं मन्यमाना मनस्विनी ।।

तेन पत्या च काश्या च परां निर्वृतिमाययौ ।। ३४ ।।

सोप्यमित्रजिदासाद्य पत्नीं मलयगंधिनीम् ।।

धर्मप्रधानं संसेव्य कामं प्राप्तोत्तमं सुखम् ।। ३५ ।।

सैकदा तं पतिं राज्ञी विष्णुभक्तिपरायणम् ।।

रहो विज्ञापयांचक्रे पतिभक्ता सुतार्थिनी ।। ३६ ।।

।। राज्ञ्युवाच ।। ।।

भूपाभीष्टतृतीयायाश्चरिष्यामि महाव्रतम् ।।

यद्यनुज्ञा भवेद्भर्तुः पुत्रकामार्थितप्रदम् ।। ३७ ।।

।। राजोवाच ।। ।।

देव्यभीष्टतृतीयायां व्रतं कीदृग्भवेद्वद ।।

का देवता तत्र पूज्या विधानं चापि किं फलम् ।। ३८ ।।

नारी पत्यननुज्ञाता या व्रतादि समाचरेत् ।।

जीवंती दुःखिनी सा स्यान्मृता निरयमृच्छति ।। ३९ ।।

इति राज्ञोदिता राज्ञी प्रवक्तुमुपचक्रमे ।।

इति कर्तव्यतां तस्य व्रतस्य सरहस्यकाम्।।4.2.82.१४०।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्ध वीरेश्वराविर्भावेऽमित्रजित्पराक्रमो नाम द्व्यशीतितमोध्यायः ।। ८२ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 83

राज्ञ्युवाच ।। ।।

अवधेहि धरानाथ कथयामि यथातथम् ।।

व्रतस्यास्य विधानं च फलं चाभीष्टदेवताम् ।। १ ।।

पुरा पुरः श्रीदपत्न्याः श्रीमुख्या ब्रह्मसूनुना ।।

नारदेन सुतार्थिन्या व्रतमेतदुदीरितम् ।। २ ।।

चीर्णं चाथ तया देव्या पुत्रोभून्नलकूबरः ।।

अन्याभिरपि बह्वीभिः पुत्राः प्राप्ता व्रतादितः ।। ३ ।।

विधिनाप्यत्र संपूज्या गौरी सर्वविधानवित् ।।

स्तनंधयेन सहिता धयता स्तनमुन्मुखम् ।। ४ ।।

मार्गशीर्ष तृतीयायां शुक्लायां कलशोपरि ।।

ताम्रपात्रं निधायैकं तंडुलैः परिपूरितम् ।। ५ ।।

अविच्छिन्नं नवीनं च रजनीरागरंजितम् ।।

वासः पात्रोपरि न्यस्य सूक्ष्मात्सूक्ष्मतरं परम् ।।६।।

तस्योपरि शुभं पद्मं रविरश्मिविकासितम् ।।

तत्कर्णिकाया उपरि चतुःस्वर्णविनिर्मितम् ।। ७ ।।

विधिं संपूजयेद्भक्त्या रत्नपट्टाबंरादिभिः ।।

पुष्पैर्नानाविधै रम्यैः फलैर्नारंगमुख्यकैः ।। ८ ।।

सुगंधैश्चंदनाद्यैश्च कर्पूर मृगनाभिभिः ।।

परमान्नादि नैवेद्यैः पक्वान्नैर्बहुभंगिभिः ।।९।।

धूपैरगुरुमुख्यैश्च रम्ये कुसुममंडपे ।।

रात्रौ जागरणं कार्यं विनिंद्रैः परमोत्सवैः ।। 4.2.83.१० ।।

हस्तमात्रमिते कुंडे जातवेदस इत्यृचा ।।

घृतेन मधुनाप्लुत्य जुहुयान्मंत्रविद्द्विजः ।। ११ ।।

सहस्रकमलानां च स्मेराणां स्वयमेव हि ।।

नवप्रसूतां कपिलां सुशीलां च पयस्विनीम् ।। १२ ।।

दद्यादाचार्यवर्याय सालंकारां सलक्षणाम् ।।

उपोष्य दंपती भक्त्या नवांबरविभूषितौ ।। १३ ।।

प्रातःस्नात्वा चतुर्थ्यां च संपूज्याचार्यमादृतः ।।

वस्त्रैराभरणैर्माल्यैर्दक्षिणाभिर्मुदान्वितौ ।। १४ ।।

सोपस्करां च तां मृर्तिमाचार्याय निवेदयेत् ।।

समुच्चरन्निमं मंत्रं व्रतकृन्मिथुनं मुदा ।। १५ ।।

नमो विश्वविधानज्ञे विधे विविधकारिणि ।।

सुतं वंशकरं देहि तुष्टामुष्माद्व्रताच्छुभात् ।। १६ ।।

सहसं भोजयित्वाथ द्विजानां भक्तिपूर्वकम् ।।

भुक्तशेषेण चान्नेन कुर्याद्वै पारणं ततः ।। १७ ।।

इत्थमेतद्व्रतं राजंश्चिकीर्षामि त्वया सह ।।

कुरु चैतत्प्रियं मह्यमभीष्टफललब्धये ।। १८ ।।

इति भूपालवर्येण श्रुत्वा संहृष्टचेतसा ।।

मुनेव तं समाचीर्णं सांतर्वत्नी बभूव ह ।। १९ ।।

तयाथ प्रार्थिता गौरी गर्भिण्या भक्तितोषिता ।।

पुत्रं देहि महामाये साक्षाद्विष्ण्वंशसंभवम् ।। 4.2.83.२० ।।

जातमात्रो व्रजेत्स्वर्गं पुनगयाति चात्र वै ।।

भक्तः सदाशिवेऽत्यर्थं प्रसिद्धः सर्वभूतले ।।२१।।

विनैव स्तन्यपानेन षोडशाब्दाकृतिः क्षणात् ।।

एवंभूतः सुतो गौरि यथा मे स्यात्तथाकुरु ।।२२।।

मृडान्यापि तथेत्युक्ता राज्ञी भक्त्यातितुष्टया ।।

अथ कालेन तनयं मूलर्क्षे साप्यजीजनत् ।। २३ ।।

हितैरमात्यैरथ सा विज्ञप्तारिष्टसंस्थिता ।।

देवि राजार्थिनी चेत्त्वं त्यज दुष्टर्क्षजं सुतम् ।। ।। २४ ।।

सा मंत्रिवाक्यमाकर्ण्य केवलं पतिदेवता ।।

अत्याक्षीत्तं तथा प्राप्तं तनयं नयकोविदा ।। २५ ।।

धात्रेयिकां समाकार्य प्राहेदं सा नृपांगना ।।

पंचमुद्रे महापीठे विकटा नाम मातृका ।। २६ ।।

तदग्रे स्थापयित्वामुं बालं धात्रेयिके वद ।।

गौर्यादत्तः शिशुरसौ तवाग्रे विनिवेदितः ।। २७ ।।

राज्ञ्या पत्युः प्रियेषिण्या मंत्रिविज्ञप्तिनुन्नया ।।

सापि राज्ञ्युदितं श्रुत्वा शिशुं लास्य शशिप्रभम् ।। २८ ।।

विकटायाः पुरः स्थाप्य गृहं धात्रेयिका गता ।।

अथ सा विकटा देवी समाहूय च योगिनीः ।। २९ ।।

उवाच नयत क्षिप्रं शिशुं मातृगणाग्रतः ।।

तासामाज्ञां च कुरुत रक्षतामुं प्रयत्नतः ।। 4.2.83.३० ।।

योगिन्यो विकटावाक्यात्खेचर्यस्ताः क्षणेन तम् ।।

निन्युर्गगनमार्गेण ब्राह्म्याद्या यत्र मातरः ।। ३१ ।।

प्रणम्य योगिनीवृंदं तं शिशुं सूर्यवर्चसम् ।।

पुरो निधाय मातॄणां प्रोवाच विकटोदितम् ।। ३२ ।।

ब्रह्माणी वैष्णवी रौद्री वाराही नारसिंहिका ।।

कौमारी चापि माहेंद्री चामुंडा चैव चंडिका । ३३ ।।

दृष्ट्वा तं बालकं रम्यं विकटाप्रेषितं ततः ।।

पप्रच्छुर्युगपड्डिंभं कस्ते तातः प्रसूश्च कः।। ३४ ।।

मातृभिश्चेति पुष्टः स यदा किंचिन्न वक्ति च ।।

तदा तद्योगिनीचक्रं प्राह मातृगणस्त्विति ।। ३५ ।।

राज्ययोग्यो भवत्येष महालक्षणलक्षितः ।।

पुनस्तत्रैव नेतव्यो योगिन्यस्त्वविलंबितम् ।। ३६ ।।

पंचमुद्रा महादेवी तिष्ठते यत्र काम्यदा ।

यस्याः संसेवनान्नृणां निर्वाणश्रीरदूरतः ।। ३७ ।।

सर्वत्रशुभजन्मिन्यां काश्यां मुक्तिः पदेपदे ।।

तथापि सविशेषं हि तत्पीठं सर्वसिद्धिकृत् ।। ३८ ।।

तत्पीठसेवनादस्य षोडशाब्दाकृतेः शिशोः ।।

सिद्धिर्भवित्री परमा विश्वेशानुग्रहात्परात् ।। ।। ३९ ।।

एवं मातृगणाशीर्भिर्योगिनीभिः क्षणेन हि ।।

प्रापितो मातृवाक्येन पंचमुद्रांकितं पुनः ।। 4.2.83.४० ।।

संप्राप्य तन्महापीठं स्वर्गलोकादिहागतः ।।

आनंदकानने दिव्यं तताप विपुलं तपः ।। ४१ ।।

तपसातीव तीव्रेण निश्चलेंद्रियचेतसः ।।

तस्य राजकुमारस्य प्रसन्नोभूदुमाधवः। ।।४२।।

आविर्बभूव पुरतो लिंगरूपेण शंकरः ।।

प्रोवाच च प्रसन्नोस्मि वरं ब्रूहि नृपांगज ।।४३।।

।। स्कंद उवाच ।। ।।

सर्वज्योतिर्मयं लिंगं पुरतो वीक्ष्य वाङ्मयम् ।।

सप्तपातालमुद्भिद्य स्थितं बृहदनुग्रहात ।। ४४ ।।

प्रणम्य दंडवद्भूमौ परितुष्टाव धूर्जटिम् ।।

सूक्तैर्जन्मांतराभ्यस्तैः सुहृष्टो रुद्रदेवतैः ।। ४५ ।।

ततः प्रसन्नो भगवान्देवदेवो महेश्वरः ।।

संतुष्टस्तपसा तस्य प्रोवाच वृषभध्वजः।। ४६ ।।

।। देवदेव उवाच ।। ।।

वरं वरय संतप्त तपसा क्लेशितं वपुः ।।

त्वयेदं बालवपुषा वशीकृतं मनो मम ।। ४७ ।।

शिवोक्तं च समाकर्ण्य वरदानं पुनःपुनः ।।

वरं च प्रार्थयांचक्रे परिहृष्टतनूरुहः ।। ४८ ।।

।। कुमार उवाच ।। ।।

देवदेवमहादेव यदि देयो वरो मम ।।

तदत्र भवता स्थेयं भवतापहृता सदा ।। ४९ ।।

अस्मिँल्लिंगे स्थितः शंभो कुरु भक्तसमीहितम् ।।

विना मुद्रादिकरणं मंत्रेणापि विना विभो ।। 4.2.83.५० ।।

दिश सिद्धिं परामत्र दर्शनात्स्पर्शनान्नतेः ।।

अस्य लिंगस्य ये भक्ता मनोवाक्कायकर्मभिः ।।५१ ।।

सदैवानुग्रहस्तेषु कर्तव्यो वर एष मे ।।

इति तद्व्रतमाकर्ण्य लिंगरूपोवदत्प्रभुः ।।५२।।

एवमस्तु यदुक्तं ते वीरवैष्णव सूनुना ।।

जनेतुर्विष्णुभक्ताच्च राज्ञोऽमित्रज्जितो भवान् ।। ५३ ।।

विष्ण्वंश एवमुत्पन्नो मम भक्तिपरांगज ।।

वीरवीरेश्वरं नाम लिंगमेतत्त्वदाख्यया ।। ५४ ।।

काश्यां दास्यत्यभीष्टानि भक्तानां चिंतितान्यहो ।।

अस्मिँल्लिंगे सदा वीर स्थास्याम्यद्यदिनावधि ।। ५५ ।।

दास्यामि च परां सिद्धिमाश्रितेभ्यो न संशयः ।।

परं न महिमानं मे कलौ कश्चिच्च वेत्स्यति ।। ५६ ।।

यस्तु वेत्स्यति भाग्येन स परां सिद्धिमाप्स्यति ।।

अत्र जप्तं हुतं दत्तं स्तुतमर्चितमेव वा ।। ५७ ।।

जीर्णोद्धारादिकरणमक्षय्यफलहेतुकम् ।।

त्वं तु राज्यं परं प्राप्य सर्वभूपालदुर्लभम्।। ५८ ।।

भुक्त्वा भोगांश्च विपुलानंते सिद्धिमवाप्स्यसि ।।

पुरी वाराणसी रम्या सर्वस्मिञ्जगतीतले ।।५९।।

पुण्यस्तत्रापि संभेदः सरितोरसि गंगयोः ।।

ततोऽपि च हयग्रीवं तीर्थं चैवाति पुण्यदम् ।। 4.2.83.६० ।।

यत्र विष्णुर्हयग्रीवो भक्तचिंतितमर्पयेत् ।।

हयग्रीवाच्च वै तीर्थाद्गजतीर्थं विशिष्यते ।। ६१ ।।

यत्र वै स्नानमात्रेण गजदानफलं लभेत् ।।

कोकावराहतीर्थं च पुण्यदं गजतीर्थतः ।। ६२ ।।

कोकावराहमभ्यर्च्य तत्र नो जन्मभाग्जनः ।।

अपि कोकावराहाच्च दिलीपेश्वरसन्निधौ ।। ६३ ।।

दिलीपतीर्थं सुश्रेष्ठं सद्यः पापहरं परम् ।।

ततः सगरतीर्थं च सगरेश समीपतः ।। ६४ ।।

यत्र मज्जन्नरो मज्जेन्न भूयो दुःखसागरे ।।

सप्तसागरतीर्थं च शुभं सगरतीर्थतः ।। ६५ ।।

सप्ताब्धिस्नानजं पुण्यं यत्र स्नात्वा नरो लभेत् ।।

महोदधीति विख्यातं तीर्थं सप्ताब्धितीर्थतः ।। ६६ ।।

सकृद्यत्राप्लुतो धीमान्दहेदघमहोदधिम् ।।

चौरतीर्थं ततः पुण्यं कपिलेश्वर सन्निधौ ।। ६७ ।।

पापं सुवर्णचौर्यादि यत्र स्नात्वा क्षयं व्रजेत् ।।

हंसतीर्थ ततोपीड्यं केदारेश्वर सन्निधौ ।। ६८ ।।

हंस स्वरूपी यत्राहं नयामि ब्रह्मदेहिनः ।। ६९ ।।

ततस्त्रिभुवनाख्यस्य केशवस्याति पुण्यदम् ।।

तीर्थं यत्राप्लुता मर्त्या मर्त्यलोकं विशंति न ।। 4.2.83.७० ।।

गोव्याघ्रे श्वर तीर्थं च ततोप्यधिकमेव हि ।।

स्वभाववैरमुत्सृज्य यत्रोभौ सिद्धिमापतुः ।। ७१ ।।

ततोपि हि वरं वीर तीर्थं मांधातुसंज्ञितम् ।।

चक्रवर्तिपदं यत्र प्राप्तं तेन महीभुजा ।। ७२ ।।

ततोपि मुचुकुंदाख्यं तीर्थं चातीव पुण्यदम् ।।

यत्र स्नातो नरो जातु रिपुभिर्नाभिभूयते ।।७३।।

पृथु तीर्थं ततोप्युच्चैः श्रेयसां साधनं परम् ।।

पृथ्वीश्वरं यत्र दृष्ट्वा नरः पृथ्वीपतिर्भवेत् ।। ७४ ।।

ततः परशुरामस्य तीर्थं चातीव सिद्धिदम् ।।

यत्र क्षत्रवधात्पापाज्जामदग्न्यो विमुक्तवान् । ।७५।

अद्यापि क्षत्रवधजं पापं तत्र प्रणश्यति ।।

एकेन स्नानमात्रेण ज्ञानाज्ञानकृतेन च ।। ७६ ।।

ततोपि श्रेयसां कर्तृ तीर्थं कृष्णाग्रजस्य हि ।।

यत्र सूतवधात्पापाद्बलदेवो विमुक्तवान् ।। ७७ ।।

दिवोदासस्य वै तीर्थं तत्र राज्ञोऽतिमेधसः ।।

तत्र स्नातो नरो जातु न ज्ञानाच्च्यवतेंऽततः ।। ७८ ।।

ततोपि हि महातीर्थं सर्वपापप्रणाशनम् ।।

यत्र भागीरथी साक्षान्मूर्तिरूपेण तिष्ठति ।। ७९ ।।

स्नात्वा भागीरथी तीर्थे कृत्वा श्राद्धं विधानवित् ।।

दत्त्वा दानं च पात्रेभ्यो न भूयो गर्भभाग्भवेत् ।। 4.2.83.८० ।।

हरपापं च भो वीर तीर्थं भागीरथीतटे ।।

तत्र स्नात्वा क्षयं यांति महापापकुलान्यपि ।।८१।।

यो निष्पापेश्वरं लिंगं तत्र पश्यति मानवः ।।

निष्पापो जायते वीर स तल्लिंगेक्षणात्क्षणात् ।।८२।।

दशाश्वमेधतीर्थं च ततोपि प्रवरं मतम् ।।

दशानामश्वमेधानां यत्र स्नात्वा फलं लभेत् ।८३।।

ततोपि शुभदं वीर बंदीतीर्थं प्रचक्षते ।।

यत्र स्नातो नरो मुच्येदपि संसारबंधनात् ।। ८४ ।।

हिरण्याक्षेण दैत्येन बहुशो देवताः पुरा ।।

बंदीकृता निगडिता स्तुष्टुवुर्जगदंबिकाम् ।। ८५ ।।

ततो विशृंखलीभूतैर्वंदिता यज्जगज्जनिः ।।

तदा प्रभृति बंदीति गीयतेद्यापि मानवैः ।। ८६ ।।

बंदीतीर्थस्तु तत्रैव महानिगडखंडनम् ।।

तत्र स्नातो विमुच्येत सर्वस्मात्कर्मपाशतः ।। ८७ ।।

बंदीतीर्थं महाश्रेष्ठं काशिपुर्यां विशांपते ।।

तत्र स्नातो नरो यायाद्विमुक्तिं देव्यनुग्रहात् ।। ८८ ।।

ततोपि हि श्रेष्ठतरं प्रयागमिति विश्रुतम् ।।

प्रयागमाधवो यत्र सर्वयागफलप्रदः ।। ८९ ।।

क्षोणीवराहतीर्थं च ततोपि शुभदं परम् ।।

तत्र स्नातो नरो जातु तिर्यग्योनिं न गच्छति ।। 4.2.83.९० ।।

ततः कालेश्वरं तीर्थं वीरश्रेष्ठतरं परम् ।।

कलिकालौ न बाधेते यत्र स्नातं नरोत्तमम् ।।९१ ।।

अशोकतीर्थं तत्रैव ततोप्यतितरां शुभम् ।।

यत्र स्नातो नरो जातु नापतेच्छोकसागरे ।। ९२ ।।

ततोति निर्मलतरं शुक्रतीर्थं नृपांगज ।।

शुक्रद्वारा न जायेत यत्र स्नातो नरोत्तमः ।।९३।।

ततोऽपि पुण्यदं राजन्भवानीतीर्थमुत्तमम् ।।

यत्र स्नात्वा भवानीशौ दृष्ट्वा नैव पुनर्भवेत् ।। ९४ ।।

प्रभासतीर्थं विख्यातं ततोपि शुभदं नृणाम् ।।

सोमेश्वरस्य पुरतस्तत्र स्नातो न गर्भभाक् ।। ९५ ।।

ततो गरुडतीर्थं च संसारविषनाशनम् ।।

गरुडेशं समभ्यर्च्य तत्र स्नात्वा न शोचति ।। ९६ ।।

ब्रह्मतीर्थं ततः पुण्यं वीरब्रह्मेश्वरात्पुरः ।।

ब्रह्मविद्यामवाप्नोति तत्र स्नानेन मानवः ।। ९७ ।।

ततो वृद्धार्कतीर्थं च विधितीर्थं ततः परम् ।।

तत्राप्लुतो नरो याति रविलोकं सुनिर्मलम् ।। ९८ ।।

ततो नृसिंहतीर्थं च महाभयनिवारणम् ।।

कालादपि कुतस्तत्र स्नात्वा परिबिभेति च ।। ९९ ।।

ततोपि पुण्यदं नृणां तीर्थं चित्ररथेश्वरम् ।।

यत्र स्नात्वा च दत्त्वा च चित्रगुप्तं न पश्यति ।।4.2.83.१ ० ०।।

धर्मतीर्थं ततः पुण्यं धर्मेश पुरतः स्थितम् ।।

तत्र श्राद्धदिकं कृत्वा पितॄणामनृणो भवेत् ।।१।।

विशालतीर्थं विमलं विशालफलदं ततः ।।

तत्र स्नात्वा विशालाक्षी दृष्ट्वा गर्भेन जायते ।। २ ।।

जरासंधेश तीर्थं च जरासंधेशसन्निधौ ।।

संसारज्वरपीडाभिस्तत्र स्नातो न मुह्यति ।। ३ ।।

ततोऽपि ललितातीर्थं महासौभाग्यवर्धनम् ।।

स्नात्वार्चयित्वा ललितां न दरिद्रो न दुःखभाक् ।। ४ ।।

ततो गौतमतीर्थं च सर्वपापविशोधनम् ।।

स्नात्वा पिंडान्विनिर्वाप्य यत्र शोचति न क्वचित् ।। ५ ।।

गंगाकेशवतीर्थं च तीर्थं चागस्त्य संज्ञकम् ।।

ततस्तु योगिनीतीर्थं त्रिसंध्याख्यं ततः परम् ।। ६ ।।

ततस्तु नार्मदं तीर्थं तत आरुंधतेयकम् ।।

वासिष्ठं च ततस्तीर्थं मार्कंण्डेयमनुत्तमम् ।। ७ ।।

ज्ञेयान्येतानि तीर्थानि पुण्यदान्युत्तरोत्तरम ।।

खुरकर्तरि संज्ञं च ततस्तीर्थमनुत्तमम् ।। ८ ।।

तत्र श्राद्धादिकरणान्नरोमुच्येत किल्बिषैः ।।

ततो भगीरथं तीर्थं राजर्षेरतिपुण्यदम्।। ९ ।।

तत्राल्पमपि यच्छेद्यत्कल्पांतेप्यक्षयं हि तत् ।।

एतेभ्योपि हि तीर्थेभ्यो लिंगकोटित्रयादपि ।।4.2.83.११० ।।

वीरवीरेश्वरं लिंगं महाश्रेष्ठं भविष्यति ।।

वीरतीर्थे नरः स्नात्वा वीरेशं परिपूज्य च ।। ११ ।।

तीर्थेष्वेतेषु सर्वेषु स्नातो भवति नान्यथा ।।

यस्तु वीरेश्वरं लिंगं नक्तमभ्यर्चयिप्यति ।।

तेन त्रिकोटिसंख्यानि लिंगानीहार्चितानि वै ।। १२ ।।

यस्तु कामयते लक्ष्मीं मुक्तिदां भुक्तिदामपि ।।

तेन वीरेश्वरं लिंगं संसेव्यमतियत्नतः ।। १३ ।।

विधायैकं जागरणं नरो वीरेशमर्चयन् ।।

भूतायां नैव गृह्णाति शरीरं पांचभौतिकम् ।। १४ ।।

इदं लिंगं सदाभ्यर्च्यं सिद्धैः संसिद्धिकामुकैः ।।

ऐहिकामुष्मिकान्यस्मात्सर्वान्कामान्समर्थयेत् ।। १५ ।।

पंचामृतेन स्नपनं यः करिष्यति मानवः ।।

पलेपले फलं तस्य वीरेशे घटकोटिजम् ।। १६ ।।

यदन्यत्र फलं लिंगे कोटिपुष्प प्रदानतः ।।

तदेकेनैव पुष्पेण वीरेशे नात्र संशयः ।। १७ ।।

एकामप्याहुतिं दत्त्वा वीरेश्वरसमीपतः ।।

कोटिहोमफलं सम्यङ्नात्र कार्या विचारणा ।। १८ ।।

सिक्थेसिक्थे च नैवैद्यै कोटिसिक्थफलं भवेत् ।।

अत्यल्पमपि वीरेशे कृतमक्षयतां व्रजेत् ।। १९ ।।

अप्येकं यो महारुद्रं जपेद्वीरेश सन्निधौ ।।

जापयेद्वा भवेत्तस्य कोटिरुद्रफलं ध्रुवम् ।। 4.2.83.१२० ।।

व्रतोत्सर्गादि वीरेशे यत्कृतं व्रतिभिर्नृभिः ।।

तत्कोटिगुणसंख्याकं भवत्येव न संशयः ।। २१ ।।

कृता अष्टौ नमस्कारा येन वीरेश्वराग्रतः ।।

अष्टकोटि नमस्कारफलं तस्य न संशयः ।। २२ ।।

सर्वासां संपदां स्थानमिदं लिंगं भविष्यति ।।

वीरश्वेरं न संदेहो वीर मे वरदानतः ।। २३ ।।

ज्ञानमुत्पत्स्यते पुंसां तारकाख्यं ममाज्ञया ।।

जीवतामेव तत्सेव्यमेतल्लिंगं शुभार्थिभिः ।। २४ ।।

एतच्छ्रुत्वा पुनः प्राह वीरो मित्रजितः सुतः ।।

प्रणम्य देवदेवेशं परिपूर्णमनोरथः ।। २५ ।।

तीर्थान्येतानि देवेश यान्युक्तानि ममाग्रतः ।।

कृपया पुनरप्येव तदन्यानि वद प्रभो ।। २६ ।।

आदिकेशवमारभ्य तत्तीर्थाच्च भगीरथात् ।।

येषां श्रवणमात्रेण निष्पापो जायते नरः ।। २७ ।।

इति श्रुत्वा महेशानो महीप तनयोदितम् ।।

पुनस्तीर्थानि गंगायां वक्तुं समुपचक्रमे ।। १२८ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्धे वीरेश्वराविर्भावोनाम त्र्यशीतितमोऽध्यायः ।। ८३ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 84

।। स्कंद उवाच ।।

आकर्णय क्षोणिसुर यथा स्थाणुरचीकरत् ।।

गंगावरणयोः पुण्यात्संभेदात्तीर्थभूमिकाम्।। १ ।।

संगमे तत्र निष्णातः संगमेशं समर्च्य च ।।

नरो न जातु जननी गर्भसंगमवाप्नुयात् ।। २ ।।

तत्र पादोदकं तीर्थं यत्र देवेन शार्ङ्गिणा ।।

आदौ पादौ क्षलितौ तु मंदराच्चागतेन यत् ।। ३ ।।

विप्णुपादोदके तीर्थे वारिकार्यं करोति यः ।।

व्यतीपातेन नियतं भूयः सांसारिकी गतिः ।।४।।

कृतपादोदक स्नानः कृतकेशवपूजनः ।।

वीतसंसारवसतिः काश्यामासीन्नरोत्तमः ।। ५ ।।

काश्यां सा भूमिरुद्दिष्टा श्वेतद्वीप इति द्विजैः ।।

तत्र पुण्यार्जनं कृत्वा श्वेतद्वीपाधिपो भवेत् ।। ६ ।।

ततः पादोदकात्तीर्थात्तीर्थं क्षीराब्धिसंज्ञकम् ।।

तत्रार्जित महापुण्यो वसेत्क्षीराब्धिरोधसि ।। ७ ।।

क्षीरोदाद्दक्षिणेभागे तीर्थं शंखाख्यनुत्तमम् ।।

तत्र स्नातो भवेन्नूनं नाशंखादिनिधेः पतिः ।। ८ ।।

अर्वाक्च शंखतीर्थाद्वै चक्रतीर्थमनुत्तमम् ।।

संसारचक्रे न पतेत्तत्तीर्थजलमज्जनात् ।। ९।।

गदातीर्थं तदग्रे तु संसारगदनाशनम् ।।

तत्र श्राद्धादिकरणात्पश्येद्देवं गदाधरम् ।। 4.2.84.१० ।।

पद्माकृत्पद्मतीर्थं च तदग्रे पितृतृप्तिकृत् ।।

तत्र स्नानादिकरणात्प्राप्नुयादघसंक्षयम् ।। ११ ।।

ततस्तीर्थं महालक्ष्म्या महापुण्यफलप्रदम् ।।

तत्राभ्यर्च्य महालक्ष्मीं निर्वाणकमलां लभेत् ।। १२ ।।

ततो गारुत्मतं तीर्थं संसारगरनाशनम् ।।

कृतोदकक्रियस्तत्र वैकुंठे वसतिं लभेत् ।। १३ ।।

ततो नारदतीर्थं च ब्रह्मविद्यैककारणम् ।।

तत्र स्नानेन मुक्तः स्याद्दृष्ट्वा नारदकेशवम् ।। १४ ।।

प्रह्लादतीर्थं तद्याम्ये महाभक्तिफलप्रदम् ।।

तत्र वै स्नानमात्रेण विष्णोः प्रियतरो भवेत् ।। १५ ।।

अंबरीषं ततस्तीर्थं महापातकनाशनम् ।।

तत्र वै शुभकर्माणो जना नो गर्भभाजनम् ।। ।। १६ ।।

आदित्यकेशवं नाम तदग्रे तीर्थमुत्तमम् ।।

कृताभिषेकस्तत्रापि लभेत्स्वर्गाभिषेचनम् ।। १७ ।।

दत्तात्रेयस्य तत्रास्ति तीर्थं त्रैलोक्यपावनम् ।।

योगसिद्धिं लभे तत्र स्नानमात्रेण भावतः ।। १८ ।।

तदग्रे भार्गवं तीर्थं महाज्ञानसमर्पकम् ।।

तत्र स्नानविधानेन भवेद्भार्गव लोकभाक् ।। १९ ।।

ततो वामनतीर्थं च विष्णुसान्निध्यहेतुकम् ।।

तत्र श्राद्धविधानेन मुच्यते पितृजादृणात् ।। 4.2.84.२० ।।

नरनारायणाख्यं हि ततस्तीर्थं शुभप्रदम् ।।

तत्तीर्थमज्जनात्पुंसां गर्भवासः सुदुर्लभः ।। २१ ।।

यज्ञवाराहतीर्थं च ततो दक्षिणतः शुभम् ।।

यत्र स्नातस्य वै पुंसां राजसूयफलं ध्रुवम्।। २२ ।।

विदारनारसिंहाख्यं तीर्थं तत्रास्ति पावनम् ।।

यत्रैकस्नानतो नश्येदघ जन्मशतार्जितम् ।। २३ ।।

गोपीगोविंदतीर्थं च ततो वैष्णवलोकदम् ।।

यस्मिन्स्नातो नरो विद्वान्न विंद्याद्गर्भवेदनम् ।। २४ ।।

लक्ष्मीनृसिंहतीर्थं च गोपीगोविंद दक्षिणे ।।

निर्वाणलक्ष्म्या यत्रत्यो व्रियते तु नरोत्तमः ।। २५ ।।

तद्दक्षिणायां काष्ठायां शेषतीर्थमनुत्तमम्।।

महापापौघ शेषोपि न तिष्ठेद्यन्निमज्जनात् ।। ।। २६ ।।

शंखमाधवतीर्थं च तद्याम्यां दिशि चोत्तमम् ।।

तत्तीर्थसेवनान्नृणां कुतः पापभयं महत् ।। २७ ।।

ततोपि पावनतरं तीर्थं तत्क्षणसिद्धिदम् ।।

नीलग्रीवाख्यमतुलं तत्स्नायी सर्वदा शुचिः ।। २८ ।।

तत्रोद्दालकतीर्थं च सर्वाघौघ विनाशनम् ।।

ददाति महतीमृद्धिं स्नानमात्रेण तन्नृणाम् ।। २९ ।।

ततः सांख्याख्य तीर्थं च सांख्येश्वर समीपतः ।।

तत्तीर्थसेवनात्पुंसां सांख्ययोगः प्रसीदति ।। 4.2.84.३० ।।

स्वर्लोकाद्यत्र संलीनः स्वयं देव उमापतिः ।।

अतः स्वर्लीनतीर्थं च स्वर्लीनेश्वर सन्निधौ ।। ३१ ।।

तत्र स्नानेन दानेन श्रद्धया द्विजभोजनैः ।।

जपहोमार्चनैः पुंसामक्षयं सर्वमेव हि ।। ३२ ।।

महिषासुरतीर्थं च तत्समीपेति पावनम् ।।

यत्र तप्त्वा स दैत्येंद्रो विजिग्ये सकलान्सुरान् ।। ३३ ।।

तत्तीर्थसेवकोद्यापि नारिभिः परिभूयते ।।

न पातकैर्महद्भिश्च प्रार्थितं च फलं लभेत् ।। ३४ ।।

बाणतीर्थं च तस्यारात्तत्सहस्रभुजप्रदम् ।।

तत्र स्नातो नरो भक्तिं प्राप्नुयाच्छांभवीं स्थिराम् ।। ३५ ।।

गोप्रतारेश्वरं नाम तदग्रे तीर्थमुत्तमम् ।।

अपुत्रोपि तरेद्यत्र स्नातो वैतरणीं सुखम् ।। ३६ ।।

तीर्थं हिरण्यगर्भाख्यं तद्याम्ये सर्वपापहृत्।।

तत्र स्नातो हिरण्येन मुच्यते न कदाचन ।।३७।।

ततः प्रणवतीर्थं च सर्वतीर्थोत्तमोत्तमम् ।।

जीवन्मुक्तो भवेत्तत्र स्नानमात्रेण मानवः ।। ३८ ।।

ततः पिशंगिला तीर्थं दर्शनादपि पापहृत् ।।

मुने ममाधिष्ठानं वै तदगस्तेऽति सिद्धिदम् ।। ३९ ।।

स्नात्वा पिशंगिला तीर्थे दत्त्वा दानं च किंचन ।।

किं शोचति कृतात्पापादन्यत्रापि मृतो यदि ।। 4.2.84.४० ।।

यो वै पिशंगिला तीर्थे स्नात्वा मामर्चयिष्यति ।।

भविष्यति स मे मित्त्रं मित्रतेजः समप्रभम् ।। ४१ ।।

ततस्त्रैविष्टपीदृष्टि निर्मलीकृत पुष्कलम्।।

तीर्थं पिलिपिलाख्यं वै मनोमलविनाशनम् ।। ४२ ।। ।।

तत्र श्राद्धादिकरणाद्दीनानाथ प्रतर्पणात् ।।

महतीं श्रियमाप्नोति मानवोतीव निश्चलाम् ।। ४३ ।।

ततो नागेश्वरं तीर्थं महाघपरिशोधनम् ।।

तत्तीर्थमज्जनादेव भवेत्सर्वाघसंक्षयः ।। ४४ ।।

तद्दक्षिणे महापुण्यं कर्णादित्याख्यमुत्तमम् ।।

तीर्थं यत्राप्लुतो मर्त्यो भास्करीं श्रियमावहेत् ।। ४५ ।।

ततो भैरवतीर्थं च महाघौघक्षयप्रदम् ।।

चतुरर्थोदयकरं सर्वविघ्ननिवारणम् ।। ४६ ।।

भौमाष्टम्यां तत्र नरः स्नात्वा संतर्पयेत्पितॄन् ।।

दृष्ट्वा च भैरवं कालं कलिं कालं च संजयेत् ।। ४७ ।।

तीर्थं खर्वनृसिंहाख्यं तीर्थाद्भरवतः पुरः ।।

तत्र स्नातस्य वै पुंसः कुतोघजनितं भयम् ।। ४८ ।।

मृकंडस्य मुनेस्तीर्थं तद्याम्यामतिनिर्मलम ।।

तत्र स्नानेन मर्त्यानां नापायमरणं क्वचित् ।। ४९ ।।

ततः पंचनदाख्यं वै सर्वतीर्थनिषेवितम् ।।

तीर्थं यत्र नरः स्नात्वा न संसारी पुनर्भवेत् ।। 4.2.84.५० ।।

ब्रह्मांडोदरवर्तीनि यानि तीर्थानि सर्वतः ।।

ऊर्जे यत्र समायांति स्वाघौघ परिनुत्तये ।। ५१ ।।

सर्वदा यत्र सर्वाणि दशम्यादिदिनत्रयम् ।।

तिष्ठंति तीर्थवर्याणि निजनैर्मल्यहेतवे ।। ।। ५२ ।।

भूरिशः सर्वतीर्थानि मध्य काशि पदेपदे ।।

परं पांचनदः कैश्चिन्महिमानापि कुत्रचित् ।। ५३ ।।

अप्येकं कार्तिकस्याहस्तत्र वै सफलीकृतम् ।।

जपहोमार्चनादानैः कृतकृत्यास्त एव हि ।। ५४ ।।

सर्वाण्यपि च तीर्थानि युगपत्तुलितान्यपि ।।

नाधिजन्मुः पंचनद्याः कलाया अपि तुल्यताम् ।। ५५ ।।

स्नात्वा पांचनदे तीर्थे दृष्ट्वा वै बिंदुमाधवम् ।।

न जातु जायते धीमाञ्जननी जठराजिरे ।। ५६ ।।

ततो ज्ञानहदं तीर्थं जडानामपि जाड्यहृत् ।।

तत्र स्नातो नरो जातु ज्ञानभ्रंशं न चाप्नुयात् ।। ५७ ।।

तत्र ज्ञानह्रदे स्नात्वा दृष्ट्वा ज्ञानेश्वरं नरः ।।

ज्ञानं तदधिगच्छेद्वै येन नो बाध्यते पुनः ।। ५८ ।।

ततोस्ति मंगलं तीर्थं सर्वामंगलनाशनम् ।।

तत्रावगाहनं कृत्वा भवेन्मंगलभाजनम् ।। ५९ ।।

अमंगलानि नश्येयुर्भवेयुर्मंगलानि च ।।

स्नातुर्वै मंगले तीर्थे नमस्कर्तुश्च मंगलम् ।। ।। 4.2.84.६० ।।

मयूखमालिनस्तीर्थं तदग्रे मलनाशनम् ।।

तत्राप्लुतो गभस्तीशं विलोक्य विमलो भवेत् ।। ६१ ।।

मखतीर्थं तु तत्रैव मखैश्वर समीपतः ।।

मखजं पुण्यमाप्नोति तत्र स्नातो नरोत्तमः ।। ६२ ।।

तत्पार्श्वे बिंदुतीर्थं च परमज्ञानकारणम् ।।

तत्र श्राद्धादिकं कृत्वा लभेत्सुकृतमुत्तमम् ।। ६३ ।।

पिप्पलादस्य च मुनेस्तीर्थं तद्याम्यदिक्स्थितम् ।।

स्नात्वा शनेर्दिने तत्र दृष्ट्वावै पिप्पलेश्वरम् ।। ६४ ।।

पिप्पलं तत्र सेवित्वा अश्वत्थ इति मंत्रतः ।।

शनिपीडां न लभते दुःस्वप्नं चापि नाशयेत् ।। ६५ ।।

ततस्ताम्रवराहाख्यं तीर्थं चैवातिपावनम् ।।

यत्र स्नानेन दानेन न मज्जेदघसागरे ।। ६६ ।।

तदग्रे कालगंगा च कलिकल्मषनाशिनी ।।

तस्यां स्नात्वा नरो धीमांस्तत्क्षणान्निरघो भवेत् ।।६७।।

इंद्रद्युम्नं महातीर्थमिंद्रद्युम्नेश्वराग्रतः ।।

तोयकृत्यं तत्र कृत्वा लोकमैंद्रमवाप्नुयात।। ६८।।

ततस्तु रामतीर्थं च वीररामेश्वराग्रतः।।

तत्तीर्थस्नानमात्रेण वैष्णवं लोकमाप्नुयात् ।। ६९ ।।

तत ऐक्ष्वाकवं तीर्थं सर्वाघौघविनाशनम् ।।

तत्र स्नानेन पूतात्मा जायते मनुजोत्तमः ।। 4.2.84.७० ।।

मरुत्ततीर्थं तत्प्रांते मरुत्तेश्वरसन्निधो ।।

तत्र स्नात्वा तमर्च्येशं महदैश्वर्यमाप्नुयात् ।। ७१ ।।

मैत्रावरुणतीर्थं च ततः पातकनाशनम् ।।

तत्र पिंडप्रदानेन पितॄणां भवति प्रियः ।। ७२ ।।

ततोग्नितीर्थविमलमग्नीश पुरतो महत् ।।

अग्निलोकमवाप्नोति तत्तीर्थपरिमज्जनात् ।। ७३ ।।

अंगारतीर्थं तत्रैव अंगारेश्वरसन्निधौ ।।

तत्रांगार चतुर्थ्यां नु स्नात्वा निष्पापतामियात् ।। ७४ ।।

ततो वै कलितीर्थं च कलशेश्वरसन्निधौ ।।

स्नात्वा तल्लिंगमभ्यर्च्य कलिकालान्न बिभ्यति ।।७५।।

चंद्रतीर्थं च तत्रैव चंद्रेश्वरसमीपतः ।।

तत्र स्नात्वार्च्य चंद्रेशं चंद्रलोकमवाप्नुयात् ।। ७६ ।।

तदग्रे वीरतीर्थं च वीरेश्वर समीपतः ।।

यदुक्तं प्राक्तवपुरस्तीर्थानामुत्तमं परम् ।। ७७ ।।

विघ्नेशतीर्थं च ततः सर्वविघ्नविघातकृत् ।।

जातुचित्तत्र संस्नातो न विघ्नैरभिभूयते ।। ७८ ।।

हरिश्चंद्रस्य राजर्षस्ततस्तीर्थमनुत्तमम् ।।

यत्र स्नातो नरो जातु न सत्याच्चयवते कचित् ।। ७९ ।।

हरिश्चंद्रस्य तीर्थे तु यच्छ्रेयः समुपार्जितम् ।।

तदक्षयफलं वीर इह लोके परत्र च ।। 4.2.84.८० ।।

ततः पर्वततीर्थं च पर्वतेश समीपतः ।।

सर्वपर्वफलं तस्य स्नात्वा पर्वण्यपर्वणि ।।८१।।

कंबलाश्वतरं तीर्थं तत्र सर्वविषापहम् ।।

तत्र स्नातो भवेन्मर्त्यो गीतविद्याविशारदः ।। ८२ ।।

ततः सारस्वतं तीर्थं सर्वविद्योपपादकम् ।।

तिष्ठेयुः पितरस्तत्र सह देवर्षिमानवैः ।। ८३ ।।

उमातीर्थं तु तत्रैव सर्वशक्तिसमन्वितम् ।।

औमेयलोकप्राप्त्यै स्यात्स्नानमात्रेण निश्चितम् ।। ८४ ।।

ततस्त्रिलोकी विख्यातं त्रिलोक्युद्धरणक्षमम् ।।

तीर्थं श्रेष्ठतरं वीर यदाख्या मणिकर्णिका ।। ८५ ।।

चक्रपुष्करिणीतीर्थं तदादौ विष्णुना कृतम् ।।

तदाख्या कर्णनादेव सर्वैः पापैः प्रमुच्यते ।। ८६ ।।

स्वर्गौकसस्त्रिसंध्यं वै जपंति मणिकर्णिकाम् ।।

यन्नामग्रहणं पुंसां श्रेयसं परमाय हि ।। ८७ ।।

यैः श्रुता यैः स्मृता वीर यैर्दृष्टा मणिकर्णिका ।।

त एव कृतिनो लोके कृतकृत्यास्त एव हि ।। ८८ ।।

त्रिलोके ये जपंतीह मानवा मणिकर्णिकाम् ।।

जपामि तानहं वीर त्रिकालं पुण्यकर्मणः ।। ८९ ।।

इष्टं तेन महायज्ञैः सहस्रशतदक्षिणैः ।।

पंचाक्षरी महाविद्या येनोक्ता मणिकर्णिका ।। 4.2.84.९० ।।

महादानानि दत्तानि तेन वै पुण्यकर्मणा ।।

येनाहमर्चितो वीर संप्राप्य मणिकर्णिकाम् ।। ९१ ।।

मणिकर्ण्यंबुभिर्येन तर्पिताः प्रपितामहाः ।।

तेन श्राद्धानि दत्तानि गयायां मधुपायसैः ।। ९२ ।।

मणिकर्णीजलं येन संपीतं शुद्धबुद्धिना ।।

किं तस्य सोमपानैस्तैः पुनरावृत्तिलक्षणैः ।। ९३ ।।

ते स्नाताः सर्वतीर्थेषु महापर्वसुभूरिशः ।।

तथा च सर्वावभृथैर्यैः स्नाता मणिकर्णिका ।। ।। ९४ ।।

तैः सुराः पूजिताः सर्वे ब्रह्मविष्णुमुखा मखैः ।।

यैः स्वर्णकुसुमैरत्नैरर्चिता मणिकर्णिका ।।९५।।

अहं तेनोमया सार्धं दीक्षां संप्राप्य शांभवीम् ।।

अर्चितः प्रत्यहं येन पूजिता णिकर्णिका ।। ९६ ।।

तपांसि तेन तप्तानि शीर्णपर्णादिना चिरम् ।।

सेविता श्रद्धया येन श्रीमती मणिकर्णिका ।। ९७ ।।

दत्त्वा दानानि भूरीणि मखानिष्ट्वा तु भूरिशः ।।

चिरं तप्त्वाप्यरण्येषु स्वर्गैश्वर्यान्महीं पुनः ।। ९८ ।।

विपुलेत्र महीपृष्ठे पंचक्रोश्यां मनोहरा ।।

संश्रिता मणिकर्णीयैस्ते याताश्चानिवर्तकाः ।। ९९ ।।

दानानां च व्रतानां च क्रतूनां तपसामपि ।।

इदमेव फलं मन्ये यदाप्या मणिकर्णिका ।। 4.2.84.१०० ।।

मोक्षलक्ष्मीरियं साक्षाच्छ्रीमती मणिकर्णिका ।।

प्रायोस्या महिमानं वै नवेद्म्यहमपि स्फुटम् ।। १ ।।

अवाच्यां मणिकर्ण्याश्च तीर्थं पाशुपतं परम् ।।

तीर्थं तु रुद्रवासाख्यं विश्वतीर्थमतः परम् ।। २ ।।

मुक्तितीर्थं ततो रम्यमविमुक्तमथोत्तमम् ।।

तीर्थं च तारकं स्कांदं ढुंढेस्तीर्थं ततोपि च ।। ३ ।।

भवानेयमथैशानं ज्ञानतीर्थमथोत्तमम् ।।

नंदितीर्थं विष्णुतीर्थं तीर्थं पैतामहं ततः ।। ४ ।।

नाभितीर्थमिदं चैव ब्रह्मनालमतः परम् ।।

ततो भागीरथं तीर्थं यत्तवाग्रे पुराकथि ।।५।।

तीर्थात्युत्तरवाहिन्यां स्वर्धुन्यां काशिसन्निधौ ।।

संत्यनेकानि पुण्यानि मयोक्तान्यल्पशः पुनः ।। ६ ।।

तत्रापि नितरां श्रेष्ठा पंचतीर्थी(?) नृपांगज ।।

यस्यां स्तात्वा नरो भूयो गर्भवासं न संस्मरेत् ।। ७ ।।

प्रथमं चासिसंभेदं तीर्थानां प्रवरं परम्।।

ततो दशाश्वमेधाख्यं सर्वतीर्थनिषेवितम् ।। ८ ।।

ततः पादोदकं तीर्थमादिकेशवसन्निधौ ।।

ततः पंचनदं पुण्यं स्नानमात्रादघौघहृत् ।। ९ ।।

एतेषामपि तीर्थानां चतुर्णामपि सत्तम ।।

पंचमं मणिकर्ण्याख्यं मनावेयवशुद्धिदम् ।।4.2.84.११०।।

अहं स्नाम्यत्र सततमुमया सह पर्वसु ।।

ब्रह्मणा विष्णुना सार्धं सहेंद्रादिसुरर्षिभिः ।। ११ ।।

अतएवात्र गीयेत गाथेयं श्रुतिसंमता।।

नागलोककृतावासैः स्वर्गौकोभिश्च संततम् ।। १२ ।।

सत्यं सत्यं पुनः सत्यं सत्यपूर्वमिदं वचः ।।

मणिकर्णी समं तीर्थं नास्ति ब्रह्मांडगोलके ।। १३ ।।

पंचतीर्थ्यां नरः स्नात्वा न देहं पांचभौतिकम् ।।

गृह्णाति जातुचित्काश्यां पंचास्योवाथ जायते ।। १४ ।।

इति दत्त्वा वरान्देवो वीरस्यांतर्दधे हरः ।।

स च वीरोपि वीरेशं प्रार्च्य प्राप्तः समीहितम् ।। १५ ।।

।। स्कंद उवाच।। ।।

तीर्थाध्यायमिमं पुण्यमगस्ते यो निशामयेत् ।।

तस्याघसंक्षयं यायादपि जन्मशतार्जितम् ।। १६ ।।

इति वीरेश्वराख्यानं तीर्थाख्यानप्रसंगतः ।।

कथितं ते पुरागस्ते कामेशं कथयाम्यतः ।।११७।। ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे वीरेश्वराख्यानं नाम चतुरशीतितमोऽध्यायः ।। ८४ ।। ।।।।। ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 85

।। स्कंद उवाच ।। ।।

जगज्जनन्याः पार्वत्याः पुरोगस्ते पुरारिणा ।।

यथाख्यायि कथा पुण्या तथा ते कथयाम्यहम् ।। १ ।।

पुरा महीमिमां सर्वां ससमुद्राद्रिकाननाम् ।।

ससरित्कां सार्णवां च सग्रामपुरपत्तनाम् ।। २ ।।

परिभ्रम्य महातेजा महामर्षो महातपाः ।।

दुर्वासाः संपरिप्राप्तः शंभोरानंदकाननम् ।। ३ ।।

विलोक्याक्रीडमखिलं बहुप्रासादमंडितम्।।

बहुकुंडतडागं च शंभोस्तोषमुपागमत्।।।

पदेपदे मुनीनां च जितकाल महाभियाम् ।।

दृष्टोटजानि रम्याणि दुर्वासा विस्मितोभवत्।। ।। ५ ।।

सर्वर्तुकुसुमान्वृक्षान्सुच्छायस्निग्धपल्लवान् ।।

सफलान्सुलताश्लिष्टान्दृष्ट्वा प्रीतिमगान्मुनिः ।। ६ ।।

दुर्वासाश्चातिहृष्टोभू्द्दृष्ट्वा पाशुपतोत्तमान् ।।

भूतिभूषितसर्वांगाञ्जटाजटितमौलिकान् ।। ७ ।।

कौपीनमात्र वसनान्स्मरारि ध्यान तत्परान् ।।

कक्षीकृतमहालाबून्हुडुत्कारजितांबुदान् ।। ८ ।।

करंडदंडपानीय पात्रमात्रपरिग्रहान् ।।

क्वचित्त्रिदंडिनो दृष्ट्वा निःसंगा निष्परिग्रहान् ।। ९ ।।

कालादपि निरातंकान्विश्वेशशरणं गतान् ।।

क्वचिद्वेदरहस्यज्ञानाबाल्यब्रह्मचारिणः ।। 4.2.85.१० ।।

नित्यं भागीरथीस्नानपरिपिंगलमूर्धजान् ।। ५।।

विलोक्य काश्यां दुर्वासा ब्राह्मणान्मुमुदेतराम् ।। ११ ।।

पशुष्वपि च या तुष्टिर्मृगेष्वपि च या द्युतिः ।।

तिर्यक्ष्वपि च या हृष्टिः काश्यां नान्यत्र सा स्फुटम् ।। १२ ।।

इदं सुश्रेयसो व्युष्टिः क्वामरेषु त्रिविष्टपे ।।

यत्रत्येष्वपि तिर्यक्षु परमानंदवर्धिनी।। १३ ।।

वरमेतेपि पशव आनंदवनचारिणः ।।

सदानंदाः पुनर्देवाननंदनवनाश्रिताः ।। १४ ।।

वरं काशीपुरीवासी म्लेच्छोपि हि शुभायतिः ।।

नान्यत्रत्यो दीक्षितोपि स हि मुक्तेरभाजनम्।। १५ ।।

वैश्वेश्वरी पुरी चैषा यथा मे चित्तहारिणी ।।

सर्वापि न तथा क्षोणी न स्वर्गो नैव नागभूः।।१६।।

स्थैर्यं बबंध न क्वापि भ्रमतो मे मनोगतिः ।।

सर्वस्मिन्नपि भूभागे यथा स्थैर्यमगादिह ।। १७ ।।

रम्या पुरी भवेदेषा ब्रह्मांडादखिलादपि ।।

परिष्टुत्येति दुर्वासाश्चेतोवृत्तिमवाप ह ।। १८ ।।

तप्यमानोपि हि तपः सुचिरं स महातपाः।।

यदा नाप फलं किंचिच्चुकोप च तदा भृशम् ।। १९ ।।

धिक्च मां तापसं दुष्टं धिक्च मे दुश्चरं तपः ।।

धिक्च क्षेत्रमिदं शंभोः सर्वेषां च प्रतारकम् ।। 4.2.85.२० ।।

यथा न मुक्तिरत्र स्यात्कस्यापि करवै तथा ।।

इति शप्तुं यदोद्युक्तः संजहास तदा शिवः ।।२१।।

तत्र लिंगमभूदेकं ख्यातं प्रहसितेश्वरम् ।।

तल्लिंगदर्शनात्पुंसामानंदः स्यात्पदेपदे ।। २२ ।।

उवाच विस्मयाविष्टो मनस्येव महेशिता ।।

ईदृशेभ्यस्तपस्विभ्यो नमोस्त्विति पुनःपुनः ।।२३।।

यत्रैव हि तपस्यंति यत्रैव विहिताश्रमाः ।।

लब्धप्रतिष्ठा यत्रैव तत्रैवामर्षिणो द्विजाः।।२४।।

मनाक्चिंतितमात्रं तु चेल्लभंते न तापसाः ।।

क्रुधा तदैव जीयंते हारिण्या तपसां श्रियः ।। २५ ।।

तथापि तापसा मान्याः स्वश्रेयोवृद्धिकांक्षिभिः ।।

अक्रोधनाः क्रोधना वा का चिंता हि तपस्विनाम् ।। २६ ।।

इति यावन्महेशानो मनस्येव विचिंतयेत् ।।

तावत्तत्क्रोधजो वह्निर्व्यानशे व्योममंडलम् ।। २७ ।।

तत्कोधानलधूमोघैर्व्यापितं यन्नभोंगणम् ।।

तद्दधाति नभोद्यापि नीलिमानं महत्तरम् ।। २८ ।।

ततो गणाः परिक्षुब्धाः प्रलयार्णव नीरवत् ।।

आः किमेतत्किमेतद्वै भाषमाणाः परस्परम् ।। २९ ।।

गर्जंतस्तर्जयंतश्च प्रोद्यता युधपाणयः ।।

प्रमथाः परितस्थुस्ते परितो धाम शांभवम् ।।4.2.85.३०।।

को यमः कोथवा कालः को मृत्युः कस्तथांतकः।।

को वा विधाता के लेखाः कुद्धेष्वस्मासु कः परः ।। ३१ ।।

अग्निं पिबामो जलवच्चूर्णीकुर्मोखिलान्गिरीन् ।।

सप्तापि चार्णवांस्तूर्णं करवाम मरुस्थलीम् ।। ३२ ।।

पातालं चानयामोर्ध्वमधो दध्मोथवा दिवम् ।।

एकमेव हि वा ग्रासं गगनं करवामहे ।। ३३ ।।

ब्रह्मांडभांडमथवा स्फोटयामः क्षणेन हि ।।

आस्फालयामो वान्योन्यं कालं मृत्युं च तालवत्।। ३४ ।।

ग्रसामो वाथ भुवनं मुक्त्वा वाराणसीं पुरीम् ।।

यत्र मुक्ता भवंत्येव मृतमात्रेण जंतवः ।। ३५ ।।

कुतोऽयं धूमसंभारो ज्वालावल्यः कुतस्त्वमूः ।।

को वा मृत्युंजयं रुद्रं नो विद्यान्मदमोहितः ।। ३६ ।।

इति पारिषदाः शंभोर्महाभय भयप्रदाः ।। जल्पंतः कल्पयामासुः प्राकारं गगनस्पृशम्।।३७।।

शकलीकृत्य बहुशः शिलावत्प्रलयानलम् ।।

नंदी च नंदिषेणश्च सोमनंदी महोदरः ।। ।। ३८ ।।

महाहनुर्महाग्रीवो महाकालो जितांतकः ।।

मृत्युप्रकंपनो भीमो घंटाकर्णो महाबलः ।।३९।।

क्षोभणो द्रावणो जृंभी पचास्यः पंचलोचनः ।।

द्विशिरास्त्रिशिराः सोमः पंचहस्तो दशाननः ।। 4.2.85.४० ।।

चंडो भृंगिरिटिस्तुंडी प्रचंडस्तांडवप्रियः ।।

पिचिंडिलः स्थूलशिराः स्थूलकेशो गभस्तिमान् ।। ४१ ।।

क्षेमकः क्षेमधन्वा च वीरभद्रो रणप्रियः ।।

चंडपाणिः शूलपाणिः पाशपाणिः करोदरः ।। ४२ ।।

दीर्घग्रीवोथ पिंगाक्षः पिंगलः पिंगमूर्धजः ।।

बहुनेत्रो लंबकर्णः खर्वः पर्वतविग्रहः ।।४३।।

गोकर्णो गजकर्णश्च कोकिलाख्यो गजाननः ।।

अहं वै नैगमेयश्च विकटास्योट्टहासकः ।।४४।।

सीरपाणिः शिवारावो वैणिको वेणुवादनः ।।

दुराधर्षो दुःसहश्च गर्जनो रिपुतर्जनः ।। ४५ ।।

इत्यादयो गणेशानाः शतकोटि दुरासदाः ।।

काश्यां निवारयामासुरपि प्राभंजनीं गतिम् ।। ४६ ।।

क्षुब्धेषु तेषु वीरेषु चकंपे भुवनत्रयम् ।।

दुर्वाससश्च कोपाग्नि ज्वालाभिर्व्याकुलीकृतम् ।। ४७ ।।

तदा विविशतुः काश्यां सूर्याचंद्रमसावपि ।।

न गणैरकृतानुज्ञौ तत्तेजः शमितप्रभौ ।। ४८ ।।

निवार्य प्रमथानीकमतिक्षुब्धमुमाधवः ।।

मदंश एव हि मुनीरानसूये य एष वै ।। ४९ ।।

अथो दुर्वाससे लिंगादाविरासीत्कृपानिधिः ।।

महातेजोमयः शंभुर्मुनिशापात्पुरीमवन् ।।4.2.85.५०।।

माभूच्छापो मुनेः काश्यां निर्वाणप्रतिबंधकः ।।

इत्यनुक्रोशतो देवस्तस्य प्रत्यक्षतां गतः।। ५१ ।।

उवाच च प्रसन्नोस्मि महाक्रोधन तापस ।।

वरयस्व वरः कस्ते मया देयो विशंकितः ।। ५२।।

ततो विलज्जितोगस्त्य शापोद्यतकरो मुनिः ।।

अपराद्धं बहु मया क्रोधांधेनेति दुर्धिया ।। ५३ ।।

उवाच चेति बहुशो धिङ्मां क्रोधवशंगतम् ।।

त्रैलोक्याभयदां काशीं शप्तुमुद्यतचेतसम् ।। ५४ ।।

दुःखार्णव निमग्नानां यातायातेति खेदिनाम् ।।

कर्मपाशितकंठानां काश्येका मुक्तिसाधनम्।। ५५।।

सर्वेषां जंतुजातानां जनन्येकैक्काशिका।

महामृतस्तन्यदात्री नेत्री च परमं पदम् ।। ५६ ।।

जनन्या सह नो काशी लभेदुपमितिं क्वचित्।।

धारयेज्जननी गर्भे काशी गर्भाद्विमोचयेत् ।।५७ ।।

एवंभूतां तु यः काशीमन्योपि हि शपिष्यति ।।

तस्यैव शापो भविता न तु काश्याः कथंचन ।। ५८ ।।

इति दुर्वाससो वाक्यं श्रुत्वा देवस्त्रिलोचनः ।।

अतीव तुषितो जातः काशीस्तवन लब्धमुत् ।।५९।।

यः काशीं स्तौति मेधावी यः काशीं हृदि धारयेत् ।।

तेन तप्तं तपस्तीव्रं तेनेष्टं क्रतुकोटिभिः ।।4.2.85.६०।।

जिह्वाग्रे वर्तते यस्य काशीत्यक्षरयुग्मकम् ।।

न तस्य गर्भवासः स्यात्क्वचिदेव सुमेधसः ।। ६१ ।।

यो मंत्रं जपति प्रातः काशी वर्णद्वयात्मकम्।।

स तु लोकद्वयं जित्वा लोकातीतं व्रजेत्पदम् ।।६२।।

आनुसूयेय ते ज्ञानं काशीस्तवन पुण्यतः ।।

यथेदानीं समुत्पन्नं तथा न तपसः पुरा ।। ६३ ।।

मुने न मे प्रियस्तद्वद्दीक्षितो मम पूजकः ।।

यादृक्प्रियतरः सत्यं काशीस्तवन लालसः ।।६४।।

तादृक्तुष्टिर्न मे दानैस्तादृक्तुष्टिर्न मे मखैः ।।

न तुष्टिस्तपसा तादृग्यादृशी काशिसंस्तवैः ।। ६५ ।।

आनंदकाननं येन स्तुतमेतत्सुचेतसा ।।

तेनाहं संस्तुतः सम्यक्सर्वैः सूक्तैः श्रुतीरितैः ।। ६६ ।।

तव कामाः समृद्धाः स्युरानुसूयेय तापस ।।

ज्ञानं ते परमं भावि महामोहविनाशनम् ।। ६७ ।।

अपरं च वरं ब्रूहि किं दातव्यं तवानघ ।।

त्वादृशा एव मुनयः श्लाघनीया यतः सताम्।। ६८ ।।

यस्यास्त्वेव हि सामर्थ्यं तपसः क्रुद्ध्यतीहसः ।।

कुपितोप्यसमर्थस्तु किं कर्ता क्षीणवृत्तिवत्।।६९।।

इति श्रुत्वा परिष्टुत्य दुर्वासाः कृत्तिवाससम् ।।

वरं च प्रार्थयामास परिहृष्ट तनूरुहः ।। 4.2.85.७० ।।

।।दुर्वासा उवाच ।। ।।

देवदेव जगन्नाथ करुणाकर शंकर ।।

महापराधविध्वंसिन्नंधकारे स्मरांतक ।। ७१ ।।

मृत्युंजयोग्रभूतेश मृडानीश त्रिलोचन ।।

यदि प्रसन्नो मे नाथ यदि देयो वरो मम ।। ७२ ।।

तदिदं कामदं नाम लिगमस्त्विह धूर्जटे ।।

इदं च पल्वलं मेत्र कामकुंडाख्यमस्तु वै ।। ७३ ।।

।। देवदेव उवाच ।। ।।

एवमस्तु महातेजो मुने परमकोपन ।।

यत्त्वया स्थापितं लिंगं दुर्वासेश्वरसंज्ञितम्।। ७४ ।।

तदेव कामकृन्नृणां कामेश्वरमिहास्त्विति ।।

यः प्रदोषे त्रयोदश्यां शनिवासरसंयुजि ।। ७५ ।।

संस्नास्यति नरो धीमान्कामकुंडे त्वदास्पदे ।।

त्वत्स्थापितं च कामेशं लिंगं द्रक्ष्यति मानवः ।। ७६ ।।

स वै कामकृताद्दोषाद्यामीं नाप्स्यति यातनाम् ।।

बहवोपि हि पाप्मानो बहुभिर्जन्मभिः कृताः ।। ७७ ।।

कामतीर्थांबु संस्नानाद्यास्यंति विलयं क्षणात् ।।

कामाः समृद्धिमाप्स्यंति कामेश्वर निषेवणात् ।। ७८ ।।

इति दत्त्वा वराञ्शंभुस्तल्लिंगे लयमाययौ।। ।।

स्कंद उवाच ।।

तल्लिंगाराधनात्कामाः प्राप्ता दुर्वाससा भृशम् ।। ७९ ।।

तस्मात्सर्वप्रयत्नेन काश्यां कामेश्वरः सदा ।।

पूजनीयः प्रयत्नेन महाकामाभिलाषुकैः ।।4.2.85.८० ।।

कामकुंडकृतस्नानैर्महापातकशांतये ।।

इदं कामेश्वराख्यानं यः पठिष्यति पुण्यवान् ।।

यः श्रोष्यति च मेधावी तौ निष्पापौ भविष्यतः ।। ८१ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां चतुर्थे काशीखंड उत्तरार्धे दुर्वाससो वरप्रदानं नाम पंचाशीतितमोऽध्यायः ।। ८५ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 86

।। पार्वत्युवाच ।। ।।

विश्वकर्मेश्वरं लिंगं यत्काश्यां प्रथितं परम् ।।

तस्य लिंगस्य कथय देवदेव समुद्भवम् ।। १ ।।

।। देवदेव उवाच ।। ।।

शृणु देवि प्रवक्ष्यामि कथां पातकनाशिनीम् ।।

विश्वकर्मेश लिंगस्य प्रादुर्भावं मनोहरम्।।२।।

विश्वकर्माभवत्पूर्वं ब्रह्मणस्त्वपरा तनुः ।।

त्वष्टुः प्रजापतेः पुत्रो निपुणः सर्वकर्मसु ।।३।।

कृतोपनयनः सोथ बालो गुरुकुले वसन् ।।

चकार गुरुशुश्रूषां भिक्षान्नकृतभोजनः।।४ ।।

एकदा तद्गुरुः प्राह प्रावृट्काले समागते ।।

कुरूटजं मदर्थं त्वं यथा प्रावृण्न बाधते ।। ५ ।।

यत्कदाचिन्न भज्येत न पुरातनतां व्रजेत्।।

गुरुपत्न्यात्वभिहितो रे त्वाष्ट्र कुरु कंचुकम् ।।६।।

ममांगयोग्यं नो गाढं न श्लथं च प्रयत्नतः ।।

विनैव वाससा चारु वाल्कलं च सदोज्ज्वलम् ।।७।।

गुरुपुत्रेण चाज्ञप्तो ममार्थं पादुके कुरु ।।

यदारूढस्य मे पादौ न पंकः संस्पृशेत्क्वचित् ।। ८ ।।

चर्मादिबंधनिर्मुक्ते धावतो मे सुखप्रदे ।।

याभ्यां च संचरे वारि स्थल भूमाविव द्रुतम्।। ।। ९ ।।

गुरुकन्यापि तं प्राह त्वाष्ट्र मे श्रवणोचिते ।।

भूषणे स्वेन हस्तेन कुरु कांचननिर्मिते ।।4.2.86.१०।।

कुमारी क्रीडनीयानि कौतुकानि च देहि मे ।।

दंतिदंतमयान्येव स्वहस्तरचितानि च ।। ११ ।।

गृहोपकरणं द्रव्यं मुसलोलूखलादिकम् ।।

तथा घटय मेधाविन्यथा त्रुट्यति न क्वचित् ।। १२ ।।

अक्षालितान्यपि यथा नित्यं पीठानि सत्तम ।।

उज्ज्वलानि भवंत्येव स्थालिकाश्च तथा कुरु ।। १३ ।।

सूपकर्मण्यपि च मां प्रशाधि त्वष्ट्रनंदन ।।

यथांगुल्यो न दह्यंते पाकः स्याच्च यथा शुभः ।। ।। १४ ।।

एकस्तंभमयं गेहमेकदारुविनिर्मितम् ।।

तथा कुरु वरं त्वाष्ट्र यत्रेच्छा तत्र धारये ।। १५ ।।

ये सहाध्यायिनोप्यस्य वयोज्येष्ठाश्च तेपि हि ।।

सर्वेसर्वे समीहंते कर्म तत्कृतमेव हि।।१६।।

तथेति स प्रतिज्ञाय सर्वेषां पुरतोद्रिजे ।।

मध्ये वनं प्राविशच्च महाचिंताभयार्दितः ।।१७।।

किंचित्कर्तुं न जानाति प्रतिज्ञातं च तेन वै।।

सर्वेषां पुरतः सर्वं करिष्यामीति निश्चितम्।। १८।।

किं करोमि क्व गच्छामि को मे साहाय्यमर्पयेत् ।।

बुद्धेरपि वनस्थस्य शरणं कं व्रजामि च ।। १९ ।।

अंगीकृत्य गुरोर्वाक्यं गुरुपत्न्या गुरोः शिशोः ।।

यो न निष्पादयेन्मूढः स भवेन्निरयी नरः ।। 4.2.86.२० ।।

गुरुशुश्रूषणं धर्म एको हि ब्रह्मचारिणाम् ।।

अनिष्पाद्य तु तद्वाक्यं कथं मे निष्कृतिर्भवेत् ।। २१ ।।

गुरूणां वाक्यकरणात्सर्व एव मनोरथाः ।।

सिद्ध्यंतीतरथा नैव तस्मात्कार्यं हि तद्वचः ।।२२।।

कथं तद्वचसः सिद्धिं प्राप्स्याम्यत्र वने स्थितः ।।

कश्च मेत्र सहायी स्याद्धिषणादुर्बलस्य वै ।। २३ ।।

आस्तां गुरुकथा दूरं योऽन्यस्यापि लघोरपि ।।

ओमित्युक्त्वा न कुरुते कार्यं सोथ व्रजत्यधः ।। २४ ।।

कथमेतानि कर्माणि करिष्येऽज्ञोऽसहायवान् ।।

अंगीकृतानि तद्भीत्या नमस्ते भवितव्यते ।। २५ ।।

यावदित्थं चिंतयति स त्वाष्ट्रो वनमध्यगः ।।

तावत्तदेव संप्राप्तस्तेनैकोऽदर्शि तापसः ।। २६ ।।

अथ नत्वा स तं प्राह वने दृष्टं तपस्विनम् ।।

को भवान्मानसं मे यो नितरां सुखयत्यहो ।।२७।।

त्वद्दर्शनेन मे गात्रं चिंतासंतापतापितम् ।।

हिमानी गाहनेनेव शीतलं भवति क्षणम् ।। २८ ।।

किं त्वं मे प्राक्तनं कर्म प्राप्तं तापसरूपधृक् ।।

अथवा करुणावार्धिराविर्भूतः शिवो भवान् ।। २९ ।।

योसि सोसि नमस्तुभ्यमुपदेशेन युंक्ष्व माम् ।।

गुरूक्तं गुरुपत्न्युक्तं गुर्वपत्योक्तमेव च ।। 4.2.86.३० ।।

कथं कर्तुमहं शक्तः कर्म तत्र दिशाद्भुतम् ।।

कुरु मे बुद्धिसाहाय्यं निर्जने बंधुतां गतः ।। ।। ३१ ।।

इत्युक्तस्तेन स वने तापसो ब्रह्मचारिणा ।।

कारुण्यपूर्णहृदयो यथोक्तमुपदिष्टवान् ।। ३२ ।।

य आप्तत्वेन संपृष्टो दुर्बुद्धिं संप्रयच्छति ।।

स याति नरकं घोरं यावदाभूतसंप्लवम् ।। ३३ ।।

तापस उवाच ।। ।।

ब्रह्मचारिञ्शृणु ब्रूयां किमद्भुततरं त्विदम्।।

विश्वेशानुग्रहाद्ब्रह्माप्यभवत्सृष्टिकोविदः ।। ३४ ।।

यदि त्वं त्वाष्ट्र सर्वज्ञं काश्यामाराधयिष्यसि ।।

ततस्ते विश्वकर्मेति नाम सत्यं भविष्यति ।। ३५ ।।

विश्वेशानुग्रहात्काश्यामभिलाषा न दुर्लभाः ।।

सुलभो दुर्लभो वै यद्यत्र मोक्षस्तनुत्यजाम् ।। ३६ ।।

सृष्टेःकरण सामर्थ्यं सृष्टिरक्षाप्रवीणता ।।

विधिना विष्णुना प्रापि विश्वेशानुग्रहात्परात् ।। ३७ ।।

याहि वैश्वेश्वरं सद्म पद्मया समधिष्ठितम् ।।

निर्वाणसंज्ञया बाला यदीच्छेः स्वान्मनोरथान् ।। ३८ ।।

स हि सर्वप्रदः शंभुर्याचितश्चोपमन्युना ।।

पयोमात्रं ददौ तस्मै सर्वं क्षीराब्धिमेव च ।। ३९ ।।

आनंदकानने शंभोः किं किं केन न लभ्यते ।।

यत्र वासकृतां पुंसां धर्मराशिः पदेपदे ।। 4.2.86.४० ।।

स्वर्धुनी स्पर्शमात्रेण महापातकसंततिः ।।

यत्र संक्षयति क्षिप्रं तां काशीं को न संश्रयेत् ।। ४१ ।।

न तादृग्धर्मसंभारो लभ्यते क्रतुकोटिभिः ।।

यादृग्वाराणसी वीथी संचारेण पदेपदे ।। ४२ ।।

धर्मार्थकाममोक्षाणां यद्यत्रास्ति मनोरथः ।।

तदा वाराणसीं याहि याहि त्रैलोक्यपावनीम् ।। ४३ ।।

सर्वकामफलप्राप्तिस्तदैव स्याद्ध्रुवं नृणाम् ।।

यदैव सर्वदः सर्वः काश्यां विश्वेश्वरः श्रितः ।। ४४ ।।

स तापसोक्तमाकर्ण्य त्वाष्ट्र इत्थं सुहृष्टवान् ।।

काशीसंप्रात्युपायं च तमेव समपृच्छत ।।४५।।

।। त्वाष्ट्र उवाच ।। ।।

तदानंदवनं शंभोः क्वास्ति तापससत्तम ।।

यत्र नो दुर्लभं किंचित्साधकानां त्रयीस्थितम् ।। ४६ ।।

स्वर्गे वा मर्त्यलोके वा बलिसद्मनि वा मुने ।।

क्व तदानंदगहनं यत्रानंदपयोब्धिजा ।। ४७ ।।

यत्र विश्वेश्वरो देवो विश्वेषां कर्णधारकः ।।

व्याचष्टे तारकं ज्ञानं येन तन्मयतां ययुः ।। ४८ ।।

सुलभा यत्र नियतमानंदवनचारिणः ।।

अपि नैःश्रेयसी लक्ष्मीः किमन्येल्प मनोरथाः।।४९।।

कस्तां मां प्रापयेच्छंभोः कथं यामि तथा वद ।।

स तपस्वीति तद्वाक्यमाकर्ण्य श्रद्धयान्वितम् ।।4.2.86.५०।।

प्राहागच्छ नयामि त्वां यियासुरहमप्यहो।।

दुर्लभं प्राप्य मानुष्यं यदि काशी न सेविता ।। ५१ ।।

पुनःक्व नृत्वं श्रेयोभूः क्व काशीकर्मबंधहृत् ।।

वृथागते हि मानुष्ये काशीप्राप्तिविवर्जनात् ।। ५२ ।।

आयुष्यं च भविष्यं च सर्वमेव वृथागतम्।।

अतोहं सफलीकर्तुं मानुष्यं चातिचंचलम् ।। ५३ ।।

यास्यामि काशीमायाहि मायां हित्वा त्वमप्यहो ।।

इति तेन सह त्वाष्ट्रो मुनिनातिकृपालुना ।। ५४ ।।

पुरीं वैश्वेश्वरीं प्राप्तो मनःस्वास्थ्यमवाप च ।।

ततः प्रापय्य तां काशीं तापसः क्वाप्यतर्कितम् ।। ५५ ।।

जगाम कुंभसंभूत स त्वाष्ट्रोपीत्यमन्यत ।।

अवश्यं स हि विश्वेशः सर्वेषां चिंतितप्रदः।। ५६।।

सत्पथस्थिरवृतीनां दूरस्थोपि समीपगः ।।

यस्मिन्प्रसन्नदृक्त्र्यक्षस्तं दविष्ठमपि ध्रुवम् ।।५७।।।

सुनेदिष्ठं करोत्येव स्वयंवर्त्मोपदेशयन् ।।

क्वाहं तत्र वने बालश्चिंताकुलितमानसः ।।

क्व तापसः स यो मां वै सूदिश्येह चानयत् ।। ५८ ।।

खेलोयमस्य त्र्यक्षस्य यस्य भक्तस्य कुत्रचित् ।।

न दुर्लभतरं किंचिदहो क्वाहं क्व काशिका ।। ५९ ।।

नाराधितो मया शंभुः प्राक्तने जन्मनि क्वचित् ।।

शरीरित्वानुमानेन ज्ञातमेतदसंशयम्।। 4.2.86.६० ।।

अस्मिञ्जन्मनि बालत्वान्न चैवाराधितः स्फुटम् ।।

प्रत्यक्षमेव मे वैतत्कुतोनुग्रहधीर्मयि ।। ६१ ।।

आज्ञातं गुरुभक्तिर्मे हेतुः शंभुप्रसादने ।।

ययेहानुगृहीतोस्मि विश्वेशेन कृपालुना ।। ६२ ।।

अथवा कारणापेक्षस्त्र्यक्षस्त्वितरदेववत् ।।

रंकमप्यनुगृह्णाति केवलं कारणं कृपा।। ६३ ।।

यदि नो मय्यनुक्रोशः कथं तापससंगतिः ।।

तद्रूपेण स्वयं शंभुरानिनायेह मां ध्रुवम् ।।६४।।

न दानानि न वै यज्ञा न तपांसि व्रतानि च ।।।

शंभोः प्रसादहेतूनि कारणं तत्कृपैव हि ।। ।। ६५ ।।

दयामपि तदा कुर्यादसौ विश्वेश्वरः पराम् ।।

यदाश्रुत्युक्तमध्वानं सद्भिः क्षुण्णं न संत्यजेत् ।। ६६ ।।

अनुक्रोशं समर्थ्येति स त्वाष्ट्रः र्शाभवं शुचिः।।

संस्थाप्य लिंगमीशस्याराधयत्स्वस्थमानसः ।। ६७ ।।

आनीय पुष्पसंभारमार्तवं काननाद्बहु ।।

स्नात्वाभ्यर्चयतीशानं कंदमूलफलाशनः ।। ६८ ।।

इत्थं त्वष्टृतनूजस्य लिंगाराधनचेतसः ।।

त्रिहायनात्प्रसन्नोभूत्तस्येशः करुणानिधिः ।। ६९ ।।

तस्मादेव हि लिंगाच्च प्रादुर्भूय भवोऽब्रवीत् ।।

वरं वरय रे त्वाष्ट्र दृढभक्त्यानया तव ।। ।। 4.2.86.७० ।।

प्रसन्नोस्मि भृशं बाल गुर्वर्थकृतचेतसः ।।

गुरुणा गुरुपत्न्या च गुर्वपत्यद्वयेन च ।। ७१ ।।

यथार्थितं तथा कर्तुं ते सामर्थ्यं भविष्यति ।। ७२ ।।

अन्यान्वरांश्च ते दद्यां त्वाष्ट्र तुष्टस्त्वदर्चया ।।

ताञ्शृणुष्व महाभाग लिंगस्यास्याद्भुतश्रियः ।। ७३ ।।

त्वं सुवर्णादिधातूनां दारूणां दृषदामपि ।।

मणीनामपिरत्नानां पुष्पाणामपि वाससाम् ।। ७४ ।।

कर्पूरादिसुगंधीनां द्रव्याणामप्यपामपि ।।

कंदमूलफलानां च द्रव्याणामपि च त्वचाम्।। ।। ७५ ।।

सर्वेषां वस्तुजातानां कर्तुं कर्म प्रवेत्स्यसि ।।

यस्य यस्य रुचिर्यत्र सद्म देवालयादिषु ।। ७६ ।।

तस्य तस्येह तुष्ट्यै त्वं तथा कर्तुं प्रवेत्स्यसि ।।

सर्वनेपथ्यरचनाः सर्वाः सूपस्य संस्कृतीः ।।७७।।

सर्वाणि शिल्पकार्याणि तौर्यत्रिकमथापि च ।।

सर्वं ज्ञास्यसि कर्तुं त्वं द्वितीय इव पद्मभूः ।।७८।।

नानाविधानि यंत्राणि नानायुधविधानकम् ।।

जलाशयानां रचनाः सुदुर्गरचनास्तथा ।। ७९ ।।

तादृक्कर्तुं पुरा वेत्सि यादृङ्नान्योऽधियास्यति ।।

कलाजातं हि सर्वं त्वमवयास्यसि मे वरात् ।। 4.2.86.८० ।।

सर्वेंद्रजालिकी विद्या त्वदधीना भविष्यति ।।

सर्वकर्मसु कौशल्यं सर्वबुद्धिवरिष्ठताम् ।।८१ ।।

सर्वेषां च मनोवृत्तिं त्वं ज्ञास्यसि वरान्मम ।।

किं बहूक्तेन यत्स्वर्गे यत्पाताले यदत्र च।। ८२।।

अतिलोकोत्तरं कर्म तत्सर्वं वेत्स्यसि स्वयम् ।। ८३ ।।

विश्वेषां विश्वकर्माणि विश्वेषु भुवनेषु च ।।

यतो ज्ञास्यसि तन्नाम विश्वकर्मेति तेऽनघ ।। ८४ ।।

अपरः को वरो देयस्तव तं प्रार्थयाश्वहो ।।

तवादेयं न मे किंचिल्लिंगार्चनरतस्य हि ।। ८५ ।।

अन्यत्रापि हि यो लिंगं समर्चयति सन्मतिः ।।

तस्यापि वांछितं देयं किंपुनर्योविकाशिकम् ।। ८६ ।।

येन काश्यां समभ्यर्चि येन काश्यां प्रतिष्ठितम् ।।

येन काश्यां स्तुतं लिंगं स मे रूपाय दर्पणः।। ८७ ।।

तत्त्वं स्वच्छोसि मुकुरो मम नेत्रत्रयस्य हि ।।

काश्यां लिंगार्चनात्त्वाष्ट्र वरं वरय सुव्रत ।। ८८ ।।

काश्यां यो राजधान्यां मे हित्वा मामन्यमर्चयेत् ।।

स वराकोल्पधीर्मुष्टोऽल्पतुष्टिर्मुक्तिवर्जितः ।। ८९ ।।

तदानंदवनेह्यत्र समर्च्योहं मुमुक्षुभिः ।।

द्रुहिणोपेंद्रचंद्रेंद्रैरिहान्यो न समर्च्यते ।। 4.2.86.९० ।।

यथानंदवनं प्राप्य त्वं मामर्चितवानसि ।।

तथान्ये पुण्यकर्माणो मामभ्यर्च्यैव मामिताः ।। ९१ ।।

अनुग्राह्योऽसि नितरां ततो वरय दुर्लभम् ।।

श्राणितं तदवैहि त्वं वद मा चिरयस्व भोः ।। ९२ ।।

।। विश्वकर्मोवाच ।। ।।

इदं यत्स्थापितं लिंगं मयाज्ञेनापि शंकर ।।

तल्लिंगमन्येप्याराध्य संतु समृद्धिभाजनम् ।। ९३ ।।

अन्यच्च नाथ प्रार्थ्योसि तच्च विश्राणयिष्यसि ।।

मया विनिर्मापयिता स्वं प्रासादं कदा भवान् ।। ९४ ।।

देवदेव उवाच ।। ।।

एवमस्तु यदुक्तं ते तव लिंगसमर्चकाः ।।

समृद्धिभाजनं वै स्युः स्युश्च निर्वाणदीक्षिताः ।। ९५ ।।

यदा च राजा भविता दिवोदासो विधेर्वरात्।।

तदा मे वचनात्तात प्रासादं मे विधास्यति ।। ९६ ।।

नवीकृत्य पुनः काशी निर्विष्टा तेन भूभुजा ।।

गणेशमायया राज्यात्परिनिर्विण्णचेतसा ।। ९७ ।।

विष्णोः सदुपदेशाच्च मामेव शरणं गतः ।।

निर्वाणलक्ष्मीः प्राप्तेह हित्वा राज्यश्रियं चलाम्।। ९८ ।।

विश्वकर्मन्व्रज गुरोः शासनाय यतस्व च ।।

गुरुभक्तिकृतो यस्मान्मद्भक्ता नात्र संशयः ।। ९९ ।।

ये गुरुं चावमन्यंते तेवमान्या मयाप्यहो ।।

तस्माद्गुरूपदिष्टं हि कुरु शिष्यसमीहितम् ।। 4.2.86.१०० ।।

तत आगत्य मे पार्श्वं यावन्निर्वाणमेष्यसि ।।

तावत्स्थास्यसि शुद्धात्मा देवानां हितमाचरन् ।। १ ।।

तवात्र लिंगे सततं स्थास्याम्यहमभीष्टदः ।।

अस्य लिंगस्य भक्तानां निर्वाणश्रीरदूरतः ।।२ ।।

अंगारेशादुदीच्यां ये त्वल्लिंगस्यसमर्चकाः ।।

तेषां मनोरथावाप्तिर्भविष्यति पदेपदे ।। ३ ।।

इत्युक्त्वांतर्दधे देवस्त्वाष्ट्रोपि गुरुमाप्तवान् ।।

गुरोः समीहितं भूरि विधाय स गृहान्ययौ ।।४।।

गृहेपि मातापितरौ संतोष्य निजकर्मणा ।।

तदुक्ताज्ञां समाधाय पुनः काशीं समाययौ ।। ५ ।।

स्वलिंगाराधनासक्तो नाद्यापि त्वष्टृनंदनः ।।

काशीं त्यजति मेधावी सर्वदेव प्रियं चरन् ।। ६ ।।

।। ईश्वर उवाच ।। ।।

पृष्टानि यानि र्लिगानि त्वया देवि गिरींद्रजे ।।

काशी मुक्तौ समर्थानि तान्युक्तानि मया तव।। ७ ।।

लिंगमोंकारसंज्ञं च तथा देवं त्रिविष्टपम् ।।

महादेवः कृत्तिवासा रत्नेशश्चंद्रसंज्ञकः ।। ८ ।।

केदारश्चापि धर्मेशस्तथा वीरेश्वराभिधः ।।

कामेशविश्वकर्मेशौ मणिकर्णीश्वरस्तथा ।। ९ ।।

ममार्च्यमविमुक्ताख्यं ततो देवि ममा ख्यकम् ।।

विश्वनाथेति विश्वस्मिन्प्रथितं विश्वसौख्यदम्।। 4.2.86.११० ।।

अविमुक्तं समासाद्य येन विश्वेश्वरोर्चितः ।।

न तस्यास्ति पुनर्जन्म कल्पकोटिशतेष्वपि ।। ११ ।।

अष्टौ मासान्विहारः स्याद्यतीनां संयतात्मनाम् ।।

एकत्र चतुरोमासानब्दं नावास इष्यते ।। १२ ।।

अविमुक्ते प्रविष्टानां विहारो नैव युज्यते ।।

मोक्षोप्यसंशयश्चात्र तस्मात्त्याज्या न काशिका ।। १३ ।।

आनंदकाननं हित्वा नान्यद्गच्छेत्तपोवनम् ।।

तपोयोगश्च मोक्षश्च यतोत्रैव मदाश्रयात् ।। १४ ।।

कृपया सर्वजंतूनां क्षेत्रमेतन्मया कृतम् ।।

अवश्यमेव सिद्ध्यंति क्षेत्रेस्मिन्सिद्धिकांक्षिणः ।। २५ ।।

अतीतं वर्तमानं च जानतोऽज्ञानतः कृतम् ।।

यदेनस्तल्लयं यायादानंदवनवीक्षणात् ।। १६ ।।

अत्युग्रैश्च तपोभिर्यन्महादानैर्महाव्रतैः ।।

नियमैश्च यमैः सम्यक्त्वयोगेन महामखैः ।। १७ ।।

वेदांतशास्त्राभ्यसनैः सर्वोपनिषदाश्रयात् ।।

एभिर्वै यदवाप्येत तत्काश्यां हेलयाप्यते ।।१८।।

कर्मसूत्रेण बद्धा वै भ्राम्यंते तावदेव हि ।।

यावद्वैश्वेश्वरे धाम्नि मम नैव तनुत्यजः ।।१९।।

काश्यां स्वलीलया देवि तिर्यग्योनिजुषामपि।।

ददामि चांते तत्स्थानं यत्र यांति न याज्ञिकाः ।। 4.2.86.१२० ।।

भूतग्रामोऽखिलोप्यत्र मुक्तिक्षेत्रे कृतालयः ।।

कालेन निधनं यातो यात्येव परमां गतिम् ।। २१ ।।

विषयासक्तचित्तोपि त्यक्तधर्मरतिस्त्वपि ।।

कालेनोज्झितदेहोऽत्र न संसारं पुनर्विशेत् ।। २२ ।।

प्रयागे यत्फलं देवि माघे चोपनिमज्जनात् ।।

तत्फलं कोटिगुणितं वाराणस्यां क्षणेक्षणे ।। २३ ।।

अस्य क्षेत्रस्य महिमा कोपि वाचामगोचरः ।।

उद्देशमात्रमाख्यायि मया ते प्रीतिकाम्यया ।। २४ ।।

चतुर्दशानां लिंगानां श्रुत्वाख्यानानि सत्तमः ।।

चतुर्दश सुलोकेषु पूजां प्राप्स्यत्यनुत्तमाम् ।। १२५।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे विश्वकर्मेश प्रादुर्भावो नाम षडशीतितमोऽध्यायः ।। ८६ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 87

।। अगस्त्य उवाच ।। ।।

सर्वज्ञसूनो षड्वक्त्र सर्वार्थकुशल प्रभो ।।

प्रादुर्भावं निशम्यैषां लिंगानां मुक्तिदायिनाम् ।। १ ।।

नितरां परितृप्तोस्मि सुधां पीत्वेव निर्जरः ।।

ओंकारप्रमुखैर्लिंगैरिदमानंदकाननम्।।२।।

आनंदमेवजनयेदपि पापजुषामिह ।।

परानंदमहं प्राप्तः श्रुत्वैतल्लिंगकीर्तनम् ।।३।।

जीवन्मुक्तइवासं हि क्षेत्रतत्त्वश्रुतेरहम् ।।

स्कंददक्षेश्वरादीनि लिंगानीह चतुर्दश ।।

यान्युक्तानि समाचक्ष्व तत्प्रभावमशेषतः ।। ४ ।।

यो दक्षो गर्हयामास मध्ये देवसभं विभुम् ।।

स कथं लिंगमीशस्य प्रत्यस्थापयदद्भुतम् ।।५।।

इति श्रुत्वा शिखिरथः कुंभयोनेरुदीरितम् ।।

सूत संकथयामास दक्षेश्वर समुद्भवम् ।।६।।

।। स्कंद उवाच ।।

आकर्णय मुने वच्मि कथां कल्मषहारिणीम् ।।

पुरश्चरणकामोसौ दक्षः काशीं समाययौ ।। ७ ।।

छागवक्त्रो विरूपास्यो दधीचि परिधिक्कृतः ।।

प्रायश्चित्तविधानार्थं सूपदिष्टः स्वयंभुवा ।। ८ ।।

एकदा देवदेवस्य सेवार्थं शशिमौलिनः ।।

कैलासमगमद्विष्णुः पद्मयोनिपुरस्कृतः ।। ९ ।।

इंद्रादयो लोकपाला विश्वेदेवा मरुद्गणाः ।।

आदित्या वसवो रुद्राः साध्या विद्याधरोरगाः ।। 4.2.87.१० ।।

ऋषयोऽप्सरसोयक्षा गंधर्वाः सिद्धचारणाः ।।

तैर्नतो देवदेवेशः परिहृष्टतनूरुहैः ।।११।।

स्तुतश्च नाना स्तुतिभिः शंभुनापि कृतादराः ।।

विविशुश्चासनश्रेण्यां तन्मुखासक्तदृष्टयः ।। १२ ।।

अथ तेषूपविष्टेषु शंभुना विष्टरश्रवाः ।।

कृतहस्तपरिस्पर्शमानः पृष्टो महादरम् ।। १३ ।।

श्रीवत्सलांछन हरे दैत्यवंशदवानल ।।

कच्चित्पालयितुं शक्तिस्त्रिलोकीमस्त्यकुंठिता।। १४ ।।

दितिजान्दनुजान्दुष्टान्कच्चिच्छासि रणांगणे ।।

अपि कुद्धान्महीदेवान्मामिव प्रतिमन्यसे ।। १५ ।।

बाधया रहिता गावः कच्चित्संति महीतले ।।

स्त्रियः संति हि सुश्रीकाः पतिव्रतपरायणाः ।। १६ ।।

विधियज्ञाः प्रवर्तंते पृथिव्यां बहुदक्षिणाः ।।

निराबाधं तपः कच्चिदस्ति शश्वत्तपस्विनाम् ।। १७ ।।

निष्प्रत्यूहं पठंत्येव सांगान्वेदान्द्विजोत्तमाः ।।

महीपालाः प्रजाः कच्चित्पांति त्वमिवकेशव ।। १८।।

स्वेषु स्वेषु च धर्मेषु कच्चिद्वर्णाश्रमास्तथा ।।

निष्ठावंतो हि तिष्ठंति प्रहृष्टेंद्रियमानसाः ।। १९ ।।

धूर्जटिः परिपृछ्येति हृष्टं वैकुंठनायकम्।

ब्रह्माणं चापि पप्रच्छ ब्राह्मं तेजः समेधते ।। 4.2.87.२० ।।

सत्यमस्खलितं कच्चिदस्ति त्रैलोक्यमंडपे ।।

तीर्थावरोधो न क्वापि केनचित्क्रियते विधे ।। २१ ।।

इंद्रादयः सुराः कच्चित्स्वेषु स्वेषु पुरेष्वहो ।।

राज्यं प्रशासति स्वस्थाः कृष्णदोर्दंडपालिताः ।। २२ ।।

प्रत्येकं परिपृच्छयेशः सर्वानित्थं कृतादरान् ।।

पृष्ट्वा गमनकार्यं च तेषां कृत्वा मनोरथान् ।। २३ ।।

विससर्जाथ तान्सर्वान्देवः सौधं समाविशत् ।।

गतेष्वथ च देवेषु स्वस्व धिष्ण्येषु हृष्टवत् ।। २४ ।।

मध्ये मार्गं स चिंतोभूद्दक्षः सत्याः पिता तदा ।।

अन्यदेवसमानं स मानं प्राप न चाधिकम् ।। २५ ।।

अतीव क्षुब्धचित्तोभून्मंदराघाततोऽब्धिवत् ।।

उवाच च मनस्येतन्महाक्रोधरयांधदृक्।। २६ ।।

अतीवगर्वितो जातः सती मे प्राप्य कन्यकाम् ।।

कस्यचिन्नाप्यसौ प्रायो न कोस्यापि क्वचित्पुनः ।। २७ ।।

किं वंश्यस्त्वेष किं गोत्रः किं देशीयः किमात्मकः ।।

किं वृत्तिः किं समाचारो विपा(षा?)दी वृषवाहनः ।। २८ ।।

न प्रायशस्तपस्व्येष क्व तपः क्वास्त्रधारणम् ।।

न गृहस्थेषु गण्योसौ श्मशाननिलयो यतः ।। २९ ।।

असौ न ब्रह्मचारी स्यात्कृतपाणिग्रह स्थितिः।।

वानप्रस्थ्यं कुतश्चास्मिन्नैश्वर्यमदमोहिते ।।4.2.87.३०।।

न ब्राह्मणोभवत्येष यतो वेदो न वेत्त्यमुम् ।।

शस्त्रास्त्रधारणात्प्रायः क्षत्रियः स्यान्न सोप्ययम्।। ३१ ।।

क्षतात्संत्राणनात्क्षत्रं तत्क्वास्मिन्प्रलयप्रिये ।।

वैश्योपि न भवेदेष सदा निर्धनचेष्टनः ।। ३२ ।।

शूद्रोपि न भवेत्प्रायो नागयज्ञोपवीतवान् ।।

एवं वर्णाश्रमातीतः कोसौ सम्यङ्नकीर्त्यते ।। ३३ ।।

सर्वः प्रकृत्या ज्ञायेत स्थाणुः प्रकृतिवर्जितः ।।

प्रायशः पुरुषोनासावर्धनारीवपुर्यतः ।। ३४ ।।

योषापि न भवेदेष यतोसौ श्मश्रुलाननः ।।

नपुंसकोपि न भवेल्लिंगमस्ययतोर्च्यते ।। ३५ ।।

बालोपि न भवत्येष यतोऽयं बहुवार्षिकः।।

अनादिवृद्धो लोकेषु गीयते चोग्र एष यत् ।। ३६ ।।

अतो युवत्वं संभाव्यं नात्र नूनं चिरंतने ।।

वृद्धोऽपि न भवत्येष जरामरणवर्जितः ।। ३७ ।।

ब्रह्मादीन्संहरेत्प्रांते तथापि च न पातकी ।।

पुण्यलेशोपि नास्त्यस्मिन्ब्रह्ममौलिच्छिदिक्रुधा।। ३८ ।।

अस्थिनेपथ्यवति च क्व शुचित्वं विवाससि ।।

किं बहूक्तेन नो किंचिज्ज्ञायतेऽस्य विचेष्टितम् ।। २९ ।।

अहो धार्ष्ट्यं महद्दृष्टं जटिलस्याद्य चाद्भुतम् ।।

यदासनान्नोत्थितोसौ दृष्ट्वा मां श्वशुरं गुरुम् ।। 4.2.87.४० ।।

एवंभूता भवंत्येव मातापितृविवर्जिताः ।।

निर्गुणा अकुलीनाश्च कर्मभ्रष्टा निरंकुशाः ।। ४१ ।।

स्वच्छंदचारिणोऽनाथाः सर्वत्र स्वाभिमानिनः ।।

अकिंचना अपिप्रायस्तथापीश्वरमानिनः ।। ४२ ।।

जामातॄणां स्वभावोयं प्रायशो गर्वभाजनम् ।।

किंचिदैश्वयर्मासाद्य भवत्येव न संशयः ।। ४३ ।।

द्विजराजः स गर्विष्ठो रोहिणीप्रेमनिर्भरः ।।

कृत्तिकादिषु चास्नेही मया शप्तः क्षयीकृतः ।। ४४ ।।

अस्याहं गर्वसर्वस्वं हरिष्याम्येव शूलिनः ।।

यथावमानितश्चाहमनेनास्य गृहं गतः ।। ४५ ।।

तथास्याहं करिष्यामि मानहानिं च सर्वतः ।।

संप्रधार्येति बहुशः स तु दक्षः प्रजापतिः ।। ४६ ।।

प्राप्य स्वभवनं देवानाजुहाव सवासवान् ।।

अहं यियक्षुर्यूयं मे यज्ञसाहाय्यकारिणः ।। ४७ ।।

भवंतु यज्ञसंभारानानयंतु त्वरान्विताः ।।

श्वेतद्वीपमथो गत्वा चक्रे चक्रिणमच्युतम् ।। ४८ ।।

महाक्रतूपद्रष्टारं यज्ञपूरुषमेव च ।।

तस्यर्त्विजोभवन्सर्व ऋषयो ब्रह्मवादिनः ।। ४९ ।।

प्रावर्तत ततस्तस्य दक्षस्य च महाध्वरः ।।

दृष्ट्वा देवनिकायांश्च तस्मिन्दक्ष महाध्वरे ।। 4.2.87.५० ।।

अनीश्वरांस्ततो वेधा व्याजं कृत्वा गृहं ययौ ।।

दधीचिरथ संवीक्ष्य सर्वांस्त्रैलोक्यवासिनः ।। ५१ ।।

दक्षयज्ञे समायातान्सतीश्वरविवर्जितान् ।।

प्राप्तसंमानसंभारान्वासोलंकृतिपूर्वकम् ।।५२ ।।

दक्षस्य हि शुभोदर्कमिच्छन्प्रोवाच चेति वै ।। ।।

दधीचिरुवाच ।।

दक्षप्रजापते दक्ष साक्षाद्धातृस्वरूपधृक् ।। ५३ ।।

न चास्ति तव सामर्थ्यं क्वापि कस्यापि निश्चितम् ।।

यादृशः क्रतुसंभारस्तव चेह समीक्ष्यते ।। ५४ ।।

न तादृङ्नेदसि प्रायः क्वापि ज्ञातो महामते ।।

क्रतुस्तु नैव कर्तव्यो नास्ति क्रतुसमो रिपुः ।। ५५ ।।

कर्तव्यश्चेत्तदाकार्यः स्याच्चेत्संपत्ति रीदृशी ।।

साक्षादग्निः स्वयं कुंडे साक्षादिंद्रादिदेवताः ।।५६।।

साक्षाच्च सर्वे मंत्रा वै साक्षाद्यज्ञपुमानसौ ।।

आचार्यपदवीमेष देवाचार्यः स्वयं चरेत् ।।

साक्षाद्ब्रह्मा स्वयं चैष भृगुर्वै कर्मकांडवित् ।। ५७ ।।

अयं पूषा भगस्त्वेष इयं देवी सरस्वती ।।

एते च सर्वदिक्पाला यज्ञरक्षाकृतः स्वयम् ।। ५८।।

त्वं च दीक्षां शुभां प्राप्तो देव्या च शतरूपया ।।

जामाता त्वेष ते धर्मः पत्नीभिर्दशभिः सह ।। ५९ ।।

स्वयमेव हि कुर्वीत धर्मकार्यं प्रयत्नतः ।।

ओषधीनामयं नाथस्तव जामातृषूत्तमः ।। 4.2.87.६० ।।

सप्तविंशतिभिः सार्धं पत्नीभिस्तव कार्यकृत् ।।

ओषधीः पूरयेत्सर्वा द्विजराजो महासुधीः ।।६१।।

दीक्षितो राजसूयस्य दत्तत्रैलोक्यदक्षिणः ।।

मारीचः कश्यपश्चासौ प्रजापतिषु सत्तमः ।।

त्रयोदशमिताभिश्च भार्याभिस्तव कार्यकृत् ।। ६२ ।।

हविः कामदुघा सूते कल्पवृक्षः समित्कुशान् ।।

दारुपात्राणि सर्वाणि शकटं मंडपादिकम् ।। ६३ ।।

विश्वकर्माप्यलंकारान्कुरुतेभ्यागतर्त्विजाम् ।।

वसूनि चाऽपि वासांसि वसवोष्टौ ददत्यपि ।। ६४ ।।

स्वयंलक्ष्मीरलंकुर्याद्यावै चात्र सुवासिनीः ।। ६५ ।।

सर्वे सुखाय मे दक्ष वीक्षमाणस्य सर्वतः ।।

एकं दुःखाकरोत्येव यत्त्वं विस्मृतवानसि ।। ६६ ।।

जीवहीनो यथा देहो भूषितोपि न शोभते ।।

तथेश्वरं विना यज्ञः श्मशानमिव लक्ष्यते ।। ६७ ।।

इत्थं दधीचिवचनं श्रुत्वा दक्षः प्रजापतिः ।।

भृशं जज्वाल कोपेन हविषा कृष्णवर्त्मवत् ।। ६८ ।।

पूर्वस्तुत्याति संहृष्टो दृष्टो योसौ दधीचिना ।।

स एव चापि कोपाग्निमुद्वमन्वीक्षितो मुखात् ।। ६९ ।।

प्रत्युवाचाथ तं विप्रं वेपमानांगयष्टिकः ।।

दक्षः प्रजापती रोषाज्जिघांसुरिव तं द्विजम् ।। 4.2.87.७० ।।

।। दक्ष उवाच ।। ।।

ब्राह्मणोसि दधीचे त्वं किं करोमि तवात्र वै ।।

दीक्षामहमहो प्राप्तः कर्तुं नायाति किंचन ।। ७१ ।।

भवान्केन समाहूतो यदत्रागान्महाजडः ।।

आगतोपि हि केन त्वं पृष्ट इत्थं प्रब्रवीषि यत् ।। ७२ ।।

सर्वमंगलमांगल्यो यत्र श्रीमानयं हरिः ।।

स्वयं वै यज्ञपुरुषः स मखः किं श्मशानवत् ।। ७३ ।।

यत्र वज्रधरः शक्रः शतयज्ञैकदीक्षितः ।।

त्रयस्त्रिंशतिकोटीनाममराणां पतिः स्वयम् ।। ७४ ।।

तं त्वंचोपमिमीषेमुं श्मशानेन महामखम् ।।

धर्मराट्च स्वयं यत्र धर्माधर्मैककोविदः ।। ७५ ।।

श्रीदोस्ति यत्र श्रीदाता साक्षाद्यत्राशुशुक्षणिः ।।

तं यज्ञमुपमासि त्वममंगलभुवातया ।। ७६ ।।

देवाचार्यः स्वयं यत्र क्रतोराचार्यतागतः ।।

अभिमानवशात्तं त्वमाख्यासि पितृकाननम् ।। ७७ ।।

यत्रार्त्विज्यं भजंतेऽमी वसिष्ठप्रमुखर्षयः ।।

तमध्वरं समाचक्षे मंगलेतरभूमिवत् ।। ७८ ।।

निशम्येति मुनिः प्राह दधीचिर्ज्ञानिनां वरः ।।

सर्वमंगलमांगल्यो भवेद्यज्ञपुमान्हरिः ।। ७९ ।।

तथापि शांभवी शक्तिर्वेदे विष्णुः प्रपठ्यते ।।

वामांगं स्रष्टुराद्यस्य हरिस्तदितरद्विधिः ।। 4.2.87.८० ।।

दीक्षितो योश्वमेधानां शतस्य कुलिशायुधः ।।

दुर्वाससा क्षणेनापि नीतो निःश्रीकतां हि सः ।। ८१ ।।

पुनराराध्य भूतेशं प्रापैकाममरावतीम् ।।

यस्त्वया धर्मराजोत्र कथितः क्रतुरक्षकः ।। ८२ ।।

बलं तस्याखिलैर्ज्ञातं श्वेतं पाशयतः पुरा ।।

धनदस्त्र्यंबकसखस्तच्चक्षुश्चाशुशुक्षणिः ।। ८३ ।।

पार्ष्णिग्राह्यभवद्रुद्रो देवाचार्यस्य वै तदा ।।

यदा तारामधार्षीत्स द्विजराजोऽतिसुंदरीम् ।। ८४ ।।

तं विदंति वसिष्ठाद्यास्तवार्त्विज्यं भजंति ये ।।

एको रुद्रो न द्वितीयः संविदाना अपीति हि ।। ८५।।

प्रावर्तंतर्षयोन्येपि गौरवात्तव ते क्रतौ ।।

यदि मे ब्राह्मणस्यैकं शृणोषि वचनं हितम् ।। ८६ ।।

तदा क्रतुफलाधीशं विश्वेशं त्वं समाह्वय ।।

विना तेन क्रतुरसौ कृतोप्यकृत एव हि ।। ८७ ।।

सति तस्म्निमहादेवे विश्वकर्मैकसाक्षिणि ।।

तवापि चैषा सर्वेषां फलिष्यंति मनोरथाः ।। ८८ ।।

यथा जडानि बीजानि न फलंति स्वयं तथा ।।

जडानि सर्वकर्माणि न फलंतीश्वरं विना ।। ८९ ।।

अर्थहीना यथा वाणी धर्महीना यथा तनुः ।।

पतिहीना यथा नारी शिवहीना तथा क्रिया ।। ।। 4.2.87.९० ।।

गंगाहीना यथा देशाः पुत्रहीना यथा गृहाः ।।

दानहीना यथा संपच्छिवहीना तथा क्रिया ।। ९१ ।।

मंत्रिहीनं यथा राज्यं श्रुतिहीना यथा द्विजाः ।।

योषा हीनं यथा सौख्यं शिवहीना तथा क्रिया ।। ९२ ।।

दर्भहीना यथा संध्या तिलहीनं च तर्पणम् ।।

हविर्हीनो यथा होमः शिवहीना तथा क्रिया ।। ९३ ।।

इत्थं दधीचिनाख्यातं जग्राह वचनं न तत् ।।

दक्षो दक्षोपि तत्रैव शंभोर्माया विमोहितः।। ९४ ।।

प्रोवाच च भृशं क्रुद्धः का चिंता तव मे क्रतोः ।।

क्रतुमुख्यानि सर्वाणि यानि कर्माणि सर्वतः ।। ९५ ।।

तानि सिद्ध्यंति नियतं यथार्थकरणादिह ।।

अयथार्थविधानेन सिद्ध्येत्कर्मापि नेशितुः ।। ९६ ।।

स्वकर्मसिद्धये चाथ सर्व एव हि चेश्वरः ।।

ईश्वरः कर्मणां साक्षी यत्त्वयापीति भाषितम् ।। ९७ ।।

तत्तथास्तु परं साक्षी नार्थं दद्याच्च कुत्रचित् ।। ९८ ।।

जडानि सर्वकर्माणि न फलंतीश्वरं विना ।।

यदुक्तं भवता तत्राप्यहो दृष्टांतयाम्यहम् ।। ९९ ।।

जडान्यपि च बीजानि कालं संप्राप्यवात्मनः ।।

अंकूरयंति कालाच्च पुष्प्यंति च फलंति च ।। 4.2.87.१०० ।।

विनापीशं तथा कर्म स्वयं कालात्फलत्यहो ।।

किमीश्वरेण तेनात्र महामंगलमूर्तिना ।। १ ।।

।। दधीचिरुवाच ।। ।।

यथार्थकरणात्सिद्धमपि कार्यं कदाचन ।।

ईश्वरप्रातिकूल्याच्च सिद्धमेवाशु नश्यति ।। २ ।।

ईश्वरेच्छा बलात्कर्म कृतमप्यविधानतः ।।

संसिद्ध्येत्तदधीनाश्च कथं सर्व इहेश्वराः ।। ३ ।।

सामान्यसाक्षिवन्नेशः सर्वेषां सर्वकर्मणाम् ।।

साक्षीभवेदसंदिग्धः फलस्य प्रतिभूरपि ।। ४ ।।

भूजलादिस्वरूपेण बीजमाविश्यसर्वकृत् ।।

स्वयं कालस्वरूपेण विदध्यादंकुरोदयम् ।। ५ ।।

यत्त्वयोक्तं विनापीशं काले कर्मफलेत्स्वयम् ।।

स एव कालो भगवान्सर्वकर्ता महेशिता ।। ६ ।।

अन्यच्च भवता प्रोक्तं तदेकं तथ्यमेव तत् ।।

किमीश्वरेण तेनात्र महामंगलमूर्तिना ।। ७ ।।

ये महांतो भवंत्येव ये च मंगलमूर्तयः ।।

ईश्वराख्या च येष्वस्ति किं तैरत्र तवांतिके ।। ८ ।।

उत्तरादुत्तरं चेति प्रत्युत्तरयति द्विजे ।।

दधीचौ चुक्रुधेऽत्यंतं दक्षोगर्वातिसुश्रिया ।। ९ ।।

आदिदेश समीपस्थानालोक्य परितस्त्विति ।।

ब्राह्मणापसदं चामुं परिदूरयताशु वै ।। 4.2.87.११० ।।

अमुष्मादध्वरश्रेष्ठादवरिष्ठमनोगतम् ।।

इत्थं दधीचिराकर्ण्य प्रोवाच प्रहसन्निव ।। ११ ।।

किं मां दूरयसे मूढ दूरीभूतो भवानपि ।।

सर्वेभ्यो मंगलेभ्यश्च सर्वैरेभिः समं ध्रुवम् ।। १२ ।।

अकांडे क्रोधजो दंडस्तव मूर्ध्नि पतिष्यति ।।

महेशितुस्त्रिजगती परिशास्तुः प्रजापते ।। १३ ।।

इत्युक्त्वा निर्जगामाशु यज्ञवाटात्ततो द्विजः ।।

तस्मिन्निर्याति निर्यातो दुर्वासाश्च्यवनो भवान् ।। १४ ।।

उत्तंक उपमन्युश्च ऋचीकोद्दालकावपि ।।

मांडव्यो वामदेवश्च गालवो गर्गगौतमौ ।।१५।।

शिवतत्त्वविदोन्येपि दक्षयज्ञाद्विनिर्ययुः ।।

गते दधीचौ सानंदं प्रावर्तत महामखः ।।१६।।

ये स्थिता ब्राह्मणास्तत्र तेभ्यो द्विगुण दक्षिणाम् ।।

प्रादात्प्रजापतिर्दक्षस्त्वन्येभ्योप्यधिकं वसु ।। ।। १७ ।।

सर्वे जामातरस्तेन तोषिता भूरिशोधनैः ।।

कन्याश्चालंकृताः सर्वा महाविभवविस्तरैः ।।१८।।

ऋषिपत्न्योपि बहुशो देवपत्न्योप्यनेकशः ।।

तथा पुरांगनाः सर्वास्तेन मानभुवः कृताः ।। १९ ।।

ब्रह्मघोषेण तारेण व्योमशब्दगुणं स्फुटम् ।।

कारितं तेन दक्षेण विप्राणां हृष्टचेतसाम् ।। 4.2.87.१२० ।।

अग्निर्मंदाग्निरभवत्तस्मिञ्जुह्वति दीक्षिते ।।

हविः परिमलेनैव परितृप्ता दिगंगनाः ।। २१ ।।

स्वाहाकारैर्वषट्कारैः सुरा जाताः पिचंडिलाः ।।

रचिता गिरयस्तेन सदन्नानां पदेपदे ।।२२।।

घृतकुल्याः कृतास्तेन मधुकुल्याः सहस्रशः ।।

महासरांसि पयसां द्रप्सस्यापि महाह्रदाः ।। २३ ।।

राशयश्च दुकूलानां रत्नानां शिखराणि च ।।

यज्ञवाटस्य वसुधा स्वर्णरूप्यमयीकृता ।। २४ ।।

न लभ्यंते क्रतौ तस्य मार्गिता अपि मार्गणाः ।।

हृष्टाः पुष्टाः समभवन्नपि तत्परिचारकाः ।। २५ ।।

ध्वनिर्मंगलगीतानां व्यानशे गगनांगणम् ।।

जहृषे चाप्सरोवृंदैर्गंधर्वैर्मुमुदेतराम् ।। २६ ।।

विद्याधरैर्ननंदे च वसुधा ववृधे भृशम् ।।

महाविभवसंभारे तस्मिन्दाक्षे महाक्रतौ ।।

इत्थं प्रवृत्तेऽथ मुनिः कैलासं नारदो ययौ ।।१२७।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे दक्षयज्ञप्रादुर्भावोनाम सप्ताशीतितमोऽध्यायः ।। ८७।। ।। छ ।। ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 88

अगस्त्य उवाच ।। ।।

शिवलोकं समासाद्य मुनिना ब्रह्मसूनुना ।।

किं चक्रे ब्रूहि षड्वक्त्र कथां कौतुकशालिनीम् ।। १ ।।

स्कंद उवाच ।। ।।

शृणु कुंभज वक्ष्यामि नारदेन महात्मना ।।

यत्कृतं तत्र गत्वाशु कैलासं शंकरालयम् ।। २ ।।

मुनिर्गगनमार्गेण प्राप्य तद्धाम शांभवम्।।

दृष्ट्वा शिवौ प्रणम्याथ शिवेन विहितादरः ।। ३ ।।

तदुद्दिष्टासनं भेजे पश्यंस्तत्क्रीडनं परम्।।

क्रीडंतौ तौ तु चाक्षाभ्यां यदा न च विरमेतुः ।। ४ ।।

तदौत्सुक्येन स मुनिः प्रेर्यमाण उवाच ह ।।

।। नारद उवाच ।। ।।

देवदेव तव क्रीडाखिलं ब्रह्मांडगोलकम् ।।

मासा द्वादश ये नाथ ते सारिफलके गृहाः ।। ५ ।।

कृष्णाः कृष्णेतरा या वै तिथयस्ताश्च सारिकाः ।।

द्विपंचदशमासे यास्त्वक्षयुग्मं तथायने ।। ६ ।।

सृष्टिप्रलय संज्ञौ द्वौ ग्लहौ जयपराजयौ ।।

देवीजये भवेत्सृष्टिरसृष्टिर्धूर्जटेर्जये ।। ७ ।।

भवतोः खेलसमयो यः सा स्थितिरुदाहृता।।

इत्थं क्रीडैव सकलमेतद्ब्रह्मांडमीशयोः ।। ८ ।।

न देवी जेष्यति पतिं नेशः शक्तिं विजेष्यति ।।

किंचिद्विज्ञप्तुकामोस्मि तन्मातरवधार्यताम् ।। ९ ।।

देवः सर्वज्ञनाथोपि न किंचिदवबुध्यति ।।

मानापमानयोर्यस्मादसौ दूरे व्यवस्थितः ।। 4.2.88.१० ।।

लीलात्मा गुणवानेष विचारादतिनिर्गुणः ।।

कुर्वन्नपि हि कर्माणि बाध्यते नैव कर्मभिः ।। ११ ।।

मध्यस्थोपि हि सर्वस्य माध्यस्थ्यमवलंबतै ।।

सर्वत्रायं महेशानो मित्राऽमित्रसमानदृक् ।। १२ ।।

त्वं शक्तिरस्य देवस्य सर्वेषां मान्यभूः परा ।।

दक्षस्यापि त्वया मानो दत्तो पत्यनिमित्तकः ।। १३ ।।

परं त्वं सर्वजगतां जनयित्र्येकिका ध्रुवम् ।।

त्वत्त आविर्भवंत्येव धातृकेशववासवाः।। ।। १४ ।।

त्वमात्मानं न जानासि त्र्यक्षमायाविमोहिता ।।

अतएव हि मे चित्तं दुनोत्यतितरां सति ।। १५ ।।

अन्या अपि हि याः सत्यः पातिव्रत्यपरायणाः ।।

ता भर्तृचरणौ हित्वा किंचिदन्यन्न मन्वते ।। १६ ।।

अथवास्तामियं वार्ता प्रस्तुतं प्रब्रवीम्यहम् ।।

अद्य नीलगिरेस्तस्माद्धरिद्वारसमीपतः ।। १७ ।।

अपूर्वमिव संवीक्ष्य परिप्राप्तस्तवांतिकम् ।।

अत्याश्चर्यविषादाभ्यां किचिद्वक्तुमिहोत्सुकः ।। १८ ।।

आश्चर्यहेतुरेवायं यत्पुंजातं त्रयीतले ।।

तद्दृष्टं सकलत्रं च दक्षस्याध्वरमंडपे ।। १९ ।।

सालंकारं समानं च सानंदमुखपंकजम् ।।

विस्मृताखिलकार्यं च दक्षयज्ञप्रवर्तकम् ।। 4.2.88.२० ।।

विषादे कारणं चैतद्यतो जातमिदं जगत् ।।

यस्मिन्प्रवर्तते यत्र लयमेष्यति च ध्रुवम् ।। २१ ।।

तदेव तत्र नो दृष्टं भवद्वंद्वं भवापहम् ।।

प्रायो विषादजनकं भवतोर्यददर्शनम् ।। २२ ।।

तदेव नाभवत्तत्र समभूदन्यदेव हि ।।

तच्च वक्तुं न शक्येत तद्वक्ता दक्ष एव सः ।। २३ ।।

तानि वाक्यानि चाकर्ण्य द्रुहिणेन ययेततः ।।

महर्षिणा दधीचेन धिक्कृतो नितरां हि सः ।।२४ ।।

शप्तश्च वीक्षमाणानां देवर्षीणां प्रजापतिः ।।

मया च कर्णौ पिहितौ श्रुत्वा तद्गर्हणा गिरः ।। २५ ।।

दधीचिना समं केचिद्दुर्वासः प्रमुखा द्विजाः ।।

भवनिंदां समाकर्ण्य कियतोपि विनिर्ययुः ।।२६।।

प्रावर्तत महायागो हृष्टपुष्टमहाजनः ।।

तथा द्रष्टुं न शक्नोमि तत आगतवानिह ।।२७ ।।

भगिन्योपि च या देवि तव तत्र सभर्तृकाः ।।

तासां गौरवमालोक्य न किंचिद्वक्तुमुत्सहे ।। २८ ।।

इति देवी समाकर्ण्य सती दक्षकुमारिका ।।

करादक्षौ समुत्सृज्य दध्यौ किंचित्क्षणं हृदि ।। २९ ।।

उवाच च भवत्वेवं शरणं भव एव मे ।।

संप्रधार्येति मनसि सती दाक्षायणी ततः ।।4.2.88.३०।।

द्रुतमेव समुत्तस्थौ प्रणनाम च शंकरम् ।।

मौलावंजलिमाधाय देवी देवं व्यजिज्ञपत् ।।३१।।

।। देव्युवाच ।। ।।

विजयस्वांधकध्वंसिं त्र्यंबक त्रिपुरांतक ।।

चरणौ शरणं ते मे देह्यनुज्ञा सदाशिव ।।३२।।

मा निषेधीः प्रार्थयामि यास्यमि पितुरंतिकम् ।।

उक्त्वेति मौलिमदधादंधकारि पदांबुजे ।। ३३ ।।

अथोक्ता शंभुना देवी मृडान्युत्तिष्ठ भामिनि ।।

किमपूर्णं तवास्त्यत्र वदसौ भाग्यसुंदरि ।। ३४ ।।

लक्ष्म्या अपि च सौभाग्यं ब्रह्माण्यै कांतिरुत्तमा ।।

शच्यै नित्यनवीनत्वं भवत्या दत्तमीश्वरि ।। ३५ ।।

त्वया च शक्तिमानस्मि महदैश्वर्यरक्षणे ।।

त्वां च शक्तिं समासाद्य स्वलीलारूपधारिणीम् ।। ३६ ।।

एतत्सृजामि पाम्यद्मि त्वल्लीलाप्रेरितोंगने ।।

कुतो मां हातुमिच्छेस्त्वं मम वामार्धधारिणि ।। ३७ ।।

शिवा शिवोदितं चेति श्रुत्वाप्याह महेश्वरम् ।।

जीवितेश विहाय त्वां न क्वापि परियाम्यहम् ।।३८।।

मनो मे चरणद्वंद्वे तव स्थास्यति निश्चलम् ।।

क्रतुं द्रष्टुं पितुर्यामि नैक्षि यज्ञो मया क्वचित् ।।३९।।

शंभुः कात्यायनीवाक्यामिति श्रुत्वा तदाब्रवीत् ।।

क्रतुस्त्वया नेक्षितश्चेदाहरामि ततः क्रतुम् ।। 4.2.88.४० ।।

मच्छक्ति धारिणी त्वं वा सृजैवान्यां क्रतुक्रियाम् ।।

अन्यो यज्ञपुमानस्तु संत्वन्ये लोकपालकाः ।। ४१ ।।

अन्यानाशु विधेहि त्वमृषीनार्त्विज्यकर्मणि ।।

पुनर्जगाद देवीति श्रुत्वा शंभोरुदीरितम् ।। ४२ ।।

पितुर्यज्ञोत्सवो नाथ द्रष्टव्योऽत्र मया ध्रुवम् ।।

देह्यनुज्ञां गमिष्यामि मा मे कार्षीर्वचोन्यथा ।। ४३ ।।

कः प्रतीपयितुं शक्तश्चेतो वा जलमेव वा ।।

निम्नायाभ्युद्यतं नाथ माद्य मां प्रतिषेधय ।। ४४ ।।

निशम्येति पुनः प्राह सर्वज्ञो भूतनायकः ।।

मा याहि देवि मां हित्वा गता च न मिलिष्यसि ।। ४५ ।।

अद्य प्राचीं यियासुं त्वां वारयेत्पंगुवासरः ।।

नक्षत्रं च तथा ज्येष्ठा तिथिश्च नवमी प्रिये ।। ४६ ।।

अद्य सप्तदशो योगो वियोगोद्य तनोऽशुभः ।।

धनिष्ठार्ध समुत्पन्ने तव ताराद्य पंचमी ।। ।। ४७ ।।

मा गा देवि गताद्य त्वं नहि द्रक्ष्यसि मां पुनः ।।

पुनर्देवी बभाषे सा यदि नाम्नाप्यहं सती ।। ४८ ।।

तदा तन्वंतरेणापि करिष्ये तव दासताम् ।।

ततो भवः पुनः प्राह को वा वारयितुं प्रभुः ।। ४९ ।।

परिक्षुब्धमनोवृत्तिं स्त्रियं वा पुरुषं तु वा ।।

पुनर्न दर्शनं देवि मया सत्यं ब्रवीम्यहम् ।।4.2.88.५०।।

परं न देवि गंतव्यं महामानधनेच्छुभिः ।।

अनाहूत तया कांते मातापितृगृहानपि ।। ५१ ।।

यथा सिंधुगता सिंधुर्न पुनः परिवर्तते ।।

तथाद्य गंत्र्या नो जातु तवागमनमिष्यते ।। ५२ ।।

।। देव्युवाच ।। ।।

अवश्यं यद्यहं रक्ता तव पादाबुंजद्वये ।।

तथा त्वमेव मे नाथो भविष्यसि भवांतरे ।। ५३ ।।

इत्युक्त्वा निर्ययौ देवी कोपांधीकृतलोचना ।।

यियासुभिश्च कार्यार्थं यत्कर्तव्यं न तत्कृतम् ।। ५४ ।।

न ननाम महादेवं न च चक्रे प्रदक्षिणम् ।।

अतएव हि सा देवी न गता पुनरागता ।। ५५ ।।

अप्रणम्य महेशानमकृत्वापि प्रदक्षिणम् ।।

अद्यापि न निवर्तंते गताः प्राग्वासरा इव ।। ५६ ।।

तया चरणचारिण्या राज्ञ्या त्रिभुवनेशितुः ।।

अपि तत्पावनं वर्त्म मेनेति कठिनं बहु ।। ५७ ।।

देवोपि तां सतीं यांतीं दृष्ट्वा चरणचारिणीम् ।।

अतीव विव्यथे चित्ते गणांश्चाथ समाह्वयत् ।। ५८ ।।

गणा विमानं नयत मनःपवनचक्रिणम् ।।

पंचास्यायुतसंयुक्तं रत्नसानुध्वजोच्छ्रितम् ।। ५९ ।।

महावातपताकं च महाबुद्ध्यक्षलक्षितम् ।।

नर्मदालकनंदा च यत्रेषादंडतांगते ।। 4.2.88.६० ।। रथोपरि टिप्पणी

छत्रीभूतौ च यत्रस्तः सूर्याचंद्रमसावपि ।।

यस्मिन्मकरतुंडं च वाराहीशक्तिरुत्तमा ।। ६१ ।।

धूः स्वयं चापि गायत्री रज्जवस्तक्षकादयः ।।

सारथिः प्रणवो यत्र क्रेंकारः प्रणवध्वनिः ।। ६२ ।।

अंगानि रक्षका यत्र वरूथश्छंदसां गणः ।।

इत्याज्ञप्ता गणास्तूर्णं रथं निन्युर्हराज्ञया ।। ६३ ।।

देव्या सनाथं तं कृत्वा विमानं पार्षदा दिवि ।।

अनुजग्मुर्महादेवीं दिव्यां तेजोविजृंभिणीम्।। ६४ ।।

सा क्षणं त्र्यक्षरमणी वीक्ष्य दक्षसभांगणम्।।

नभोंऽगणाद्विमानस्थानतो वेगादवातरत् ।। ६५ ।।

अविशद् यज्ञवाटं च चकितंरक्षि वीक्षिता ।।

कृतमंगलनेपथ्यां प्रसूं दृष्ट्वा किरीटिनीम्।। ६६ ।।

सभर्तृकाश्च भगिनीर्नवालंकृतिशालिनीः ।।

साश्चर्याश्च सगर्वाश्च सानंदाश्च ससाध्वसाः ।। ६७।।

अचिंतिता त्वनाहूता विमानाद्धरवल्लभा ।।

कथमेषा परिप्राप्ता क्षणमित्थं प्रपश्यतीः।। ।। ६८ ।।

असंभाष्या पिताः सर्वा गता दक्षांतिकं सती ।।

पित्रा पृष्टा तु मात्रापि भद्रं जातं त्वदागमे ।। ६९ ।।

।। सत्युवाच ।। ।।

यदि भद्रं जनेतर्मे समागमनतो भवेत् ।।

कथं नाहं समाहूता यथैता मे सहोदराः ।। 4.2.88.७० ।।

।। दक्ष उवाच ।। ।।

अयि कन्ये महाधन्ये ह्यनन्ये सर्वमंगले ।।

अयं ते न मनाग्दोषो दोष एष ममैव हि ।। ७१ ।।

तादृग्विधाय यत्पत्ये मया दत्ताज्ञबुद्धिना ।।

यदहं तं समाज्ञास्यमीश्वरोसौ निरीश्वरः ।। ७२ ।।

तदा कथमदास्यं त्वां तस्मै मायास्वरूपिणं ।।

अहं शिवाख्यया तुष्टो न जाने शिवरूपिणम्।। ७३ ।।

पितामहेन बहुधा वर्णितोसौ ममाग्रतः ।।

शंकरोयमयं शभुरसौ पशुपतिः शिवः ।। ७४ ।।

श्रीकंठोसौ महेशोऽसौ सर्वज्ञोसौ वृषध्वजः ।।

अस्मै कन्यां प्रयच्छ त्वं महादेवाय धन्विने ।। ७५ ।।

वाक्याच्छतधृतेस्तस्मात्तस्मै दत्ता मयानघे ।।

न जाने तं विरूपाक्षमुक्षगं विषभक्षिणम् ।। ७६ ।।

पितृकाननसंवासं शूलिनं च कपालिनम् ।।

द्विजिह्वसंगसुभगं जलाधारं कपर्दिनम्।। ७७ ।।

कलंकिकृतमौलिं च धूलिधूसरचर्चितम् ।।

क्वचित्कौपीनवसनं नग्नं वातूलवत्क्वचित् ।। ७८ ।।

क्वचिच्च चर्मवसनं क्वचिद्भिक्षाटनप्रियम् ।।

विटंकभूतानुचरं स्थाणुमुग्रं तमोगुणम्।। ।। ७९ ।।

रुद्रं रौद्रपरीवारं महाकालवपुर्धरम् ।।

नृकरोटीपरिकरं जातिगोत्रविवर्जितम् ।। 4.2.88.८० ।।

न सम्यग्वेत्ति तं कश्चिज्जानानोपि प्रतारितः ।।

किं बहूक्तेन तनये समस्त नयशालिनि ।। ८१ ।।

क्व पांसुलपटच्छन्नो महाशंखविभूषणः ।।

प्रबद्धसर्पकेयूरः प्रलंबित जटासटः ।। ८२ ।।

डमड्डमरुकव्यग्र हस्ताग्रः खंडचंद्रभृत् ।।

तांडवाडंबररुचिः सर्वामंगल चेष्टितः ।।८३।।

मृडानि सहरः क्वाऽयमध्वरो मंगलालयः ।।

अतएव समाहूता नेह त्वं सर्वमंगले ।। ८४ ।।

दुकूलान्यनुकूलानि रत्नालंकृतयः शुभाः ।।

प्रागेव धारितास्तेत्र पश्यागत्य गृहाण च ।। ८५ ।।

इह मंगलवेशेषु देवेंद्रेषु स शूलधृक् ।।

कथमर्हो भवेच्चेति मंगले विषमेक्षणः ।। ८६ ।।

इत्याकर्ण्य सती साध्वी जनेतुरुदितं तदा ।।

अत्यंतदूनहृदया वक्तुं समुपचक्रमे ।।८७।।

सत्युवाच ।। ।।

नाकर्णितं मया किंचित्त्वयि प्रब्रुवति प्रभो ।।

पदद्वयीं समाकर्ण्य तां च ते कथयाम्यहम् ।।८८।।

न सम्यग्वेत्ति तं कश्चिज्जानानोपि प्रतारितः ।।

एतत्सम्यक्त्वयाख्यायि कस्तं वेत्ति सदाशिवम्।। ८९ ।।

त्वं तु प्रतारितः पूर्वमधुनापि प्रतारितः ।।

कृत्वा तेन च संबंधमसंबद्धप्रलापभाक् ।। 4.2.88.९० ।।

यादृशं वक्षितं शंभुं तादृशं यद्यमन्यथाः ।।

कुतो मामददास्तस्मै यं च कश्च न वेद न ।। ९१ ।।

अथवा तेन संबंधे न हेतुर्भवतो मतिः ।।

तत्र हेतुरभूत्तात मम पुण्यैकगौरवम्।। ।। ९२ ।।

अथोक्त्वैवं बहुतरं त्वं जनेतास्य वर्ष्मणः ।।

श्रुतानेन च देहेन पत्युः परिविगर्हणा ।। ९३ ।।

पुरश्चरणमेवैतद्यदस्यैव विसर्जनम् ।।

सुश्लाघ्यजन्मया तावत्प्राणितव्यं सुयोषिता ।।

यावज्जीवितनाथस्याश्रवणीया विगर्हणा ।। ९४ ।।

इत्युक्त्वा क्रोधदीप्ताग्नौ महादेवस्वरूपिणि ।।

जुहाव देहसमिधं प्राणरोधविधानतः ।। ९५ ।।

ततो विवर्णतां प्राप्ताः सर्वे देवाः सवासवाः ।।

नाग्निर्जज्वाल च तथा यथाज्याहुतिभिः पुरा ।। ९६ ।।

मंत्राः कुंठितसामर्थ्यास्तत्क्षणादेव चाभवन् ।।

अहो महानिष्टतरं किमेतत्समुपस्थितम् ।।९७।।

केचिदूचुर्द्विजवरा मिथः परियियासवः ।।

महाझंझानिलः प्राप्तः पर्वतांदोलनक्षमः ।। ९८।।

मखमंडप भूस्तेन क्षणतः स्थपुटीकृता ।।

अकांडं तडिदापातो जातोभूद्भूप्रकपनः ।।९९।।

दिवश्चोल्काः प्रपतिताः पिशाचा नृत्यमादधुः ।।

आतापिगृध्रैरुपरि गगने मंडलायितम् ।। 4.2.88.१०० ।।

रवेरधस्तादशिवं शिवास्तत्राप्यरारिषुः ।।

मेघारुधिरविपुड्भिस्तत्र वृष्टिं व्यधुः पराम् ।। १ ।।

निर्घातनिःस्वनो भूमेरुत्थितो हृत्प्रकंपनः ।।

दिव्यायुधानि च मिथो युध्यंति स्मातिभीषणम् ।। २ ।।

हवनीयं महद्रव्यं दूषितं क्रोष्टुभिः श्वभिः ।।

चकोराः करटास्तत्र विचेरुर्यज्ञमंडपे ।। ३ ।।

श्मशानवाटवज्जातो यज्ञवाटः स वै क्षणात।।

यद्यत्रावस्थितं सर्वं तत्तत्रैव परिष्ठितम् ।। ४ ।।

चित्रन्यस्तमिवासीच्च वस्तुजातमशोभि च ।।

स्थगिता इव संवृत्तास्तत्र चक्रधरादयः ।। ५ ।।

दक्षोपि वदनग्लानिमवाप्य सपरिच्छदः ।।

पुनर्यथाकथंचिच्च यज्ञं प्रावर्तयन्द्विजाः ।।१०६।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे सतीदेहविसर्जनं नामाष्टाशीतितमोऽध्यायः ।। ८८ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 89

।। स्कंद उवाच ।।

पुनः स नारदोऽगस्त्य देव्याः प्राक्समुपागतः ।।

तद्वृत्तांतमशेषं च हरायावेदितुं ययौ ।। १ ।।

दृष्ट्वा स नारदः शंभुं नंदिना सह संकथाम् ।।

कांचित्तर्जनिविन्यास पूर्वं कुर्वंतमानमत् ।। २ ।।

उपाविशच्च शैलादि विसृष्टासनमुत्तमम् ।।

वैलक्ष्यं नाटयन्किंचित्क्षणं जोषं समास्थितः ।।३।।

आकारेणैव सर्वज्ञस्तद्वृत्तांतं विवेद ह।।

अवादीच्च मुनिं शंभुः कुतो मौनावलंबनम् ।। ४ ।।

शरारिणां स्थितिरियमुत्पत्तिप्रलयात्मिका ।।

दिव्यान्यपि शरीराणि कालाद्यांत्येवमेव हि ।। ५ ।।

दृश्यं विनश्वरं सर्वं विशेषाद्यदनीश्वरम् ।।

ततोऽत्र चित्रं किं ब्रह्मन्कंकालः कालयेन्न वै ।।६।।

अभाविनो हि भावस्य भावः क्वापि न संभवेत् ।।

भाविनोपि हि नाभावस्ततो मुह्यंति नो बुधाः ।। ७ ।।

शंभूदीरितमाकर्ण्य स इत्थं मुनिपुंगवः ।।

प्रोक्तवान्सत्यमेवैतद्यद्देवेन प्रभाषितम् ।। ८ ।।

अवश्यमेव यद्भाव्यं तद्भूतं नात्र संशयः ।।

परं मां बाधतेत्यंतं चिंतैका चित्तमाथिनी ।। ९ ।।

नापचीयेत ते किंचिन्नोपचीयेत तत्त्वतः ।।

अव्ययत्वाच्च पूर्णत्वाद्धानिवृद्धी कृतस्त्वयि ।। 4.2.89.१० ।।

अहो वराकः संसारः क्व भविष्यत्यनीश्वरः ।।

आरभ्याद्यदिनं न त्वामर्चयिष्यंति केपि यत् ।। ११ ।।

यतः प्रजापतिर्दक्षो न त्वामाहूतवान्क्रतौ ।।

तेनाद्यरीढि तं दृष्ट्वा देवर्षिमनुजा अपि।। १२ ।।

तव रीढां करिष्यंति किमैश्वर्येण रीढिनाम् ।।

प्राप्तावहेडना लोके जितकालभया अपि ।।

अथैश्वर्येण संपन्नाः प्रतिष्ठाभाजनं किमु ।। १३ ।।

महीयसायुषा तेषां वसुभिर्भूरिभिश्च किम् ।।

येऽभिमानधनानेह लब्धरीढाः पदेपदे ।। १४ ।।

अचेतनाश्च सावज्ञा जीवंतोपि न कीर्तये ।।

अभिमानधना धन्या वरं योषित्सुसासती ।। १५ ।।

या त्वद्विनिंदाश्रवणात्तृणीचक्रे स्वजीवितम्।।

इत्याकर्ण्य महाकालः सम्यग्ज्ञात्वा सतीव्ययम् ।। १६ ।।

सत्यं मुने सती देवी तृणीचक्रे स्वजीवितम् ।।

जोषं स्थिते मुनौ तत्र तन्महाकालसाध्वसात् ।।१७।।

रुद्रश्चातीवरुद्रोभूद्बहुकोपाग्निदीपितः ।।

ततस्तत्कोपजाद्वह्निराविरासीन्महाद्युतिः ।।१८।।

प्रत्यक्षः प्रतिमाकारः कालमृत्युप्रकंपनः ।।

उवाच च प्रणम्येशं भुशुंडीं महतीं दधत् ।।१९।।

आज्ञां देहि पितः किं ते करवै दास्यमुत्तमम्।।

ब्रह्मांडमेककवलं करवाणि त्वदाज्ञया ।। 4.2.89.२० ।।

पिबामि चार्णवान्सप्ताप्येकेन चुलुकेन वै ।।

रसातलं वा पातालं पातालं वा रसातलम् ।। २१ ।।

त्वदाज्ञया नयामीश विनिमय्य स्वहेलया ।।

सलोकपालमिंद्रं वा धृत्वा केशैरिहानये ।। २२ ।।

अपि वैकुंठनाथश्चेत्तत्साहाय्यं करिष्यति ।।

तदा तं कुंठितास्त्रं च करिष्यामि त्वदाज्ञया ।। २३ ।।

दनुजा दितिजाः के वै वरा कारणदुर्बलाः ।।

तेषु चोत्कटतां कोपि धत्ते तं प्रणिहन्म्यहम् ।। २४ ।।

कालं बध्नामि वा संख्ये मृत्योर्वा मृत्युमर्थये ।।

स्थावरेषु चरेष्वत्र मयि कुद्धे रणांगणे ।। २५ ।।

त्वद्बलेन महेशान न कोपि स्थैर्यमेष्यति ।।

ममपादतलाघातादेतद्वै क्षोणिमंडलम् ।। २६ ।।

कदलीदलवद्वाताद्वेपते सरसातलम् ।।

चूर्णीकरोमि दोर्दंडघाताच्चैतान्कुलाचलान् ।। २७ ।।

किं बहूक्तेन देह्याज्ञां ममासाध्यं न किंचन ।।

त्वत्पादबलमासाद्य कृतं विद्ध्यद्यचिंतितम् ।। २८ ।।

इति प्रतिज्ञां तस्येशः श्रुत्वा कृतममन्यत ।।

कृतकृत्यमिवात्यंतं तं मुदा प्रत्युवाच च ।। २९ ।।

महावीरोसि रे भद्र मम सर्वगणेष्विह ।।

वीरभद्राख्यया त्वं हि प्रथितिं परमां व्रज ।। 4.2.89.३० ।।

कुरु मे सत्वरं कार्यं दक्षयज्ञं क्षयं नय ।।

ये त्वां तत्रावमन्यंते तत्साहाय्यविधायिनः ।। ३१ ।।

ते त्वयाप्यवमंतव्या व्रज पुत्र शुभोदय ।।

इत्याज्ञां मूर्ध्नि चाधाय स ततः पारमेश्वरीम् ।। ३२ ।।

हरं प्रदक्षिणीकृत्य जग्मिवानतिरंहसा ।।

ततस्तदनुगाञ्शंभुः स्वनिःश्वाससमुद्गतान् ।। ३३ ।।

शतकोटिमितानुग्रान्गणानन्न्यानवासृजत् ।।

ते गणा वीरभद्रं तं यांतं केचित्पुरोगताः ।। ३४ ।।

केचित्तदनुगा जाताः केचित्तत्पार्श्वगा ययुः।।

अंबरं तैः समाक्रांतं तेजोवीजित भास्करैः ।। ३५ ।।

शृंगाग्राणि गिरीणां च कैश्चिदुत्पाटितानि वै ।।

आचूडमूलाः कैश्चिच्च विधता वै शिलोच्चयाः ।।३६।।

उत्पाट्य महतो वृक्षान्केचित्प्राप्ता मखांगणम् ।।

कैश्चिदुत्पाटिता यूपाः केचित्कुंडान्यपूपुरन् ।। ३७ ।।

मंडपं ध्वंसयामासुः केचित्क्रोधोद्धुरागणाः ।।

अचीखनन्वै वेदीश्च केचिद्वै शूलपाणयः ।।

अभक्षयन्हवींष्यन्ये पृषदाज्यं पपुः परे ।। ३८ ।।

दध्वंसुरन्नराशींश्च केचित्पर्वतसन्निभान् ।।

केचिद्वै पायसाहाराः केचिद्वै क्षीरपायिनः ।। ।। ३९ ।।

केचित्पक्वान्नपुष्टांगा यज्ञपात्राण्यचूर्णयन् ।।

अमोटयन्स्रुचादंडान्केचिद्दोर्दंडशालिनः ।। 4.2.89.४०

व्यभजञ्छकटान्केचित्पशून्केचिदजीगिलन् ।।

अग्निं निर्वापयामासुः केचिदत्यग्नितेजसः ।। ४१ ।।

स्वयं परिदधुश्चान्ये दुकूलानि मुदा युताः ।।

जगृहुः केचन पुरा रत्नानां पर्वतं कृतम् ।। ४२ ।।

एकेन च भगो देवः पश्यंश्चक्रे विलोचनः ।।

पूष्णो दंतावलीमन्यः पातयामास कोपितः ।। ४३ ।।

यज्ञः पलायितो दृष्टः केनचिन्मृगरूपधृक् ।।

शिरोविरहितश्चक्रे तेन चक्रेण दूरतः ।। ४४ ।।

एकः सरस्वतीं यांतीं दृष्ट्वा निर्नासिकां व्यधात् ।।

अदितेरोष्ठपुटकौ छिन्नावन्येन कोपिना ।। ४५ ।।

अर्यम्णो बाहुयुगलं तथोत्पाटितवान्परः।।

अग्नेरुत्पाटयामास कश्चिज्जिह्वां प्रसह्य च ।।४६।।

चिच्छेद वायोर्वृषणं पार्षदोन्यः प्रतापवान् ।।

पाशयित्वा यमं कश्चित्को धर्म इति पृष्टवान् ।।४७।।

यत्र धर्मे महेशो न प्रथमं परिपूज्यते ।।

नैर्ऋतं संगृहीत्वान्यः केशेष्वातो्ल्यचासकृत् ।।४८।।

अनीश्वरं हविर्भुक्तं त्वयेत्या ताडयत्पदा ।।

कुबेरमपरो धृत्वा पादयोरधुनोद्बलात् ।। ४९ ।।

वामयामास बहुशो भक्षिता ह्यध्वराहुतीः ।।

एकादशाऽपि ये रुद्रा लोकपालैकपंक्तयः ।। 4.2.89.५० ।।

रुद्राख्या धारणवशात्प्रमथैस्तेऽवहेलिताः ।।

वरुणोदरमापीड्य प्रमथोन्यो बलेनहि ।। ५१ ।।

बहिरुद्गिरयामास यद्दत्तं चेशवर्ज्जितम् ।।

मायूरीं तनुमासाद्य सहस्राक्षो महामतिः ।। ५२ ।।

उड्डीय गिरिमाश्रित्यच्छन्नः कौतुकमैक्षत ।।

ब्राह्मणान्प्रमथा नत्वा यातयातेतिचाब्रुवन् ।। ५३ ।।

प्रमथाः कालयामासुरन्यानपि च याचकान् ।।

इत्थं प्रमथिते यागे प्रमथैः प्रथमागतैः ।।

वीरभद्रः स्वतः प्राप्तः प्रमथानीकिनी वृतः ।।५४।।

यज्ञवाटं श्मशानाभं दृष्ट्वा तैः प्रमथैः पुरा ।।

अतिशोच्यां दशां नीतं वीरभद्रस्ततो जगौ ।। ।। ५५ ।।

गणाः पश्यत दुर्वृत्तैः प्रारब्धानां च कर्मणाम् ।।

अनीश्वरैरवस्थेयं कुतो द्वेषो महेश्वरे ।। ५६ ।।

ये द्विषंति महादेवं सर्वकर्मैकसाक्षिणम् ।।

धर्मकार्ये प्रवृत्तास्तु ते प्राप्स्यंतीदृशं दशाम् ।। ५७ ।।

क्व स दक्षो दुराचारः क्व च यज्ञभुजः सुराः ।।

धृत्वा सर्वानानयत यात द्रुततरं गणाः ।।५८।।

इत्याज्ञा वीरभद्रस्य प्राप्य ते प्रमथा द्रुतम्।।

यावद्यांत्यग्रतस्तावदृष्टः कुद्धो गदाधरः ।। ५९ ।।

तेन ते प्रमथाः सर्वे महाबलपराक्रमाः ।।

शुष्कपर्णतृणावस्थां प्रापिता वात्ययेव हि ।।4.2.89.६०।।

अथ नष्टेषु सर्वेषु प्रमथेषु हरेर्भयात् ।।

चुकोप वीरभद्रः स प्रलयानलसंनिभः ।। ६१ ।।

ददर्श शार्ङ्गिणं चाग्रे स्वगणैश्च परिष्टुतम् ।।

चतुर्भुजैरसंख्यातैर्जितदैत्यमहाबलैः ।।६२।।

चक्रिभिर्गदिभिर्जुष्टं खड्गिभिश्चापि शार्ङ्गिभिः ।।

वीरभद्रस्ततः प्राह दृष्ट्वा तं दैत्यसूदनम् ।। ६३ ।।

त्वं तु यज्ञपुमानत्र महायज्ञप्रवर्तकः ।।

रक्षिता निजवीर्येण दक्षस्य त्र्यक्षवैरिणः ।। ६४ ।।

किं वा दक्षं समानीय देहि युध्यस्व वा मया ।।

न दास्यसि च चेद्दक्षं ततस्तं रक्ष यत्नतः ।। ६५ ।।

प्रायशः शंभुभक्तेषु यतस्त्वं प्रोच्यसेऽग्रणीः ।।

एकोनेऽब्जसहस्रेप्राग्ददौ नेत्रांबुजं भवान् ।। ६६ ।।

तुष्टेन शंभुना दत्तं तुभ्यं चक्रं सुदर्शनम् ।।

यत्साहाय्यमवाप्याजौ त्वं जयेर्दनुजाधिपान् ।। ६७ ।।

इत्याकर्ण्य वचस्तस्य वीरभद्रस्य चोर्जितम्।।

जिज्ञासुस्तद्बलं विष्णुर्वीरभद्रमुवाच ह ।। ६८ ।।

त्वं शंभोः सुत देशीयो गणानां प्रवरोस्यहो ।।

राजादेशमनुप्राप्य ततोप्यतिबलो महान् ।। ६९ ।।

योसि सोस्यहमप्यत्र दक्षरक्षणदक्षधीः ।।

पश्यामि तव सामर्थ्यं कथं दक्षं हरिष्यसि ।। 4.2.89.७० ।।

इत्युक्तो वीरभद्रः स तेन वै शार्ङ्गधन्वना ।।

प्रमथान्दृष्टिभंग्यैव प्रेरयामास संगरे ।। ७१ ।।

अथ तैः प्रमथैर्विष्णोरनुगा गदिता रणे ।।

आददानास्तृणं वक्त्रे णापिताः पाशवीं दशाम् ।। ७२ ।।

ततस्तार्क्ष्यरथः क्रुद्धस्त्वेकैकं रणमूर्धनि ।।

सहस्रेणसहस्रेण बाणानां हृद्यताडयत् ।। ७३ ।।

ते भिन्नवक्षसः सर्वे गणा रुधिरवर्षिणः ।।

वासंतीं कैंशुकीं शोभां परिप्रापूरणाजिरे ।। ७४ ।।

क्षरंत इव मातंगाः स्रवंत इव पर्वताः ।।

मदेन धातुरागेण मिश्रैः शुशुभिरे गणाः ।। ७५ ।।

ततः प्रहस्य गणपोऽब्रवीद्वै कुंठनायकम् ।।

हे शार्ङ्गधन्वञ्जाने त्वां त्वं रणांगण पंडितः ।। ७६ ।।

परं युध्यसि दैत्येंद्रैर्दानवेंद्रैर्न पार्षदैः ।।

इत्युक्ता वीरभद्रेण भुशुंडीकलिताकरे ।।७७।।

गदिनाऽथ गदा तूर्णं दैत्येंद्रगिरिरेणुकृत् ।।

ततः प्रहतवान्वीरो भुशुंड्या तं गदाधरम् ।। ७८ ।।

तदंगसंगमासाद्य विदद्रे शतधा तया ।।

कौमोदकी प्रहारेण वीरभद्रं प्रतापिनम् ।। ७९ ।।

जघान वासुदेवोपि तरसाऽज्ञातवेदनम् ।।

ततः खट्वांगमादाय गदाहस्तं गदाधरम् ।।4.2.89.८०।।

आताड्य सव्यदोर्दंडे गदां भूमावपातयत् ।।

कुपितोयं मधुद्वेषी चक्रेणाताडयच्च तम् ।। ८१ ।।

स च चक्रं समागच्छद्दृष्ट्वा सस्मार शंकरम् ।।

शंकरस्मरणाच्चक्रं मनाग्वक्रत्वमाप्य च ।।

कंठमासाद्यवीरस्य सम्यग्जातं सुदर्शनम् ।।८२।।

तेन चक्रेण शुशुभे नितरां स गणेश्वरः ।।

वीरलक्ष्म्यावृत इव समरे विजयस्रजा ।। ८३ ।।

ततः सुदर्शनं दृष्ट्वा तत्कंठाभरणं हरिः ।।

मनाक्स चकितं स्मित्वा ततो जग्राह नंदकम् ।। ८४ ।।

सनंदकं करं तस्य प्रोद्यतं मधुविद्विषः ।।

पश्यतां दिविसिद्धानां स्तंभयामास हुंकृता ।। ८५ ।।

अभ्यधावच्च वेगेन गृहीत्वा शूलमुज्ज्वलम् ।।

यावज्जिघांसति हरिं तावदाकाशवाचया ।। ८६ ।।

वारितो गणराजः स मा कार्षीः साहसं त्विति ।।

ततस्तमपहायाशु वीरभद्रो गणोत्तमः ।। ८७ ।।

प्राप्य दक्षं विनद्योच्चैर्धिक्त्वामीश्वरनिंदकम् ।।

यस्येदृगस्ति संपत्तिर्यत्रदेवाः सहायिनः ।।

स कथं सेश्वरं कर्म न कुर्याद्दक्षतांदधत् ।। ८८ ।।

येनास्येन पवित्रेण भवता निंदितः शिवः ।।

चूर्णयामि तदास्यं ते चपेटाभिः समंततः ।।८९।।

इत्युक्त्वा तस्य दक्षस्य हरपारुष्यभाषिणः ।।

चिच्छेद वदनं वीरश्चपेटशतघातनैः ।। ।। 4.2.89.९० ।।

ततस्त्वदितिमुख्यानां मिलितानां महोत्सवे ।।

त्रोटयामास कर्णादीन्यंगप्रत्यंगकानि च ।। ९१ ।।

वेणीदंडाश्च कासांचित्तेनच्छिन्ना महारुषा ।।

कासांचिच्च कराश्छिन्ना कासांचित्कर्तितास्तनाः ।। ९२ ।।

नासापुटांस्तथान्यासां पाटयामास पार्षदः ।।

चिच्छेद चांगुलीश्चापि तथान्यासां शिवप्रियः।। ।। ९३ ।।

ये ये निनिंदुर्देवेशं ये ये च शुश्रुवुस्तदा ।।

तेषां जिह्वाश्रुतीः कोपादच्छिनच्चाकरोद्द्विधा ।। ९४ ।।

केचिदुल्लंबिता यूपे पाशयित्वा दृढं गले ।।

अधोमुखायै देवेशं विहायात्तं महाहविः ।। ९५ ।।

द्विजराजश्च धर्मश्च भृगुमारीचिमुख्यकाः ।।

अत्यंतमपमानस्य भाजनं तेन कारिताः ।। ९६ ।।

एते जामातरस्तस्य यतो दक्षस्य दुर्धियः ।।

हित्वा महेश्वरममून्सोपश्यदधिकाञ्शिवात् ।। ९७ ।।

तानि कुंडानि ते यूपास्ते स्तंभाः स च मंडपः ।।

तावेद्यस्तानि पात्राणि तानि हव्यान्यनेकधा ।। ९८ ।।

ते च वै यज्ञसंभारास्ते ते यज्ञप्रवर्तकाः ।।

ते रक्षपालास्तेमंत्रा विनेशुर्हेलयाऽखिलाः ।। ९९ ।।

स्तोकेनैव हि कालेन यथर्धिः परवंचनात् ।।

अर्जिता नश्यति क्षिप्रं दक्षसंपद्गताऽशिवा ।।4.2.89.१००।।

नीते महाक्रतौ तेन सगणेनेदृशीं दशाम् ।।

विधिर्विधि विलोपाच्च हरं विज्ञाप्य चानयत् ।।१ ।।

तत्र यत्र मखः सोभूदीदृक्षः शिववर्जितः ।।

आयातेथ महादेवे वीरभद्रोतिलज्जितः ।। २ ।।

नत्वा न किंचिदवदद्देवः सर्वमवैत्स्वयम् ।।

प्रसाद्य देवदेवेशं सुरज्येष्ठोऽब्रवीत्पुनः ।। ३ ।।

अपराध्यप्ययं दक्षः संप्रसाद्यः कृषानिधे ।।

यथापूर्वं पुनरमून्सर्वान्कारय शंकर ।। ४ ।।

यथाविधिः प्रवर्तेत वैदिकः पुनरेव हि ।।

तथाज्ञा दीयतां शंभो कर्मसिद्ध्यति सेश्वरम्।।५ ।।

अनीश्वरासु सर्वासु क्रियासु परमेश्वर ।।

एवमेव भवत्येव विघ्रजाताः सहस्रशः ।। ६ ।।

विचारतो वराकोयम दक्षो भक्ततरस्तव ।।

कुर्वन्योऽनीश्वरम कर्म परदृष्टांततां गतः ।। ७ ।।

अन्योपि यो महेशानं हित्वा कर्म करिष्यति ।।

तस्य तत्कर्मसंसिद्धिर्दक्षस्येव भविष्यति ।।८।।

अतो न कश्चित्किंचिच्च क्वचित्कर्म विना शिवम् ।।

विधास्यति निशम्यास्य दक्षत्येदृक्ष चेष्टितम् ।।९।।

विधीरितमिति श्रुत्वा स्मित्वा देवो महेश्वरः ।।

वीरमाज्ञापयामास यथापूर्वं प्रकल्पय ।। 4.2.89.११० ।।

वीरभद्रोपि तत्सर्वं शर्वाज्ञां प्रतिपद्य च ।।

विना दक्षस्य वदनं यथापूर्वमकल्पपयत् ।। ११ ।।

ईश्वरं ये विनिंदंति ते मूकाः पशवो ध्रुवम् ।।

ततो मेषमुखं दक्षं वीरभद्रो गणो व्यधात् ।। १२ ।।

देवो ब्रह्माणमापृच्छय धर्माद्गार्हस्थ्यतश्च्युतः ।।

सपापं दोहिमप्रस्थं जगाम तपसे ततः ।। १३ ।।

अनाश्रमवता पुंसा यतः कालो मनागपि ।।

मुधा कलयितव्यो न तस्माच्छ्रेयः सदा श्रम ।। १४ ।।

अतः स सर्वं तपसां फलदाता महेश्वरः ।।

तपश्चचार सगणो ब्रह्मा दक्षं त्वशिक्षयत् ।। १५ ।।

हरनिंदा समुद्भूत पापपंकं सुदुस्त्यजम् ।।

यदि क्षालयितुं कांक्षा तदा वाराणसीं व्रज ।। १६ ।।

प्राप्य वाराणसीं पुण्यां महापापौघहारिणीम् ।।

कुरु लिंगप्रतिष्ठां त्वं तेन शंभुः स तुष्यति ।। १७ ।।

तुष्टे महेश्वरे तुष्टं जगदेतच्चराचरम् ।।

नान्यत्र पापं ते गंतृ विना वाराणसीं पुरीम् ।। १८ ।।

ब्रह्महत्यादि पापानां प्रायश्चित्तं मनीषिभिः ।।

प्रोक्तं न हरनिंदायास्तत्र काश्येव केवलम ।१९।।

काश्यां लिंगप्रतिष्ठायैः कृताऽत्र सुकृतात्मभिः ।।

सर्वे धर्माः कृतास्तैस्तु त एव पुरुषार्थिनः ।। 4.2.89.१२० ।।

इत्याकर्ण्य विधेर्वाक्यं दक्षः प्राप्याथ सत्वरम् ।।

अविमुक्तं महाक्षेत्रं तताप परमं तपः ।।२१।।

संस्थाप्य लिंगं विधिवल्लिंगाराधनतत्परः ।।

न वेत्ति लिंगादपरं स किंचिज्जगतीतले ।। २२ ।।

दिवानिशं महेशानं परिष्टौति समर्चति ।।

नमति ध्यायतीक्षेत दक्षो दक्षप्रजापतिः ।।२३।।

एकचित्तस्य दक्षस्य ध्यायतो लिंगमैश्वरम् ।।

समाः सहस्रमगमन्मितं द्वादशसंख्यया ।।।२४।।।

मेनां यावत्सती प्राप्य हिमाचलपतिव्रताम् ।।

उमारूपाति तपसा पतिं प्राप पिनाकिनम् ।।२५।।

तावत्स दक्षस्तपसि निश्चलो लिंगमार्चयत् ।।

ततः काशीं समासाद्य सह भर्त्रा गिरींद्रजा ।।२६।।

दृष्ट्वा तं निश्चलहृदं शिवलिंगार्चने रतम् ।।

हरं व्यजिज्ञपद्देवी क्षीणोयं तपसा विभो ।। २७ ।।

प्रसादय कृपासिंधो वरणैनं प्रजापतिम् ।।

इत्युक्तोऽपर्णया शंभुः प्राह तं दक्षमीशिता ।। २. ।।

वरं ब्रूहि महाभाग दास्यामि मनसेप्सितम् ।।

इतीशोदितमाकर्ण्य प्रणम्य बहुशो हरम् ।।२९।।

स्तुत्वा नानाविधैः स्तोत्रैः प्रसन्नं वीक्ष्य शंकरम् ।।

प्रोवाच देवदेवेशं यदि देयो वरो मम ।। 4.2.89.१३० ।।

तत्त्वदीय पदद्वंद्वे निर्द्वंद्वा भक्तिरस्तु मे ।।

इदं च ते महालिंगं यन्मयाऽत्र प्रतिष्ठितम् ।।

अस्मिँल्लिंगे त्वया नाथ स्थातव्यं सर्वदैव हि ।। ३१ ।। ।

मयापराद्धं यद्देव तत्क्षंतव्यं कृपानिधे ।।

एत एव वराः संतु क्रिमन्यैरुत्तमैर्वरैः ।।३२।।

इति श्रुत्वा महादेवः प्रसन्नोतितरां भवः ।।

प्रोवाच च यदुक्तं ते तत्तथास्तु न चान्यथा ।। ३३।।

अन्यच्च ते वरं दद्यां तच्छृणुष्व प्रजापते ।।

यत्त्वया स्थापितं लिंगमेतद्दक्षेश्वराभिधम् ।। ३४ ।।

अस्य संसेवनात्पुंसामपराधसहस्रकम्।।

क्षमिष्येहं न संदेहस्तस्मात्पूज्यमिदं जनैः ।। ३५ ।।

त्वं तु लिंगार्चनादस्मात्सर्वमान्यो भविष्यसि ।।

परार्धद्वितयप्रांते ततो मोक्षमवाप्स्यसि ।। ३६ ।।

इत्युक्त्वा देवदेवेशस्तस्मिँल्लिंगे लयं ययौ ।।

दक्षोपि गतवान्गेहं परिप्राप्तमनोरथः ।। ३७।।

।। स्कंद उवाच ।। ।।

इत्यगस्त्य समाख्यातो दक्षेश्वरसमुद्भवः ।।

यं श्रुत्वा मुच्यते जंतुरपराध शतैरपि ।।।३५।।

श्रुत्वाख्यानमिदं पुण्यं दक्षेश्वरसमुद्भवम् ।।

नरो न लिप्यते पापैरपराधालयोपि हि ।। १३९ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे दक्षेश्वरप्रादुर्भावोनाम नवाशीतितमोऽध्यायः ।। ८९ ।। ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 90

अगस्त्य उवाच ।। ।।

पार्वतीहृदयानंद पार्वतीश समुद्भवम् ।।

कथयेह यदुद्दिष्टं भवता प्रागघापहम् ।। १ ।।

।। स्कंद उवाच ।।

शृण्वगस्ते यदा मेना हिमाचलपतिव्रता ।।

गिरींद्रजां सुतामाह पुत्रि तेस्य महेशितुः ।। २ ।।

किं स्थानं वसतिर्वा का को बंधुर्वेत्सि किंचन ।।

प्रायो गृहं न जामातुरस्य कोपि च कुत्रचित् ।। ३ ।।

निशम्येति वचो मातुरतिह्रीणा गिरींद्रजा ।।

आसाद्यावसरं शंभुं नत्वा गौरी व्यजिज्ञपत् ।। ४ ।।

मया श्वश्रूगृहं कांत गम्यमद्य विनिश्चितम् ।।

नाथात्र नैव वस्तव्यं नय मां स्वं निकेतनम् ।। ५ ।।

गिरींद्रजागिरं श्रुत्वा गिरीश इति तत्त्ववित् ।।

हित्वा हिमगिरिं प्राप्तो निजमानंदकाननम् ।। ६।।

प्राप्यानंदवनं देवी परमानंदकारणम्।।

विस्मृत्य पितृसंवासं जाता चानंदरूपिणी ।। ७ ।।

अथ विज्ञापयांचक्रे गौरी गिरिशमेकदा ।।

अच्छिन्नानंदसंदोहः कुतः क्षेत्रेऽत्र तद्वद ।। ८ ।।

इति गौरीरितं श्रुत्वा प्रत्युवाच पिनाकधृक् ।।

पंचक्रोशपरीमाणे क्षेत्रेस्मिन्मुक्तिसद्मनि ।। ९ ।।

तिलांतरं न देव्यस्ति विना लिंगं हि कुत्रचित् ।।

एकैकं परितो लिंगं क्रोशं क्रोशं च यावनिः ।। 4.2.90.१० ।।

अन्यत्रापि हि सा देवि भवेदानंदकारणम् ।।

अत्रानंदवने देवि परमानंदजन्मनि ।। ११ ।।

परमानंदरूपाणि संति लिंगान्यनेकशः ।।

चतुर्दशसु लोकेषु कृतिनो ये वसंति हि ।। १२ ।।

तैः स्वनाम्नेह लिंगानि कृत्वाऽऽपि कृतकृत्यता ।।

अत्र येन महादेवि लिंगं संस्थापितं मम ।। १३ ।।

वेत्ति तच्छ्रेयसः संख्यां शेषोपि न विशेषवित् ।। १४ ।।

परिच्छेदव्यतीतस्यानंदस्य परकारणम् ।।

अतस्त्विदं परं क्षेत्रं लिर्गैर्भूयोभिरद्रिजे ।। १५ ।।

निशम्येति महादेवी पुनः पादौ प्रणम्य च ।।

देह्यनुज्ञां महादेव लिंगसंस्थापनाय मे।।१६।।

पत्युराज्ञां समासाद्य यच्छेच्छ्रेयः पतिव्रता ।।

न तस्याः श्रेयसो हानिः संवर्तेपि कदाचन ।। १७ ।।

इति प्रसाद्य देवेशमाज्ञां प्राप्य महेशितुः ।।

लिंगं संस्थापितं गौर्या महादेव समीपतः ।। १८ ।।

तल्लिंगदर्शनात्पुंसां ब्रह्महत्यादिपातकम् ।।

विलीयेत न संदेहो देहबंधोपि नो पुनः ।। १९ ।।

तत्र लिंगे वरो दत्तो देवदेवेन यः पुनः ।।

निशामय मुने तं तु भक्तानां हितकाम्यया ।। 4.2.90.२० ।।

लिंगं यः पार्वतीशाख्यं काश्यां संपूजयिष्यति ।।

तद्देहावसितिं प्राप्य काशीलिंगं भविष्यति ।। २१ ।।

काशीलिंगत्वमासाद्य मामेवानुप्रवेक्ष्यति ।।

चैत्रशुक्लतृतीयायां पार्वतीशसमर्चनात् ।। २२ ।।

इह सौभाग्यमाप्नोति परत्र च शुभां गतिम् ।।

पार्वतीश्वरमाराध्य योषिद्वा पुरुषोपि वा ।। २३ ।।

न गर्भमाविशेद्भूयो भवेत्सौभाग्यभाजनम् ।।

पार्वतीशस्य लिंगस्य नामापि परिगृह्णतः ।।२४।।

अपि जन्मसहस्रस्य पापं क्षयति तत्क्षणात् ।।

पार्वतीशस्य माहात्म्यं यः श्रोष्यति नरोत्तमः ।।

ऐहिकामुष्मिकान्कामान्स प्राप्स्यति महामतिः ।। २५ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे पार्वतीशवर्णनं नाम नवतितमोऽध्यायः ।। ९० ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 91

।। स्कंद उवाच ।। ।।

पार्वतीशस्य महिमा कथितस्ते मयानघ ।।

मुने निशामयेदानीं गंगेश्वरसमुद्भवम् ।। १ ।।

यं श्रुत्वा यत्रकुत्रापि गंगास्नानफलं लभेत् ।।

चक्रपुष्करिणीतीर्थं यदा गंगा समागता ।। ।। २ ।।

तेन दैलीपिना सार्धमस्मिन्नानंदकानने ।।

क्षेत्रप्रभावमतुलं ज्ञात्वा शंभुपरिग्रहात् ।। ३ ।।

स्मृत्वा लिंगप्रतिष्ठायाः काश्यां लोकोत्तरं फलम् ।।

गंगया स्थापितं लिंगं विश्वेशात्पूर्वतः शुभम्।। ४।।

गंगेश्वरस्य लिंगस्य काश्यां दृष्टिः सुदुर्लभा ।।

तिथौ दशहरायां च यो गंगेशं समर्चयेत् ।। ५ ।।

तस्य जन्मसहस्रस्य पापं संक्षीयते क्षणात् ।।

कलौ गंगेश्वरं लिंगं गुप्तप्रायं भविष्यति ।। ६ ।।

तस्य संदर्शनं पुंसां जायते पुण्यहेतवे ।।

दृष्टं गंगेश्वरं लिंगं येन काश्यां सुदुर्लभम् ।। ७।।

प्रत्यक्षरूपिणी गंगा तेन दृष्टा न संशयः ।।

कलौ सुदुर्लभा गंगा सर्वकल्मषहारिणी ।। ८ ।।

भविष्यति न संदेहो मित्रावरुणनंदन।।

ततोपि तिष्ये संप्राप्ते काश्यत्यंतं सुदुर्लभा ।। ९ ।।

ततोपि दुर्लभं काश्यां लिंगं गंगेश्वराभिधम् ।।

यस्य संदर्शनं पुंसां भवेत्पापक्षयाय वै ।। 4.2.91.१० ।।

श्रुत्वा गंगेश माहात्म्यं न नरो निरयी भवेत् ।।

लभेच्च पुण्यसंभारं चिंतितं चाधिगच्छति ।। ११ ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुथें काशीखंड उत्तरार्धे गंगेश्वरमहिमाख्यानं नामैकनवतितमोऽध्यायः ।। ९१ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 92

।। स्कंद उवाच ।। ।।

नर्मदेशस्य माहात्म्यं कथयामि मुने तव ।।

यस्य स्मरणमात्रेण महापातकसंक्षयः ।। १ ।।

अस्य वाराहकल्पस्य प्रवेशे मुनिपुंगवैः ।।

आपृच्छि का सरिच्छ्रेष्ठा वद तां त्वं मृकंडज ।।२।।

मार्कंडेय उवाच ।। ।।

शृणुध्वं मुनयः सर्वे संति नद्यः परःशतम् ।।

सर्वा अप्यघहारिण्यः सर्वा अपि वृषप्रदाः ।।३।।

सर्वाभ्योपि नदीभ्यश्च श्रेष्ठाः सर्वाः समुद्रगाः।।

ततोपि हि महाश्रेष्ठाः सरित्सु सरिदुत्तमाः ।। ४ ।।

गंगा च यमुनाचाथ नर्मदा च सरस्वती ।।

चतुष्टयमिदं पुण्यं धुनीषु मुनिपुंगवाः ।। ५ ।।

ऋग्वेदमूर्तिर्गंगा स्याद्यमुना च यजुर्ध्रुवम् ।।

नर्मदा साममूर्तिस्तु स्यादथर्वा सरस्वती ।। ६ ।।

गंगा सर्वसरिद्योनिः समुद्रस्यापि पूरणी ।।

गंगाया न लभेत्साम्यं काचिदत्र सरिद्वरा ।। ।। ७ ।।

किंतु पूर्वं तपस्तप्त्वा रेवया बह्वनेहसम् ।।

वरदानोन्मुखो धाता प्रार्थितश्चेति सत्तम ।। ८ ।।

गंगा साम्यं विधे देहि प्रसन्नोसि यदि प्रभो ।।

ब्रह्मणाथ ततः प्रोक्ता नर्मदा स्मितपूर्वकम् ।।९।।

यदि त्र्यक्षसमत्वं तु लभ्यतेऽन्येन केनचित् ।।

तदा गंगासमत्वं च लभ्यते सरितान्यया ।।4.2.92.१०।।

पुरुषोत्तम तुल्यः स्यात्पुरुषोन्यो यदि क्वचित ।।

स्रोतस्विनी तदा साम्यं लभते गंगया परा ।। ११ ।।

यदि गौरी समा नारी क्वचिदन्या भवेदिह ।।

अन्या धुनीह स्वर्धुन्यास्तदा साम्यमुपैष्यति ।। १२ ।।

यदि काशीपुरी तुल्या भवेदस्या क्वचित्पुरी ।।

तदा स्वर्गतरंगिण्याः साम्यमन्या नदी लभेत् ।। १३ ।।

निशम्येति विधेर्वाक्यं नर्मदा सरिदुत्तमा ।।

धातुर्वरं परित्यज्य प्राप्ता वाराणसीं पुरीम् ।। १४ ।।

सर्वेभ्योपि हि पुण्येभ्यः काश्यां लिंगप्रतिष्ठितेः ।।

अपरा न समुद्दिष्टा कैश्चिच्छ्रेयस्करी क्रिया ।। १५ ।।

अथ सा नर्मदा पुण्या विधिपूर्वां प्रतिष्ठितिम् ।।

व्यधात्पिलिपिलातीर्थे त्रिविषिष्टपसमीपतः ।। १६ ।।

ततः शंभुः प्रसन्नोभूऽत्तस्यै नद्यै शुभात्मने ।।

वरं वृणीष्व सुभगे यत्तुभ्यं रोचतेऽनघे ।। १७ ।।

सरिद्वरा निशम्येति रेवा प्राह महेश्वरम् ।।

किं वरेणेह देवेश भृशं तुच्छेन धूर्जटे ।। ।। १८ ।।

निर्द्वंद्वा त्वत्पदद्वंद्वे भक्तिरस्तु महेश्वर ।।

श्रुत्वेति नितरां तुष्टो रेवागिरमनुत्तमाम् ।। १९ ।।

प्रोवाच च सरिच्छेष्ठे त्वयोक्तं यत्तथास्तु तत् ।।

गृहाण पुण्यनिलये वितरामि वरांतरम् ।। 4.2.92.२० ।।

यावंत्यो दृषदः संति तव रोधसि नर्मदे ।।

तावंत्यो लिंगरूपिण्यो भविष्यंति वरान्मम ।। २१ ।।

अन्यं च ते वरं दद्या तमप्याकर्णयोत्तमम् ।।

दुष्प्रापं यज्ञतपसां राशिभिः परमार्थतः ।। २२ ।।

सद्यः पापहरा गंगा सप्ताहेन कलिंदजा ।।

त्र्यहात्सरस्वती रेवे त्वं तु दर्शनमात्रतः ।। ।। २३ ।।

अपरं च वरं दद्यां नर्मदे दर्शनाघहे ।।

भवत्या स्थापितं लिंगं नर्मदेश्वरसंजकम् ।। २४ ।।

यत्तल्लिंगं महापुण्यं मुक्तिं दास्यति शाश्वतीम ।।

अस्य लिंगस्य ये भक्तास्तान्दृष्ट्वा सूर्यनंदनः ।। २५ ।।

प्रणमिष्यंति यत्नेन महाश्रेयोभिवृद्धये ।।

संति लिंगान्यनेकानि काश्यां देवि पदेपदे ।। २६ ।।

परं हि नर्मदेशस्य महिमा कोपि चाद्भुतः ।।

इत्युक्त्वा देवदेवेशस्तस्मिँल्लिंगे लयं ययौ ।। २७ ।।

नर्मदापि प्रहृष्टासीत्पावित्र्यं प्राप्य चाद्भुतम् ।।

स्वदेशं च परिप्राप्ता दृष्टमात्राघहारिणी ।। २८ ।।

वाक्यं मृकंडजमुनेस्तेपि श्रुत्वा मुनीश्वराः ।।

प्रहृष्टचेतसो जाताश्चक्रुः स्वं स्वं ततो हितम् ।। २९ ।।

।। स्कंद उवाच ।। ।।

नर्मदेशस्य माहात्म्यं श्रुत्वा भक्तियुतो नरः ।।

पापकंचुकमुत्सृज्य प्राप्स्यति ज्ञानमुत्तमम् ।। 4.2.92.३० ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे नर्मदेश्वराख्यानं नाम द्विनवतितमोऽध्यायः ।। ९२ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 93

।। अगस्त्य उवाच ।। ।।

नर्मदेशस्य माहात्म्यं श्रुतं कल्मषनाशनम् ।।

इदानीं कथय स्कंद सतीश्वर समुद्भवम् ।। १ ।।

स्कंद उवाच ।। ।।

मित्रावरुणसंभूत कथयामि कथां शृणु ।। यथा सतीश्वरं लिंगं काश्यामाविर्बभूव ह ।। २ ।।

पुरा तताप सुमहत्तपः शतधृतिर्मुने ।।

तपसा तेन देवेशः संतुष्टो वरदोऽभवत् ।। ३ ।।

उवाच चापि ब्रह्माणं नितरां ब्राह्मणप्रियः ।।

सर्वज्ञनाथो लोकात्मा वरं वरय लोककृत् ।। ४ ।।

।। ब्रह्मोवाच ।। ।।

यदि प्रसन्नो देवेश वरं दास्यसि वांछितम् ।।

तदा त्वं मे भव सुतो देवी दक्षसुताऽस्तु च ।। ५ ।।

इति श्रुत्वा महादेवः सर्वदो ब्रह्मणो वरम् ।।

स्मित्वा देवीमुखं वीक्ष्य प्रोवाच चतुराननम् ।। ६ ।।

ब्रह्मंस्त्वद्वांछितं भूयात्किमदेयं पितामह ।।

इत्युक्त्वा ब्रह्मणो भालादाविरासीच्छशांकभृत् ।। ७ ।।

रुदन्स उत्तानशयो ब्रह्मणो मुखमैक्षत ।।

ततो ब्रह्मापि तं बालं रुदंतं प्रविलोक्य च ।। ८ ।।

किं मां जनकमाप्यापि त्वं रोदिषि मुहुर्मुहुः ।।

श्रुत्वेति पृथुकः प्राह यथोक्तं परमेष्ठिना ।। ९ ।।

नाम्ने रोदिमि मे स्रष्टुर्नाम देहि पितामह ।।

रोदनाद्रुद्र इत्याख्यां समाया डिंभको लभत् ।।4.2.93.१०।।

।। अगस्त्य उवाच ।। ।।

अर्भकत्वं गतोपीशः किं रुरोद षडानन ।।

यदि वेत्सि तदाचक्ष्व महत्कौतूहलं हि मे ।। ११ ।।

।। स्कंद उवाच ।। ।।

सर्वज्ञस्य कुमारत्वात्किंचित्किंचिदवैम्यहम् ।।

रोदने कारणं वच्मि शृणु कुंभसमुद्भव ।। १२ ।।

मनसीति विचारोभूद्देवस्य परमात्मनः ।।

बुद्धिवैभवमस्याहो वीक्षितुं परमेष्ठिनः ।।१३।।

सत्यलोकाधिनाथस्य चतुरास्यस्य वेधसः ।।

इत्यानंदात्समुद्भूतो वाष्पपूरो महेशितुः ।।१४।।

।। अगस्त्य उवाच ।। ।।

किं बुद्धिवैभवं धातुः शंभुना मनसीक्षितम् ।

येनानंदाश्रु संभारो बाल्येप्यभवदीशितुः ।।१५।।

एतत्कथय मे प्राज्ञ सर्वज्ञानंदवर्धन ।।

श्रुत्वागस्त्युदितं वाक्यं तारकारिरुवाच ह ।।१६।।

देवे न मनसि ध्यातमिति कुंभजने मुने ।।

विनापत्यं जनेतारं क उद्धर्तुमिह प्रभुः ।। १७ ।।

एको मनोरथश्चायं द्वितीयोयं सुनिश्चितम् ।।

अपत्यत्वं गते चास्मिन्स्मर्तुरुत्पत्तिहारिणि ।। १८ ।।

क्षणंक्षणं समालोक्यमंगस्पर्शे क्षणंक्षणम् ।।

एकशय्यासनाहारं लप्स्यतेऽनेन क्षणेक्षणे !। १९ ।।

योयं न गोचरः क्वापि वाणीमनसयोरपि ।।

स मेऽपत्यत्वमासाद्य किं न दास्यति चिंतितम् ।। 4.2.93.२० ।।

योऽमुं सकृत्स्पृशेज्जंतुर्योमुं पश्येत्सकृन्मुदा ।

न स भूयोभिजायेत भवेच्चानंदमेदुरः ।। २१ ।।

गृहक्रीडनकं मे सौ यदि भूयात्कथंचन ।।

तदापरस्य सौख्यस्य निधानं स्यामसंशयम् ।। २२ ।।

विधेः समीहितं चेति नूनं ज्ञात्वा स सर्ववित् ।।

आनंदवाष्पकलितं चक्षुस्त्रयमदीधरत् ।। २३ ।।

श्रुत्वैत्यगस्तिः स्कंदस्य भाषितं पर्यमूमुदत् ।।

ननाम चांघ्री प्रोवाच जयसर्वज्ञनंदन ।। २४ ।।

विधेरपि मनोज्ञातं शंभोरपि मनोगतम् । ।

सम्यक्चित्तं त्वया ज्ञातं नमस्तुभ्यं चिदात्मने ।। २५ ।।

स्कंदोपि नितरां तुष्टःश्रोतुरानंददर्शनात् ।।

धन्योस्यगस्त्य धन्योसि श्रोतुं जानासि तत्त्वतः ।। २६ ।।

न मे श्रमो वृथा जातो ब्रुवतस्ते पुरः कथाम् ।।

इत्यगस्तिं समाभाष्य पुनः प्राह षडाननः ।। २७ । ।

देवे रुद्रत्वमापन्ने देवी दक्षसुताभवत् ।।

सापि तप्त्वा तपस्तीव्रं सती काश्यां वरार्थिनी ।। २८ ।।

ददर्श लिंगरूपेण प्रादुर्भूतं हरं पुरः ।।

अलं तप्त्वा महादेवि प्रोक्तवंतमिति स्फुटम् ।। २१ ।।

इदं सतीश्वरं लिंगं तव नाम्ना भविष्यति .।।

यथा मनोरथस्तेऽत्र फलितो दक्षकन्यके ।। 4.2.93.३० ।।

तथैतल्लिंगमाराध्यान्यस्यापि हि फलिष्यति ।।

कुमारी प्राप्स्यति पतिं मनसोपि समुच्छ्रितम् ।। ३१ ।।

एतल्लिंगं समाराध्य कुमारोपि वरांगनाम् ।।

यस्य यस्य हि यः कामस्तस्य तस्य हि स ध्रुवम् ।। ३२ ।।

भविष्यति न संदेहः सतीश्वरसमर्चगात् ।।

सतीश्वरं समभ्यर्च्य यो यो यं यं समीहते ।। ३३ ।।

तस्य तस्य स स क्षिप्रं भविष्यति मनोरथः ।। ३४ ।।

इतोष्टमे च दिवसे त्वज्जनेता प्रजापतिः ।।

मह्यं दास्यति कन्यां त्वां सफलस्ते मनोरथः ।।

इत्युक्त्वा देवदेवेशस्तत्रैवांतर्हितोभवत् ।। ३५ । ।

सापि स्वभवनं याता सती दाक्षायणी मुदा । ।

पितापि तस्मै प्रादात्तां रुद्राय दिवसेष्टमे ।। ३६ ।।

।। स्कंद उवाव ।। ।।

इत्थं सतीश्वरं लिंगं काश्यां प्रादुरभून्मुने ।।

स्मरणादपि लिंगं च दद्यात्सत्त्वगुणं परम् ।। ३७ ।।

रत्नेशात्पूर्वतो भागे दृष्ट्वा लिंगं सतीश्वरम् । ।

मुच्यते पातकैः सद्यः क्रमाज्ज्ञानं च विंदति ।। ३८ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे सतीश्वरप्रादुर्भावो नाम त्रिनवतितमोऽध्यायः ।। ९३ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 94

।। स्कंद उवाच । । ।।

अन्यान्यपि च लिंगानि कथयामि महामुने ।।

अमृतेशमुखादीनि यन्नामाप्यमृतप्रदम् ।। १ ।।

पुरा सनारु नामासीन्मुनिरत्र गृहाश्रमी ।।

ब्रह्मयज्ञरतो नित्यं नित्यं चातिथिदैवतः ।। २ ।।

लिंगपूजारतो नित्यं नित्यं तीर्थाप्रतिग्रही ।।

तस्यर्षेरभवत्पुत्रः सनारोरुपजंघनिः ।।३।।

स कदाचिद्गतोरण्यं तत्र दष्टः पृदाकुना ।।

अथ तत्स वयोभिश्च स आनीतः स्वमाश्रमम् ।। ४ ।।

सनारुणा समुच्छ्वस्य नीतः स उपजंघनिः ।।

महाश्मशानभूभागं स्वर्गद्वारसमीपतः ।। ५ ।।

तत्रासीच्छ्रीफलाकारं लिंगमेकं सुगुप्तवत् ।।

निधाय तत्र तं यावच्छवं संचिंतयेत्सुधीः ।। ६ ।।

सर्पदष्टस्य संस्कारः कथं भवति चेति वै ।।

तावत्स जीवन्नुत्तस्थौ सुप्तवच्चौपजंघनिः ।। ७ ।।

अथ तं वीक्ष्य स मुनिः सनारुरुपजंघनिम् ।।

पुनः प्राणितसंपन्नं विस्मयं प्राप्तवान्परम् ।। ८ ।।

प्राणितव्येऽत्र को हेतुर्मच्छिशोरुपजंघनेः ।।

क्षेत्राद्बहिरहिर्यं हि दष्टा नैषीत्परासु ताम् ।। ९ ।।

इति यावत्स संधत्ते धियं तज्जीवितैकिकाम्।।

तावत्पिपीलिका त्वेका मृतं क्वापि पिपीलिकम् ।। 4.2.94.१० ।।

आनिनाय च तत्रैव सोप्य नन्निर्गतस्ततः ।।

अथ विज्ञाय स मुनिस्तत्त्वं जीवितसूचितम्।। ११ ।।

मृदु हस्ततलेनैव यावत्खनति वै मुनिः ।।

तावच्छ्रीफलमात्रं हि लिंगं तेन समीक्षितम् ।। १२ ।।

सनारुणाथ तल्लिंगं तेन तत्र समर्चितम् ।।

चिरकालीन लिंगस्य कृतं नामापि सान्वयम् ।। १३ ।।

अमृतेश्वरनामेदं लिंगमानंदकानने ।।

एतल्लिंगस्य संस्पर्शादमृतत्वं लभेद्ध्रुवम् ।। १४ ।।

अमृतेशं समभ्यर्च्य जीवत्पुत्रः स वै मुनिः।।

स्वास्पदं समनुप्राप्तो दृष्टआश्चर्यवज्जनैः ।। १५ ।।

तदाप्रभृति तल्लिंगममृतेशं मुनीश्वर ।।

काश्यां सिद्धिप्रदं नृणां कलौ गुप्तं भवेत्पुनः ।। १६ ।।

अमृतेश्वर संस्पर्शान्मृता जीवंति तत्क्षणात् ।।

अमृतत्वं भजंतेऽत्र जीवंतः स्पर्शमात्रतः ।। ३७ ।।

अमृतेश समं लिंगं नास्ति क्वापि महीतले।।

तल्लिंगं शंभुना तिष्ये कृतं गुप्तं प्रयत्नतः ।। १८ ।।

अमृतेश्वर नामापि ये काश्यां परिगृह्णते ।।

न तेषामुपसर्गोत्थं भयं क्वापि भविष्यति।।१९।।

मुनेऽन्यच्च महालिंगं करुणेश्वरसंज्ञितम्।।

मोक्षद्वार समीपे तु मोक्षद्वारेश्वराग्रतः ।।4.2.94.२०।।

दर्शनात्तस्य लिंगस्य महाकारुणिकस्य वै ।।

न क्षेत्रान्निर्गमो जातु बहिर्भवति कस्यचित् ।। २१ ।।

स्नातव्यं मणिकर्ण्यां च द्रष्टव्यः करुणेश्वरः ।।

क्षेत्रोपसर्गजा भीतिर्हातव्या परया मुदा ।। २२ ।।

सोमवासरमासाद्य एकभक्तव्रतं चरेत् ।।

यष्टव्यः करुणापुष्पैर्व्रतिना करुणेश्वरः ।। २३ ।।

तेन व्रतेन संतुष्टः करुणेशः कदाचन ।।

न तं क्षेत्राद्बहिः कुर्यात्तस्मात्कार्यं व्रतं त्विदम् ।। २४ ।।

तत्पत्रैस्तत्फलैर्वापि संपूज्यः करुणेश्वरः ।।

यो न जानाति तल्लिंगं सम्यग्ज्ञानविवर्जितः ।। २५ ।।

तेनार्च्यः करुणावृक्षो देवेशः प्रीयतामिति ।।

यो वर्षं सोमवारस्य व्रतं कुर्यादिति द्विजः ।। २६ ।।

प्रसन्नः करुणेशोत्र तस्य दास्यति वांछितम् ।।

द्रष्टव्यः करुणेशोत्र काश्यां यत्नेन मानवैः ।। २७ ।।

इति ते करुणेशस्य महिमोक्तो महत्तरः ।।

यं श्रुत्वा नोपसर्गोत्थं भयं काश्यां भविष्यति ।। २८ ।।

मोक्षद्वारेश्वरं चैव स्वर्गद्वोरेश्वरं तथा ।।

उभौ काश्यां नरो दृष्ट्वा स्वर्गं मोक्षं च विंदति ।। २९ ।।

ज्योतीरूपेश्वरं लिंगं काश्यामन्यत्प्रकाशते ।।

तस्य संपूजनाद्भक्ता ज्योतीरूपा भवंति हि ।। 4.2.94.३० ।।

चक्रपुष्करिणी तीरे ज्योतीरूपेश्वरं परम् ।।

समभ्यर्च्याप्नुयान्मर्त्यो ज्योतीरूपं न संशयः ।। ३१ ।।

यदा भागीरथी गंगा तत्र प्राप्ता सरिद्वरा ।।

तदारभ्यार्चयेन्नित्यं तल्लिंगं स्वर्धुनी मुदा ।। ३२ ।।

पुरा विष्णौ तपत्यत्र तल्लिंगं स्वयमेव हि ।।

तत्राविरासीत्तेजस्वि तेन क्षेत्रमिदं शुभम् ।। ३३ ।।

चक्रपुष्करिणी तीरे ज्योतीरूपेश्वरं तदा ।।

दूरस्थोपीह यो ध्यायेत्तस्य सिद्धिरदूरतः।।३४।।

एतेष्वपि च लिंगेषु चतुर्दशसु सत्तम।।

लिंगाष्टकं महावीर्यं कर्मबीजदवानलम् ।। ३५ ।।

ओंकारादीनि लिंगानि यान्युक्तानि चतुर्दश ।।

तथा दक्षेश्वरादीनि लिंगान्यष्टौ महांति च ।।३६।।

शैलैशादीनि लिंगानि तथा यानि चतुर्दश ।।

पुनः षट्त्रिंशदेतानि क्षेत्रसंसिद्धि हेतवे ।। ३७ ।।

षदत्रिंशत्तत्त्वरूपोसौ लिगेष्वेषु सदाशिवः ।।

अस्मिन्क्षेत्रे वसन्नित्यं तारकं ज्ञानमादिशेत् ।। ३८ ।।

क्षेत्रस्य तत्त्वमेतद्धि षट्त्रिंशल्लिंगरूप्यहो ।।

एतेषां भजनात्पुंसां न भवेद्दुर्गतिः क्वचित् ।।३९।।

मुने रहस्यभूतानि र्लिगान्येतानि निश्चितम्।।

एतल्लिंगप्रभावाच्च मुक्तिरत्र सुनिश्चिता ।। 4.2.94.४० ।।

मोक्षक्षेत्रमिंदं काशी लिंगैरेतैर्मेहामते ।।

एतान्यन्यानि सिद्धानि संभवंति युगेयुगे ।। ४१ ।।

आनंदकाननं शंभोः क्षेत्रमेतदनादिमत्।।

अत्र संस्थितिमापन्ना मुक्ता एव न संशयः ।। ४२ ।।

योगसिद्धिरिहास्त्येव तपःसिद्धिरिहैव हि ।।

व्रतसिद्धिर्मंत्रसिद्धिस्तीर्थसिद्धिः सुनिश्चितम् ।। ४३ ।।

सिद्ध्यष्टकं तु यत्प्रोक्तमणिमादि महत्तरम् ।।

तज्जन्मभूमिरेषैव शंभोरानंदवाटिका ।।४४।।

निर्वाणलक्ष्म्याः सदनमेतदानंदकाननम् ।।

एतत्प्राप्य न मोक्तव्यं पुण्यैः संसारभीरुणा ।। ४५ ।।

अयमेव महालाभ इदमेव परं तपः ।।

एतदेव महत्पुण्यं लब्धा वाराणसीह यत् ।। ।। ४६ ।।

अवश्यं जन्मिनो मृत्युर्यत्र कुत्र भविष्यति ।।

कर्मानुसारिणी लभ्या गतिः पश्चाच्छुभाशुभा ।। ४७ ।।

मृत्युं विज्ञाय नियतं गतिकर्मानुसारिणीम् ।।

अवश्यं काशिका सेव्या सर्वकर्मनिवारिणी ।। ४८ ।।

मानुष्यं प्राप्य यं मूढा निमेषमितजीवितम् ।।

न सेवंते पुरीं काशीं ते मुष्टा मंदबुद्धयः ।। ४९ ।।

दुर्लभं जन्म मानुष्यं दुर्लभा काशिकापुरी ।।

उभयोः संगमासाद्य मुक्ता एव न संशयः ।। 4.2.94.५० ।।

क्व च तादृक्तपांसीह क्व तादृग्योग उत्तमः ।।

यादृग्भिः प्राप्यते मुक्तिः काश्यां मोक्षोत्तमोत्तमः ।। ५१ ।।

सत्यं सत्यं पुनः सत्यं सत्यपूर्वं पुनःपुनः ।।

न काशी सदृशी मुक्त्यै भूमिरन्या महीतले।। ५२ ।।

विश्वेशो मुक्तिदो नित्यं मुक्त्यै चोत्तरवाहिनी ।।

आनंदकानने मुक्तिर्मुक्तिर्नान्यत्र कुत्रचित् ।। ५३ ।।

एक एव हि विश्वेशो मुक्तिदो नान्य एव हि ।।

स एव काशीं प्रापय्य मुक्तिं यच्छति नान्यतः ।। ५४ ।।

सायुज्यमुक्तिरत्रैव सान्निध्यादिरथान्यतः ।।

सुलभा सापि नो नूनं काश्यां मोक्षोस्ति हेलया ।।५५।।

।। स्कंद उवाच ।। ।।

शृण्वगस्त्य महाभाग भविष्यं कथयाम्यहम् ।।

कृष्णद्वैपायनो व्यासोऽकथयद्यन्महद्वचः ।।

निश्चिकेतुमनाः पश्चाद्यत्करिष्यति तच्छृणु ।।५६।। ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धेऽमृतेशादिलिंगप्रादुर्भावोनाम चतुर्नवतितमोऽध्यायः ।। ९४ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 95

।। व्यास उवाच [। ।।

शृणु सूत महाबुद्धे यथा स्कंदेन भाषितम् ।।

भविष्यं मम तस्याग्रे कुंभयोने महामते ।। १ ।।

।। स्कंद उवाच ।। ।।

निशामय महाभाग त्वं मैत्रावरुणे मुने ।।

पाराशर्यो मुनिवरो यथा मोहमुपैष्यति ।। २ ।।

व्यस्य वेदान्महाबुद्धिर्नाना शाखा प्रभेदतः ।।

अष्टादशपुराणानि सूतादीन्परिपाठ्य च ।। ३ ।।

श्रुतिस्मृतिपुराणानां रहस्यं यस्त्वचीकरत् ।।

महाभारतसंज्ञं च सर्वलोकमनोहरम् ।।४।।

सर्वपापप्रशमनं सर्वशांतिकरं परम् ।।

यस्य श्रवणमात्रेण ब्रह्महत्या विनश्यति ।।५।।

एकदा स मुनिः श्रीमान्पर्यटन्पृथिवीतले ।।

संप्राप्तो नैमिषारण्यं यत्र संति मुनीश्वराः ।। ६ ।।

अष्टाशीतिसहस्राणि शौनकाद्यास्तपोधनाः ।।.

त्रिपुंड्रितमहाभाला लसद्रुद्राक्षमालिनः ।। ७ ।।

विभूतिधारिणो भक्त्या रुद्रसूक्तजपप्रियान् ।।

लिंगाराधनसंसक्ताञ्छिवनामकृतादरान् ।। ८ ।।

एक एव हि विश्वेशो मुक्तिदो नान्य एव हि ।।

इति ब्रुवाणान्सततं परिनिश्चितमानसान् ।। ९ ।।

विलोक्य स मुनिर्व्यासस्तासर्वान्गिरिशात्मनः ।।

उत्क्षिप्य तर्जनीमुच्चैः प्रोवाचेदं वचः पुनः ।। 4.2.95.१० ।।

परिनिर्मथ्य वाग्जालं सुनिश्चित्यासकृद्बहु ।।

इदमेकं परिज्ञातं सेव्यः सर्वेश्वरो हरिः ।। ११ ।।

वेदे रामायणे चैव पुराणेषु च भारते ।।

आदिमध्यावसानेषु हरिरेकोऽत्र नापरः ।। १२ ।।

सत्यं सत्यं त्रिसत्यं पुनः सत्यं न मृषा पुनः ।।

न वेदादपरं शास्त्रं न देवोच्युततः परः ।। १३ ।।

लक्ष्मीशः सर्वदो नान्यो लक्ष्मीशोप्यपवर्गदः ।।

एक एव हि लक्ष्मीशस्ततो ध्येयो न चापरः ।। १४ ।।

भुक्तेर्मुक्तेरिहान्यत्र नान्यो दाता जनार्दनात्।।

तस्माच्चतुर्भुजो नित्यं सेवनीयः सुखेप्सुभिः ।। १५ ।।

विहाय केशवादन्यं ये सेवंतेल्पमेधसः ।।

संसारचक्रे गहने ते विशंति पुनःपुनः ।। १६ ।।

एक एव हि सर्वेशो हृषीकेशः परात्परः ।।

तं सेवमानः सततं सेव्यस्त्रिजगतां भवेत्।।१७।।

एको धर्मप्रदो विष्णुस्त्वेको बह्वर्थदो हरिः ।।

एकः कामप्रदश्चक्री त्वेको मोक्षप्रदोच्युतः ।। १८ ।।

शार्ङ्गिणं ये परित्यज्य देवमन्यमुपासते ।।

ते सद्भिश्च बहिष्कार्या वेदहीना यथा द्विजाः ।। १९ ।।

श्रुत्वेति वाक्यं व्यासस्य नैमिषारण्यवासिनः।।

प्रवेपमानहृदयाः परिप्रोचुरिदं वचः ।। 4.2.95.२० ।।

।। ऋषय ऊचुः ।। ।।

पाराशर्य मुने मान्यस्त्वमस्माकं महामते ।।

यतो वेदास्त्वया व्यस्ताः पुराणान्यपि वेत्ति यत् ।। २१ ।।

यतश्च कर्ता त्वमसि महतो भारतस्य वै ।।

धर्मार्थकाममोक्षाणां विनिश्चयकृतो ध्रुवम् ।। २२ ।।

तत्त्वज्ञः कोपरश्चात्र त्वत्तः सत्यवतीसुत।।

भवता यत्प्रतिज्ञातं निश्चित्योक्षिप्यतर्जनीम् ।। २३ ।।

अस्मिन्माणवकास्तत्र परिश्रद्दधते नहि ।।

प्रतिज्ञा तस्य वचसस्तव श्रद्धा भवेत्तदा ।।२४।।

यदाऽऽनंदवने शंभोः प्रतिजानासि वै वचः ।।२५।।

गच्छ वाराणसीं व्यास यत्र विश्वेश्वरः स्वयम् ।।

न तत्र युगधर्मोस्ति न च लग्ना वसुंधरा ।।२६।।

इति श्रुत्वा मुनिर्व्यासः किंचित्कुपितवद्धृदि ।।

जगाम तूर्णं सहितः स्वशिष्यैरयुतोन्मितैः ।। २७ ।।

प्राप्य वाराणसीं व्यासः स्नात्वा पंचनदे ह्रदे ।।

श्रीमन्माधवमभ्यर्च्य ययौ पादोदकं ततः ।। २८ ।।

तत्र स्नानादिकं कृत्वा दृष्ट्वा चैवादिकेशवम् ।।

पंचरात्रं ततः कृत्वा वैष्णवैरभिनंदितः ।। २९ ।।

अग्रतः पृष्ठतः शंखैर्वाद्यमानैः प्रमोदितः ।।

जयविष्णो हृषीकेश गोविंद मधुसूदन ।। 4.2.95.३० ।।

अच्युतानंतवैकुंठ माधवोपेंद्रकेशव ।।

त्रिविक्रम गदापाणे शार्ङ्गपाणे जनार्दन ।। ३१ ।।

श्रीवत्सवक्षः श्रीकांत पीतांबर मुरांतक ।।

कैटभारे बलिध्वंसिन्कंसारे केशिसूदन ।। ।। ३२ ।।

नारायणासुररिपो कृष्ण शौरे चतुर्भुज ।।

देवकीहृदयानंद यशोदानंदवर्धन ।। ३३ ।।

पुंडरीकाक्ष दैत्यारे दामोदर बलप्रिय ।।

बलारातिस्तुत हरे वासुदेव वसुप्रद ।। ३४ ।।

विष्वक्चमूस्तार्क्ष्य रथवनमालिन्नरोत्तम ।।

अधोक्षज क्षमाधार पद्मनाभ जलेशय ।।३५।।

नृसिंह यज्ञवाराह गोपगोपालवल्लभ ।।

गोपीपते गुणातीत गरुडध्वज गोत्रभृत् ।। ३६ ।।

जय चाणूरमथन जय त्रैलोक्यरक्षण ।।

जयानाद्य जयानंद जय नीलोत्पलद्युते ।। ३७ ।।

कौस्तुभोद्भूषितोरस्क पूतनाधातुशोषण ।।

रक्षरक्ष जगद्रक्षामणे नरकहारक ।। ३८ ।।

सहस्रशीर्षपुरुष पुरुहूत सुखप्रद ।।

यद्भूतं यच्च भाव्यं वै तत्रैकः पुरुषो भवान् ।। ३९ ।।

इत्यादि नाममालाभिः संस्तुवन्वनमालिनम् ।।

स्वच्छंदलीलया गायन्नृत्यंश्च परया मुदा ।। 4.2.95.४० ।।

व्यासो विश्वेशभवनं समायातः सुहृष्टवत् ।।

ज्ञानवापी पुरोभागे महाभागवतैः सह ।। ४१ ।।

विराजमानसत्कंठस्तुलसीवरदामभिः ।।

स्वयं तालधरो जातः स्वयं जातः सुनर्तकः ।।४२।।

वेणुवादनतत्त्वज्ञः स्वयं श्रुतिधरोभवत् ।।

नृत्यं परिसमाप्येत्थं व्यासः सत्यवतीसुतः ।। ४३ ।।

पुनरूर्ध्वभुजं कृत्वा दक्षिणं शिष्यमध्यगः ।।

पुनः पपाठ तानेव श्लोकान्गायन्निवोच्चकैः ।। ४४ ।।

परिनिर्मथ्य वाग्जालं सुनिश्चित्यासकृद्बहु ।।

इदमेकं परिज्ञातं सेव्यः सर्वेश्वरो हरिः ।। ४५ ।।

इत्यादि श्लोकसंघातं स्वप्रतिज्ञा प्रबोधकम्।।

यावत्पठति स व्यासः सव्यमुत्क्षिप्य वै भुजम् ।। ४६ ।।

तस्तंभ तावत्तद्बाहुं स शैलादिः स्वलीलया ।।

वाक्स्तंभश्चापि तस्यासीन्मुनेर्व्यासस्य सन्मुनेः ।। ४७ ।।

ततो गुप्तं समागम्य विष्णुर्व्यासमभाषत ।।

अपराद्धं महच्चात्र भवता व्यास निश्चितम् ।। ४८ ।।

तवैतदपराधेन भीतिर्मेपि महत्तरा ।।

एक एव हि विश्वेशो द्वितीयो नास्ति कश्चन ।। ४९ ।।

तत्प्रसादादहं चक्री लक्ष्मीशस्तत्प्रभावतः ।।

त्रैलोक्यरक्षासामर्थ्यं दत्तं तेनैव शंभुना ।।4.2.95.५०।।

तद्भक्त्या परमैश्वर्यं मया लब्धं वरात्ततः ।।

इदानीं स्तुहि तं शंभुं यदि मे शुभमिच्छसि ।।५१।।

अन्यदापि न वै कार्या भवता शेमुषीदृशी ।।

पाराशर्य इति श्रुत्वा संज्ञया व्याजहार ह ।।५२।।

भुजस्तंभः कृतस्तेन नंदिना दृष्टिमात्रतः ।।

वाक्स्तंभस्तद्भयाज्जातः स्पृश मे कंठकंदलीम्।। ५३ ।।

यथा स्तोतुं भवानीश प्रभवाभि भवांतकम ।।

संस्पृश्य विष्णुस्तत्कंठं गुप्तमेव जगाम ह ।।५४।।

ततः सत्यवतीसूनुस्तथा स्तंभितदोर्लतः।।

प्रारब्धवान्महेशानं परितुष्टोतुमुदारधीः ।। ।। ५५ ।।

।। व्यास उवाच ।। ।।

एको रुद्रो न द्वितीयो यतस्तद्ब्रह्मैवैकं नेह नानास्ति किंचित् ।।

यद्यप्यन्यः कोपि वा कुत्रचिद्वा व्याचष्टां तद्यस्य शक्तिर्मदग्रे ।। २६ ।।

यः क्षीराब्धेर्मंदराघातजातो ज्वालामाली कालकूटोति भीमः ।।

तं सोढुं वा को परोऽभून्महेशाद्यत्कीलाभिः कृष्णतामाप विष्णुः ।। ५७ ।।

यद्वाणोभूच्छ्रीपतिर्यस्य यंता लोकेशो यत्स्यंदनं भूः समस्ता ।।

वाहा वेदा यस्य येनेषुपाताद्दग्धा ग्रामास्त्रैपुरास्तत्समः कः ।। ५८ ।।

यं कदर्पो वीक्षमाणः समानं देवैरन्यैर्भस्मजातः स्वयं हि ।।

पौष्पैर्बाणैः सर्वविश्वैकजेता को वा स्तुत्यः कामजेतुस्ततोन्यः ।। ५९ ।।

यं वै वेदो वेद नो नैव विष्णुर्नोवा वेधा नो मनो नैव वाणी ।।

तं देवेशं मादृशः कोल्पमेधा याथात्म्याद्वै वेत्त्यहो विश्वनाथम् ।। 4.2.95.६० ।।

यस्मिन्सर्वं यस्तु सर्वत्र सर्वो यो वै कर्ता योऽविता योऽपहर्ता ।।

नो यस्यादिर्यः समस्तादिरेको नो यस्यांतो योंतकृत्तं नतोस्मि ।। ६१ ।।

यस्यैकाख्या वाजिमेधेन तुल्या यस्या न त्या चैकयाल्पेंद्रलक्ष्मीः ।।

यस्य स्तुत्या लभ्यते सत्यलोको यस्यार्चातो मोक्षलक्ष्मीरदूरा ।।६२।।

नान्यं देवं वेद्म्यहं श्रीमहेशान्नान्यं देवं स्तौमि शंभोर्ऋतेऽहम् ।।

नान्यं देवं वा नमामि त्रिनेत्रात्सत्यं सत्यं सत्यमेतन्मृषा न ।। ६३ ।।

इत्थं यावत्स्तौति शंभुं महर्षिस्तावन्नंदी शांभवाद्दृक्प्रसादात् ।।

तद्दोः स्तंभं त्यक्तवांश्चाबभाषे स्मायंस्मायं ब्राह्मणेभ्यो नमो वः ।। ६४ ।।

नंदिकेश्वर उवाच ।।

इदं स्तवं महापुण्यं व्यास ते परिकीर्तितम् ।।

यः पठिष्यति मेधावी तस्य तुष्यति शंकरः ।।६५।।

व्यासाष्टकमिदं प्रातः पठितव्यं प्रयत्नतः ।।

दुःस्वप्नपापशमनं शिवसान्निध्यकारकम् ।। ६६ ।।

मातृहा पितृहा वापि गोघ्नो बालघ्र एव वा ।।

सुरापी स्वर्णहृद्वापि निष्पापो स्याः स्तुतेर्जपात् ।। ६७ ।।

स्कंद उवाच ।। ।।

पाराशर्यस्तदारभ्य शंभुभक्तिपरोभवत् ।।

लिंगं व्यासेश्वरं स्थाप्य घंटाकर्ण ह्रदाग्रतः ।।६८।।

विभूतिभूषणो नित्यं नित्यरुद्राक्षभूषणः ।।

रुद्रसूक्तपरो नित्यं नित्यं लिंगार्चकोभवत् ।। ६९ ।।

स कृत्वा क्षेत्रसंन्यासं त्यजेन्नाद्यापि काशिकाम् ।।

तत्त्वं क्षेत्रस्य विज्ञाय निर्वाणपददायिनः ।। 4.2.95.७० ।।

घंटाकर्णह्रदे स्नात्वा दृष्ट्वा व्यासेश्वरं नरः ।।

यत्रकुत्र मृतो वापि वाराणस्यां मृतो भवेत् ।। ७१ ।।

काश्यां व्यासेश्वरं लिंगं पूजयित्वा नरोत्तमः ।।

न ज्ञानाद्भ्रश्यते क्वापि पातकैर्नाभिभूयते ।। ७२ ।।

व्यासेश्वरस्य ये भक्ता न तेषां कलिकालतः ।।

न पापतो भयं क्वापि न च क्षेत्रोपसर्गतः ।। ७३ ।।

व्यासेश्वरः प्रयत्नेन द्रष्टव्यः काशिवासिभिः ।।

घंटाकर्णकृतस्नानैः क्षेत्रपातकभीरुभिः ।। ७४ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे व्यासभुजस्तंभोनाम पंचनवतितमोऽध्यायः ।। ९५ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 96

।। अगस्त्य उवाच ।। ।।

कृप्णद्वैपायनः स्कंद शंभुभक्तिपरो यदि ।।

यदि क्षेत्ररहस्यज्ञः क्षेत्रसंन्यासकृद्यदि ।। १ ।।

तथा दृष्टप्रभावश्चेत्तथा चेज्ज्ञानिनां वरः ।।

पुरीं वाराणसीं श्रेष्ठां कथं किल शपिष्यति ।। २ ।।

।। स्कंद उवाच ।। ।।

सत्यमेतत्त्वया पृच्छि कथयामि मुने शृणु ।।

तस्य व्यासस्य चरितं भविष्यं त्वयि पृच्छति ।। ३ ।।

यदारभ्य मुनेस्तस्य नंदी स्तंभितवान्भुजम् ।।

तदारभ्य महेशानं संस्तौति परमादृतः ।। ४ ।।

काश्यां तीर्थान्यनेकानि काश्यां लिगान्यनेकशः ।।

तथापि सेव्यो विश्वेशः स्नातव्या मणिकर्णिका ।।५ ।।

लिंगेष्वेको हि विश्वेशस्तीर्थेषु मणिकर्णिका ।।

इति संव्याहरन्व्यासस्तद्द्वयं बहु मन्यते ।। ६ ।।

त्यक्त्वा स बहु वाग्जालं प्रातः स्नात्वा दिनेदिने ।।

निर्वाणमंडपे वक्ति महिमानं महेशितुः ।। ७ ।।

शिष्याणां पुरतो नित्यं क्षेत्रस्य महिमा महान् ।।

व्याख्यायते मुदा तेन व्यासेन परमर्षिणा ।। ८ ।।

अत्र यत्क्रियते क्षेत्रे शुभं वाऽशुभमेव वा ।।

संवर्तेपि न तस्यांतस्तस्माच्छ्रेयः समाचरेत् ।। ९ ।।

क्षेत्रसिद्धिं समीहंते ये चात्र कृतिनो जनाः ।।

यावज्जीवं न तैस्त्याज्या सुधीभिर्मणिकर्णिका ।। 4.2.96.१० ।।

चक्रपुष्करिणी तीर्थे स्नातव्यं प्रतिवासरम् ।।

पुष्पैः पत्रैः फलैस्तोयैरर्च्यो विश्वेश्वरः सदा ।। ११ ।।

स्ववर्णाश्रमधर्मश्च त्यक्तव्यो न मनागपि ।।

प्रत्यहं क्षेत्रमहिमा श्रोतव्यः श्रद्धया सकृत् ।।१२।।

यथाशक्ति च देयानि दानान्यत्र सुगुप्तवत् ।।

अन्नान्यपि च देयानि विघ्नान्परिजिहीर्षुणा ।। १३ ।।

परोपकरणं चात्र कर्तव्यं सुधिया सदा ।।

पर्वस्वपि विशेषेण स्नानदानादिकाः क्रियाः ।।१४।।

विशेषपूजा कर्तव्या सुमहोत्सवपूर्वकम ।।

कार्यास्तथाधिका यात्राः समर्च्याः क्षेत्रदेवताः।।।३५।।

अत्र मर्म न वक्तव्यं सुधियां कस्यचित्क्वचित् ।।

परदार परद्रव्य परापकरणं त्यजेत् ।। १६ ।।

परापवादो नो वाच्यः परेर्ष्यां न च कारयेत् ।।

असत्यं नैव वक्तव्यं प्राणैः कंठगतैरपि ।। १७ ।।

अत्रत्य जंतुरक्षार्थमसत्यमपि भाषयेत् ।।

येनकेनप्रकारेण शुभेनाप्यशुभेन वा।।१८।।

अत्रत्यः प्राणिमात्रोपि रक्षणीयः प्रयत्नतः ।।

एकस्मिन्रक्षिते जंतावत्र काश्यां प्रयत्नतः ।।

त्रैलोक्यरक्षणात्पुण्यं यत्स्यात्तत्स्यान्न संशयः ।। १९ ।।

ये वसंति सदा काश्यां क्षेत्रसंन्यासकारिणः ।।

त एव रुद्रा मंतव्या जीवन्मुक्ता न संशयः ।। 4.2.96.२० ।।

ते पूज्यास्ते नमस्कार्यास्ते संतोष्याः प्रयत्नतः ।।

तेषु वै परितुष्टेषु तुष्येद्विश्वेश्वरः स्वयम् ।। २१ ।।

काश्यां वसंति ये मर्त्या दूरस्थैरपि सन्नरैः ।।

योगक्षेमो विधातव्यस्तेषां विश्वेशितुर्मुदे ।। २२ ।।

प्रसरस्त्विंद्रियाणां च निवार्योत्र निवासिभिः ।।

मनसोपि हि चांचल्यमिह वार्यं प्रयत्नतः ।। २३ ।।

मरणं नाभिकांक्षेद्धि कांक्ष्यो मोक्षोऽपिनो पुनः ।।

शरीरशोषणोपायः कर्तव्यः सुधिया नहि ।। २४ ।।

शरीरसौष्ठवं कांक्ष्यं व्रतस्नानादिसिद्धये ।।

आयुर्बह्वत्र वै चिंत्यं महाफलसमृद्धये ।। २८५ ।।

आत्मरक्षात्र कर्तव्या महाश्रेयोभिवृद्धये ।।

अत्रात्म त्यजनोपायं मनसापि न चिंतयेत् ।। २५ ।।

एकस्मिन्नपि यच्चाह्नि काश्यां श्रेयोभिलभ्यते ।।

न तु वर्षशतेनापि तदन्यत्राप्यते क्वचित् ।। २७ ।।

अन्यत्र योगाभ्यसनाद्यावज्जन्म यदर्ज्यते ।।

वाराणस्यां तदेकेन प्राणायामेन लभ्यते ।।२८।।

सर्वतीर्थावगाहाच्च यावज्जन्म यदर्ज्यते ।।

तदानंदवने प्राप्यं मणिकर्ण्येकमज्जनात् ।। ।। २९ ।।

सर्वलिंगार्चनात्पुण्यं यावज्जन्म यदर्ज्यते ।।

सकृद्विश्वेशमभ्यर्च्य श्रद्धया तदवाप्यते ।।4.2.96.३० ।।

यज्जन्मनां सहस्रेण निर्मलं पुण्यमर्जितम् ।।

तत्पुण्यपरिवर्तेन भवेद्विश्वेशदर्शनम् ।। ३। ।।

गवां कोटि प्रदानेन सम्यग्दत्तेन यत्फलम ।।

तत्फलं सम्यगाप्येत विश्वेश्वर विलोकनात् ।। ३२ ।।

यत्षोडशमहादानैः पुण्यं प्रोक्तं महर्षिभिः ।।

तत्पुण्यं जायते पुंसां विश्वेशे पुष्पदानतः ।।३३।।

अश्वमेधादिभिर्यज्ञैर्यत्फलं प्राप्यतेखिलैः ।।

पंचामृतानां स्नपनाद्विश्वेशे तदवाप्यते ।।३४।।

वाजपेयसहस्रेण सम्यगिष्टेन यत्फलम् ।।

सकृन्महार्हैर्नैवेद्यैर्विश्वेशे तच्छताधिकम् ।।३२।।

ध्वजातपत्रं चमरं विश्वेशे यः समर्पयेत् ।।

एकच्छत्रं स वै राज्यं प्राप्नुयाद्वसुधातले ।। ३५ ।।

महापूजोपकरणं योर्पयेद्विश्वभर्तरि ।।

न तं संपत्तिसंभारा विमुंचंतीह कुत्रचित् ।। ३७ ।।

सर्वर्तुकुसुमाढ्यां च यः कुर्यात्पुष्पवाटिकाम् ।।

तदंगणे कल्पवृक्षाश्छायां कुर्वंति शीतलाम् ।।३८।।

यः क्षीरस्नपनार्थं वै विश्वेशे धेनुमर्पयेत् ।।

क्षीरार्णवतटे तस्य निवसेयुः पितामहाः ।। ।। ३९ ।।

विश्वेशराजसदने यः सुधां चित्रमेव वा ।।

कारयेत्तस्य भवनं कैलासचित्रितं भवेत् ।। 4.2.96.४० ।।

ब्राह्मणान्यतिनो वापि तथैव शिवयोगिनः ।।

भोजयेद्योत्र वै काश्यामेकैक गणना क्रमात् ।। ४१ ।।

कोटिभोज्यफलं तस्य श्रद्धया नात्र संशयः ।।

तपस्त्वत्र प्रकर्तव्यं दानमत्र प्रदापयेत् ।। ४२ ।।

विश्वेशस्तोषणीयोत्र स्नानहोमजपादिभिः ।।

अन्यत्र कोटिजप्येन यत्फलं प्राप्यते नरैः ।।

अष्टोत्तरशतं जप्त्वा तदत्र समवाप्यते ।। ४३ ।।

कोटिहोमेन यत्प्रोक्तं फलमन्यत्र सूरिभिः ।।

अष्टोत्तराहुतिशतात्तदत्रानंदकानने ।। ४४ ।।

यो जपेद्रुद्रसूक्तानि काश्यां विश्वेशसन्निधौ ।।

पारायणेन वेदानां सर्वेषां फलमाप्यते ।। ४५ ।।

तस्य पुण्यं न जानामि चिंतिते चाक्षरे परे ।।

काश्यां नित्यं प्रवस्तव्यं सेव्योत्तरवहा सदा ।। ४६ ।।

आपद्यपि हि घोरायां काशी त्याज्या न कुत्रचित् ।।

यतः सर्वापदांहर्ता त्राता विश्वपतिः प्रभुः ।। ४७ ।।

अवंध्यं दिवसं कुर्यात्स्नानदानजपादिभिः ।।

यतः काश्यां कृतं कर्म महत्त्वाय प्रकल्पते ।। ४८ ।।

कृच्छ्रचांद्रायणादीनि कर्तव्यानि प्रयत्नतः ।।

तथेंद्रियविकाराश्च न बाधंतेत्र कर्हिचित् ।। ४९ ।।

यदींद्रियाणि कुर्वंति विक्रियामिह देहिनाम् ।।

तदात्रवाससं सिद्धिर्विघ्नेभ्यो नैव लभ्यते ।। 4.2.96.५० ।।

।। अगस्त्य उवाच ।। ।।

कृच्छ्र चांद्रायणादीनि व्यासो वक्ष्यति यानि वै।।

तेषां स्वरूपमाख्याहि स्कंदेंद्रिय विशुद्धये ।। ५१ ।।

।। स्कंद उवाच ।। ।।

कथयामि महाबुद्धे कृच्छ्रादीनि तवाग्रतः ।।

यानि कृत्वात्र मनुजो देहशुद्धिं लभेत्पराम् ।। ५२ ।।

एकभक्तेन नक्तेन तथैवायाचितेन च ।।

उपवासेन चैकेन पादकृच्छ्रः प्रकीर्तितः ।।५३ ।।

वटोदुंबरराजीव बिल्वपत्रकुशोदकम् ।।

प्रत्येकं प्रत्यहं पीतं पर्णकृच्छ्रः प्रकीर्तितः ।।५४।।

पिण्याकघृततक्रांबु सक्तूनां प्रतिवासरम् ।।

एकैकमुपवासश्च कृच्छ्रः सौम्यः प्रकीर्तितः ।। ५५ ।।

हविषा प्रातरश्नीत हविषा सायमेव च ।।

हविषा याचितं त्रींस्तु सोपवासस्त्रयहं वसेत् ।। ५६ ।।

एकैकग्रासमश्नीयादहानि त्रीणि पूर्ववत् ।।

त्र्यहं चोपवसेदंत्यमतिकृच्छ्रं चरन्द्विजः ।। ५७ ।।

कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिः ।।

द्वादशाहोपवासेन पराकः परिकीर्तितः ।। ५८ ।।

त्र्यहं प्रातस्त्रयहं सायं त्र्यहमद्यादयाचितम्।।

त्र्यहं चोपवसेदंत्यं प्राजापत्यं चरन्द्विजः ।। ५९ ।।

गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्।।

एकरात्रोपवासश्च कृच्छ्रः सांतपनः स्मृतः ।। 4.2.96.६० ।।

पृथक्सांतपनद्रव्यैः षडहः सोपवासकः ।।

सप्ताहेन तु कृच्छ्रोयं महासांतपनः स्मृतः ।। ६१ ।।

तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् ।।

एतांस्त्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः ।। ६२ ।।

त्र्यहमुष्णाः पिबेदापस्त्र्यहमुष्णं पयः पिबेत् ।।

त्र्यहमुष्णघृतं प्राश्य वायुभक्षो दिनत्रयम् ।। ६३ ।।

पलमेकं पयः पीत्वा सर्पिषश्च पलद्वयम् ।।

पलमेकं तु तोयस्य तप्तकृच्छ्र उदाहृतः ।। ६४ ।।

गोमूत्रेण समायुक्तं यावकं यः प्रयोजयेत् ।।

कृच्छ्रमेकाह्न्किं प्रोक्तं शरीरस्य विशोधनम् ।। ६५ ।।

हस्तावुत्तानतः कृत्वा दिवसं मारुताशनः ।।

रात्रौ जले स्थितो व्युष्टः प्राजापत्येन तत्समम्।। ६६।।

एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्धयेत्।।

उपस्पृशं स्त्रिषवणमेतच्चांद्रायणं स्मृतम् ।। ६७ ।।

एकैकं वर्धयेद्ग्रासं शुक्ले कृष्णे च ह्रासयेत् ।।

भुंजीत दर्शे नो किंचिदेष चांद्रायणो विधिः ।।६८।।

चतुरः प्रातरश्नीयात्पिंडान्विप्रः समाहितः ।।

चतुरोस्तमिते सूर्ये शिशुचांद्रायणं स्मृतम् ।। ६९ ।।

अष्टावष्टौ समश्नीयात्पिंडान्मध्यंदिने स्थिते ।।

नियतात्मा हविष्यस्य यतिचांद्रायणं स्मृतम् ।। 4.2.96.७० ।।

यथाकथंचित्पिंडानां तिस्रोशीतीः समाहितः ।।

मासेनाश्नन्हविष्यस्य चंद्रस्यैति सलोकताम् ।। ७१ ।।

अद्भिर्गात्राणि शुध्यंति मनः सत्येन शुद्ध्यति ।।

विद्या तपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्ध्यति ।।७२।।

तच्च ज्ञानं भवेत्पुंसां सम्यक्काशीनिषेवणात् ।।

काशीनिषेवणेन स्याद्विश्वेशकरुणोदयः।। ।। ७३ ।।

ततो महोदयावाप्तिः कर्मनिर्मूलनक्षमा।।

अतः काश्यां प्रयत्नेन स्नान दान तपो जपः ।।७४।।

व्रतं पुराणश्रवणं स्मृत्युक्ताध्व निषेवणम् ।।

प्रतिक्षणे प्रतिदिनं विश्वेश पदचिंतनम् ।। ७५ ।।

लिंगार्चनं त्रिकालं च लिंगस्यापि प्रतिष्ठितिः ।।

साधुभिः सह संलापो जल्पः शिवशिवेति च ।।७६।।

अतिथेश्चापि सत्कारो मैत्रीतीर्थनिवासिभिः ।।

आस्तिक्यबुद्धिर्विनयो मानामान समानधीः ।। ७७ ।।

अकामिता त्वनौद्धत्यमरागित्वमहिंसनम् ।।

अप्रतिग्रहवृत्तिश्च मतिश्चानुग्रहात्मिका ।। ७८ ।।

अदंभितात्वमात्सर्यमप्रार्थितधनागमः ।।

अलोभित्वमनालस्यमपारुष्यमदीनता ।। ७९ ।।

इत्यादि सत्प्रवृत्तिश्च कर्तव्या क्षेत्रवासिना ।।

प्रत्यहं चेति शिष्येभ्यः सधर्ममुपदेक्ष्यति ।। 4.2.96.८० ।।

नित्यं त्रिषवणस्नायी नित्यं भिक्षाकृताशनः ।।

लिंगपूजार्चको नित्यमित्थं व्यासो वसेत्पुरा ।। ।। ८१ ।।

एकदा तस्य जिज्ञासां कर्तुं देवीं हरोवदत् ।।

अद्य भिक्षाटनं प्राप्ते व्यासे परमधार्मिके ।। ८२ ।।

अपि सर्वगते क्वापि भिक्षां मा यच्छ सुंदरि ।।

तथेत्युक्ता भवानी सा भवं भवनिवारणम्।। ८३ ।।

नमस्कृत्य प्रतिगृहं तस्य भिक्षां न्यषेधयत् ।।

स मुनिः सहितः शिष्यैर्भिक्षामप्राप्य दूनवत् ।। ८४ ।।

वेलातिक्रममालोक्य पुनर्बभ्राम तां पुरीम्।।

गृहेगृहे परिप्राप्ता भिक्षान्यैः सर्वभिक्षुकैः ।।८५।।

तदह्निनालभद्भिक्षां सशिष्यः स मुनिः क्वचित् ।।

अथ सायंतनं कर्म कृत्वा छात्रैः समन्वितः ।। ८६ ।।

उपोषणपरो भूत्वा तथैवासीदहर्निशम्।।

अथान्येद्युर्मुनिर्व्यासः कृत्वा माध्याह्निकं विधिम्।। ८७ ।।

ययौ भिक्षाटनं कर्तुं सशिष्यः परितः पुरीम् ।।

सर्वत्र स परिभ्रांतः प्रतिसौधं मुहुर्मुहुः ।। ८८ ।।

न क्वापि लब्धवान्भिक्षां भाग्यहीनो धनं यथा ।।

अथ चिंतितवान्व्यासः परिश्रांतः परिभ्रमन् ।। ८९ ।।

को हेतुर्यन्न लभ्येत भिक्षा यत्नेन रक्षिता ।।

अंतेवासिन आहूय व्यासः पप्रच्छ चाखिलान् ।। 4.2.96.९० ।।

भवद्भिरपि नो भिक्षा परिप्राप्तेति गम्यते ।।

किमत्र पुरि संवृत्तं द्वित्रा यात ममाज्ञया ।। ९१ ।।

द्वितीयेह्न्यपि यद्भिक्षा न लभ्येतातियत्नतः ।।

अनिष्टं किंचिदत्रासीन्महागुरुनिपातजम् ।। ९२ ।।

अन्नक्षयो वा सर्वस्यां नगर्यामभवत्क्षणात् ।।

राजदंडोथ युगपज्जातः सर्वपुरौकसाम् ।। ९३ ।।

अथवा वारिता भिक्षा केनाप्यस्मासु चेर्ष्यया ।।

पुरौकसोभवन्दुस्थास्तूपसर्गेण केनचित् ।। ९४ ।।

किमेतदखिलमज्ञात्वा समागच्छत सत्वरम् ।।

द्वित्राः पवित्रचरणात्प्राप्यानुज्ञां गुरोरथ ।।

समाचख्युः समागम्य दृष्ट्वर्द्धि तत्पुरौकसाम् ।। ९५ ।।

।। शिष्या ऊचुः ।। ।।

शृण्वंत्वाराध्यचरणा नोपसर्गोत्र कश्चन ।।

नान्नक्षयो वा सर्वस्यां नगर्यामिह कुत्रचित् ।। ।। ९६ ।।

यत्र विश्वेश्वरः साक्षाद्यत्राऽमरधुनी स्वयम् ।।

त्वादृशा यत्र मुनयः क्व भीस्तत्रोपसर्गजा ।। ९७ ।।

समृद्धिर्या गृहस्थानामिह विश्वेशितुः पुरि ।।

न सर्द्धिरस्ति वैकुंठे स्वल्पास्ता अलकादयः ।। ९८ ।।

रत्नाकरेषु रत्नानि न तावंति महामुने।।

यावंति संति विश्वेशनिर्माल्योपभुजां गृहे ।। ९९ ।।

गृहेगृहेत्र धान्यानां राशयो यादृशः पुनः ।।

न तादृशः कल्पवृक्षदत्ता ऐंद्रे पुरे क्वचित् ।। 4.2.96.१०० ।।

यत्र साक्षाद्विशालाक्षी सुविस्तारफलप्रदा ।।

न तत्र पुरि सर्वस्यां नरो वै निर्धनः क्वचित् ।। १ ।।

निर्वाणलक्ष्म्याः सदने त्वस्मिन्नानंदकानने ।।

मोक्षोपि यत्र सुलभः किमन्यत्तत्र दुर्लभम् ।। २ ।।

सीमंतिन्यः स्त्रियः सर्वाः पतिव्रतपरायणाः ।।

सर्वा भवानी रूपिण्यो विश्वेशार्पितसत्क्रियाः ।।३।।

यावंतः पुरुषाः काश्यां सर्व एव गणाधिपाः ।।

सर्व एव कुमारा वै सर्वे तारकदृष्टयः ।।४।।

त्रिपुंड्रांकितभाला ये ते सर्वे चंद्रमौलयः ।।

उपसर्गसहस्रैश्च पीड्यमाना अपीह ये ।। ५ ।।

न त्यजंति सदा काशीं सर्वज्ञा एव तेखिलाः ।।

गृहेगृहेपि वटवो ब्रह्मवादविवादिनः ।। ६ ।।

स्वर्धुनी धूतकलुषाः संतीह चतुराननाः ।।

निर्वाणलक्ष्मीपतयः क्षेत्रसंन्यासकारिणः।।७।।

सर्व एव हृषीकेशाः सर्वे वै पुरुषोत्तमाः ।।

अच्युता एव विज्ञेया एतत्क्षेत्रपरिग्रहाः ।। ८ ।।

स्त्रियो वा पुरुषा वापि सर्व एव न संशयः ।।

सर्व एव त्रिनयनाः सर्व एव चतुर्भुजाः ।। ९ ।।

श्रीकंठाः सर्व एवात्र सर्वे मृत्युंजया ध्रुवम् ।।

मोक्षश्री श्रितवर्ष्माणस्त्वर्धनारीश्वरायतः ।। 4.2.96.११० ।।

धर्मराशिः परश्चात्र महांतोऽत्रार्थराशयः ।।

सर्वे कामाः फलंत्यत्र कैवल्यं चात्र निर्मलम् ।। ११ ।।

न गर्भवाससंसर्गः काशीसंस्थितिकारिणाम् ।।

न कलिश्चात्र बाधेत कालो नैव प्रबाधते ।। १२ ।।

एनांसि नात्र बाधंते विश्वेशशरणार्थिनः ।।

यत्र विश्वेश्वरः साक्षान्नादबिंदुकलात्मकः ।। १३ ।।

ध्वनिरूपी हि तत्रास्ति प्रणवो मंत्रविग्रहः ।।

अतो विग्रहवंतोत्र संति वेदा विनिश्चितम् ।। १४ ।।

सरस्वती सरिद्रूपा ह्यतः शास्त्रनिकेतनम् ।।

आनंदकाननं सर्वं धर्मशास्त्रकृतालयम्।। १५ ।।

यावंतो दिवि वै देवास्तावंतोत्र मृषा न हि ।।

नीराजयंति विश्वेशं रात्रौ रात्रौ सदाऽहयः ।। ।। १६ ।।

स्वफणामणिदीपैश्च प्राप्य काशीं रसातलात् ।।

समुद्राः सर्व एवात्र कामधेनुव्रजान्विताः ।।१७।।

पंचपीयूषधाराभिर्विश्वेशं स्नपयंति हि ।।

मंदारः पारिजातश्च संतानो हरिचंदनः ।। १८ ।।

कल्पद्रुमश्च पंचैते तरुभिः सह सर्वदा ।। १९ ।।

सर्वे सुरनिकायाश्च सर्व एव महर्षयः ।।

योगिनः सर्व एवात्र काशीनाथमुपासते ।।4.2.96.१२०।।

विद्यानां सदनं काशी काशी लक्ष्म्याः परालयः ।।

मुक्तिक्षेत्रमिदं काशी काशी सर्वा त्रयीमयी।।२१।।

इति श्रुत्वा मुनिवरः पाराशर्यो महातपाः ।।

एवं बभाषे ताञ्शिष्यान्पुनःश्लोकं पठंत्वमुम् ।। २२ ।।

।। शिष्या ऊचुः ।। ।।

विद्यानां चाश्रयः काशी काशी लक्ष्म्याः परालयः ।।

मुक्तिक्षेत्रमिदं काशी काशी सर्वा त्रयीमयी ।। २३ ।।

।। स्कंद उवाच ।। ।।

निशम्येति तदा व्यासः क्रोधांधीकृतलोचनः ।।

क्षुत्कृशानुज्वलन्मूर्तिः काशीं शप्स्यति कुंभज ।। ।। २४ ।।

।। व्यास उवाच ।। ।।

मा भूत्त्रैपूरुषीविद्या मा भूत्त्रैपूरुषं धनम् ।।

मा भूत्त्रैपृरुषी मुक्तिः काशीं व्यासः शपन्निति ।।२५।।

गर्वः परोत्र विद्यानां धनगर्वोत्र वै महान् ।।

मुक्तिगर्वेण नो भिक्षां प्रयच्छंत्यत्र वासिनः ।। २६ ।।

इति कृत्वा मतिं व्यासः काश्यां शापमदात्तदा ।।

दत्त्वापि शापं स मुनिर्भिक्षितुं क्रोधवान्ययौ।। ।। २७ ।।

प्रतिगेहं त्वरायुक्तः प्रविशन्व्योमदत्तदृक् ।।

बभ्राम नगरीं सर्वां क्वापि भैक्षं न लब्धवान् ।।२८।।

अंशुमालिनमावीक्ष्य मनाग्लोहितमंडलम् ।।

भिक्षापात्रं परिक्षिप्य निर्ययावाश्रमं प्रति ।। २९ ।।

अथ गच्छन्महादेव्या गृहद्वारि निषण्णया ।।

प्राकृतस्त्रीस्वरूपिण्या भिक्षायै प्रार्थितोतिथिः ।। 4.2.96.१३० ।।

।। गृहिण्युवाच ।। ।।

भगवन्भिक्षुकास्तावदद्य दृष्टा न कुत्रचित् ।।

असत्कृत्यातिथिं नाथो न मे भोक्ष्यति कर्हिचित् ।। ३१ ।।

वैश्वदेवादिकं कर्म कृत्वा गृहपतिर्मम ।।

प्रतीक्षेतातिथिपथं तस्मात्त्वमतिथिर्भव ।। ३२ ।।

विनातिथि गृहस्थोयस्त्वन्नमेको निषेवते ।।

निषेवतेऽघं स परं सहितः स्वपितामहैः ।। ३३ ।।

तस्मात्त्वरितमायाहि कुरु मे पत्युरीहितम् ।।

गार्हस्थ्यं सफलं कर्तुमिच्छतोऽतिथिपूजनात् ।। ३४ ।।

इति श्रुत्वा गतामर्षो व्यासस्तामाह विस्मितः ।।

।। व्यास उवाच ।। ।।

भद्रे का त्वं कुतः प्राप्ता पूर्वं दृष्टा न कुत्रचित् ।। ३५ ।।

मन्ये धर्ममयी मूर्तिः कापि त्वं शुचिमानसा ।।

त्वद्दर्शनात्परां प्रीतिं संप्राप्तानींद्रियाणि मे ।। ३६ ।।

त्वं सुधैव भवेः प्रायः सर्वावयवसुंदरि ।।

मंदराघातसंत्रासात्यक्तक्षीरार्णवस्थितिः ।। ३७ ।।

कलासुधाकरस्याथ कुहू राहुभयार्दिता ।।

सीमंतिनी स्वरूपेण तिष्ठेः काश्यामनिर्भया ।। ३८ ।।

अथवा कमलासि त्वं विहाय कमलालयम् ।।

निशि संकोचिनं काश्यां विकाशिन्यां वसेः सदा ।। ३९ ।।

किंवा नु करुणामूर्तिरिह काशिनिवासिनाम् ।।

सर्वदुःखौघहरिणी परानंदप्रदायिनी ।। 4.2.96.१४० ।।

वाराणस्याः किमथवाऽधिष्ठात्री देवता त्वमु।।

किं वा निर्वाणलक्ष्मीस्त्वं या काश्यां परिगीयते ।। ४१ ।।

श्वपाकं यायजूकं वा प्रांतेऽलंकुर्वती समम्।।

मद्भाग्यं वा परिणतमेतद्योषित्स्वरूपतः ।। ४२ ।।

अथवा सा भवेन्नूनं या क्षेत्रे परिगीयते ।।

भक्तपोतप्रदा भक्त्या भवानी भवनाशिनी ।। ४३ ।।

सर्वथैव न नारी त्वं नासुरी नैव किन्नरी।।

विद्याधरा न नो नागी नो गंधर्वी न यक्षिणी ।। ४४ ।।

त्वमिष्टदेवतैवासि काचिन्मे मोहहारिणी ।।

केयं चिंताथवामेत्र काचित्त्वं भव सुंदरि ।।४५।।

परवानस्म्यहं जातस्तवदर्शनतोऽधुना ।।

अवश्यमेवकर्तास्मि तवादेश्यं तदादिश ।। ४६ ।।

एकं तपोव्ययं हित्वा कारयिष्यसि यत्पुनः ।।

तदेवाहं करिष्यामि विधेयः शुभलोचने ।। ४७ ।।

न वचस्त्वादृशीनांहि महत्त्वं हापयेत्सताम् ।।

परं त्वं कासि सुभगे सत्यं ब्रूहि ममाग्रतः ।। ४८ ।।

अथवा तव देहेस्मिन्क्वा सत्यं निर्मलेक्षणे ।।

इति पृष्टाह मुनिना सा विश्वायुर्घटोद्भव ।। ४९ ।।

अत्रत्यस्यैव हि मुने गृहिणी गृहमेधिनः ।।

नित्यं वीक्षे चरंतं त्वां भिक्षां शिष्यगणैर्वृतम् ।। 4.2.96.१५० ।।

त्वमेव मां नो जानीषे जाने त्वामहमेव हि ।।

तपस्विन्किं बहूक्तेन यावन्नास्तं व्रजेद्रविः ।। ५१ ।।

प्राणनाथस्य मे तावदातिथ्यं सफलीकुरु ।।

तच्छुत्वा स मुनिः प्राह विनयानतकंधरः ।। ५२ ।।

।। व्यास उवाच ।। ।।

अस्ति मे नियमः कश्चित्स सिद्धिं चेद्व्रजेच्छुभे ।।

एकभिक्षां तदाहं तु करिष्ये नान्यथा पुनः ।। ५३ ।।

तपस्व्युदीरितं श्रुत्वा सा प्रोवाच वचस्ततः ।।

अविशंक वद मुने कस्तेस्ति नियमः सुधीः ।। ५४ ।।

मम भर्तुः प्रसादेन किंचिन्न्यूनं यतोऽत्र न ।।

इति श्रुत्वा प्रहृष्टात्मा स तामाह तपोधनः ।। ५५ ।।

अयुतं मम शिष्या ये तैः सपक्तिमहं वृणे ।।

अस्तं यावन्न यात्यर्कस्तावद्भोक्ष्येन्यथा नहि ।। ५६ ।।

निशम्येति प्रहृष्टास्या सा प्रोवाच मुनिंततः ।।

किं विलंबेन तद्याहि सर्वाञ्शिष्यान्समाह्वय ।। ५७. ।।

पुनः प्राह स तां साध्वि त्वेतावत्सिद्धिरस्ति ते ।।

येन तृप्तिं गमिष्यंति मच्छिष्याः सर्व एव ते।।५८।।

स्मित्वाथ साब्रवीत्तं तु मुने भर्तुरनुग्रहात् ।।

सिद्धमेव सदैवास्ते सर्वं तावन्ममालये ।।।। ५९ ।।

यावतार्थिजनस्तृप्तिमेति सर्वोपि सर्वशः ।।

वयं न तादृङ्महिला भर्तृसंदेहकारिकाः ।। 4.2.96.१६० ।।

आयातोर्थी यदा गेहे सिद्धं कार्यं तदैव हि ।।

परिपूर्णा दिशः सर्वाः परिपूर्णामनोरथाः ।। ६१ ।।

परिपूर्णगृहं सर्वं पत्युःपाद प्रसादतः ।।

याहि तूर्णं समायाहि यावदन्नार्थिभिः सह ।। ६२ ।।

पतिर्मे बहुकालीनः कालं न सहते चिरम् ।।

प्रियातिथिः प्रियतमस्तदातिथ्यसमृद्धये ।।६३।।

आशु गत्वा समागच्छ यावन्नास्तमितो रविः ।।

इति प्रहृष्टस्त्वरितः शिष्यानाहूय सर्वतः ।। ।। ६४ ।।

आगत्यतां पुनः प्राह दृष्ट्वा तन्मार्गलोचनाम् ।।

मातः सर्वे समायातास्त्वरितं देहि भोजनम् ।। ६५ ।।

अस्ताचलं हि समया समियादेष भास्करः ।।

इत्युक्त्वा मंदिरस्यांतर्विविशुस्ते तपोधनाः ।। ६६ ।।

तन्मंडपमणिज्योतिस्तत्याहितदिनश्रियः ।।

यावद्गच्छतितत्सौधमध्यमाशु तपस्विनः ।। ६७ ।।

पादौप्रक्षाल्य तावत्ते कैश्चित्कैश्चित्समर्च्य च ।।

कतिचित्परिविष्टान्ना भोक्तुमेवोपवेशिताः ।। ६८ ।।

तद्दिव्यपाकसंभारान्दृष्टवा तद्दृष्टयः क्षणात् ।।

परातृप्तिमुपागच्छन्घ्राणन्यामोदराजिभिः ।। ६९ ।।

अतितृप्तिं समापन्नास्ते तदन्ननिषेवणात् ।।

आचांताश्चंदनैः स्रग्भिरंबरैः परिभूषिताः ।। 4.2.96.१७० ।।

अथ सांध्यं विधिं कृत्वा प्रोपविश्य तदग्रतः ।।

अभिनंद्य महाशीर्भिर्यावद्गंतुं प्रचक्रमुः ।। ७१ ।।

तावद्वृद्धगृहस्थेन गृहिणी सा कटाक्षिता ।।

पप्रच्छ तीर्थे वसतां को धर्मो मुख्य एव हि ।। ७२ ।।

तथा तदनुसारेण तीर्थे वर्तामहे वयम् ।।

सर्वधर्मविदां श्रेष्ठः श्रुत्वा तद्गृहिणी वचः ।।७३।।

तदादरसुधाक्लिन्न महान्नस्वादतर्पितः ।।

प्रत्युवाच मुनिर्व्यासः स्मित्वा तां सर्ववित्तमाम् ।।७४।।

।। व्यास उवाच ।। ।।

स्वच्छांतःकरणेमातर्महामिष्टान्नमानदे ।।

स एष धर्मो नान्योस्ति यत्त्वया परिचर्यते ।।७५।।

त्वमेव धर्मं जानासि पतिशुश्रूषणे रता ।।

यदि पृच्छसि मां सत्यं तदा किंचन वच्मि ते ।। ७६ ।।

वक्तव्यमेव पृष्टेन मनागपि विजानता ।।

स एव धर्मः सुभगे नान्यो धर्मोस्ति कश्चन ।। ७७ ।।

येनैष तोषमायाति तव भर्ता चिरंतनः ।।

।। गृहिण्युवाच ।। ।।

अयं धर्मो भवेन्नूनं क्रियते च स्वशक्तितः ।। ७८ ।।

साधारणानि धर्माणि संपृच्छे तानि मे वद ।।

।। व्यास उवाच ।। ।।

अनुद्वेगकरं वाक्यं परोत्कर्षसहिष्णुता ।।७९।।

विचार्य कारिता नित्यं स्वधिष्ण्योदय चिंतनम् ।।

गृहस्थ उवाच ।। ।।

एषु धर्मेषु भो विद्वंस्त्वयि कोस्तीह तद्वद ।। 4.2.96.१८० ।।

ततः स्थगितवद्व्यासस्तस्थौ किंचिन्न चोक्तवान् ।।

ततः पुनर्गृहस्थेन स हि प्रोक्तस्तपोधनः ।। ८१ ।।

यद्येत एव वै धर्मास्त्वया ये प्रतिपादिताः ।।

तद्दांतता तवैवैक्षि दानं शापस्य चोत्तमम् ।। ८२ ।।

त्वय्येव हि दया सम्यग्धैर्यं त्वय्येव चोत्तमम् ।।

त्वयि संभावनास्त्येव कामक्रोधविनिग्रहे ।। ८३ ।।

त्वमेव सम्यग्जानीषे वक्तुं चोद्वेगवर्जितम् ।।

त्वय्येव सम्यग्दृश्येत परोत्कर्ष सहिष्णुता ।। ८४ ।।

विचार्य कारितायाश्च त्वमेव निलयोमहान् ।।

स्वस्यधिष्ण्यस्य च भवांश्चिंतयेदुदयं ध्रुवम् ।। ८५ ।।

ममैकं ब्रूहि भो विद्वञ्छापं दद्याच्च यः क्रुधा ।।

अलभन्स्वार्थसंसिद्धिमभाग्यात्तस्य कस्य सः ।। ८६ ।।

।। व्यास उवाच ।। ।।

यः स्वार्थसिद्धिमलभन्नभाग्याच्छपति क्रुधा ।।

स शापः प्रत्युत भवेच्छप्तुरेवाविवेकिनः ।। ८७ ।।

।। गृहस्थ उवाच ।। ।।

भवता भ्रमता विप्र नाप्ताभिक्षा यदाप्यहो ।।

तदापराद्धं किमिह वराकैः क्षेत्रवासिभिः ।। ८८ ।।

तपस्विञ्शृणु मे वाक्यं राजधान्यां ममेह यः ।।

ऋद्धिं द्रष्टुं न शक्नोति परिशप्तः स एव हि ।। ८९ ।।

अद्य प्रभृति न क्षेत्रे मदीये शापवर्जिते ।।

आवस क्रोधन मुने न वासे योग्यतात्र ते ।। ।। 4.2.96.१९० ।।

इदानीमेव निर्गच्छ बहिः क्षेत्रादितो भव ।।

त्वद्विधानां न योग्यं मे क्षेत्रं मोक्षैकसाधनम् ।। ९१ ।।

अत्राल्पमपि यद्दौष्ट्यं कृतं मत्क्षेत्रवासिनाम् ।।

तद्दौष्ट्यस्य परीपाको रुद्रपैशाच्यमेव हि ।। ९२ ।।

तच्छ्रुत्वा वेपमानः स परिशुष्कौष्ठतालुकः ।।

जगाम शरणं गौरीं लुठंस्तच्चरणाग्रतः ।। ९३ ।।

उवाच च वचो मातस्त्राहि त्राहि भृशं रुदन् ।।

अनाथस्त्वत्सनाथोहं बालिशस्तव बालकः ।। ९४ ।।

शरणागतं च संत्राहि रक्ष मां शरणागतम् ।।

बहूनामागसां गेहमस्माकं दुष्टमानसम्।। ९५ ।।

शंभुशापोऽन्यथाकर्तुं भवत्यापि न शक्यते ।।

अहं च शरणायातस्तदेकं क्रियतां शिवे ।। ९६ ।।

प्रत्यष्टमि सदा क्षेत्रे प्रतिभूतं च पार्वति ।।

दिश प्रवेशनादेशं नेशस्त्वद्वाक्यलंघकः ।। ९७ ।।

इत्युक्ता तेन मुनिना भवानी करुणाजनिः ।।

मुखं महेशितुर्वीक्ष्य तथेत्याह तदाज्ञया ।। ९८ ।।

अथांतर्हितवंतौ तौ शिवौ क्षेत्रशिवंकरौ ।।

व्यासोपि निर्ययौ क्षेत्रात्स्वापराधवशं वदन्।। ९९ ।।

अहोरात्रं स पश्यन्वै क्षेत्रं दृष्टेरदूरगम् ।।

प्राप्याष्टमीं च भूतां च मध्ये क्षेत्रं सदा विशेत् ।। 4.2.96.२०० ।।

लोलार्कादग्निदिग्भागे स्वर्धुनीं पूर्वरोधसि ।।

स्थितो ह्यद्यापि पश्येत्स काशीप्रासादराजिकाम् ।। १ ।।

।। स्कंद उवाच ।। ।।

इत्थं कुंभज स व्यासः क्षेत्रे शापं प्रदास्यति ।।

क्षेत्रशापप्रदानाच्च बहिर्यास्यति तत्क्षणात् ।। ।। २ ।।

अतएवाविमुक्तस्य क्षेत्रस्य शुभशंसिनः ।।

भविष्यति शुभं नित्यमन्यथा त्वन्यथैव हि ।। ३ ।।

श्रुत्वाध्यायमिमं पुण्यं व्यासशाप विमोक्षणम् ।।

महादुर्गोपसर्गेभ्यो भयं तस्य न कुत्रचित् ।। २०४ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे व्यासशापविमोक्षणं नाम षण्णवतितमोऽध्यायः ।। ९६ ।। ।। छ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 97

।। अगस्त्य उवाच ।। ।।

एतद्भविष्यं श्रुत्वाहं व्यासस्य शिवनंदन ।।

आश्चर्यभाजनं जातस्तीर्थानि कथयाधुना ।। १ ।।

आनंदकानने यानि यत्र संति षडानन ।।

तानि लिंगस्वरूपाणि समाचक्ष्व ममाग्रतः ।। २ ।।

।। स्कंद उवाच ।। ।।

अयमेव हि वै प्रश्नो देव्यै देवेन भोस्तदा ।।

यादृशः कथितो वच्मि तादृशं शृणु कुंभज ।। ३ ।।

।। देव्युवाच ।। ।।

यानि यानि हि तीर्थानि यत्रयत्र महेश्वर ।।

तानि तानीह मे काश्यां तत्रतत्र वद प्रभो ।। ४ ।।

।। देवदेव उवाच ।। ।।

शृणु देवि विशालाक्षि तीर्थं लिंगमुदाहृतम् ।।

जलाशयेपि तीर्थाख्या जाता मूर्ति परिग्रहात् ।। ।। ५ ।।

मूर्तयो ब्रह्मविष्ण्वर्कशिवविघ्नेश्वरादिकाः ।।

लिंगं शैवमिति ख्यातं यत्रैतत्तीर्थमेव तत् ।।६।।

वाराणस्यां महादेवः प्रथमं तीर्थमुच्यते ।।

तदुत्तरे महाकूपः सारस्वतपदप्रदः ।। ७ ।।

क्षेत्रपूर्वोत्तरेभागे तद्दृष्टं पशुपाशहृत् ।।

तत्पश्चाद्विग्रहवती पूज्या वाराणसी नरैः ।। ८ ।।

सा पूजिता प्रयत्नेन सुखवस्तिप्रदा सदा ।।

महादेवस्य पूर्वेण गोप्रेक्षं लिंगमुत्तमम् ।। ९ ।।

तद्दर्शनाद्भवेत्सम्यग्गोदानजनितं फलम् ।।

गोलोकात्प्रेषिता गावः पूर्वं यच्छंभुना स्वयम् ।। 4.2.97.१० ।।

वाराणसीं समायाता गोप्रेक्षं तत्ततः स्नृतम् ।।

गोप्रेक्षाद्दक्षिणेभागे दधीचीश्वरसंज्ञितम् ।।१ १।।

तद्दर्शनाद्भवेत्पुंसां फलं यज्ञसमुद्भवम् ।।

अत्रीश्वरं तु तत्प्राच्यां मधुकैटभपूजितम् ।। १२ ।।

लिंगं दृष्ट्वा प्रयत्नेन वैष्णवं पदमृच्छति ।।

गोप्रेक्षात्पूर्वदिग्भागे लिंगं वै विज्वरं स्मृतम् ।।१३।।

तस्य संपूजनान्मर्त्यो विज्वरो जायते क्षणात् ।।

प्राच्यां वेदेश्वरस्तस्य चतुर्वेदफलप्रदः ।। १४ ।।

वेदेश्वरादुदीच्यां तु क्षेत्रज्ञश्चादिकेशवः ।।

दृष्टं त्रिभुवनं सर्वं तस्य संदर्शनाद्ध्रुवम् ।। १५ ।।

संगमेश्वरमालोक्य तत्प्राच्याम जायतेनघः ।।

चतुर्मुखेन विधिना तत्पूर्वेण चतुर्मुखम् ।। १६ ।।

प्रयागसंज्ञकम लिंगमर्चितम ब्रह्मलोकदम् ।।

तत्र शांतिकरी गौरी पूजिता शांतिकृद्भवेत् ।। १७ ।।

वरणायास्तटे पूर्वे पूज्यं कुंतीश्वरं नृभिः ।।

तत्पूजनात्प्रजायंते पुत्रा निजकुलोज्ज्वलाः ।। १८।।

कुंतीश्वरादुत्तरतस्तीर्थं वै कापिलो ह्रदः ।।

तत्र वै स्नानमात्रेण वृषभध्वजपूजनात् ।। १९ ।

राजसूयस्य यज्ञस्य फलं त्वविकलं भवेत् ।।

रोरवादिषु ये केचित्पितरः कोटिसंमिताः ।।4.2.97.२०।।

तत्र श्राद्धे कृते पुत्रैः पितृलोकं प्रयांति ते ।।

आनुसूयेश्वरं लिंगं गोप्रेक्षादुत्तरे मुने।। २१ ।।

तद्दर्शनाद्भवेत्स्त्रीणां पातिव्रत्य फलं स्फुटम् ।।

तल्लिंगपूर्वदिग्भागे पूज्यः सिद्धिविनायकः ।।२२।।

यां सिद्धिं यः समीहेत स तामाप्नोति तन्नतेः ।।

हिरण्यकशिपोर्लिंगं गणेशात्पश्चिमे ततः ।।२३।।

हिरण्यकूपस्तत्रास्ति हिरण्याश्वसमृद्धिकृत् ।। २४ ।।

मुंडासुरेश्वरं लिंगं तत्प्रतीच्यां च सिद्धिदम्।।

अभीष्टदं तु नैर्ऋत्यां गोप्रेक्षाद्वृषभेश्वरम् ।। २५ ।।

मुने स्कंदेश्वरं लिंगं महादेवस्य पश्चिमे ।।

तल्लिंगपूजनान्नृणां भवेन्मम सलोकता ।। २६ ।।

तत्पार्श्वतो हि शाखेशो विशाखेशश्च तत्र वै ।।

नैगमेयेश्वरस्तत्र येन्ये नंद्यादयो गणाः ।। २७ ।।

तेषामपि हि लिंगानि तत्र संति सहस्रशः ।।

तद्दर्शनाद्भवेत्पुंसां तत्तद्गणसलोकता ।। २८।।

नंदीश्वरात्प्रतीच्यां च शिलादेशः कुधीहरः ।।

महाबलप्रदस्तत्र हिरण्याक्षेश्वरः शुभः ।। २९ ।।

तद्दक्षिणेट्टहासाख्यं लिंगं सर्वसुखप्रदम् ।।

प्रसन्नवदनेशाख्यं लिंगं तस्योत्तरे शुभम् ।।4.2.97.३० ।।

प्रसन्नवदनस्तिष्ठेद्भक्तस्तद्दर्शनाच्छुभात् ।।

तदुत्तरे प्रसन्नोदं कुंडं नैर्मल्यदं नृणाम् ।। ३१ ।।

प्रतीच्यामट्टहासस्य मित्रावरुणनामनी ।।

लिंगे तल्लोकदे पूज्ये महापातकहारिणी ।। ३२ ।।

नैर्ऋत्यां चाट्टहासस्य वृद्धवासिष्ठसंज्ञकम् ।।

लिंगं तत्पूजनात्पुंसां ज्ञानमुत्पद्यते महत् ।। ३३ ।।

वसिष्ठेश समीपस्थः कृष्णेशो विष्णुलोकदः ।।

तद्याम्यां याज्ञवल्क्येशो ब्रह्मतेजोविवधर्नः ।। ३४ ।।

प्रह्लादेश्वरमभ्यर्च्य तत्पश्चाद्भक्तिवर्धनम् ।।

स्वयंलीनः शिवो यत्र भक्तानुग्रहकाम्यया ।। ३५ ।।

अतः स्वलीनं तत्पूर्वे लिंगं पूज्यं प्रयत्नतः ।।

सदैव ज्ञाननिष्ठानां परमानंदमिच्छताम् ।।

या गतिर्विहिता तेषां स्वलीने सा तनुत्यजाम् ।। ३६ ।।

वैरोचनेश्वरं लिंगं स्वलीनात्पुरतः स्थितम्।।

तदुत्तरे बलीशं च महाबलविवर्धनम् ।। ३७ ।।

तत्रैव लिंगं बाणेशं पूजितं सर्वकामदम् ।।

चंद्रेश्वरस्य पूर्वेण लिंगं विद्येश्वराभिधम् ।। ३८ ।।

सर्वाविद्याः प्रसन्नाः स्युस्तस्य लिंगस्य सेवनात् ।।

तद्दक्षिणे तु वीरेशो महासिद्धि विधायकः ।।३९।।

तत्रैव विकटा देवी सर्वदुःखौघमोचनी ।।

पंचमुद्रं महापीठं तज्ज्ञेयं सर्वसिद्धिदम् ।। 4.2.97.४० ।।

तत्र जप्ता महामंत्राः क्षिप्रं सिध्यंति नान्यथा ।।

तत्पीठे वायुकोणे तु संपूज्यः सगरेश्वरः ।।४१ ।।

तदर्चनादश्वमेधफलं त्वविकलं भवेत् ।।

तदीशाने च वालीशस्तिर्यग्योनि निवारकः ।। ४२ ।।

महापापौघविध्वंसी सुग्रीवेशस्तदुत्तरे ।।

हनूमदीश्वरस्तत्र ब्रह्मचर्यफलप्रदः ।। ४३ ।।

महाबुद्धिप्रदस्तत्र पूज्यो जांबवतीश्वरः ।।

आश्विने येश्वरौ पूज्यौ गंगायाः पश्चिमे तटे ।। ४४ ।।

तदुत्तरे भद्रह्रदो गवां क्षीरेण पूरितः ।।

कपिलानां सहस्रेण सम्यग्दत्तेन यत्फलम् ।। ४५ ।।

तत्फलं लभते मर्त्यः स्नातो भद्रह्रदे ध्रुवम् ।।

पूर्वाभाद्रपदा युक्ता पौर्णमासी यदा भवेत् ।। ४६ ।।

तदा पुण्यतमः कालो वाजिमेधफलप्रदः ।।

ह्रद पश्चिम तीरे तु भद्रेश्वर विलोकनात् ।। ४७ ।।

गोलोकं प्राप्नुयात्तस्मात्पुण्यान्नैवात्र संशयः ।।

भद्रेश्वराद्यातुधान्यामुपशांत शिवो मुने ।। ४८ ।।

तस्य लिंगस्य संस्पर्शात्परा शांतिं समृच्छति ।।

उपशांत शिवं लिंगं दृष्ट्वा जन्मशतार्जितम् ।।४९।।

त्यजेदश्रेयसो राशिं श्रेयोराशिं च विंदति ।।

तदुत्तरे च चक्रेशो योनिचक्र निवारकः ।। 4.2.97.५० ।।

तदुत्तरे चक्रह्रदो महापुण्यविवर्धनः ।।

स्नात्वा चक्रह्रदे मर्त्यश्चक्रेशं परिपूज्य च ।। ५१ ।।

शिवलोकमवाप्नोति भावितेनांतरात्मना ।।

तन्नैर्ऋते च शूलेशो द्रष्टव्यश्च प्रयत्नतः ।। ५२ ।।

शूलं तत्र पुरा न्यस्तं स्नानार्थं वरवर्णिनि ।।

ह्रदस्तत्र समुत्पन्नः शूलेशस्याग्रतो महान् ।। ५३ ।।

स्नानं कृत्वा ह्रदे तत्र दृष्ट्वा शूलेश्वरं विभुम् ।।

रुद्रलोकं नरा यांति त्यक्त्वा संसारगह्वरम् ।।५४।।

तत्पूर्वतो नारदेन तपस्तप्तं महत्तरम्।।

लिंगं च स्थापितं श्रेष्ठं कुंडं चापि शुभं कृतम् ।। ५५ ।।

तत्र कुंडे नरः स्नात्वा दृष्ट्वा वै नारदेश्वरम् ।।

संसाराब्धिमहाघोरं संतरेन्नात्र संजयः ।। ५६ ।।

नारदेश्वर पूर्वेण दृष्ट्वाऽवभ्रातकेश्वरम् ।।

निर्मलां गतिमाप्नोति पापौघं च विमुंचति ।। ५७ ।।

तदग्रे ताम्रकुंडं च तत्र स्नातो न गर्भभाक् ।।

विघ्नहर्ता गणाध्यक्षस्तद्वायव्ये सुविघ्नहृत् ।। ५८ ।।

तत्र विघ्नहरं कुंडं तत्र स्नातो न विघ्नभाक् ।।

अनारकेश्वरं लिंगं तदुदग्दिशि चोत्तमम् ।। ५९ ।।

कुंडं चानारकाख्यं वै तत्र स्नातो न नारकी ।।

वरणायास्तटे रम्ये वरणेशस्तदुत्तरे ।। 4.2.97.६० ।।

तत्र पाशुपतः सिद्धस्त्वक्षपादो महामुने ।।

अनेनैव शरीरेण शाश्वतीं सिद्धिमागतः ।। ६१ ।।

तत्पश्चिमे च शैलेशः परनिर्वाणकामदः ।।

कोटीश्वरं तु तद्याम्यां लिंगं शाश्वतसिद्धिदम् ।। ६२ ।।

कोटितीर्थे ह्रदे स्नात्वा कोटीशं परिपूज्य च ।।

गवां कोटिप्रदानस्य फलमाप्नोति मानवः ।। ६३ ।।

महाश्मशानस्तंभोस्ति कोटीशाद्वह्निदिक्स्थितः ।।

तस्मिन्स्तंभे महारुद्रस्तिष्ठते चोमया सह ।। ६४ ।।

तं स्तंभं समलंकृत्य नरस्तत्पदमाप्नुयात् ।।

तत्रैव तीर्थं परमं कपालेश समीपतः ।।६५।।

कपालमोचनं नाम तत्र स्नातोऽश्वमेधभाक् ।।

ऋणमोचनतीर्थं तु तदुदग्दिशि शोभनम् ।। ६६ ।।

तत्र तीर्थे नरः स्नात्वा मुक्तो भवति चर्णतः ।।

तत्रैवांगारकं तीर्थं कुंडं चांगारनिर्मलम् ।। ६७ ।।

स्नात्वांगारक तीर्थे तु भवेद्भूयो न गर्भभाक् ।।

अंगारवारयुक्तायां चतुर्थ्यां स्नाति यो नरः ।।

व्याधिभिर्नाभि भूयेत न च दुःखी कदाचन ।। ६८ ।।

विश्वकर्मेश्वरं लिंगं ज्ञानदं च तदुत्तरे ।।

महामुंडेश्वरं लिंगं तस्य दक्षिणतः शुभम्।। ६९ ।।

कूपः शुभोद नामापि स्नातव्यं तत्र निश्चितम् ।।

तत्र मुंडमयी माला मया क्षिप्तातिशोभना ।। 4.2.97.७० ।।

महामुंडा ततो देवी समुत्पन्नाघहारिणी ।।

खट्वांगं च धृतं तत्र खट्वांगेशस्ततोभवत् ।। ७१ ।।

निष्पापो जायते मर्त्यः खट्वांगेश विलोकनात् ।।

भुवनेशस्ततो याम्यां कुंडं च भुवनेश्वरम् ।। ७२ ।।

तत्र कुंडे नरः स्नातो भुवने शोभवेन्नरः ।।

तद्याम्यां विमलेशश्च कुंडं च विमलोदकम् ।। ७३ ।।

तत्र स्नात्वा विलोक्येशं विमलो जायते नरः ।।

तत्र पाशुपतः सिद्धस्त्र्यंबको नाम नामतः ।। ७४ ।।

अनेनैव शरीरेण रुद्रलोकमवाप्तवान् ।।

भृगोरायतनं तस्य पश्चिमेऽतीव पुण्यदम् ।। ७२ ।।

विधिपूर्वं तदभ्यर्च्य प्राप्नुयाच्छिवमंदिरम् ।।

शुभेश्वरश्च तद्याम्यां महाशुभफलप्रदः ।। ७६ ।।

तत्र सिद्धः पाशुपतः कपिलर्षिर्महातपाः ।।

तत्रास्ति हि गुहा रम्या कपिलेश्वर संनिधौ ।। ७७ ।।

तां गुहां प्रविशेद्यो वै न स गर्भे विशेत्क्वचित् ।।

तत्र यज्ञोदकूपोस्ति वाजिमेधफलप्रदः ।। ७८ ।।

ओंकार एष एवासावादिवर्णमयात्मकः ।।

मत्स्योदर्युत्तरे कूले नादेशस्त्वहमेव च ।। ७९ ।।

नादेशः परमं ब्रह्म नादेशः परमा गतिः ।।

नादेशः परमं स्थानं दुःखसंसारमोचनम् ।। 4.2.97.८० ।।

कदाचित्तस्य देवस्य दर्शने याति जाह्नवी ।।

मत्स्योदरी सा कथिता स्नानं पुण्यैरवाप्यते ।। ८१ ।।

मत्स्योदरी यदा गंगा पश्चिमे कपिलेश्वरम् ।।

समायाति महादेवि तदा योगः सुदुर्लभः ।। ८२ ।।

उद्दालकेश्वरं लिंगमुदीच्यां कपिलेश्वरात् ।।

तद्दर्शनेन संसिद्धिः परा सर्वैरवाप्यते ।। ८३ ।।

तदुत्तरे बाष्कुलीशं लिंगं सर्वार्थसिद्धिदम् ।।

बाष्कुलीशाद्दक्षिणतो लिंगं वै कौस्तुभेश्वरम् ।। ८४ ।।

तस्यार्चनेन रत्नौघैर्न वियुज्येत कर्हिचित् ।।

शंकुकर्णेश्वरं लिंगं कौस्तुभेश्वरदक्षिणे ।। ।। ८५ ।।

संसेव्य परमं ज्ञानं लभेदद्यापि साधकः ।।

अघोरेशो गुहाद्वारि कूपस्तस्योत्तरे शुभः ।। ८६ ।।

अघोरोद इति ख्यातो वाजिमेधफलप्रदः ।।

गर्गेशो दमनेशश्च तत्र लिंगद्वयं शुभम् ।। ८७ ।।

अनेनैवेह देहेन यत्र तौ सिद्धिमापतुः ।।

तल्लिंगयोः समर्चातः सिद्धिर्भवति वांछिता ।। ८८ ।।

तद्दक्षिणे महाकुंडं रुद्रावास इति स्मृतम् ।।

तत्र रुद्रेशमभ्यर्च्य कोटिरुद्रफलं लभेत् ।। ८९ ।।

चतुर्दशी यदापर्णे रुद्रनक्षत्र संयुता ।।

तदा पुण्यतमः कालस्तस्मिन्कुंडे महाफलः ।। 4.2.97.९० ।।

रुद्रकुंडे नरः स्नात्वा दृष्ट्वा रुद्रेश्वरं विभुम् ।।

यत्रतत्र मृतो वापि रुद्रलोकमवाप्नुयात् ।। ९१ ।।

रुद्रस्य नैर्ऋते भागे लिंगं तत्र महालयम् ।।

तदग्रे पितृकूपोस्ति पितॄणामालयः परः ।।९२।।

तत्र श्राद्धं नरः कृत्वा पिंडान्कूपे परिक्षिपेत् ।।

एकविंशकुलोपेतः श्राद्धकृद्रुद्रलोकभाक् ।। ९३ ।।

तत्र वैतरणी नाम दीर्घिका पश्चिमानना ।।

तस्यां स्नातो नरो देवि नरकं नैव गच्छति ।। ९४ ।।

बृहस्पतीश्वरं लिंगं रुद्रकुंडाच्च पश्चिमे ।।

गुरुपुष्यसमायोगे दृष्ट्वा दिव्यां लभेद्गिरम् ।। ९५ ।।

रुद्रावासाद्दक्षिणतः कामेशं लिंगमुत्तमम् ।।

तद्दक्षिणे महाकुंडं स्नानाच्चिंतित कामदम् ।। ९६ ।।

चैत्रशुक्ल त्रयोदश्यां तत्र यात्रा च कामदा ।।

नलकूबर लिंगं च प्राच्यां कामेश्वराच्छुभम् ।।९७।।

तदग्रे पावनः कूपो धनधान्य समृद्धिदः ।।

नलकूबरपूर्वेण सूर्याचंद्रमसेश्वरौ ।। ९६ ।।

अज्ञानध्वांतपटलीं हरतस्तौ समर्चितौ ।।

तद्दक्षिणेध्वकेशश्च दृष्टो मोहविनाशनः ।। ।।९९।।

तत्र सिद्धीश्वरं लिंगं महासिद्धिसमर्पकम् ।।

तत्रैव मंडलेशश्च मंडलेशपदप्रदः ।। 4.2.97.१०० ।।

कामकुंडस्य पूर्वेण च्यवनेशः समृद्धिदः ।।

तत्रैव सनकेशश्च राजसूयफलप्रदः ।। १ ।।

सनत्कुमार लिंगं च तत्पश्चाद्योगसिद्धिकृत् ।।

तदुत्तरे सनंदेशो महाज्ञान समर्थकः ।।२।।

तद्याम्यामाहुतीशश्च दृष्टो होमफलप्रदः ।।

तद्याम्यां पुण्यजनकं लिंगं पंचशिखेश्वरम् ।। ३ ।।

मार्कंडेय ह्रदस्तस्य पश्चिमे पुण्यवर्धनः ।।

तस्मिन्ह्रदे नरः स्नात्वा किं भूयः परिशोचति ।। ४।।

तत्र स्नानं च दानं च भवेदक्षय पुण्यदम् ।।

तदुत्तरे च कुंडेशः सर्वसिद्धैर्नमस्कृतः ।।५।।

दीक्षां पाशुपतीं लब्ध्वा द्वादशाब्देन यत्फलम् ।।

तत्फलं लभते विप्र मर्त्यः कुंडेश दर्शनात् ।। ।। ६ ।।

मार्कंडेय ह्रदात्पूर्वं शांडिल्येशः सुपुण्यदः ।।

तत्पश्चिमे च चंडेशश्चंडांशु ग्रहणाघहृत् ।। ७ ।।

दक्षिणे च कपालेशात्कुंडं श्रीकंठसंज्ञितम् ।।

तत्र कुंडे नरः स्नात्वा दाता स्याच्छ्रीप्रभावतः ।। ८ ।।

महालक्ष्मीश्वरं लिंगं तस्य कुंडस्य सन्निधौ ।।

महालक्ष्मीं समभ्यर्च्य स्नातस्तत्कुंडवारिषु ।।९।।

चामरासक्तहस्ताभिर्दिव्यस्त्रीभिश्च वीज्यते ।।

यदा मत्स्योदरीं यांति स्वर्गलोकाद्दिवौकसः ।।

तदा तेनैव मार्गेण यांति स्त्रीभिर्वृताः सुखम् ।।4.2.97.११०।।

स्वर्गद्वारमतः ख्यातं तत्स्थानं मुनिसत्तम ।।

तत्कुंड दक्षिणेभागे लिंगं ब्रह्मपदप्रदम् ।। ११ ।।

गायत्रीश्वर सावित्रीश्वरौ पूज्यौ प्रयत्नतः ।।

मत्स्योदर्यास्तटे रम्ये लिंगं सत्यवतीश्वरम् ।।१२।।

तयोः पूर्वेण संपूज्य तपःश्री परिवर्धनम् ।।

उग्रेश्वरं महालिंगं लक्ष्मीशात्पूर्वदिक्स्थितम् ।।१३।।

जातिस्मरो भवेन्मर्त्यस्तल्लिंगस्य समर्चनात् ।।

तद्दक्षिणे चोग्रकुंडं स्नानात्कनखलाधिकम् ।। १४ ।।

करवीरेश्वरं लिंगंतस्य कुंडंस्य पश्चिमे ।।

तस्य दर्शनतः पुंसां जायते रोगसंक्षयः ।। १५ ।।

तद्वाव्ये मरीचीशं कुंडं चाघौघनाशनम् ।।

तत्पश्चाच्चेंद्रकुंडं लिंगं चेंद्रेश्वरं मुने ।। १६ ।।

इंद्रेशाद्दक्षिणेभागे शुभा कर्कोटवापिका ।।

तत्र वापीजले स्नात्वा दृष्ट्वा कर्कोटकेश्वरम् ।। ।। १७ ।।

नागानामाधिपत्यं तु जायते नात्र संशयः ।।

तत्पश्चाद्दृमिचंडेशो ब्रह्महत्याहरो हरः ।। १८।।

तद्दक्षिणे महाकुंडं रुद्रलोकफलप्रदम् ।।

तत्पश्चिमे महालिंगमग्नीश इति विश्रुतम् ।। १९ ।।

आग्नेयं नाम कुंडं च तत्पूर्वेग्निसलोकदम् ।।

आग्नेयेश्वरतः प्राच्यां कुंडं तद्दक्षिणे शुभम्।। 4.2.97.१२० ।।

तत्र कुंडे नरः स्नात्वा स्वर्गे वसति पूर्वजैः ।।

तत्प्राच्यां बालचंद्रेशश्चंद्रलोकगतिप्रदः ।। २१ ।।

परितो बालचंद्रेशं गणलिंगान्यनेकशः ।।

विलोक्य तानि लिंगानि गाणपत्यं पदं लभेत् ।।२२ ।।

बालचंद्र समीपे तु कूपः पितृगणप्रियः ।।

तत्र श्राद्धप्रदः स्नात्वा पितॄन्सप्ताऽत्र तारयेत् ।। २३ ।।

तदंधोः पूर्वतो लिंगं पुण्यं विश्वेश्वराह्वयम्।।

विश्वेश्वरस्य पूर्वेण वृद्धकालेश्वरो हरः ।। २४ ।।

कालोदो नाम कूपोस्ति तदग्रे सर्वरोगहृत् ।।

यैस्तु तत्रोदकं पीतं स्त्रीभिः पुंभिः स्वकर्मभिः ।। २५ ।।

न तेषां परिवर्तोत्र कल्पकोटिशतैरपि ।।

तत्पीत्वा जन्मबंधोत्थाद्भयान्मुच्येत मानवः ।। २६ ।।

तत्र कूपे तु यद्दत्तं दानं शिवरतात्मनाम् ।।

संवर्तेपि न तस्यास्ति नाशः कलशसंभव ।।२७।।

खंडस्फुटितसंस्कारं तत्र कुर्वंति ये नराः ।।

ते रुद्रलोकमासाद्य मोदंते सुखिनः सदा ।। २८ ।।

कालेशाद्दक्षिणे भागे मृत्य्वीशस्त्वपमृत्युहृत् ।।

लिंगं दक्षेश्वराह्वं च ततः कूपादुदग्दिशि ।। २९ ।।

अपराधसहस्रं तु नश्येत्तस्य समर्चनात् ।। 4.2.97.१३० ।।

महाकालेश लिंगं च दक्षेशात्पूर्वतो महत् ।।

महाकुंडे नरः स्नात्वा महाकालं तु योर्चयेत् ।।३१।।

अर्चितं तेन वै तत्र जगदेतच्चराचरम् ।।

अंतकेश्वरमालोक्य तद्याम्यां नांतकस्य भीः ।। ३२ ।।

हस्तिपालेश्वरं लिंगं तस्य दक्षिणतो मुने।।

तस्य पूजनतो याति पुण्यं वै हस्तिदानजम् ।। ३३ ।।

तत्रैरावतकुंडं च लिंगमैरावतेश्वरम् ।।

तल्लिंगमर्चयन्मर्त्यो धनधान्यसमृद्धिभाक् ।। ३४ ।।

तद्दक्षिणे श्रेयसे च लिंगं स्यान्मालतीश्वरम् ।।

हस्तीश्वरादुत्तरे तु जयंतेशो जयप्रदः ।। ३५ ।।

बंदीश्वरो महाकाल कुंडादुत्तरतः शुभः ।।

बंदिकुंडं च विख्यातं वाराणस्यां महाघहृत्।। ३६।।

तत्र स्नानेन दानेन श्राद्धेनाक्षयमश्नुते ।।

धन्वंतरीश्वरं लिंगं कुंडं तन्नाम चैव हि ।। ३७ ।।

तस्य लिंगस्य नामान्यत्कुंडनामान्यदेव हि ।।

तुंगेश्वरं लिंग नाम कुंडं वैद्येश्वराभिधम् ।। ३८ ।।

सुधामय्यो महौषध्यः क्षिप्तास्तत्र महाधियः ।।

तत्कुंडस्नानतस्तस्मात्तल्लिंग परिवीक्षणात् ।।

नश्यंति व्याधयः सर्वे सह पापैः सुदारुणैः ।। ३९ ।।

तदुत्तरे हलीशेशः सर्वव्याधिनिपूदनः ।।

शिवेश्वरः शिवकरस्तुंगनाम्नश्च दक्षिणे ।। 4.2.97.१४० ।।

जमदग्नीश्वरं लिंगं शिवेशाद्दक्षिणे शुभम् ।।

तत्पश्चिमे भैरवेशः कूपस्तस्योत्तरे शुभः ।।४१ ।।

तदुदस्पर्शमात्रेण सर्वयज्ञफलं लभेत् ।।

तत्कूपपश्चिमे भागे सुकेशो योगसिद्धिदः ।। ४२ ।।

तन्नैर्ऋत्यां च व्यासेशः कूपश्च विमलोदकः ।।

व्यासकूपे नरः स्नात्वा तर्पयित्वा सुरान्पितॄन् ।। ४३ ।।

अक्षयं लभते लोकं यत्रकुत्राभिकांक्षितम् ।।

व्यासतीर्थात्पश्चिमतो घंटाकर्णो ह्रदो महान् ।। ४४ ।।

घंटाकर्णह्रदे स्नात्वा व्यासंश परिदर्शनात् ।।

यत्रतत्र मृतो वापि वाराणस्यां मृतो भवेत् ।। ४५ ।।

घंटाकर्ण समीपे तु पंचचूडाप्सरः सरः ।।

पंचचूडाजले स्नात्वा दृष्ट्वा देवं तमीश्वरम् ।। ४६।।

स्वर्गलोकं नरो याति पंचचूडाप्रियो भवेत् ।।

गौरीकूपस्ततोवाच्यां सर्वजाड्यविनाशनः ।। ४७ ।।

पंचचूडोत्तरे भागे तीर्थं चाशोकसंज्ञितम्।।

मंदाकिनी महातीर्थं तदुदीच्यां महाघहृत् ।। ४८ ।।

स्वर्गलोकेपि सा पुण्या किं पुनर्मानवे मुने ।।

तदुत्तरे मध्यमेशो मध्ये क्षेत्रं स्वपित्यहो ।।४९।।

तत्र जागरणं कृत्वाऽशोकाष्टम्यां मधौ नरः ।।

न जातु शोकं लभते सदानंदमयो भवेत्।।4.2.97.१५०।।

मुक्तिक्षेत्रप्रमाणं च क्रोशं क्रोशं च सर्वतः।।

आरभ्य लिंगादस्माच्च पुण्यदान्मध्यमेश्वरात् ।।५१।।

एतदेव सदा प्राहुः सर्वे वै प्रपितामहाः ।।

कश्चिदस्मत्कुले जातो मंदाकिन्या जलाप्लुतः ।।५२।।

भोजयेत्प्रयतो विप्रान्यतीन्पाशुपतानपि ।।

मदाकिन्यां नरः स्नात्वा दृष्ट्वा वै मध्यमेश्वरम् ।। ५३ ।।

एकविंशत्कुलोपेतो रुद्रलोके वसेच्चिरम् ।।

मध्यमेशादवाच्यां च विश्वेदेवेश्वरः शुभः ।।५४।।

तदर्चनादर्चिताः स्युर्विश्वेदेवास्त्रयोदश ।।

तत्पूर्वे वीरभद्रेशो महावीरपदप्रदः ।।५५।।

भद्रदा भद्र्काली च तस्य दक्षिणतः शुभा ।।

भद्राकाल ह्रदो नाम तत्रातीव शुभप्रदः ।।५६।।

आपस्तंबेश्वरं लिंगं तत्प्राच्यां ज्ञानदं परम् ।।

तदुत्तरे पुण्यकूपस्तत्पश्चाच्छौनको ह्रदः ।। ५७ ।।

ह्रदपश्चिमतो लिंगं शौनकेशं सुधीप्रदम् ।।

ह्रदे तत्र नरः स्नात्वा दृष्ट्वा वै शौनकेश्वरम् ।। ५८ ।।

ज्ञानं तत्संलभेद्दिव्यं येन मृत्युं तरत्यसौ ।।

तद्दक्षिणे जंबुकेशस्तिर्यग्योनि निवारकः ।।५९।।

तदुत्तरे मतंगेशो गानविद्याप्रबोधकः ।।

मतंगेशस्य वायव्ये नानालिंगानि सर्वतः ।।4.2.97.१६०।।

मुनिभिः स्थापितानीह सर्वसिद्धिप्रदानि च ।।

ब्रह्मरातेश्वरं लिंगं मतंगेशाच्च दक्षिणे ।।६१।।

तल्लिंगदर्शनादायुर्नांतराच्छिद्यते क्वचित् ।।

तत्राज्यपेश्वरं लिंगं पितृलिंगान्यनेकशः ।।

तल्लिंगसेवया सर्वे तुष्यंति प्रपितामहाः ।। ६२ ।।

तद्दक्षिणे सिद्धकूपः सिद्धाः संति सहस्रशः।।

वायुरूपास्तु ये सिद्धा ये सिद्धा भानुरश्मिगाः ।। ६३ ।।

तैः स्थापितं तु यल्लिंगं तत्सिद्धेश्वरमीरितम् ।।

तस्य संदर्शनादेव सर्वाः स्युः सिद्धयोऽमलाः ।। ६४ ।।

तत्पश्चिमे सिद्धवापी पीता स्नाता च सिद्धिदा ।।

प्राच्यां च सिद्धकूपाद्वै लिंगं व्याघ्रेश्वराभिधम् ।। ६५ ।।

तल्लिंगदर्शनान्नृणां न भयं व्याघ्रचोरजम् ।।

ज्येष्ठेश्वरं च तद्याम्यां ज्येष्ठस्थानेति सिद्धिदम् ।।६६।।

तद्दक्षिणे मुदां धाम लिंगं प्रहसितेश्वरम् ।।

तदुत्तरे निवासेश काशीवासफलप्रदः ।। ६७ ।।

चतुःसमुद्रकूपोस्ति तत्राब्धिस्नान पुण्यदः ।।

ज्येष्ठा देवी तु तत्रास्ति नता ज्येष्ठपदप्रदा ।। ६८ ।।

अवाच्यां व्याघ्रलिंगाच्च लिंगं चंडीश्वराभिधम् ।।

तदुत्तरे दंडखातं सरः पितृमुदावहम् ।। ६९ ।।

ग्रहणानंतरे स्नानं दंडखातेति पुण्यदम् ।।

जैगीषव्य गुहा तत्र तत्र लिंगं तदाह्वयम्।।4.2.97.१७०।।

त्रिरात्रोपोषितस्तत्र ज्ञानं लभ्येत निर्मलम् ।।

महापुण्यप्रदं लिंगं तत्पश्चाद्देवलेश्वरम् ।। ७१ ।।

शतकालस्तत्समीपे शतं कालानुमापतिः ।।

तल्लिंगाविर्भवे काश्यां कालयामास कुंभज ।। ७२ ।।

तल्लिंगदशर्नादायुः शतवर्षाण्यखंडितम् ।।

शातातपेशस्तद्याम्यां महाजपफलप्रदः ।। ७३ ।।

तत्पश्चिमे हेतुकेशो हेतुभूतो महाफले ।।

तद्दक्षिणेक्षपादेशो महाज्ञानप्रर्वतकः ।। ७४ ।।

तदग्रे च कणादेशस्तत्र पुण्योदकः प्रहिः ।।

स्नात्वा काणादकूपे यः कणादेशं समर्चयेत् ।। ७५।।

न धनेन न धान्येन त्यज्यते स कदाचन ।।

तस्य दक्षिणतो दृश्यो भूतीशो भूतिकृत्सताम् ।।७६।।

तत्पश्चिमेऽघसंहर्तृ आषाढीश्वर संज्ञितम् ।।

दुर्वासेशश्च तत्पूर्वे सर्वकामसमृद्धिकृत् ।।७७ ।।

तद्याम्यां भारभूतेशः पापभारापहारकः ।।

व्यासेश्वरस्य पूर्वेण द्वौ शंखलिखितेश्वरौ ।।

तौ दृश्यौ यत्नतः काश्यां महाज्ञान प्रवर्तकौ ।। ७८।।

यत्समाप्याप्यते पुण्यं निष्ठा पाशुपतव्रतम् ।।

तदाप्यतेत्र विश्वेश सकृदीक्षणतः क्षणात् ।।७९।।

तदीशानेवधूतेशो योगज्ञानप्रवर्तकः ।।

तीर्थं चैवावधूतेशं सर्वकल्मषनाशकृत् ।।4.2.97.१८०।।

अवधूतेश्वरात्पूर्वे लिंगं पशुपतीश्वरम् ।।

तल्लिंगसेवया पुंसां पशुपाशविमोक्षणम् ।।८१।।

तद्दक्षिणे गोभिलेशो महाभिलषितप्रदः।

जीमूतवाहनेशश्च तत्पश्चाल्लिंगमुत्तमम् ।। ८२ ।।

विद्याधरपदप्राप्तिस्तल्लिंगपरिसेवनात्।।

मयूखार्कः पंचनदे गभस्तीशश्च तत्र वै ।। ८३ ।।

दधिकल्पह्रदो नाम तदुदीच्यां महाप्रहिः ।।

दुर्लभं तत्प्रहिस्नानं दुर्लभं च तदीक्षणम् ।। ८४ ।।

गभस्तीशोत्तरे भागे दधिकल्पेश्वरो हरः ।।

नरस्तमाशु संवीक्ष्य कल्पं त्र्यक्षपुरे वसेत् ।। ८५ ।।

गभस्तीशाद्दक्षिणे तु मंगलां मंगलालयाम् ।।

उद्दिश्य मंगलां गौरीं भोजयेद्द्विजदंपती ।। ८६ ।।

अलंकृत्य यथाशक्ति तत्पुण्यांतो न कर्हिचित् ।।

क्षितिप्रदक्षिणफला मंगलैका प्रदक्षिणा ।। ८७ ।।

वदनप्रेक्षणादेवी मुखप्रेक्षेश्वरोत्तरे ।।

मंगलायाः समीपे तु सर्वसिद्धिकरी शिवा ।। ८८ ।।

लिंगे त्वष्ट्रीशवृत्तेशौ मुखप्रेक्षोत्तरे शुभे ।।

सहेमभूमिदानस्य फलं दर्शनतस्तयोः ।।८९।।

तदुत्तरे चर्चिकाया देव्याः संदर्शनं शुभम् ।।

रेवतेश्वर लिंगं च चर्चिकाग्रेण शांतिकृत् ।। 4.2.97.१९० ।।

महाशुभायतस्याग्रे लिंगं पंचनदेश्वरम् ।।

मंगलोदो महाकूपो मंगला पश्चिमे शुभः ।। ९१ ।।

उपमन्योर्महालिंगं मंगला पश्चिमे शुभम् ।।

व्याघ्रपादेश्वरं लिंगं तत्पश्चाद्व्याघ्रभीतिहृत् ।। ९२ ।।

नैर्ऋत्यां च गभस्तीशाच्छशांकेशोघसंघहृत् ।।

तत्पश्चिमे चैत्ररथं लिंगं दिव्यगतिप्रदम् ।। ९३ ।।

रेवतेशात्पश्चिमतो जैमिनीशो महाघहृत् ।।

तत्र लिंगान्यनेकानि ऋषीणामृषिसत्तम ।। ९४ ।।

जैमिनीशाच्च वायव्ये लिंगं वै रावणेश्वरम् ।।

न तद्दशर्नतः पुंसां राक्षसानां महाभयम् ।। ९५ ।।

तद्दक्षिणे वराहेशो मांडव्येशस्ततो यमे ।।

तद्दक्षिणे प्रचंडेशो योगेशो दक्षिणे ततः ।। ९६ ।।

तद्दक्षिणे च धातेशः सोमेशश्च तदग्रतः ।।

तन्नैर्ऋत्यां कनकेशो महाकनकदः सताम् ।। ९७ ।।

तदुत्तरे पांडवानां पंचलिंगानि सन्मुदे ।।

संवर्तेशस्तदग्रे च श्वेतेशस्तस्य पश्चिमे ।। ९८ ।।

तत्पश्चात्कलशेशश्च लिंगं कालाभयप्रदम् ।।

कालेन पाशिते श्वेते मुने कुंभात्समुत्थितम् ।।९९।।

चित्रगुप्तेश्वरं लिंगं तदुदीच्यामघापहम् ।।

चित्रगुप्तेश्वरात्पश्चाद्यो दृढेशो महाफलः ।। 4.2.97.२०० ।।

कलशेशादवाच्यां च ग्रहेशो लिंगमुत्तमम् ।।

ग्रहबाधां शमयति तल्लिंग परिलोकनम् ।। १ ।।

चित्रगुप्तेश्वरात्पश्चाद्यदृच्छेशो महाफलः ।।

उतथ्यवामदेवेशं लिंगं याम्यां ग्रहेश्वरात् ।।२।।

कंबलाश्वतरेशौ च तस्य दक्षिणतः शुभे ।।

तत्रैव निर्मलं लिंगं नलकूबरपूजितम् ।। ३ ।।

तद्याम्यां मणिकर्णीशं तदुदक्पलितेश्वरम् ।।

जराहरं च तत्रैव तत्पश्चात्पापनाशनम् ।।४।।

तत्पश्चिमे निर्जरेशस्तन्नैर्ऋत्यां पितामहः ।।

पितामहस्रोतिका च तत्र श्राद्धं महाफलम् ।।५।।

तद्याम्यां वरुणेशश्च बाणेशस्तस्य दक्षिणे।

पितामहस्रोतिकायां कूश्मांडेशस्तु सिद्धिकृत् ।। ६ ।।

तत्पूर्वतो राक्षसेशो गंगेशस्तस्य दक्षिणे ।।

तदुत्तरे निम्नगेशाः संति लिंगान्यनेकशः ।। ७ ।।

वैवस्वतेश्वरस्तत्र यमलोकनिवारकः ।।

तत्पश्चाददितीशश्च चक्रेशस्तस्य चाग्रतः ।। ८ ।।

तदग्रे कालकेशाख्यो दृष्टप्रत्ययकृत्परः ।।

छाया संदृश्यते तत्र निष्पापस्तदवेक्षणात् ।। ९ ।।

तदग्रे तारकेशश्च तदग्रे स्वर्णभारदः।।

तदुत्तरे मरुत्तेशः शक्रेशश्च तदग्रतः ।। 4.2.97.२१० ।।

तद्दक्षिणे च रंभेशस्तत्रैव च शशीश्वरः ।।

तदुत्तरे लोकपेशास्तत्र लिंगान्यनेकशः ।। ११ ।।

नागगंधर्वयक्षाणां किन्नराप्सरसामपि ।।

देवर्षिगणवृदानां नानासिद्धिकराण्यपि ।। १२ ।।

शक्रेशाद्दक्षिणे भागे फाल्गुनेशो महाघहृत् ।।

महापाशुपतेशश्च तद्याम्यां शुभकृत्परः ।। १३ ।।

तत्पश्चिमे समुद्रेश ईशानेशस्तदुत्तरे।।

तत्पूर्वे लांगलीशश्च सर्वसिद्धिसमर्पकः ।। १४ ।।

रागद्वेषविनिर्मुक्ताः सिद्धिं यांति च पूजकाः ।।

तेषां मोक्षो मया ख्यातो न तु ते देवि मानवाः ।। १५ ।।

मधुपिंगश्वेतकेतू लांगलीशे तपस्विनौ ।।

अनेनैव शरीरेण जग्मतुः सिद्धिमुत्तमाम् ।। १६ ।।

तत्रैव नकुलीशश्च कपिलेशश्च तत्र वै।।

रहस्यं परमं चोभौ मम व्रत निषेविणौ।। १७ ।।

तत्सन्निधौ प्रीतिकेशस्तत्र प्रीतिर्मम प्रिये ।।

तत्रोपवासादेकस्मात्फलमब्दशताधिकम् ।। १८ ।।

एकं जागरणं कृत्वा प्रीतिकेश उपोषितः ।।

गणत्वपदवी तस्य निश्चिता मम पर्वणि ।। १९ ।।

देवस्य दक्षिणे भागे तत्र वापी शुभोदका ।।

तदंबुप्राशनं नृणामपुनर्भवहेतवे ।। 4.2.97.२२० ।।

तज्जलात्पश्चिमे भागे दंडपाणिः सदावति ।।

तत्प्राच्यवाच्युत्तरस्यां तारः कालः शिलादजः।।२१।।

लिंगत्रयं हृदब्जेयच्छ्रद्धयापी तमर्पयेत् ।।

यैस्तत्र तज्जलं पीतं कृतार्थास्ते नरोत्तमाः ।।२२।।

अविमुक्तसमीपेच्यों मोक्षेशो मोक्षबुद्धिदः ।।

करुणेशो दयाधाम तदुदीच्यां समर्चयेत् ।।२३।।

स्वर्णाक्षेशस्तु तत्प्राच्यां ज्ञानदस्तस्य चोत्तरे ।।

सौभाग्यगौरी संपूज्या बहुसौभाग्यसंपदे ।।२४।।

विश्वेशाद्दक्षिणेभागे निकुंभेशः प्रयत्नतः ।।

क्षेत्रक्षेमकरः पूज्यस्तत्पश्चाद्विघ्ननायकः ।। २५ ।।

सर्वविघ्नच्छिदभ्यर्च्यश्चतुर्थ्यां तु विशेषतः ।।

विरूपाक्षो निकुंभेशाद्वह्नौ पूज्यः सुसिद्धिदः ।। २६ ।।

तद्दक्षिणे च शुक्रेशः पुत्रपौत्रप्रवर्धनः ।।

तदुदीच्यां महालिंगं देवयानीश्वराभिधम्।। २७ ।।

शुक्रेशादग्रतः पूज्यः कचेश इति संज्ञितः ।।

शुक्रकूपमुपस्पृश्य हयमेधफलं लभेत् ।। २८ ।।

भवानीशौ नमस्यौ च शुक्रेशात्पश्चिमे शुभौ ।।

भक्तपोतप्रदौ तौ तु निजभक्तस्य सर्वदा ।। २९ ।।

अलर्केशः समभ्यर्च्यः शुक्रेशात्पूर्वदिक्स्थितः ।।

मदालसेश्वरस्तत्र तत्पूर्वे सर्वविघ्नहृत् ।। 4.2.97.२३० ।।

गणेश्वरेश्वरं लिंगं सर्वसिद्धिकरं परम् ।।

हत्वा लंकेश्वरं विप्र रघुणाथ प्रतिष्ठितम् ।।३१।।

तल्लिंगस्पर्शनादाशु ब्रह्महापि विशुध्यति ।।

महापुण्यप्रदं चान्यत्तत्रार्च्यं त्रिपुरांतकम् ।। ३२ ।।

दत्तात्रेयेश्वरं लिंगं तस्य पश्चिमतः शुभम् ।।

तद्याम्यां हरिकेशेशो गोकर्णेशस्ततः परम् ।। ३३ ।।

सरस्तदग्रे पापघ्नं तत्पश्चाच्च ध्रुवेश्वरः ।।

तदग्रे धुवकुंडं च पितृप्रीतिकरं परम् ।। ३४ ।।

तदुत्तरपिशाचेशः पैशाच्य पदहारकः ।।

पित्रीशस्तद्यमदिशि पितृकुंडं तदग्रतः ।। ३५ ।।

तत्र श्राद्धकृतां पुंसां तुष्येयुः प्रपितामहाः।।

अग्रे ध्रुवेशात्तारेशो वैद्यनाथः स एव हि ।। ३६ ।।

तन्नैर्ऋत्यां मनोलिंगं वंशवृद्धिकरं परम् ।।

प्रियव्रतेश्वरं लिंगं वैद्यनाथपुरोगतम्।। ३७ ।।

तद्याम्यां मुचुकुंदेशस्तत्पार्श्वे गौतमेश्वरः ।।

तत्पश्चिमेन भद्रेश्तद्याम्यामृष्यशृंगिणः ।। ३८ ।।

ब्रह्मेशस्तत्पुरस्ताच्च पर्जन्येशस्तदीशगः ।।

तत्प्राच्यां नहुषेशश्च विशालाक्षी च तत्पुरः ।। ३९ ।।

विशालाक्षीश्वरं लिंगं तत्रैव क्षेत्रवस्तिदम् ।।

जरासंधेश्वरं लिंगं तद्याम्यां ज्वरनाशनम् ।। 4.2.97.२४० ।।

तत्पुरस्ताद्धिरण्याक्षलिंगं पूज्यं हिरण्यदम् ।।

तत्पश्चिमे गयाधीशस्तत्प्रतीच्यां भगीरथः ।। ४१ ।।

तदग्रे च दिलीपेशो ब्रह्मेशात्पश्चिमे मुने ।।

तत्र लिंगं सकुंडं च स्नातुरिष्टफलप्रदम् ।। ४२ ।।

तत्र विश्वावसोर्लिंगं मुंडेशस्तत्र पूर्वतः ।।

तद्दक्षिणे विधीशश्च तद्याम्यां वाजिमेधकः ।।४३ ।।

दशाश्वमेधिके स्नात्वा दृष्ट्वा तल्लिंगमुत्तमम् ।।

दशानामश्वमेधानां फलं प्राप्नोति मानवः ।। ४४ ।।

तदुत्तरे मातृतीर्थं स्नातुर्जन्मभयापहृत् ।।

तत्र स्नानं तु यकुर्यान्नारी वा पुरुषोपि वा ।। ४५ ।।

ईप्सितं फलमाप्नोति मातृणां च प्रसादतः ।।

दक्षिणे तव कुंडाच्च पुष्पदंतेश्वरः परः ।। ४६ ।।

तदग्निदिशि देवर्षि गण लिंगान्यनेकशः ।।

पुष्पदंताद्दक्षिणतः सिद्धीशः परसिद्धिदः ।। ४७ ।।

पंचोपचारपूजातः स्वप्ने सिद्धिं परां दिशेत् ।।

राज्यप्राप्तिर्भवेत्पुंसां हरिश्चंद्रेशसेवया ।। ४८ ।।

तत्पश्चिमे नैर्ऋतेशोंगिरसेशस्ततो यमे ।।

तद्दक्षिणे च क्षेमेशश्चित्रांगेशस्ततो यमे ।। ४९ ।।

तद्दक्षिणे च केदारो रुद्रानुचरताप्रदः ।।

चंद्रसूर्यान्वयैर्भूपैः केदाराद्दक्षिणापथे ।। 4.2.97.२५० ।।

प्रतिष्ठितानि लिंगानि शतशोथ सहस्रशः ।।

लोलार्काद्दक्षिणाशायां सर्वाशापूरकोर्चितः ।। ५१ ।।

करंधमेश्वरं लिंगं तत्प्रतीच्यां महाफलम् ।।

तत्पश्चिमे महादुर्गा महादुर्गप्रभंजनी ।। ५२ ।।

शुष्केश्वरं च तद्याम्यां शुष्कया सरितार्चितम् ।।

जनकेशस्तत्प्रतीच्यां शंकुकर्णस्तदुत्तरे ।। ५३ ।।

महासिद्धीश्वरं लिंगं तत्प्राच्यां सर्वसिद्धिदम् ।।

सिद्धकुंडे नरः स्नात्वा दृष्ट्वा सिद्धेश्वरं महत् ।। ५४ ।।

सर्वासामेव सिद्धीनां पारं गच्छति मानवः ।।

शंकुकर्णेश वायव्ये लिंगं वाडव्यसंज्ञितम् ।। ५५ ।।

तदग्रे च विभांडेशः कहोलेशस्तदुत्तरे ।।

तत्र द्वारेश्वरं लिंगं देवी द्वारेश्वरी शुभा ।। ५६ ।।

तत्पूजनाद्भवेत्सिद्धिरानंदारण्य वस्तिदा ।।

रक्षकाश्च गणास्तत्र नानारूपायुधा मुने ।। ५७ ।।

तत्रैव हरिदीशं च लिंगं कात्यायनं ततः ।।

तत्पार्श्वे जांगलेशश्च तत्पश्चान्मुकुटेश्वरः ।। ५८ ।।

तत्रैव कुंडं विमलं सर्वयात्राफलप्रदम् ।।

स्नात्वा मुकुटकुंडे च दृष्ट्वा वै मुकुटेश्वरम् ।। ५९ ।।

यात्रया सर्व लिंगानां यत्फलं तदवाप्यते ।।

तपसश्चापि योगस्य सिद्धिदा साऽवनीपरा ।।4.2.97.२६०।।

मुने शतं सहस्राणि तत्र लिंगानि सिद्धये ।।

एका दिगुत्तरा देवि वाराणस्यां प्रिया मम ।। ६१ ।।

तत्रापि पंचायतने रतिर्मे नितरां प्रिये ।।

उत्पत्तिस्थिति कालेपि तत्राहं सर्वदा स्थितः ।। ६२ ।।

एवं यस्तु विजानाति न स पापैः प्रलिप्यते ।।

सत्यं सत्यं पुनः सत्यं त्रिसत्यं नान्यतः प्रिये ।। ६३ ।।

शीघ्रं तत्रैव गंतव्यं यदीच्छेन्मामकं पदम् ।।

उद्देशमात्रं लिगानि कथितानि मया मुने ।। ६४ ।।

द्विस्त्रिः कृत्वः स्थापितानि भक्त्या लिंगानि कानिचित् ।।

न तानि पुनरुक्तानि श्रद्धयार्च्यानि सर्वतः ।। ६५ ।।

एतानि यानि लिंगानि यानि कुंडानि येंऽधवः ।।

या वाप्यस्तानि सर्वाणि श्रद्धेयानि मनीषिभिः ।।६६।।

एतेषां दर्शनात्स्नानात्फलमत्रोत्तरोत्तरम्।।

अत्रत्यानां च लिंगानां कूपानां सरसामपि ।।६७।।

वापीनां चापि मूर्तीनां कः संख्यातुं प्रभुर्भवेत् ।।

आनंदकाननस्थानि तृणान्यपि परं वरम् ।।६८।।

दिवौकसोपि नान्यत्र यत्पुनर्जन्मभाजनम्।।

सर्वलिंगमयी काशी सर्वतीर्थेकजन्मभूः ।।६९।।

स्वर्गापवर्गयोर्दात्री दृष्टा देहांतसेविता ।।

मम प्रियतमा देवि त्वमेव तपसो बलात् ।। 4.2.97.२७० ।।

स्वभावतस्त्वियं काशी सुखविश्रामभूर्मम ।।

ये काश्यानाम गृह्णंति येनुमोदंत एव हि ।। ७१ ।।

ते मे शाखविशाखाभाः स्कंदनंदिगजास्यवत् ।।

त एव भक्ता मे देवि त एव मम सेवकाः ।।७२।।

मुमुक्षवस्त एवात्र येचानंदवनौकसः ।।

तपस्तप्तं महत्तैस्तु कृतं तैस्तु महाव्रतम्।। ७३ ।।

तैश्च दत्तं महादानं ये चानंदवनौकसः ।।

ते स्नातसर्वतीर्था वै तेखिलाध्वरदीक्षिताः ।। ७४ ।।

ते चीर्णसर्वधर्माहि ये चानंदवनौकसः ।।

सुरासुरोरगनरा भूमिभारायतेऽखिलाः ।।

वयस्यपीह चरमे येनानंदवनौकसः ।। ७५ ।।

अंत्यजोपि वरः काश्यां नान्यत्र श्रुतिपारगः ।।

संसारपारगः पूर्वस्त्वंत्यश्चांत्यजतोप्यधः ।। ७६ ।।

स एव नूनं सर्वज्ञः स एव ह्यधिकेक्षणः ।।

यः पार्थिवीं तनुं हित्वा काश्यां धत्ते सुधामयीम् ।।७७।।

श्रुत्वाध्यायमिदं पुण्यं सर्वतीर्थरहस्यवत् ।।

काशीदर्शनजं पुण्यं प्राप्नोति नियतं नरः।।७८।।

यः पठेदिममध्यायं प्रातः प्रातर्दिनेदिने ।।

दृष्टानि तेन सर्वाणि तीर्थान्येतानि नान्यथा ।। ७९ ।।

सर्वलिंगमयाध्यायं योऽमुं नित्यं जपेत्सुधीः ।।

न तं यमो न तं दूता नैनमंहोपि बाधते ।। 4.2.97.२८० ।।

ब्रह्मयज्ञफलं तस्य जायते सुकृतात्मनः ।।

यो जपेदमुमध्यायं शुचिस्तद्गतमानसः ।। ८१ ।।

स स्नातः सर्वकुंडेषु सर्ववाप्यंबुपः स च ।।

सर्वलिंगार्चकः सोत्र योऽमुमध्यायमाजपेत्।।८२।।

किमन्यैर्बहुभिः स्तोत्रैरतिस्तोकफलप्रदैः ।।

मत्प्रेमवद्भिरध्यायो जप्तव्योयं महाफल।।८३।।

महादानेषु दत्तेषु यत्फलं प्राप्यतेऽत्र वै ।।

सकृज्जपान्महाध्यायादमुष्मात्तत्समाप्यते ।। ८४ ।।

स्नात्वा सर्वाणि तीर्थानि दृष्ट्वा लिंगान्यनेकशः ।।

यत्फलं लभ्यते मर्त्यैस्तदेतज्जपनाद्ध्रुवम् ।। ८५ ।।

इदमेव तपोत्युग्रमयमेव जपो महान् ।।

काशीलिंगावली नामाध्यायो जप्येत यन्मुने ।। ८६ ।।

मम द्रुहे नास्तिकाय वेदनिंदारताय च।।

न दातव्यो न दातव्यो न दातव्यो जपस्त्वयम् ।। ८७ ।।

अध्यायस्यास्य जपनात्पापं ब्रह्मवधोद्भवम् ।।

अगम्यागमनं चापि तथाभक्षस्यभक्षणम् ।। ८८ ।।

गुरुदाराभिचारोत्थं हेमस्तेयसमुद्भवम् ।।

मातापितृवधाज्जातं गोभ्रूणहननोद्भवम् ।। ८९ ।।

महापापानि पापानि ज्ञाताज्ञातानि भूरिशः ।।

उपपापानि पापानि मनोवाक्कायजान्यपि ।। 4.2.97.२९० ।।

विलयं यांत्यशेषाणि निःसंदेहं ममाज्ञया ।।

पुत्रान्पौत्रान्धनं धान्यं कलत्रं क्षेत्रमेव च।।९१।।

मनःसमीहितं सर्वं स्वर्गं मोक्षसुखान्यपि ।।

जप्त्वाध्यायमिमं विद्वान्प्राप्स्यत्येव न संशयः।।९२।।

इति यावत्समाख्याति देवो देवीपुरः कथाम् ।।

तावन्नंदीसमागत्य प्रणम्येति व्यजिज्ञपत्।। ९३ ।।

जाता परिसमाप्तिश्च महाप्रासादनिर्मितेः ।।

सज्जीकृतो रथश्चायं ब्रह्माद्या मिलिताः सुराः ।। ९४ ।।

तार्क्ष्यगः पुंडरीकाक्षो द्वारि तिष्ठति सानुगः ।।

प्रतीक्षमाणोऽवसरं पुरस्कृत्य मुनीश्वरान्।। ९५ ।।

चतुर्दशसु लोकेषु ये ये तिष्ठंति सुव्रताः ।।

ते निशम्याद्यमिलिताः प्रावेशिक महोत्सवम् ।। ९६ ।।

।। स्कंद उवाच ।। ।।

इति नंदिवचः श्रुत्वा देवो देवी समायुतः ।।

दिव्यं रथं समारुह्य निर्जगाम त्रिविष्टपात् ।। २९७ ।। ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे क्षेत्रतीर्थवर्णनं नाम सप्तनवतितमोऽध्यायः ।। ९७।।

खण्डः ४ (काशीखण्डः) — Adhyāya 98

।। व्यास उवाच।। ।।

शृणु सूत महाभाग यथा स्कंदेन भाषितः।।

महामहोत्सवः शंभोः पृच्छते कुंभसंभवे ।। १ ।।

।। स्कंद उवाच ।। ।।

निशामय महाप्राज्ञ शंभु प्रावेशिकीं कथाम् ।।

त्रैलोक्यानंदजननीं महापातकतंकिनीम् ।। २ ।।

मंदरादागतः शंभुश्चैत्रे दमनपर्वणि ।।

प्राप्याप्यानंदगहनमितश्चेतश्चचार ह ।। ३ ।।

मोक्षलक्ष्मीविलासेथ प्रासादे सिद्धिमागते ।।

देवो विरजसः पीठादंतर्गेहं विवेश ह ।। ४ ।।

ऊर्जशुक्लप्रतिपदि बुधराधासमायुजि ।।

चंद्रे सप्तमराशिस्थे शेषेषूच्चग्रहेषु च ।। ५ ।।

वाद्यमानेषु वाद्येषु प्रसन्नासु हरित्सु च ।।

ब्राह्मणानां श्रुतिरव न्यक्कृतान्यरवांतरे ।। ६ ।।

प्रतिशब्दित भूर्लोक भुवर्लोकांतराध्वनि ।।

सर्वं प्रमुदितं चासीच्छंभोः प्रावेशिकोत्सवे ।। ७ ।।

जगुर्गंधर्वनिकरा ननृतुश्चाप्सरोगणाः ।। २८ ।।

चारणास्तु स्तुतिं कुर्युर्जर्हृषुर्देवतागणाः ।।८।।

ववुर्गंधवहा वाता ववृषुः कुसुमैर्घनाः ।।

सर्वे मंगलनेपथ्याः सर्वे मंगलभाषिणः ।।९।।

स्थावरा जंगमाः सर्वे जाता आनंदमेदुराः।।

सुरासुरेषु सर्वेषु गंधर्वेषूरगेषु च ।। 4.2.98.१० ।।

विद्याधरेषु साध्येषु किन्नरेषु नरेषु च ।।

स्त्रीपुंजातेषु सर्वेषु रेजुश्चत्वार एव च ।। ११ ।।

निष्प्रत्यूहं च नितरां पुरुषार्थाः पदेपदे ।।

धूपधूमभरैर्व्योम यद्रक्तं तु तदा मुने ।। १२ ।।

नाद्यापि नीलिमानंतं परित्यजति कर्हिचित् ।।

नीराजनाय ये दीपास्तदा सर्वे प्रबोधिताः ।। १३ ।।

तेषां ज्योतींषि खेद्यापि राजंते तारकाच्छलात् ।।

प्रतिसौधं पताकाश्च नानाकारा विचित्रिताः ।। १४ ।।

रम्यध्वजप्रभाधौता रेजुः प्रति शिवालयम् ।।

क्वचिद्गायंति गीतज्ञाः क्वचिन्नृत्यंति नर्तकाः ।। १५ ।।

चतुर्विधानि वाद्यानि वाद्यंते च क्वचित्क्वचित् ।।

प्रत्यध्वं चंदनरसच्छटा पिच्छिलभूमयः ।। १६ ।।

हरित श्वेत मांजिष्ठ नील पीत बहुप्रभाः ।।

प्रत्यंगणं शुभाकारा रंगमालाश्चकाशिरे ।। १७ ।।

रत्नकुट्टिमभूभागा गोपुराग्रेषु रेजिरे ।।

सुधोज्ज्वला हर्म्यमालाः सौधनामप्रपेदिरे ।।१८।।

अचेतनान्यपि तदा चेतनानीव संबभुः ।।

यानि कानीह कीर्त्यंते मंगलानि घटोद्भव ।। १९।।

तेषामेव हि सर्वेषां तत्तु जन्मदिवाभवत् ।।

आगत्य देवदेवोथ मुक्तिमंडपमाविशत् ।। 4.2.98.२० ।।

अथाभिषिक्तश्चतुराननेन महर्षिवृंदैः सह देवदेवः ।।

शुभासनस्थः सहितो भवान्या कुमारवृंदैः परितो वृतश्च।। ।। २१ ।।

रत्नैरसंख्यैर्बहुभिर्दुकूलैर्माल्यैर्विचित्रैर्लसदिष्टगंधैः ।।

अपूपुजन्देवगणा महेशं तदा मुदाते च महोरग्रेंद्राः ।। २२ ।।

रत्नाकरैश्चापि गिरींद्रव्यैर्यथा स्वमन्यैरपि पुण्यधीभिः ।।

संपूजितः कुंभज तत्र शंभुर्नीराजितो मातृगणैरथेशः ।।२३।।

संतोष्य सर्वान्प्रथमं मुनींद्रान्स्वैस्वैर्हृदिस्थैश्च चिराभिलाषैः ।।

ब्रह्माणमाभाष्य शिवोथ विष्णुं जगाद सर्वामरवृंदवंद्यः ।। २४ ।।

इतो निषीदेति समानपूर्वं त्वं मे समस्तप्रभुतैकहेतुः ।।

दूरेपि तिष्ठन्निकटस्त्वमेव त्वत्तो न कश्चिन्मम कार्यकर्ता ।। २५ ।।

त्वया दिवोदास नरेंद्रवर्यः सदूपदेशैश्च तथोपदिष्टः ।।

यथा स सिद्धिं परमामवाप समीहितं मे निखिलं च सिद्धम् ।। २६ ।।

विष्णो वरं ब्रूहि य ईप्सितस्ते नादेयमत्रास्ति किमप्यहो ते।।

इदं मयाऽऽनंदवनं यदाप्तं हेतुस्तु तत्रत्वमसौ गणेशः ।। २७ ।।

न मे प्रियं किंचन विष्टपत्रये तथा यथेयं परसौख्यभूमिः ।।

वाराणसी ब्रह्मरसायनस्य खनिर्जनिर्यत्र न दीर्घशायिनाम् ।। २८ ।।

श्रुत्वेति वाक्यं जगदीशितुश्च प्रोवाच विष्णुर्वरदं महेशम् ।।

यदि प्रसन्नोसि पिनाकपाणे तदा पदाद्दूरमहं न ते स्याम् ।। २९ ।।

श्रुत्वेति वाक्यं मधुसूदनस्य जगाद तुष्टो नितरां पुरारिः ।।

सदा मुरारे मम सन्निधौ त्वं तिष्ठस्व निर्वाणरमाश्रयेत्र ।। 4.2.98.३० ।।

आदावनाराध्य भवंतमत्र यो मां भजिष्यत्यपि भक्तियुक्तः ।।

समीहितं तस्य न सेत्स्यति ध्रुवं परात्परान्मेंबुज चक्रपाणे ।।३१ ।।

सर्वत्र सौख्यं मम मुक्तिमंडपे संतिष्ठमानस्य भवेदिहाच्युत ।।

न तत्तु कैलासगिरौ सुनिर्मले न भक्तचेतस्यपि निश्चलश्रियि ।। ३२ ।।

निमेषमात्रं स्थिरचित्तवृत्तयस्तिष्ठंति ये दक्षिणमंडपेत्र मे ।।

अनन्यभावा अपि गाढमानसा न ते पुनर्गर्भदशामुपासते ।। ३३ ।।

संस्नाय ये चक्रसरस्यगाधे समस्ततीर्थैक शिरोविभूषणे ।।

क्षणं विशंतीह निरीहमानसा निरेनसस्ते मम पार्षदा हि ।। ३४ ।।

स्मरंति ये मामपवर्गमंडपे किंचिद्यथाशक्ति ददत्यपि स्वम् ।।

शृण्वंति पुण्याश्च कथाः क्षणं स्थिरास्ते कोटिगोदानफलं भजंति ।। ३५ ।।

उपेंद्रतप्तानि तपांसि तैश्चिरं स्नाता हि ते चाखिलतीर्थसार्थकैः ।।

स्नात्वेह ये वै मणिकर्णिका ह्रदे समासते मुक्तिजनाश्रयेक्षणम् ।। ३६ ।।

तीर्थानि संतीह पदेपदे हरे तुला क्व तेषां मणिकर्णिकायाः ।।

कतीहनो संति शुभाश्च मंडपाः परंपरोमुक्तिरमाश्रयोयम् ।। ३७ ।।

कैवल्यमंडपस्यास्य भविष्ये द्वापरे हरे ।।

लोके ख्यातिर्भवित्रीयमेष कुक्कुटमंडपः ।। ३८ ।।

।। हरिरुवाच ।। ।।

भालनेत्रसमाख्याहि कथं निर्वाणमंडपः ।।

तथा ख्यातिमसौ गंता यथा देवेन भाषितम् ।। ३९ ।।

।। देवदेव उवाच ।। ।।

महानंदो द्विजो नाम भविष्योत्र चतुर्भुज ।।

अग्रवेदीसमाचारस्त्यक्ततीर्थप्रतिग्रहः ।। 4.2.98.४० ।।

अदांभिकोऽक्रूरमनाः सदैवातिथिवल्लभः ।।

अथ यौवनमासाद्य पितर्युपरते स हि ।। ४१ ।।

विषमेषु शरैस्तीव्रैः कारितस्त्वपदे पदम् ।।

जहार कस्यचिद्भार्या मैत्रीं कृत्वा तु तेन वै ।। ४२ ।।

तया च प्रेरितोऽपेयं पपौ चापि विमोहितः ।।

अभक्ष्यभक्षणरुचिरभून्मदनमोहितः ।।४३।।

वैष्णवान्धनिनो दृष्ट्वा क्षणं वैष्णववेषभृत् ।।

शैवान्निंदति मूढात्मा नरकत्राणकारणम् ।।४४।।

शिवभक्तान्समालोक्य किंचिच्च परिदित्सुकान् ।।

गर्हयेद्वैष्णवान्सर्वाञ्शैवलिंगोपजीवकः ।। ४५ ।।

इति पाखंडधर्मज्ञः संध्यास्नानपराङ्मुखः ।।

विशालतिलकः स्रग्वी शुद्धधौतांबरोज्वलः ।। ४६. ।। २७ ।।

शिखी चोपग्रहकरः सर्वेभ्योऽसत्प्रतिग्रही।।

तस्यापत्यद्वयं जातमुन्मत्तपथवर्तिनः ।। ४७ ।।

एवं तस्य प्रवृत्तस्य कश्चित्पर्वतदेशतः ।।

समागमिष्यति धनी तीर्थयात्रार्थसिद्धये ।। ४८ ।।

स्नात्वा स चक्रसरसि कथयिष्यति चेति वै ।।

अहमस्ति धनोदित्सुर्जात्या चांडालसत्तमः ।।४९।।

अस्ति कश्चित्प्रतिग्राही यस्मै दद्यामहं धनम् ।।

इति तस्य वचः श्रुत्वा कैश्चिच्चांगुलिसंज्ञया ।।4.2.98.५०।।

उद्दिष्ट उपविष्टोसौ यो जपेद्ध्यानमुद्रया ।।

एष प्रतिग्रहं त्वत्तो ग्रहीष्यति न चेतरः ।।५१।।

इति तेषां वचः श्रुत्वा स गत्वा तत्समीपतः ।।

दंडवत्प्रणिपत्याथ तं बभाषे तदांत्यजः ।।५२।।

मामुद्धर महाविप्र तीर्थं मे सफलीकुरु ।।

किंचिद्वस्त्वस्ति मे तत्त्वं गृहाणानुग्रहं कुरु ।। ५३ ।।

अथाक्षमालिकां कर्णे कृत्वा ध्यानं विसृज्य च ।।

कियद्धनं तवास्तीह पप्रच्छ करसंज्ञया ।। ५४ ।।

तस्य संज्ञां स वै बुद्ध्वा प्रोवाचाति प्रहृष्टवत् ।।

संतृप्तिर्यावता ते स्यात्तावद्दास्यामि नान्यथा ।। ५५ ।।

इति तद्वचनं श्रुत्वा त्यक्त्वा मौनमुवाच ह ।।

सानंदः स महानंदो निःस्पृहोस्मि प्रतिग्रहे ।। ५६ ।।

परं तेऽनुग्रहार्थं तु करिष्यामि प्रतिग्रहम् ।।

किंच मे वचनं त्वं चेत्करिष्यस्युत्तमोत्तम ।।५७।।

यावदस्त्यखिलं वित्तं तन्मध्ये न्यस्य कस्यचित् ।।

न स्तोकमपि दातव्यं तदाऽऽदास्यामि नान्यथा ।।५८।।

।। चांडाल उवाच ।। ।।

यावदस्ति मयानीतं विश्वेशप्रीतये वसु।।

तावत्तुभ्यं प्रदास्यामि विश्वेशस्त्वं यतो मम।।५९।।

ये वसंतीह विश्वेश राजधान्यां द्विजोत्तम ।।

क्षुद्राक्षुद्रा जंतुमात्रा विश्वेशां शास्त एव हि।।4.2.98.६०।।

परोद्धरणशीला ये ये परेच्छाप्रपूरकाः ।।

परोपकृतिशीला ये विश्वेशां शास्त एव हि ।। ६१ ।।

इति तद्वचनं श्रुत्वा प्रहृष्टेंद्रियमानसः ।।

उवाच पार्वतीयं तं सोऽग्रजन्मांत्यजं तदा ।। ६२ ।।

आयाहि दर्भानादेहि कुरूत्सर्गं त्वरान्वितः ।।

तथेति स चकाराशु पार्वतीयो महामनाः ।। ३३ ।।

विश्वेशः प्रीयतां चेति प्रोच्य यातो यथागतः ।।

स च द्विजो द्विजैरन्यैर्धिक्कृतोपि वसन्निह ।। ६४ ।।

बहिर्निर्गतमात्रस्तु बहुभिः परिभूयते ।।

चांडालब्राह्मणश्चैष चांडालात्त धनस्त्वसौ ।। ६५ ।।

असावेव हि चांडालः सर्वलोकबहिष्कृतः ।।

इत्थं तमनुधावंति थूत्कुर्वंतः परितो हरे ।। ६६ ।।

स च तद्भयतो गेहात्काकभीतदिवांधवत् ।।

न निःसरेत्क्वचिदपि लज्जाकृति नतास्यकः।।६७।।

स एकदा संप्रधार्य गृहिण्या लोकदूषितः ।।

जगाम कीकटान्देशांस्त्यक्त्वा वाराणसीं पुरीम् ।।६८।।

मध्ये मार्गं स गच्छन्वै लक्षितस्तु सकांचनः ।।

अपि कार्पटिकांतस्थः स रुद्धो मार्गरोधिभिः।।६९।।

नीत्वा ते तमरण्यानीं तस्कराः सपरिच्छदम्।।

उल्लुंठ्य धनमादाय समालोच्य परस्परम्।।4.2.98.७०।।

प्रोचुर्भूरिधनं चैतज्जीर्यत्यस्मिन्न जीवति ।।

असौ धनी प्रयत्नेन वध्यः सपरिचारकः ।। ७१ ।।

संप्रधार्येति तेप्राहुः स्मर्तव्यं स्मर पांथिक ।।

त्वां वयं घातयिष्यामो निश्चितं सपरिच्छदम् ।। ७२ ।।

निशम्येति मनस्येव कथयामास स द्विजः ।।

अहो प्रतिगृहीतं मे यदर्थं वसु भूरिशः ।। ७३ ।।

कुटुंबमपि तन्नष्टं नष्टश्चापि प्रतिग्रहः ।।

जीवितं चापि मे नष्टं नष्टा काशीपुरीस्थितिः ।। ७४ ।।

युगपत्सर्वमेवाशु नष्टं दुर्बुद्धिचेष्टया ।।

न काश्यां मरणं प्राप्तं तस्माद्दुष्टप्रतिग्रहात् ।। ७५ ।।

प्रांते कुटुंबस्मरणात्तथाकाशीस्मृतेरपि ।।

चोरैर्हतोपि स तदा कीकटे कुक्कुटोऽभवत् ।।७६।।

सा कुक्कुटी सुतौ तौ तु ताम्रचूडत्वमापतुः ।।

प्रांते काशीस्मरणतो जाता जातिस्मृतिः परा ।। ७७ ।।

इत्थं बहुतिथेकाले गते कार्पटिकोत्तमाः ।।

तस्मिन्नेवाध्वनि प्राप्ताश्चत्वारो यत्र कुक्कुटाः ।।७८।।

वाराणस्याः कथां प्रोच्चैः कुर्वंतोऽन्योन्यमेव हि ।।

काशीकथां समाकर्ण्य तदा ते चरणायुधाः ।। ७९ ।।

जातिस्मृतिप्रभावेण तत्संगेन तु निर्गताः ।।

तैश्च कार्पटिकश्रेष्ठेः पथि दृष्ट्वा कृपालुभिः ।। 4.2.98.८० ।।

तंदुलादिपरिक्षेपैः प्रापिताः क्षेत्रमुत्तमम् ।।

ते तु क्षेत्रं समासाद्य चत्वारश्चरणायुधाः ।। ८१ ।।

चरिष्यंतोऽत्र परितो मुक्तिमंडपमुत्तमम् ।।

जिताहारान्सनियमान्कामक्रोधपराङ्मुखान् ।। ८२ ।।

प्रहासान्मत्कथालापाँल्लाभमोहविवर्जितान् ।।

स्वर्धुनीस्नानसंक्लिन्न सुनिर्मलशिरोरुहान् ।। ९३ ।।

मन्नामोच्चारणपरान्मत्कथार्पितसुश्रुतीन् ।।

मद्दत्तचित्तसद्वृत्तीन्दृष्ट्वा क्षेत्रनिवासिनः ।।८४ ।।

मानयामासुरथ तान्कुक्कुटान्साधुवर्त्मनः ।।

प्राक्तनां वासनायोगात्संप्रधार्य परस्परम् ।।

क्रमेणाहारमाकुंच्य प्राणांस्त्यक्ष्यंति चात्र वै ।। ८५ ।।

पश्यतां सर्वलोकानां विष्णो ते मदनुग्रहात् ।।

विमानमधिरुह्याशु कैलासं प्राप्य मत्पदम् ।।८६।।

निर्विश्य सुचिरं कालं दिव्यान्भोगाननुत्तमान् ।।

ततोऽत्र ज्ञानिनो भूत्वा मुक्तिं प्राप्स्यंति शाश्वतीम् ।। ८७ ।।

ततो लोकास्तददारभ्य कथयिष्यंति सर्वतः ।।

मुक्तिमंडपनामैतदेष कुक्कुटमंडपः ।। ८८ ।।

चरित्रमपि वै तेषां ये स्मरिष्यंति मानवाः ।।

मुक्तिमंडपमासाद्य श्रेयः प्राप्स्यंति तेपि हि ।। ८९ ।।

इति यावत्कथां शंभुर्भविष्यामग्रतो हरेः ।।

अकरोत्तुमुलो नादो घंटानां तावदुद्गतः ।। 4.2.98.९० ।।

अथनंदिनमाहूय देवदेव उमाधवः ।।

प्रोवाच नंदिन्विज्ञायागत्य ब्रूहि कुतो रवः ।।९१।।

अथ नंदी समागत्य प्रोवाच वृषभध्वजम्।।

नमस्कृत्य प्रहृष्टास्यः प्रबद्धकरसंपुटः ।। ९२ ।।

।। नंद्युवाच ।। ।।

देवदेव त्रिनयन किमपूर्वं ब्रवीमि ते ।।

मोक्षलक्ष्मीविलासोऽत्र कैश्चित्कैश्चित्समर्च्यते।।९३।।

अथ स्मित्वाब्रवीच्छंभुः सिद्धं नस्तु समीहितम् ।।

उत्थाय देवदेवेशः सह देव्या सुमंगलः।।९४।।

ब्रह्मणा हरिणा सार्धं ततोऽगाद्रंगमंडपम् ।।

।। स्कंद उवाच ।। ।।

श्रुत्वाध्यायमिमं पुण्यं परमानंदकारणम् ।।

नरः परां मुदं प्राप्य कैलासं प्राप्स्यति ध्रुवम् ।। ९५ ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे मुक्तिमंडपगमनं नामाष्टनवतितमोऽध्यायः ।। ९८ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 99

।। व्यास उवाच ।।

शृणु सूत यथा प्रोक्तं कुंभजे शरजन्मना ।।

देवदेवस्य चरितं विश्वेशस्य परात्मनः ।। १ ।।

अगस्त्य उवाच ।।

सेनानीः कथय त्वं मे ततो निर्वाणमंडपात् ।।

निर्गत्य देवो देवेंद्रैः सहितः किं चकार ह।। २ ।।

स्कंद उवाच ।।

मुक्तिमंडपतः शंभुर्ब्रह्मविष्णुपुरोगमः ।।

शृंगारमंडपं प्राप्य यच्चकार वदामि तत् ।। ३ ।।

प्राङ्मुखस्तूपविश्येशः सहास्माभिः सहेशया ।।

ब्रह्मणाधिष्ठितः सव्ये वामपार्श्वेथ शार्ङ्गिणा ।। ४ ।।

वीज्यमानो महेंद्रेण ऋषिभिः परितो वृतः ।।

गणैः पृष्ठप्रदेशस्थैर्जोषं तिष्ठद्भिरादरात् ।। ५।।

उदायुधैः सेव्यमानश्चावसन्मानभूरिभिः ।।

ब्रह्मणे विष्णवे शंभुः पाणिमुत्क्षिप्य दक्षिणम् ।। ६ ।।

दर्शयामास देवेशो लिंगं पश्यत पश्यत ।।

इदमेव परं ज्योतिरिदमेव परात्परम् ।। ।। ७ ।।

इदमेव हि मे रूपं स्थावरं चाति सिद्धिदम् ।।

एते पाशुपता सिद्धा आबाल ब्रह्मचारिणः ।। ८ ।।

जितेंद्रियास्तपोनिष्ठाः पंचार्थज्ञाननिर्मलाः ।।

भस्मकूटशया दाताः सुशीला ऊर्ध्वरेतसः ।।९ ।।

लिंगार्चनरता नित्यमनन्येंद्रियमानसाः ।।

सदैव वारुणाग्नेय स्नानद्वय सुनिर्मलाः ।। 4.2.99.१० ।।

कंदमूलफलाहाराः परतत्त्वार्पितेक्षणाः ।।

सत्यवंतो जितक्रोधा निर्मोहा निष्परिग्रहाः ।। ११ ।।

निरीहा निष्प्रपंचाश्च निरातंका निरामयाः ।।

निर्भगा निरुपायाश्च निःसंगा निर्मलाशयाः ।। १२ ।।

निस्तीर्णोदग्रसंसारा निर्विकल्पा निरेनसः ।।

निर्द्वंद्वा निश्चितार्थाश्च निरहंकारवृत्तयः ।। १३ ।।

सदैव मे महाप्रीता मत्पुत्रा मत्स्वरूपिणः ।।

एते पूज्या नमस्याश्च मद्बुद्ध्यामत्परायणैः ।। १४ ।।

अर्चितेष्वेष्वहं प्रीतो भविष्यामि न संशयः ।।

अस्मिन्वैश्वेश्वरे क्षेत्रे संभोज्याः शिवयोगिनः ।। १५ ।।

कोटिभोज्यफलं सम्यगेकैक परिसंख्यया ।।

अयं विश्वेश्वरः साक्षात्स्थावरात्मा जगत्प्रभुः ।। १६ ।।

सर्वेषां सर्वसिद्धीनां कर्ता भक्तिजुषामिह ।।

अहं कदाचिद्दृश्यः स्यामदृश्यः स्यां कदाचन ।। १७ ।।

आनंदकानने चात्र स्वैरं तिष्ठामि देवताः ।।

अनुग्रहाय सर्वेषां भक्तानामिह सर्वदा ।। १८ ।।

स्थास्यामि लिंगरूपेण चिंतितार्थफलप्रदः ।।

स्वयंभून्यस्वयंभूनि यानि लिंगानि सर्वतः ।।

तानि सर्वाणि चायांति द्रष्टुं लिंगमिदं सदा ।। १९ ।।

अहं सर्वेषु लिंगेषु तिष्ठा्म्येव न संशयः ।।

परं त्वियं परामूर्तिर्मम लिंगस्वरूपिणी ।। 4.2.99.२० ।।

येन लिंगमिदं दृष्टं श्रद्धया शुद्धचक्षुषा ।।

साक्षात्कारेण तेनाहं दृष्ट एव दिवौकसः ।। २१ ।।

श्रवणादस्य लिंगस्य पातकं जन्मसंचितम् ।।

क्षणात्क्षयति शृण्वंतु देवा ऋषिगणैः सह ।। २२ ।।

स्मरणादस्य लिंगस्य पापं जन्मद्वयार्जितम् ।।

अवश्यं नश्यति क्षिप्रं मम वाक्यान्न संशयः ।।२३ ।।

एतल्लिंगं समुद्दिश्य गृहान्निष्क्रमणक्षणात् ।।

विलीयते महापापमपि जन्मत्रयार्जितम् ।।२४।।

दर्शनादस्य लिंगस्य हयमेधशतोद्भवम् ।।

पुण्यं लभेत नियतं ममानुग्रहतोमराः ।।२५।।

स्वयंभुवोस्य लिंगस्य मम विश्वेशितुः सुराः ।।

राजसूयसहस्रस्य फलं स्यात्स्पर्शमात्रतः।।२६।।

पुष्पमात्र प्रदानाच्च चुलुकोदकपूवर्कम् ।।

शतसौवर्णिकं पुण्यं लभते भक्तियोगतः ।।२७।।

पूजामात्रं विधायास्य लिंगराजस्य भक्तितः ।।

सहस्रहेमकमलपूजाफलमवाप्यते ।। २८ ।।

विधाय महती पूजां पंचामृतपुरःसराम् ।।

अस्य लिंगस्य लभते पुरुषार्थचतुष्टयम् ।। २९ ।।

वस्त्रपूतजलैर्लिंगं स्नापयित्वा ममामराः ।।

लक्षाश्वमेधजनितं पुण्यमाप्नोति सत्तमः ।। 4.2.99.३० ।।

सुगंधचंदनरसैर्लिंगमालिप्य भक्तितः ।।

आलिप्यते सुरस्त्रीभिः सुगंधैर्यक्षकर्दमैः ।। ३१ ।।

सामोद धूपदानैश्च दिव्यगंधाश्रयो भवेत् ।।

घृतदीपप्रबोधैश्च ज्योतीरूप विमानगः ।। ३२ ।।

कर्पूरवर्तिदीपेन सकृद्दत्तेन भक्तितः।।

कर्पूरदेहगौरश्रीर्भवेद्भालविलोचनः ।। ३३ ।।

दत्त्वा नैवेद्यमात्रं तु सिक्थेसिक्थे युगंयुगम् ।।

कैलासाद्रौ वसेद्धीमान्महाभोगसमन्वितः ।। ३४ ।।

विश्वेशे परमान्नं यो दद्यात्साज्य सशर्करम् ।।

त्रैलोक्यं तर्पितं तेन सदेवपितृमानवम्।। ३५ ।।

मुखवासं तु यो दद्याद्दर्पणं चारुचामरम् ।।

उल्लोचं सुखपर्यंकं तस्य पुण्यफलं महत् ।। ३६ ।।

संख्या सागररत्नानां कथंचित्कर्तुमिष्यते ।।

मुखवासादिदानस्य कः संख्यामत्र कारयेत् ।। ३७ ।।

पूजोपकरणद्रव्यं यो घंटा गडुकादिकम् ।।

भक्त्या मे भवने दद्यात्स वसेदत्र मेंतिके ।। ३८ ।।

यो गीतवाद्यनृत्यानामेकं मत्प्रीतये व्यधात् ।।

तस्याग्रतो दिवारात्रं भवेत्तौर्यत्रिकं महत् ।। ३९ ।।

चित्रलेखनकर्मादि प्रासादे मेऽत्र कारयेत् ।।

यः सचित्रान्महाभोगान्भुंक्ते मत्पुरतः स्थितः ।।4.2.99.४०।।

सकृद्विश्वेश्वरं नत्वा मध्ये जन्मसुधीर्नरः ।।

त्रैलोक्यवंदितपदो जायते वसुधापतिः।। ।। ४१ ।।

यस्तु विश्वेवरं दृष्ट्वा ह्यन्यत्रापि विपद्यते ।।

तस्य जन्मांतरे मोक्षो भवत्येव न संशयः ।। ४२ ।।

विश्वेशाख्या तु जिह्वाग्रे विश्वनाथकथाश्रुतौ ।।

विश्वेशशीलनं चित्ते यस्य तस्य जनिः कुतः ।। ४३ ।।

लिंगं मे विश्वनाथस्य दृष्ट्वा यश्चानुमोदते ।।

स मे गणेषु गण्येत महापुण्यबलाश्रितः ।। ४४ ।।

नित्यं विश्वेश विश्वेश विश्वनाथेति यो जपेत् ।।

त्रिसंध्यं तं सुकृतिनं जपाम्यहमपि ध्रुवम् ।। १५ ।।

ममापीदं महालिंगं सदा पूज्यतमं सुराः .।।

तस्मात्सर्वप्रयत्नेन पूज्यं देवर्षि मानवैः ।। ४६ ।।

यैर्न विश्वेश्वरो दृष्टो यैर्न विश्वेश्वरः स्मृतः ।।

कृतांतदूतैस्ते दृष्टास्तैः स्मृता गर्भवेदना ।। ४७ ।।

यैरिदं प्रणतं लिंगं प्रणतास्ते सुरासुरैः ।।

यस्यै केन प्रणामेन दिक्पालपदमल्पकम् ।।

दिक्पालपदतः पातः पातः शिवनतेर्नहि ।। ४८ ।।

शृण्वंतु देवर्षिगणाः समस्तास्तथ्यं ब्रुवे तच्च परोपकृत्यै ।।

न भूर्भुवः स्वर्गमहर्जनांतर्विश्वेशतुल्यं क्वचिदस्ति लिंगम् ।। ४९ ।।

न सत्यलोके न तपस्यहो सुरा वैकुंठकैलासरसातलेषु ।।

तीर्थं क्वचिद्वै मणिकर्णिकासमं लिंगं च विश्वेश्वरतुल्यमन्यतः ।। 4.2.99.५० ।।

न विश्वनाथस्य समं हि लिंगं न तीर्थमन्यन्मणिकर्णिकातः ।।

तपोवनं कुत्रचिदस्ति नान्यच्छुभं ममानंदवनेन तुल्यम् ।। ५१ ।।

वाराणसी तीर्थमयी समस्ता यस्यास्तुनामापि हि तीर्थतीर्थम् ।।

तत्रापि काचिन्मम सौख्यभूमिर्महापवित्रा मणिकर्णिकासौ ।। ५२ ।।

स्थानादमुष्मान्ममराजसौधात्प्राच्यां मनागीशसमाश्रितायाम् ।।

सव्येपसव्ये च कराः क्रमेण शतत्रयी यापि शतद्वयी च ।। ५३ ।।

हस्ताः शतं पंच सुरापगायामुदीच्यवाच्योर्मणिकर्णिकेयम् ।।

सारस्त्रिलोक्याः परकोशभूमिर्यैः सेविता ते मम हृच्छया हि ।। ५४ ।।

अस्मिन्ममानंदवने यदेतल्लिंगं सुधाधाम सुधामधाम ।।

आसप्त पातालतलात्स्वयंभु समुत्थितं भक्तकृपावशेन ।।५५।।

येस्मिञ्जनाः कृत्रिमभावबुद्ध्या लिंगं भजिष्यंति च हेतुवादैः ।।

तेषां हि दंडः पर एष एव नगर्भवासाद्विरमंति ते ध्रुवम् ।। ५६ ।।

यद्यद्धितं स्वस्य सदैव तत्तल्लिंगेत्र देयं मम भक्तिमद्भिः ।।

इहाप्यमुत्रापि न तस्य संक्षयो यथेह पापस्य कृतस्य पापिभिः ।। ५७ ।।

दूरस्थितैरप्यधिबुद्धिभिर्यैर्लिंगं समाराधि ममेदमत्र ।।

मयैव दत्तैः शुभवस्तुजातैर्निःश्रेयसः श्रीर्वसं(?)येत्सतस्तान् ।। ५८ ।।

शृणुष्व विष्णो शृणु सृष्टिकर्तः शृण्वंतु देवर्षिगणाः समस्ताः ।।

इदं हि लिंगं परसिद्धिदं सतां भेदो मनागत्र न मत्सकाशतः ।। ५९ ।।

अस्मिन्हि लिंगेऽखिलसिद्धिसाधने समर्पितं यैः सुकृतार्जितं वसु ।।

तेभ्योतिमात्राखिलसौख्यसाधनं ददामि निर्वाणपदं सुनिर्भयम् ।। 4.2.99.६० ।।

उत्क्षिप्य बाहुं त्वसकृद्ब्रवीमि त्रयीमयेऽस्मिंस्त्रयमेव सारम् ।।

विश्वेश लिंगं मणिकर्णिकांबु काशीपुरी सत्यमिदं त्रिसत्यम् ।। ६१ ।।

उत्थाय देवोथ स शक्तिरीशस्तस्मिन्हि लिंगे कृतचारुपूजः ।।

ययौ लयं ते च सुरा जयेति जयेति चोक्त्वा नुनुवुस्तमीशम् ।। ६२ ।।

स्कंद उवाच ।। ।।

क्षेत्रस्य मैत्रावरुणे विमुक्तस्य महामते ।।

प्रभावस्यैकदेशोयं कथितः कल्मषापहः ।। ६३ ।।

तवाग्रे तु यथाबुद्धि काशीविश्लेषतापि नः ।।

अचिरेणैव कालेन काशीं प्राप्स्यस्यनुत्तमाम् ।। ६४ ।।

अस्ताचलस्य शिखरं प्राप्तवानेष भानुमान् ।।

तवापि हि ममाप्येष मौनस्य समयोऽभवत् ।। ६५ ।।

।। व्यास उवाच ।। ।।

श्रुत्वेति स मुनिः सूत संध्योपास्त्यै विनिर्गतः।।

प्रणम्यौ मेयमसकृल्लोपामुद्रा समन्वितः ।। ६६ ।।

रहस्यं परिविज्ञाय क्षेत्रस्य शशिमौलिनः ।।

अगस्त्यो निश्चितमनाः शिवध्यानपरोभवत् ।। ६७ ।।

आनंदकाननस्येह महिमानं महत्तरम् ।।

कोत्र वर्णयितुं शक्तः सूत वर्षशतैरपि ।। ६८ ।।

यथा देव्यै समाख्यायि शिवेन परमात्मना ।।

तथा स्कंदेन कथितं माहात्म्यं कुंभसंभवे ।। ६९।।

तवाग्रे च समाख्यातं शुकादीनां च सत्तम ।।

इदानीं प्रष्टुकामोसि किं तत्पृच्छ वदामि ते।।4.2.99.७०।।

श्रुत्वाध्यायमिमं पुण्यं सर्वकल्मषनाशनम् ।।

समस्तचिंतितफलप्रदं मर्त्यो भवेत्कृती ।।७१।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे विश्वेश्वरलिंगमहिमाख्यो नाम नवनवतितमोऽध्यायः ।। ९९ ।।

खण्डः ४ (काशीखण्डः) — Adhyāya 100

।। सूत उवाच ।। ।।

इदं स्कांदमहं श्रुत्वा काशीखंडमनुत्तमम् ।।

नितरां परितृप्तोस्मि हृदि चापि विधारितम् ।। १ ।।

अनुक्रमणिकाध्यायं तथा माहात्म्यमुत्तमम् ।।

पाराशर्य समाचक्ष्व यथापूर्वमिदं भवेत्।। २ ।।

।। व्यास उवाच ।। ।।

सूतावधेहि धर्मात्मञ्जातूकर्ण्य निशामय ।।

शुकवैशंपायनाद्याः शृण्वंत्वपि च बालकाः ।। ३ ।।

अनुक्रमणिकाध्यायं माहात्म्यं चापि खंडजम् ।।

प्रवक्ष्याम्यघनाशाय महापुण्यप्रवर्धनम् ।। ४ ।।

विंध्यनारदसंवादः प्रथमे परिकीर्तितः ।।

सत्यलोकप्रभावश्च द्वितीयः समुदाहृतः ।। ५ ।।

अगस्तेराश्रमपदे देवानामागमस्ततः ।।

पतिव्रता चरित्रं च प्रस्थानं कुंभसंभवः ।। ६ ।।

तीर्थप्रशंसा च ततः सप्तपुर्यस्ततः स्मृताः ।।

संयमिन्याः स्वरूपं च ब्रध्नलोकस्ततः परम् ।। ७ ।।

इंद्राग्न्योर्लोकसंप्राप्तिस्ततश्च शिवशर्मणः ।।

अग्नेः समुद्भवस्तस्मात् क्रव्याद्वरुणसंभवः ।।८ ।।

गंधवत्यलकापुर्योरीशयोस्तु समुद्भवः ।।

चंद्रलोकपरिप्राप्तिः शिवशर्मद्विजन्मनः ।। ९ ।।

उडुलोक कथा तस्मात्ततः शुक्रसमुद्भवः ।।

माहेय गुरुसौरीणां लोकानां वर्णनं ततः ।। 4.2.100.१० ।।

सप्तर्षीणां ततो लोका ध्रुवस्य च तपस्ततः ।।

ततो ध्रुवपदप्राप्तिर्ध्रुवलोक स्थितिस्ततः. ।। ११ ।।

दर्शनं सत्यलोकस्य तस्य वै शिवशर्मणः ।।

चतुर्भुजाभिषेकश्च निर्वाणं शिवशर्मणः ।। १२।।

स्कंदागस्त्योश्च संवादो मणिकर्ण्याः समुद्भवः ।।

ततस्तु गंगामाहात्म्यं ततो दशहरास्तवः ।।१३ ।।

प्रभावश्चापि गंगाया गंगानामसहस्रकम् ।।

वाराणस्याः प्रशंसाथ भैरवाविर्भवस्ततः ।। १४ ।।

दंडपाणेः समुद्भूतिर्ज्ञानवाप्युद्भवस्ततः ।।

आख्यानं च कलावत्याः सदाचारस्ततः परम् ।। १५ ।।

ब्रह्मचारि प्रकरणं ततः स्त्रीलक्षणानि च ।।

कृत्याकृत्यप्रकरणमविमुक्तेशवर्णनम् ।। १६ ।।

ततो गृहस्थधर्माश्च ततो योगनिरूपणम् ।।

कालज्ञानं ततः प्रोक्तं दिवोदासस्य वर्णनम् ।। १७ ।।

काश्याश्च वर्णनं तस्माद्योगिनीवर्णनं ततः ।।

लोलार्कस्य समाख्यानमुत्तरार्ककथा ततः।। ।। १८।।

सांबादित्यस्य महिमा द्रुपदादित्य शंसनम् ।।

ततस्तु गरुडाख्यानमरुणार्कादयस्ततः ।। १९ ।।

दशाश्वमेधिकं तीर्थं मंदराच्च गणागमः ।।

पिशाचमोचनाख्यानं गणेशप्रेषणं ततः ।। 4.2.100.२० ।।

मायागणपतेश्चाथ ढुंढिप्रादुर्भवस्ततः ।।

विष्णुमायाप्रपंचोथ दिवोदासविसर्जनम् ।। २१ ।।

ततः पंचनदोत्पत्तिर्बिंदुमाधवसंभवः ।।

ततो वैष्णवतीर्थानां माहात्म्यपरिवर्णनम् ।। २२ ।।

प्रयाणं मंदरात्काशीं वृषभध्वजशूलिनः ।।

जैगीषव्येन संवादो ज्येष्ठस्थाने महेशितुः ।।२३ ।।

ततः क्षेत्ररहस्यस्य कथनं पापनाशनम् ।।

अथातः कंदुकेशस्य व्याघ्रेशस्य समुद्भवः ।।२४।।

ततः शैलेश्वरकथा रत्नेशस्य च दर्शनम् ।।

कृत्तिवासः समुत्पत्तिस्ततश्चायतनागमः ।।२५।।

देवतानामधिष्ठानं दुर्गासुरपराक्रमः ।।

दुर्गाया विजयश्चाथ तत ओंकारवर्णनम् ।। २६ ।।

पुनरोंकारमाहात्म्यं त्रिलोचनसमुद्भवः ।।

त्रिलोचनप्रभावोथ केदाराख्यानमेव च ।। २७ ।।

ततो धर्मेशमहिमा ततः पक्षिकथा शुभा ।।

ततो विश्वभुजाख्यानं दुर्दमस्य कथा ततः ।। २८ ।।

ततो वीरेश्वराख्यानं वीरेश महिमा पुनः ।।

गंगातीर्थैश्च संयुक्ता कामेश महिमा ततः ।। २९ ।।

विश्वकर्मेश महिमा दक्षयज्ञसमुद्भवः ।।

सत्या देहविसर्गश्च ततो दक्षेश्वरोद्भवः ।। 4.2.100.३० ।।

ततो वै पार्वतीशस्य महिम्नः परिकीर्तनम् ।।

गंगेशस्याथ महिमा नर्मदेशसमुद्भवः ।। ३१ ।।

सतीश्वरसमुत्पत्तिरमृतेशादि वणर्नम् ।।

व्यासस्य हि भुजस्तंभो व्यासशापविमोक्षणम् ।। ३२ ।।

क्षेत्रतीर्थकदंबं च मुक्तिमंडप संकथा ।।

विश्वेशाविर्भवश्चाथ ततो यात्रापरिक्रमः ।। ३३ ।।

एतदाख्यानशतकं क्रमेण परिकीर्तितम् ।।

यस्य श्रवणमात्रेण सर्वखंड श्रुतेः फलम् ।।

अनुक्रमणिकाध्यायेप्यस्ति यात्रापरिक्रमः ।।३४।।

।। सूत उवाच ।।

यात्रा परिक्रमं ब्रूहि जनानां हितकाम्यया ।।

यथावत्सिद्धिकामानां सत्यवत्याः सुतोत्तम ।। ३५ ।।

।। व्यास उवाच।। ।।

निशामय महाप्राज्ञ लोमहर्षण वच्मि ते ।।

यथा प्रथमतो यात्रा कर्तव्या यात्रिकैर्मुदा ।। ३६ ।।

सचैलमादौ संस्नाय चक्रपुष्करिणीजले ।।

संतर्प्यदेवासपितॄन्ब्राह्मणांश्च तथार्थिनः ।। ३७ ।।

आदित्यं द्रौपदीं विष्णुं दंडपाणिं महेश्वरम् ।।

नमस्कृत्य ततो गच्छेद्द्रष्टुं ढुंढिविनायकम् ।।३८।।

ज्ञानवापीमुपस्पृश्य नंदिकेशं ततोर्चयेत् ।।

तारकेशं ततोभ्यर्च्य महाकालेश्वरं ततः ।। ३९ ।।

ततः पुनर्दंडपाणिमित्येषा पंचतीर्थिका ।। 4.2.100.४० ।।

दैनंदिनी विधातव्या महाफलमभीप्सुभिः ।।

ततो वैश्वेश्वरी यात्रा कार्या सर्वार्थ सिद्धिदा।।४१ ।।

द्विसप्तायतनानां च कार्या यात्रा प्रयत्नतः ।।

कृष्णां प्रतिपदं प्राप्य भूतावधि यथाविधि ।। ४२ ।।

अथवा प्रतिभूतं च क्षेत्रसिद्धिमभीप्सुभिः ।।

तत्तत्तीर्थकृतस्नानस्तत्तल्लिंगकृतार्चनः ।।४३।।

मौनेन यात्रां कुर्वाणः फलं प्राप्नोति यात्रिकः।।

ओंकारं प्रथमं पश्येन्मत्स्योदर्यां कृतोदकः ।। ४४ ।।

त्रिविष्टपं महादेवं ततो वै कृत्तिवाससम् ।।

रत्नेशं चाथ चंद्रेशं केदारं च ततो व्रजेत् ।।४५।।

धर्मेश्वरं च वीरेशं गच्छेत्कामेश्वरं ततः ।।

विश्वकर्मेश्वरं चाथ मणिकर्णीश्वरं ततः ।। ४६ ।।

अविमुक्तेश्वरं दृष्ट्वा ततो विश्वेशमर्चयेत् ।।

एषा यात्रा प्रयत्नेन कर्तव्या क्षेत्रवासिना ।। ४७ ।।

यस्तु क्षेत्रमुषित्वा तु नैतां यात्रां समाचरेत् ।।

विघ्नास्तस्योपतिष्ठंते क्षेत्रोच्चाटनसूचकाः ।। ४८ ।।

अष्टायतन यात्रान्या कर्तव्या विघ्रशांतये ।।

दक्षेशः पार्वतीशश्च तथा पशुपतीश्वरः ।।४९।।

गंगेशो नर्मदेशश्च गभस्तीशः सतीश्वरः ।।

अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः ।। 4.2.100.५० ।।

दृश्यान्येतानि लिंगानि महापापोपशांतये ।।

अपरापि शुभा यात्रा योगक्षेमकरी सदा ।। ५१ ।।

सर्वविघ्रोपहंत्री च कर्तव्या क्षेत्रवासिभिः ।।

शैलेशं प्रथमं वीक्ष्य वरणास्नानपूर्वकम् ।। ५२ ।।

स्नानं तु संगमे कृत्वा द्रष्टव्यः संगमेश्वरः ।।

स्वलीन तीर्थे सुस्नातः पश्येत्स्वलीनमीश्वरम् ।। ५३ ।।

स्नात्वा मंदाकिनी तीर्थे द्रष्टव्यो मध्यमेश्वरः ।।

पश्येद्धिरण्यगर्भेशं तत्र तीर्थे कृतोदकः ।। ५४ ।।

मणिकर्ण्यां ततः स्नात्वा पश्येदीशानमीश्वरम्।।

ततः कूपमुपस्पृश्य गोप्रेक्षमवलोकयेत् ।। ५५ ।।

कापिलेय ह्रदे स्नात्वा वीक्षेत वृषभध्वजम् ।।

उपशांतशिवं पश्येत्तत्कूपविहितोदकः ।। ५६ ।।

पंचचूडाह्रदे स्नात्वा ज्येष्ठस्थानं ततोर्चयेत् ।।

चतुःसमुद्रकूपे तु स्नात्वा देवं समर्चयेत् ।। ५७ ।।

देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते ।।

शुक्रेश्वरं ततः पश्येत्तत्कूपविहितोदकः ।।५८।।

दंडखाते ततः स्नात्वा व्याघ्रेशं पूजयेत्ततः ।।

शौनकेश्वरकुंडे तु स्नानं कृत्वा ततोर्चयेत् ।।५९।।

जंबुकेशं महालिंगं कृत्वा यात्रामिमां नरः।।

क्वचिन्न जायते भूयः संसारे दुःखसागरे ।।4.2.100.६०।।

समारभ्य प्रतिपदं यावत्कृष्णा चतुर्दशी ।।

एतत्क्रमेण कर्तव्यान्ये तदायतनानि वै ।।६१।।

इमां यात्रां नरः कृत्वा न भूयोप्यभिजायते ।।

अन्या यात्रा प्रकर्तव्यैका दशायतनोद्भवा ।।६२ ।।

आग्नीध्र कुंडे सुस्नातः पश्येदाग्नीध्रमीश्वरम् ।।

उर्वशीशं ततो गच्छेत्ततस्तु नकुलीश्वरम् ।।६३।।

आषाढीशं ततो दृष्ट्वा भारभूतेश्वरं ततः ।।

लांगलीशमथालोक्य ततस्तु त्रिपुरांतकम् ।। ६४ ।।

ततो मनःप्रकामेशं प्रीतिकेशमथो व्रजेत् ।।

मदालसेश्वरं तस्मात्तिलपर्णेश्वरं ततः ।। ६५ ।।

यात्रैकादशलिंगानामेषा कार्या प्रयत्नतः।।

इमां यात्रां प्रकुर्वाणो रुद्रत्वं प्राप्नुयान्नरः ।। ६६।।

अतः परं प्रवक्ष्यामि गारी यात्रामनुत्तमाम्।।

शुक्लपक्षे तृतीयायां या यात्रा विष्वगृद्धिदा ।। ६७ ।।

गोप्रेक्षतीर्थे सुस्नाय मुखनिर्मालिकां व्रजेत् ।।

ज्येष्ठावाप्यां नरः स्नात्वा ज्येष्ठागौरीं समर्चयेत् ।।६८।।

सौभाग्यगौरी संपूज्या ज्ञानवाप्यां कृतोदकैः।।

ततः शृंगारगौरीं च तत्रैव च कृतोदकः ।। ६९ ।।

स्नात्वा विशालगंगायां विशालाक्षीं ततो व्रजेत् ।।

सुस्नातो ललितातीर्थे ललितामर्चयेत्ततः ।।4.2.100.७०।।

स्नात्वा भवानीतीर्थेथ भवानीं परिपूजयेत् ।।

मंगला च ततोभ्यर्च्या बिंदुतीर्थकृतोदकैः ।। ७१ ।।

ततो गच्छेन्महालक्ष्मीं स्थिरलक्ष्मीसमृद्धये ।।

इमां यात्रां नरः कृत्वा क्षेत्रेस्मिन्मुक्तिजन्मनि ।। ७२ ।।

न दुःखैरभिभूयेत इहामुत्रापि कुत्रचित् ।।

कुर्यात्प्रतिचतुर्थीह यात्रां विघ्नेशितुः सदा ।। ७३ ।।

ब्राह्मणेभ्यस्तदुद्देशाद्देया वै मोदका मुदे ।।

भौमे भैरवयात्रा च कार्या पातकहारिणी ।। ७४ ।।

रविवारे रवेर्यात्रा षष्ठ्यां वारविसंयुजि ।।

तथैव रविसप्तम्यां सर्वविघ्नोपशांतये ।। ७५ ।।

नवम्यामथवाष्टम्यां चंडीयात्रा शुभा मता ।।

अंतर्गृहस्य वै यात्रा कर्तव्या प्रतिवासरम् ।। ७६ ।।

प्रातःस्नानं विधायादौ नत्वा पंचविनायकान् ।।

नमस्कृत्वाथ विश्वेशं स्थित्वा निर्वाणमंडपे ।। ७७ ।।

अंतर्गृहस्य यात्रा वै करिष्ये घौघशांतये ।।

गृहीत्वा नियमं चेति गत्वाथ मणिकर्णिकाम् ।। ७८ ।।

स्नात्वा मौनेन चागत्य मणिकर्णीशमर्चयेत् ।।

कंबलाश्वतरौ नत्वा वासुकीशं प्रणम्य च ।।७९।।

पर्वतेशं ततो दृष्ट्वा गंगाकेशवमप्यथ ।।

ततस्तु ललितां दृष्ट्वा जरासंधेश्वरं ततः ।।4.2.100.८०।।

ततो वै सोमनाथं च वाराहं च ततो व्रजेत् ।।

ब्रह्मेश्वरं ततो नत्वा नत्वागस्तीश्वरं ततः ।। ८१ ।।

कश्यपेशं नमस्कृत्य हरिकेशवनं ततः ।।

वैद्यनाथं ततो दृष्ट्वा ध्रुवेशमथ वीक्ष्य च ।। ८२ ।।

गोकर्णेश्वरमभ्यर्च्य हाटकेशमथो व्रजेत् ।।

अस्थिक्षेप तडागे च दृष्ट्वा वै कीकसेश्वरम् ।। ८३ ।।

भारभूतं ततो नत्वा चित्रेगुप्तेश्वरं ततः ।।

चित्रघंटां प्रणम्याथ ततः पशुपतीश्वरम् ।। ८४ ।।

पितामहेश्वरं गत्वा ततस्तु कलशेश्वरम् ।।

चंद्रेशस्त्वथ वीरेशो विद्येशोग्नीश एव च ।।८५।।

नागेश्वरो हरिश्चंद्रश्चिंतामणिविनायकः ।।

सेनाविनायकश्चाथ द्रष्टव्यः सर्वविघ्नहृत् ।। ८६ ।।

वसिष्ठवामदेवौ च मूर्तिरूपधरावुभौ ।।

द्रष्टव्यौ यत्नतः काश्यां महाविघ्नविनाशिनौ ।। ८७ ।।

सीमाविनायकं चाथ करुणेशं ततो व्रजेत् ।।

त्रिसंध्येशो विशालाक्षी धर्मेशो विश्वबाहुका ।।

आशाविनायकश्चाथ वृद्धादित्यस्ततः पुनः ।। ८८ ।।

चतुर्वक्त्रेश्वरं लिंगं ब्राह्मीशस्तु ततः परः ।।

ततो मनःप्रकामेश ईशानेशस्ततः परम् ।। ८९ ।।

चंडीचंडीश्वरौ दृश्यौ भवानीशंकरौ ततः ।।

ढुंढिं प्रणम्य च ततो राजराजेशमर्चयेत् ।। 4.2.100.९० ।।

लांगलीशस्ततोभ्यर्च्यस्ततस्तु नकुलीश्वरः ।।

परान्नेशमथो नत्वा परद्रव्येश्वरं ततः ।। ९१ ।।

प्रतिग्रहेश्वरं वापि निष्कलंकेशमेव च ।।

मार्कंडेयेशमभ्यर्च्य ततश्चाप्सरसेश्वरम् ।। ९२ ।।

गंगेशोर्च्यस्ततो ज्ञानवाप्यां स्नानं समाचरेत् ।।

नंदिकेशं तारकेशं महाकालेश्वरं ततः ।। ९३ ।।

दंडपाणिं महेशं च मोक्षेशं प्रणमेत्ततः ।।

वीरभद्रेश्वरं नत्वा अविमुक्तेश्वरं ततः ।।९४।।

विनायकांस्ततः पंच विश्वनाथं ततो व्रजेत् ।।.

ततो मौनं विसृज्याथ मंत्रमेतमुदीरयेत् ।। ९५ ।।

अंतर्गृहस्य यात्रेयं यथावद्या मया कृता ।।

न्यूनातिरिक्तया शंभुः प्रीयतामनया विभुः ।।९६।।

इति मंत्रं समुच्चार्य क्षणं वै मुक्तिमंडपे ।।

विश्रम्य यायाद्भवनं निष्पापः पुण्यवान्नरः ।।९७।।

संप्राप्य वासरं विष्णोर्विष्णुतीर्थेषु सर्वतः ।।

कार्या यात्रा प्रयत्नेन महापुण्य समृद्धये ।। ९८ ।।

नभस्य पंचदश्यां च कुलस्तंभं समर्चयेत् ।।

दुःखं रुद्रपिशाचत्वं न भवेद्यस्य पूजनात् ।। ९९ ।।

श्रद्धापूर्वमिमा यात्रा कर्तव्याः क्षेत्रवासिभिः ।।

पर्वस्वपि विशेषेण कार्या यात्राश्च सर्वतः ।। 4.2.100.१०० ।।

न वंध्यं दिवसं कुर्याद्विनायात्रां क्वचित्कृती ।।

यात्राद्वयं प्रयत्नेन कर्तव्यं प्रतिवासरम् ।। १ ।।

आदौ स्वर्गतरंगिण्यास्ततो विश्वेशितुर्ध्रुवम् ।।

यस्य वंध्यं दिनं यातं काश्यां निवसतः सतः ।। २।।

निराशाः पितरस्तस्य तस्मिन्नेव दिनेऽभवन् ।।

स दष्टः कालसर्पेण स दृष्टो मृत्युना स्फुटम् ।। ३ ।।

स मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः ।।

सर्वतीर्थेषु सस्नौ स सर्वयात्रां व्यधात्स च ।।

मणिकर्ण्यां तु यः स्नातो यो विश्वेशं निरैक्षत ।।४।।

सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनःपुनः ।।

दृश्यो विश्वेश्वरो नित्यं स्नातव्या मणिकर्णिका।।५।।

।। व्यास उवाच ।। ।।

सूत स्कांदमिदं श्रुत्वा काशीमाहात्म्यमुत्तमम् ।।

नरो न निरयं याति कृत्वाप्यघसहस्रकम् ।। ६ ।।

स्नात्वा सर्वाणि तीर्थानि यच्छ्रेयः समुपार्ज्यते ।।

काशीखंडस्य श्रवणात्तत्स्यात्सूत न संशयः ।।७।।

दत्त्वा दानानि सर्वाणि कृत्वा यज्ञाननेकशः ।।

तत्पुण्यं लभते मर्त्यस्तदा तच्छ्रवणाद्ध्रुवम् ।।८ ।।

तप्त्वा तपांसि चोग्राणि प्राप्यते यन्महत्फलम् ।।

श्रवणादस्य खंडस्य लभते तन्न संशयः ।। ९ ।।

अधीत्य चतुरो वेदान्सांगान्यत्फलमाप्यते ।।

काशीखंडं समाकर्ण्य तत्फलं लभ्यते नरैः ।। 4.2.100.११० ।।

गययां श्राद्धदानाच्च यथा तृप्यंति पूर्वजाः ।।

तथैतच्छ्रवणान्नृणां तृप्नुवंति पितामहाः ।। ११ ।।

तैश्च सर्वपुराणानि श्रुतानि स्थिरबुद्धिभिः ।।

काशीखंडं श्रुतं यैश्च सर्वेषां श्रेयसां पदम् ।। १२ ।।

श्रुताश्च सर्वधर्मास्तैर्महापुण्येकराशिभिः ।।

श्रुतं यैः स्थिरचेतोभिः काशीमाहात्म्यमुत्तमम्।।१३ ।।

इदमेव हि देवेज्या परमा परिकीर्तिता ।।

जपेत्तत्खंडमखिलं श्रोतव्यं श्रद्धया द्विजाः ।। १४ ।।

शृणुयादेकमपि य आख्यानं काशिखंडजम् ।।

श्रुतानि तेन सर्वाणि धर्मशास्त्राण्यसंशयम् ।। १५ ।।

महाधर्मैकजननं महार्थप्रतिपादकम् ।।

कारणं सर्वकामाप्तेः काशीखंडमिदं स्मृतम् ।। १६ ।।

एतच्छ्रवणतः पुंसां कैवल्यं नैव दूरतः ।।

तुष्यंति सर्वे पितरः श्रुत्वैतत्खंडमुत्तमम् ।। १७।।

प्रीणंत्यमर्त्याः सर्वेपि ब्रह्मविष्णुशिवादयः ।।

मुनयः परिमोदंते माद्यंति सनकादयः ।। १८ ।।

हृष्टः सर्वो भवेदेव भूतग्रामश्चतुर्विधः ।।

महिमश्रवणादस्माद्वाराणस्या न संशयः ।। १९ ।।

य इदं श्रावयेद्विद्वान्समस्तं त्वर्धमेव वा ।।

पादमात्रं तदर्धं वा त्वेकं व्याख्यानमुत्तमम् ।। 4.2.100.१२० ।।

स नमस्यः प्रयत्नेन संपूज्यस्त्विष्टदेववत् ।।

तस्मै देयं प्रयत्नेन विश्वेश प्रीतये सदा ।। २१ ।।

तस्मिंस्तुष्टे हि संतुष्टो विश्वेशो नात्र संशयः।।

यत्रैतत्पठ्यते खंडं परानंदसमाश्रयम् ।। २२ ।।

न तत्र प्रभवेत्कश्चिदमंगलसमुद्भवः ।।

य इदं शृणुयाद्विद्वान्यश्चेदं श्रावयेत्सुधीः ।। २३ ।।

यः पठेदपि पुण्यात्मा ते सर्वे रुद्रमूर्तयः ।।

य एतत्पुस्तकं रम्यं लेखयित्वा समर्पयेत् ।। २४ ।।

अखिलानि पुराणानि तेन दत्तानि नान्यथा ।।

अत्राख्यानानि यावंति श्लोका यावंत एव हि ।। २५ ।।

तथा पदानि यावंति वर्णा यावंत एव हि ।।

यावंत्यपि च मात्राणि यावंत्यः पदपंक्तयः ।। २६ ।।

गुणे सूत्राणि यावंति यावंतः पटतंतवः ।।

चित्ररूपाणि यावंति रम्यपुस्तकसंचके ।। २७ ।।

तावद्युगसहस्राणि दाता स्वर्गे महीयते ।।

एतद्द्वादशकृत्वो यः शृणुयात्खंडमुत्तमम् ।। २८ ।।

ब्रह्महत्यापि तस्याशु नश्येच्छंभोरनुग्रहात् ।।

अपुत्रः शृणुयाद्यस्तु सुस्नातः श्रद्धयान्वितः ।। २९ ।।

तस्य पुत्रो भवत्येव शंभोराज्ञा प्रभावतः ।।

किं बहूक्तेन सूतेह यस्य यस्य मनोरथः ।। 4.2.100.१३० ।।

यो यस्तं तं स ससदा श्रुत्वैतत्प्राप्नुयात्कृती ।।

शृणुयाद्दूरदेशेपि यः काशीखंडमुत्तमम् ।। ३१ ।।

स काशीवासपुण्यस्य भाजनं स्याच्छिवाज्ञया ।।

एतच्छ्रवणतः पुंसां सर्वत्र विजयो भवेत् ।।

सौभाग्यं चापि सर्वत्र प्राप्नुयान्निर्मलाशयः ।। ३२ ।।

यस्य विश्वेश्वरस्तुष्टस्तस्यैतच्छ्रवणे मतिः ।।

जायते पुण्ययुक्तस्य महानिर्मलचेतसः ।। ३३ ।।

सर्वेषां मंगलानां च महामंगलमुत्तमम् ।।

गृहेपि लिखितं पूज्यं सर्वमंगलसिद्धये ।।१३४।। ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धेऽनुक्रमणिकानाम शततमोऽध्यायः ।। १०० ।। ।।७।। ।। श्रीकाशीखण्डोत्तरार्धं सम्पूर्णम् ।।

।। समाप्तं चेदं चतुर्थं काशीखंडम् ।।४।।

नाग प्रकाशक, दिल्ली द्वारा ई. सन् १९८७ मध्ये पुनर्मुद्रितस्य स्कन्द पुराण काशीखंडस्य अयं युनिकोड रूपांतरणं indsenz ओ.सी.आर. सांफ्टवेयर द्वारा आषाढे अधिक मासे कृष्ण प्रतिपदा तिथ्यां २०७२ विक्रमीय संवत्सरे (3-7-2015ई.) पूर्णीकृतम्।।

खण्डः ५ (अवन्तीखण्डः) · अवन्तीक्षेत्रमाहात्म्यम् — Adhyāya 1

।। श्रीगणेशाय नमः ।।

श्रीजगदंबायै नमः ।।

।। अथावन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्यं प्रारभ्यते ।।

।। व्यास उवाच ।। ।।

स्रष्टारोऽपि प्रजानां प्रबलभवभयाद्यं नमस्यंति देवा

यो ह्यव्यक्ते प्रविष्टः प्रविहितमनसां ध्यानयुक्तात्मनां च ।।

लोकानामादिदेवः स जयतु भगवाञ्छ्रीमहा कालनामा बिभ्राणः सोमलेखामहिवलययुतं व्यक्तलिंगं कपालम् ।। १ ।।

।। उमोवाच ।। ।।

पृथिव्यां यानि तीर्थानि पुण्याश्च सरितस्तथा।।

कथ्यंतां तानि यत्नेन श्रद्धा येषु प्रजायते ।। २ ।।

ईश्वर उवाच ।। ।।

अस्ति लोकेषु विख्याता गंगा त्रिपथगा नदी ।।

सेविता देवगन्धर्वैर्मुनिभिश्च निषेविता ।। ३ ।।

तपनस्य सुता देवी यमुना लोकपावनी ।।

पितॄणां वल्लभा देवी महापातकनाशिनी ।। ४ ।।

चन्द्रभागा वितस्ता च नर्मदाऽमरकण्टके ।।

कुरुक्षेत्रं गया देवि प्रभासं नैमिषं तथा ।। ५ ।।

केदारं पुष्करं चैव तथा कायावरोहणम् ।।

तथा पुण्यतमं देवि महाकालवनं शुभम् ।। ६ ।।

यत्रास्ते श्रीमहाकालः पापेन्धनहुताशनः ।।

क्षेत्रं योजनपर्यंतं ब्रह्महत्यादिनाशनम् ।। ७ ।।

भुक्तिदं मुक्तिदं क्षेत्रं कलिक ल्मषनाशनम् ।।

प्रलयेऽप्यक्षयं देवि दुष्प्रापं त्रिदशैरपि ।। ८ ।।

।। उमोवाच ।। ।।

प्रभावः कथ्यतां देव क्षेत्रस्यास्य महेश्वर ।।

यानि तीर्थानि विद्यन्ते यानि लिंगानि संति वै।। ९ ।।

तान्यहं श्रोतुमिच्छामि परं कौतूहलं हि मे ।। 5.1.1.१० ।।

।। महादेव उवाच ।। ।।

शृणु देवि प्रयत्नेन प्रभावं पापनाशनम् ।।

क्षेत्रमाद्यं महादेवि सर्वपापप्रणाशनम् ।। ११ ।।

श्रीमेरोः संनिधाने च शिखरं रत्नचिह्नितम् ।।

अनेकाश्चर्यनिलयं बहुपादपसंकुलम् ।। १२ ।।

विचित्रधातुभिश्चित्रं स्वच्छस्फटिकवेदिकम् ।।

विचित्रवर्णशोभाढ्यमृषिसंघनिनादितम् ।। १३ ।।

मृगनागेन्द्रसंयुक्तं गजयूथसमाकुलम् ।।

निर्झरांबुप्रपातोत्थशीकराकरसंकुलम् ।। १४ ।।

वाताहततरुव्रातप्रसूनास्थानचित्रितम् ।।

मृगनाभिवरामोदवासिता शेषकाननम् ।। १५ ।।

लतागृहरतिस्थानं सिद्धविद्याधराश्रयम् ।।

प्रवीणकिन्नरव्रातमधुरध्वनिनादितम् ।। १६ ।।

तस्मिन्वने महारम्ये शोभिताशेष भूमिकम् ।।

वैराजं नाम भवनं ब्रह्मणः परमेष्ठिनः ।। १७ ।।

तत्र दिव्यांगनागीतमधुरध्वनिनादिता ।।

पारिजाततरुच्छन्नमंजरीदामशोभिता ।। ।। १८ ।।

बहुवाद्यसमुन्नद्धमहास्वननिनादिता ।।

लयतालयुतानेकगीतवादित्रनादिता ।। १९ ।।

विन्यस्ता कोटिभिः स्तंभैर्निर्मलादर्शशोभिता ।।

लयतालयुतानेकमहाकौतुकसंयुता ।। 5.1.1.२० ।।

अप्सरोनृत्यविन्यासविलासोल्लासशोभिता ।।

सभा कांतिमतीनाम देवानां हर्षदायिका ।। २१ ।।

ऋषिसंघसमाकीर्णा मुनिवृन्दनिषेविता ।।

द्विजातिवेदशब्देन नादिताऽऽनंददायिका ।। २२ ।।

तस्यां निविष्टं वागीशं शंकराराधने रतम् ।।

सनत्कुमारं ब्रह्मर्षिं ब्रह्मणो मानसं सुतम् ।। २३ ।।

मुनिमध्यात्समुत्थाय कृष्णद्वैपायनो मुनिः ।।

पराशरसुतो व्यासः प्रणिपत्य यथाविधि ।। २४ ।।

कृतांजलिपुटो भूत्वा भवभक्त्यानुभावितः ।।

पप्रच्छ परया तुष्ट्या हर्षितांगरुहाननः ।। २५ ।।

महाकालस्य माहात्म्यं प्राणिनां मोहनाशनम् ।।

।। ।। व्यास उवाच ।। ।।

महाकालवनं कस्मात्प्रोच्यते सर्वतो वरम् ।। २६ ।।

भगवन्क्षेत्रमाहात्म्यं महाकालस्य कथ्यताम् ।।

कथं गुह्यवनं प्रोक्तं पीठत्वमूषरं तथा ।। २७ ।।

फलं यथात्र वसतां मृतानां च गतिर्यथा ।।

स्नानेन यद्भवेत्पुण्यं दानेनापि च यत्फलम् ।। २८ ।।

कथमेतत्स्मशानं च क्षेत्रं प्रोक्तं यथा तथा ।।

पृष्टं मे शंकरे भक्त्या ब्रूहि त्वं शास्त्रकोविद ।। २९ ।।

।। सनत्कुमार उवाच ।। ।।

क्षीयते पातकं यत्र तेनेदं क्षेत्रमुच्यते ।।

यस्मात्स्थानं च मातॄणां पीठं तेनैव कथ्यते ।। 5.1.1.३० ।।

मृताः पुनर्न जायंते तेनेदमूषरं स्मृतम् ।।

गुह्यमेतत्प्रियं नित्यं क्षेत्रं शंभोर्महा त्मनः ।।३१।।

यस्मादिष्टं हि भूतानां स्मशानमतिवल्लभम् ।।

महाकालवनं यच्च तथा चैवाविमुक्तिकम् ।। ३२ ।।

एकाम्रकं भद्रकालं करवीरवनमेव च ।।

कोलागिरिस्तथा काशी प्रयागममरेश्वरम् ।। ३३ ।।

भरथं चैव केदारं दिव्यं रुद्रमहालयम् ।।

दिव्यस्मशानान्येतानि रुद्रस्येष्टानि नित्यशः ।। ।। ३४ ।।

रमते भगवानेषु सिद्धक्षेत्रेषु सर्वदा ।।

पृथिव्यां नैमिषं तीर्थमुत्तमं तीर्थपुष्करम् ।। ३५ ।।

त्रयाणामपि लोकानां कुरुक्षेत्रं प्रशस्यते ।।

कुरुक्षेत्राद्दशगुणा पुण्या वाराणसी मता ।। ३६ ।।

तस्या दशगुणं व्यास महाकालवनोत्तमम् ।।

प्रभासाद्यानि तीर्थानि पृथिव्यामिह यानि तु ।। ३७ ।।

प्रभासमुत्तमं तीर्थं क्षेत्रमाद्यं पिनाकिनः ।।

श्रीशैलमुत्तमं तीर्थं देवदारुवनं तथा ।। ३८ ।।

तस्मादप्युत्तमं व्यास पुण्या वाराणसी मता।।

तस्माद्दशगुणं प्रोक्तं सर्वतीर्थोत्तमं यतः।।३९।।

महाकालवनं गुह्यं सिद्धक्षेत्रं तथोषरम् ।।

किंचिद्गुह्यान्यथान्यानि स्मशानान्यूषराणि च ।।5.1.1.४०।।

सर्वतस्तु समाख्यातं महाकालवनं मुने ।।

स्मशानमूषरक्षेत्रं पीठं तु वनमेव च ।।४१।।

पंचैकत्र न लभ्यंते महाकालपुरादृते ।।४२।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालवनप्रशंसावर्णनंनाम प्रथमोऽध्यायः ।। १ ।।

खण्डः ५ (अवन्तीखण्डः) · अवन्तीक्षेत्रमाहात्म्यम् — Adhyāya 2

।। सनत्कुमार उवाच ।। ।।

पुरा त्वेकार्णवे प्राप्ते नष्टे स्थावरजंगमे ।।

नाग्निर्न वायुरादित्यो न भूमिर्न दिशो नभः ।।१।।

न नक्षत्राणि न ज्योतिर्न द्यौर्नेंदुर्ग्रहा स्तथा ।।

न देवासुरगंधर्वाः पिशाचोरगराक्षसाः ।। २ ।।

सरांसि नैव गिरयो नापगा नाब्धयस्तथा ।।

सर्वमेवतमोभूतं न प्राज्ञायत किंचन ।। ३ ।।

तदैको हि महाकालो लोकानुग्रहकारणात् ।।

तस्थौ स्थानान्यशेषाणि काष्ठास्वालोकयन्प्रभुः ।। ४ ।।

सृष्ट्यर्थं स महाकालः करे कामं प्रतिष्ठितम्।।

दक्षिणस्य तु तर्जन्यां स ममंथाविशोषितम् ।।५।।

कललं बुद्बुदं भूत्वा तविवेगविवर्द्धितम् ।।

जज्ञे तदंडं सुदृढं सुष्ठु वृत्तं हिरण्मयम् ।।६।।

करेण ताडितं तद्धि बभूव द्विदलं महत् ।।

अधःखंडं स्मृता भूमिरूर्ध्वं द्यौस्तारकान्वितम् ।। ७ ।।

मध्येऽभवत्तदा ब्रह्मा पंचवक्त्रश्चतुर्भुजः ।।

महेश्वरोऽनुमान्यैव तमयोजदनंतरम् ।। ८ ।।

कुरु सृष्टिं महाबाहो विचित्रां मदनुग्रहात् ।।

इत्युक्त्वांतर्हितः क्वापि देवो ब्रह्मा न जग्मिवान् ।। ९ ।।

प्रेर्यमाणोऽपि वै स्रष्टुं ब्रह्मा देवमचिंतयत् ।।

ब्रह्मणा ध्यायमानश्च ज्ञानार्थं भगवान्भवः ।। 5.1.2.१० ।।

ब्रह्मणस्तपसा दृष्टः प्रादाद्वेदं षडंगकम् ।।

लब्धे वेदेऽपि न चिरात्सष्टिं कर्तुं शशाक सः ।।११।।

तपसाऽतिष्ठदा भूयः समाराधयितुं भवम् ।।

नापश्यत्स यदा देवं तदा तुष्टाव भावितः ।। १२ ।।।

।। ब्रह्मोवाच ।। ।।

नमः शिवायामलसत्त्वचेतसे गुणत्रयातीतविसारितेजसे ।।

षडंगवेदस्य ममापि वेधसे परस्वरूपानुभवाय चक्षुषे ।। १३ ।।

नमोऽ स्तु ते सृष्टिविधौ रजोजुषे जगत्स्थितौ सत्त्वमधिष्ठिताय ते ।।

विनाशहेतौ तमसा महीयसे शिवाय निर्वाणसुखप्रदायिने ।।१४।।

अशेषभूतप्रकृतेः परा य वै परात्मरूपाय नमः शिवाय वै ।।

नृबुद्ध्यहंकारमनोविधायिने भर्त्रे च षड्विंशकरूपकाय वै ।। १५ ।।

भूतोयवह्न्यम्बरवायुचंद्रसूर्यात्मरूपाभिरिदं तनूभिः ।।

व्याप्तं जगद्यस्य नमोऽस्तु तस्मै भूतं भविष्यमथ वर्तमानम् ।। १६ ।।

यानीह तेजांसि जगंति यानि भूतानि भव्यान्यथ कारणानि ।।

भवंति सृष्टौ विलयं विनाशे व्रजंति यस्यात्मनि तं नमामि ।। १७ ।।

।। सनत्कुमार उवाच ।। ।।

एवं संस्तुवतो व्यास ब्रह्मणो भगवान्परः ।।

अन्तर्हित उवाचेदं ब्रह्मन्संयाच्यतां वरः ।। १८ ।।

स वव्रे मनसा पुत्रं भवं गौरवकारणात् ।।

विज्ञायांतर्गतं तस्य परमेश उवाच तम् ।। १९ ।।

यस्मान्मां मनसा पुत्रं चतुर्मुख समीहसे ।।

कस्मिंश्चित्कारणे तस्मादहं छेत्स्यामि ते शिरः ।। 5.1.2.२० ।।

अयाच्यं याचितं यस्मान्ममांशो नीललोहितः ।।

रुद्रो भविष्यति सुतः स च ते हिंस्यति प्रभाम् ।। २१ ।।

अन्यद्यस्मात्स्मृतो भक्त्या त्वयाहं पितृभावतः ।।

परब्रह्मस्वरूपेण जिज्ञासा मम या कृता ।। ।। २२ ।।

तस्माद्ब्रह्मेति लोकेऽत्र नाम ख्यातं भविष्यति ।।

पितामहत्वं तेनापि पितामहस्ततो ह्यसि ।। २३ ।।

लब्ध्वा शापवरावेवं पुत्रसृष्टिं चकार सः ।।

स्वतेजोजनितं वह्निं जुह्वतः स्वेदमावहत् ।।२४।।

समिद्युक्तेन हस्तेन ललाटं मार्जतोऽभवत् ।।

स्विन्नभ्रष्टस्ततो रक्तबिंदुरेको विभावसौ ।।२५।।।

स नीललोहितोऽभूद्वै स च रुद्रो भवाज्ञया ।।

तदनन्तरमासाद्य उत्ततार सुतोंऽतिकात् ।। २६ ।।

पंचवक्त्रो दशभुजः शूलचापासिशक्तिमान् ।।

त्रिपंच नयनो रौद्रो व्यालयज्ञोपवीतकः ।। २७ ।।

सेन्दुः कपर्दं बिभ्राणः सिंहचर्मांबरंधरः ।।

जातमेवं स दृष्ट्वा तु ब्रह्मा नामाकरोत्तदा ।। २८ ।।

नीललोहितनामेति भव रुद्र पिनाकधृक् ।।

ततः प्रववृते सृष्टिः स्रष्टुर्लोकपितामहात् ।। २९ ।।

सप्तादौ मानसाञ्जज्ञे सनकादींस्ततोऽपरान् ।।

मरीचि दक्षप्रभृतीन्मन्वादींश्च प्रजासृजः ।। 5.1.2.३० ।।

अष्टभेदान्सुरान्कृत्वा तिर्यग्योनिं च पंचधा ।।

मनुष्यानेकभेदांश्च सृष्टिमेवं ससर्ज ह ।। ३१ ।।

सृष्टिः सुरादिका जाता कृत्वा ब्रह्माणमप्यधः ।।

प्रणम्याथ सिषेवुस्ते केवलं नीललोहितम् ।। ३२ ।।

ततो ब्रह्माऽवदद्रुद्रमपूज्यो हि त्वया कृतः ।।

स्वतेजसा भवान्पूज्यो यतो याहि हिमालयम् ।।३३।।

तं नीललोहितः प्रोचे भवता नार्चितो ह्यहम् ।।

ततो जगाम रुद्रोऽसौ स यत्र भगवान्भवः ।।३४।।

ततो ब्रह्माऽभवन्मूढो रजसा चोपबृंहितः ।।

तताप तेजसा सृष्टिं मन्यमानो मया कृताम् ।। ३५।।

मत्तुल्यो नास्ति वै देवो येन सृष्टिः प्रवर्द्धिता ।।

सदेवासुरगन्धर्वा पशु पक्षिमृगाकुला ।। ३६ ।

एवं मूढः स पंचास्यो विरंच्योऽभवद्दर्पितः ।।

प्राग्वक्त्रं सुस्वरं तस्य सामवेदप्रवर्तकम् ।। ३७ ।।

द्वितीयं वदनं तस्य ऋग्वे दस्य प्रवर्तकम्।।

यजुर्वेदधरं चान्यदथर्वाख्यं चतुर्थकम् ।। ३८ ।।

सांगोपांगेतिहासांश्च सरहस्यान्ससंग्रहान् ।।

वेदानधीते वक्त्रेण पंचमेनोपचक्षुषा ।। ।। ३९ ।।

तस्याऽसुराः सुराः सर्वे वक्त्रस्याद्भुततेजसः ।।

तेजसा न प्रकाशंते दीपः सूर्योदये यथा ।। 5.1.2.४० ।।

सपुत्रा अपि सोद्वेगा बभूवुर्नष्ट चेतसः ।।

नाभिगन्तुं न च द्रष्टुं चिरं तेजोऽपसर्पितुम् ।। ४१ ।।

अभिभूतमिवात्मानं मन्यमाना अविद्विषः ।।

सर्वे ते मन्त्रयामासुर्देवा वै हितमा त्मनः ।। ४२ ।।

गच्छाम शरणं देवं निस्तेजा ब्रह्मतेजसा ।।

किं तु तस्य न जानीमः स्थानं यत्र व्यवस्थितः ।। ४३ ।।

तं भीममत्र दक्ष्यामो भक्त्या नान्येन केनचित् ।।

एवं संमन्त्र्य ते देवाः कृतांजलिपुटास्तदा ।।

चक्रुः स्तोत्रं महेशस्य परया स्वरसंपदा ।। ४४ ।।

।। देवा ऊचुः ।।।

नमस्ते देवदेवेश महेश्वर नमोनमः ।। ४५ ।।

न विद्मः परमं मूढा महिमानं तवातुलम् ।।

यद्योगेन परं ब्रह्म भूतानां त्वं सनातनः ।। ४६ ।।

प्रतिष्ठा सर्वभूतानां हेतुः सर्वस्य सर्जने ।।

बिभर्षि चैव नेत्रस्थान्सोमसूर्यविभावसून् ।। ४७ ।।

नामसंकीर्तनादेव मुच्यन्ते जंतवोऽशुभात् ।।

पृथिव्यबग्निचन्द्रार्कव्योमवायूपलक्षणाः ।। ४८ ।।

मूर्तयस्ते महादेव व्याप्तमाभिरशेषतः ।।

रजःसत्त्वतमोभावैर्भ्राम्यमाणं त्वया जगत् ।। ४९ ।।

नावबुध्यति सर्वेश सर्वमूर्तिधरो यतः ।।

ब्रह्मादीनां सुरेशानां संमोहनविमोहनम् ।।

त्वं करोषि युगावर्तकाले काले च दुःसहम् ।। 5.1.2.५० ।।

।। सनत्कुमार उवाच ।। ।।

प्रत्यक्षं दर्शनं दत्त्वा देवानामनुकंपया ।।

प्रसन्नवदनो भूत्वा देवैश्चापि नमस्कृतः ।। ५१ ।।

वासयन्मोहनाम्ना तु सह देवैर्महेश्वरः ।।५२।।

एवं संस्तूयमानोऽसौ देवर्षिपितृमानवैः ।।

अन्तर्हित उवाचेदं देवा ब्रूत यथेप्सितम् ।। ५३ ।।

।। देवा ऊचुः ।। ।।

प्रत्यक्षं दर्शनं स्थाणो प्रार्थयाम सदा तव ।।

त्वया कारुण्यतोऽस्माकं वरश्चापि प्रदीयताम् ।। ५४ ।।

यदस्माकं महद्वीर्यं तेजश्चैव पराक्रमम् ।।

तत्सर्वं ब्रह्मणा ग्रस्तं पंचमास्यस्य तेजसा ।। ५५ ।।

विनेशुः सर्वतेजांसि त्वत्प्रसादात्पुनः प्रभो ।।

जायते तद्यथापूर्वं तथा कुरु महेश्वर ।। ५६ ।।

।। सनत्कुमार उवाच ।। ।।

प्रत्यक्षमेत्य वै पश्चाच्चलितः शर्व एव हि ।।

जगाम तत्र यत्रासौ रजोऽहंकारमूर्त्तिमान्।।

देवाः स्तुवंतो देवेशं परिवार्य उपाविशन् ।। ।। ५७ ।।

ब्रह्मा तमागतं देवं नाजानात्तमसा वृतः ।।

सूर्यकोटिसहस्राणां तेजसा रंजयञ्जगत् ।। ५८ ।।

तदाऽदृश्यत विश्वात्मा विश्वसृग्विश्वभाव नः ।।

स पितामहमासीनं सकले देवमण्डले ।। ५९ ।।

तेजसाभिभवन्रुद्रस्तेन मत्तोऽग्रतः स्थितः ।।

रुद्रतेजोभिभूतं च ब्रह्मवक्त्रं न राजते ।। 5.1.2.६० ।।

रात्रौ प्रकाशकिरणश्चंद्रः सूर्योदये यथा ।।

सगर्वोथात्मजं दृष्ट्वा रुद्रदेवं सनातनम् ।। ६१ ।।

अवन्दत करेणैव प्राह वै सस्मितं वचः ।।

प्रत्युवाच विरूपाक्षो ब्रह्माणं तं हसन्निव ।। ६२ ।।

यतो न वेद परमं देवं तत्तेजसावृतः ।।

ततोऽट्टहासं भगवान्मुमोच शशिशेखरः ।। ६३ ।।

पश्यतां सर्वदेवानां शृण्वतां वाचमुक्तवान् ।।

तेनादृहासशब्देन मोहयित्वा पितामहम् ।। ६४ ।।

तेजोराशिशशांकाभः शशांकार्काग्निलोचनः ।।

वामांगुष्ठनखाग्रेण ब्रह्मणः पञ्चमं शिरः ।। ६५ ।।

चकर्त कदलीगर्भं नरः कररुहैरिव ।।

छिद्यमानं च तद्वक्त्रं बुबुधे न पितामहः ।। ६६ ।।

रुद्रस्य तेजसा तस्मान्मो हितो न नतिं गतः ।।

छिन्नं तस्य शिरः पश्चाद्रुद्रहस्ते स्थितं तदा ।। ६७ ।।

अपश्यद्दैवतैः सार्धं रौद्रमतिभयाज्ज्वलत् ।।

महेश्वरकरांतस्थनखै र्वक्त्रं विराजते ।। ६८ ।।

ग्रहमण्डलमध्यस्थो द्वितीय इव चन्द्रमाः ।।

उत्क्षिप्य तत्कपालेन ननर्त शशिशेखरः ।। ६९ ।।

शिखरस्थेन सूर्येण कैलास इव पर्वतः ।।

छिन्ने वक्त्रे ततो देवा हृष्टपुष्टा वृषध्वजम् ।।

तुष्टुवुर्विविधैः स्तोत्रैर्देवदेवं कपालिनम् ।। 5.1.2.७० ।।

।। देवा ऊचुः ।। ।।

नमः कपालिने नित्यं महाकालाय शंखिने ।। ७१ ।।

ऐश्वर्यज्ञानयुक्ताय सर्वभोगप्रदायिने ।।

नमो दर्पविनाशाय सर्वदेवमयाय च ।। ७२ ।।

कालसंहारकर्ता त्वं महाकालस्ततो ह्यसि ।।

भक्तानां दुःखशमनो दुःखांतस्तेन रोचसे ।। ७३ ।।

शंकरोप्याशु भक्तानां तेन त्वं शंकरः स्मृतः ।।

छित्त्वा ब्रह्मशिरो यस्मात्कपालं च बिभर्षि च ।।७४।।

तेन देव कपाली त्वं स्तुतो ह्यसि प्रसीद नः ।।

एवं स्तुतः प्रसन्नात्मा देवानुत्थाप्य शंकरः ।।७५।।

कृपानिधिः स भगवांस्तत्रैवांतरधीयत ।।

शशिशकलमयूखैर्भासित यत्कपर्दं द्रवति गगनगंगातोयवीचीविचेयम्।।

सितविधृतकपालो मालया रुद्रपार्श्वे स जयति जितवेधा ऊर्जितः प्राज्यतेजाः ।।७६।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमआवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये ब्रह्मशिरश्छेद वर्णनं नामद्वितीयोऽध्यायः ।। २ ।।।छ।।।

खण्डः ५ (अवन्तीखण्डः) · अवन्तीक्षेत्रमाहात्म्यम् — Adhyāya 3

।। सनत्कुमार उवाच ।। ।।

छिन्ने वक्त्रे ततो ब्रह्मा क्रोधेन तमसा वृतः ।।

ललाटे स्वदमुत्पन्नं गृहीत्वाऽताडयद्भुवि ।। १ ।।

तत्स्वेदात्कुंडली जज्ञे सधनुः समहेषुधिः ।।

सहस्रकवचो वीरः किं करोमीत्युवाच ह ।। २ ।।

तमुवाच विरंचिस्तु दर्शयन्रुद्रमोजसा ।।

वध्यतामेष दुर्बुद्धिर्जायते न यथा पुनः ।। ३ ।।

ब्रह्मणो वचनं श्रुत्वा धनुरुद्यम्य पृष्ठतः ।।

स प्रतस्थे महेशस्य बाणहस्तोऽतिरोषभृत् ।। ४ ।।

स दृष्ट्वा पुरुषं चोग्रमगमद्विस्मितो भवः ।।

दिव्यबाणधनुर्हस्तं वेगविक्रांतगामिनम् ।। ५ ।।

मया न वध्योऽतिबलः सखा विष्णोर्भविष्यति ।।

अनुग्राह्यो ह्यहं तेन सख्यार्थं तपसि स्थितः ।। ६ ।।

चिंतयन्नित्थमीशोऽपि विष्णोराश्रममभ्यगात् ।।

हुंकारध्वनिना ब्रह्मन्मोहयित्वा ततो नरम् ।। ७ ।।

प्रपात्य च तदा हृष्टः क्रीडां कुर्वञ्जगत्स्थितौ ।।

यत्र नारायणः श्रीमांस्तपस्तेपे प्रतापवान् ।। ८ ।।

अदृश्यः सर्वभूतानां विश्वात्मा विश्वसृग्विभुः ।।

तत्र प्राप्तो विरूपाक्षो ददर्श मधुसूदनम् ।। ९ ।।

एकांगुष्ठस्थितं भूमौ तपोऽत्यंतमनातुरम् ।।

युगांतार्कसहस्रस्य तेजसा वृतमद्भुतम् ।। 5.1.3.१० ।।

पुण्या धारसमायुक्तं पुराणपुरुषोत्तमम् ।।

दृष्ट्वा नारायणं देवं भिक्षां देहीत्युवाच ह ।। ११ ।।

कपालं दर्शयित्वाग्रे ज्वलज्ज्वलनसोत्कटम् ।।

कपालपाणिं संप्रेक्ष्य रुद्रं विष्णुरचिंतयत् ।। १२ ।।

कोऽन्यो योग्यो भवेद्भिक्षुर्भिक्षादानस्य सांप्रतम् ।।

योग्योऽयमिति संकल्प्य दक्षिणं भुजमर्पयत् ।। १३ ।।

तं बिभेदांतर्गतज्ञः शूलेन शशिशेखरः ।।

ततः प्रवाह उत्पन्नः शोणितस्य विभोर्भुजात् ।। १४ ।।

जांबूनदरसाकारा वह्निज्वालेव निर्मला ।।

निष्पपात कपालांते शंभुना संप्रतीच्छिता ।। १५ ।।

ऋज्वी वेगवती शिप्रा दीधितीवांबरे रवेः ।।

पंचाशद्योजना दीर्घा विस्तारे दशयोजना ।। १६ ।।

दिव्यं वर्षसहस्रं सा समुवाह हरेर्भुजात् ।।

कियंतं कालमीशो हि भिक्षां जग्राह भावितः ।। १७ ।।

दत्तां नारायणेनाथ सत्पात्रे पात्र उत्तमे ।।

ततो नारायणः प्राह हरं परमिदं वचः ।। १८ ।।

संपूर्णं तव पात्रं हि ततो वै परमेश्वरः ।।

सतोयांबुदनिर्घोषं श्रुत्वा वाक्यं हरेर्हरः ।। १९ ।।

शशिसूर्याग्नि नयनः शशिशेखरशोभितः ।।

कपाले दृष्टिमावेश्य त्रिनेत्रैश्च जनार्दनम् ।। 5.1.3.२० ।।

अंगुल्या घटयन्प्राह कपालं चातिपूरितम् ।।

श्रुत्वा हरिरिदं वाक्यं रक्तधारां समाहरत् ।। २१ ।।

पार्श्वतोथ हरेरीशः स्वांगुल्या रुधिरं तदा ।।

दिव्यं वर्षसहस्रं च दृष्टिपातं ममंथ वै ।। २२ ।।

मथ्यमाने ततो रक्ते कललं बुद्बुदं क्रमात् ।।

बभूव च ततः पश्चात्किरीटी सशरासनः ।। २३ ।।

सहस्रबाहू रक्ताक्षो धनुर्ज्यां संस्पृशन्मुहुः ।।

बभूव तूणीरगलो वृषस्कंधोंऽगुलित्रवान् ।। २४ ।।

पुरुषोऽर्जुनसंकाशः कपाले संप्रकाशयन् ।।

तं दृष्ट्वा भगवान्विष्णुः प्राह रुद्रमिदं वचः ।। २५ ।।

कपाले भगवन्कोऽयं प्रादुर्भूतोऽभवन्नरः ।।

उक्तिं श्रुत्वा हरेरीशस्तमुवाच हरे शृणु ।। २६ ।।

नरो नामेति पुरुषः परमास्त्रविदांवरः ।।

यस्त्वयोक्तो नर इति नरस्तस्माद्भ विष्यति ।। २७ ।।

नरनारायणौ चोभौ युगे ख्यातौ भविष्यतः ।।

संग्रामे देवकार्येषु लोकानां परिपालने ।। २८ ।।

एष नारायण सखा नरस्तव भविष्यति ।।

तव एकाकिनः संख्ये तपसश्च महामुनिः ।। २९ ।।

विज्ञानस्य परीक्षायै तेजो लोके भविष्यति ।।

तेजोधिकमिदं दिव्यं ब्रह्मणः पंचमं शिरः ।। 5.1.3.३० ।।

तेजसा ब्रह्मणो दीप्तो भुजस्य तव शोणितात् ।।

मम दृष्टिनिपाताच्च त्रीणि तेजांसि यान्यतः ।। ३१ ।।

तत्संयोगात्समुत्पन्नः शत्रूनुद्वेजयिष्यति ।।

अवध्या ये भविष्यंति दुर्जयास्तव चापरे ।। ३२ ।।

शक्रस्य चामरारीणां तेषामेव भयंकरः ।।

एवमुक्तवतः शंभोर्विस्मितस्तस्य तेजसा ।। ३३ ।।

हरिरपि स तत्रैव तुष्टाव हरकेशवौ ।।

नमो हर हरे तुभ्यं नमः शंकर विष्णवे ।। ३४ ।।

नमस्ते शूलहस्ताय नमस्ते खङ्गपा णये ।।

नमोनमस्ते मेध्याय हृषीकेश नमोऽस्तु ते ।। ३५ ।।

नमोऽस्तु वाचां पतये श्रीधराय नमोनमः ।।

एवं स्तुवन्तं तं भक्त्या कृतांजलि पुटं नरम्।। ३६ ।।

तथैवांजलिसंबद्धं गृहीत्वाशु करद्वयम्।।

उद्धृत्याथ कपालात्तु पुनर्वचनमब्रवीत् ।। ३७ ।।

य एव पुरुषो रौद्रो ब्रह्मणः स्वेदसं भवः ।।

मम हुंकारशब्देन मोहनिद्रामुपागतः ।। ३८ ।।

निबोध तं च त्वरितमित्युक्त्वांतर्हितो हरः ।।

नारायणस्य प्रत्यक्षं बोधयित्वा द्रुतं हि तम्।। ३९ ।।

वामपादेन हत्वा च समुत्तस्थौ नरो रुषा ।।

तयोर्युद्धं समभवत्स्वेदरक्तजयोर्महत् ।। 5.1.3.४० ।।

विस्फारितधनुःशब्दैर्नादिताशेषभूत लम्।।

कवचं स्वेदजस्यैकं रक्तजस्य तथा भुजौ ।।४१।।

एवं समेन वै युद्धं दिव्यं जातं तु भूतले ।।

त्रिवर्षोनानि वर्षाणां शतानि दश सुद्विज।।४२।।

युध्यतो समतीतानि स्वेदरक्तजयोर्मुने ।।

रक्तजो द्विभुजो दृष्ट्वा कवचैकेन स्वेदजम् ।। ४३ ।।

बिभेद बाणवेगेन ब्रह्मणस्तं नरं परम् ।।

ससंभ्रममु वाचेदं ब्रह्माणं मधुसूदनः ।। ४४ ।।

मन्नरेणोच्छ्रितो ब्रह्मंस्त्वदीयो विनिपातितः ।।

श्रुत्वा तदाकुलो ब्रह्मा बभाषे मधुसूदनम् ।। ४५ ।।

हरेऽन्यजन्मनि नरो मदीयो यदि हीयते ।।

तेन तुष्टेन संप्रोक्तं हरिणैवं भविष्यति ।। ४६ ।।

कृत्वा तयो रणमपि निवार्य तावुवाच ह ।।

अथान्यजन्मनि नरो मदीयो भविता कलौ ।। ४७ ।।

ततो महारणे जाते तत्राहं योजयामि तम् ।।

विष्णुनाथ समाहूय महेश्वरसुरेश्वरौ ।। ४८ ।।

उक्ताविमौ नरौ रुद्रौ पालनीयौ स्वशक्तितः ।।

स्वेदजातासृग्जातौ तु स्वकीयांशौ धरातले ।।

स्वांशभूतौ द्वापरांते नियोज्यौ भूतले त्वया ।। ४९ ।।

ततोऽब्रवीत्तदा विष्णुं सुरेशो दुःखितं वचः ।। 5.1.3.५० ।।

अस्मिन्मन्वंतरे देव त्रेतायुगं तदा यदा ।।

त्वद्रूपेणेह महता सूर्यपुत्रहितार्थिना ।।

वालीनाम महाबाहुः सुग्रीवार्थे निपातितः ।। ५१ ।।

तेन दुःखेन तप्तोऽहं नाहं गृह्णामि ते नरम् ।।

अगृह्णमानं देवेशं कारणांतरवादिनम् ।। ५२ ।।

विष्णुः प्रोवाच मघवन्भुवो भारावतारणे।।

अवतारं करिष्यामि मर्त्यलोकेऽप्यहं विभो।।५३।।

ततो हृष्टोऽभवच्छक्रो विष्णुवाक्येन तेन वै।।

प्रतिगृह्य नरं हृष्टः सत्यमस्तु वचस्तव ।। ५४ ।।

इत्युक्त्वा तु रवीन्द्रौ स प्रेषयित्वा च तौ पुनः ।।

गत्वा च पुण्डरीकाक्षो ब्रह्माणं ब्रह्मवेश्मनि ।। ५५ ।।

कृतं जुगुप्सितं कर्म ब्रह्मन्नीशं जिघांसता ।।

यत्त्वया देवदेवेश पुमान्कोपेन भाषितः ।। ५६ ।।

शुद्ध्यर्थमस्य पापस्य प्रायश्चित्तं परं कुरु ।।

गृह्णन्वह्नित्रयं ब्रह्मन्नग्नि होत्रमुपास्व ह ।। ५७ ।।

एको वै गार्हपत्योऽस्तु द्वितीयाहवनीयकः ।।

दक्षिणाग्निस्तृतीयस्तु त्रिकुण्डेषु प्रकल्पय ।। ५८ ।।

वर्तुले तर्पयात्मानं मामथो धनुषाकृतौ ।।

चतुष्कोणे हरं देवमृग्यजुःसामनामभिः ।। ५९ ।।

हुत्वा त्वग्निं च तपसा हरमेवार्च्य तत्क्षणात् ।।

दिव्यं वर्षसहस्रं तु हुत्वाग्निं सिद्धिमाप्स्यसि ।। 5.1.3.६० ।।

प्रायश्चित्तविशुद्धात्मा प्रतिपद्य महेश्वरम्।।

ततो निष्कल्मषो भूत्वा विषादस्ते गमिष्यति ।। ६१ ।।

इत्येवमुक्त्वा हरिरुग्रतेजा गतः स्वकीयं निलयं महात्मा ।।

ब्रह्मापि चित्तं तपसे निधाय समादधे सर्वमथाच्युतोक्तम् ।।६२।।

इति श्रीस्कांदे महापुराण एकाशीतिसाह स्र्यां संहितायां पंचम आवंत्यखण्डेऽवंतीक्षेत्रमाहात्म्ये ब्रह्मणः प्रायश्चित्तवर्णनंनाम तृतीयोऽध्यायः ।। ३ ।।छ।।।

खण्डः ५ (अवन्तीखण्डः) · अवन्तीक्षेत्रमाहात्म्यम् — Adhyāya 4

।। व्यास उवाच ।। ।।

योऽसौ कपाल उत्पन्नो नरोनाम धनुर्धरः।।

किमेवं सोऽधुना जात उत्पत्तौ विश्वकर्मणः।।१।।

कथं रुद्रेण जनितः प्रभुणा बुद्धिपूर्वकम्।।

विष्णुना वा भगवता ब्रह्मणा भाव भेदतः ।।२।।

केन कस्मात्समुत्पन्नः शंकराच्युतब्रह्मणाम् ।।

ब्रह्मा हिरण्यगर्भो यो यो जातश्च चतुर्मुखः ।। ३ ।।

अद्भुतं पंचमं वक्त्रं कथं तस्याप्युपस्थितम् ।।

स तस्थौ भगवान्ब्रह्मा कथं रुद्रे मनोऽदधत् ।। ४ ।।

मूढात्मना नरो येन हंतुं स प्रहितो हरम् ।। ५ ।।

।। सनत्कुमार उवाच ।। ।।

महेश्वरहरी एतौ द्वावेव सति तिष्ठतः ।।

तयोरविदितं नास्ति सिद्धासिद्धं महात्मनोः ।। ६ ।।

ब्रह्मणः पंचमं वक्त्रं यत्तदासीन्महात्मनः ।।

तस्यैव मानसः सोग्निः शिरसा तेन वै धृतः ।। ७ ।।

यो नरो ब्रह्मणः प्रोक्तः सोऽप्यग्निस्तस्य मानसः ।।

दधार तं महादेवः कृत्वांगुल्यंतरांतरे ।। ८ ।।

पूर्वं दृष्ट्वा समुत्पत्ति मेवं तस्य महान्नरः ।।

तस्मात्कपालमंगुल्यां घट्टमानमजायत ।। ९ ।।

स तं हत्वा शरेणाजौ ब्रह्मणो निहितं रजः ।।

मुमोह रजसा सत्त्वं यदृच्छा कृत्प्रभुर्यतः ।। 5.1.4.१० ।।

।। व्यास उवाच ।। ।।

कथमग्निः समुत्पन्नो योनिः सर्वेण धारितः ।।

विस्तरेण तदाचक्ष्व भगवन्मुनिवंदित ।। ११ ।। ।।

।। सनत्कुमार उवाच ।। ।।

अव्यक्तादीन्ससर्जादावंडं हि तदजायत ।।

जज्ञे सौवर्णवर्णाभो ब्रह्मा लोकपितामहः ।। १२ ।।

स्वयंभूः स तपस्तप्त्वा दिव्यं वर्षशतं महत् ।।

स तपःस्थो व्याजहार भूर्भुवःस्वरिति श्रुतीः ।। १३ ।।

श्रुतियोगात्तु मनसः पश्चादग्निरजायत ।।

अधोमुखः पपाताग्निः पृथिवीं निर्दहन्यदा ।। १४ ।।

पाणिभ्यां ब्रह्मणा सोग्निर्भूमेरूर्ध्वं निवेशितः ।।

ततो दक्षिणहस्तेन वेद्यामग्निः प्रणीयते ।। १५ ।।

पुरापतन्नधोज्वाल ऊर्ध्वज्वालो यदा धृतः ।।

उत्तानश्च कृतो यस्माद्ब्रह्मणा निर्मितो मिथः ।। १६ ।।

ज्वालाभिः प्रज्वलन्नूर्ध्वं सर्वशब्दस्फुलिंगवान् ।।

हिरण्यवर्णं ब्रह्माणं तदोवाचानिरुत्कटः ।। १७ ।।

किमर्थं तु त्वया देव भूमिभक्षं निवारितम् ।।

बुभुक्षयाहमाविष्ट आहारो मे प्रदीयताम् ।। १८ ।।

एवमुक्तोऽग्नये ब्रह्मा स्वरोमाणि जुहाव सः ।।

कृशश्चखाद अग्निस्तु सर्वरोमाणि ब्रह्मणः ।। १९ ।।

अब्रवीच्च न मे तृप्तिर्न च मे देहनिर्वृतिः ।।

त्वचं जुहाव ब्रह्मा च चखादाग्निस्त्वचं तदा ।। 5.1.4.२० ।।

अब्रवीत्तं तदा वह्निस्तृप्तिर्नास्ति ममेति हि ।।

जुहाव स्वानि मांसानि त्वचोत्कृत्य प्रजापतिः ।। २१ ।।

अब्रवीच्च न मे तृप्तिर्न च मे देहनिर्वृतिः।।

जुहाव ब्रह्मा चास्थीनि तान्यश्नात्स बुभुक्षितः ।। २२ ।।

ततो धात्रा हुताशाय कृतो देहो विधातुकः ।

तमदेहमथो दृष्ट्वा ब्रह्माणमवदच्च सः ।। २३ ।।

अहो ब्रह्मन्न मे तृप्तिर्न च मे देहनिर्वृतिः।

कुद्धेण ब्रह्मणा सोऽग्निर्हुंकारेण द्विधा कृतः ।। २४ ।।

आहतू रुदतावग्नी आहारार्थं प्रजापतिम् ।।

हुंकारेण पुनर्ब्रह्मा द्विधैकैकं चकार वै ।। २५ ।।

त्रयस्तेषां रुदंति स्म रुदन्ह्येको ह्यसंवृतः ।।

क्रुद्धेन ब्रह्मणा व्यास हुंकारेणैव ताडितः ।। २६ ।।

रोरूयमाणे चाग्नौ तु पुनर्ब्रह्मा कृपान्वितः ।।

प्राह कामाभिभूतानां भुंक्ष्व त्वं देहधातुकम् ।। २७ ।।

स कालस्तस्य कामस्य सा वृत्तिः संप्रकल्पिता ।।

अकाराग्निं सन्निविष्टं दृष्ट्वा मनसि मानसः ।। २८ ।।

हुंकाराग्निः प्रजज्वाल किमेतदिति चाब्रवीत् ।।

ब्रह्मा तमाह त्वमपि यथेष्टां वृत्तिमाश्रय ।। २९ ।।

देवमध्ये बहिर्वापि मुनीनामाश्रमेषु च ।।

इत्येवमुक्तस्तेनाशु वृत्तिमेतामरोचयत् ।। 5.1.4.३० ।।

अहमेवं प्रदास्यामि पुनः पुनरुवाच ह ।।

यस्मादेष द्वितीयोग्निर्हुंकारात्समजायत ।। ३१ ।।

साभिमानोऽपमानो वा हुंकारो यत्र कथ्यते ।।

सा च वृत्तिर्ममादेशाद्बुभुक्षाशांतये तव ।। ३२ ।।

इकाराग्निं समाहूय ब्रह्मा वचनम ब्रवीत्।।

भवतोग्ने त्वियं वृत्तिरन्नं भुक्तं दहेरिति ।।३३।।

उकाराग्निं समाहूय ब्रह्मा वचनमब्रवीत् ।।

यत्पृथिव्यां गुरुध्यानं भगवंस्तत्समाश्रय।।३४।।

अहं च ते विधास्यामि स्थानमाहारमेव च ।।

इत्युक्तः स तु तेनाग्निर्यत्पृथिव्यां शिलाचयः ।। ३५ ।।

यतोऽग्निर्व्यास तेनोक्तो गिरौ दुर्गे महामुने ।।

उकाराग्निः स चाप्येष समुद्रे वडवामुखः ।। ३६ ।।

सोऽपि भिन्नः समाहूतो ब्रह्मणा स्थानलिप्सया ।।

त्वं चक्षुः सर्वलोकस्य ब्रह्मा वचनमब्रवीत् ।। ३७ ।।

तस्मात्त्वं संस्कृतां वाणीं द्विजातीनां प्रकाशय ।।

दैवी पुण्या हि पापांश्च आयुष्यं हंत्यसंस्कृता ।। ३८ ।।

तस्माद्द्विजातेर्विज्ञेया वाणी पुण्या प्रकाशिता ।।

वाक्च माता द्विजातीनां मुखे सा संप्रतिष्ठिता ।। ३९ ।।

अनृताक्षरविन्यासादमंगल्या ह्यसंस्कृता ।।

वक्तारं हंत्यतो ह्यग्निः सदा संस्कृतकृद्द्विजः ।। 5.1.4.४० ।।

आहूय भूयोऽकाराग्निं प्रजापतिरचक्षुषम् ।।

वाग्वेदवाणीमवदत्सोपि संमीलितेक्षणः ।। ४१।।

ब्रह्माणमाह वह्निस्तु वाचोहं मुखमस्मि हे ।।

स्थानं मम प्रयच्छस्व सर्वतेजोवरं परम् ।। ४२ ।।

ब्रह्मा तमाह यस्मात्त्वं तेजःस्थानं समीहसे ।।

तस्मात्तेजोमयं यत्ते रविस्थानं भविष्यति ।।४३।।

यस्मात्तेजः प्रपश्यंति चक्षुर्भवति दुर्बलम् ।।

तस्मात्तत्तेजसा युक्तं पश्येदनिमिषं क्वचित् ।। ४४ ।।

इकारमथ संभिन्नमग्निमाह पितामहः ।।

सौम्यदृष्ट्या तु ब्रह्माणं समुदीक्षमुपागतम्।। ४५ ।।

यस्माच्छीघ्रं महासत्त्व सौम्यदृष्टिरिहागतः ।।

तस्माद्दास्याम्यहं स्थानं सर्वभूतमनोरमम् ।। ४६ ।।

संशीतात्मा शीतरश्मिश्चंद्रमास्त्वं भविष्यसि ।।

सर्वतेजोधिको दिव्यः सौम्यः परमभासुरः ।। ४७ ।।

तरुस्थः सर्वतेजांसि तेजसाऽभिभविष्यसि ।।

इत्युक्त्वा तं विसृज्याथ उकाराग्निमथाह्वयत ।। ४८ ।।

इहैहीतीति शिरसि समादाय न्यवेशयत् ।।

तत्रस्थं पंचमं वक्त्रं ऊर्ध्वमेतत्प्रजायते ।। ४९ ।।

स एवं रूपवानग्निरुकाराग्निः प्रतिष्ठितः ।।

तस्मादग्निश्च सूर्यश्च एकमेतौ विनिर्दिशेत् ।। 5.1.4.५० ।।

भवाग्निरूपं परमं ब्रह्माणमिदमब्रवीत् ।।

ममापि रुचिरं स्थानं प्रयच्छस्व यथा स्वयम् ।। ५१ ।।

ब्रह्मा तमाह कतमं स्थानं ते रोचतेऽनल ।।

अग्निस्तं प्रत्युवाचेदं स्थानं कथय मे परम्।।५२।।

स्थानं नैवास्ति ते भव्यं ततो ह्येवं भविष्यति।।

अत्र ते स्थातुमिच्छास्ति यदि संस्थास्यते त्विह।।५३।।

लोके नित्यं समाचार लोकसंस्थितिहेतुकः।।

संभवार्थमिहास त्वं निजसत्त्वपराक्रमः।।५४।।

यदिह त्वं महाज्वालाभाभिः कलितशोभनः।।

प्राप्स्यसे सर्व जंतूनां भासुरत्वमनुत्तमम्।।

न ह्येष धर्मश्चैवाद्यो मायामोहितकाम्यया ।।५५।।

इत्युक्ते ब्रह्मणा सोऽग्निः प्रजज्वाल सहस्रशः ।।

अनंतज्वालाभि ततो नानावर्णादिभिः श्रितः ।। ५६ ।।

अकारेकार ऊकारो ब्रह्मा तमथ दृष्टवान् ।।

नैवासौ शाम्यतां याति वह्निर्भूयो व्यवर्धत ।। ५७ ।।

व्याप्तं भवाग्निना सर्वं तिर्यगूर्ध्वमधस्तथा ।।

ज्वालाभिरुपरि क्षिप्तं दृष्ट्वात्मानं समंततः ।। ५८ ।।

चिंतयंतं तु ब्रह्माणं भीतं चैव विशेषतः ।।

शिरस्यंजलिमाधाय तुष्टावाथ प्रणम्य तम् ।। ५९ ।

तेजोनिधिं च सर्वेशं ज्ञातुमिच्छन्प्रजापतिः ।।

निरुक्तसूक्तराहस्यैर्ऋग्यजुःसामभाषितैः ।। 5.1.4.६० ।।

।। ब्रह्मोवाच ।। ।।

सप्ततेजो नमस्तेऽस्तु परस्य परमात्मने ।।

अद्भुतानां प्रतिश्रोत्रे तेजसा निधये नमः ।। ६१ ।।

बीजं यो विश्वभावानां संमोहनविमोहनम् ।।

अंधकारो युगावर्तकाले काले च दुःसह ।। ६२ ।।

ऊर्ध्ववक्त्र नमस्तेस्तु सत्त्वात्मक धरात्मक ।।

ज्वलज्ज्वालोत्पन्नजल जलजेश जलेचर ।। ६३ ।।

जलजोत्फुल्लपत्राक्ष जलदेव हुताशन ।।

कृष्णकांते कृष्णमार्ग स्वर्गमार्गप्रदायक ।। ६४ ।।

यज्ञाहुतिसमाचार यज्ञरूप नमोनमः।।

स्वर्णगर्भ शमीगर्भ जय देव सनातन।।६५।।

तमोहार महाहार स्वाप्रिय तमोहर।।

प्रदीप्तरोचिर्देवेश चित्रभानो नमोस्तु ते।।६६।।

वैश्वानरानलोदग्र ऊर्ध्वपावक सर्वग??

विभावसो महाभाग कृष्णवर्त्मन्नमोनमः ।। ६७ ।।

।। सनत्कुमार उवाच ।। ।।

एवं स्तुतस्तदा सोग्निर्विरंचिमब्रवीद्वचः।।

तुष्टोऽहं भवतो ब्रह्मन्भावकर्म प्रसिध्यति ।। ६८ ।।

एवमुक्तस्तदा ब्रह्मा नमस्कृत्याब्रवीत्पुनः।।

ज्ञातुमिच्छाम्यहं देव को हि त्वं भगवानिति ।। ६९ ।।

अब्रवीत्सोऽथ ब्रह्माणं पुरुष स्त्वं प्रजापतिः ।।

अज्ञेयं परमं रूपं तेन योग्येन पश्य मे ।। 5.1.4.७० ।।

अथापश्यत्स दिव्येन भगवंतं सनातनम् ।।

सर्वज्ञं विधिकर्तारमीश्वरं सदसत्प रम् ।। ७१ ।।

ज्वलनं गगनं भूमिं दृश्यादृश्यं परं पदम् ।।

भूतं भव्यं भविष्यं च जगत्स्थावरजंगमम् ।।

सदैव कुरुते देवो भुंक्ते सर्वं यतः प्रभुः ।। ।। ७२ ।।

अतिसंभूतिभव्येन स्तोत्रेणाथ प्रजापतिः ।।

तुष्टाव देवं प्रकृतं पुराणमजमव्ययम् ।। ७३ ।।

ततोऽतिरक्तवर्णं च दृष्ट्वा देवः प्रजापतिः ।।

विश्वतोबाहुचरणं विश्वतोऽग्निशिरोमुखम् ।।७४।।

व्यक्ताव्यक्तप्रणेतारं प्रणमञ्छिरसा स्वयम्।।

पश्यतेऽथ नमस्तेऽस्तु तुभ्यं विश्वभवात्मने ।। ७५ ।।

पृथिवी वायुराकाशं यच्चान्यद्भुवनत्रयम् ।।

लोकालोकेश्वरं चैव जगत्स्थावरजंगमम् ।। ७६ ।।

तत्त्वसर्गं भूतसर्गं भावसर्गं तथैव च ।।

ब्रह्मतेजोमयात्मानं संपश्यंश्चक्षुषा स्वतः ।। ७७ ।।

यत्किंचिद्वस्तुजातं हि तत्सर्वमचरं चरम् ।।

एवं स्तुतः स तु तदा अनादिर्भगवान्प्रभुः।। ७८ ।।

अथेशः प्राह ब्रह्माणं त्वया दृष्टं यथातथम् ।।

सृजेदानीं प्रजाः सर्वाः स च त्वं विनयान्वितः ।। ७९ ।।

कर्ताहमनुकर्ता त्वं लोकानां स्थितिकारणे ।।

कुरुष्वैतत्तथा भाव्यं मया पूर्वं विनिर्मितम् ।। 5.1.4.८० ।।

इत्युक्तो देवदेवेन ब्रह्मा वचनमब्रवीत् ।।

नमस्तेऽस्तु महादेव भव शर्व नमोऽस्तु ते ।। ८१ ।।

त्वत्प्रसादात्प्रजासर्गं कुर्वतो मे महेश्वर ।।

सखायं प्राप्तुमिच्छामि त्वया दत्तं जगत्पते ।।८२।।

।। महे३वर उवाच ।। ।।

ध्यायतः पुत्रकामस्य स्रष्टु कामस्य ते यतः ।।

कल्पितं भविता देव मदुत्पत्तिं यदीप्स्यसि ।। ८३ ।।

पुत्रत्वं प्राप्य हीशस्ते छेत्स्यामि पंचमं शिरः ।।

तत्र चोत्पादयिष्यामि नरनारायणावुभौ ।। ८४ ।।

।। ब्रह्मोवाच ।। ।।

कथं नारायणो देवस्तपसा मन्यते स नः ।।

कीर्तयस्व सखा धन्यः स नः पूज्यो भविष्यति ।। ।। ८५ ।।

अथापश्यत्ततो ब्रह्मा तेजसा हरिमच्युतम् ।।

तं सर्वगमनं गम्यं शिवं नारायणात्मकम् ।। ८६ ।।

महेश्वरस्य तेजोर्ध्वं संतं नारायणं प्रभुम् ।।

चकार व्याहरन्नार्तं श्रीरूपं शक्तिसाम्यतः ।। ८७ ।।

अंगुल्या संस्पृशन्देवो ब्रह्माणमब्रवीद्वचः ।।

ब्रह्मंस्ते परमं धाम ऋषिर्नारायणानुगः ।। ।। ८८ ।।

भविता लोकरक्षार्थं श्रेष्ठः सर्वधनुष्मताम् ।।

नारायण महावीर्य शक्तिरेषा मदीयिका ।। ८९ ।।

इत्युक्त्वा भगवान्देवस्तमग्निं पाणिनाऽ ग्रहीत् ।।

दक्षहस्तांगुलिनखमध्यस्थं समचीकरत् ।। 5.1.4.९० ।।

इति सत्कृत्य सततं नरं चैव महेश्वरः ।।

ब्रह्मणो दर्शयित्वाथ तत्रैवांतरधीयत ।। ९१ ।।

अथाब्रवीत्ततो ब्रह्मा अग्निं तं तु युगक्षये ।।

स्पृशन्दक्षिणवामाभ्यां सांत्वयन्निव तं गिरा ।। ९२ ।।

भृगुश्चैवांगिराः पुत्रौ भवितारौ न संशयः ।।

अत्रैव मम भवतां वंशे विख्यातकर्मणौ ।। ९३ ।।

द्विधा संभज्य तेनाग्निं सृष्टेर्यज्ञो भविष्यति ।।

भवंतौ तिष्ठतस्तत्र पृथिव्यां दानमाश्रितौ ।। ९४ ।।

ब्रह्मणाऽग्नी समेतौ तु ब्रह्माणमनुनोदितौ ।।

तस्मादेवं विधातव्यौ निर्मथ्य विधिपूर्वकम् ।। ९५ ।।

अतोऽश्वत्थे शमीगर्भे संयोगस्तत्र पठ्यते ।।

भार्गवांगिरसश्चैव द्विविधो दैव उच्यते ।। ९६ ।।

तस्मात्सुतहितः श्रेष्ठश्चतुर्थ इति कथ्यते ।।

एवं व्यास समुत्पन्नो नरोऽसौ पूर्वजन्मनि ।। ९७ ।।

एवं तु ब्रह्मणो वक्त्रं पञ्चमं समपद्यत ।। ९८ ।।

एतद्यो बुध्यते देव तेजःसर्गमनुत्तमम् ।।

ब्रह्मणो याति सालोक्यं शांतो दांतो जितेन्द्रियः ।। ९९ ।।

एतद्योग्निसमुद्भवं पशुपतेर्माहात्म्यसंसूचकं वह्नेः साधुमतिः शृणोति सततं यः श्रद्धया भावितम्।

यो व्यास द्विजदेवताप्रमुखतः संश्रावयेद्भक्तितः सोऽत्यर्थं भवभावितः शिवपुरे संपूज्यते दैवतैः ।। 5.1.4.१०० ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये वैश्वानरोत्पत्ति वर्णनंनाम चतुर्थोऽध्यायः ।। ४ ।। छ ।।